२१

अथ एकविंशोऽध्यायः 21 – दीक्षा विधिः
मुनयः भगवन्मुनिशार्दूल सर्वज्ञ वदतां वर! ।
अदीक्षितानां पूजादौ प्रागुक्तानधिकारिता । 1 ।
तस्माद्दीक्षाविधिं सम्यग्वदस्व मुनिपुङ्गव! ।
नारदः- शृणुध्वं मुनयः सर्वे भवन्ति भगवन्मयाः । 2 ।
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा मुनिपुङ्गवाः! ।
पूर्वोक्तलक्षणो ज्ञातः कश्चिद्धृढतरः पुमान् । 3 ।
संसारभयभीतस्तु निर्वाणमभिवाञ्छति ।
वैराग्यधीरचपलश्चिरकालं गुरोर्गृहे । 4 ।
संस्थितोदासभावेन खेदोद्वेगविवर्जितः ।
ज्ञात्वा तस्यार्थितं नूनमाहूयाग्रे निवेश्य च । 5 ।
कृताकृतं च प्रष्टव्यम् आजनेस्तत्क्षणावधि ।
ज्ञात्वा दोषबलं सम्यक्प्रायश्चित्तैर्यथोदितैः । 6 ।
कृच्छ्रातिकृच्छ्रपूर्वैस्तु छेदनीयं प्रयत्नतः ।
बहूनां परिपीढानामसामर्थ्यात्तु लाङ्गलिन् ! । 7 ।

[[311]] मनः प्रसादपर्यन्तं कालं वा द्वादशाह्निकम् ।
नियोक्तव्यो मिते पूतेऽयाचिते नक्तभोजने । 8 ।
स्तुतिसम्मार्जनस्नान पुष्पाद्याहरणोद्यमे ।
आश्रमे वैष्णवानां तु दिव्याद्यायतने विभोः । 9 ।
अनिशं भगवद्बिम्बस्यापीठादवलोकने ।
अभिजाततनुर्यः प्राग्दुष्कृतैर्मलिनीकृतः । 10 ।
साम्प्रतं भगवद्भक्त्या पवित्रीकृतमानसः ।
अहोरात्रोषितो भूत्वा नखकेशादिलुण्ठितः । 11 ।
पञ्चगव्यमथापाद्य हृदाद्यैः सुकुशोदकम् ।
मन्त्रैस्तद्वासुदेवाद्यैः समावर्त्य चतुश्शतम् । 12 ।
एवं दिनचतुष्कं तु स्नापयेत्तेन तं सुधीः ।
प्रत्यहं चतुरो वारानाप्रभातान्निशागमम् । 13 ।
ब्रह्मतीर्थचतुष्कं त्वापूर्यापूर्य समं पिबेत् ।
क्रमात्सञ्चोदितैर्मन्त्रैः समाचम्यान्तरान्तरा । 14 ।
अतृप्तमशनं कुर्यादन्ते क्षीराज्यभावितम् ।
सेवयेत्फलमूलैर्वा अहोरात्रचतुष्टयम् । 15 ।
इति भक्त्या प्रपन्नानामाजीवमपि दुष्कृतात् ।
कथितं विरतानां च देहशुद्धिककरं परम् । 16 ।
ब्रह्मकूर्चसमेतं तु प्रायश्चित्तं मयाद्य ते ।
ज्ञात्वा महत्त्वं दोषाणां त्रिविधानां तु वै पुरा । 17 ।
सम्भवे सति होमादिदानं सततमाचरेत् ।
पूर्वोक्ताद्द्विहितात्कालाल्लघुदुष्कृतिनां क्रमात् । 18
चतुर्थांशेन ह्रासस्तु ब्रह्मकूर्चं पिबेत्ततः ।
कालेन वर्णोत्कर्षेण सह सामान्यमुच्यते । 19 ।
प्रायश्चित्तं हि सर्वेषां सर्वकल्मषनाशनम् ।
उत्तरोत्तरतां बुध्वा प्रथमं दुष्कृतस्य च । 20 ।
क्षपयेत्तद्विजेन्द्रस्तु मासैर्द्वित्रिचतुर्गुणैः ।
नृपविट्छूद्रजातीय एकैकं वर्धयेत्क्रमात् । 21 ।
मासमेकादिकान् कालान् समारभ्य यथाक्रमात् ।
दुराचारोपि सर्वाशी कृतघ्नो नास्तिकः पुरा । 22 ।
समाश्रयेदादिदेवं श्रद्धया शरणं यदि ।
निर्दोषं विद्धि तं जन्तुं प्रभावात्परमात्मनः । 23 ।
किं पुनर्योनुतापार्तः शासनेस्मिन् हि संस्थितः ।
विरतः कुकृताच्चैव भक्तिच्छायां समाश्रितः । 24 ।
एवं संशुद्धदोषाणां बहुजन्मार्जितस्य च ।
कल्मषस्य विघातार्थं नारसिंहीं महामते! । 25 ।
कृत्वा वै साम्प्रतं दीक्षां दद्याद्वै मन्त्रपूर्वकम् ।
आराधनं हि तस्यैव वैभवीयस्य वै विभोः । 26 ।
सबाह्याभ्यन्तरं चैव संयम्मासचतुष्टयम् ।
मासाष्टकं वत्सरं वा बुध्या भावबलम् पुरा । 27 ।
ज्ञात्वा भव्याशयानां च प्रासादं पारमेश्वरम् ।
विभवव्यूहसूक्ष्माख्यां दीक्षां कुर्यात्तदन्तरम् । 28 ।

[[312]] अथ दीक्षाविधिं वक्ष्ये शृणुध्वं मुनिसत्तमाः ! ।
सम्प्राप्तप्रत्ययानां च द्विजादीनां च साम्प्रतम् । 29 ।
संयक्प्रक्षीणपापानामारूढानामिह क्रमे ।
शुभेऽनुकूले नक्षत्रे तिथौ लग्ने शुभे क्षणे । 30 ।
भक्तानामधिवासार्थं क्ष्मापरिग्रहमाचरेत् ।
पुण्यदेशेऽनुकूले च मनोज्ञे साधुसेविते । 31 ।
तत्र वर्णानुरूपं क्ष्मां भजेत्पूर्वोक्तलक्षणाम् ।
सर्वदोष विनिर्मुक्तां सत्पक्षिमृगसेविताम् । 32 ।
या शुभायतनोद्देशे मठगोष्ठापणैगृहैः।
तोयाश्रयाश्रमक्षेत्रैः सद्वृत्तैरन्तरीकृता । 34 ।
जलाद्भयविनिर्मुक्ता बलाद्भुक्ता च सज्जनैः ।
वनैरुपवनैर्ग्रामैः नगराङ्गैः समावृता । 35 ।
अलाभे सति लाभे वा स्वभूमेर्ब्राह्मणादिषु ।
स्वमन्त्रेणार्चनात्स्वत्स्वं कुर्याद्वर्णव्यपेक्षया । 36 ।
उद्धृतां कृतखातां च ज्ञात्वा दोषान्वितां पुरा ।
शुभमृत्पूरितां कृत्वा लघ्वश्मभिरथान्तरात् । 37 ।
ततश्च कूटयेत्पश्चात्पञ्चगव्येन सेचयेत् ।
युक्तां हेमादिसद्रत्नैः समीकृत्योपलिप्य च । 38 ।
तत्रार्चनं विभोःकुर्याद्धवनान्तं च पूर्ववत् ।
भूतानां बलिदानं च सुरभीणां च तर्पणम् । 39 ।
द्विजानां दक्षिणान्तं वै ततस्तत्र समापयेत् ।
प्राग्दिक्षु सिद्धिपूर्वं तु मण्टपं मण्डनान्वितम् । 40 ।
स्तम्भद्विद्वितयेनैव कोणकेनोपशोभितम् ।
पार्थिवेन च पीठेन मध्यगेन विराजितम् । 41 ।
विस्तारात्तु द्विजादीनां शूद्रान्तानां समं स्मृतम् ।
अष्टाश्रमथ वा वृत्तं तुर्याश्रं सोपपीठकम् । 42 ।
अष्टाङ्गुलसमुत्सेधादेकोपायेन लक्षितम् ।
स्वोन्नत्यर्थेनोपपीठं सर्वेषां परिकल्पयेत् । 43 ।
विस्तारमुपपीठानामुच्छ्रायाद्द्विगुणं समम् ।
उपपीठस्य संलग्नात्तन्मानेन तु चोन्नता । 44 ।
आप्यदिक्स्थागृहस्था च सम्पाद्यासनपिण्डिका ।
नैवेद्यमुपपीठे तु विनिवेश्य निधाय च । 45 ।
तस्य दक्षिणदिग्भागे त्वन्तर्गमनसंयुतम् ।
विविक्ते लोचनोपेतं पिण्डिकाकुण्डभूषितम् । 46 ।
सकवाटार्गळोपेतं कुर्याद्धवनमण्टपम् ।
उपलिप्यास्त्रजप्तेन वारिणा गोमयेन तु । 47 ।
विधिवच्छोभनं कुर्यादित्येवं मण्टपद्वयम् ।
विहितो वित्तविरहादधिवासो द्विजालये । 48 ।
शैष्ये वाचार्यभवने तत्र कुर्यात्परिग्रहम् ।
प्राग्वदर्चनपूर्वं तु भूततर्पणपश्चिमम् । 49 ।
ओदनं दधिलाजाज्यमधुतोयपरिप्लुतम् ।
भूततर्पणमित्युक्तं तद्विना तत्र तेऽनिशम् । 50 ।

[[313]] सन्तिष्ठन्ते बहिः क्रुद्धाः काङ्क्षमाणाः परं पदम् ।
अथश्च विहितं यत्नात् स्थाने क्षेत्रीकृते सति । 51 ।
निर्विघ्नसिद्धये दद्याद्बलिं सर्वत्र सर्वदा ।
कृत्वैवं मङ्गळार्थं तु दीर्घघण्टारवोपमम् । 52 ।
स्वपदात्प्राग्वदुत्थाप्य प्रोच्चार्य प्रणवं महत् ।
प्रवेशयेत्ततस्तस्माद् लाजान् सिद्धार्थकान् शुभान् फलानि श्रीफलादीनि चन्दनादीनि रोचनाम् ।
श्वेतपूर्वाः सुमनसस्तन्महीरुह मञ्जरीम् । 54 ।
साग्रान् हरितदर्भांश्च सर्वरत्नानि काञ्चनम् ।
सर्वौषधीत्वगेलाद्यं सुगन्धीनिचयं शुभम् । 55 ।
पद्मकं शङ्खपुष्पं च विष्णुक्रान्तां च समानि षट् । 56
शालिश्यामाकनीवारतण्डुलं भूरि सम्भृतम् ।
गोसम्भवानि वै पञ्च पत्रेष्वौदुम्बरेषु च । 57 ।
तत्स्राववर्जितान्यानि तान्येव सबहून्यपि ।
प्रतिक्षणोपयोगार्थं भाण्डेष्वभिनवेषु च । 58 ।
पाद्याचमनमर्घ्यार्थं दध्यन्तं विनिवेदने ।
हेमाद्युत्थानि पात्राणि मृदुपर्णपुटानि वा । 59 ।
पाण्डुराणि दुकूलानि वस्त्रयुग्मद्वयं नवम् ।
उपवीतं सोत्तरीयं सुसिते धौतवाससी । 60 ।
कौशेयानि पवित्राणि कङ्कणं साङ्गुलीयकम् ।
स्फाटिकं चाक्षसूत्रं तु पद्माक्षन्तु गणित्रकम् । 61 ।
पञ्चलोहमयं चक्रं सशङ्खं द्वादशारकम् ।
कुतपं योगपट्टं च नेत्रवस्त्रं मृगाजिनम् । 61 ।
ब्रुसिकं शाटकं पट्टं पादुके च उपानहौ ।
दण्डम् प्रतिग्रहच्छत्रं चूर्णे गोधूमभाजने । 63 ।
चतुर्वर्णानिमाल्यानि सुन्दरं पावनं लघु ।
नीलशाड्वलसम्मिश्रं हरितं पत्रसञ्चयम् । 64 ।
गुग्गुळं मृष्टधूपं च दीपतैलं च वर्तयः ।
दर्पणं धूपपात्रं च घण्टां कूर्चं च दर्भजम् । 65 ।
रजांसि करणीयुग्मं पालिकां घटिकां सिताम् ।
पञ्चाङ्गुलं तु सुदृढं हेमाद्यं कुशपञ्चकम् । 66 ।
अलक्तरञ्जितं सूत्रं सुसितं कर्तरीक्षुरम् ।
काण्डान्यष्टौ तु साग्राणि बर्हिपक्षान्वितानि च । 67 ।
प्रोन्नतानि स्थिरास्थीनि लोहमृत्काष्टजानि वा ।
रञ्जितानि सुधाद्यैस्तु तदाधाराणि यानि च । 68 ।
मल्लकान्यम्बुकुम्भानि भृङ्गारकरवीं शुभाम् ।
अकाममूलं निर्दाहं साधारं कलशं तथा । 69 ।
स्थालीकमण्डलुं दर्वीं तत्पिधानं तु चुल्लिकाम् ।
भद्रपीठं चतुष्पादं चतुरश्रायतं नवम् । 77 ।
मात्रावित्तं सताम्बूलं दन्तधावनसञ्चयम् ।
शुष्कगोमयसंयुक्तामरणीं चाग्निदं मणिम् । 71 ।
पलाशपूर्वाः समिधः साग्राः परिधयस्तु वै ।
प्रभूतमिन्धनं शुष्कमाज्याक्तं तिलतण्डुलम् । 72 ।

[[314]] प्रागुक्तं स्रुक्स्रुवाद्यं च होमोपकरणं च यत् ।
सर्वं पक्ष्मकपर्यन्तं बृहत्पात्रद्वयान्वितम् । 76 ।
पूर्वोक्तानां च भोगानां मध्याद्यस्थण्डिलार्चने ।
संयाति चाङ्गभावं तज् ज्ञात्वा सर्वं प्रवेशयेत् । 74 ।
अधिवासदिनात्पूर्वदिने कृत्वाङ्कुरार्पणम् ।
अधिवासदिने पूर्वं कृत्वा वै कौतुकं शिशोः । 75 ।
अनुग्रहधियाचार्यो भक्तानां भाविनां विभोः ।
दिव्यभोगफलेप्सूनां निश्रेयसपदार्थिनाम् । 76 ।
प्रत्येकैकं हि यागाङ्गं वर्धयेद्दिव्यमूर्तिना ।
नित्येनाव्यक्ततत्वेन सन्मन्त्रब्राह्मणा सह । 77 ।
स्वात्मकर्मद्रुमद्रव्यं मन्त्रव्यूहं यथागमम् ।
फलदं स्यात्सकामानामकामानां हि मोक्षदम् । 78 ।
सहसा यस्ततस्तत्र प्राग्वत्स्नात्वा कृताह्निकः ।
सम्प्रविश्याप्यदिक्संस्थः प्राम्मुखः प्रविशेत्ततः । 79 ।
पद्मासनादिना मार्गे चर्मण्यास्याप्रपूर्वकम् ।
कुर्याद्यदधिकारेण मन्त्रेणानुग्रहं शिशोः । 80 ।
तेनाङ्गसहितेनैव सर्वकर्मसमाचरेत् ।
समस्तवैभवैर्मन्त्रैः कार्यो वानुग्रहो यदि । 81 ।
सर्वाराधनदानार्थं द्विषट्कावाप्तये तदा ।
विशाखयूपमन्त्रेण कुर्यात्तदावरणद्वयम् । 82 ।
तद्बीजेन तनुं व्याप्य प्राग्वत्तदभिमन्त्रितैः ।
पुराहृतैर्यथाशक्ति मण्डलं च समाचरेत् । 83 ।
प्राक्समालभनैर्वस्त्रैः कटकाद्यङ्गुळीयकैः ।
सितोष्णीष महता सितमाल्येन वै सह । 84 ।
मुखवासैस्सताम्बूलैर्ललाट तिलकेन च ।
कृत्वा शुभेन शारीरं योगपट्टेन संस्थितम् । 85 ।
हृत्पुण्डरीकमध्ये तु सन्न्यसेद्बीजमैश्वरम् ।
करयोः पद्मनाभीयं ध्रुवाख्यमथ विग्रहे । 86 ।
शेषैरालभ्य पादान्तमामूर्ध्नश्चापि पूर्ववत् ।
हस्तयोर्विग्रहे साङ्गं विन्यसेद्बीजमैश्वरम् । 87 ।
मुद्रावसानं कृत्वैवं सम्यक्तदनु चाहरेत् ।
पाणिभ्यां शङ्खचक्रे द्वे स्वमन्त्रेणाभिमन्त्रिते । 88 ।
भूत्वा तदात्मना पश्चात्तौ निधाय धरणीतले ।
अवलोक्याखिलं तत्स्थं प्रवर्तेताथ कर्मणि । 89 ।
अस्त्रमन्त्राभिमन्त्रितं कृत्वा कर्मागारान्तरे स्थितः
तेनोपलिप्य सम्मार्ज्य यागस्थानं निघृष्य च ।
तद्ब्रह्माख्यवयो भूयस्तेजसो अभिवृद्धये ।
हेमपूर्वाणि रत्नानि बीजानि विनिवेश्य च । 91 ।
प्राग्वदर्घ्यादि पात्राणि परिकल्प्य यथाविधि ।
मुख्यार्घ्यवारिणा प्रोक्ष्य पृथग्भाण्डस्थितं पुरा । 92 ।
पञ्चगव्यं ततः प्राग्वत्कल्पनीयं हृदादिकैः ।
कुशोदकं तदस्त्रेण दत्वाद्येनाभिमन्त्य च ।

[[315]] अथ पाणिद्वयेनैव अग्नीषोमात्मकेन च ।
योग्यतापदवीं नीत्वा प्रोक्षयेद्यत्पुराहृतम् । 94 ।
साम्भसा तेन वै सर्वं विष्टराग्रगतैः कुशैः ।
सर्वबीजानि धान्यानि सिद्धार्थकयुतानि च । 95 ।
कृत्वास्त्र परिजप्तानि ध्यात्वा चास्त्रसमानि च ।
विघ्नोपशान्तये योगाद्दशदिक्षु विनिक्षिपेत् । 96 ।
संहृत्य बर्हिकूर्चेन प्राच्यां दिशिं निधाय वै ।
तद्गर्भीकृत्य सम्लिख्य हेतिराट् चन्दनादिना । 97 ।
करकं कुम्भसंयुक्तमलङ्कृत्य यथापुरा ।
भोगैः प्रावरनान्तैश्च मूर्तिभूतौ विचिन्त्य च । 98 ।
अस्त्रमन्त्रं तु तन्मध्ये ध्यात्वाभ्यर्च्य यथाविधि ।
ध्वंसयन्तं च विघ्नानां कालं कर्मावसानकम् । 99
हृदमभ्यर्थ्य भगवान् सास्त्रो बद्धाञ्जलिः स्थितः ।
यागालयं हि विश्वेश ! गृहाण रचितं मया । 100 ।
आसमाप्तेर्भज विभो ! क्रियाङ्गानां च सन्निधिम् ।
तदस्त्रोदकधारां चाप्यच्छिन्नां भित्तिगां नयेत् । 101 ।
प्रादक्षिण्येन प्राग्भागात्तत्पादान्तं च संस्मरेत् ।
तन्निधायाथ कुम्भेन सह कुर्यात्प्रदक्षिणम् । 102 ।
अर्घ्यदानं तयोः कृत्वा प्राग्भागे विकिरोर्ध्वगम् ।
पूजितं वाससा च्छन्नं चक्रमन्त्राभिमन्त्रितम् । 103 ।
निदद्याद्भद्रपीठं तु तत्राधारगतं न्यसेत् ।
सास्त्रं हि मन्त्रकलशमर्चयित्वा प्रणम्य च । 104 ।
दिगीश्वरगणां दिक्षु पूर्वोक्तं विन्यसेत्ततः ।
निरोधं सार्चनं तेषां कृत्वास्त्रेण हृदा सह । 105 ।
प्रणवेन स्वनाम्ना च नमस्कारानुगेन वै ।
तोरणध्वजपूर्वाणां कार्यमर्घ्यादिनार्चनम् । 106 ।
ततो हवनभूमध्ये ध्यात्वा पीठं पुरोदितम् ।
तत्रार्चनं विभो कुर्यात्प्राग्वत्कुण्डे तु पूजिते ।
ततस्तु भगवद्भूतान् क्षेत्रनाथसमन्वितान् । 108 ।
अर्घ्यपुष्पादिनाभ्यर्च्य बलिमादाय पात्रगम् ।
इदमुक्त्वा च तदनु क्षिपेद्यागगृहाद्बहिः । 109 ।
ये विष्णुभाविनो भूता ये च तेष्वनुयायिनः ।
आहरं तु बलिं तुष्टाः प्रयच्छन्तु शुभं मम । 110 । * प्रक्षाळिताङ्घ्रिस्वाचान्तः संविशेद्यागमन्दिरम् ।
अग्निगेहेथ संस्कृत्य चुल्लीं प्राग्दिश्यवस्थिताम् । 111
पचनालयमुत्सृज्य स्वदेशात्कुण्डमध्यगाम् ।
स्थालीं चास्त्रेण सङ्क्षाल्य बाह्यतो गोमयादिना । 112
विलिप्यान्तस्सुगन्धैस्तु प्रताप्य ज्वलितैः कुशैः ।
सन्ताड्य कुसुमास्त्रेण सितसूत्रेण कण्ठतः । 113 ।
चतुर्धा वर्मजप्तेन सम्वेष्ट्यार्घ्यादिनार्च्य च ।
चुल्ल्यां कृत्वा समारोप्य तस्यां मधु घृतं पयः114
परिशुद्धे शृते क्षीरे त्वस्त्रेणारोप्य तण्डुलान् ।

[[316]] पाचयेन्मूलमन्त्रेण दृष्ट्वा नेत्रेण संस्कृतम् । 115 ।
हृदावतार्याभिघार्य शिखामन्त्रेण घट्टयेत् ।
शिरसालिप्य सङ्क्षाळ्य सुप्रसन्नेन वारिणा । 116 ।
भूतिना चन्दनाड्येन भूषयेदूर्ध्वपुण्ड्रकैः ।
विष्टरोपरि चान्यत्र निदध्यान्मण्डलान्तरे । 117 ।
होमं च सिद्धये कृत्वा पूर्णान्तमथ वै चरौ ।
आघारदानमाज्येन कुर्यात्तेजोमृतात्मकम् । 118 ।
ईशाब्जनाभरुद्धेन हंसार्णेन सबिन्दुना ।
तद्वद्वौषड्वषट्कार प्रणवद्वितयेन च । 119 ।
यतो विना भावितोत्र स्थितिर्द्वाभ्यां च साम्प्रतम् ।
अतः पुरोदितेनैव तदन्नं सम्पुटेन च । 120 ।
अत ऊर्ध्वं च सञ्छन्नं स्मरेदादाय वै हृदि ।
द्रव्यसम्पातहोमेथ पूर्णान्ते तु कृते सति । 121 ।
उद्धृत्याहुतियोगेन पात्रत्रयगतं तु यत् ।
स्थण्डिले कलशेग्नौ च विनियुज्य यथाविधि । 122 ।
तदाज्याभावितं शेषं कुशाक्रान्तं विघट्य च ।
क्रमान्मूलास्त्रनेत्रेण जुहुयाच्च शतत्रयम् । 123 ।
नीत्वा सम्पूर्णभावं च पूर्णया पुनरेव हि ।
ततश्चोत्तरदिक्कुर्यान्मण्डलं गोमयादिना । 124 ।
प्राक्सान्तं विष्टरं तत्र दद्याद्दार्भं हृदन्तरे ।
तन्मध्ये विन्यसेच्छिष्यं समाङ्घ्रिं स्तब्धविग्रहम् 125
प्राम्मुखं यतवाक्चित्तवृत्तिरूपं धृताञ्जलिम् ।
अस्त्रेण पूर्ववत्कुर्यात्प्रोक्षणं तस्य चाम्भसा । 126 ।
तेनैव ताडयेन्मूर्ध्नि दीप्तिः सिद्धार्थकैस्तिलैः ।
अनादिवासनोत्थानां बन्धानां चालनाय च । 127
फडन्तेनाथ चास्त्रेण कुशाग्रेणाङ्घ्रिगोचरात् ।
समुल्लिख्य शिखान्तं च ऋज्वर्थं मार्गसन्ततेः128
जालवन्मन्त्रजालेन व्याप्तं स्मृत्वा च साम्प्रतम् ।
बध्नीयोन्नेत्रमन्त्रेण तस्य नेत्रे च वाससा । 129 ।
वस्वर्घ्यकुसुमैर्गन्धैः कृत्वा पूर्णाञ्जलिं पुरा ।
पाणिनादाय चाम्नेति निधायाग्रे स्थितं वटुम् …130 ।
प्रक्षेपयेद्देवधाम्नि नतमूर्ध्नाञ्जलिञ्चतम् ।
तस्योद्घाटितनेत्रस्य त्वदृष्टस्येतरैर्जनैः । 131 ।
कुशलाध्वनिविष्टस्य दृष्ट्वा वै भक्तिलक्षणम् ।
रोमाञ्चैत्सुक्यहर्षाड्यमानन्दाश्रु समन्वितम् । 132 ।
स प्रणामजयालाप दिक्प्रदक्षिणसम्युतम् ।
पूतान्तःकरणं बुध्वा योग्योयमिति भावयेत् । 133 ।
यदा तदाच्युताख्या यानुगृहीतो धिया तया ।
स्मरेद्दक्षिणपाणौ तु चक्राम्बुरुहमध्यगम् । 134 ।
प्रधानदेवताबृन्दं स्वे स्वे धाम्नि परे स्थितम् ।
स्वमरीचिगणेनैव द्योतयन्तं तु चाखिलम् । 135 ।
तेनाच्युतकरेणैव सोदकेनालभेत तम् ।

[[317]] पुष्पपूर्णाञ्जलौ पृष्ठे तस्य तत्त्रितयाश्रितम् । 136 ।
कृत्वा मन्त्रगणान्तं वै मोक्षविघ्नोपशान्तये ।
पुनरप्यर्चयेन्नीत्वा मन्त्रेण परमेश्वरम् । 137 ।
आधाराधेयभावेन बुद्ध्वान्तस्संस्थितं पुरा ।
क्ष्मादीनां बुद्धिनिष्ठानां वासनानां तथात्मनां

ततः कुर्याच्च विश्लेषं तेषां ध्यानार्चनादिना ।
आत्मसत्यं समाश्रित्य कर्मचक्रं हि वर्तते । 139 ।
तच्चक्रमवलम्ब्यास्ते बुद्धिनिष्ठं हि सप्तकम् ।
अज्ञानव्यापकत्वं च सुखदुःखनिवेदनम् । 140 ।
सर्वज्ञस्यात्मतत्वस्य कर्मचक्रावलम्बनात् ।
चपलं कर्मचक्रं तद्वर्धमानं सदैव हि । 141 ।
क्ष्माद्यमाधारमाश्रित्य तावदेवावतिष्ठते ।
यावत्स सर्वं शक्त्या वै कर्मात्मा न प्रबोधितः । 142 ।
प्रबुद्धस्तस्य संरोधं कर्तुं शक्नोति सर्वदा ।
मन्त्राराधनरूपेण ज्ञाननिष्ठेन कर्मणा । 143 ।
अतो य आश्रयः क्ष्माद्यस्त्वसाधारो हि पौरुषम् ।
नीरसञ्चोरिणीं भूतं कुर्यात्संस्थाप्य साम्प्रतम् । 144 ।
निर्मुक्ताचित्फलो येन कर्मवृक्षो विनश्यति ।
शुद्ध्यर्थमात्मनस्तस्मात्सर्वज्ञस्याग्रतः स्थले। 145 ।
भूतादिदेवमन्त्राणां कुर्याद्वै पूजनं क्रमात् ।
चित्तनुं विद्धि सामान्यं मन्त्रनाथैरधिष्ठितम् । 146 ।
क्ष्माध्वानं तु बुध्यन्तं ध्यात्वा षट्पत्रवत्पुरा ।
तत्र मध्येऽब्जनाभं च प्राग्भागे केसरोर्ध्वनम् । 147 ।
षट्कं तु विश्वरूपाद्यं क्ष्माधरान्तं तु विन्यसेत् ।
नीत्वा स्वनाम्ना आद्यर्णं क्ष्मान्तानां बीजतां गतम् ।
तेन तेषां दळान्तं प्राग्विन्यासं संस्मरेत्क्रमात् ।
क्ष्माबीजं च दळाग्रेषु मूलनिष्ठेषु सत्सु च । 149 ।
सर्वे सर्वेन्द्रियाधारमित्यभिन्नं पुरा ततः ।
चिन्वानः स्कन्दबृन्देन स्वभूतेनान्तरीकृतम् । 150 ।
उपर्युपरि योगेन बुध्यन्तं समुपस्थितम् ।
भेददृष्ट्या यजेत्सम्यग्भूयः संहारवर्त्मना । 151 ।
सवज्रं स्वेन बीजेन पीतं तुर्याश्रलक्षणम् ।
हेमाब्जभूषितं ध्यात्वा क्ष्मातत्वं तत्र मध्यतः । 152 ।
वाराहं सम्यजेन्मन्त्रं साङ्गं सावरणं क्रमात् ।
तत्कारणाश्रितं कृत्वा परिवारसमन्वितम् । 153 ।
अधस्तान्मण्डलोर्ध्वस्थमर्देन्दुसदृशं सितम् ।
पुरं पद्माङ्कितं स्मृत्वा सितपद्मोदरं महत् । 154 ।
सरश्शयं तदन्तस्थमभिसन्धाय संयजेत् ।
तेजोमयं तदूर्ध्वे तु त्रिकोणं भावयेत्पुरम् । 155 ।
रक्तज्वालागणाकीर्णं स्वस्तिकैरुपलाञ्छितम् ।
नृसिंहं पूजयेत्तत्र मध्ये रक्तच्छविं विभुम् । 156 ।
तस्योपर्यसितं वृत्तं पुरं तारागणाङ्कितम् ।

[[318]] स्मृत्वा नीलाम्बुजाक्रान्तं स्मरेत्तत्र खगासनम् । 157 ।
नीरूपं खं तदूर्ध्वे तु स्मरेच्छब्दैकलक्षणम् ।
ध्यायेत्तदन्तः सूर्याभं प्राग्वद्वर्णं तु पङ्कजम् । 158 ।
तत्र वागीश्वरं देवमभ्यर्च्य विधिवत्ततः ।
तत्कर्णिकोदराकाशे नानारत्नरुचिं ततः । 159 ।
संस्मरेत्कमलाकारं चित्तवृत्तिमयं तु यत् ।
यजेत्तन्मध्यगं विश्वरूपं तु मनसस्पतिम् । 160 ।
तदूर्ध्वेऽमृतगर्भं तु शीतांशुकरकोटिवत् ।
पद्मं स्वेनात्मनात्मानं धारयन्तं विभाव्य च । 161 ।
समभ्यर्च्यस्तदन्तस्थो ह्यब्जनाभो धियां पतिः ।
एवं गन्धरसरूपस्पर्शशब्दमनोधियाम् । 162 ।
क्रमेणाधीशसङ्घं तु अवतार्य पराद्यजेत् ।
अर्चयित्वार्चयित्वा च न्यसेत्तत्रैव तं पुनः । 163 ।
ये वर्णाभूतयोनीनां रश्मयः कमलोपमाः ।
संस्थितं सम्स्मरेत्तेषामस्मिन् शक्तौ तथागतम् । 164
अनादिवासनारूपां त्वभेदानात्मनि स्थिताम् ।
निश्शेषबीजैरभ्युत्थां पद्मनाभविधारिणीम् । 165 ।
निर्गतां वैषनम्यात्सर्वाद्वियुक्तां स्वामिना कृताम् ।
स्फुरद्रूपां परिभ्रष्टां निराधारां च संस्मरेत् । 166 ।
प्रणवेन समभ्यर्च्य दीक्षाकाले ह्युपस्थिते ।
साधिभूताधिदैवं च इष्ट्वैवं भूतसप्तकम् । 167 ।
स्वयमभ्यर्चयेत्पश्चाच्छिष्यमञ्जलिना च तम् ।
ततोऽग्नेः सन्निधिं गत्वा ध्यात्वा धामत्रयोपरि । 168
दक्षिणेनात्मनो दार्भविष्टरे चक्रमन्त्रिते ।
सकुशेन स्वहस्तेन दक्षिणं चरणं गुरोः । 169 ।
अवलम्ब्य समास्ते वै स्पर्शनाद्येकतात्मना ।
बीजेनाङ्घ्रिश्शिखान्तं च स्मरेत्तेजोमयं विभुम् । 170 ।
विश्लेषयन्तं सहसा ह्यनाद्युत्तमविग्रहम् ।
संसारचक्रं विविधं प्रेरकं दुःखवर्त्मनि । 171 ।
नाड्यैक्यमभिसन्धानमभिसन्धाय चेतसा ।
विश्लेषं कर्मणां तद्वद्वर्मणास्त्रेण होमयेत् । 172 ।
क्रमेण सघृतानां च तिलानां द्वादशाहुतिम् ।
अनुसन्धाय सम्पाद्यो मयायं वै परात्मनि । 173 ।
दद्यादाहुतिकाश्चाष्टौ मूलेन सघृताः पुरा ।
तदुत्तमाङ्गं संस्पृष्ट्वा स्रुवेणाज्यान्वितेन च । 174 ।
हुत्वा ज्ञानाय तेनैव भूयस्सर्वगुणात्मना ।
प्राक्सङ्ख्यमाचरेद्धोममन्तरान्तरयोगतः । 175 ।
अग्नेरुपादद्यात्सर्वं नेत्रान्तं ह्येवमेव हि ।
इति सम्पातहोमो वै सम्पन्ने सति जायते । 176 ।
कर्तव्यो मन्त्रमाहात्म्यात् संस्कारैर्निखिलैर्युतः।
साम्प्रतं शक्तिरादीनां गुणानामुत्तरत्र तु । 177 ।
विभोराराधनात्सम्यग्योग्याभ्यासाच्च भाजनम् ।

[[319]] कृते सम्पातहवने आज्येनाथ सकृत्सकृत् । 178 ।
मन्त्राणां तर्पणं कृत्वा सार्चनं श्रावयेद्विभुम् ।
अस्य कर्माख्यतत्वस्य कर्मबन्धं सवासनम् । 179 ।
तदनेकप्रकारं तु त्वच्छक्त्या स्तम्भितं मया ।
प्रायश्चित्तनिमित्तं तु जुहुयात्तदनन्तरम् । 180 ।
बीजेनान्तर्निरुद्धेन स्वाङ्गेनाहुतिकाष्टकम् ।
एतावता महाबुद्धेर्जन्तोर्जन्माश्रितस्य च । 181 ।
याति व्यामिश्ररूपस्य हेयरूपस्य सङ्क्षयः ।
मोक्षैकफलदो धर्म उपादेयस्त्वनन्तरम् । 182 ।
योसौ साम्मुख्यमायाति विविधस्तस्य चाच्युतः ।
येनन्तर्लीनमभ्येति ह्यज्ञानं सहसा क्षयम् । 183 ।
अथादायारुणं सूत्रं कृत्वानेकगुणं पुरा ।
निरीक्ष्य तं दृशा चास्त्रवारिणा परिशोधितम् । 184 ।
तदङ्गुष्ठावधिं यावच्छिखायाः सम्प्रसार्य च ।
संस्मरेत्सर्वदुःखानां सबन्धानां तदास्पदम् । 185 ।
संविश्य देवयानेन शिशुचैतन्यसन्निधिम् ।
हुम्फडन्तं च शिष्यस्य नाम च प्रणवादिकम् । 186 ।
हृन्मन्त्रसम्पुटस्थं च कृत्वा वै पितृवर्त्मना ।
आनीय सह सूत्रेण नयेन्नेत्रेण सांयताम् । 187 ।
अभ्यर्च्यार्घ्यादिनावेष्ट्य कवचेन महात्मना ।
ओं हुम् अदन्यै हुं स्वाहेत्यनेनाहुति सप्तकम् । 188 ।
हुत्वास्त्रमन्त्रजप्तेन सितेन रजसा ततः ।
सन्ताड्य शैशवं कायं विशेत्पादावधिं तथा । 189
विश्लेषयामुकं ब्रूयात्पदं वीर्यपदानुगम् ।
तं ज्ञानवाचकेनाथ त्वाद्यन्तेन विकृष्य च । 190 ।
स्वबुद्ध्यानुगतं कृत्वा ध्यात्वा नक्षत्रगोळवत् ।
सन्धायाभ्यन्तरे सूत्रे हंसार्णेन सबिन्दुना । 191 ।
नति प्रणवगर्भेण रुद्धाशक्तिं च विग्रहे ।
वासनामयमित्येवमातिवाहिकसञ्ज्ञिकम् । 192 ।
सूत्रात्मकं वपुः स्मृत्वा आत्मशक्त्या विभावितम् ।
बलमन्त्रेण संरुद्धं तदर्धं जुहुयात्ततः । 193 ।
उक्त्वा ओमात्मने स्वाहा द्विषट्कपरिसङ्ख्यया ।
आदाय भाविनो बन्धान्व्यापकान् शुद्धभोगदान् । 194
ज्ञानादयः समाश्रित्य येत्र तिष्ठन्ति सर्वदा ।
स्वस्थानेषु स्वमन्त्रेभ्यस्तांस्तु तत्रैव योजयेत् । 195 ।
यथाक्रमेणोचितानां कृत्वा तेषां च तर्पणम् ।
अथ सम्स्कारचक्रस्य तत्वबृन्दाश्रितस्य च । 196 ।
सर्वगस्यापि वै विद्धि स्थितं नियतलक्षणाम् ।
तत्वव्याप्तिश्च तेनैव शरीरे पाञ्चभौतिके । 197 ।
गुल्फजानुकटीवक्षः कण्ठभूकावटावधि ।
बुद्ध्यन्तानां धरादीनां क्रमादवनिसप्तकम् । 198 ।
अहङ्कारस्तदुत्थास्तु ये भेदा विविधा अपि ।

[[320]] चित्तजा अपि ये चान्ये तिष्ठन्ति मनसा सह । 199 ।
सकालोत्थास्तथाबोधा स्तत्पूर्वास्त्वपरे च ये ।
अनेकभेदभिन्नास्तु स्थिता आश्रित्य ते धियम् । 200
द्विसप्तभुवनं विश्वमनेकरचनान्वितम् ।
शतकोटिप्रविस्तीर्णमष्टयोन्यार्थसेवितम् । 201 ।
स्थिरं धराश्रितं भूयो बोद्धव्यं सर्वदेव हि ।
चतुष्कं जाग्रदाद्यं यत्पदानामप्सु वर्तते । 202 ।
मन्त्रकोटिसहस्राणां विविधानां महामते! ।
योगसिद्धसमेतानां संस्थितस्तैजसे पदे । 203 ।
चातुरात्मीयतत्वानां ज्ञेयं कैवल्यदेहिनाम् ।
शान्तोदितस्वरूपाणां सन्निवेशे मरुत्पदे । 204 ।
अनेकशक्तिभूतानां ज्ञानादीनां च लाङ्गलिन् ! ।
कालानामाश्रयो व्योम या सा मूर्तिर्न लक्ष्यते । 205 ।
संस्थितश्चाधयो वर्णाः पदे षष्ठे तु मानसे ।
अस्मिन्मात्राद्यमुक्तानि कीर्तितेऽस्मिन् षडध्वनि206
क्षिपंस्तु चाहरंस्त्वेवं शुद्ध्यर्थं लीलयैव हि ।
स्थितः कर्मात्मतत्वानि बुद्धिशक्तिपदे प्रभुः । 207 ।
निरस्तदोषं कृत्वा प्राक् समाविश्य तदैव हि ।
स्वां शक्तिमुपसंहृत्य शान्तिमभ्येति शाश्वतीम् । 208
मधुसूदनपर्यन्तं पाताळशयनादथ ।
सप्तक सप्तकं षट्कं सम्पश्येत् क्ष्मादिपञ्चके । 209 ।
मनस्यवस्थितं ह्येवं शक्तीशत्त्रितयं हि यत् ।
बुद्धौ कमलनाभात्मा देवः सर्वेश्वरः प्रभुः । 210 ।
पुनः स्वसिद्धैर्युक्तानां सर्वेषां पार्थिवे पदे ।
द्विसप्तभेदभिन्ने तु बोद्धव्या संस्थितिः शुभा । 211 ।
तीव्रमन्दादिकं बुद्ध्वा भावं भक्तिसमन्वितम् ।
आलम्बनवशात्कुर्यात्सर्वेषां स्वपदे स्थितिम् । 212 ।
एष वैभवदीक्षायामधिवासन कर्मणि ।
क्रम उक्तस्त्वथेदानीमपरायां निबोध तु । 213 ।
आपादान्नाभिदेशान्तं महाभूतैर्धरादिकैः ।
व्याप्तं चतुर्था वायव्यं तैस्तदूर्ध्वं नभसा पुनः । 214 ।
पूरितं हृदयान्तं च तदुद्देशाच्छिखावधि ।
विभाव्य मनसा व्याप्तमनेनैव क्रमेण तु । 215 ।
स्थितास्सङ्कर्षणान्ताश्चप्यनिरुद्धादयस्तु वै ।
समाक्रम्याध्वषट्कन्तु अध्वतीतस्तु बुद्धिगः । 216 ।
मनसा आत्मतत्वं च प्राग्वदभ्येत्य मूर्तिताम् ।
व्यापिका मूर्तयस्त्वेताः पृथम्मुक्तपरायणैः । 217 ।
तदाकारैरसङ्ख्यैस्तु संवृताः क्ष्मावनीषु च ।
प्राक्सङ्ख्यासु तिष्ठन्ति सर्वास्सर्वासु सर्वदा । 218 ।
स्मृत्वा ह्यभेदभावेन षट्कं मोदकवत्पुरा ।
शिखान्तं क्ष्मादिना तेन सर्वं व्याप्तं विचिन्तयेत् । 219
चतुरात्मानमव्यक्तं शब्दर्मूीन्त निराकृतिम् ।

[[321]] गुणमात्रैर्विभिन्नं च खं च तत्रैव भावयेत् । 220 ।
सङ्क्रान्तेन तु वै बुद्धौ सर्वं समुदितेन तु । 221 ।
स्वशक्त्या वै ह्यविनिच्छातो जीवगादाय सोर्ध्वगम् ।
स्वसामर्थ्यं स्वशक्त्या तच्छान्तात्मास्ते विलाप्य च शुद्धाशयानां भक्तानां तत्पादैकाभिलाषिणाम् ।
तत्सामर्थ्यानुविद्धानां सर्वत्र व्यक्तिमेति च । 223 ।
अतस्तु यद्यत्संवेद्यं हेयं परिमितन्त्वपि ।
तत्तदाथत्मनाभ्येति सर्वदा भावितात्मनाम् । 224 ।
इत्यादौ सर्वसामान्यो नित्यो विद्याख्य आश्रयः ।
बोद्धब्यः सोपि तदनु ह्यसामान्यतया गतः । 225 ।
आमिक्षादङ्गभावं च जीवानां स्वयमेव हि ।
वज्रवत्सूक्ष्मरूपेण सम्पूज्येन महामते । 226 ।
दीक्षाकाले तु शिष्याणां परिज्ञेयं यथोदितम् ।
एवमेव विजानीयाद्भूयः सौत्रे तु विग्रहे । 227 ।
सप्तधा तु विभज्यादौ सन्धीन्वै कुङ्कुमादिना ।
चित्रीकृत्य तदुद्देशात्प्रणवाद्यन्तगैस्ततः । 228 ।
स्वनामपदसंयुक्तं ग्रथनीयं स्वकारणैः ।
एवं व्याप्तिमयैर्भोगैर्हृदा पूर्णान्तिमे कृते । 229 ।
नीत्वा वै मण्डलस्थस्य विभोस्तं सन्निवेदयेत् ।
वर्मणाच्छादितं कृत्वा निधाय कलशाग्रतः । 230 ।
सशिष्योथाऽर्चनं कुर्यात्पुनर्विश्वात्मनो विभोः ।
प्रदक्षिणैः प्रणामैस्तु नानास्तुतिपदैः सह । 231 ।
तत्रोपलिप्ते भूभागे मण्डलान्तं च तं बहिः ।
स्थानभेदस्थितं कृत्वा नेत्रहृन्मन्त्र मन्त्रितैः । 232 ।
पञ्चगव्ये चरौ दन्तधावने विनियोज्य तम् ।
भुक्तोज्झिते दन्तकाष्ठे कुर्यात्सिद्धिविचारणम् । 233 ।
सौम्यवारुण ईशाने यदि पूर्वदिगाननम् ।
तत्सिद्धिसूचकं विद्धि विपरीतमतोन्यथा । 234 ।
तद् ध्वंसनाय जुहुयाद्वीर्यमन्त्रेण वै शतम् ।
धूपानुलेपनादीनि रजांसि घटिकादयः । 235 ।
साज्यानि च तिलादीनि योग्यान्यन्यानि लाङ्गलिन्

उद्धृत्योत्तरतः कृत्वा वर्मजप्तेन वाससा । 236 ।
अभुक्तेनाहतेनैव त्वाच्छाद्य सुसितेन च ।
समभ्यर्च्यास्त्रमन्त्रेण पुष्पधूपानुलेपनैः । 237 ।
क्षान्त्वा स्थलस्थितं देवमग्नौ वा कलशे न्यसेत् ।
अथ शुद्धे तु भूभागे हृन्मन्त्रितकुशास्तरे । 238 ।
कृत्वा प्राम्मस्तकं शिष्यं बलजप्तांशुकेन तु ।
हृदावकुण्ठिततनुं मुख्यमन्त्रमनुस्मरन् । 239 ।
स्वापयेत्स्वप्नलाभाय ततो हृन्मन्त्रितैस्तिलैः ।
सिद्धार्थकयुतैः तस्य निदध्यात्परितो बहिः । 240 ।
सबर्हिपक्षं मन्त्रेण प्राग्वदिग्वष्टकं न्यसेत् ।
प्रदक्षिणेन तच्चापि सितसूत्रेण वर्मणा । 241 ।
चतुर्धा वेष्टयित्वा तु मण्टपान्निष्क्रमेद्बहिः ।

[[322]] दन्तकाष्टादिकं कर्म विनिष्पाद्य स्वयं स्वपेत् । 242
कुतपे दर्भशय्यायां कृत्वा दक्षिणतश्शिरः ।
संस्पृशेत्स्वाङ्घ्रियुग्मेन शिशुं शयनसंस्थितम् । 243 ।
भगवन्तं हि मनसा प्रार्थयन्नपवर्गदम् ।
ओमादीश जगन्नाथ सर्वज्ञहृदयेशय । 244 ।
तत्राहं योजयाम्येनं सत्कर्म त्वत्परायणम् ।
प्राप्तानुज्ञस्तु शिष्याणां कुर्याद्वै तत्र योजनम् । 245 ।
यत्र यत्र च तत्तेषामवश्यं शाश्वतं भवेत् ।
इत्थं दीक्षाधिवासस्य विधानं सम्प्रकीर्तितम् । 246 ।
एकानेकरूपा तु दीक्षेदानीं प्रकीर्त्यते ।
आसाद्य यां समायान्ति देहान्तेऽभिमतं पदम् । 247 ।
कैवल्यफलदाह्येकः भोगकैवल्यदा परा ।
भोगदैव तृतीया च प्रबुद्धानां सदैव हि । 248 ।
आचार्यानुमताः सर्वाः कार्याः सम्यक् फलाप्तये ।
भक्तिभावानुविद्धानां शिष्याणां भविनां तु वै । 249 ।
वृद्धानामङ्गनानां च बालानां भवितात्मनाम् ।
विनाचारसमूहेन दुःशकेन च ता हिताः । 250 ।
पुरा धिया विचार्यैवमुपसन्नेन वै सह ।
तदीयमाशयं ज्ञात्वा सम्पाद्यैकां महामते । 251 ।
अथातीतेर्धरात्रे तु उत्थाय शयनाद्गुरुः ।
कमण्डलुं समादाय बहिराचम्य संविशेत् । 252 ।
संस्मरेदग्रतश्चास्त्रं हुतभुग्राशिसन्निभम् ।
तदन्तस्संविशेदेवं स्नानं मान्त्रं कृतं भवेत् । 253 ।
निद्रामोहमलं येन शश्वदायाति सङ्क्षयम् ।
शङ्कून्वै घटिकासूत्रं रजांस्यस्त्रवरेण तु । 254 ।
समादाय च संस्कृत्य निष्पिष्यार्घ्यैर्महीतले ।
शुष्कगोमयसंस्पृष्टे मण्डलं यत्पुरोदितम् । 255 ।
भद्रत्वपरिरक्षार्थं न्यस्याः कोणेषु शङ्कवः ।
कमलं भ्रमसिद्ध्यर्थमेकं मध्ये निवेश्य च । 256 ।
ईषन्नायाति वैषम्यं तद्रात्रिसमये यथा ।
महान्यूनाधिके दोषः स शिष्यस्य यतो गुरोः । 257 ।
अतस्तद्रक्षणीयं च यत्नेन महता सदा ।
निर्वर्त्य नित्यं प्रत्यूषे पुरा वै स्नानपूर्वकम् । 258 ।
शिष्यमादाय सच्चोद्य स्वप्नप्राप्तिं शुभाशुभाम् ।
चतुर्मूर्तिसमूहं तु यथादिक्संस्थितं तु वै । 259 ।
पश्येत्पङ्क्तिनिविष्टं च उपविष्टं तु चोत्थितम् ।
तन्मध्याद्भगवत्तत्वमेकं वा भिन्नलक्षणम् । 260 ।
प्रादुर्भावसमूहं च तल्लाञ्छनगणश्च यः ।
देवीयं वनिताबृन्दं सर्वमेकतमाथ वा । 261 ।
भवोपकरणव्रातमशेषं वा पृथक्स्थितम् ।
रुद्रेन्द्रचन्द्रसूर्याम्बु हुतभुग्वातलक्षणम् । 262 ।
पञ्चरात्रविदो विप्रा आराधन परायणाः ।

[[323]] त्रयीमुद्घोषयन्तश्च निगदन्तश्च वा द्विजाः ! । 263 ।
यतयः शुद्धसत्वाश्च सद्ब्रह्मपदसंस्थिताः ।
नगस्रक्चन्दनादीनि सुगन्धानि तरूत्तमः । 264 ।
उद्यानवनितारामवापी हर्म्य महालयाः ।
फलबीजोषधीसाम्बुकुम्भो वा पाकनिर्गतः । 265 ।
गोगजाश्वनदीयानं कन्या सालङ्कृता शिशुः ।
मङ्गल्यगीति मधुरा भेरी वंशश्च वल्लरी । 266 ।
ससारसं सरःपद्मैः पूर्णं छत्रं सितं ततम् ।
हेमादिधातवो रत्नजालं गोसम्भवानि च । 267 ।
नवो नेत्रचयश्शुक्लं वस्त्रबृन्दमनाहतम् ।
राजापुरोधाः सामन्तो राजपत्नी च दर्पणम् । 268 ।
तुषारपातसद्वृष्टि महामेघोदयो दिवि ।
शोणितं चार्द्रमांसानि खप्लुतिर्मदिरादयः । 269 ।
सत्पक्षिमृगसङ्घातसुरार्चा चामरं सितम् ।
एवमादीनि चान्यानि विद्धि सिद्धिप्रदानि च । 270 ।
स्वप्नानि यान्यनिष्टानि तानि मे लेशतश्शृणु ।
म्लानता क्षितिकम्पश्च उपरागोतिभीषणः । 271 ।
नीहार उल्कापातश्च निर्घातश्चित्तभङ्गकृत् ।
गर्तप्रवेशो दध्यन्नं स्विन्नमांसत्व भक्षणम् । 272 ।
नर्तनं रथविध्वंसम् आज्यं स्वाङ्गाद्विजच्युतिः ।
खरोष्ट्रं चोत्कटं हास्यं कपि ऋक्षाकुलं वनम् । 273 स्थानं धूमाकुलं दग्धमसिताम्बरवेष्टितम् ।
शुष्कत्वं सरिदादीनां प्रतिस्रोतस्त्वमेव च । 274 ।
पोतायनं ध्वजच्छत्रतरुभङ्गोप्यसिद्धिकृत् ।
अवतारो नगाद्वृक्षान्नग्नत्वं प्रेतदर्शनम् । 275 ।
वचा कज्जळतैलाज्यलेपो सत्कर्दमे स्थितिः ।
महिषोहिर्नरः कृष्णो दक्षिणाशागमः क्षुधा । 276 ।
लुण्ठनं नखकेशानामस्थिभङ्गाधिकाद्रतम्

एवमादीनि चान्यानि अशुभानि महामते । 277 ।
प्राप्ते शुभाशुभे स्वप्नेप्यभिसन्धाय वै हृदि ।
औत्सुक्यादशिवध्वंसि पूजाहोमं समाचरेत् । 278 ।
यथोक्तविधिना देवमवतार्य क्रमाद्यजेत् ।
तर्पयित्वा यथान्यायं पूर्णान्तं चार्चयेत्पुनः । 279 ।
ईशकोणेऽथवा सौम्ये पदे यागगृहस्य च ।
मण्डले पूर्वनिर्दिष्टे वृत्ते वा चतुरश्रके । 280 ।
स्नातं स्रग्वस्त्रभृच्छिष्यं कृतन्यासं निवेशयेत् ।
निरीक्ष्य ताड्य सम्प्रोक्ष्य दर्भैरालम्य पूर्ववत् । 281 ।
संस्कृत्य मूर्तिवत्किन्तु अनुगृह्य धरागतम् ।
आपादान्मन्त्रहस्तेन परामृश्याथ मूर्धनि । 282 ।
मन्त्रहस्तं ज्वलद्रूपं दद्याद्यो दुःखबीजजित् । ** अतः शिष्यस्य वै कुर्यात्संस्कारान् पञ्च च क्रमात् 283
तापःपुण्ड्रस्तथा नाम मन्त्रो यागश्च पञ्चमः ।
तत्र तापविधानं तु शृणुध्वं मुनिपुङ्गवाः । !284 ।

[[324]] आचार्यो वैष्णवान् सभ्यान् पूज्य तेषामनुज्ञया ।
गत्वा कुण्डसमीपं तु शिष्येण सहितो गुरुः । 285 ।
चक्रशङ्खौ समभ्यर्च्य तत्तन्मन्त्रैः प्रतिष्ठितौ ।
पूर्वं स्वगुरुणा दत्तौ स्वदीक्षावसरे द्विजाः! । 286 ।
मूलमन्त्रेण जुहुयाच्छतमष्टोत्तरं घृतैः ।
वैष्णव्या चापि गायत्र्या तद्विष्णोरिति वै ऋचा । 287
ततः कुण्डानले चक्रशङ्खौ निक्षिप्य पूजयेत् ।
ततस्तु चक्रमन्त्रेण शङ्खमन्त्रेण च द्विजाः! । 288 ।
हुत्वाचाष्टोत्तरशतम् अष्टाविंशतिमेव वा ।
पवित्रन्तेति मन्त्रेण प्र ते विष्णो इति त्वृचा । 289 ।
हुत्वा ततस्तु देवेशं ध्यात्वा गुरुपरम्पराम् ।
शिष्यस्य दक्षिणं बाहुमूलं चक्रेण चाङ्कयेत् । 290 ।
शङ्खेन प्रतपेत्सव्यबाहुमूलं मुनीश्वराः! ।
ततश्चक्रं च शङ्खं च अभिषिच्य स्वमन्त्रतः । 291 ।
सम्पूज्य मूलमन्त्रेण हुनेत्पूर्णाहुतिं द्विजाः! ।
ततस्तु चोर्ध्वपुण्ड्राणि धारयेन्मुनिपुङ्गवाः । 292 ।
तद्विधानं प्रवक्ष्यामि शृणुध्वं सावधानतः ।
गृहीत्वा वैष्णवक्षेत्राद्विमलां श्वेतमृत्तिकाम् । 293 ।
हस्तौ प्रक्षाळ्य चाचम्य प्राम्मुखं वाप्युदम्मुखम् ।
उपविश्यासने शुद्धे वामहस्ततलं द्विजाः! । 294 ।
सङ्क्षाळ्य चास्त्रमन्त्रेण तत्र वै श्वेतमृत्तिकाम् ।
प्रणवेन तु विन्यस्य गन्धद्वारेति तां मृदम् । 295 ।
जलेन सेचयित्वाथ कृत्वा दिग्बन्धनं द्विजाः! ।
मूलमन्त्रेणाभिमन्त्य वामहस्तस्थितां मृदम् । 296 ।
तन्मध्ये नारसिंहस्य बीजमालिख्य मन्त्रवित् ।
अङ्गुल्या मृदमादाय ललाटादिषु धारयेत् । 297 ।
पुष्टिप्रदेनाङ्गुष्ठेन तर्जन्या मुक्तिसिद्धये ।
वाञ्छितार्थप्रदायिन्या तथा नामिकयाथ वा । 298 ।
आयुष्कामी मध्यमया चाङ्गुल्या च मुनीश्वराः! ।
एताभिरङ्गुलीभिस्तु धारयेन्न नखैः स्पृशेत् । 299 ।
ऊर्ध्वपुण्ड्रम् ऋजुं रम्यं विष्णोः पादद्वयाकृतिम् ।
सान्तराळं सुपार्श्वं च द्व्यङ्गुळं त्र्यङ्गुळं तु वा विस्तीर्णमथ चायामे चतुरङ्गुळसम्मितम् ।
ललाटे धारयेत्कुक्षौ चतुरङ्गुलविस्तृतम् । 301 ।
अष्टाङ्गुलायतं यद्वा प्रादेशपरिसम्मितम् ।
धारयेदूर्ध्वपुण्ड्रं तु तावन्मानसमन्वितम् । 302 ।
ऊर्ध्वपुण्ड्रं तु हृदये धारयेल्लक्षणान्वितम् ।
ततस्त्र्यङ्गुलविस्तीर्णं चतुरङ्गुलमायतम् । 303 ।
ऊर्ध्वपुण्ड्रं कण्ठदेशे ततो वै दक्षिणोदरे ।
ऊर्ध्वपुण्ड्रं तु पूर्वोक्तकुक्षिपुण्ड्रसमं द्विजाः ! । 304
ततस्तु दक्षिणे बाहुमध्ये त्वष्टाङ्गुलायतम् ।
चतुरङ्गुळविस्तीर्णमूर्ध्वपुण्ड्रं तु धारयेत् । 305 ।

[[325]] ततस्तु दक्षिणांसे तु कण्ठपुण्ड्रसमं भवेत् ।
वामकुक्षौ तूर्ध्वपुण्ड्रं कुक्षिपुण्ड्रसमं भवेत् । 306 ।
वामबाहौ भवेत्पुण्ड्रं दक्षबाहूक्तलक्षणम् ।
वामांसे तु ततः पुण्ड्रं कण्ठपुण्ड्रसमं भवेत् । 307 ।
पृष्ठे त्वष्टाङ्गुळायामं चतुरङ्गुळविस्तृतम् ।
ऊर्ध्वपुण्ड्रं ककुद्देशे चतुरङ्गुळमायतम् । 308 ।
तथा त्र्यङ्गुलविस्तारं धारयेन्मुनिपुङ्गवाः!।
एवं द्वादश पुण्ड्राणि धृत्वा चैव यथाक्रमम् । 309 ।
हस्तक्षाळनतोयं तु मूर्ध्नि सम्प्रोक्षयेद् द्विजाः। ! ततस्तु चोर्ध्वपुण्ड्राणां मध्ये विष्णुसमर्पितम् । 310 ।
धारयेद्रजनीचूर्णं लक्ष्मीसान्निध्यसिद्धये। ।
वर्तिदीपाकृतिं चैव वेणुपत्राकृतिं तु वा । 311 ।
एवं धृतेह्यूर्ध्वपुण्ड्रे लक्ष्म्या सार्धं जगत्पतिः।
क्रीडते सततं तत्र ततो बद्धाञ्जलिर्द्विजाः । 312 ।
नामभिः केशवादीनां तदर्थध्यानपूर्वकम् ।
तत्तच्छक्तिसमेतांस्तु केशवादीन् स्मरेद्बुधः । 313 ।
ललाटे केशवं ध्यायेन्नारायणमथोदरे ।
माधवं हृदये चैव गोविन्दं कण्ठकूबरे । 314 ।
उदरे दक्षिणे पार्श्वे विष्णुं ध्यायेन्मुनीश्वराः! ।
तत्पार्श्वे बाहुमध्ये तु चिन्तयेन्मधुसूदनम् । 315 ।
त्रिविक्रमन्तु तत्स्कन्धे वामकुक्षौ तु वामनम् ।
श्रीधरं वामबाहौ तु हृषीकेशं तदंसके । 316 ।
अपरे पद्मनाभं तु त्रिके दामोदरं स्मरेत् ।
इत्येवमूर्ध्वपुण्ड्रस्य विधानं सुप्रकीर्तितम् । 317 ।
एवं शिष्यस्योर्ध्वपुण्ड्रं धारयित्वा यथा विधि ।
नाम कुर्याच्च शिष्यस्य तद्विधानमिहोच्यते । 318 ।
तमादाय कराद्देवधामसन्निकटं व्रजेत् ।
कृत्वात्मनो वामभागे भूयः सञ्छाद्य लोचने । 319 ।
प्रक्षेपयेत्तथा सार्घ्यमञ्जलिं मुक्तलोचनः ।
सम्पश्येत्परमं धाम मान्त्रमिच्छाफलप्रदम् । 320 ।
तस्मिन्नवसरे कुर्यान्नाम यस्य यथोचितम् ।
रहस्स्यसञ्ज्ञम् मुख्यं च गौणं वास्य यथास्थितम् ।
सामान्यं वासुदेवाद्यं नाम स्वाङ्काच्चतुर्ष्वपि ।
सर्वेषां सविशेषं वा यथा चानुक्रमेण तु । 322 । , द्विषट्कमूर्त्यङ्कितं च स्वाम्यन्तं ब्राह्मणेषु च ।
देवान्तं क्षत्रियाणां च कुर्याद्द्वादशधा पुनः । 323 ।
पाण्यन्तं धरनिष्ठं वा लाञ्छनास्त्रपुरस्सरम् ।
ध्वजलाञ्छनसञ्ज्ञं यथावस्थं नृपेषु च । 324 ।
एवं वर्धननिष्ठं च मूर्तिलाञ्छनपूर्वकम् ।
विहितं चापि वैश्यानां दासान्तं शूद्रजन्मनाम् । 325 ।
अथोत्थाय नमस्कृत्य मण्डलं कलशं गुरुम् ।
यायात्कुण्डसमीपं तु शिशुना सह देशिकः । 326 ।

[[326]] कृतस्य कर्मणोच्छिद्रसिद्धये च हुते सति ।
सन्ताड्यास्त्रात्मको भूत्वा प्राग्वत्तद्धृदयं विशेत् । 327
प्राणशक्तिवियुक्तं च कृत्वाऽऽनीय समासतः ।
सम्प्रवेश्य स्वकं स्थानं तत्राग्निकणवच्च तम् । 328
नीत्वा सम्यक्पृथग्भावं विरेच्य सह वायुना ।
स्वभूमौ वाममार्गेण हृदाद्यन्तं निरोधितम् । 329 ।
जन्मग्रहमनेनैव मन्त्रयुक्तेन कर्मणा ।
भावध्यानानुविद्धेव पितृमातृमयं त्यजेत् । 330 ।
ततः कवचमन्त्रेण दद्यात् सप्ताभिमन्त्रितम् ।
तस्योपवीतमपरमुदितं चापि यस्य तत् । 331 ।
सर्वधा दासभावत्वमापन्नस्य च तत्वतः ।
अमध्यपान्वयोत्थस्य लोकधर्मोज्झितस्य च । 332 ।
आप्तवद्ब्रह्मनिष्ठस्य कर्मतन्त्ररतस्य च ।
गोदानं शूद्रजातेर्वै विहितं चैव तान्यथा । 333 ।
वौषट् स्वाहा वषट्कारनिष्ठानां तु प्रतिक्रिया ।
नमस्कारेण मन्त्राणां कार्ये प्राप्ते ह्यनुग्रहे । 334 ।
तदीयमर्घ्यपुष्पाद्यं यत्किञ्चिद्यागसाधनम् ।
सुसंस्कृतमसिद्धं वा भक्त्या कर्मण्यतां व्रजेत् । 335 ।
आतोऽन्येषां तु भक्तानां विहितायागसाधनम् ।
संयक्तत्व निर्वृत्तिः प्राग्दर्शन प्रोक्षणान्वितम् । 336 ।
मूर्तौ वा मण्डलाग्रे तु पुष्पक्षेमं महामते ।
नक्तं वा परिपीडं च भूतार्थं चैवमेव हि । 337 ।
एवं संस्कारसंशुद्धं कृत्वा वर्णगणं पुरा ।
साङ्गेन विभुना कुर्यात्तत्प्रायच्चित्त तर्पणम् । 338 ।
सदशांशं सहस्रं तु यथाचानुक्रमेण तु ।
ग़त्वा चाभ्यर्थ्य कुम्भेशं सूत्रमादाय तत्स्थितम् । 339
ऋजुभूतं शिशुं कृत्वा तद्वत्सूत्रं प्रसार्य च ।
व्यक्तरूपं च मन्त्रेशं संस्मरेदग्निमध्यगम् । 340 ।
पश्येद्विभौ शिशुंसूत्रे स्वात्मन्यध्वानमञ्जसा ।
तत्राद्यात्मस्वरूपं च संस्मरेन्मन्त्रदेहगम् । 341 ।
अधिदैवस्वभावं च तत्त्वात्मन्यवतार्य च ।
अधिभूतमयं सूत्रे त्रिविधं शिष्यविग्रहे । 342 ।
मूलमन्त्रावसाने तु सनमस्कं परात्मने ।
पदं कृत्वा तु जुहुयादाहुतीनां चतुष्टयम् । 343 ।
तथासूक्ष्मात्मने चोक्त्वा ततः स्थूलात्मने तु वै ।
सर्वात्मने च तदनु ततोऽध्वनिचयं हितम् । 344 ।
आपादाग्राच्छिखान्तं च सर्वं ध्यात्वा स्वदेहगम् ।
यथोद्दिष्टक्रमेणैव विभिन्नं त्रिविधं त्वपि । 345 ।
रचना सन्निवेशो यः क्ष्मादीनां चादिभूतता ।
बोद्धव्यमधिदेवत्वं सामर्थ्यं यस्य यत्स्वकम् । 346 ।
तदधिष्ठातृ मन्त्राणामध्यात्मत्वं विधीयते ।
अथ मार्गद्वयं त्यक्त्वा द्वादशान्तं समाश्रयेत् । 347 ।

[[327]] मूलमन्त्रमयो भूत्वा तं व्रजेत्स्वधिया ततः ।
ब्रह्मद्वारपदं शैष्यं ततस्थन्मध्यवर्त्मना । 348 ।
पार्थिवम् पादमाक्रम्य कुर्यात्तच्चक्तिमात्मसात् ।
बीजभूतं च हृन्मन्त्रं तं रुद्धां गन्धविग्रहाम् । 349 ।
नानाण्ड बीजसंरुद्धामनेक रचनान्विताम् ।
एवमादाय वै सर्वा बुद्धिनिष्ठास्तु शक्तयः । 350 ।
पृथक् पृथक्क्रमेणैव तस्मिन्हृन्मन्त्रसम्पुटे ।
स्वेनाध्यात्मगणेनैव परेण व्यापकात्मना । 351 ।
तद्देहं धारयन्तं च स्मरेत्त्तदुभयात्मकम् ।
कालं भोगक्षयान्तं च तत्कालाच्च महामते! । 352 ।
कृत्वैवं भूतशक्तीनां संहारं शिशुविग्रहात् ।
सौत्रं देहमथाक्रम्य सौम्यं तेनैव वर्त्मना । 353 ।
प्रोल्लसंस्तद्वजेत्तत्र व्यञ्जयेत्तु धिया तु यत् ।
आधायाद्यात्ममन्त्रांश्च भूतभूतान्वितानथ । 354 ।
नित्यं च लक्षणैः सिद्धैः समन्त्रैस्तत्स्थितानपि ।
अथस्सूत्रादि निष्क्रम्य प्रयायादनलाश्रयम् । 355 ।
तत्रावयवन्धथानान्मन्त्रसांयं समाचरेत् ।
समाहृतानां मन्त्राणां परे सर्वज्ञलक्षणे । 356 ।
व्यापके सर्वसामान्ये कृत्वा स्वे स्वे पदेस्थितिम् ।
स्वशरीरमथासाद्य ब्रह्मद्वारेणदेशिकः । 357 ।
स्रुवमादाय सन्तर्प्य मन्त्रबृन्दं यथोदितम् ।
तत्वबृन्दसमेतं च स्व नाम्ना प्रणवादिना । 358 ।
भूयः संसृष्टियोगेन द्विषट्कपरिसङ्ख्यया ।
पूरकेन समाकृष्य शिष्यं हृत्कमलाद्धृदि । 359 ।
अत व्यक्तिनिरस्तं च क्ष्माबीजं परलक्षणम् ।
भूशक्त्या ज्ञानसंरुद्धं कृत्वादायानलाद्धृदि । 360 ।
प्रणवासन विश्रान्तं विरेच्याब्जे तु शैशवे ।
स्मृत्वाथ शिष्यचैतन्यमेकमेव द्विरूपधृत् । 361 ।
शक्तिमच्छक्तिभावेन शक्तित्वेन तु संस्मरेत् ।
क्ष्मातत्वान्तर्गतं कुण्डे शक्तिमत्वेन तत्पुनः । 362 ।
रेचयित्वा स्वसाम्ना च विग्रहे मध्यवर्त्मना ।
नियोज्य तत्समाधौ तु जपेद्ध्यानैकलक्षणे । 363 ।
तदेवं पार्थिवम् बीजं यथा वै होमकर्मणा ।
संयक्तस्योपकारार्थं नेतव्यं सूक्ष्मदेहताम् । 364 ।
स्वाहान्तं भोगसिद्ध्यर्थं नमोन्तं मोक्षसिद्धये ।
भोगमोक्षाप्तये वापि तद्देवोभयलक्षणम् । 365 ।
कर्मणामवसाने तु सम्पादाय पदं न्यसेत् ।
एवं तद्विग्रहे सूक्ष्मे तद्धृत्पद्मगतस्य च । 367 ।
शिरसाचाधिकारं तु तस्यापाद्य यथा स्थितम् ।
शिखामन्त्रेण तद्भोगं निर्वृत्य शतसङ्ख्यया । 368 ।
वर्मणा तत्फलप्राप्तिं तल्लयत्वमपि स्मरेत् ।
स्वतृप्तिमयनेत्रेण कुर्यात्तेनैव तत्स्थितम् । 368 ।

[[328]] तत्यागाश्चास्त्रमन्त्रेण विश्लेषेण यथो भवेत् ।
मूलेनाथ गृहीत्वा तत्कुर्याच्चैवात्मसात्पुनः । 369 ।
तद्वच्छक्तिं तदीयं च कुण्डाद्व्यापकलक्षणाम् ।
क्ष्मातत्वस्याथ साध्यस्य ह्यसाधारस्य शान्तये । 370
पूर्वसङ्ख्यं तु चास्त्रेण कृत्वा होमं महामते! ।
स्रुवमाज्येण सम्पूर्य स्कन्दसूत्रात्तु पार्थिवम् । 371 ।
विकर्त्य पूर्णाय सार्धं विलाप्याग्नौ स्वके पदे ।
मूलमन्त्रेण सहजा हृत्पद्मे प्रेरितेन तु । 372 ।
स्वदेहाद्रेचकेनाथ प्रेर्य शक्तिं च शैशवीम् ।
दयाक्रान्तमधस्थं च संस्मरेद्व्यतिरिक्तया । 373 ।
कबिन्दुनो वाब्जपत्रमाद्याध्वानं च भौवनम् ।
शिष्यदेहे निरुद्धस्य व्यक्तिक्रोडीकृतस्य च । 374 ।
स्वशक्ति परिपूर्णस्य क्ष्माबीजस्य त्वथोपरि ।
विरेच्यशक्तिमन्तं च व्यस्तधर्मेण पूर्ववत् । 375 ।
तत्क्षणेबीजसंस्थं तु अध्वानं तु यथास्थितम् ।
प्रकाशयन्तं कृपया तन्नाथन्तस्य सिद्धये । 376 ।
विरक्तं भावयेच्छिष्यं चिन्मयन्तमिदं धिया ।
इदं तत्पार्थिवं तत्त्वं मुधा वै दुःखपञ्जरम् । 377 ।
भवतत्वगतं चास्य सुमहत्वं च साम्प्रतम् ।
कथमत्र त्वहं चासं यस्य मे न तता इमाः । 378 ।
विमुक्तः पञ्जराद्यद्वत्सुखमास्ते विहङ्गमः ।
ऊर्ध्वपातीतदारूढस्त्वेवं मन्त्रबलाच्छिशुः । 379 ।
समूहमथ विज्ञाप्य तत्प्रभुत्वेन यत्स्थितः ।
सन्निरुद्धो भवेत्वस्य सर्वतः सर्वदैव हि । 380 ।
युष्मत्प्रसादसामर्थ्याद्यथावत्पार्थिवो गुणः ।
देहान्तं गन्धतन्मात्रं भवेदासीनमस्य वै । 381 ।
सम्यक्सम्प्रतिपन्नस्य शासने परमेश्वरे ।
हे धराधिपते नाथ! अस्याद्यप्रभृति त्वया । 382 ।
ध्वंसाय मोक्षविघ्नानां भवितव्यञ्च कर्मणः । , इति विज्ञाप्य चाज्ञाप्य आपाद्याहुतयः क्रमात् । 383 ।
सह शक्त्या समाकृष्य भूयस्तत्पूरकेण तु ।
तद्देहे चान्मयं बीजं साधारं पूर्ववन्न्यसेत् । 384 ।
कुण्डमध्ये तु सन्धाय जीवशक्तिं च पूर्ववत् ।
विरेच्य शक्तिमांस्तत्र नियोज्य तदनन्तरम् । 385 ।
तत्समाधौ यथापूर्वं कुम्भकेन महामते! ।
अथाप्यं देहमासाद्य होमध्यानादिना परम् । 386 ।
तन्नाधिकारपूर्वं तु सर्वं निर्वर्त्य तस्य वै ।
आप्येन सूत्रास्कन्धेन सह पूर्णां निपात्य च । 387 ।
अप्तत्वं पदसंयुक्तं तेनाक्रान्तं स्मरेत्तथा ।
तत्स्थं मन्त्रसमूहं तु सह तत्पतिना तु वै । 388 ।
पूर्ववच्छ्रावयित्वा च रसमज्ञाप्य गन्धवत् ।
मनोवसानं नीत्वैवं तं वर्णोर्ध्वगोचरम् । 389 ।

[[329]] निष्ठाङ्गेन महाबुद्धे! तेजसास्त्रेण चेच्छया ।
समुद्धृत्याथ वै प्राग्वद्योक्तव्यं बुद्धिगोचरे । 390 ।
षडध्वमुक्तं मूलेन प्राप्तसञ्ज्ञं च तं शिशुम् ।
तत्कञ्चुकनिर्मुक्तं शान्तात्मन्येकतां गतम् । 391 ।
स्मृत्वा शक्त्यात्मनाग्नौ तु लब्धलक्षं परे पदे ।
ऐश्वरेण तु बीजेन प्रोक्तसत्वान्वितेन च । 392 ।
ततः संवेद्य निर्मुक्ते समाधौ विनियोज्य च ।
न वेत्ति यत्र संलीनः स्वानन्दं द्वैतमात्रकम् । 393 ।
आहुतीनां शतं हुत्वा तदापादनकर्मणि ।
नीत्वा समानतां सर्वं तेनैव स्वधियाखिलम् । 394 ।
सह संवेद्यजालेन वाक्प्रबन्धं यथास्थितम् ।
निस्तरङ्गमयो भूत्वा दद्यात्पूर्णाहुतिं पराम् । 395 ।
अथास्मितां प्राप्य गुरुः प्रदद्यादाहुतिं पुनः ।
बीजेनाथेन शिष्यस्य त्वपमोक्षनिवृत्तये । 396 ।
पदैरोङ्कारसंरुद्धैः पदावस्थितमानसः ।
सर्वज्ञो भव चौक्त्वेवं जुहुयाद्द्वादशाहुतिम् । 397 ।
व्यापी निरुद्धषाड्गुण्यो निर्विकारो निरञ्जनः ।
नित्यो नित्योदितो नूनो नित्यानन्दः सुनिष्कळः । 399
अनाद्यन्तो ह्यनिधनो वासुदेवो विभूतिमान् ।
हुत्वैवं च ततः कुर्यात्पूर्णया पुनरेव हि । 400 ।
स्थितं वैभवदीक्षायां मुमुक्षोरैश्वरे पदे ।
यत्रस्थो धाम चाभ्येति ह्यचिरात्परमेश्वरम् । 401 ।
ईश्वरेच्च्छावशेनैव देहपातान्महामते! ।
भोगेच्छोः पद्मनाभीय उभयेप्सोः पदद्वये । 402 ।
शक्तिमच्छक्तियोगेन त्वथ बुद्धिमयेऽध्वनि ।
निवेश्यो देहपातान्तं कालमुद्धृत्य तत्पदात् । 403 ।
अन्तर्गूढो यथा काष्ठात्पावकश्च पृथक्कृतः ।
न भूयः सह काष्ठेन साम्यमेति तथा पुमान् । 404 ।
योजितोध्वान्तरे भूयो नैति तन्मयतां ततः ।
समाधिप्रच्युतिं कृत्वा विनिवेश्यात्मनोग्रतः । 405 ।
यथावदुपदेष्टव्यस्तस्याध्वा च सितासितः ।
संस्थितो यस्त्वभेदेन भिन्नरूपः परात्मनि । 406 ।
वेद्यवेदकनिर्मुक्तमच्युतं ब्रह्म यत्परम् ।
तच्छब्दब्रह्मभावेन स्वशक्त्या स्वयमेव हि । 407 ।
मुक्तयेऽखिलजीवानामुदेति परमेश्वरः ।
तद्व्यक्ताक्षरं विद्धि तन्त्रशब्दो यथा कळः । 408 ।
पृथग्वर्णात्मना याति स्थितये न तथा स्वयम् ।
नो यान्ति निश्चयं यत्र चातुरात्म्यादनुग्रहात् । 409 ।
ऋते वेदविदो विप्रास्त्वेतस्मिन् प्रथमेक्षरे ।
स शब्दमूर्तिर्भगवानभ्येति च कलात्मना । 410 ।
तद्गृहो युज्यते येन तन्निष्ठानां हि कर्मणा ।
न षाड्गुण्यकलोत्था च यावन्मूर्तिर्निरञ्जना । 411 ।

[[330]] वेद केनान्यथा मूर्तं तद्गृहीतुं नियुज्यते ।
तत्वाः कलामयाः सर्वे प्रभवाप्ययलक्षणाः । 412 ।
पूर्वोक्ता वासुदेवाद्या अध्यक्षन्ता यथोदिताः ।
तत्वेभ्यो निर्गता मन्त्रास्त्वणिमादिगुणैर्युताः । 413 ।
षट्कलाङ्गवैर्युक्ता येषु सङ्ख्या न विद्यते ।
व्यञ्जिता तैस्वनिर्माणं तुर्याद्यं पदसञ्ज्ञकम् । 414 ।
कर्मणामात्मलाभार्थं मोहार्थं तत्क्षयाय च ।
द्विसप्तभुवनं विश्वं गुणत्रयमयं हि यत् । 415 ।
तदशुद्धं जडं नित्यं भोग्ये व्याप्यं पृथक्स्थितम् ।
इत्यध्वषट्कमुद्दिष्टं हेयोपायादिलक्षणम् । 416 ।
भुवनाध्वा पदाध्वा च विना तुर्यपदेन तु ।
हेयशेषमुपादेयं कर्मणां तदपेक्षया । 417 ।
व्यपेक्षयाप्युपेयश्च हेयपक्षे प्रयाति च ।
किं तु तत्प्राप्त्युपायं वै निस्तरङ्गे परे पदे । 418 ।
विवेकपदसंस्थस्य दीक्षया संस्कृतस्य च ।
विचार्यमाण एवं हि विश्रमो यत्र वै स्फुटम् । 419 ।
जायते तत्परं ब्रह्म वासुदेवाख्यमव्ययम् ।
अम्बरं परमाणूनां जुहूनामास्पदं यथा । 420 ।
तथा चाद्यः प्रबुद्धानां जीवानां हि निकेतनम् ।
विज्ञेयं भुवनानां च पदानामन्तरं हि यत् । 421 ।
येनेश्वरेच्छया तेषां मन्त्रा वै क्रोडयन्ति च
मायी येध्वद्वये तस्मिन् सुखदुःखमयैः फलैः । 422 ।
ईश्वरेच्छानुविद्धानां भक्तानां परमेश्वरे ।
गुरूणां दीक्षितानां चाप्याराधनरतात्मनाम् । 423 ।
भवन्त्यध्वद्वयोर्ध्वस्था मन्त्राश्चाज्ञाप्रतीक्षकाः ।
नयन्ति कर्मिणः सम्यम्मायायोध्वद्वयाद्बलात् । 424 ।
स्वस्थानमणिमादीनां भोगानां प्राप्तये तु वै ।
विरक्तस्य च तद्भोगात्स्वशक्त्या प्रेरयन्ति च । 425 ।
स्वव्यापारवशेनापि तत्वाध्वन्यमृतोपमे ।
यत्राणिमादिर्मन्येत तृणानीव च संस्थितः । 426 ।
अनुग्रहपरास्तस्य तत्वाध्यक्षादयोमलाः ।
नयन्त्यप्ययतां सम्यक्सकलाध्वनि शश्वते । 427 ।
स षाड्गुण्यमयो ब्रह्म वासुदेवोऽध्वमूर्तिभृत् ।
नित्ये स्वात्मनि सम्बन्धे शब्दब्रह्माभिधेध्वनि । 428
करोति योजनान्तस्य यत्रस्थः स्वयमेव हि ।
प्राप्नोति तत्परिज्ञानात्सुशान्तं भगवत्पदम् । 429 ।
सङ्कर्षणः-
देव! वर्णाध्वविज्ञानं वद किं लक्षणं मम ।
प्राप्नोति यत्परिज्ञानादध्वी सद्वासुदेवताम् । 430 ।
श्रीभगवान्

पञ्चाध्वकोशमुक्तस्य लब्धसत्वस्य चात्मनः ।
योऽनुभूतिपदं याति धारासन्तानरूपधृक् । 431 ।

[[331]] भिन्नवर्णमयः शब्दः पूर्वलक्षण लक्षितः ।
स चातुरात्म्यनिचये विज्ञेयो हि तदात्मना । 432 ।
प्रभवाप्ययोगेन शब्दभास्वरलक्षणः ।
सकारान्तस्त्वकाराच्च हकारादान्त एव हि । 433 ।
प्रभवेद्द्वाशान्तस्तु हकाराश्चतुरात्मनाम् ।
अकारस्त्वप्यये चैव तुल्यतातोनयोः स्मृता । 434 ।
वर्णव्यूहसमूहेस्मिन् ज्ञेयं ज्ञानसमाधिना ।
विश्राम उदयो व्याप्तिर्व्यक्तिराड् वासुदेवता । 435 ।
अत्रैकैका परिज्ञेया मूर्तिर्वै त्वेवमेव हि ।
युक्त्वा विश्रामपूर्वेण चतुष्केण समासतः । 436 ।
दण्डवत्सन्निवेशेन सम्स्थिता ह्येवमेव हि ।
द्विषट्कं धारणानां च द्वादशाद्यात्म लक्षणम् । 437 ।
सोपानभूतं यत्क्रान्ता द्वादशान्तं विशेत्परम् ।
नीत्वैवं व्यक्तिभावेन हृत्पद्मोदरसंस्थितम् । 438 ।
वर्णाध्वानं दीक्षितस्य शब्दब्रह्मेति यःस्थितः ।
संसेव्य हुतभुग्भूमिं प्रणितेनोदकेन तु । 439 ।
सह शिष्येण चात्मानं तेनैवाच्छिद्रसिद्धये ।
पूर्ववद्भूतिना कृत्वा लक्ष्मचाग्निं प्रणम्य च । 440 ।
समुत्थाय ततो यायात्तं गृहीत्वाच्युतालयम् ।
पूजयित्वा जगन्नाथं निवेद्य नियमाच्छिशोः । 441 ।
सविशेषात्समासेन सान्तरान्योग्यतावशात् ।
यथावदुपदेष्टव्यं ततस्तस्यार्चनं हृदि । 442 ।
मुद्रासमन्वितो मन्त्रो न्यासध्यानपुरस्सरः ।
इति कर्तव्यता शास्त्रसङ्क्षिप्ता च सविस्तरा । 443 ।
तत्समं सन्ततस्तेन सर्वं कार्यं यथा स्थितम् ।
गुर्वर्चनं ततः कुर्यादात्मना च धनादिना । 444 ।
पूरयित्वाम्भसा पाणिमर्घ्यपात्रात्तु दक्षिणम् ।
षडङ्गमन्त्र सञ्जप्तं क्षेप्तव्यं तस्य मस्तके । 445 ।
मण्डलं प्रणवेनाथ पाणौ सूर्यप्रभं स्मरेत् ।
तत्राभिन्नं न्यसेत्प्राग्वद्वैभवं देवतागणम् । 446 ।
कृत्वा धियार्जितं दद्यात्साशिषं तस्य मूर्धनि ।
यथोक्ता च यथाभीष्टा त्वचिरादेव पुत्रक ! । 447 ।
तवास्तु वैभवी सिद्धिः मोक्षलक्ष्मी समन्विता ।
इति वैभवदीक्षाया लक्षणं समुदाहृतम् । 448 ।
तत्प्रयुक्तस्य सामान्यं सर्वमन्त्रगणस्य च ।
येन येन हि मन्त्रेण दीक्षाकार्याथ कस्यचित् । 449 ।
तस्य तस्य तदीयानां पूर्वोद्दिष्टेन वर्त्मना ।
कार्योत्रावयवानां तु विनियोगो यथोदितः । 450 ।
समूहवद्धृदादीनां मूलान्तानां समाचरेत् ।
सह तत्वगणेनैव सर्वदाध्यात्मरूपताम् । 451 ।
संयग्गृह्य ततः कुर्यात्प्राग्वदभ्यर्चनं तु वै ।
नेत्रकर्माणि हृद्बीजम् पञ्चाङ्गानां विधीयते । 452 ।

[[332]] निरङ्गानां तु मन्त्राणामङ्गमन्त्रोक्तकर्मणाम् ।
प्रणवो विनियोक्तव्यः सह कर्मपदेन तु । 453 ।
सम्पाद्याविधिनानेन व्यूहदीक्षार्थिनां तु सा ।
किं तु वै तत्र योक्तव्यं प्रत्येकस्मिन् हि कर्मणि । 454
चतुष्कं वासुदेवाद्यं बीजानां तत्पुरोदितम् ।
एवमेवाद्यमन्त्रस्तु निश्शेषः कर्मसङ्ग्रहे । 455 ।
य़ोक्तव्यो ब्रह्मदीक्षायां षोढा भङ्क्त्वा च पूर्ववत् ।
स्वरूपेण यथावस्थमुक्तेष्ववसरेषु च । 456 ।
किन्त्वेकवचनेनात्र देवानां प्रार्थना मता ।
य़ोजप्त्वा त्वधिवासोक्ता विज्ञातव्या समासतः । 457
नित्यदीक्षाद्वयस्यास्य नान्यन्मोक्षादृते फलम् ।
तत्रापि चातुरात्मीया दीक्षा प्राक्कमलेक्षण ! । 458 ।
बलाद्ददाति षाड्गुण्यभोगाप्तिं भावितात्मनाम् ।
फलं स्रक्चन्दनादीनां होमद्रव्यस्य चापि यत् । 459 ।
प्रकृत्या सहसाभ्येति विलयं ब्रह्मदीक्षया ।
एवं दीक्षात्रयं चापि दद्यादेकस्य वा क्रमात् । 460 ।
सर्वाराधनयोग्यत्वसिद्धये मुनिपुङ्गवाः ! ।
यद्वाष्टाक्षरमन्त्रादौ व्यापकत्रितये द्विजाः! । 461 ।
एकेन सर्वसामान्यं दीक्षां कुर्याद्यथाविधि ।
तेनाङ्गसहितेनैव सर्वकर्म समाचरेत् । 462 ।
तदापि विभवव्यूह परमन्त्रास्तथा द्विजाः! ।
शक्तिभूषण वाहास्त्रमन्त्रांश्चोपदिशेद्गुरुः । 463 ।
इत्थं दीक्षा विधिः सम्यक्कीर्तितो मुनिपुङ्गवाः! ।
अथ मण्डलदृष्टस्य शास्त्रज्ञस्य यथार्थतः । 464 ।
समाराधनसक्तस्य पुत्रकत्वं गतस्य च ।
सिद्ध्यर्थं सर्वमन्त्राणामधिकाराप्तये तु वा । 465 ।
तत्कालं गुरुणा कार्यं यच्छिष्यस्याभिषेचनम् ।
भगवत्तत्ववेतृणां पञ्चकालरतात्मनाम् । 466 ।
संहितापारणगाणां च आचार्याणां च सन्निधौ ।
यतीनां बद्धलक्षाणां बोधकानां महात्मनाम् । 467 ।
देवस्य पुरतः कुर्याच्चतुरश्रं च मण्टपम् ।
सर्वोपकरणोपेतं मध्ये भद्रासनान्वितम् । 468 ।
तस्मिन् कुर्यादनन्ताद्यं सन्धानञ्चासनोदितम् ।
पूजयित्वार्घ्यपुष्पाद्यैः ततो देवस्य सम्मुखम् । 469 ।
बद्धपद्मासनं शिष्यं तत्रारोप्य कृताञ्जलिम् ।
कान्ताभिर्गायमानं तु स्तूयमानं च वन्दिभिः । 470
शङ्खाद्यैर्ध्मायमानं तु पठ्यमानं तु मङ्गलैः ।
जपमानं परं मन्त्रं ध्यायमानमिवाच्युतम् । 471 ।
अष्टाङ्गेनार्चयित्वा तु कुम्भमादाय वैष्णवम् ।
स तत्रस्थेन मन्त्रेण संयक्सिद्धिव्यपेक्षया । 472 ।
सहस्रावर्तितं कृत्वा शतावर्तितमेव वा ।
सिद्धये द्रुतहेमाभं स्मृत्वा तमभिषिच्य च । 473 ।

[[333]] स्वाहान्तं मन्त्रमुच्चार्य प्लुतं हृत्कमलोदरात् ।
एवमुक्त्वा नमोन्तस्तु ध्यात्वा तं स्फटिकामलम् 474
समुत्कीर्य स्वरन्द्रेण तस्य हृत्पद्मगं स्मरेत् ।
अशक्तिविग्रहं ब्रह्म त्वाह्लादानन्दलक्षणम् । 475 ।
समारोप्य धिया सम्यक् स्वाधिकारं तु चाखिलम् ।
समासाद्यर्चितं शुद्धं दिव्यमागमसञ्चयम् । 476 ।
शुभमाराधनाधारमक्षसूत्रं च किङ्किणीम् ।
स्रुक्स्रुवौ योगपट्टं च शङ्खचक्रं कमण्डलुम् । 477 ।
चमसं कुसुमञ्चार्घ्यपात्रं कृष्णाजिनं ततः ।
पादुके पादपीठञ्च छत्रमासनदर्पणम् । 478 ।
मयूरव्यजनं शुक्लं चामरं भगवद्ध्वजम् ।
यथार्हदण्डसहितं काषाये क्षौमवाससी…479 ।
समुत्थाप्यासनात्सर्वमाहृत्य स्नानजं जलम् ।
विनिक्षिप्य शुचौ स्थाने देवमभ्यर्च्य वै ततः । 480 ।
तादर्थ्येन तु सन्तर्प्य पूर्णान्तं चाग्निमध्यगम् ।
क्षान्त्वा पूर्वोक्तविधिना सकुण्डान् मण्डलान्तरात् । 481
अर्घ्यपात्र समूहाय बलिदानं समाचरेत् ।
सोदकेन च भूतानामोदनेनास्त्रमुच्चरन् । 482 ।
बलिमण्डलकं कृत्वा यागागाराच्च बाह्यतः ।
कृत्वान्तर्बलिदानं तु प्रादक्षिण्येन वै पुरा । 483 ।
अथ ऊर्ध्वम् इदं चोक्त्वा शेषं तन्मण्डले बहिः ।
नमोस्त्वच्युतभूतेभ्यः सर्वेभ्यः सर्वदैव हि । 484 ।
सदिक्पतिभ्यः सास्त्रेभ्यः शान्तये स्वस्य वै शिशोः ।
पूजाद्यमुपसंहृत्य दत्तशिष्टेण वै पूर्ववत् । 485 ।
वृत्तमण्डलमध्ये तु सितपद्मोदरे ततः ।
दत्तशिष्टैर्यजेद्देवं सर्वदेवगुरुं प्रभुम् । 486 ।
तर्पयित्वाग्निमध्ये तु कुर्यात्तस्य विसर्जनम् ।
तदीयमथ निक्षिप्य क्ष्मापटेवा जलान्तरे । 487 ।
य़ागावनौच तच्चक्रं द्वादशारं विचिन्त्य च ।
न्यस्यात्मन्यर्घ्यपुष्पाद्यैः समभ्यर्च्य तदन्तरे । 488 ।
करकं वारिसम्पूर्णमादाय विनिवेश्य च ।
तत्रेष्ट्वा वीर्यमन्त्रेण मध्ये मन्त्रास्त्रमुत्तमम् । 489 ।
मध्वम्बुपयसा पूर्णमपरं शुभलक्षणम् ।
तदग्रतोऽर्घ्यकलशं तन्मध्येस्त्रं च चक्रगम् । 490 ।
तदभ्यर्च्य यथान्यायं कृत्वाष्टशतमन्त्रितम् ।
वषट्पदनिरुद्धेन मूलमन्त्रेण तं पुनः । 491 ।
दद्यात्तदन्तः सास्त्रेण प्राग्वत्पीयूषधारणाम् ।
निर्वज्रीकरणं कुर्यात्सर्वेषां मन्त्रवारिणा । 492 ।
तदम्बुधारादानेन ध्यानोच्चारयुतेन च ।
संविभज्याथ चैतेषां मन्त्रपानं सुधामयम् । 493 ।
सम्पाद्यास्त्रपरं पश्चात्समन्ताच्चक्रगं न्यसेत् ।
आदाय तत्तोयकुम्भमस्त्रमन्त्रमुदीरयन् । 494 ।

[[334]] धारयेत्पूर्ववद्धारामथ मध्ये निधाय तम् ।
सुपूर्णमुदकेनैव कृत्वा फलसमन्वितम् । 495 ।
गुरुयागमतः कृत्वा कुर्याच्छिष्यः प्रयतमानसः ।
भगवद्यागवद्भक्त्या कर्मणा मनसा गिरा । 496 ।
यागोपयुक्तसम्भारं तस्मै सर्वं निवेद्य च ।
सशिरः पाणियुग्मं तु कृत्वा चैव तदङ्घ्रिगम् । 497 ।
क्षन्तव्यः सुप्रसन्नेन श्रद्धापूतेन चेतसा ।
पञ्चरात्रविदस्तद्वद्यतींश्च स्नातकादयः । 498 ।
सम्पूज्य विधिवद्दद्यात्तेषां शक्त्या च दक्षिणाम् ।
संवाहनपरात्कालाल्लब्ध्वानुज्ञां तु गौरवीम् । 499 ।
भ्रातृभिः सह चाश्नीयाद्बहुभिः पूर्वदीक्षितैः ।
तथान्यैर्भगवद्भक्तैः सुहृत्सम्बन्धिबान्धवैः । 500 ।
व्र(ता)जान्तंसह शिष्यैस्तु काले ह्यन्यत्र तत्र वा ।
तदिच्छयाप्यनुव्रज्य निवर्तेताथ वै यदा । 501 ।
कृत्वा तु पादपतनं बहुधा सप्रदक्षिणम् ।
आमोक्षात्सर्वसिद्धीनां भक्तानां भावितात्मनाम् 502
परा गतिर्गुरुर्यस्मात्प्रसाद्यस्तत एव सः ।
इत्येवमभिषेकस्तु भवेन्मुख्याधिकारिणाम् । 503 ।
स्वार्थे परार्थयजने उभयत्राधिकारिणाम् ।
अन्ये ति दीक्षामात्रेण संस्कार्या मुनिपुङ्गवाः! । 504 मुनयः
किं स्वार्थं च परार्थं किं के च तत्राधिकारिणः ।
तदेतन्मुनिशार्दूल वदस्व वदतां वर । 505 ।
नारदः स्वगृहे स्थापितो देवः स्वार्थ इत्यभिधीयते ।
पर्वताग्रे नदीतीरे सिन्धुतीरे वनादिके । 506 ।
ग्रामे वा नगरे वापि स्वयंव्यक्तादिभेदतः ।
संस्थितो भगवान् विप्राः ! परार्थ इति कथ्यते । 507 ।
परार्थस्सुर्यसदृशः स्वार्थस्तु गृहदीपवत् ।
उत्कृष्टः परशब्दोयमर्थो मोक्षादिलक्षणः । 508 ।
यस्मात्समालभ्यते सोयं परार्थः परिकीर्तितः ।
स एव सर्वफलदः सर्वेषामपि यद् द्विजाः! । 509 ।
तस्मात्सर्वजनैः सेव्यः परार्थः पुरुषोत्तमः ।
स्वार्थः स्वस्वगृहे पूज्यः स्वस्वाभीष्टफलप्रदः । 510 ।
स्वार्थस्यापि परार्थस्य पूजायामधिकारिणः ।
शाण्डिल्याद्यन्वये जाता गुरोर्लब्धाभिषेचनाः । 511 ।
अन्ये तु केवलं स्वार्थपूजने ह्यधिकारिणः ।
मुनयः- शाण्डिल्याद्यास्तु के योगिन् तद्वंश्या एव केवलम् ।
कथं परार्थयजने भवन्ति ह्यधिकारिणः । 512 ।
तत्सर्वं विस्तरेणैव ब्रूहि नो मुनिपुङ्गव! ।
नारदः- शाण्डिल्यादिमुनीन्द्राणां शृणुध्वं वैभवं द्विजाः! ।

[[335]] पुरा कृतयुगस्यादौ वासुदेवः परः पुमान् । 513 ।
स्वाराधनार्थं भूलोके सद्धर्माणां प्रवृत्तये ।
लोकसंरक्षणार्थं च स्वस्य पञ्चायुधाधिपान् । 514 ।
समालोक्य भवन्तोद्य ह्यवतीर्य धरातले ।
आद्यमेकायनं वेदं मोक्षैकफललक्षणम् । 515 ।
प्रकाशयध्वं सर्वेषां सद्धर्मांश्च विशेषतः ।
तत्र तत्रावतीर्णं मां स्वयंव्यक्तादिभेदतः । 516 ।
सम्पूज्यध्वं सर्वेषां मोक्षलाभाय भूतले ।
इत्यादिशत्ततस्ते वै विष्णोराज्ञानुवर्तिनः । 517 ।
सुदर्शनाद्या हेतीशाः पञ्चब्रह्मर्षिरूपतः ।
समुत्पन्नाः क्षितितले पौण्ड्रवर्ध्नस्थलादिषु । 518 ।
पञ्चायुधांशास्ते पञ्चशाण्डिल्यश्चौपगायनः ।
मौञ्ज्यायनः कौशिकश्च भारद्वाजश्च योगिनः । 519 ।
ते मिळित्वा समालोच्य विष्णोराराधनेच्छया ।
अभिसङ्गम्य तोताद्रौ तपश्चक्रुस्सुदुस्तरम् । 520 ।
तेषां तु तपसा तुष्टो वासुदेवो जगत्पतिः ।
लक्ष्म्या सार्धं खगेशानमधिरुह्य कृपानिधिः । 521 ।
आजगाम गिरिश्रेष्ठं यत्र सन्ति मुनीश्वराः ।
ततस्ते मुनिशार्दूला दृष्ट्वायान्तं जगत्पतिम् । 522 ।
शङ्खचक्राङ्कितकरं कोटिसूर्यसमप्रभम् ।
पुळकाङ्कितसर्वाङ्गा आनन्दाश्रुसमन्विताः । 523
प्रणर्तन्तस्तुवन्तश्च गायन्तश्च परस्परम् ।
प्रदक्षिणं च कुर्वन्तः प्रणेमुः पुरुषोत्तमम् । 524 ।
आनन्दाम्बुधि सम्मग्नानेतान्वीक्ष्य श्रियःपतिः ।
उवाच करुणं वाक्यं मेघगम्भीरयागिरा । 525 ।
श्रीभगवान्

ऋषयस्तपसायुष्मत्कृतेनानन्यचेतसा ।
सन्तुष्टोऽस्मि प्रसन्नोस्मि वृणीध्वमभिवाञ्छितम् 526
इति तद्वचनं शृत्वा ऋषयो हृष्टमानसाः ।
बद्धाञ्जलिपुटाः सर्वे प्रत्यूचुर्विनयान्विताः । 527 ।
अधीताः सकला वेदाः शास्त्राणि विविधानि च ।
मोक्षोपायं न जानीमस्ततस्त्वां शरणं गताः । 528 ।
इहैवानुग्रहं कर्तुमर्हसि त्वं दयानिधे ।
इति सम्प्रार्थितो देवः करुणामृतवारिधिः । 529 ।
तदानीमेव योगीन्द्रान् शाण्डिल्यादिषु दीक्षया ।
संस्कृत्य चाभिषिच्य स्वयमेव जगत्पतिः । 530 ।
आद्यमेकायनं वेदं रहस्याम्नायसञ्ज्ञितम् ।
दिव्यमन्त्रक्रियोपेतं मोक्षैकफललक्षणम् । 531 ।
पञ्चापि पृथगेकैकदिवारात्रं जगप्रभुः ।
अध्यापयामास यतस्ततस्तन्मुनिपुङ्गवाः । 532 ।
शास्त्रं सर्वजनैर्लोके पञ्चरात्रमितीर्यते ।
तदर्थांशोपदिश्याथ तानुवाचेदमच्युतः । 533 ।

[[336]] एष एकायनो वेद उपदिष्टो मया द्विजाः! ।
मोक्षायनाय वै पन्था एतदन्यो न विद्यते । 534 ।
तस्मादेकायनं चैनं प्रवदन्ति मनीषिणः ।
एतदुक्तविधानेन दिव्यक्षेत्रादिषु स्थितम् । 535 ।
स्वयंव्यक्तादिरूपेण यजध्वं मुनिपुङ्गवाः! । 536 ।
स्वार्थ परार्थयजने यूयं मुख्याधिकारिणः । 537 ।
एषकार्तयुगो धर्मः प्रतिबुद्धैर्निषेवितः ।
त्रेतादौ मन्दसञ्चारो भविष्यति मुनीश्वराः! । 538 ।
त्रेतायुगादौ सर्वेपि नानाकामसमन्विताः ।
व्यामिश्रयाजिनो भूत्वा त्यजन्त्याद्यं सनातनम् । 539
अन्तर्दधाति सर्वोयं वेद एकायनाभिधः ।
ततो योग्याय भगवान् प्रादुर्भावयति स्वयम् । 540 ।
इत्युक्त्वान्तर्दधे देवो वासुदेवः सनातनः ।
तदा प्रभृति ते सर्वे शाण्डिल्याद्या मुनीश्वराः । 541 ।
आद्यं भागवतं धर्ममादिभूते कृते युगे ।
अनुतिष्ठन्ति सर्वेपि मानवाश्च मुनीश्वराः! । 542 ।
ततस्त्रेतायुगे जाते नानाकामवशाज्जनाः ।
त्यक्त्वा भागवतं धर्मं बभूवुर्मिश्रयाजिनः । 543 ।
ततश्चैकायनो वेदो मन्दचारो बभूव च ।
तदा मुनीन्द्रः शाण्डिल्यो दृष्ट्वा कामरतान् जनान्

लोकसंरक्षणार्थाय तपस्तेपे सुदुस्तरम् ।
अनेकानिसहस्राणि वर्षाणां तपसोन्ततः । 545 ।
द्वापरस्य युगस्यान्ते आदौ कलियुगस्य च ।
साक्षात्सङ्कर्षणोदेवः प्राप्य प्रत्यक्षतां मुनेः । 546 ।
परित्यज्य परं धर्मं मिश्रधर्ममुपेयुषाम् ।
भूयस्तत्पदकाङ्क्षाणां श्रद्धाभक्ति उपेयुषाम् । 547 ।
अनुग्रहार्थं वर्णानां योग्यतापादनाय च ।
तथा जनानां सर्वेषामभीष्ठफलसिद्धये । 548 ।
मूलवेदानुसारेण सारं सङ्गृह्य सर्वतः ।
अनुष्टुप्छन्दोबन्धेन प्रोक्तानि हरिणा स्वयम् । 549 ।
सात्वतादीनि शास्त्राणि भोगमोक्षप्रदानि च ।
उपदिश्याथ मुसली तत्रैवान्तरधीयत । 550 ।
लब्ध्वैवं सात्वतादीनि शास्त्राणि मुनिपुङ्गवाः ! ।
शाण्डिल्योऽध्यापयामास मुनिश्चैवौपगायनम् । 551।
ततो मौञ्ज्यायनादींश्च सनकाद्यांश्च योगिनः ।
ततः प्रभृति ते सर्वे शाण्डिल्याद्या मुनीश्वराः । 552 ।
सात्वताद्युक्तमार्गेण हरेराराधनादिकम् ।
कुर्वन्तः स्वस्ववंश्यांश्च शिष्यांश्चापि सहस्रशः । 553
काण्वीं शाखामधीयानान् वेदवेदान्तपारगान् ।
संस्कृत्य दीक्षया संयक्सात्वताद्युक्तमार्गतः । 554 ।
अभिषिच्य च तान् सर्वान् कृत्वा स्वार्थपरार्थयोः ।
पूजाधिकारिणो विप्रा ! तैरेतत्सात्वतादिकम् । 555 ।

[[337]] शास्त्रं प्रवर्तयामासुस्ते हि मुख्याधिकारिणः ।
इत्युक्त्वा मुनिशार्दूलाः शाण्डिल्यादिमहात्मनाम् 556
माहात्म्यं लेशतो ह्यत्र अधिकारप्रसङ्गतः ।
एवं दीक्षा चाभिषेको यत्सिद्धान्तेन पूर्वतः । 557 ।
प्राप्तस्तेनैव मार्गेण कार्यो नान्योक्तमार्गतः ।
सिद्धान्तसङ्करं नैव कुर्याच्छास्त्रविशारदः । 558 ।
मुनयः सिद्धान्तं नाम किं को वा भेदस्तस्य मुनीश्वर ।
तत्सर्वं विस्तरेणैव वदस्व वदतांवर । 559 ।
नारदः चतुर्धाभेदभिन्नोयं पाञ्चरात्राख्य आगमः ।
पूर्वमागमसिद्धान्तं द्वितीयं मन्त्रसञ्ज्ञितम् । 560 ।
तृतीयं तन्त्रमित्युक्तमन्यत्तन्त्रान्तरं भवेत् ।
आद्यं नित्योदितव्यूहस्थापनादिप्रकाशकम् । 561 ।
अपौरुषेयं सद्ब्रह्मवासुदेवाख्ययाजिनाम् ।
लक्ष्यभूतं द्विजेन्द्राणां हृदिस्थमधिकारिणाम् । 562 ।
ब्रह्मोपनिषदाख्यं च दिव्यमन्त्रक्रियक्रियान्वितम् ।
विवेकदं परं शास्त्रमनिच्छातोपवर्गदम् । 563 ।
एवं नित्योदिताख्यस्य नित्याकारस्य च प्रभोः ।
वासुदेवाभिधानस्य षाड्गुण्यादिगुणोदधेः । 564 ।
प्रथमं लक्षणं विद्धि हॄदयाद्यङ्गशब्दवत् ।
एतदागमसिद्धान्तं श्रुतिरूपं तु विद्धि तत् । 565 ।
एषकार्तयुगो धर्मस्सर्वधर्मोत्तमः स्मृतः ।
ततस्त्रेतायुगस्यादौ भोगमोक्षप्रसिद्धये । 566 ।
तस्मादागमसिद्धान्तान्निस्सृतं बहुभेदकम् ।
मन्त्रसिद्धान्तसञ्ज्ञं तज्जाग्रद्व्यूहादिमूर्तिना । 567 ।
समुत्कीर्णं द्वितीयस्य सात्वतस्य महात्मनः ।
तेन प्रद्युम्नसञ्ज्ञस्य तेन तुर्यात्मने विभोः । 568 ।
तेन वागिश्वराख्यस्य तस्माद्दीपाख्यविग्रहे ।
सङ्क्रान्तं च ततः पश्चाद्रुद्रेन्द्रादित्यवह्निषु । 569 ।
तथैव नारदाद्येषु देवतानां गणेष्वपि ।
सङ्क्रान्तं मन्त्रसिद्धान्तं भेदभिन्नमनेकधा । 570 ।
यत्र शान्ततरं व्यूहं शान्तोदितमनन्तरम् ।
सुषुप्तिसञ्ज्ञं स्वप्नाख्यं जाग्रद्व्यूहं यथोदितम् । 571
मूर्त्यन्तरं केशवाद्यम् प्रादुर्भावं तथान्तरम् ।
हृत्पद्मपीठादौ लक्ष्मीपुष्ट्यादिशक्तिभिः । 572 ।
लाञ्छनैश्शङ्खचक्राद्यैर्गरुडप्रमुखैरपि ।
भूतसिद्धादिभिः शास्तृपर्यन्तैर्यजनं हितम् । 573 ।
विश्वत्रातृनृसिंहस्य दीक्षा पूर्वं तथापरम् ।
विभवव्यूहसूक्ष्माख्यमधिकारं यथाक्रमम् । 574 ।
समयीपुत्रिकादीनां चतुर्णामभिषेचनम् ।
तथैव समयाचारं मूर्तीनां स्थापनक्रमम् । 575 ।

[[338]] मन्त्रमण्डलमुद्राणां कुण्डादीनां च लक्षणम् ।
कर्मणामेवमादीनां विधानं यत्र पुष्कलम् । 576 ।
मन्त्रसिद्धान्तसञ्ज्ञं तद्बहुभेदसमन्वितम् ।
परव्यूहादिभेदेन विनैकैकेन मूर्तिना । 577 ।
साङ्गेन केवलेनाथ कान्ताव्यूहेन भूषणैः ।
तथास्त्रैर्विग्रहोपेतैरावृतं तन्त्रसञ्ज्ञितम् । 578 ।
नृसिंहकपिलक्रोढ हंसवागिश्वरादयः ।
मुख्यानुवृत्तिभेदेन केवलापाङ्गसंयुताः । 579 ।
चक्राद्यस्त्रवरैश्चाथ भूषणैर्मकुटादिभिः ।
कान्तागणैश्च लक्ष्म्याद्यैः परिवारैः खगादिकैः । 580 ।
पूजिता विधिना यत्र तत्तन्त्रान्तरमीरितम् ।
ये जन्मकोटिभिः सिद्धास्तेषामन्तोत्र संस्थितिः । 581
यस्मात्तस्माद्विवेदैष सिद्धान्ताख्यो यथार्थतः ।
शास्त्रमन्त्रक्रियादीनां मूर्तीनां भवनस्य च । 582 ।
देशिकस्याभिजातस्य यथापूर्वं परिग्रहः ।
तथैव यावत्कालं तु नाचर्तव्यं तदन्यथा । 583 ।
विपरीतकृतेचात्र राजराष्ट्राद्यनर्थकृत् ।
ततस्सिद्धान्तसाङ्कर्यं नाचर्तव्यं कृतात्मभिः। 584 ।
यद्यदिष्टतमं लोके पूर्वसिद्धाविरोधि तत् ।
प्रतिग्राह्यमतोन्योन्यविरुद्धं सन्त्यजेद् बुधः । 585 ।
वैखानसेषु तन्त्रेषु शैवपाशुपतेषु च ।
विहितान्यत्र जातानि विरुद्धानीति किं पुनः । 586 ।
एवं सिद्धान्तभेदश्च कीर्तितोयं यथाश्रुतम् ।
इतोन्यच्छ्रोतुमिच्छा चेत्कथ्यतां मुनिपुङ्गवाः! । 587
इति यां दीक्षाविधिर्नाम एकविंशोऽध्यायः ।