२३

[[343]] त्रयोविंशोऽध्यायः 23 - मन्त्रोद्धारविधि भगवन्नारदमुने सर्वत्र वदतां वर ! ।
स्वरूपं दिव्यशास्त्रादेर्मन्त्राणां लक्षणं तथा ॥ 1॥
मुद्राणां लक्षणं मूर्तिध्यानं कुण्डादिलक्षणम् ।
हविरादिविधानं च यद्यदत्रोपयुज्यते ॥ 2॥
तत्सर्वं विस्तरेणैव वदस्वानुग्रहादिना ॥
नारदः- शास्त्रं दिव्यं च मुन्युक्तं पौरुषं चेति वै त्रिधा।
प्रोक्तं तत्तत्स्वरूपं तु प्रवक्ष्यामि मुनीश्वराः ! ॥ 3॥
यदर्थाद्यमसन्दिग्धं स्वच्छमल्पाक्षरं स्थिरम् ।
चातुरात्म्यस्वरूपेण संस्थितस्य विभोः सदा ॥ 4॥
स्वाभाविकं परत्वं तु यत्र यत्र समीरितम् ।
अन्यासां मन्त्रमूर्तीनां यत्र चौपाधिकं तु यत् ॥ 5॥
तुर्यादिजाग्रत्पर्यन्तः पदभेदः प्रकाशितः ।
भक्तानामनुकम्पार्थं यत्र वै चतुरात्मनः ॥ 6॥
शक्तीशस्वविभोर्यत्न विभवः सम्प्रकाशितः ।
अङ्गलाञ्छनभूषाणां शक्तीनां विहगेशितुः ॥ 7॥
लयादिभेदभिन्नं तु स्वरूपं यत्र भाषितम् ।
बीजपिण्डपदाद्येन चातुर्विध्येन सत्तमाः ॥ 8॥
मन्त्राः प्रवर्तिता यत्र यत्र स्थापनकर्मणि ।
अनुवेधक्रियाप्रोक्ता यत्र वै नित्यपूजनम् ॥9॥
मूलमूर्तौ तु सम्पूर्णं प्रोक्तं प्राधान्यतो द्विजाः! ।
तत्र कर्तुमशक्यं यत्स्नानाद्यं तावदेव तु ॥ 10॥
बिम्बान्तरे तदर्थं तु कर्मबिम्बपुरस्सरे ।
विहितं दर्पणाद्येषु तदभावान्महामते !॥11
क्ष्माजलानलवाय्वाख्यनाभसीयेन वै द्विजाः ! ।
धारणाञ्चकेनैव धारणाद्वितयेन च ॥ 12॥
दहनाप्यायनाख्येन यत्र शुद्धिश्च भौतिकी ।
आगमश्रुतिमूलत्वं स्वस्य यद्युपपादकम् ॥ 13॥
तत्पारमेश्वरं वाक्यमाज्ञासिद्धं हि मोक्षदम् ।
एवमादेयवाक्यार्थ आगमो यो महामते ॥ 14॥
सन्मार्गदर्शनं कृत्स्नं विधिवादं च विद्धि तम् ।
तत्प्रामाण्यात्तु यत्किञ्चित्समभ्यूह्य यथार्थतः ॥ 15॥
पूर्वापराविऱोधेन निर्वाह्यमविचारतः ।
सर्वेषां रञ्जकं गूढं निश्चयीकरणक्षमम् ॥ 16॥
पारमेश्वरवाक्योक्तमर्थजालं यथास्थितम् ।
प्रत्यभिज्ञापयद्यद्यत्सात्विकं मुनिभाषितम् ॥ 17॥
प्रशंसकं यत्सिद्धीनां सम्प्रवर्तकमप्यथ ।
मूलमूर्तिमनादृत्य कर्मार्चायां तु पुष्कलम् ॥ 18॥

[[344]] नित्यसम्पूजनं प्रोक्तं प्राधान्येन तु यत्र वै।
ब्रह्मरुद्रादिबिम्बानां प्रमाणं लक्षणं तथा ॥ 19॥
स्थापनं यत्र निर्दिष्टं यत्र वै जगतां पतेः ।
पूजनं तु समृद्दिष्टं प्राकृतानां जडात्मनाम् ॥ 20॥
तत्वानामपि विप्रेन्द्र ! दिशां कालस्य वाचकैः ।
परमेष्ठ्यादिभिर्मन्त्रैः पञ्चभिर्यत्र वै क्रमात् ॥ 21॥
स्थापनादिप्रतिष्ठान्तं पञ्चकं समुदीरितम् ।
यागपूर्वा हरिस्तोमपर्यन्तास्सप्त कीर्तिताः ॥ 22॥
यागा यत्र तथा सप्त तत्क्रमादधिकारिणः ।
उक्तं यत्र प्रतिष्ठायां षोडशन्यासकल्पनम् । 23॥
एतज्जानीहि तत्सर्वं राजसं मुनिभाषितम् ।
भगवन्तं समुद्दिश्य ह्यङ्गभावं विनैव तु ॥ 24॥
ब्रह्मरुद्रमुखानां तु विबुधानां तथैव च ।
मातॄणामपि दुर्गायाः स्वातन्त्येण तु यत्र वै ॥ 25॥
मन्त्रध्यानं प्रमाणं च लक्षणं स्थापणं तथा ।
निर्दिष्टं तामसं नाम मुनिवाक्यं तु विद्धि तत् ॥ 26॥
अनर्थकमसम्बद्धमल्पार्थ शब्दडम्बरम् ।
अनिर्वाहकमाद्योक्तेर्वाक्यं तत्पौरुषं स्मृतम् ॥ 27॥
हेयं चानर्थसिद्धीनामाकरं नरकावहम् ।
पारमेश्वरवाक्यार्थैर्यद्विरोधि न तद् द्विज! ॥ 28॥
सङ्ग्राह्यं सात्विकाद्येषु मुनिवाक्येषु यत्नतः ।
यदप्यपेक्षितं विप्र! सङ्ग्राह्यमविरोधि तत् ॥ 29॥
सात्विकादिक्रमात्तेषु समभ्यूह्यं महामते ! ।
प्रसिद्धार्थनुपादाय सङ्गतार्थं विलक्षणम् ॥ 30॥
अपिचेत्पौरुषं वाक्यं ग्राह्यं तन्मुनिवाक्यवत् ।
एवं दिव्यादिशास्त्राणां भेदं ज्ञात्वा यजेद्धरिम् ॥ 31॥
यो न ज्ञात्वा तु साङ्कर्यं पूजाद्यमनुतिष्ठति ।
स हि सर्वस्य जगतः साङ्कर्यं कुरुते सदा ॥ 32॥
विशेषात्स्वस्य वंशस्य तस्मादापद्यपि द्विजाः !।
न कुर्याच्छास्त्रसाङ्कर्यं हितैषी शस्त्रकोविदः ॥ 33॥
स्वयंव्यक्तं तथा सैद्धं विबुधैश्च प्रतिष्ठितम् ।
मुनिमुख्यैस्तु गन्धर्वैर्यक्षैर्विद्याधरैरपि ॥ 34॥
रक्षोभिरसुरैर्मुख्वैः स्थापितं मन्त्रविग्रहम् ।
दिव्यशास्त्रोकविधिना पूजयेच्छास्त्रकोविदः ॥ 35॥
स्थापितं मनुजैर्देवं मुनिवाक्योक्तमार्गतः ।
पूजयेद् द्विज ! तत्रापि ज्ञानिभिस्तत्वदर्शिभिः ॥ 36॥
वासुदेवैकनिष्ठैस्तु देवतान्तरविर्जितैः ।
व्यामिश्रयागमुक्तैस्तु तीव्रभक्तिसमन्वितैः ॥ 37॥
स्थापितं मनुजेन्द्रैस्तु ह्यनुवेधादिकोविदैः ।
अर्चयेद्देवदेवेशं दिव्यशास्त्रोक्तवर्त्ममा ॥ 38॥
मुनिवाक्योक्तमार्गेण पूजनं यत्र वर्तते ।
तत्रापि दिव्यमार्गाच्चेत्पूजनं कर्तुमिच्छति ॥ 39॥

[[345]] मुनिमार्गं परित्यज्य दिव्यमार्गेण पूजयेत् ।
भवेत्सन्निधिमाहात्म्यं कालं कल्पक्षयावधि ॥ 40॥
दिव्यमार्गेण पूजाद्यं वर्तते यत्र नित्यशः ।
तत्र दिव्यं परित्याज्यं न कदाचिन्महामते ! ॥ 41॥
मुनिवाक्योक्तमार्गेण न कुर्यात्पूजनादिकम् ।
कुर्याद्वा यदि सम्मोहाद्विजः सम्मूढचेतनः ॥ 42॥
सम्प्रयात्यचिरात्तस्य भक्तिर्बीजेन वै सह ।
समन्त्रं कर्मतन्त्रं च सिद्धयश्च पराम्मुखाः ॥ 43॥
इहैव शीघ्रं विप्रेन्द! देहान्ते गतसन्ततिः ।
घोरं प्रयाति नरकं राजा राष्ट्रं च नश्यति ॥ 44॥
तस्मात्सर्वप्रयत्नेन दिव्यमार्गं तु न त्यजेत् ।
तामसेन तु मार्गेण पूजनं यत्र वर्तते ॥ 45॥
तत्रापि राजसेनैव पूजनं सिद्धिदं भवेत् ।
राजसेन तु पूजाद्यं वर्तते यत्र नित्यशः ॥ 46॥
तत्रापि सात्विकेनैव पूजनं शुभदं सदा ।
सात्विकेन तु पूजाद्यं वर्तते यत्र चान्वहम् ॥ 47॥
तत्र राजसमार्गेण न कुर्यात्पूजनादिकम् ।
यत्र राजसमार्गेण प्रवृत्तं त्वर्चनादिकम् ॥ 48॥
तत्र तामसमार्गेण न कुर्यादर्चनादिकम् ।
विविधानां राजसानामन्योन्यं स्यान्न सङ्करः ॥ 49॥
सर्वत्र पौरुषे वाक्ये तत्ग्राह्यमविरोधि यत् ।
केवलं तद्विधानेन न कुर्यात् स्थापनादिकम् ॥ 50॥
एवं दिव्यादिशास्त्रस्य स्वरूपं कथितं मया ।
मन्त्रस्वरूपमधुना कथ्यते मुनिपुङ्गवा ! ॥ 51॥
सर्वेषु विष्णुमन्त्रेषु मन्त्राः स्युर्व्यापकास्त्रयः ।
आद्यं नारायणाष्टार्णं द्वितीयं द्वादशाक्षरम् ॥ 52॥
वासुदेवस्य योगीन्द्रास्ततो विष्णुषडक्षरम् ।
साधारणास्त्विमे मन्त्रास्त्रयः सर्वासु मूर्तिषु ॥ 53॥
अन्ये तु मनवस्तत्तन्मूर्तिमात्रपरा ह्यतः ।
व्यापकत्रितयेनार्च्याः सर्वा अपि च मूर्तयः ॥ 54॥
मन्त्रैरन्यैस्तु सम्पूज्यास्तत्तन्मूर्तय एव हि ।
तस्मात्सर्वेषु मन्त्रेषु व्यापकत्रितयं वरम् ॥ 55॥
त्रिष्वप्येषु व्यापकेषु मन्त्रो ह्यष्टाक्षरोधिकः ।
अष्टाक्षरादिमन्त्राणामुद्धारं शृणुतादरात् ॥ 56॥
उद्धरेत्प्रणवं पूर्वं नमःशब्दमनन्तरम् ।
ततो नारायणायेति ह्येतदष्टाक्षरो मनुः ॥ 57॥
प्रणवान्ते नमःशब्दं तुर्यान्तं भगवत्पदम् ।
वासुदेवाय वै दद्यात्पदं पञ्चाक्षरं ततः ॥ 58॥
वासुदेवस्य देवस्य मन्त्रोयं द्वादशाक्षरः ।
चतुर्थ्यन्तं विष्णुपदं तारेण नमसमन्वितम् ॥ 59॥
आदावन्ते च तन्मन्त्रः षडक्षर उदीरितः ।
ज्ञानादिगुणसंयुक्तैरक्षरैर्बिन्दुभूषितैः ॥ 60॥

[[346]] हृदयाद्यङ्गक्लृप्तिः स्याच्छिष्टवर्णान्यपि द्विजाः ! ।
नेत्रेण योजयेदेवमङ्गक्लृप्तिः प्रकीर्तिता ॥ 61॥
ततस्तु मूर्तिमन्त्राणमुद्धारक्रम उच्यते ।
प्रशस्ते विजने गुप्ते गन्धलिप्ते धरातले ॥ 62॥
सुधूपितेऽर्ध्यपुप्पाड्ये वर्णचक्रं प्रसार्य च ।
यस्मिन् प्रतिष्ठितं विष्वमाब्रह्मभुवनादिकम् ॥ 63॥
येनोदितेन जगतः प्रभवः समनन्तरम् ।
स्वात्मन्युपरते एतस्मिन् प्रळयः सम्प्रजायते ॥ 64॥
प्रेरकं चन्द्रसूर्याभ्यां सबाह्याभ्यन्तरं तु यत् ।
नित्योदितं यथाक्षस्थं वर्णमीश्वरवाचक्रम् ॥ 65॥
यत्र स्थानविभागेन वर्णात्मा भगवान् स्थितः ।
अकाराद्यो विसर्गान्तः सौरचान्द्रकलागणः ॥ 66॥
ह्रस्वदीर्घविभागेन नाभौ यत्र द्विरष्टकः ।
कादिभान्तोप्यरांशस्थः प्राकृतस्तत्वसञ्चयः॥ 67॥
पृथिव्यादिप्रकृत्यन्तो युग्मयोगेन लाङ्गलिन् ! ।
कलनादेहभृत्कालो नेमिगो नवलक्षणः ॥ 68॥
मकाराद्यो हवर्गान्तो यत्र प्रथिगणे स्वयम् ।
कालवैश्वानरः साक्षान्मार्ताण्डायुतदीधितिः ॥ 69॥
ज्वालायुतसहस्राड्यो वर्णान्तो भगवान् स्थितः ।
आमद्यात्प्रथिपर्यन्तान्नमोन्तां वर्णसन्ततिम् ॥ 70॥
उच्चार्यार्घ्यादिनाभ्यर्च्य विद्याबीजं हि चक्रराट् ।
ततः समुद्धरेन्मन्त्रं परमात्मनि वाचकम् ॥ 71॥
गळन्तममृतप्रख्यमचिरान्मोक्षसिद्धिदम् ।
अक्षस्थमुद्धरेत्पूर्वं नेमिषष्ठमनन्तरम् ॥ 72॥
नाभिद्वितीयेनाक्रान्तं द्वितीयमिदमक्षरम् ।
द्वितीयं दशसङ्ख्याच्च तदधश्चाष्टमात्परम् ॥ 73॥
नाभेस्त्रयोदशोपेतं तृतीयमिदमक्षरम् ।
अथ द्वितीयं नवमान्नाभितुर्यादिनान्वितम् ॥ 74॥
द्वितीयमष्टमाद्वर्णं केवलं विद्धि पञ्चमम् ।
विज्ञानपदमादाय त्र्यक्षरं तदनन्तरम् ॥ 75॥
आद्यमेकादशाद्वर्णं भिन्न नाभ्यपरेण तु ।
नेमेस्तृतीयवर्णस्य ततस्तदुपरि न्यसेत् ॥ 76॥
मन्त्राणं नवमं ह्येतद्दशमं मे निबोध तु ।
नाभिद्वितीयेनाक्रान्तं प्राग्वर्णं चाष्टमारगम् ॥ 77॥
नेमेर्द्वितीयं तदनु नेमेरादाय चाष्टकम् ।
तदुद्देशात्तृतीयं च स्थितं तत्पञ्चमोपरि ॥ 78॥
त्रयोदशमिदं विद्धि नवमादपरं ततः ।
षष्ठस्य नेमिवर्णस्य ऊर्ध्वे तत्त्रितयं न्यसेत् ॥ 79॥
युक्तं नाभितृतीयेन अथ षोडशमुच्यते ।
द्वितीयं दशमाद्वर्णान्नाभ्येकादशसंयुतम् ॥ 80॥
चैतन्यायपदं दद्यात्सनमस्कमतः परम् ।
द्वाविंशार्णो ह्ययं मन्त्रः पदैः षड्भिरलङ्कृतः ॥ 81॥

[[347]] तत्रैकार्णं पदं ज्ञानं चतुर्वर्णं पदं बलम् ।
षडक्षरैश्चाप्यैश्वर्यं वीर्यं पञ्चाक्षरं परम् ॥ 82॥
चतुर्वर्णं पदं तेजः शाक्तं स्याद्व्यक्षरं च यत् ।
तेजो वीर्यं बलं शक्तिरैश्वर्यं ज्ञानमेव च ॥ 83॥
दृगस्त्रं कवचं शैखं शिरो हृत्षड्यथाक्रमम् ।
मन्त्रः समाधिविषये नानाभूमिजयेषु च ॥ 84॥
निराकारो निरङ्गश्च स्मर्तव्यो ब्रह्मलक्षणः ।
तत्प्राप्युपाये प्रथमे यागहोमादिके तु वै ॥ 85॥
साकारं संस्मरेत्साङ्गं परिवारेण चावृतम् ।
आनीतां व्यक्ततां येन स्वयं ज्ञानादयो गुणाः ॥ 86॥
शश्वद्यागसमाप्त्यर्थं कर्मणामनुकम्पया ।
सोनङ्गः संस्मृतो मन्त्रो भाक्तिश्रद्धावशेन तु ॥ 87॥
फलं यच्छति वै नूनं नित्यं तद्भावितात्मनाम् ।
प्राधान्येन त्वथैश्वर्यं मोक्षो यत्रानुषङ्गतः ॥ 88॥
तत्र तद्विघ्नशान्त्यर्थमस्त्रान्तं विद्धि मन्त्रपम् ।
विपर्ययेतु नेत्रान्तो मन्त्रो यस्मान्महामते ! ॥ 89॥
दृग्दृष्टिशुद्धिमार्गाणां क विघ्नाः शान्तचेतसाम् ।
स्बकमन्तर्गत तेजः स्वातन्त्रवाच्च बहिष्कृतम् ॥90॥
येन येन हि मन्त्रेण स च नेत्रान्वितःस्मृतः ।
स्वप्रकाशस्त्वनुपमो येन येन हृदन्तरे ॥91॥
सितासितः समाकृष्यः स स तद्वाचकोन्वितः ।
अथ मन्त्रचतुष्कं तु भिन्नषाड्गुण्यवाचकम् ॥92॥ ।
कर्मणां मोक्षदं शस्वत्पूर्वोद्दिष्टं निबोध तु ।
आदायाक्षगतं बीजं नाभिपूर्वमतःपरम् ॥93॥
अरादेकादशात्पूर्वं तस्याधो विनिवेशयेत् ।
वर्णं नेमेस्तृतीयं यतृतीयमिदमक्षरम् ॥94॥
द्वितीयमष्टमाद्वर्णं नाभेस्तुर्यादिनान्वितम् ।
ततस्तु नवमं नेमेः केवलं विद्धि पञ्चमम् ॥95॥
अष्टमादपरं वर्णं द्वितीयस्वरसंयुतन् ।
षष्ठमेतद्विजानीयात्सप्तमं दशमात्परम् ॥96॥
अथ द्वितीयं दशमादादायोर्ध्वे तु विन्यसेत् ।
अष्टमात्तु द्वितीयस्य मन्त्रार्णमिदमष्टकम् ॥97॥
द्वितीयात्प्रथमं वर्णमष्टमादपरं ततः ।
नाभ्येकादशमोपेतं द्वितीयं नेमिमण्डलात् ॥98॥
पूर्वमेकादशाच्छुद्धं तादृन्नेमेस्मृतीयकम् ।
नेमिपूर्वं च तदनु नाभेरेकादशाङ्कितम् ॥99॥
नेमे षष्ठमथादाय स्वितं तत्पञ्चमोपरि ।
ततो नाभिद्वितीयेन युक्तं नेमेस्मृतीयकम् ॥ 100॥
द्वितीयं केवलं नेमेरादाय च महामते! ।
कर्त्रेनमःपदं पश्चाद्योजयेच्चतुरक्षरम् ॥ 101॥
एकविंशतिभिर्वर्णैरयं मन्त्र उदाहृतः ।
अभिन्नः पदभेदेन भवेदकाधिकस्तु वै ॥ 102॥

[[348]] प्राग्वर्णेन पदं पूर्वं पञ्चार्णं द्वितयं भवेत् ।
षडक्षरं तृतीयं तु चतुर्थं तद्वदेव तु ॥ 103॥
द्व्यक्षरं पञ्चमं विद्धि तद्वत् षष्ठं महामते! ।
अथापरं महामन्त्रं द्वितीयमवधारय ॥ 104॥
यज् ज्ञात्वा न पुनर्जन्म भवत्याराधकस्य च ।
आदायाक्षस्व मध्यस्थं नाभिपूर्वमतःपरम् ॥ 105॥
पूर्वं नेमेस्तु तस्यैव योज्यं नाभित्रयोदशम् ।
द्वितीयादपरं वर्णं सर्वशक्त्यात्मनेपदम् ॥ 106॥
द्वितीयं द्वादशाद्वर्णं द्वितीयात्प्रथमं ततः ।
पञ्चमं च बहिष्ठेभ्यस्त्रीनेतान्विद्धि केवलान् ॥ 107॥
नाभ्येकादशसम्भिन्नं द्वितीयं चाष्टमात्ततः ।
नमोनमः पदयुतो मन्त्रश्चाष्टादशाक्षरः ॥ 108॥
अस्यैकार्णं पदं पूर्वं त्र्यक्षरं तदनन्तरम् ।
षडक्षरं तृतीयं तु चतुर्थं चतुरक्षरम् ॥ 109॥
द्वितीयं द्व्यक्षरञ्चान्यत्पदयोः सम्प्रकीर्तितम् ।
तृतीयमश्र वक्ष्यामि मन्त्रं मन्त्रविदां वर! ॥ 110॥
यत ज्ञात्वा मानसं शुद्धिं परमां याति कर्मिणाम् ।
बीजमादाय मध्यस्थमाद्यमेकादशात्ततः ॥ 111॥
नेमेस्तृतीयं तदथ उर्ध्वे नाभ्यपरं तु वै ।
अथाद्यमष्टमाद्वर्णं द्वितीयस्वरसंयुतम् ॥ 112॥
तद्वेकादशादाद्यं वर्णमन्यं समाहरेत् ।
दशमादपरंवर्णं नेमेरष्टकमन्ततः ॥ 113॥
युक्तं नाभिद्वितीयेनत्वाद्यं नेम्यक्षरं तु यत् ।
नागित्रयोदशोपेतमादाय दशमात्परम् ॥ 114॥
द्वितीयं नवमाद्वर्णं युक्तं नाभ्यपरेण तु ।
तत्सङ्ख्यं दशमाच्छुद्धं ततो बाह्यातु पञ्चमम् ॥ 115॥
नेमेर्द्वितीयं तदधो युक्तं नाभेः परेण तु ।
द्वितीयं दशमाद्वर्णं प्राणाम त्र्यक्षरं पदम् ॥ 116॥
ततस्त्वेकादशादद्यं केवलं च समाहरेत् ।
अथ नाभिद्वितीयेन युक्तं नेमेस्तृतीयकम् ॥ 117॥
नाभित्रयोदशोपेतं बहिष्ठेष्वपरं ततः ।
नेमेस्तृतीयस्योर्द्वे तु नवमादपरं न्यसेत् ॥ 118॥
ततो नाभिद्वितीयेन युक्तं प्रान्नेमिमण्डलात् ।
द्वितीयमथ वै बाह्यात्सनमत्कं हि केवलम् ॥ 119॥
त्रयोविंशतिभिर्वर्णैरूपेतोप्येष मन्त्रराट् ।
पदैः पूर्वोक्तसङ्ख्यैस्तु तेषां भेदोप्यथोच्यते ॥ 120॥
पूर्वमेकाक्षरं विद्धि द्वितीयं तु नवाक्षरम् ।
तृतीयं द्वयक्षरं चैव चतुर्थं त्र्यक्षरं स्मृतम् ॥ 121॥
षडक्षरमक्षोर्ध्वस्थं द्व्यक्षरं तदनन्तरम् ।
चतुर्थमधुना मन्त्रं निबोध गदतो मम ॥ 122॥
येन विज्ञातमात्रेण संविदुत्पद्यते बरा ।
आदायादौ यदक्षस्थं नाभिपूर्वमनन्तरम् ॥ 123॥

[[349]] ततस्तृतीयादपरं वर्णमादाय लाङ्गलिन् ! ।
नेमिद्वितीयं तस्याधस्तदघो नाभिपञ्चमम् ॥ 124॥
द्वितीयमष्टमाद्वर्णं तत्सङ्ख्यं नेमिमण्डलात् ।
आदायैतद्वय् ं कुर्याद्युक्तं नाभ्यपरेण तु ॥ 125॥
अथ नाभितृतीयेन युक्तं बाह्यात्तु पञ्चमम् ।
आद्यात्पूर्वमथादाय नाभिसप्तमसंयुतम् ॥ 126॥
द्वितीयमष्टमाद्वर्णं द्वितीयं नेमिमण्डलात् ।
आदायाभ्यां नियोक्तव्यं द्वितीयं नाभिगोचरात् ॥ 127॥
अथ द्वितीयं दशमात्केवलं वर्णमाहरेत् ।
द्वितीयमष्टमाद्वर्णं तदूर्ध्वे दशमात्परम् ॥ 128॥
नाभिद्वितीयमस्यैव योजयेत्तदनन्तरम् ।
ततो नेमिद्वितीयं तु केवलं वर्णमाहरेत् ॥ 129॥
अथ नाभेर्यदादिस्थं प्राग्वर्णं दशमादरात् ।
तदधो द्वितयं बाह्यात्प्रथिवर्णमनन्तरम् ॥ 130॥
युक्तं नाभिद्वितीयेन त्वादाय तदनन्तरम् ।
नेमिद्वितीयसङ्ख्यं यन्नमस्कारषदं ततः ॥ 131॥
अष्टादशाक्षरो ह्येष द्व्यधिकः पदसङ्ख्यया ।
एकार्णं पदमाद्यं तु द्वितीयं चतुरक्षरम् ॥ 132॥
पञ्चाक्षरं तृतीयं तु चतुर्थं चतुरक्षरम् ।
तथैव पञ्चमं विद्धि ह्यन्तस्थं द्व्यक्षरं स्मृतम् ॥ 133॥
यत्र यत्र पदानां च वर्णाधिक्यमुदाहृतम् ।
तत्रादौ नाभिपूर्वं तु व्याहृत्याद्यं पदं नयसेत् ॥ 134॥
अथाभिन्नतनोर्मन्त्रं देवस्यास्य महात्मनः ।
विशाख्यूपसञ्ज्ञस्य वक्ष्ये विद्याविवेकदम् ॥ 135॥
वर्णमक्षस्थमादाय त्वाद्यमेकादशत्ततः ।
भिन्नं नाभिद्वितीयेन तृतीयं नेमिमण्डलात् ॥ 136॥
द्वितीयं केवलं बाह्यात्तेजोरूपाय वै पदम् ।
ततस्त्वेकादशात्पूर्वं केवलं तु समाहरेत् ॥ 137॥
तृतीयमक्षरं बाह्याद्युक्तं नाभिपरेण तु ।
दशमादपरं वर्णं पूर्वमेकादशात्ततः ॥ 138॥
एकादशस्बराकान्तमुद्धरेत्तदनन्तरम् ।
ततो नाभिद्वितीयेन युक्तं प्रध्यक्षरं हि यत् ॥ 139॥
केवलं द्वितयं बाह्यादाद्यमेकादशात्तथा ।
नेमेस्तृतीयं तदनु द्वितीयस्वरसंयुतम् ॥ 140॥
दशमाद्परं शुद्धं पूर्वमेकादशात्ततः ।
नाभ्येकादशसंयुक्तं तदन्तेऽमललोचन! ॥ 141॥
नाभेस्तृतीयसंयुक्तं प्रथिवर्णं समाहरेत् ।
अथ नाभिद्वितीयेन युक्तं यत्परमष्टमात् ॥ 142॥
नेमेर्द्वितीयं तदनु नमस्कारसमन्वितम् ।
चर्तुींवशतिभिर्वर्णैर्युक्तो मन्त्रोह्ययं महान् ॥ 143॥
प्रणवेन पदं चास्य पूर्वमेकाक्षरं स्मृतम् ।
द्वितीयं त्र्यक्षर् ं प्रोक्तं पञ्चार्णं तदनन्तरम् ॥ 144॥

[[350]] षडक्षरं चतुर्थं तु सप्तार्णं चात्र पञ्चमम् ।
पदं तु द्व्यक्षरं षष्ठं मन्त्रस्यास्य महामते ! ॥ 145॥
नानामन्त्रस्वरूपेण ह्यादिदेवः परः प्रभुः ।
आदिमध्यावसानेषु स्थितः सर्वस्य सर्वदा ॥ 146॥
चतुर्व्यूहचतुष्के स्वे शान्तादिव्यक्तलक्षणे ।
प्राधान्येन त्र्याणां च देवानामवतिष्ठते ॥ 147॥
यथाम्बरस्थः सविता त्वेक एव महामते! ।
जलाश्रयाणि चाश्रित्य बाह्यात्म्यं सम्प्रदर्शयेत् ॥ 148॥
एवमेकोपि भगवान् नानामन्त्राश्रयेषु च ।
तुर्यादिपदसंस्थेषु बहुत्वमुपयाति च ॥ 149॥
अनुग्रहार्थं भक्तानां नानाश्रद्धावशेन तु ।
चतुष्कमथ मन्त्राणां निबोध गदतो मम ॥ 150॥
सितादिवर्णव्यक्तीनां वाचकत्वेन वै क्रमात् ।
अक्षस्थं नाभिपूर्वं च वर्गं यद्दशमात्परम् ॥ 151॥
नेमिपूर्वमथो नाभेस्त्रयोदशसमन्वितम् ।
द्वितीयं द्वादशाद्वर्णं द्वितीयात्प्रथमं ततः ॥ 152॥
पञ्चमं च बहिष्ठेभ्यस्त्रीनेतान्बिद्धि केवलान् ।
ततोष्टमाद्वितीयं तु नाभ्येकादशभेतितम् ॥ 153॥
पञ्चार्णं वासुदेवाय पदं च तदनन्तरम् ।
त्रयोदशाक्षरोह्येष प्रथमः परिकीर्तितः ॥ 154॥
क्रमेण वक्ष्याम्यन्येषामुद्धारं तु यथास्थितम् ।
अक्षस्थमक्षरं नाभेर्द्वितीयं तदनन्तरम् ॥ 155॥
पूर्वमन्त्रानुसारेण ततो दद्यात्पदत्रयम् ।
अथात्र पञ्चदशमं नाभेरोङ्कारपूर्वकम् ॥ 156॥
पदत्रयेण तेनैव संयुक्तं विद्धि मन्त्रपम् ।
अथ षोडशसङ्ख्यं यन्नाभेः प्रणवपूर्वकम् ॥ 157॥
पूर्वोक्तलक्षणानां तु पदानां प्रान्निवेशयेत् ।
अस्मान्मन्त्रत्रयाद्विद्वि द्वयं प्राम्मन्त्रसङ्ख्यया ॥ 158॥
एक एकार्णरहितः पदभेदमतः शृणु ।
पदद्वयं तु सर्वेषामाद्यमेकाक्षरं स्मृतम् ॥ 159॥
द्व्यक्षरं च तृतीयं तु चतुर्थं चतुरक्षरम् ।
पञ्चाक्षरं पञ्चमं वै त्रयाणां समुदाहृतम् ॥ 160॥
तदेकस्य चतुर्वर्णं प्रद्युम्नाख्यस्य लाङ्गलिन् ! ।
एवं स्वप्नपदस्थस्य समासात्परिकीर्तितम् ॥ 161॥
क्रमशोथ चतुर्णां वै वक्ष्ये मन्त्रगणं शृणु ।
अक्षान्तर्गतमादाय नाभेः पूर्वमतः परम् ॥ 162॥
भिन्नं नाभिद्वितीयेन नेमिपूर्वमनन्तरम् ।
नाभिपञ्चमसंयुक्तं दशमात्प्रथमं ततः ॥ 163॥
तृतीयं च द्वितीयं च नेमेरादाय चाङ्कयेत् ।
नाभिद्वितीयबीजेन नवमादपरं ततः ॥ 164॥
तदधो विनियोक्तव्यं द्वितीयं द्वादशातु यत् ।
पञ्चमेनाथ वै नाभेर्युक्तं कुर्यादनन्तरम् ॥ 165॥

[[351]] अष्टमादपरं शुद्धं नेमिपूर्वं तथाविधम् ।
युक्तं नाभिद्वितीयेन द्वितीयं नेमिमण्डलात् ॥ 166॥
भूयस्तत्केवलं दद्यात्पदं योगेश्वराय वै ।
तदन्ते चक्रिणे शब्दमथ नेमेर्यदष्टमम् ॥ 167॥
पञ्चमेनान्वितं नाभेस्तदन्ते विनिवेश्य च ।
शुद्धमेकादशात्पूर्वमाद्यं तदनु चाष्टमात् ॥ 168॥
नेमेत्त्तृतीएनाक्रान्तं ध्वजायेति पदं न्यसेत् ।
भिन्नमेकादशात्पूर्वं नाभितुर्येण वै ततः ॥ 169॥
अष्टमादपरं शुद्धं पञ्चमं नेभिमण्डलात् ।
द्वितीयस्वरसंयुक्तं ससेतिद्व्यक्षरं पदम् ॥ 170॥
वासुदेवाय तदनु सनमस्कं पदं भवेत् ।
षट्त्रिंशदक्षरो मन्त्रो भेदस्तस्याधुनोच्यते ॥ 171॥
पदमेकादशार्णतु प्रथमं परिकीर्तितम् ।
पञ्चाक्षरं द्वितीयं तु तृतीयं त्र्यक्षरं स्मृतम् ॥ 172॥
षडक्षरं चतुर्थं तु पञ्चार्णं पञ्चमं तु वै ।
षष्ठं सप्ताक्षरं विद्धि पदं पदविदां वर ! ॥ 173॥
प्रणवान्ते त्वथादाय द्वितीयं नाभिमण्डलात् ।
चतुर्दशेन वै नाभेर्युक्तं नेम्यष्टकं ततः ॥ 174॥
द्वितीयं दशमाच्छुद्धमथ भूयः समाहरेत् ।
तदधो नवमादन्त्यं नाभेस्तुर्यादिनान्वितम् ॥ 175॥
एकादशस्वराक्रान्तं द्वितीयं दशमात्ततः ।
बाह्यादथाष्टमं नाभेर्युक्तं पञ्चदशेन तु ॥ 176॥
केवलं पञ्चमं नेमेर्द्वितीयञ्चाष्टमात्ततः ।
नेमेस्तृतीयेनाक्रान्तं वर्णमेतत्समाहरेत् ॥ 177॥
युक्तं नाभेस्तृतीयेन प्रागरात्प्रथमं तु वै ।
द्वितीयं दशमाद्वर्णं नाभेरेकादशाङ्कितम् ॥ 178॥
पञ्चाक्षरं षडं दद्यात्तदन्ते तालकेतवे ।
भूयस्तदवसाने तु पञ्चार्णं नीलवाससे ॥ 179॥
प्रथमात्प्रथमं चाथ द्वितीयस्वरसंयुतम् ।
केवलं नेमिपूर्वं तु आद्यमेकादशात्ततः ॥ 180॥
बहिष्ठेभ्यश्चतुर्थ तु द्वाभ्यां नाभेः परं न्यसेत् ।
केवलं द्वितीयं बाह्यात्सङ्कर्षणाय वै पदम् ॥ 181॥
तृतीयं प्रथमं नेमेरादायाकारसंयुतम् ।
द्वितीयमपि वै बाह्याच्छुद्धं तदनु वै नमः ॥ 182॥
षट्त्रिंशाक्षरसंयुक्तस्त्वयं मन्त्रो महामते! ।
षड्वर्णं पदमस्याद्यं पञ्चार्णं तदनन्तरम् ॥ 183॥
दशाक्षरं तृतीयं तु त्रीणि पञ्चाक्षराण्यतः ।
अथादायाक्षगं बीजं नाभेः पञ्चदशं ततः ॥ 184॥
शार्ङ्गधृते पदं दद्याच्चतुर्वर्णमतः परम् ।
नेमिपूर्वमथादाय प्रागरात्प्रथमं ततः ॥ 185॥
तृतीयं च बहिष्ठेभ्यः पदं त्र्यर्णं ध्वजाय वै ।
अथो तृतीअय् ं बाह्यात्तु प्रथमात्प्रथमं ततः ॥ 186॥

[[352]] तदधो विनियोक्तव्यं द्वितीयं वर्णमष्टमात् ।
द्वितीयस्वरसंयुक्तमथ बाह्यात्तु पञ्चमम् ॥ 187॥
अष्टमं तु तदुद्देशात्केवलं पुनरेव तत् ।
नाभेरेकादशाक्रान्तं षडक्षरमनन्तरम् ॥ 188॥
पदं सनत्कुमाराय पञ्चाक्षरमनन्तरम् ।
पदं जनत्प्रियायेति प्रद्युम्नाय नमस्ततः ॥ 189॥
चतुस्त्रिंशाक्षरः सोयं मन्त्रः शृणु पदान्यपि ।
आद्यं षडक्षरं ज्ञेयं द्वितीयं तद्वदेव हि ॥ 190॥
पञ्चाक्षरं तृतीयं तु चतुर्थ तु षडक्षरम् ।
पञ्चार्णं पञ्चमं विद्धि षड्वर्णं षष्ठमेव हि ॥ 191॥
अक्षस्थं षोडशं नाभेर्द्वितीयं दशमातु वै ।
केवलं ह्यथ तेनैव आक्रान्तं नवमात्परम् ॥ 192॥
अथादाय च तस्यान्ते प्रथमात्प्रथमं परात् ।
युक्तं नाभिद्वितीयेन वर्णमेतन्महामते ! ॥ 193॥
वर्णद्वयं पदस्यादौ तदेवास्तेभ्य वै पुनः ।
अथ द्वितीयं नवमात्प्रथमात्प्रथमं ततः ॥ 194॥
तृतीयमथ वै नेमेर्द्वितीयस्वरसंयुतम् ।
द्वितीयं केवलं बाह्यात्सप्तमं नाभिमण्डलात् ॥ 195॥
अथ षष्ठेन वै नेमेराक्रान्तं द्वितीयं न्यसेत् ।
प्राग्वर्णं दशमान्नेमेः पञ्चमस्योर्ध्वगं तथ ॥ 196॥
चतुर्थादपरं वर्णं द्वितीयं नेमिमण्डलात् ।
द्वाभ्यां नाभिद्वितीयं तु योजयेत्तदनन्तरम् ॥ 197॥
दशमादपरं वर्णं तृतीयस्वरसंयुतम् ।
तृतीयमथ वै नेमेर्नाभिपञ्चमसंयुतम् ॥ 198॥
द्वितीयवरसंयुक्तं द्वितीयं नवमादरात् ।
अस्यैवाथो नियोक्तव्यं दशमात्प्रथमं हि यत् ॥ 199॥
शुद्धं नेमेर्द्वितीयं तु पदं स्वसितवाससे ।
विष्वक्सेनाय तदनु नमस्कारसमन्वितम् ॥ 200॥
द्वात्रिंशार्णो ह्ययं मन्त्रः पदभेदेन वै पुनः ।
एकाधिकस्तु भवति पदान्यथ निबोध मे ॥ 201॥
द्व्यक्षरं तु पदं पूर्वं द्वितीयं त्वष्टवर्णकम् ।
त्रीणि पञ्चाक्षराण्यन्यत्षष्ठं सप्ताक्षरं स्मृतम् ॥ 202॥
अप्ययावसरे प्राप्ते स्मरणे चार्चने विभोः ।
शृणु मन्त्रचतुष्कं तु पुनरन्यत्समासतः ॥ 203॥
आद्यमेकादशाद्वर्णं पञ्चमस्वरसंयुतम् ।
युक्तं स्वरेण तेनैव तृतीयं नेमिमण्डलात् ॥ 204॥
द्वितीयस्वरसंयुक्तमथ बाह्यात्तु सप्तमम् ।
द्वितीयं केवलं नेमेराद्यन्ते प्रणवो नमः ॥ 205॥
शुद्धं त्वथाष्टमं बाह्याद्वितीयमथ चाष्टमात् ।
अथो नेमेर्द्वितीयेन युक्तं नाभ्यपरेण तु ॥ 206॥
केवलं द्वितयं बाह्यान्नमस्कारं ततः परम् ।
अथाक्षरं नाभिपूर्वं द्वितीयं त्रितयादरात् ॥ 207॥

[[353]] तदधो द्वितयं भाह्यान्नाभिपञ्चमसंयुतम् ।
अथ नाभिद्वितीयेन युक्तं यत्परमष्टमात् ॥ 208॥
केवलं द्वितयं बाह्यान्नमस्कारमतःपरम् ।
अक्षस्थबीजं तदनु द्वितीयं द्वादशादरात् ॥ 209॥
द्वितीयात्प्रथमं चाथ पञ्चमं नेमिमण्डलात् ।
केवलं त्रितयं ह्येतद्द्वितीयं च तथाष्टमात् ॥ 210॥
एकदशस्वराक्रान्तं वासुदेवाय वै नमः ।
सप्ताक्षरस्तु प्राम्मन्त्रो द्वितियस्तु षडक्षरः ॥ 211॥
पूर्वतुल्यस्तृतीयस्तु चतुर्थो द्वादशाक्षरः ।
पदभेदविनिर्मुक्तमेतन्मन्त्रचौष्टयम् ॥ 212॥
गोपनीयं प्रयत्नेन विधिज्ञैः सिद्धिम्मीप्सुभिः ।
सान्त षष्ठस्वरारूढमनुस्वारविभूषितम् ॥ 213॥
बीजमाद्यस्य च विमोर्वासुदेवस्य कीर्तितम् ।
तदेव जीव बीजस्थं षष्ठस्वरविवर्जितम् ॥ 214॥
द्वितीयस्वरसंयुक्तं सङ्कर्षणस्य बीजराट् ।
उभयोरन्तरे रेफमाद्यबीजस्य योजयेत् ॥ 215॥
बीजं प्रद्युम्ननाथस्य तृतीयं सर्वकामतम् ।
जीवारूढं हकारं तु लान्तस्योपरि विन्यसेत् ॥ 216॥
विसर्गसहितं बीजमनिरुद्धस्य वाचकम् ।
हकारं च सकारस्थं कृत्वा षोढा निवेश्य च ॥ 217॥
द्वितीयतुर्यषष्ठाष्टद्विषट्कदशकैः क्रमात् ।
सर्वं नियोजयेद्विद्वि हृदाद्यान्नेत्नपश्चिमान् ॥ 218॥
चातुरात्मीयमन्त्राणां साधनत्वेन सर्वदा ।
ततस्तु केशवादीनां मन्त्रांश्च शृणुतादरात् ॥ 219॥
त्रिधा हकारं कृत्वादौ जीवबीजं तथैव च ।
ककारं च क्षकारं च लिखेत्तद्वत्तिधा त्रिधा ॥ 220॥
द्विषट्कमेवं बीजानां क्रमेणादौ निवेश्य च ।
ततो वारिधारावारिसञ्ज्ञं यच्चाक्षरत्रयम् ॥ 221॥
पौनःपुण्येन सर्वेषामथोभागे नियोजयेत् ।
सर्वे षष्ठस्वरारूढा अनुस्वारविभूषिताः ॥ 222॥
बोद्धव्याः केशवादीनां बीजास्त्वेते पृथक् पृथक् ।
प्रणवाद्यैर्नमोन्तैस्तैस्तुर्यान्तैर्नामभिः सह ॥ 223॥
केशवः प्रथमो वाच्यस्ततो नारायणः परः ।
माधवश्चैव गोविन्दो विष्णुश्च मधुसूदनः ॥ 224॥
त्रिविक्रमो वामनाख्यः श्रीधरः पद्मलोचनः ।
हृषीकेशः पद्मनाभो दामोदर इति श्रुतः ॥ 224॥
बीजैदीर्घस्वरोपेतैः प्राग्वदङ्गानि कल्पयेत् ।
अथ मन्त्रात् केशवादि देवीनां शृणुत द्विजाः! ॥ 226॥
क्षहसत्तितयं ह्येतच्चतुर्था विलिखेत्क्रमात् ।
ततो द्विषत्कं बीजानां तम्याथो विनिवेश्य च ॥ 227॥
क्रमेण सप्तमाद्वर्गाद्वितीयं च चतुर्थकम् ।
पुनस्तृतीयं तुर्यं च द्वितीयं च तृतीयकम् ॥ 228॥

[[354]] द्वितीयं च चतुर्थं च चतुर्थं तदनन्तरम् ।
तृतीयमष्टमाच्चाथ तृतीयं सप्तमात्पुनः ॥ 229॥
नवमद्वादशाभ्यां तु विशेषमिममाचरेत् ।
अथो नियोजयेद्रेफं तत्त्रयाणां तु मूर्धनि ॥ 230॥
षट्सप्तमाष्टसञ्ज्ञानामीकारमुपरि न्यसेत् ।
सानुस्वारं च सर्वेषामिति देवीगणस्य च ॥ 231॥
बीजद्वादशकं प्रोक्तं यथा चानुक्रमेण तु ।
तारबीजनमोयुक्तैर्वाच्यास्तत्तत्स्वनामभिः ॥ 232॥
श्रीश्च वागीश्वरी कान्तिः क्रियाशान्तिविभूतयः ॥
इच्छा प्रीती रतिश्चैव माया धीर्महिमेति च ॥ 233॥
स्वरजात्यादियुक्तानि बीजानि हृदयादयः ।
इत्येवं केशवादीनां देवीमन्त्राः प्रकीर्तिताः ॥ 234॥
ततस्तदायुधानां च मन्त्रान् वक्ष्ये मुनीश्वराः ! ।
समुद्रमूर्तयेस्वाहा पद्मस्य प्रणवादिकः ॥ 235॥
सर्वान्तश्चारिणे कृत्वा ततो गगनमूर्तये ।
स्वाहान्तः प्रणवाद्यश्च मन्त्रः शऽग्खस्य कीर्तितः ॥ 236॥
ओङ्कारोवेदमात्रेथ विद्येस्वाहा नदन्तु वै।
गदामन्त्रस्त्वयम्प्रोक्तश्चक्रस्याथ निगद्यते॥
ॐऽग्कारान्ते पदन्दद्यात्पञ्चार्णं प्रभविष्णवे ।
तदन्ते कालशब्दं तु मूर्तमे हुं ततस्तु फट् ॥ 238॥
पद्मादीनां चतुर्णां तु ह्येतन्मन्त्रचतुष्टयम् ।
ततो विभवमूर्तीनां मन्त्रान् वक्ष्याम्यहं द्विजाः! ॥ 239॥
आराधनार्थं विहितो वाचको हि चतुर्विधः ।
सञ्ज्ञानानापदमयः पिण्डाख्यो बीजलक्षणः ॥ 240॥
एभ्यो मध्यात्त्वथैकेन वाच्यमामन्त्य भक्तितः ।
यत्रैकपिण्डवाक्योत्थमन्त्रेणाथोमयात्मना ॥ 241॥
तत्र वै विधिनानेन कुर्यात्ताभ्यां हि कल्पनाम् ।
अभिन्नलक्षणो वाच्यमेक एवोपचर्यते ॥ 242॥
कृत्वादौ नाममन्त्रस्य बीजं पिण्डाक्षरं तु वा ।
नमेत्तेनाभिमुख्यं च वाच्यमाद्यन्ततेन वा ॥ 243॥
स तत्र पदमन्त्रं तु विधिनानेन वै ततः ।
कुर्यात्प्रणवपीठस्थं नमस्कारध्वजान्वितम् ॥ 244॥
आभ्यां शान्तस्वरूपत्वादेकत्वमत एव हि ।
सञ्ज्ञाख्यं पदमन्त्रं च विधिसंसिद्धिलक्षणम् ॥ 245॥
स्वरोत्थं व्यञ्जनोत्थं वा बीजमेकाक्षरं स्मृतम् ।
स्वरव्यञ्जनसंयोगाद्बह्वर्णः पिण्डमन्त्रराट् ॥ 246॥
द्वाभ्यामाद्यात्तथान्ताच्च स्वरवर्गान्महामते! ।
स्वरूपेण हि मन्त्रत्वमन्येषां सह बिन्दुना ॥ 247॥
स्वरेणैकेन युक्तस्य स्वरयुग्मान्वितस्य वा ।
सानुस्वारस्य बीजत्वं व्यञ्जनस्यापि लाङ्गलिन् ॥ 248॥
सखङ्काराख्यशब्दस्य विवर्तो दीधितिप्रभः ।
सल्लक्षणस्त्वनाकारो विद्धि तद्वाचकं त्रिधा ॥ 249॥

[[355]] क्वचित्पिण्डं क्वचिद्बीजं क्वचिच्छब्दमनाहतम् ।
तस्य चोद्गीयमानस्य परिमाणः स्फुटोहि मः ॥ 250॥
बहक्षरो बहुपदः स्तुतिसम्बोधलक्षणः ।
अविनाशी सखङ्कारो बीजादीनां महर्धिदः ॥ 251॥
प्राग्दद्यात्प्रणवेनाथ सत्वाख्येनासनं महत् ।
तस्माद्वै सत्यभिन्नं तु बीजं तदुपरि नय्सेत् ॥ 252॥
स्वविवर्तेन बीजस्य मूर्त्युत्थानं प्रकल्पयेत् ।
प्राप्तेज्यावसरे नित्यं सम्पन्ने यजने सति ॥ 253॥
तप्तोपले जलं यद्वत्तद्वद्विप्रलयं स्मरेत् ।
भानुप्रसरसङ्कोचतुल्यमेतन्महामते! ॥ 254॥
क्रियावशात्तु किं त्वत्र भेदमात्रोपलक्षणम् ।
न यत्र बीजं पिण्डं वा तत्र वै प्रणवादनु ॥ 255॥
प्राग्वर्णङ्क् पदमन्त्रस्य यत्तदालोकवाचकम् ।
तच्छिष्टं विग्रहं वर्णैस्तस्मादुत्थाप्य वृक्षवत् ॥ 256॥
केवलं यत्र वै बीजं पिण्डं वा पदवर्जितम् ।
तत्राकाराख्यवर्णस्य क्षेत्रज्ञत्वं विधीयते ॥ 257॥
क्षेत्रत्वमवशिष्टानां वर्णानां पिण्डरूपिणाम् ।
केवलस्य हि बीजस्य स्वस्थितिर्ब्रह्मवर्णता ॥ 258॥
स्वभावप्रच्युतिर्बीजं बीजोच्चारस्तथा कृतिः ।
बीजवत्पिण्डमन्त्राणां परिज्ञेयः सदोदयः ॥ 259॥
यद्बीजलक्षणं मन्त्रं सामर्थ्यं वैष्णवं महत् ।
असङ्ख्येयमसङ्ख्यानां वाच्यानां भिन्नरूपिणाम् ॥ 260॥
तद्यथावत्परिज्ञानाज्जपध्यानात्समर्चनात् ।
हवनातन्मयत्वाच्च निर्बीजं (मृद्बीजं)पदमृच्छति ॥ 261॥
सहाभिमतसिद्धस्य साधकानां सदैव हि ।
पिण्डादिभगवन्मन्त्रमुर्तीनामेवमेव हि ॥ 262॥
परिज्ञानाद्भवेत्किन्तु पिण्डात्तत्स्थैर्थमुत्तमम् ।
नानात्वं नाममन्त्राच्च नानालोकान्तरोत्थितम् ॥ 263॥
भवेत्सर्वपदप्राप्तिः परिज्ञानात्पदाभिधात् ।
सबीजं वा स्पिण्डं वा मन्त्राणां यत्परं द्वयम् ॥ 264॥
विदधाति फलं स्वं स्वं किं त्वाद्यं भावयेत्पदम् ।
मन्त्रक्षेत्रज्ञरूपत्वाचस्मात्सर्वेश्वरोऽच्युतः ॥ 265॥
व्याप्यव्यापकरूपेण वर्ततेऽनुग्रहेच्छया ।
व्याप्यरूपेण भूलोकाद्भोगादारभ्य चाखिलात् ॥ 266॥
षाड्गुण्यमहिमान्तं च ददाति फलमुत्तमम् ।
स्वपदं भोगखिन्नस्य दिव्यदेहस्य कर्भिणः ॥ 267॥
क्षेत्रज्ञबीजपिण्डात्मा निरावरणलक्षणः ।
ज्ञानं यदमलं शुद्धं संयच्छत्यात्मलाभदम् ॥ 268॥
शक्तिव्यक्तिमयत्वं च जाग्रदवृत्तोपदात्मनः ।
एवं सञ्ज्ञात्मनः स्वप्नवृत्तरेकत्बमस्ति च ॥ 269॥
सुषुप्तिवृत्तेः पिण्डाख्यमन्त्रस्यैव महामते! ।
बीजात्मनस्तुर्यवृत्तेः शक्तिव्यक्तित्वमस्ति वै ॥ 270॥

[[356]] व्यक्तिज्ञानफलोपेता नियता यद्यपि स्मृता ।
भगवन्मन्त्रमूर्तीनां तथापि परमात्मनः ॥ 271॥
आद्यस्य चातुरात्यस्य केवलस्याथ वा विभोः ।
चतुष्प्रकारं यन्मन्त्रं विद्धि तन्मोक्षभूतिदम् ॥ 272॥
अतोन्यथा यदुद्दिष्टममिश्रं मिश्रमेव हि ।
फलं भाववशाच्चैव तत्तथा विद्धि नान्यथा ॥ 273॥
शृणुध्वमथ बीजानि सावधानेन चेतसा ।
शुचौ देशे मनोज्ञे च सुलिप्ते पुष्पभूषिते ॥ 274॥
चन्दनक्षोदसंयुक्ते सुधूपेनाधिवासिते ।
विलिख्य मातृकाचकं भेदेननेन वै पुनः ॥ 275॥
येन सन्दृष्टमात्रेण शतथा यातिं कल्मषम् ।
प्रागादौ पञ्चवर्गातान् मध्यान्तं मध्यतो लिखेत् ॥ 276॥
यादयो नव नाभिस्था आदयः षोढशारगाः ।
कादयो नेमिगाः सर्वे पूर्वचक्रे यदक्षगम् ॥ 277॥
तदस्मिन् प्रथिभूतं तु पूज्येद्विधिना ततः ।
शब्दब्रह्मयं चक्रमर्ध्यपुष्पादिकैः क्रमात् ॥ 278॥
तन्मध्यादुद्धरेदादौ सर्वेषां कारणं हि यत् ।
उदक्स्थमक्षरं चाक्षादरान्ताद्येनभूषितम् ॥ 279॥
विद्धि सर्वेश्वरस्येदं बीजं निर्बीजकारणम् ।
एतदेवाब्जनाभस्य विसर्गसहितं स्मृतम् ॥ 280॥
नेमिवर्गाद्वितीयं वै ततोरात्षष्ठमक्षरम् ।
अष्टमं नाभिदेशाच्च तत्सङ्ख्यं नेमिमण्डलात् ॥ 281॥
नेमिपूर्वमतो नाभेः सप्तमं पञ्चमारगम् ।
अराच्चतुर्दशं त्वक्षात्पश्चिमाशागतं हि यत् ॥ 282॥
नेमेरेकादशं चाभ षोडशं च त्रयोदशम् ।
पञ्चमं नाभिदेशाच्च नेमेरेकोनविंशकम् ॥ 283॥
तदन्तं सप्तमं चैव नवमं हि महामते ! ।
नाभेस्तृतीयं तदनु नेमेस्तत्सङ्ख्यमेव च ॥ 284॥
द्वादशश्च बहिष्ठेभ्यो दशमं षोडशात्परम् ।
नाभिपूर्वं ततो वर्णं नेमेः पञ्चदशं हि यत् ॥ 285॥
तुर्यसङ्ख्यमराद्बीजं ततो नाभिचतुर्थकम् ।
षष्ठं नेमेश्चतुर्थं च मध्यमक्षात्तथा हरेत् ॥ 286॥
तत्रैव पूर्वदिक्स्थं यद्बाह्याद्वै पञ्चमं ततः ।
अक्षाद्दक्षिणदिक्संस्थं नेमेरष्टादशं ततः ॥ 287॥
द्वितीयं नाभिदेशाच्च तदन्ते सप्तमारगम् ।
चतुर्दशमतो नेमेः षष्ठं नाभेस्थाहरेत् ॥ 288॥
सर्वे कारणवन्मूर्धा योजनीयाः समासतः ।
प्रणवाद्या नमोन्ताश्च तेजसातीव निर्भराः ॥ 289॥
पद्मनाभादयो देवा वायास्तेषां क्रमेण तु ।
पद्मनाभो ध्रुवोऽनन्तः शक्त्यात्मा मधुसूदनः ॥ 290॥
विद्याधिदेवः कपिलो विश्वरूपो विहङ्गमः ।
क्रोडात्मा बडवावक्त्रो धर्मो वागीश्वरस्तथा ॥ 291॥

[[357]] देव एकार्णवशयः कूर्मः पाताळधारकः ।
वराहो नारसिंहश्चाप्यमृताहरणस्तु वै ॥ 292॥
श्रीपतिर्दिव्यदेहोथ कान्तात्माऽमृत्तधारकः ।
राहुजित्कालनेमिघ्नः पारिजातहरो महान् ॥ 293॥
लोकानाथस्तु शान्तात्मा दत्तात्रेयो महाप्रभुः ।
न्यग्रोधशाथी भगवानेकशृङ्गतनुस्ततः ॥ 294॥
देवो वामनदेहस्तु सर्वव्यापी त्रिविक्रमः ।
नरो नारायणश्चैव हरिः कृष्णस्तथैव च ॥ 295॥
ज्वलत्परशुधृग्रामो रामश्चान्यो धनुर्धरः ।
वेदविद्भगवान् कल्की पाताळशयनः प्रभुः ॥ 296॥
प्रादुर्भावगणो मुख्य इत्युक्तस्ते समासतः ।
यथाक्रमोदितानां च देवानां विनिबोध तु ॥ 297॥
पिण्डमन्त्रगणं मत्तः सावधानेन चेतसा ।
नाभेरष्टमबीजं यत् स्थितं तत्सप्तमोपरि ॥ 298॥
तदथश्चोत्तरं चाक्षादरान्तेन विभूषयेत् ।
अथोत्तरं चाक्षदेशादादाय तदधो न्यसेत् ॥ 299॥
बीजं नेमिद्वितीयं यन्मध्यान्मध्यं तदासने ।
अथारषष्ठसंरुद्धं कुर्याद्वै नाभि सप्तमम् ॥ 300॥
अष्टमं चं तदूर्ध्वे तु एतद्विद्धि तृतीयकम् ।
नाभ्यष्टममथादाय अरात् षष्ठासनस्थितम् ॥ 301॥
ततो नाभिङ्गितीयस्य क्रमेणाथो निवेश् य च ।
तदुद्देशात तृतीयं च सप्तमं तुर्यमेव च ॥ 302॥
अथादाय च नेमेः प्राक् तदथो नाभिसप्तमम् ।
तस्याप्यधस्तदुद्देशात् तृतीयं विनिवेश्य च ॥ 303॥
ततस्तु नवमं नाभेस्तस्योर्ध्बोधोगतं न्यसेत् ।
त्तत्रैव यद्वितीयं तु तत्पिण्डं विद्धि सप्तमम् ॥ 304॥
अरात् षष्ठस्य चोर्ध्वे तु नाभिपूर्वं तु विन्यसेत् ।
सप्तमं चाष्टमं चापि ह्युप्र्युपरि वै क्रमात् ॥ 305॥
अथाष्टमं नाभिदेशादारूढं सप्तमोपरि ।
तदथो मध्यगं चाक्षान्नवमं परिकीर्तितम् ॥ 306॥
भूयोरात्वञ्चमस्योर्ध्वे दद्यान्नाभितृतीयकम् ।
बाह्यातृतीयं तन्मूर्ध्नि पिण्डोयं दशमः स्मृतः ॥ 307॥
द्वितीयं नाभिदेशाच्च तत्तृतीयं तदूर्ध्वगम् ।
नेमेराद्यन्तमूर्ध्वे तु स्मृतमेकादशं त्विदम् ॥ 308॥
अथो नाभिचतुर्थस्य सप्तमं विनिवेश्य चे ।
तदधो नेमिपूर्वं तु एतद्वादशमं स्मृतम् ॥ 309॥
नेमेस्त्रिदशमादाय तदधो योजयेत्क्रमात् ।
सप्तमं च चतुर्थं च पूर्वं नाभेर्महामते! ॥ 310॥
अरष्ठासनाः सर्वे पिण्डमेतत् त्रयोदशम् ।
नाभेश्चतुर्थमादाय तदूर्ध्वे सप्तमं न्यसेत् ॥ 311॥
नवमं चापि तन्मूर्ध्नि एतद्द्विद्धि चतुर्दशम् ।
नेमेश्चतुर्थसञ्ज्ञस्व ऊर्ध्वाधोभ्यां निवेश्य च ॥ 312॥

[[358]] वर्णं नाभिद्वितीयं यत्तत्पञ्चदशमं स्मृतम् ।
यद्विंशसङ्ख्यकं बाह्यादादायाराख्यमण्डलात् ॥ 313॥
सान्तिमेन च षष्ठेन युक्तं कुर्यादनन्तरम् ।
नेमेः सप्तमवर्णस्य ऊर्ध्वाशोभ्यां निवेश्य च ॥ 314॥
नाभिदेशाद्वितीयं यद्विद्धि सप्तदशं तु तत् ।
नवमं नाभिदेशाच्च सप्तमस्योपरि नयसेत् ॥ 315॥
अथाष्टमं नाभिदेशात्कुर्यात्सप्तगमूर्ध्वगम् ।
द्वितीयमपि तस्थाधस्तस्माद्वै नाभिमण्डलात् ॥ 316॥
अरात्त्रयोदशं चोर्ध्वे न्यूनविंशतिमं हि तत् ।
नाभेश्चतुर्थं तस्योर्ध्वे तत्तृतीयं तदूर्ध्वगम् ॥ 317॥
तत्रैव सप्तमं यद्वै विद्धि विंशतिमं त्विदम् ।
द्वितीयस्याष्टमं नाभेर्वर्णस्योर्ध्वे नियोज्य च ॥ 318॥
अरात् षष्ठं च तस्याधः कुर्यात्तदनु लाङ्गलिन् ।
नवमं नाभिदेशाच्च तृतीयस्योपरि न्यसेत् ॥ 319॥
द्वितीयं तदधः कुर्या त्रयोविंशतिमं शृणु ।
अष्टमं सप्तमं नाभेर्द्वितीयं प्रथमं ततः ॥ 320॥
क्रमेण योजयेच्चैव अरात् षष्ठस्य मूर्धनि ।
नेमेस्सप्तममादाय तदधो नाभिसप्तमम् ॥ 321॥
तत्तृतीयं च तस्याधश्चर्तुींवशतिमं स्मृतम् ।
नाभेस्तृतीयं तस्योर्ध्वे द्वितीयं तस्य चोपरि ॥ 322॥
निवेश्य नेमिपूर्वं तु षष्विंशमधुनोच्यते ।
अरात् षष्ठासनं कुर्याद्वर्णं नाभितृतीयकम् ॥ 323॥
तदूर्ध्वे सप्तमं चैव अतोन्यमवधारय ।
न्यूनं विंशतिनेमेस्तु तस्योर्ध्वाधोगतं न्यसेत् ॥ 324॥
सप्तमं नाभिवर्णेभ्यस्त्वरवर्णाच्च पञ्चमम् ।
नेमेराद्यं द्वितीयं च आदाय तदधो न्यसेत् ॥ 325॥
मध्यमक्षान्महाबुद्धे अष्टविंशतिमं स्मृतम् ।
नवमं सप्तमं नाभेस्तृतीयं च द्वितीयकम् ॥ 326॥
अथोत्तरस्थमक्षाच्च आदाय तदधो न्यसेत् ।
तृतीयं च द्वितीयं च नाभिदेशादनन्तरम् ॥ 327॥
माभिद्वितीयमादाय सप्तमं तुर्यमेव च ।
तृतीयस्याथ वै नाभेर्बाह्यादाद्यस्तमूर्ध्वगम् ॥ 328॥
ततस्तु नवमं नाभेरक्षमध्यस्थमूर्ध्वगम् ।
अष्टमस्याथ वै नाभेरधम् ऊर्ध्वे द्वितीयकम् ॥ 329॥
दद्यात्तदन्वरात्षष्ठं तस्यैवाधोगरं तु वै ।
अरात् षष्ठस्य चोर्ध्वेथ नाभिपूर्वतु तत्प्रम् ॥ 330॥
विनिवेश्याष्टमं चापि षट्त्रिंशमवधारय ।
सप्तमं च तृतीयं च चतुर्थं नाभिमण्डलात् ॥ 331॥
योजयित्वा तदूर्ध्वे त्वप्यरार्णं त्रिदशं न्यसेत् ।
अथ यन्नवमं नाभेस्तृतीअय् ं च द्वितीयकम् ॥ 332॥
तत्सप्तत्रिंशकं विद्धि नाभिदेशादथाहरेत् ।
अरात् षष्ठासनं पूर्वं द्वितीयं(त्रितीयं) च तदूर्ध्वतः ॥ 333॥

[[359]] नवमं चापि तस्योर्ध्वे पिण्डास्त्वित्यादिमं विना ।
अरान्ताद्येन वै मूर्ध्ना सर्वे कार्या ह्यलङ्कृताः ॥ 334॥
नमोन्ताः प्रणवाद्याश्च युक्तास्सञ्ज्ञापदैस्स्वकैः ।
अरान्ताद्यं विना यस्य यदूर्ध्वे वर्तते स्वरः ॥ 335॥
अधो वा नाभिपूर्वेण सह वा केवलं हितम् ।
अपास्य च ततः कुर्यात्सर्वेषां पूजनाय च ॥ 336॥
स्वेन स्वेन तु पिण्डेन सिह्मवच्चाङ्गकल्पनाम् ।
नमःप्रणवसञ्ज्ञाड्या जातिः कर्मवशात्पुनः ॥ 337॥
आतदुक्तानुयजनान्मोक्षनिष्ठस्समाचरेत् ।
बीजपिण्डदोत्थानां विनियोगं तु चाखिलम् ॥ 338॥
किन्त्वेषां वैभवी मुद्रा देयाराधनकर्मणि ।
तदङ्गमुद्राश्चाङ्गानां योज्या मन्त्रैस्स्वकैस्सह ॥ 339॥
सर्वं साधारमुद्दिष्टं सैहमन्त्रोदित मया ।
दीक्षापूर्वं हि मन्त्राणां चतुर्वर्गं हि साधनम् ॥ 340॥
लक्षणं पदमन्त्राणामथेदानीं निबोथतु ।
यैर्विना लब्धसत्तानामर्चनं हि न जायते ॥ 341॥
विश्वातीताय विमलपदं विद्याविधायिने ।
पद्मनाभाय विश्वव्यापिने च तदनन्तरम् ॥ 342॥
चर्तुींवशाक्षरं विद्धि एतत्सङ्ख्यं परंशृणु ।
ज्योतीरूपाय पञ्चवर्णं पदं गगनमूर्तये ॥ 343॥
ध्रुवाय दद्यात्तदनु परमं त्र्यक्षरं ततः ।
पदप्राप्तिचतुर्वर्णं हेतवे त्र्यक्षरन्त्विति ॥ 344॥
अनन्तायपदन्दद्यात्ततोपरिमिताय च ।
सर्वाश्रयाय तदनु तदन्ते धूतशक्त्ये ॥ 345॥
एतद्विंशतिसङ्ख्यं च द्वाविंशार्णमतः शृणू ।
नमो भगवते कृत्वा वासुदेवाय वै ततः ॥ 346॥
सर्वशक्त्यात्मनेऽबब्तन्मूर्तये तु पदन्त्विति ।
वीर्यात्मनो महाश्ब्दं पुरुषाय पदं तु तत् ॥ 347॥
मोहमायापदं चैव ततो विध्वंसिने तु वै ।
सदोदितायशब्दं तु सर्वशक्ते पदं ततः ॥ 348॥
नियोक्तव्यश्चतुर्वर्णः सप्तविंशाक्षरःस्मृतः ।
पदं वेदविदे विश्वरञ्जकाय ततो भवेत ॥ 349॥
तदन्ते विश्वपतये ततो वै परमात्मने ।
एष विंशतिभिर्वर्णैः शृणु सप्तदशाक्षरम् ॥ 350॥
ज्ञानात्मनेपदङ्कुर्यात्संविच्छब्दमतःपरम् ।
पदं प्रकाशाशयाय शान्तरूपाय वै ततः ॥ 351॥
अनन्तशक्तये सर्वव्यापिने तदनन्तरम् ।
जगन्मयाय तदनु विश्वरूपाय वै पदम् ॥ 352॥
एकविंशतिभिर्वर्णैरयमुक्तोपरं शृणु ।
सत्सत्वपदमादाय गुहाशयपदं ततः 353॥
ततःपरमहंसाय ततो मानसचारिणे ।
न्यूनविंशत्यक्षरश्चैव ततो यज्ञमूर्तये ॥ 354॥

[[360]] ततो भुव्नशब्दं तु वराहाय पदं त्वथ ॥ 355॥
विभूतिस्वामिने चेति चर्तुींवशाक्षरस्त्वयम् ।
नमो भगवते दद्यात्ततो वै वडवाग्नये ॥ 356॥
जगज्जलेन्धनपदं प्रदीप्तं पदमेव तु ।
वीर्यायफट् तदन्ते तु एतत्सङ्ख्यस्त्वयं स्मृतः ॥ 357॥
सर्वान्तश्चारिणे दद्यात्प्रसन्नपदमेव च ।
मूर्तयेथ पदं चैव दद्याद्धर्मात्मने पदम् ॥ 358॥
षोडशाक्षरमेतद्वै अतो गुह्यमतश्शृणु ।
सर्वविद्येश्वरायाथ दद्याद्वाक्पतये ततः ॥ 359॥
पदम्पदवदादाय ततो वाग्विभवं त्विति ।
न्यूनविंशाक्षरो ह्येष त्वपरं कथयामि ते ॥ 360॥
योगैश्वर्यप्रदायाथ योगनिद्रारसाय वै ।
नीरदाय पदन्दद्याद्भगवन् जलशयिने ॥ 361॥
त्रिरष्टवर्णसङ्ख्यश्च अयमेकाधिकस्तु वै ।
भगवत्पदमादाय अनन्तबलशक्तये ॥ 362॥
तेजोमयाय भुवनधृतेथ द्व्यक्षरं पदम् ।
तदन्ते विनियोक्तव्यं पदं वै कच्छपात्मने ॥ 363॥
षड्विंशार्नक्रमं विद्धि मन्त्रं मन्त्रविदां वर ।
यज्ञाङ्गदेहमादाय महापदमतःपरम् ॥ 364॥
वराहाय ततो दद्यात्पुराणपुरुषाय वै ।
दद्यात्ततः प्रजाशब्दं तदन्ते पतयेपदम् ॥ 365॥
चर्तुींवशाक्षरं मन्त्रमेतन्मन्त्रविदां वर ।
नमो भगवते कृत्वा नारसिंहाय वै ततः ॥ 366॥
तेजोनिधे पदं दद्यात्पदं हन हनेति च ।
ततौ विकर्मजात्यं वै शब्दम्पञ्चाक्षरं भवेत् ॥ 167॥
दुष्कृतं हि तदन्ते वै सप्तविंशाक्षरस्त्वयम् ॥
आदायामृतमूर्ते वै ततो ज्ञानपरात्मने ॥ 368॥
सर्वेश्वराय भगवन्न्यूनविंशाक्षरस्त्वयम् ।
आदायपुण्डरीकाक्ष पदं वै परमेश्वर ॥ 369॥
ततस्सकलशब्दन्तु सुखसौभाग्य वै पदम् ।
निधे वाञ्छितशब्दं तु ततस्सिद्धिप्रदेति वै ॥ 370॥
पदं चाखिलदुःखेति ततस्तु शमनाग्नेये ।
आनन्दसुन्दरपदं ततो लक्ष्मीपदं त्रिरुज्झितम् ।
सदसत्पदमादाय मूर्तये तदनन्तरम् ॥ 372॥
विश्वोत्तमाय तदनु ततोऽमृतनिधे तु वै ।
षोडशार्णस्त्वयम्मन्त्र उक्तः कान्तात्मने विभो ॥ 373॥
पुरुषोत्तमाय शब्दन्तु ततो ऽप्रतिहतेति च ।
शक्तयेथ पदं दद्यात्सर्वेश्वस्पदं ततः ॥ 374॥
समग्रोग्रहयेत्यत्र निवारण ततः परम् ।
सप्तविंशाक्षरो मन्त्र उक्तश्चातःपरंशृणु।
नियन्तेपदमुद्धृत्य तदन्ते विश्वहेतवे ।
परब्रह्मसमेतं च सेतवे ओमनन्तरम् ॥ 376॥

[[361]] मन्त्रो द्विरष्टवर्णाश्च कथितोयं ततः परम् ।
पदमप्रतिमेत्यादौ प्रभावं तदनन्तरम् ॥ 377॥
महाविभूते तदनु महामायापदं ततः ।
अथ दर्शकशब्दं तु तदन्ते तालकेतवे ॥ 378॥
चर्तुींवशाक्षरोक् मन्त्रस्त्वयमुक्तस्समास्तः ।
शान्तात्मने पदं दद्यात्तदन्तेयमविन्यसेत् ॥ 379॥
नियमाश्रयाय तद्दद्यात्परमप्रदयाय च।
नारायणाय शब्दं तु पूर्वसङ्ख्यासमं स्मृतम् ॥ 380॥
भवभङ्गपदं चैव कारिणे तदनन्तरम् ।
ततो भगवते शब्दं दत्तात्रेयाय वै ततः ॥ 381॥
वर्णाश्रमपदं चाथ धर्मश्ब्दमतःपरम् ।
परिग्रहाय प्रणवमष्टाविंशाक्षरः स्मृतः ॥ 382॥
सलोकमायामायेति सर्वज्ञाय पदं ततः ।
(शब्दं विश्वात्मने चाथ विमलेतिपदं ततः ॥ 383॥
सर्वेश्वर्राय न्यग्रोधशयनाय पदं त्वथ ।
त्रयोविंशत्यक्षरश्च त्वथचान्यं निबोधतु ॥ 384॥
भूतशब्दमथादाय भावनाय पदं ततः । ) शब्दं विश्वात्मने चाथ विमलेतिपदं ततः ॥ 385॥
निकेतनाय तदनु कन्धरायपदं ततः ।
अयं विंशतिभिर्बर्णैर्द्व्यधिकैर्मन्त्रराट्स्मृतः ॥ 386॥
विष्णवे पदमादाय निरस्त्रास्त्राय वै ततः ।
पदं ब्रह्मनयायाथ जटिने दीण्डने ततः ॥ 387॥
दद्याद्विदितशब्दं वै तदन्ते विभवाय च ।
षड्विंशार्णस्त्वयम्मन्त्रः परमस्मान्निबोधतु ॥ 388॥
सर्वशब्दमथादाय व्यापिने तदनन्तरम् ।
पदं सहस्रार्चिषे च दद्यात्पञ्चाक्षरं शुभम् ॥ 389॥
त्रिविक्रमायाथ पदं ततोपरिमिताय वै ।
प्रभावायपदं दद्यात्त्रयोविंशाक्षरः स्मृतः ॥ 390॥
नरनाथाय शब्दं तु पुरुषप्रवराय वै ।
आत्मध्यानपरायेति णाय वै द्व्यक्षरं ततः ॥ 391॥
एकविंशाक्षरो मन्त्रस्त्वतोन्यमवधारय ।
नारायणाय शब्दं तु दद्यान्निरति वै पदम् ॥ 392॥
शयानन्दसयायेति पदं निरभिमान वै ।
पदसक्ताय तदनु पञ्चविंशाक्षरस्त्वयम् ॥ 393॥
पराय पदमादाय ततो वै परमात्मने ।
योगेश्वराय हरये मन्त्रोयं षोडशाक्षरः । 394॥
सप्तार्णं पदमादाय प्रान्नमः परमात्मने ।
कृष्णाय शब्दं तदनु कमलं त्र्यक्षरं ततः ॥ 395॥
दळशब्दं तु विततं नेत्राय तदनन्तरम् ।
बृह्मिष्ठाय ब्रह्मणे वै अष्टाविंशाक्षरस्त्वयम् ॥ 396॥
भगवत्पदमादाय युगान्तदहनेति च ।
दृप्तयेथ पदं दद्यात्संसारपदमेव हि ॥ 397॥

[[362]] बन्धविच्छेदकर्त्रे वै द्वाविंशार्णस्त्वयं स्मृतः ।
दद्याद्विशब्दशब्दं वै प्रमार्थपदं ततः ॥ 398॥
पदं चतुर्मूर्तये वै चतुर्गतिमयाय च ।
शरशार्ङ्गभृते दद्याच्छरदिन्दीवरत्विषे ॥ 399॥
ततो भगवते दद्यादभिरामपदं ततः ।
शरीरायपदं चैव त्वष्टत्रिंशाक्सरं स्मृतम् ॥ 400॥
दद्याद्द्विशदशब्दं वै परमार्थपदं ततः ।
ततो वेदविदे शब्दं विदुषे व्यापकाय च ॥ 401॥
स्वामिंस्तदनु वै दद्याद्व्यक्षरं चापरं पदम् ।
अयं विंशतिभिर्वर्णैरुक्तस्त्वन्यमतश्शृणु ॥ 402॥
दद्याद्गरुडशब्दन्तु तदन्ते वाहनेति च।
सर्वशस्त्रास्त्रोद्यतेति शमयाशुभमेव च ॥ 403॥
ततोधुनधुनादाय कर्मबन्धांस्तथोच्चरेत् ।
धर्मं पाहि ततोदद्याज्जह्यधर्मं ततोद्धरेत् ॥ 404॥
चतुस्त्रिंशाक्षरो मन्त्र एष वक्ष्याम्यतः परम् ।
संहारमूर्तये शब्दं कालवैश्वानरार्चिषे ॥ 405॥
पाताळशयनायेते त्वज्ञाननिगळेतिवै ।
निचयं हन वीप्सातः प्रणवं तदनन्तरम् ॥ 406॥
पञ्चत्रिंशाक्षरो ह्येष सर्वसिद्धिकरः स्मृतः ।
प्रणवालङ्कृतास्सर्वे नमस्कारविभूषिताः ॥ 407॥
संस्कृताः पूजिताश्चैव ध्यानजप्ता विशेषतः ।
तन्नास्ति यच्च यच्छन्ति भक्त्यासत्कर्मणाम्भुवि ॥ 408॥
अथ लाञ्छनमन्त्राणां शास्त्राणां लक्षणं शृणु ।
सहस्रदीधितिपदं दद्याच्छुरित वै ततः ॥ 409॥
विग्रहाय दशार्णं च त्र्यधिकं मकुटस्य च ।
आदाय वाञ्छितपदं तदसिध्यप्रदाय वै ॥ 410॥
महाचिन्तापदन्दद्यान्मणये तदनन्तरम् ।
विद्धि पञ्चदशार्णं च दशार्णमपरं शृणु ॥ 411॥
सर्वलक्षणशब्दं तु ततस्सम्पत्प्रदायवै ।
सौभाग्यशब्दमादाय जननि त्र्यक्षरं ततः ॥ 412॥
सर्वप्रदेषु तदनु अयमेव दशाक्षरम् ।
प्राणात्मनेथ सत्याय विद्धि सप्ताक्षरं त्विदम् ॥ 413॥
कालकर्त्रेथ चक्राय फडष्टार्णं प्रकीर्तितम् ।
विश्वात्मने पदं दद्यात्ततो विश्वप्रदाय च । 414॥
नवाक्षरमिदं विद्धि परमस्टाक्षरं शृणु ।
समादाय पदं विद्ये ततो विद्येश्वरार्चितो ॥ 415॥
प्राक्शब्दमूर्तये कुर्याच्छङ्खायाष्टाक्षरः स्मृतः ।
पदं रसनिधे कुर्याद्भीमशब्दमतःपरम् ॥ 416॥
भीषणाय तदन्ते वै दशाक्षरमिदं स्मृतम् ।
प्राग्भुवनाधिपतये स्तम्भभूताय वै पदम् ॥ 417॥
त्रयोदशाक्षरं विद्धि ततोन्यमवधारय ।
पदमिन्द्रियकोशाय इष्वस्त्राय दशाक्षरम् ॥ 418॥

[[363]] कल्पान्तानिलघोषाय विद्युल्लसित वै पदम् ।
प्रभाय षोडशार्णं तु नवाक्षरमतश्शृणु ॥ 419॥
महामायापदं दद्याद्बन्धवर्णद्वयं ततः ।
धवसिने पदमादय एतत्सङ्ख्यं परं शृणु ॥ 420॥
सर्वास्त्रग्रसनादाय पराय तदनन्तरम् ।
सन्तापकाय शदं तु दर्पविध्वंसिने ततः ॥ 421॥
एकादशाक्षरंविद्धि नवाक्षरमथोच्यते ।
अज्ञानखण्डनपदं पराय तदनन्तरम् ॥ 422॥
त्रैलोक्यमोहनपदं मूर्तये तु नवाक्सरम् ।
सर्वाकर्षणकरपदं महामायामयेति वै ॥ 423॥
द्वादशाक्षरसङ्ख्यस्तु नवाक्षरमथोद्धरेत् ।
प्रागखण्डितश्ब्दन्तु तदन्ते विनियोज्य च ॥ 424॥
पराक्रमाय शब्दं तु सप्ताक्षरमतश्शृणु ।
दर्पप्रशमकर्त्रे तु पञ्चार्णं विनिबोध वै ॥ 425॥
तेजोमालिनि चेत्येते द्वाविंशत्यनुकीर्तिताः ।
प्राग्वदाद्यन्तसंरुद्धा स्वनामपद्भूषिताः ॥ 426॥
सङ्ख्यानिष्ठाक्षरस्यान्ते दद्यात्सञ्ज्ञापदं सदा ।
चक्रवच्चास्त्रमन्त्राणां कुर्यान्नामावसानकम् ॥ 427॥
क्रमाच्चतुर्दशानान्तु शक्त्यन्तानां च षट्पदम् ।
अथ वक्ष्ये नृसिंहस्य विश्वत्रातुर्मनूत्तमम् ॥ 428॥
वर्णचक्रं तु पूर्वोक्तं सुगुप्ते वसुधातले ।
उपलिप्ते तु संलिख्य पूजयित्वा यथाविधि ॥ 429॥
समुद्धरेत्ततो मन्त्रमनेकाद्भुतविक्रमम् ।
प्रणवं पूर्वमादाय तदन्ते विनियोज्य च ॥ 430॥
नवमं नाभिवर्णेभ्यस्तदूर्ध्वेराच्चतुर्दशम् ।
तस्योपरि तदन्तस्थवर्णं गोळकवन्यसेत् ॥ 431॥
नमोऽन्तवर्णमेतद्वै वाचकं परमात्मनः ।
ज्ञानादयो गुणाष्षड्भ्यः प्रागुक्ता हृदयादयः ॥ 432॥
तदर्थमेव वर्णं तं षोढा संलिख्य केवलम् ।
द्वितीयतुर्यषष्ठैश्च द्वादशेनान्तिमेन च ॥ 433॥
चतुर्दशेनाराद्वर्गात्क्रमाद्वै विनियोजयेत् ।
बीजवाच्छिरसा सर्वान् लाञ्छयेत्पञ्चमं विना ॥ 434॥
सर्वेषां प्रणवं पूर्वं स्वसञ्ज्ञान्ते नियोज्य च ।
स्वक्रिया जातयश्चान्ते वौषडन्ताः क्रमेण तु ॥ 435॥
ॐ नमो भगवते नारसिंहायेत्यनेन तु ।
द्वादशाक्षरमन्त्रेण स्मृत्वा विग्रहवत्पुरा ॥ 436।
सबाह्याभ्यन्तरस्थेन साङ्गेनाद्येन पूजयेत् ॥
इति यां मन्त्रोद्धारविधिर्नाम त्रयोविंशोध्यायः ।