२२

[[339]] अथ द्वाविंशोऽध्यायः 22 - नियम विधानम्

मुनयः नियमा उपदेष्टव्याः शिष्यस्येति पुरा त्वया ।
प्रोक्तं हि मुनिशार्दूल! नियमांस्तान् प्रकाशय । 1 ।
नारदः एतदेव पुरा पृष्टो देवः सङ्कर्षणेन हि ।
प्रोवाच नियमांस्तास्तु प्रवक्ष्यामि मुनीश्वराः । 2 ।
श्रीभगवान्

प्रत्येकस्मिन् हि नियमे निर्गते तु गुरोर्मुखात् ।
ब्रूयाद्वै बाढमित्येवं शिष्यःशोकाग्निशान्तये । 3 ।
नाक्रम्या गौरवी च्छाया दैवी यानगता त्वपि ।
ग़ुरुवद्गुरुवर्गश्च द्रष्टव्यो नित्यमेव हि । 4 ।
शयनासनयानाद्यं तदीयमभिवन्दयेत् ।
अतन्द्रितः सदा कुर्याद्व्यापारं तद्गृहेऽखिलम् । 5 ।
नासने तत्समक्षं च योगाभ्यासाश्च धारणा ।
सुयन्त्रितः संयतवाक्तदाज्ञासम्प्रतीक्षकः । 6 ।
तत्सन्निधौ तु नान्येषां प्रत्युत्थानं समाचरेत् ।
कुर्यात्संशयविच्छित्तिं न तदादेशतो विना । 7 ।
व्याख्यानमागमानां च योगाभ्यासश्च धारणा ।
अवश्यकार्याण्येतानि स्वगृहे न गुरोर्गृहे । 8 ।
न शङ्खचक्रपद्माङ्के भोक्तव्यं भाजने तु वै ।
तल्लक्ष्म चोपलं काष्ठं लोष्टं वा फलकादिकम् । 9 ।
क्रमणीयं न पादेन कल्प्यं नैवासनार्थतः ।
भगवच्छासनज्ञानमाराधनरतात्मनाम् । 10 ।
यथोचिता यथाशक्ति पूजा कार्या सदैव हि ।
प्रासादं देवदेवीयमाचार्यं पाञ्चरात्रिकम् । 11 ।
अश्वत्थं च वटं धेनुं सत्समूहं गुरोर्गृहम् ।
दूरात्प्रदक्षिणाकुर्यान्निकटे प्रतिमां विभोः । 12 ।
दण्डवत्प्रणिपातैस्तु नमस्कुर्याच्चतुर्दिशम् ।
न यानपादुकारूढो न सोपानहपादभृत् । 13 ।
न विक्षिप्तमाना भूत्वा संविशेद्भगवद्गृहम् ।
न व्याख्यावसरे कुर्यात्प्रत्युत्थानाभिवादने । 14 ।
नाभक्तानां न मूर्खाणां नास्तिकानां विशेषतः ।
दातव्यः सम्प्रदेयश्च नोपहासरतात्मनाम् । 15 ।
नापूजितं समुद्घाट्यं शासनं परमेश्वरम् ।
समक्षं नान्यभक्तानां न तत्सन्देहशान्तये । 16 ।
प्रकाशनीयं तल्लोभान्न चान्येन नोभयात् ।
सुगन्धफलपुष्पाद्यमपूर्वमुचितं च यत् । 17 ।
अभोज्यं गुरुदेवाग्नि विनिवेदितवर्जितम् ।

[[340]] तस्करात्पतिताच्चण्डाद्दम्भ लोभमदान्वितात् । 18 ।
मात्रावित्तं न गृह्णीयादभक्तादुपचारतः ।
गृहीत्वा भगवद्बिम्बं वृत्यर्थमटतीति यः ।
नगरापणवीधीनां तस्य देवलकस्य च ।
दर्शनं स्पर्शनं नैव कुर्यात्सम्भाषनं तथा । 20 ।
गायेत्तु भगवद्गाधां यो ग्रामे नगरान्तरे ।
तं प्रभुस्तावकं चैव पूजयेच्चैव सर्वदा । 21 ।
विष्णुव्रतपरं चैव विष्ण्वायतनवासिनम् ।
विष्ण्वालापकथासक्त् ं विष्ण्वायतनमार्जकम् । 22 ।
श्रावकं वैष्णवानां च विष्णुधर्मपरायणम् ।
पुर्येष्टिकृद्वैष्णवानां मान्यो वै विष्णुवत्सदा । 23 ।
प्रातरुत्थाय चिन्वीयात्स्वारामात्स्वयमेव हि ।
पूजार्थमस्त्रमन्त्रेण पुष्पादीन् प्रयतःसदा । 24 ।
यायादरण्यमथ वा निर्बाधं हि तदार्जने ।
अकण्टकद्रुमोत्थाश्च कण्टकद्रुमजा अपि । 25 ।
हृद्याः सुगन्धाः कर्मण्या ग्राह्याः सर्वे सितादयः ।
उग्रगन्धाः ह्यकर्मण्यास्त्वप्रसिद्धास्तथैव च । 26 ।
चतुष्पथशिवावासश्मशानावनि मध्यगाः ।
क्षता अशनिपाताद्यैः कृमिकीट समावृताः । 27 ।
वर्जनीयाः प्रयत्नेन पत्रपुष्पफलादयः ।
अम्बुजानि सुगन्धीनि सितरक्तादिकानि च । 28 ।
योक्तव्यानि पवित्राणि नित्यमाराधने तु वै ।
साङ्कुराणि च पात्राणि भूगतान्येवमेव हि । 29 ।
विहितान्यर्चनेनित्यं यथर्तुप्रभवानि च ।
न गृहे करवीरोत्थैः कुसुमैरर्चनं हितम् । 30 ।
विशेषतः सकामस्य सिद्धिभूति युतस्य च ।
अतोन्यथा न दोषोस्ति दोष उन्मत्तकादिभिः । 31 ।
सद्योहृतानां विहितःस्वम्लानानां यथाक्रयः ।
प्रधानमम्बुसिक्तानां तेषां कुर्यान्नचान्यथा । 32 ।
निर्दोषतां त्रयान्त्याशु मन्त्रिणामवलोकनात् ।
भवन्ति भक्ति पूतानि हृन्मन्त्रनिरतात्मनाम् । 33 ।
न कांस्यपात्रे भोक्तव्यं न तत्र विनिवेदयेत् ।
देवायमधुपर्काद्यं तथा वै सति सम्भवे । 34 ।
मृण्मयायसपा॑त्राणां न धूपमपि निर्दहेत् ।
धूपार्थं गुग्गुलुः साज्यो देयश्चाभावतोपरः । 35 ।
सह घण्टारवैणैव दीपार्थं परिवर्जयेत् ।
मेधो मज्जातसीतैलं घृतं तैलविमिश्रितम् । 36 ।
नाविकं मधुपर्कार्थे दधिक्षीराधिकं शुभम् ।
कौलस्थः कोद्रवः कृष्णः शाल्युत्तो नोदनो हितः । 37
नापक्वान्नं न मांसं च आरनाळविभावितम् ।
न चाराधनकाले तु समुत्थिष्ठेत्वरान्वितः । 38 ।
आसमाप्तिक्रियां चैव उपरोधेण केनचित् ।

[[341]] आधारात्भगवद्बिम्बाद् भद्रपीठान्मलच्युतिः । 39 ।
न कार्या कण्टकैर्लोहैर्मृदुकूर्चादिना विना ।
न स्नायान्न स्वपेन्नग्नो न मौनञ्चाचरेद्गुरौ । 40 ।
नोच्छिष्टं संस्पृशेत्किञ्चिन्नाश्नीयाद्भगवद्गॄहे ।
सन्निकर्षणसाग्नेस्तु न गॄहे मध्य सङ्करे । 41 ।
भक्तानां कृत दीक्षाणां व्यङ्ग्यः शास्त्रार्थ एव हि ।
अन्येषां धर्मशास्त्रं च लोभनिर्मुक्तया धिया । 42 ।
शिष्याणां विष्णुभक्तानां नित्यं कुर्याच्च सङ्ग्रहम् ।
मानमात्सर्यकार्पण्य लोपमोहादयो गुणाः । 43 ।
नेतव्यास्तानवं सर्वे यावज्जीवावधिं क्रमात् ।
अकस्मादुपपन्नानां देशान्तरनिवासिनाम् । 44 ।
इष्टोपदेशः कर्तव्यो नारायणरथात्मनाम् ।
यो न वेत्याच्युतं तत्वं पाञ्चरात्रार्थमेव च । 45 ।
तथा च वैष्णवीं दीक्षां नानाशास्त्रोक्तलक्षणाम् ।
नानेन सहसम्बन्धः कार्योभिन्नःक्रमेण तु । 46 ।
शास्त्रार्थस्य शास्त्राणां बुद्धिपूर्व उपप्लवः ।
आचर्तव्यम् इहाज्ञानात्पारम्पर्यक्रमं विना । 47 ।
प्रष्टव्यो भगवद्भक्त आप्तो लक्षणकोविदः ।
प्रसिद्ध आर्जवे वृद्धो नष्टं शास्त्रार्थलक्षणम् । 48 ।
मुद्रामण्डलमन्त्राणां निस्सन्देह परेण च ।
भवितव्यं गुरूणां च सकाशात्सर्वदैव हि । 49 ।
न च सर्वज्ञमन्त्राणां विनाभावांशकेन तु ।
आनुकूल्यं गवेष्टव्यं मुक्त्वा मण्डलदर्शनात् । 50 ।
नाभिचक्रे तु हृत्पद्मे कन्दमूले गळावटे ।
भ्रूमध्ये ब्रह्मरन्द्रे च स्थानेष्वेतेषु मन्त्रराट् । 51 ।
स्मर्तव्यसूर्यङ्काशः प्रवासे शयनेध्वनि ।
मृगसूकरमांसानि नाद्यान्मीनोत्थितानि च । 52 ।
नाहंसकच्छपीयानि न शृङ्गाटफलानि च ।
न तथा पद्मबीजानि न वटाग्रं समारुहेत् । 53 ।
छेद्यमानं न तं पश्येत्तद्दळं वाङ्घ्रिणा स्पृशेत् ।
पुण्यक्षेत्रे महातीर्थं सिद्धाश्रममनुत्तमम् । 54 ।
वैष्णवीं पर्षदं चापि व्यक्तिस्थानं तथाच्युतम् ।
आसाद्य मण्डलं कृत्वा चक्रं वा द्वादशारकम् । 55 ।
निर्वहणीयं विधिवच्चातुर्मास्यं महामते! ।
गृहे संयमपूर्वं वा चक्रं कृत्वा तु कुड्यगम् । 56 ।
चतुर्विधेन रजसा प्रतिमाया अथाग्रतः ।
संयुक्तानपि पूर्वोक्तैरेतांश्च समयान् सदा । 57 ।
निर्वाहकाणां भक्तानां प्रयच्छेत्सततं गुरुः ।
ज्ञात्वा निर्वाहकं भक्तं तस्यादौ देशिकेन तु । 58 ।
समुद्दिश्याश्च ते सर्वे निर्वहत्यथ येषु च ।
तेषु तेषु नियोक्तव्यो यथा न च्यवते पुनः । 59 ।
धावन्ति समयस्थस्य सविघ्नाः सविनाशकाः ।

[[342]] विमुखा सिद्धये यान्ति ह्यापदो हि भवन्तिच । 60 ।
ज्ञात्वैवं सावधानेन भवितव्यं हि तां प्रति ।
सारमादाय वै बुद्ध्या निर्मथ्य नियमोदधिम् । 61 ।
कृपया गुरुणा देवमशठानां च पावकम् ।
भक्तिरग्नौ गुरौ मन्त्रे शास्त्रे तदधिकारिणी । 62 ।
नियतं पञ्चकस्यास्य यथावत्परिपालनात् ।
अनुष्ठानात्तु नान्येषां स्वतन्त्रेण यथेच्छया । 63 ।
भक्तानां मनसोभीष्टाः प्रवर्तन्ते हि सिद्धयः ।
येऽनिर्मलेन मनसा उपरोधात्तु कुर्वते । 64 ।
पालनं समयानां च ते मज्जत्यसितेध्वनि ।
सुप्रसन्नेन मनसा यथैतत्परिपाल्यते । 65 ।
तथा प्रसादमभ्येति स्व आत्मा तु हितैषिणाम् ।
नूनं कालुष्यमुक्तानां स्थितानामिह सत्पथे । 66 ।
समयी साधकाचार्य पुत्राणां भवेच्छुभम् ।
इत्येवमुक्ता नियमा इतः किं श्रोतुमिच्छथ । 67 ।
इति यां नियमविधानं नाम द्वाविंशोऽध्यायः