विंशोऽध्यायः
20 - स्वयं व्यक्तक्षेत्र “यादवाचल” माहात्म्यम्
मुनयः
भगवन्मुनिशार्दूल! सर्वशास्त्रविशारद ।
भवता तत्र तत्रेह स्वयंव्यक्तादि भेदतः । 1 ।
विशेषःकीर्तितः पूर्वं जीर्णोद्धारादिकर्मसु ।
किं किं भुवि स्वयंव्यक्तं महत्त्वं तस्य कीदृशम् । 2 ।
तत्सर्वं विस्तरेणैव प्रकाशय दयानिधे ! ।
नारदः-
स्वयं व्यक्तादिभेदं च तन्माहात्म्यं च कृत्स्नशः ।
प्रवक्ष्यामि शृणुध्वं तत्सावधानेन चेतसा । 3 ।
क्षेत्रेषु पुष्कराद्येषु वासुदेवो जगत्पतिः ।
स्वयं व्यक्तिं समभ्येत्य भक्तानां हितकाम्यया । 4 ।
स्थितिः सन्निहितो देवः स्वयंव्यक्तो मुनीश्वराः! ।
क्षेत्रेषु केषुचिद्देवः स्थापितो देवतोत्तमैः । 5 ।
तथैव केषुचित्सिद्धैः केषुचिद्दृषिपुङ्गवैः ।
गन्धर्वैश्चापि यक्षैश्च तथा विद्याधरोत्तमैः । 6 ।
असुरै राक्षसैश्चैव मनुजेन्द्रैश्च केषुचित् ।
स्थापितो विधिवद्देवः सन्निधत्ते जगत्प्रभुः । 7 ।
एवं भगवदाकारैर्नानासंस्थानलक्षणैः ।
नानाविशेषरूपैश्च नानाकार्यवशेन तु । 8 ।
विश्वमापूरितं सर्वं सर्वानुग्रहकाम्यया ।
भगवद्भक्तिनिरतैर्मनुजेन्द्रैः प्रतिष्ठितात् । 9 ।
माहात्म्यं स्याद्दशगुणं राक्षसेन्द्रप्रतिष्ठिते ।
ततः शतगुणं प्रोक्तमसुरः स्थापिते विभो । 10 ।
सहस्रगुणितं प्रोक्तं विद्याधरकृते द्विजाः ।
[[295]]
ततो दशगुणं
विप्राः! माहात्म्यं यक्षकल्पिते । 11 ।
ततो दशगुणं प्रोक्तं गन्धर्वैश्च प्रतिष्ठिते ।
आर्षे कोटिगुणं प्रोक्तं सैद्धे दशगुणं ततः । 12 ।
कोटिकोटिगुणं प्रोक्तं स्वयंव्यक्ते मुनीश्वराः! ।
माहात्म्यं स्यादसङ्ख्येयमिति शास्त्रेषु निश्चितम् । 13
तत्स्याद्द्वेधा स्वयंव्यक्तबिम्बं भगवतो विभोः! ।
सालग्रामशिलारूपैरितरैस्तु शिलादिभिः । 14 ।
उभयत्रसमानं स्याद्धरेः सान्निध्यमुत्तमम् ।
सालग्रामशिलाबिम्बे तत्तन्मूर्तिविनिर्णयम् । 15 ।
तत्तद्व्यवस्थितैश्चिह्नैः ज्ञात्वा कार्यं समर्चनम् ।
क्षेत्रेषु पुष्कराद्येषु स्वयमेव जगत्पतिः । 16 ।
अर्चारूपेणावतीर्य व्यक्तैश्चक्रादिलाञ्छनैः ।
समन्वितः सन्निधत्ते भक्तानां हितकाम्यया । 17 ।
तत्तत्क्षेत्रस्थितान्
देवान्
प्रवक्ष्यामि मुनीश्वराः! ।
यज्
ज्ञात्वा मनुजो लोके सर्वपापैः प्रमुच्यते । 18 ।
पुष्करं क्षेत्रमाश्रित्य पुण्डरीकाक्षसञ्ज्ञया ।
वासुदेवस्तु भगवान्
नित्यं
सन्निहितः स्थितः । 19
एवं क्षेत्रवरे दिव्ये श्रीरङ्गे नैमिशाह्वये ।
क्षेत्रेष्वन्येषु च तथा वासुदेवादिसञ्ज्ञया । 20 ।
चतुर्मूर्तिस्थितो देवो लोकरक्षणहेतुना ।
केशवः केशिहा लोके कुरुक्षेत्रादिषु स्थितः ।
नारायणो मुनिश्रेष्ठाः! स्थितो नारायणाचले ।
माधवो वेङ्कटगिरौ गोविन्दः पुरुषोत्तमः । 22 ।
भूभागपदमाश्रित्य सम्स्थितो नाभसाह्वये ।
स्थाने बृन्दावनाख्येपि द्विधैव कमलोद्भव! । 23 ।
विष्णुर्लोभापहे विप्राः ! स्थितो विष्णुपदेपि च ।
मन्दराख्यं गिरिं चैव आसाद्य मधुसूदनः । 24 ।
भूतानामनुकम्पार्थम्मवतीर्य च संस्थितः ।
यामुनं जलमाश्रित्य देवदेवस्त्रिविक्रमः । 25 ।
स्थितः कमलसम्भूत! तरणं सुगतिप्रदम् ।
मूर्त्यन्तरं वामनाख्यं सिंहाद्रौ कमलोद्भव! । 26 ।
स्वसत्वादेत्य विश्रान्तं भविनां शोकशान्तये ।
नर्मदाख्यं हि चाक्रम्य जलं पापक्षयङ्करम् । 27 ।
श्रीधरः संस्थितो देवः कौण्डलेपि श्रिया सह ।
हृषीकेशस्तु भगवान्
संस्थितोप्यात्मना भुवि ।
धराधरे ध्वजाख्ये तु क्षेत्रे कुब्जाम्रकेऽब्जज! ।
पद्मनाभस्तु देवेशस्त्ववतीर्य च सम्स्थितः । 29 ।
दक्षिणां दिशमाश्रित्य समीपे जलधिक्षिते ।
गिरौ रैवतके विप्र स्वसत्वादेत्य वर्तते । 30 ।
दामोदरस्तु भगवान्
हितार्थं भावितात्मनाम् ।
एभिर्मूर्त्यन्तरैः सार्धं मूर्तिभिर्विश्वमन्दिरम् । 31 ।
समाक्रान्तं द्विजश्रेष्ठ अतोन्येषां च संस्थितम् ।
[[296]]
निबोधतु महाबुद्धे! सावधानेन चेतसा । 32 ।
सिद्धामराश्चितं विद्धि श्वेतद्वीपे तु हंसराट्।
मत्स्यात्मा भगवानप्सु अश्वात्मा बडवामुखे । 33 ।
रसातले तु कूर्मात्मा विन्ध्यारण्ये तु पौष्कर!।
विज्ञातव्यो मृगेन्द्रात्मा पापहा सर्वदेहिनाम्
, । 34
सौकरीयेण रूपेण क्षेत्रे तत्सञ्ज्ञिके तु वै।
गाङ्गे शुभजले कूले सुरसिद्धनिषेविते । 35 ।
हेमोत्तमाङ्गधृग्देवो हेमशैलमहान्तरे।
नौबन्धनगिरावेवं मीनवक्त्रः स्थितः प्रभुः । 36 ।
कृष्णाश्वेऽश्वशिराः देवः क्षितिक्षेत्रे च मार्चिते ।
लवणोदधिपर्यन्ते भूभागे सिद्धसेविते । 37 ।
कूर्मवक्त्रश्च भगवान्
संस्थितः शङ्खचक्रदृत् ।
नृहरिः कृतशौचे तु उज्जयिन्यामपि द्विजाः! । 38 ।
विशाखमूलसञ्ज्ञे तु स्थाने त्वेवं स्थितस्त्रिधा ।
कोकामुखे वराहन्तु वाराहे तु नगोत्तमे । 39 ।
मन्दमाले विवैतस्ते कुलकुक्षौ हिमाचले ।
वामनः खर्वमूर्तिश्च वैश्वरूप्येण संस्थितः । 40 ।
मध्यदेशे तु गङ्गायाः कुरुक्षेत्रे तु पौष्कर! ।
यामुनं कूलमाश्रित्य प्रादुर्भावान्तरं महत् । 41 ।
स्थितं त्रिविक्रमाख्यं यत्
त्रैलोक्याक्रान्तविग्रहम् ।
नगोत्तमे महेन्द्राख्ये परश्वथकरं द्विज! । 42 ।
रामसञ्ज्ञश्च भगवान्
संस्थितः क्षत्रियान्तकः ।
धराधरे चित्रकूटे रक्षःक्षयकरो महान् । 43 ।
संस्थितश्चापरो रामः पद्मपत्रायतेक्षणः ।
रामोन्यः सीरपाणिर्वै यामुनं भ्रामयन्
जलम् । 44 ।
संस्थितो मानिषीयेषु भूभागेषु शुभेषु च।
सामुद्रेपि ततो द्वीपो द्वारकाख्येऽमरार्चिते । 45 ।
वर्तते भगवान्
कृष्णः सर्वात्मा परमेश्वरः ।
कल्की विष्णुश्च भगवान्
स्तूयमानो द्विजैः स्थितः46
समासाद्य विपाशां च नदीं नियतमानसः ।
धर्ममूर्तिर्महात्मा वै धर्मारण्ये सुरार्चिते । 47 ।
अनुग्रहपरस्त्वास्ते लोकानां
लोकपूजितः ।
नरसञ्ज्ञो जगन्नाथः सिद्धैः सम्पूजितेषु च । 48 ।
भूभागेषु च रम्येषु नित्यं सन्निहितस्थितिः ।
गिरौ गोवर्धनाख्ये तु देवः सर्वेश्वरो हरिः । 49 ।
संस्थितः पूजिते स्थाने गवां निष्क्रमणेषु च ।
सालग्रामे च भगवान्
राजेन्द्राख्ये वने द्विजाः ! । 50 ।
तथैव वसुधांशे च स्थितो देवव्रताभिधे ।
कृष्णोपरश्चतुर्मूर्तिरवतीर्य धरातले । 51 ।
स्थितः पिण्डारके विप्र मोचयन्
दुष्कृताज्जनान् ।
श्वेतद्वीपे कुरुक्षेत्रे हिमवन्ताचलेब्जज! । । 52 ।
वेदिकायामपि तटे विश्वरूपः स्थितः प्रभुः ।
[[297]]
क्षीरोदधौ पद्मनाभः शेषाहि शयनो हरिः 53 ।
स्थितोनन्वब्जसम्भूत! यस्माच्चेदम्
पितामह! ।
चतुर्थोरूपमाश्रित्य विश्वेस्मिन्
सैव वर्तते । 54 ।
हितायसर्वलोकानां
यथावदवधारय ।
आसाद्य शयनं ब्रह्मन्
पाताळतलसंस्थितः । 55 ।
वटमादाय चाग्नेयं यान्ते संहरते जगत् ।
वटमूलं समाश्रित्य प्रयागे सुरपूजिते । 56 ।
जगदेकार्णवं कृत्वा दिव्यमासाद्य पादपम् ।
सन्तिष्ठते स भगवान्
तस्मिन्
तीरे क्षितौ द्विजाः! । 57
न्यग्रोधशायिनं चैव ध्यायेद्दिव्यगतिप्रदम् ।
हिमाचलैकदेशे तु तुङ्गे वै भृगुसञ्ज्ञके । 58 ।
मधुकैटभमाथी च संस्थितः सोवनीतले ।
क्षीरोदकक्षितिक्षेत्रे सुरासुरनिषेविते । 59 ।
मन्दराद्रिकरो देवो वर्तते देवपूजितः ।
तत्रैवामृतचिद्देवः संस्थितः सिद्धसेवितः । 60 ।
कान्तारूपधरश्चैव सुधाकलशधृक्प्रभुः ।
सिद्धानां च मुनीनां च देवानां मृत्युजित्
स्थितः । 61
द्विधा कर्ता गणोपेतो देवो गरुडवाहनः ।
साळवृक्षभुजोद्देशे सालग्रामे स्थितो विभुः । 62 ।
त्रिकूटगिरिपृष्ठे तु गम्ये गगनचारिणाम् ।
गजोद्धृतिच्छलेनैव अप्रमेयाख्यया स्थितः । 63 ।
श्वेतद्वीपपतिर्देव अवतीर्य च संस्थितः ।
गङ्गासमुद्रसंयोगे क्षित्युद्देशे मनोरमे । 64 ।
यज्ञभुग्भगवान्
देवो नैमिशे सिद्धपूजिते ।
सैन्धवारण्यमाश्रित्य अनन्तो भगवान्
स्थितः । 65 ।
शार्ङ्गपाणिस्तु देवेशो दण्डकारण्यसञ्ज्ञके ।
उत्पलावर्तके देशे शौरिसञ्ज्ञोऽच्युतः स्थितः । 66 ।
क्षितौ समुद्रबन्धेब्धेः सङ्गमे सिद्धसेविते ।
ज्ञानोपदेष्टा भगवान्
संस्थितो दुःखशान्तये । 67 ।
आसाद्य सूकरक्षेत्रं देवो गरुडवाहनः ।
संस्थितो गरुडारूढः पारिजातकराङ्कितः । 68 ।
सिद्धैः सुरगणैः सार्धं गगने चापि पौष्कर ।
देवदेव जगन्नाथ हस्तिपर्वतमस्तके । 69 ।
एकदेशं समासाद्य सर्वस्य वरदः स्थितः ।
माल्योदपाणिर्वैकुण्ठो मागधायां महामते! । 70
उड्डीय पुण्यभूभागे संस्थितः पुरुषोत्तमः ।
अचिन्त्यात्माथ भगवान्
पर्वते गन्धमादने । 71 ।
शिपिविष्टाख्यया देशे शिपिविष्टावृतः स्थितः ।
प्राक्समुद्रापयाने तु भूभागे शुभलक्षणे । 72 ।
कापिलीं मूर्तिमासाद्य वासुदेवः स्थितः प्रभुः ।
अवतीर्य स्वसत्वाच्च ब्रह्मसञ्ज्ञः प्रजापतिः । 73 ।
मणिबन्धं समासाद्य नित्यं सन्निहितः स्थितः ।
[[298]]
मगधामण्डले विप्र महाबोधधराश्रयः । 74 ।
संस्थितो लोकनाथात्मा देवदेवो जनार्दनः ।
देवदक्षिणगाक्ष्णो वै योऽभिमानतनुर्द्विज । 75 ।
सूर्यसञ्ज्ञस्तु भगवान्
हेमशैलोपरि स्थितः ।
अच्युतो वामनेत्रे तु योऽभिमानतनुर्विभुः । 76 ।
भगवान्
सोमसञ्ज्ञस्तु सोमतीर्थाश्रमेपि च ।
अग्निस्वरूपमजितं संस्थितम्
बाडबानले । 77 ।
वस्वात्मा भगवान्
विप्र! भासते त्वसुरान्तकृत् ।
विष्णुनाम्ना पुनर्देवस्त्वनेकायुधमण्डितः । 78 ।
जयाख्ययोज्जयिन्यां वै स्थितः पापजयो नृणाम् ।
काश्मीरमण्डले पुण्ये क्षेत्रे चक्रधराभिधे । 79 ।
चक्रपाणिस्तु भगवान्
भक्तानां मोक्षदः स्थितः ।
सुरोत्तमाभिधानं च गदापाणिं तु पौष्कर! । 80 ।
सदा सन्निहितं विद्धि गङ्गाद्वारे सुरैः सह ।
चतुर्भुजश्चतुर्मूर्तिः चतुर्वक्त्रश्चतुर्गतिः । 81 ।
स्थितः पिण्डारके देवो विष्वक्सेनः सनातनः ।
शुभमासाद्य भूभागं प्राक्ज्योतिषपुरे तथा । 82 ।
देवं विश्वेश्वराख्यं च स्थितमेत्य स्वगोचरात् ।
सातत्रनाभिधक्षेत्रे सिद्धविद्याधरान्विते । 83 ।
स्वामिसञ्ज्ञो जगन्नाथः स्थितो मन्दाकिनीतटे ।
भद्रातके महायोगे ध्यायिनामपवर्गदः । 84 ।
धरातले नृसिंहाख्ये देविकायान्तटाश्रिते ।
रिपुक्षयाख्यया विप्र! देवः सर्वेश्वरः स्थितौ । 85 ।
शङ्कराख्ये तु भूभागे सर्वदेव निषेविते ।
ज्ञानमूर्तिर्जगन्नाथः संस्थितःशुभकृन्नृणाम् । 86 ।
पृथिव्यां तु पितृक्षेत्रे मोचयन्तमृणत्रयात् ।
जनार्दनाख्ययो ब्रह्मन्
! विश्वात्मा भगवान्
स्थितः87
एतेऽवताराः कथिता लेशतः कमलोद्भव ।
एभिः क्षितितलं
व्याप्तं पौनःपुण्येन च स्वयम् । 88
सम्सारिणां
जनानां तु अनुग्रहधियाब्जज! ।
सङ्कीर्तनमगम्यानां त्रिसन्ध्यं नित्यमाचरेत् ॥89
मतिं चक्रे च गम्यानां सेवने दर्शनेपि च ।
म्लेच्छानां तेषु देशेषु क्षितौ क्षेत्रादयो हि ये । 90 ।
साङ्कर्यपरिहारेण द्रष्टव्यास्ते सदैव हि ।
ऋषिभिः सामरैः सिद्धैः स्वाश्रमेषु महत्सु च । 91 ।
जलाशयेषु पुण्येषु पृथिव्यां विविधेषु च ।
सर्वे भगवदाकारा विभवव्यूहलक्षणाः । 92 ।
उक्तागताश्च ये चान्ये समुत्प्रेक्ष्य धिया स्वयम् ।
प्रतिष्ठिताश्च विधिवत्समन्त्राः सत्यविक्रमाः । 93 ।
स्थित्या नानाप्रकारा ये भूतभव्यादिकाख्यया ।
सौम्याग्नेयोभयाख्येन सन्निवेशवशेन वै । 94 ।
लीलारुचिमयेनैव चित्तसौख्यप्रदेन च ।
[[299]]
भुजाद्यायुधसन्धानकेतुभेदेन वै सह । 95 ।
अलङ्कृतं च भूभागं मनुजैस्त्वेवमेव हि ।
भक्तैरनुगृहीतैश्च सिद्धाद्यैश्च यथोदितम् । 96 ।
आदिदेवादयश्चैते तत्वेशाः समुदीरिताः ।
परस्मिन्
भगवत्तत्वेत्वभेदेन व्यवस्थिताः । 97 ।
सूर्यस्यरश्मयो यद्वद्वह्नेरर्चिर्गणा यथा ।
जलधेरूर्मयो यद्वत्तद्वदेवाब्जसम्भव! । 98 ।
चित्सामान्या नित्यशुद्धा व्यापकाः परमेश्वराः ।
तत्वसत्तां समाश्रित्य ज्ञानाद्यैः समलङ्कृताः । 99 ।
अणिमाद्यष्टकोपेताः संस्थिताः स्वात्मना तु वै ।
अध्वावनिषु सर्वासु नित्यं कुर्वन्ति सन्निधिम् । 100
मुक्तये सर्वभूतानां विशेषेण तु वै भुवि ।
आविश्वप्रभवात्कालादारभ्य प्रळयावधि । 101 ।
क्षेत्रेषु तीर्थतीरेषु शब्दब्रह्ममयात्मना ।
सामान्येनापि मन्त्रेण तद्विवर्तेन भात्मना । 102 ।
ततो व्यक्तेतरं रूपमाश्रयन्ति च पार्थिवम् ।
हितार्थं
सर्वलोकानामवतीर्णमनश्वरम् । 103 ।
जगत्यायतनाख्यायामत्र सिद्ध्यन्ति योगिनः ।
कालान्तरेण व्यक्तीनां मज्जनं जायते यदि । 104 ।
सन्निधिं शक्तिभावेन नित्यं कुर्वन्ति तत्र च ।
योगेश्वरामराः सिद्धाः स्मृत्वाकारं तदात्मकम् । 105
शैलमृद्दारुधातूत्थां व्यक्तिं संस्थापयन्ति च ।
यत्रानुवेदं कुरुते मन्त्रशक्तिधरास्तु ये । 106 ।
येनाच्युतीयनाम्ना वै यद्यत्
स्थानान्तरं स्मृतम् ।
सन्निधिस्तत्र वैरूपाः शब्दमूर्तिधरस्य च । 107 ।
भिन्नात्मनां स्वयम्व्यक्तरूपेष्वव्यकेषु च ।
सन्निरुद्धेषुमन्त्रेषु इच्छाशक्तिगतेषुच । 108 ।
आकारः सन्निवेशाच्च पारमेश्वरमन्यथा ।
अन्यथा वै जगत्यस्मिन्
ख्याताख्यातं च शाश्वतम्
एवमायतनानां च नित्यत्वं सम्प्रकाशितम् ।
अनादित्वमसङ्ख्यं च महत्त्वमपि पौष्कर! । 110 ।
एवं क्षेत्रस्थिता मूर्तिभेदाः सम्यक्प्रकीर्तिताः ।
क्षेत्रेष्वेतेषु योगिन्द्रास्सारभूतं चतुष्टयम् । 111 ।
श्रीरङ्गं वेङ्कटाद्रिंश्च हस्तिशैलस्त्वनन्तरम् ।
ततो नारायणाद्रिश्च मम धामचतुष्टयम् । 112 ।
एवमुक्तं भगवता साक्षान्नारायणेन हि ।
अस्मिन्
क्षेत्रचतुष्केतु संस्थितम्
पुरुषोत्तमम् । 113 ।
महाभक्तिसमायुक्ताः सेवन्ते ये नरोत्तमाः ।
सर्वक्षेत्रस्थिता देवास्सेवितास्तैर्न संशयः । 114 ।
मुनयः
भगवन्मुनिशार्दूल सर्वज्ञ वदतां वर ।
नारायणाद्रि माहात्म्यं श्रोतुमिच्छामहे वयम् । । 115
इह नारायणस्यैव ध्यानमाराधनादिकम् ।
[[300]]
कथितं हि त्वया पूर्वं न तु नारायणो हरिः । । 116 । ।
कथं प्राप्तो गिरिवरं महत्ता तस्य कीदृशी ।
तत्सर्वं विस्तरेणैव वदस्व वदतां वर । । 117 । ।
नारदः-
साधु पृष्टं महाभागाः भवद्भिर्मुनिपुङ्गवाः! ।
नारायणाचलस्थस्य हरेर्माहात्म्यमुत्तमम् । 118 ।
सङ्क्षेपेण प्रवक्ष्यामि शृ णुध्वमवधानतः ।
आदौ नारायणः श्रीमान्
स्वस्य नाभिसरोरुहात् । 119
चतुर्मुखं समुत्पाद्य सर्वसंस्कार संस्कृतम् ।
वेदशास्त्रार्थ तत्वज्ञं कृत्वा तं पुरुषोत्तमः । 120 ।
सृष्टौ नियोज्य ब्रह्माणं ततस्त्वन्तर्हितोऽभवत् ।
तस्मिन्नन्तर्हिते देवे विपर्यस्तमतिर्विधिः । 121 ।
इति कर्तव्यतामुग्धो बभूवोद्विग्नमानसः ।
तदासौ तप आतिष्ठद्द्रष्टुकामो जगत्पतिम् । 122 ।
बहुकालेष्वतीतेषु तप्यमाने पितामहे ।
आविरास जगन्नाथो ब्रह्मणः पुरतो द्विजाः! । 123 ।
तं दृष्ट्वा कमलाकान्तं परमाश्चर्यसंयुतः ।
तुष्टाव विविधैः स्तोत्रैः श्रुतिसिद्धैश्चतुर्मुखः । 124 ।
तेन स्तुतोजगद्धाता करुणापूर्णमानसः ।
ब्रह्माणं समुवाचेदं मेघगम्भीरया गिरा । 125 ।
त्वया वत्स कुतस्त्वेवं तपस्तप्तं सुदुस्तरम् ।
तुष्टोहं तपसा तेऽद्य किं तवाभीप्सितं वद । 126 ।
ब्रह्मा-
नान्यदस्ति फलं देव भवतो दर्शनादृते ।
त्वया नियोजितोहं हि जगत्सृष्टौ पुरा विभो! । 127 ।
स्रष्टुं जगदिदं सर्वं का शक्तिर्मम माधव! ।
अत्रोपायं समाचक्ष्व करुणामृतवारिधे । 128 ।
इत्युक्तो ब्रह्मणा देवो मन्त्रमष्टाक्षरं परम् ।
तस्योपदिश्य भगवान्
तदर्थांश्च विशेषतः । 129 ।
अष्टाक्षरमिमं मन्त्रं सन्ततं हृदिचिन्तयन् ।
मन्त्रस्यास्यप्रभावेण जगत्स्रष्टुं त्वमर्हसि । 130 ।
सर्गकर्मणि सम्वृत्ते एतन्मन्त्रप्रभावतः ।
आविर्भविष्यति पुरः साक्षान्नारायणो विभुः । 131 ।
तमभ्यर्चय देवेशं मन्त्रेणानेन पद्मज! ।
ततस्त्वदधिकारान्ते मत्पदं प्राप्यसि ध्रुवम् । 132 ।
इत्युक्त्वान्तर्दधे देवः ततस्तुष्टश्चतुर्मुखः ।
जपमानो मूलमन्त्रं चेतनाचेतनात्मकम् । 133 ।
सृष्ट्वा जगदिदं सर्वं विरञ्चिर्मुनिपुङ्गवाः ! ।
नारायणं द्रष्टुकामस्तपस्तेपे सुदुस्तरम् । 134 ।
आविरासीत्ततो दिव्यं विमानं शुभलक्षणम् ।
श्रीवैकुण्ठाच्चतुर्वक्त्र तपःफलमिवाद्भुतम् । 135 ।
अनेककोटिमार्ताण्ड विलसत्तेजसावृतम् ।
[[301]]
अनन्तविहगेशेन विष्वक्सेन पुरोगमम् । 136 ।
श्रिया सुदर्शनेनापि पार्श्वयोः समनुद्रुतम् ।
कुमुदाद्यैः परिवृतं सर्वावयव शोभितम् । 137 ।
वृत्ताकारं शुभकरं सर्वालङ्कारशोभितम् ।
तं दृष्ट्वा सहसित्थाय सन्तुष्टः कमलासनः । 138 ।
पुळकाञ्चितसर्वाङ्गः सन्तोषाद्भ्रान्तलोचनः ।
प्रणम्यः प्राञ्जलिः स्थित्वा विमानमवलोकयत् । 139
पीठाद्येषु शिखान्तेषु विमानाऽवयवेषु च ।
भूराद्यं सत्यपर्यन्तं लोकानां सप्तकं क्रमात् । 140 ।
अध्वनां भुवनाध्वादिषट्कं वर्णाध्वपश्चिमम् ।
धरादिपुरुषान्तं च तत्वबृन्दं मुनीश्वराः! । 141 ।
सत्तारूपमवस्थाय संस्थितं सन्ददर्श ह ।
ततस्तु देवताबृन्दं क्रमेण समलोकयत् । 142 ।
घटाधारशिलाधस्तादनन्तममितद्युतिम् ।
चक्रं तदूर्ध्वे सामर्थ्य शक्तिं चापि शिलान्तरे । 143 ।
मन्त्रनादं मध्यकुम्भे प्रागादिकलशाष्टके ।
वासुदेवादिकांश्चैव प्रभवाप्यययोगतः । 144 ।
संस्थितान्
तत्पिधानेषु मध्यादीशदिगन्तिमम् ।
ज्ञानभासादिकानां च शक्तीनां नवकं क्रमात् । 145 ।
धर्मादीनामष्टकं च तथापादशिलाष्टके ।
अकरादिक्षकारान्तं वर्णचक्रं तदन्तरे । 146
सर्वाधारमयं चक्रं शाखामूलं समाश्रितम् ।
ज्ञानक्रियात्मके तत्वे शाखयोः परमेश्वरम् । 147 ।
आद्यं हुदुम्बरस्योर्ध्वे तत्पृष्ठे धर्ममेव च ।
कवाटयोस्तु कालाग्निं वरुणं च मुनीश्वराः! । 148 ।
शङ्खपद्मनिधीचैव तदग्रद्वार पार्श्वयोः ।
ततो जङ्घासमूहे तु तथैवान्तरभूमिषु । 149 ।
कालादिवसुधान्तांश्च भावोपकरणामरान् ।
जङ्घाग्रे केशवादीनां द्विषट्कं प्रस्तरस्थले । 150 ।
चक्राद्यायुधसङ्घं च सत्तारूपेण संस्थितम् ।
नासाचतुष्कस्थानेषु वराहादि चतुष्टयम् । 151 ।
सशक्तिकं तु पत्राद्यैः भूषितेवेदिकातले ।
सुदर्शनं शिखाकुम्भे वासुदेवं परात्परम् । 152 ।
तदग्रदेशे हेतीशं सूर्यकोटिसमप्रभम् ।
सर्वलोकमयं विप्राः! सकलाध्वमयं तथा । 153 ।
सर्वतत्वमयं चैव सर्वदेवमयं तथा ।
आनन्दमयसञ्ज्ञं तद्विमानं कमलासनः । 154 ।
एवं क्रमेणाऽवलोक्य प्रणिपत्य पुनः पुनः ।
तथा प्रदक्षिणीकृत्य विष्वक्सेनाभ्यनुज्ञया । 155 ।
विमानान्तः सम्प्रविश्य जपन्नष्टाक्षरं मनुम् ।
अभ्यन्तरे विमानस्य गर्भभूमौ तु मध्यतः । 156 ।
सरसीरुहमास्थाय संस्थितं पुरुषोत्तमम् ।
[[302]]
प्रावृड्
जलद सन्दोह विलसद्दिव्यविग्रहम् । 157 ।
सर्वदेवमयं देवं सर्वेषां तेजसान्निधिम् ।
सर्वलक्षणसम्पूर्णं सार्वज्ञ्यादिगुणैर्युतम् । 158 ।
वपुषासुन्दरेणैव दिव्येनाविष्कृतेन च ।
मुञ्चन्तमनिशं देहादालोकं ज्ञानलक्षणम् । 159 ।
प्रयत्नेन विनाऽज्ञान नाशकृद् ध्यायिनां महत् ।
घनकुञ्चितनीलाळि दळिताञ्जन सन्निभैः । 160 ।
कर्पूरदूसरैर्दिव्यैः पुष्पसंवलितान्तरैः ।
किरीटमकुटाक्रान्तैः शोभितं स्वशिरोरुहैः । 161 ।
बालचन्द्रप्रतीकाश फालोद्यत्तिलकोज्वलम् ।
सुभ्रुवं सुनसंशान्तं सविलासस्मिताधरम् । 162 ।
किञ्चिदारक्तगोक्षीर शुद्धनीलाब्जलोचनम् ।
शीतळैर्दृष्टिपातैस्तु जगदाप्यायकारिणम् । 163 ।
विलसद्गण्डफलकं श्रवणोज्वल कुण्डलम् ।
मुखसौन्दर्य निष्यन्द चुबुकस्थल शोभितम् । 164 ।
विकळङ्क शरच्चन्द्र विलसन्मुखमण्डलम् ।
कम्बुग्रीवं पीवरांसं दीर्घबाहुं महोरसम् । 165 ।
चतुर्भुजमुदाराङ्गं विलसत्पाणिपङ्कजम् ।
पीतकौशेयवसनं निम्ननाभिं तनूदरम् । 166 ।
चारूरुयुगळं
चारुजङ्घाद्वितयमुज्वलैः ।
मणिनूपुरभूषाद्यैः विलसत्पादपङ्कजम् । 167 ।
दिव्यगन्धानुलिप्ताङ्गं दिव्याम्बरधरं तथा ।
दिव्यस्रग्वेष्टनोपेतं दिव्यालङ्कारमण्डितम् । 168 ।
अनेकरत्नखचित किरीटमकुटोज्वलम् ।
कौस्तुभेनोरसिस्थेन श्रीवत्सेनाप्यलङ्कृतम् । 169 ।
रक्तकाञ्चनसन्मुक्तायुक्तया वनमालया ।
सब्रह्मसूत्रया चैव शोभितं परमेश्वरम् । 170 ।
मुख्यदक्षिणहस्तेन भीतानामभयप्रदम् ।
श्रोणीतटनिविष्टेन वामहस्तेन लीलया । 171 ।
घ्रियमाणं गदां गुर्वीं निषण्णां धरणीतले ।
पश्चाद्दक्षिणहस्तेन चक्रं कालानलद्युति । 172 ।
प्रणवध्वनिगर्भं तु हिमाद्रिशतशोधिकं
शङ्खंवामकरेणापि दधानमतुलप्रभम् । 173 ।
स्वदेहतेजस्सम्भूत ज्वालामण्डल मध्यगम् ।
करुणापूर्णहृदयं जगदुद्दरणोद्यतम् । 174 ।
अभिन्नपूर्णषाड्गुण्य विभवेनोपबृह्मितम् ।
योगिध्येयमजन्नित्यं जगज्जन्मादिकारणम् । 175 ।
साक्षाल्लक्ष्मीपतिं देवं नारायणमनामयम् ।
दृष्टा प्रहृष्टहृदयः प्रणिपत्यमुहुर्मुहुः । 176 ।
तुष्टाव कमलाकान्तं स्तोत्रैर्नानाविधैर्विधिः ।
ततस्तस्तोत्रसन्तुष्टो नारायण उदारधीः । 177 ।
पितामहमुवाचेदं मेघगम्भीरया गिरा ।
[[303]]
सन्तुष्टस्तपसा तेऽहमष्टाक्षर परायण ! । 178 ।
समभ्यर्चय मामत्र युगानामयुतं विधे ।
ततो भुवं गमिष्यामि केनचित्कारणेन तु । 179 ।
इत्युक्तः चतुर्वक्त्रो हर्षेण महतान्वितः ।
विमानं तत्समादाय स्थापयित्वा निजे गृहे । 180 ।
सात्वतोक्तविधानेन मनुनाऽष्टाक्षरेण तु ।
पूजयामास विधिवद्भोगैर्नानाविधैर्विभुम् । 181 ।
एवं बहुषु कालेषु व्यतीतेषु मुनीश्वराः ।
सनत्कुमारो योगीन्द्रः कदाचित्क्षीरसागरात् । 182 ।
सत्यलोकं समासाद्य तव नारायणं प्रभुम् ।
दृष्ट्वा श्रिया समोपेतं सर्वचित्तापहारिणम् । 183 ।
प्रणम्य प्राञ्जलिस्तिष्ठन्नुवाचेदं चतुर्मुखम् ।
भवान्
गुरुःपिता चापि मम वात्सल्यवारिधे । 184 ।
त्वत्तोन्यो नास्ति मे लोके गतिः सर्वार्थदायक! ।
इयन्तं कालमीशोयं श्रीमन्नारायणो विभुः । 185 ।
भवताराधितः सम्यग्भोगैर्नानाविधैरपि ।
अद्याहं यष्टुमिच्छामि भवदाराधितं विभुम् । 186 ।
नारायणं जगन्नाथं दातुमर्हसि मे पितः ।
इति सम्प्रार्थितो ब्रह्मा पुत्रवात्सल्यवानपि । 187 ।
विप्रयोगभिया विष्णोश्चिन्तापरवशोऽभवत् ।
तदा नारायणः श्रीमान्
चिन्ताव्याकुलमानसम् । 188
दृष्ट्वाब्जसम्भवं प्रीत्या वाक्यमेतदुवाच ह ।
चिन्तां जहि महाबुद्धे! विश्लेषान्मम पद्मज । 189 ।
अर्चान्तरमिदं मेपि ददामि तव सम्प्रति ।
मामादाय मुनीन्द्रोयं सम्प्राप्य धरणीतलम् । 190 ।
संस्थाप्य पूजयेन्नित्यं पद्मकूटाभिधे गिरौ ।
यत्र मां द्रष्टुमनिशं तपस्यन्ति मुनीश्वराः । 191 ।
इत्युक्त्वा भगवान्
देवो रूपं स्वं हृदयोद्भवम् ।
श्रिया पुष्ट्या च सहितं प्रायच्छद्ब्रह्मणे तदा । 192 ।
पितामहस्तदादाय रूपं श्रीपुष्टिसंयुतम् ।
अभ्यर्चयद्विशेषेण भोगैर्विस्मितमानसः । 193 ।
ततः सनत्कुमारं तमाहूय कमलोद्भव ।
सन्तोषोत्फुल्लनयनः प्रोवाचेत्थं मुनीश्वराः । 194 ।
सनत्कुमार हे वत्स! सत्पुत्रोसि भवान्मम ।
साक्षान्नारायणो देवो यतः सानुग्रहत्स्वयि । 195 ।
इत्युक्त्वाथ मुनीन्द्राय दिव्यमष्टाक्षरं मनुम् ।
उपदिश्य तदर्थांश्च तथा सात्वतसञ्ज्ञकम् । 196 ।
महोपनिषदं तन्त्रं ग्राहयामास योगिनम् ।
यो मूलवेदो विख्यातस्तादृक्तस्मात्परिस्रुतम् । 197 ।
सिद्धिमोक्षप्रदं विप्राः! सर्वशास्त्रार्थगर्भितम् ।
यत्र शान्तातरं व्यूहं शान्तोदितमनन्तरम् । 198 ।
सुषुप्तिसञ्ज्ञं स्वप्नाख्यं जाग्रद्व्यूहं यथोदितम् ।
[[304]]
मूर्त्यन्तरं केशवाद्यं प्रादुर्भावान्तरं तथा । 199 ।
हृत्पद्म पद्मपीठादौ लक्ष्मीपुष्ट्यादिशक्तिभिः ।
लाञ्छनैः शङ्खचक्राद्यैः गरुडप्रमुखैरपि । 200 ।
भूत सिद्धादिभिः शास्त्रपर्यन्तैः पूजनं हितम् ।
विश्वत्रातृ नृसिंहस्य दीक्षापूर्वं तथा परम् । 201 ।
विभवव्यूह सूक्ष्माख्यमधिकारं यथाक्रमम् ।
समयी पुत्रकादीनां चतुर्णामभिषेचनम् । 202 ।
तथैव समयाचारं मूर्तीनां स्थापनक्रमः ।
मन्त्रमण्डलमुद्राणां कुण्डादीनां च लक्षणम् । 203 ।
यत्र प्रोक्तं भगवता लोकोज्जीवनहेतुना ।
तदर्थांश्चोपदिश्याथ तत्प्राप्तिं च व्यवर्णयत् । 204 ।
इदं हि सात्वतं तन्त्रं वासुदेवाज्जगत्प्रभोः ।
सङ्कर्षणेन सम्प्राप्तं तस्मात्सङ्कर्षणात्मनः । 205 ।
प्रद्युम्नाख्येन सम्प्राप्तम् अनिरुद्धेन वै ततः ।
अनिरुद्धान्मया प्राप्तं मत्तो रुद्रादिभिस्तथा । 206 ।
सर्वेषु दिव्य शास्त्रेषु नास्त्यस्मादधिकं मुने ! ।
यथा सर्वेषु मन्त्रेषु नास्ति चाष्टाक्षरात्परम् । 207 ।
एतदुक्तविधानेन नारायणमनुं मुने ।
समभ्यर्चय लोकेशं भोगैः सांस्पर्शिकादिभिः । 208 ।
वैकुण्ठवर्धनं नाम क्षेत्रमस्ति महीतले ।
तत्रास्ति पद्मकूटाख्यः कश्चिद्गिरिवरो महान् । 209 ।
कावेर्या उत्तरेभागे मुने योजनमात्रतः ।
अप्राकृतं हि तत्स्थानं भूवैकुण्ठमिति श्रुतम् । 210 ।
पुरा भगवताज्ञप्तः साक्षाच्छेषो हि शैलताम् ।
सम्प्राप्यागमनं विष्णोः प्रतीक्षन्
वर्ततेधुना । 211 ।
विरजाप्यंशभागेन तद्गिरेरुत्तरे तटे ।
प्रवहत्यमला नित्यं सर्वदोष प्रणाशिनी । 212 ।
तथैवानेक तीर्थानि क्षेत्राणि विविधानि च ।
सन्ति तत्र गिरेश्रेष्ठे सेव्यानि विबुधोत्तमैः । 213 ।
कलौ युगेपि तत्रत्या न दुष्यन्ति कदाचन ।
तस्य प्रळयकालेपि नाशोनास्ति गिरेर्मुने । 214 ।
ततस्तत्सदृशं स्थानं ब्रह्माण्डान्तर्न किञ्चन ।
तस्मिन्
गिरौ मुनिवरा बहवः संशितव्रताः । 215 ।
नारायणममुं द्रष्टुं तपस्यन्त्यमलाशयाः ।
तेष्वप्यनुग्रहो जातो देवस्यास्य कृपानिधेः । 216 ।
तस्माद्विमानमेतत्त्वं समदाय समाहितः ।
तस्मिन्
गिरिवरे स्थाप्य यज नारायणं प्रभुम् । 217 ।
एवमुक्तो मुनिवरः सन्तुष्टहृदयस्ततः ।
पितामहाद्देवदेवं लब्ध्वा नारायणं प्रभुम् । 218 ।
फाल्गुण्यां पौर्णमास्यां हि हस्तर्क्षे मुनिसत्तमाः ।
तमानीय गिरिश्रेष्ठं तन्मूर्ध्नि मुनिसेविते । 219 ।
तीरे तीर्थवरस्यैतद्विमानममिति प्रभम् ।
[[305]]
संस्थापयामास तदा तत्रत्या मुनिपुङ्गवाः । 220 ।
दृष्ट्वा नारायणं देवं हर्षेण महतान्विताः ।
अस्माकमिह कल्याणं कल्याणमिति चोचिरे । 221 ।
ततः कल्याणतीर्थं तत्प्रवदन्ति मनीषिणः ।
ततःसनत्कुमारस्तु सात्वतोक्त विधानतः । 222 ।
समर्चयन्
जगन्नाथं सन्तुष्टहृदयोऽभवत् ।
अतो नारायणस्तत्र गिरौ वसति सन्ततम् । 223 ।
नारायणाचल इति ततःप्रभृति कथ्यते ।
तत्र नारायणस्यैवमवतारः समीरितः । 224 ।
अर्चान्तरस्तु यत्प्रोक्तं नारायण हृदुद्भवम् ।
तच्चापि तं गिरिं प्राप कुतश्चित्कारणात्पुरा । 225 ।
तद्वृत्तमिह वक्ष्यामि शृणुध्वं मुनिपुङ्गवाः! ।
पुरा नारायणः श्रीमान्
लोकरक्षणहेतुना । 226 ।
अवतीर्य रघोर्वंशे रामो रक्षः कुलान्तकः ।
पितृवाक्यापदेशेन दण्डकारण्य वासिनाम् । 227 ।
मुनीनां रक्षणार्थाय तत्र तत्राश्रमे वसन्
लक्ष्मणेन च लावण्यपूर्णया सीतयान्वितः । 228 ।
नारायणगिरिं प्राप्य कदाचिन्मुनिसेवितम् ।
कृतातिथ्यो मुनिगणैः कौतूहलसमन्वितैः । 229 ।
अधित्यकायां तस्याद्रेस्तुङ्गश्रृङ्गेऽतिमञ्जुळे ।
सीतावारिविहारार्थं सुमित्रासूनुना क्षणात् । 230 ।
धनुष्कोट्या कृते खाते सद्यस्सञ्जातवारिणि ।
विहृत्य सीतयासार्थं निमज्यान्तर्जले जपन् । 231 ।
ऋचोऽघमर्षणीस्तत्र ददर्श परमाद्भुतम् ।
रूपं भगवतः पश्चादुन्मज्यालोच्य राघवः । 232 ।
पर्यटन्
परितश्शैलं विस्मयाविष्टमानसः ।
पारे कल्याणतीर्थस्य पद्मपत्रायतेक्षणम् । 233 ।
पश्यन्नारायणं देवं प्रणम्य शिरसाऽसकृत् ।
पूजयन्
कतिचिन्मासानुवास तदनन्तरम् । 234 ।
उवाच भगवान्
रामं परितुष्टोस्मि पूजया ।
दत्ताभयो मुनीनां त्वं जित्वा राक्षसपुङ्गवान् । 235 ।
सर्वैः परिजनैः सार्धं साकेतपुरमाविश ।
तत्रांशेनागमिष्यामि तदा मां यष्टुमर्हसि । 236 ।
इत्युक्तो रघुशार्दूल इन्दिरारमणाज्ञया ।
कृत्वा निष्कण्टकां पृथ्वीं साकेतनगरे वरे । 237 ।
अभिषिक्तः स्वभक्ताय राक्षसेन्द्राय धीमते ।
स्ववंशाराधितं देवं दत्वा रङ्गेश्वरं विभुम् । 238 ।
नीते रङ्गाधिपे तेन चिन्ताविष्टोभवत्तदा ।
तद्विदित्वा चतुर्वक्त्रः श्रीभूसहितं विभुम् । 239 ।
नारायणांशमादाय साकेतनगरी जवात् ।
समभ्येत्य च रामाय ददौ स्वाराधितं हरिम् । 240 ।
ततो रामः सम्प्रहृष्टः श्रीभूमिसहितं विभुम् ।
[[306]]
अर्चयामास विधिवच्चिरं निजगृहे द्विजाः! । 241 ।
अतो रामप्रिय इति तस्य नामाभवद्विजाः! ।
ततः कुशो रामपुत्रः स्वपित्राराधितं विभुम् । 242 ।
पूजयन्
स्वसुतां काचिद्यदुवंश्याय भूभृते ।
दत्वा तथा प्रार्थितः सन्
प्रादात्तस्मै तमच्युतम् । 243।
लब्ध्वा कन्यां च तं देवं यदुशेखर सञ्ज्ञकः ।
मधुरानगरीमेत्य तत्रैव निजमन्दिरे । 244 ।
संस्थाप्य कमलाकान्तं समभ्यर्चयदादरात् ।
ततस्तु तत्क्रमाल्लब्ध्वा यदुवंशसमुद्भवः । 245 ।
कृष्णः श्रियःपतिं देवं पूजयन्
विनतासुतात् ।
प्राप्तं किरीटमतुलं कलशार्णवशायिनः । 246 ।
समर्प्य तस्मै देवाय विविधोत्सवमातनोत् ।
ततः कदाचिन्मुसली तीर्थयात्रानिमित्ततः । 247 ।
गत्वा नारायणगिरिं तत्र कल्याणनामके ।
तीर्थे तथाऽष्टतीर्थेषु स्नात्वा तच्छैलमूर्धनि । 248 ।
योगासनसमासीनं योगानन्दं जगत्प्रभुम् ।
सर्वदेवमयं देवं सर्वेषां तेजसां निधिम् । 249 ।
सर्वलक्षणसम्पूर्णं सार्वज्ञादि गुणैर्युतम् ।
निष्टप्तकनकाभं च सम्पूर्णाङ्गं महत्तनुम् । 250 ।
घोरशार्दूलवदनं
चण्डमार्ताण्ड लोचनम् ।
सौदामिनीचयप्रख्यैर्लोमिभिः परिपूरितम् । 251 ।
अरुणाम्भोजपत्राभ वज्राधिक करोरुहम् ।
चलत्फणीश्वरसटं चन्द्रकोटि तटिद्
द्युतिम् । 252 ।
प्रळयाम्बुधिनिर्घोषमुद्गिरन्तं स्ववाचकम् ।
युगान्तहुतभुग्ज्वाला मण्डलान्तर्व्यवस्थितम् । 253 ।
जान्वासक्तभुजद्वन्द्वं योगपट्टविभूषितम् ।
रथाङ्गशङ्खधर्तारं पश्चाद्बाहुद्वयेन च । 254 ।
मार्ताण्डकोटिसदृश किरीट मकुटोज्वलम् ।
कौस्तुभेनोरसिस्थेन श्रीवत्सेनाप्यलङ्कृतम् । 255 ।
रत्नकाञ्चनसन्मुक्तयुक्तया वनमालया ।
सब्रह्मसूत्रया चैव शोभितं परमेश्वरम् । 256 ।
दिव्यगन्धानुलिप्ताङ्गं दिव्याम्बरधरं तथा ।
दिव्यस्रग्वेष्टनोपेतं दिव्यालङ्कार मण्डितम् । 257 ।
सुभीषणं सौम्यरूपं स्वाश्रिताभीष्ट सिद्धिदम् ।
देवं नरहरिं दृष्ट्वा नत्वा तत्पादपङ्कजे । 258 ।
स्तोत्रैर्नानाविधैः स्तुत्वा सन्तुष्टहृदयो हली ।
तस्मिन्
गिरिवरे विप्रास्तत्र तत्र च सञ्चरन् । 259 ।
आनन्दमय मध्यस्थं सौन्दर्यामृत वारिधिम् ।
दृष्ट्वा नारायणं देवं निमग्नो विस्मयाम्बुधौ । 260 ।
नत्वा तत्पादकमले तुष्टावेत्थं जगत्पतिम् ।
जितन्ते पुण्डरीकाक्ष जितन्ते भक्तवत्सल । 261 ।
जितन्ते कमलाकान्त जितन्ते पुरुषोत्तम ।
[[307]]
नारायण नमस्तेस्तु वासुदेव नमोस्तु ते । 262 ।
नमोस्तु विष्णवे तुभ्यं नमस्ते सर्वशेषिणे ।
नमस्ते पररूपाय नमस्ते व्यूहरूपिणे । 263 ।
नमो विभवरूपाय नमस्ते त्वन्तरात्मने ।
नमस्तेऽर्चावताराय नानाकाराय ते नमः । 264 ।
भवान्
हि लोकरक्षार्थं लक्ष्म्या कारुण्यरूपया ।
सुदर्शनेनापि युक्तो विहरस्यत्र भूधरे । 265 ।
अद्य मे सफला दृष्टिः सौन्दर्यामृत वारिधिः ।
यद्भवान्
सर्वलोकेशो मम दृष्टिपथं गतः । 266 ।
पुण्यक्षेत्रेषु सर्वेषु सर्वेष्वायतनेषु च ।
न पश्यामि जगन्नाथ भगवन्तं भवादृशम् । 267 ।
शरणं त्वां प्रपन्नोस्मि शरणागत वत्सल ।
कटाक्षैःकरुणापूर्णैः समालोकय मां विभो । 269 ।
एवं नानाविधैः स्तोत्रैः स्तुतो नारायणो हरिः
उवाच बलभद्रं तं करुणापूर्णमानसः । 269 ।
बलभद्र भवान्
भक्तः शेषोसि मम किङ्करः ।
अभीप्सितं किं भवतो ब्रूहि तत्प्रददामि ते । 270 ।
इत्युक्तो बलभद्रोयं प्रत्युवाच जगत्प्रभुम् ।
नारायण दयाम्बोधे तव कैङ्कर्यतो विना । 271 ।
किमस्त्यभीप्सितं नाथ त्वामिहार्चयितुं विभो ।
अभीप्सामि रमाकान्त पूरयास्मन्मनोरथम् । 272 ।
इति सम्प्रार्थितो देवः प्रत्युवाच बलं तदा ।
श्री नारायणः
अस्ति ते विमलाभक्तिः मयि यादवनन्दन । 273 ।
प्रथमं शेषरूपो मे कैङ्कर्यमकरोद्भवान्
ततस्तु लक्ष्मणो भूत्वा मामाराधितवानिह । 274 ।
इदानीमपि मां यष्टुं बलभद्र त्वमर्हसि ।
कलावपि युगे भूयः कश्चिद्भूत्वा द्विजोत्तमः । 275 ।
नानाविधैर्भोगजालैः अर्चनं मे करिष्यसि ।
इत्युक्तो देवदेवेन बलभद्रः प्रहृष्टधीः । 276 ।
पूजयामास विधिवद्भोगैर्नानाविधैर्हरिम् ।
तदर्चनेनातितुष्टः श्रीमान्नारायणो विभुः । 277 ।
उत्सवादीन्
कर्तुकामं बलमेवमुवाच ह ।
श्रिया भूम्या च सहितं रूपं मम हृदुद्भवम् । 278 ।
मधुरायां भवद्गेहे पूज्यते किल यादव ! ।
तदानीतोत्सवार्चां मे कृत्वा नानाविधोत्सवान् । 279
कर्तुमर्हसि भक्त्या त्वं तेन तुष्याम्यहं हलिन् ।
एवमुक्तो रोहिणेयः त्वरया मधुरां पुरीम् । 280 ।
एत्य कृष्णाय तद्वृत्तं
विस्तरेण न्यवेदयत् ।
तच्छृत्वा भगवान्
कृष्णो बभूवातीव विस्मितः । 281
ततो यदूद्वहौ कृष्णबलरामौ श्रियः पतिम् ।
शिबिकायां समारोप्य सर्वाभरण भूषितम् । 282 ।
[[308]]
यात्रोपकरणैः सर्वैश्चतुरङ्गबलैः सह ।
माघमासे तु चित्रर्क्षे सुमुहूर्ते मनोहरे । 283 ।
नीत्वा गिरिवरं तत्र नारायणपुरो भुवि ।
संस्थाप्य च महानन्दात्
पूजयामासतुर्हरिम् । 284 ।
ततस्तु देवदेवस्य कर्तुकामौ महोत्सवम् ।
बल्यर्चां स्नपनार्चां च प्रतिष्ठाप्याऽऽज्ञया हरेः । 285 ।
महोत्सवं तु विधिवत्कृत्वा देवस्य शार्ङ्गिणः ।
फाल्गुने मासि हस्तर्क्षे सर्वतीर्थ समाश्रिते । 286 ।
तस्मिन्
कल्याण सरसि चक्रातेऽवभृथोत्सवम् ।
यतस्तत्त्रार्चितो देवो यादवाभ्यां रमासखः । 287 ।
तदा प्रभृति तच्छैलो यादवाद्रिरितीर्यते ।
इति नारायणस्यास्य माहात्म्यं कीर्तितं मया । 288 ।
इतः परं यच्छ्रोतव्यं कथ्यतां तन्मुनीश्वराः! ।
मुनयः-
सर्वज्ञ मुनिशार्दूल तत्र यादव भूधरे । 289 ।
अस्ति कल्याणतीर्थमाहात्म्यं यत्तदुत्पत्तिं तथैव हि ।
तच्छैलाग्रे संस्थितस्य नृहरेर्वैभवं वयम् । 290 ।
आकर्णयितुमिच्छामस्तदपि त्वं प्रकाशय ।
नारदः-
साधु पृष्टं महाभाग भवद्भिः सारवेदिभिः । 291 ।
कल्याणतीर्थमाहात्म्यं वक्ष्यामि शृणुताधुना ।
पुरा वराहो भगवान्
मग्नमब्धौ वसुन्धराम् । 292 ।
समुद्धृत्य यथापूर्वं संस्थाप्याथ महीधरे ।
तस्मिन्
शेषात्मके देव्या भूम्या सह समास्थितः । 293
तदा देवाङ्गसंलग्नाः समुद्रजलबिन्दवः ।
गाळितास्तत्र तत्तीर्थं कल्याणमभवद्विजाः …294 ।
तदा देवाः पुष्पवर्षैः समाकीर्य जगत्पतिम् ।
तुष्टुवुर्विविधैः स्तोत्रैः ननृतुश्चाप्सरोगणाः । 295 ।
दिव्यदुन्दुभयो नेदुः बभूव मुदितं जगत् ।
ततो ब्रह्मादयो देवाः सर्वे देवर्षि पुङ्गवाः । 296 ।
तत्रागत्य वराहान्तं प्रार्थयामासुरच्युतम् ।
देवाः
देवदेव जगन्नाथ सर्वलोकैक रक्षक! । 297 ।
त्वया हतो महादैत्यो वसुधापि समुद्धृता ।
वयं च रक्षिता देव करुणामृतवारिधे । 298 ।
इहानेनैव रूपेण भवान्
भूम्या समन्वितः ।
स्थातुमर्हसि लोकेश भक्तानुग्रहकाम्यया । 299 ।
इति देवैः प्रार्थितोयं वराहो भगवान्
हरिः ।
स्वाङ्गे वसुन्धरां न्यस्य तस्या उपदिशन्
मनुम्
300
प्राग्भागे तस्य तीर्थस्य ह्यद्याप्यास्ते मुनीश्वराः ।
तत्र तेन वराहेण स्वाज्ञप्तः पतगेश्वरः । 301 ।
श्वेतद्वीपाच्छुद्धमृदं समाहृत्य सरस्तटे ।
[[309]]
पुरा निक्षिप्तवान्
सा हि मृत्तिका लोकपूजिता । 302 ।
फाल्गुने मासि कल्याणसञ्ज्ञे तस्मिन्
सरोवरे ।
गङ्गाद्या सकलानद्यो भजन्ते सन्निधिं द्विजाः !303
तन्मासि पौर्णमास्यां हि ब्रह्माद्या देवतोत्तमाः ।
स्थातुं कल्याणसरसि समागच्छन्ति भक्तितः । 304 ।
दिव्यं कल्याणतीर्थं तद्ये पश्यन्ति स्मरन्ति वा ।
प्रदक्षिणं वा कुर्वन्ति प्रणमन्ति भजन्ति वा । 305 ।
ये वा तत्तीर्थमाहात्म्यं भक्त्या शृण्वन्ति मानवाः ।
स्नानं वा तत्र कुर्वन्ति तत्तीर्थन्तु पिबन्ति वा । 306 ।
ये वार्चयन्ति पुष्पाद्यैस्ते जना लोकपावनाः ।
आयुरारोग्यमैश्वर्यं विद्या तेजो जयं यशः । 307 ।
सत्सुतांश्चापि सन्तोषं यद्यदिष्टमिह द्विजाः ।
तत्सर्वमचिरादेव लभन्ते नात्र संशयः । 308 ।
तस्य तीर्थस्य माहात्म्यं ब्रह्माद्यैरपि दैवतैः ।
संयक् न शक्यते ज्ञातुं किं पुनः खलु मादृशैः । 309 ।
इत्युक्तं लेशतस्तीर्थमाहात्म्यं मुनिपुङ्गवाः ।
अथ श्रीनारसिह्मस्य माहात्म्यं वक्ष्यते द्विजाः । 310 ।
प्रह्लादो नृहरेर्भक्तः पुरा वैष्णव सत्तमः ।
तपसाराधितुं देवं नृसिंहं भक्तिसंयुतः । 311 ।
अन्वेषमाणो विमलं तपःस्थानं धरातले ।
नारायणाचलं प्राप्य दृष्ट्वा तद्रामणीयकम् । 312 ।
नास्त्यस्मादधिकं स्थानं भुवीति कृतनिश्चयः ।
तत्र कल्याण सरसि स्नात्वा तत्तीरगां शुभाम् । 313 ।
श्वेतमृत्स्नां समादाय धृत्वा चैवोर्ध्वपुण्ड्रकान् ।
तच्छैलशिखरं प्राप्य विविक्तमतिनिर्मलम् । 314 ।
यमादिनियमैर्युक्तो नृसिह्मैकाक्षरं शुभम् ।
तथैवाऽनुष्टुभं मन्त्रं जपमानस्तदेकधीः । 315 ।
द्रष्टुं नरहरिं भूयःतपस्तेपे सुदुस्तपम् ।
ततस्तत्तपसा तुष्टो नृहरिर्भक्तवत्सलः । 316 ।
प्रादुरासीज्जगन्नाथः तस्य शैलस्य मूर्धनि ।
*प्रह्लादः स्वतपःफलं नरहरिं वात्सल्य वारानिधिं
श्रीवत्साङ्कितवक्षसं शुभगुणं चक्राब्जभास्वत्करं
तच्छैलाग्र शिलातले शुभतरे योगासनस्थं परं
दृष्ट्वा हृष्टतनूरुहो मुनिवरा वल्गुं ननर्तादरात् । 317
तुष्टाव चेत्थं नृहरिं विस्मयाविष्टमानसः
नमस्ते श्रीनृसिंहाज नमस्ते दैत्यसूदन । 318 ।
नमस्ते जगतां नाथ नमस्ते भक्तवत्सल ।
रक्षकस्त्वं हि लोकस्य त्वदात्मकमिदं जगत् । 319 ।
ब्रह्माद्याः सकला देवा भवत्पादाब्जसेवकाः ।
नास्ति त्वत्तोऽधिका लोके देवता पुरुषोत्तम । 320 ।
वेदान्तेषु विचिन्वन्ति त्वां मुनीन्द्राः सनातनम् ।
स भवान्
करुणाम्भोधे मम दृष्टिपथं गतः । 321 ।
[[310]]
शरणं मां प्रपन्नोस्मि आत्मसात्कुरु मां विभो ।
इति नानाविधैस्तोत्रैः स स्तुतो नरकेसरी । 322 ।
उवाचाऽमृतवर्षिण्या गिरा प्रह्लाद सञ्ज्ञकम् ।
प्रह्लाद! तेद्य तपसा तुष्टोहं वरमीप्सितम् । 323 ।
वृणीष्व तत्प्रदास्यामि इत्युक्तः प्रह्लादनामकः
बद्धाञ्जलिपुटो भूत्वा प्रत्युवाच महामतिः । 324 ।
भवान्
गुरुः पिता माता सुहृद्बन्धुश्च मे विभो ।
विद्या धनं च सकलं नास्ति त्वत्तो परं यतः । 325 ।
त्वां विनाहं क्षणमपि वस्तुं नेच्छे भुवीश्वर ।
तस्मान्निरन्तरं देव भवत्पादाब्ज सेवनाम् । 326 ।
दातुमर्हसि देवेश त्विति सम्प्रार्थितो विभुः ।
प्रह्लादानुग्रहार्थाय तस्मिन्नेव महीधरे । 327 ।
कृतावासो नरहरिस्तेन सम्पूजितो भृशम् ।
अद्यापि राजते तत्र स्वाश्रिताभीष्ट सिद्धिकृत् । 328 ।
एवं नारायणगिरेर्माहात्म्यं लेशतो मया ।
सङ्कीर्तनं मुनिवराः किमन्यच्छ्रोतुमिच्छथ । 329 ।
इति श्रीपाञ्चरात्रे ईश्वर संहितायां यादवाचलमाहात्म्यं नाम विंशोऽध्यायः