१९

[[252]] एकोनविंशोऽध्यायः 19 – जीर्णोद्धारविधिः मुनयः- भगवन्नारदमुने ! जीर्णोद्धार विधिं तथा । बिम्बस्यास्पर्श्य संस्पर्शे महोत्पातादि सम्भवे । 1 ।
नित्यपूजादि लोपे च प्रायश्चित्तं तु कृत्स्नशः ।
श्रोतुमिच्छामहे योगिन् तत्सर्वं सम्प्रकाशसे । 2 ।
नारदः- शृणुतेह प्रवक्ष्यामि जीर्णोद्धारादिकं द्विजाः ।
यत्कृत्वा देशिकादीनां चतुर्णां सुखमेधते । 3 ।
मनुष्यनिर्मिते स्थाने वक्ष्ये जीर्णविधिं पुरा ।
धातुमृच्छैल दारुत्थो वस्त्रादिष्ववतारितः । 4 ।
यो यो भगवदाकारस्तस्य तस्य मुनीश्वराः ।
उपाङ्गभङ्गे सन्धानं कुर्यात्भग्ने महाङ्गके । 5 ।
तद्बिम्बन्तु परित्यज्य सृजेद्बिम्बान्तरं पुनः ।
तत्र तावत्प्रवक्ष्यामि महाङ्गोपाङ्गकक्रमम् । 6 ।
शिरो वक्त्रं तथा कर्णौ पाणी वक्षस्तथोदरम् ।
नाभिमेड्रपदञ्चैव महाङ्गानि द्विजोत्तमाः! । 7 ।
चक्षुश्रोत्रं तथा नासा तालुर्हस्तपदाङ्गुलिः ।
केशश्मश्रु च रोमाणि नखदन्तास्तथैव हि । 8 ।
चक्राद्यायुधसङ्घश्च वनमाला विभूषणम् ।
उपाङ्गानि मुनिश्रेष्ठा मृद्बिम्बे शृणुताधुना । 9 ।
प्रधानशूलं यत्तत्र महाङ्गमिति कथ्यते ।
वक्षोदण्डः कटीदण्डौ बाहुकूर्परकोष्टकम् । 10 ।
जङ्घोरुजानु चान्यानि उपाङ्गानि मुनीश्वराः! ।
महाङ्गभङ्गेजातेऽपि बिम्बस्य मुनिपुङ्गवाः! । 11 ।
सतिसन्धानयोग्यत्वे न कदाचित् परित्यजेत् ।
तस्य त्यागो विनाशश्च ह्युपर्युपरि बाधकृत् । 12 ।
बिम्बादीनां तु बृहतां परित्यागो न युज्यते ।
वक्त्रभङ्गे तु बिम्बस्य सर्वदा त्यागमाचरेत् । 13 ।
परित्यक्तानि बिम्बानि धातु द्रव्योद्भवं विना ।
ज़लाशयेत्यघाधे वा समुद्रे विधिना क्षिपेत् । 14 ।
भूमौ वा निखनेद्विप्रा देशकालानुसारतः ।
उत्कृष्टानां हेमतार ताम्रजानां विशेषतः । 15 ।
नोचितः स्यात्परित्यागः तस्मात्सन्धानमाचरेत् ।
प्रयत्नेनाप्ययोग्यत्वे परित्यागं समाचरेत् । 16 ।
परित्यक्तं तु वा द्रव्यं द्रवीकृत्य यथा विधि ।
तद्द्रव्येण यथापूर्वं बिम्बं कर्म समापयेत् । 17 ।
अथवा हीनताम्रोत्थमारकूटमयं तु यत् ।
सन्धानकारणायोज्यं तद्द्वयं तु परित्यजेत् । 18 ।

[[253]] परित्यक्तं तु तद्बिम्बं क्षिपेत्पूर्वोक्तवर्त्मना ।
ततो बिम्बान्तरं कुर्याद्राजतं वा सुवर्णजम् । 19 ।
उत्कृष्टतत्तज्जातीय द्रव्यजां वा मुनीश्वराः! ।
कर्मबिम्बेषु सर्वेषु ह्येवमेव समाचरेत् । 20 ।
भग्नाङ्गस्य सन्धान प्रकारं शृणुतद्विजाः! ।
लोहाश्मदारु बिम्बानां भग्नाङ्गं लोहपट्टकैः । 21 ।
बन्धयेदथवा लोहबिम्बाङ्गं भग्नमेव तु ।
स्वर्णादीनां द्रावितेन योज्यं यत्नाद्द्विजोत्तमाः! । 22
चित्रमृण्मय बिम्बानां भग्नाङ्गम्मुनिसत्तमाः! ।
तत्तज्जातीयद्रव्येण सन्धेयं यत्नगौरवात् । 23 ।
सर्वेषां भग्नमङ्गं तु नष्टं चेत् तत् तथा पुनः ।
तत्तत्सजातीयद्रव्येण कृत्वा योज्यं प्रयत्नतः । 24 ।
महाङ्गेरत्नबिम्बस्य भग्नेऽपि मुनिसत्तमाः! ।
सन्धेयमेव न त्याज्यं स्वयंव्यक्ताश्म बिम्बवत् । 25 ।
सर्वत्राङ्गसमाधाने पुनः सृष्टौ तु वा द्विजाः! ।
जीर्णबिम्बगतां शक्तिं कुम्भेत्वावाह्य देशिकः । 26 । कुर्वन्नभ्यर्चनं तत्र बिम्बसन्धानमाचरेत् ।
मासादर्वाक्समाधाने कुम्भे शक्तिं समर्चयेत् । 27 ।
तदूर्ध्वं द्वाशाब्दान्तं समाधान विळम्बने ।
कृत्वा बालगृहं तत्र बालबिम्बं यथा विधि । 28 ।
संस्थाप्य तत्र तच्छक्तिं समावाह्य समर्चयेत् ।
अङ्गमात्रसमाधाने कुर्यात्सम्प्रोक्षणं द्विजाः! । 29 ।
बिम्बान्तरस्यकरणे प्रतिष्ठां पुनराचरेत् ।
मूलबिम्बाङ्गसन्धाने कुर्याद्बालगृहादिकम् । 30 ।
कर्मबिम्बाङ्गभङ्गे तु तत्तद्बिम्बगतं विभुम् ।
मूलबिम्बे समुद्वास्य सन्धानादि समाचरेत् । 31 ।
बालालये तु प्रथमे जीर्णोद्धाराभिदेऽन्तिमे ।
प्रायश्चित्तं प्रवक्ष्यामि शृणुध्वं मुनिपुङ्गवाः! । 32 ।
अतीते प्रार्थिते काले कर्ताप्रासादबेरयोः ।
निर्माणे स्नपनं कुर्यादुत्तमं शास्त्रचोदितम् । 33 ।
पश्चादभ्यर्थयेत्कालं वाञ्छितं तत्समापने ।
अकृत्वैवं गते पश्चात् काले द्वादशवार्षिके । 34 ।
पुनः प्रतिष्ठां कुर्वीत मूले बालालये तु वा ।
बिम्बेचोरादिभिर्नष्ठे बालगेहे प्रमादतः । 35 ।
तदेवापाद्य तामर्चां प्रतिष्ठाप्य यथा विधि ।
उत्तमस्नपनं कृत्वा शान्तिहोमं समाचरेत् । 36 ।
चोरैरपहृतं बिम्बं पुनःप्राप्तं यदि द्विजाः! ।
पुनः प्रतिष्ठां कुर्वीत नयनोन्मीलनं विना । 37 ।
स्वस्थानाच्चलिते तस्मिन् हेतुना येनकेन चित् ।
यथापूर्वं प्रतिष्ठाप्य स्थापयेत्पुरुषोत्तमम् । 38 ।
सर्वं बालगृहेकार्यं नित्यनैमित्तिकादिकम् ।
पूर्वं संस्थापितं बिम्बं लक्षणैरुज्झितं यदि । 39 ।

[[254]] जीर्णोद्धारस्य काले तु कुर्याल्लक्षणसंयुतम् ।
जीर्णाख्यस्य विधेः पूर्वं न कदाचित्समाचरेत् । 40
रीतिजे ताम्रजे वापि आरकूटमयेऽपि वा ।
प्रणीते पूज्यमाने तु कर्मबिम्बादिके सति । 41 ।
कालान्तरेण जीर्णे स्मिन् उत्कृष्टसमुपस्थिते ।
निकृष्टं सन्त्यजेद्द्विद्वान् न दोषस्तत्र विद्यते…42
लोहपाषाणमृत्काष्ठैः स्थापिते मूलकौतुके ।
न सम्पाद्यमन्तोन्येन कदाचिन्मुख्यवस्तुना । 43
पुरावज्जीर्णितां यातं कर्तव्यं मूलकौतुकम् ।
प्राक्स्थितं बहुबेरं वा एकबेरमथापि वा । 44 ।
जीर्णोद्धारेपि कर्तव्यं पूर्ववन्मुनिपुङ्गवाः ! ।
व्यत्यासं नैव कुर्वीत बहुबेरैकबेरयोः । 45 ।
लक्ष्म्यादिकान्तारहिते बहुबेर पुरस्थिते ।
जीर्णोद्धारे तु देवीभ्यां कल्पयेत्सहसा विना । 46 ।
सर्वदा बहुबेरत्वहानिर्न स्याद्विपर्ययात् ।
शयनं वासनं यानं स्थानं वा प्राग्यथास्थितम् । 47
तथैव स्यात्पुनस्सृष्टावन्यथा वेच्छयाभवेत् ।
जीर्णे देवे पुनस्सृष्टे देव्या यदि यथा स्थिताः । 48 ।
देवीभिस्थाभिरेवायं योज्यो देवो न चान्यथा ।
एवं मानुषबिम्बस्य जीर्णोद्धारः प्रकीर्तितः । 49 ।
स्वयं व्यक्ते तथा दिव्ये स्सैद्धे चार्षाद्यमानुषे ।
जीर्णोद्धारविधिं वक्ष्ये शृणुध्वं मुनिसत्तमाः । 50 ।
स्वयंव्यक्तादिबिम्बानां महाङ्गे वाह्युपाङ्गके ।
भग्ने सन्धानमेवस्यात्त्यागस्तु न कदाचन । 51 ।
सन्धानायोग्यमपि तत्र त्याज्यं मुनिसत्तमाः ! ।
सालिग्रामशिलाबिम्बं भिन्नं भग्नं बृहत् क्षतम् । 52 ।
अल्पक्षतं च सौवर्णैः पट्टैर्दृढतरं यथा ।
बन्धयेच्च तथैवेषु स्वयंव्यक्तादिकेष्वपि । 53 ।
शिलामयेषु बिम्बेषु भिन्नं भग्नं च योजयेत् ।
सुवर्णनिर्मितैः पट्टैर्यथा दृढतरं भवेत् । 54 ।
यद्वा तदङ्गं हैमेन कृत्वा सम्यन्नियोजयेत् ।
दारुजे लोहजेष्वेवं स्वयंव्यक्तादिकेष्वपि…55 ।
भेदेप्यङ्गे समाधिः स्यात्स्वयंव्यक्ताश्मबिम्बवत् ।
ऱत्नजेऽपि समाधानमेवमेव समाचरेत् । 56 ।
मृण्मयेमूलबिम्बे तु जीर्णे वाथ जलादिभिः ।
हीनाङ्गे वा तथा कुर्यात्सन्धानन्तु समाचरेत् ।
मृत्तिकाशूलरज्वादीन्न कदाचित्परित्यजेत् । 58 ।
तथैव चित्रबिम्बाङ्गं गळितं गन्धभावितैः ।
सितरक्तादिकैः रागैः पावनैरस्त्रमन्त्रितैः । 59 ।
चित्रयेत्तु यथा पूर्वं शिल्पिभिः शास्त्रकोविदैः ।
अत्रायं हि विशेषः स्यात्स्वयंव्यक्तादिषु द्विजाः60 ।
न बालगेहबिम्बाद्यं कुर्यात्तत्रैव पूर्ववत् ।

[[255]] पूजायां वर्तमानायां समाधानादिकं चरेत् । 61 ।
सन्धानान्ते तु विधिवत्कुर्यात्सम्प्रोक्षणादिकम् ।
देवादिपूजिते वापि स्वयंव्यक्ते तु कौतुके । 62 ।
मृद्दारुजे तु सज्जीर्णे क्रिमिवह्निजलादिभिः ।
तत्तद्बालगृहं कृत्वा पूज्यमाने तु पूर्ववत् । 63 ।
क्रमादर्चान्तरं कृत्वा स्थापयेच्च यथाविधि ।
बालबिम्बे तु जीर्णेऽत्र कुर्यादेवं पुनःपुनः । 64 ।
स्वयंव्यक्तादिबिम्बानि यादृशानि भवन्ति हि ।
लक्षणैश्च प्रमाणैश्च युक्तानि रहितानि वा । 65 ।
उत्कृष्टलोहजातानि अपकृष्टोत्थितानि वा ।
तादृशानि भवन्त्येव न कुर्यादन्यथा पुनः । 66 ।
न लक्षणान्तरं कुर्यान्न प्रमाणान्तरं तथा ।
न तु द्रव्यान्तरं चैव न कुर्यात्क्रियान्तरम् ।
कुर्याच्चेल्लक्षणादीनां विपर्यासं मुनीश्वराः ! । 68
राज्ञोराष्ट्रस्य सर्वेषां प्रत्यवायो महान् भवेत् ।
तस्मात्पौराणिकस्थाने न विपर्यासमाचरेत् । 69 ।
लक्षणादिष्वपि तथा न कुर्यादन्यथा पुनः ।
येषु व्यक्तेषु चिह्नानि नाभिव्यक्तानि वै द्विजाः । 70 ।
तान्यपि स्वानि चिह्नानि ललाटे वांसपट्टके ।
पॄष्ठे वाप्यङ्गपट्टे वा पाणिपादतलेषु वा । 71 ।
मूर्ध्नि वा दधते तस्मात्तत्र तत्र निरीक्षयेत् ।
तस्मादलक्षणा व्यक्तिर्बिद्यते न कदाचन । 72 ।
स्वयं व्यक्तादिके चैव मानुषे च मुनीश्वराः ! ।
शिलामयादिबिम्बानां नासाद्यवयवेषु च । 73 ।
एक द्वित्रियवा मात्रं न्यूनता सम्भवेद्यदि ।
पूर्ववत्कारयेत्तत्ततीक्ष्णशस्त्रेण यत्नतः । 74 ।
ततः सम्प्रोक्षणं कुर्याद्देवस्य मुनिपुङ्गवाः ! ।
एवं पीठादिभङ्गेपि सन्धानं सम्यगाचरेत् । 75 ।
प्रतिमाचैव तत्पीठं प्रासादे गर्भमन्दिरम् ।
विग्रहं देवदेवस्य चतुष्टयमिदं समम् । 76 ।
समाधिश्च तथा शान्तिः कार्या तत्र सदा समा ।
प्रभाभङ्गो यदिभवेद्बन्धयेल्लोहपट्टकैः । 77
पीठभङ्गे तु तं पीठं सर्वदा सन्त्यजेद्बुधः ।
किञ्चिन्यूनं तु तं पीठं बन्धयेल्लोहपट्टकैः । 78 ।
प्राक्तनार्चाङ्गभङ्गादिदोषैर्यो चातिदूषिता ।
निर्दोषदासनात्तस्मात्तामुत्थाप्य विसृज्य च । 79 ।
पूर्ववन्निर्मिताम्पीठे स्थापयेत्तु यथा विधि ।
पीठभङ्गे तथान्यस्मिन् कल्पिते योजयेद्दृढम् । 80 ।
प्रतिमापीठयोरष्टबन्ध विश्लेषणेपि च ।
अष्टबन्धं पुनः कृत्वा सम्प्रोक्षणमथाचरेत् । 81 ।
स्वयं व्यक्तादिके वापि मानुषे वा मुनीश्वराः ! ।
बिम्बे चोराद्यपहृते तत्तद्रव्येण पूर्ववत् । 82 ।

[[256]] निर्माय लक्षणोपेतं प्रतिष्ठाप्य तदैव तु ।
पूर्ववत्पूजयेन्मन्त्री बिम्बं सर्वत्र सर्वदा । 83 ।
द्रव्यान्तरेण वा कुर्याद् देशिको यागसिद्धये ।
चोरैरपहृतं बिम्बं पुनःप्राप्तं यदि द्विजाः ! । । 84 ।
कृत्वा सम्प्रोक्षणं पूज्यं मानुषे तु द्विजोत्तमाः ! ।
पुनः प्रतिष्ठां कुर्वीत नयनोन्मीलनं विना । 85 ।
मूलबिम्बेऽग्निना दग्धे मानुषेवाप्यमानुषे ।
सहस्रकलशस्नानमाचर्तव्यं विधानतः । 86 ।
वह्निना कर्मबिम्बादौ वैवर्ण्यं समुपागते ।
तत्तद्बिम्बेषु कुर्वीत स्नपनं चोत्तमं क्रमात् । 87 ।
वह्निदाहादिना मूलबिम्बे वा कर्मकौतुके ।
भिन्नाङ्गे सति सन्धेयं प्राग्वत्तच्छिल्पिवित्तमैः । 88 ।
सन्धानान्तं तु सर्वत्र कुर्यात्सम्प्रोक्षणं विभोः ।
प्रासादादेः ततो विप्रा जीर्णोद्धारश्च वक्ष्यते । 89 ।
ततः पूर्वं मानुषस्य विधानं शृणुत द्विजाः ! ।
भग्नेविमानैकदेशे शिखाकुम्भाकेपि वा । 90 ।
विमानसंस्थितान् देवान् मूलबेरस्य पीठके ।
समावाह्यार्चयन् भग्नं प्रासादावयवं दृढम् । 91 ।
सन्धाय पश्चाद्देवस्य सप्रासादस्य सत्तमाः ! ।
सम्प्रोक्षणादिकं कुर्याच्छास्त्रदृष्टेन वर्त्मना । 92 ।
विमाने सर्वतो भग्ने बालस्थानं प्रकल्प्य च ।
प्रासादान्तर्गता यास्तु देवतास्ताः मुनीश्वराः ! । 93 ।
बालबिम्बस्य पीठस्थाः कृत्वा पूज्यास्तु पूर्ववत् ।
तथैव बालबीम्बे तु नित्यनैमित्तिकादिकम् ।
पवित्रारोहणान्तं च सर्वं कर्म समाचरेत् ।
प्रासादं तु पुनः कृत्वा प्रतिष्ठाप्य यथा विधि । 95 ।
सम्प्रोक्षणादिकं कुर्याद् देवस्य मुनिपुङ्गवाः ! ।
एवं हि मण्टपे साले गोपुरे माळिकादिके । 96 ।
जीर्णे तत्र स्थिताः सर्वा नीत्वान्यत्र तु देवताः ।
यथापूर्वं नवं कृत्वा प्रतिष्ठाप्य विधानतः । 97 ।
उत्तमस्नपनङ्कुर्यात् तस्य दोषस्य शान्तये ।
प्रासादादि पुराक्लृप्तं लक्षणैरुज्झितं यदि । 98 ।
जीर्णोद्धारप्रकरणे कुर्यात् तल्लक्षणान्वितम् ।
प्रासादादौ पुराक्लृप्ते मृण्मये चैष्टकेऽपि वा । 99 ।
जीर्णे पुनः समुद्धारे शिलाभिर्वा प्रकल्पयेत् ।
स्वयंव्यक्तादिके धाम्नि जीर्णोद्धारस्तु वक्ष्यते । 100 ।
प्रासादादेरेकदेश भङ्गश्चेत् तत्र संस्थिताः ।
देवास्त्वन्यत्र नोद्वास्याः पूजयन्नेव तत्र ताः । 101 ।
भग्नैकदेशं सन्धाय कुर्यात्सम्प्रोक्षणं द्विजाः ! ।
प्रासादे सर्वतो भग्ने प्रासादस्थास्तु देवताः । 102 ।
मूलबिम्बस्य पीठे तु समावाह्य समर्चयेत् ।
प्राक्तनैरेवेष्टकाद्यैस्तत्सजातीय वस्तुभिः । 103 ।

[[257]] नूतनैश्चापि मिळितैः प्रासादं कल्पयेत्पुनः ।
पूर्वं विमानं यद्द्रव्यं यादृग्लक्षण संयुतम् । 104 ।
तादृगेव पुनःकुर्यान्न कुर्यादन्यथा पुनः ।
पुनःकृतं विमानाद्यं प्रतिष्ठाप्य यथा विधि । 105 ।
सम्प्रोक्षणादिकं कुर्याद्देवस्य मुनिपुङ्गवाः! ।
स्वयं व्यक्तादिके वापि देवसिद्धादि कल्पिते । 106 ।
बिम्बे विमाने प्राकारे गोपुरेद्वारि मण्टपे ।
पीठे वा पचनावासे कोशागारादिकेपिवा । 107 ।
लक्षणैरन्विते वापि लक्षणैरुज्झितेपि वा ।
जीर्णे पुनस्तथा कुर्यात् पूर्वरूपानुसारतः । 108
अन्यथा करणे विप्राः ! प्रत्यवायो महान्भवेत् ।
स्वयं व्यक्तादिके धाम्नि तथा देवादिकल्पिते । 109 ।
चिरकालवशात्किञ्चिच्छैथिल्यं समुपागते ।
निर्वाहकाणां भक्तानां शास्त्रज्ञानामनुज्ञया । 110 ।
बाह्येवाभ्यन्तरे धाम्नौ रक्षणार्थं शिलादिभिः ।
निपुणैः शिल्पिभिः कार्यो भित्तिबन्धः समन्ततः । 111
विमाने वह्निनादग्धे तु मानुषेवाप्यमानुषे ।
तद्दोषशान्तयेकुर्यादधमस्नपनं विभोः । 112 ।
वह्निदाहादिना भग्ने प्रासादे पूर्ववत्तु तत् ।
शान्तये शिल्प निपुणैः कुर्यात्सम्प्रोक्षणादिकम् । 113
क्ष्माभेद जलवेगाद्यैः पतितं भगवद्गृहम् ।
प्राग्बिम्बसहितं तस्माद्देशादन्यत्र कल्पयेत् । 114 ।
नष्टे स बिम्बे सदने दिव्यादौ प्राग्वदाचरेत् ।
चोरनद्यादि वेगाद्यैरति नष्ठे तु मानुषे । 115 ।
बिम्बेपश्चात् प्रकुर्वीत पूर्ववद्वान्यथा तु वा ।
न शून्यमूल बिम्बत्वाद्बालार्चावाहनादिकम् । 116 ।
न कुर्याद्देशिकेन्द्रस्तु पूर्ववत्स्थाप्य पूजयेत् ।
एवं हि सर्व देवानां परव्यूहादि रूपिणाम् । 117 ।
विष्वक्सेन गणेशादि परिवारगणस्य च ।
क्लृप्तानां गोपुराद्येषु विभवव्यूहरूपिणाम् । 118 ।
सान्निध्यातिशयात्तेषु पूजितानां दिनं प्रति ।
जीर्णोद्धारविधिः प्रोक्तः सर्वेषां मुनिपुङ्गवाः ! । 119 ।
तत्तत्सान्निध्यानुगुणं प्रतिष्ठादिकमाचरेत् ।
प्रायश्चित्तं समब्यूह्य साधकास्तु समाचरेत् । 120 ।
बिम्बादीनां च धामादेरङ्गभङ्गादिके सति ।
आचार्यस्त्वनुतापार्थः स्वमन्त्रमयुतं जपेत् । 121 ।
तदारभ्य ब्रह्मचर्य व्रतस्थः साधकैः सह ।
यद्बिम्बसमापत्ति जपेन्मन्त्रमतन्द्रितः । 122 ।
चतुस्थानार्चनं कुर्यात् सर्वदोषप्रशान्तये ।
त्रिरात्रं वा सप्तरात्रं पात्रेभ्यो दानमाचरेत् । 123 ।
गोभू हेमादिकानां तु यथा शक्ति मुनीश्वराः ! ।
ब्राह्मणान् भोजयेन्नित्यं शतं वापि सहस्रकम् । 124

[[258]] यावद्बिम्बस्य सन्धानं विशेषेणार्चयेद्विभुम् ।
सन्धानान्ते तु देवस्य कृत्वा सम्प्रोक्षणादिकम् । 125 ।
शान्ति होमं तथा दानं ब्राह्मणानां च भोजनम् ।
कारयेद्यजमानस्तु आचार्यं दक्षिणादिभिः । 126 ।
तोषयेच्छक्त्यनुगुणं तेन तुष्यति केशवः ।
अपूर्वकल्पनाज्जीर्ण समुद्धारेऽधिकं फलम् । 127 ।
लभते यजमानस्तु नात्रकार्याविचारणा ।
इत्येवं मुनिशार्दूला जीर्णोद्धारो मयोदिताः । 128 ।
ततस्तु बिम्बस्यास्पृश्य स्पर्शादौ मुनिपुङ्गवाः ! ।
प्रायश्चित्तं प्रवक्ष्यामि शृणुध्वमवधानतः । 129 ।
अस्नातो देशिकश्चैवं चण्डालाद्युपघादितः ।
केशास्र्ह्याद्यशुचिस्पृष्ठ स्त्रियं गत्वा ह्यनाप्लुतः । 130
स्पर्शेच्चेद्भगवद्बिम्बं स्नापयेन्नवभिर्घटैः ।
आचरेच्छान्ति होमं च शतवारं जपेन्मनुम् । 131 ।
एतेषां गर्भगेहान्तःप्रवेशाच्चेत्तदा विभुम् ।
संस्नाप्यपञ्चभिर्गव्यैः शान्तिहोमादिकं चरेत् । 132
अदीक्षितैरन्यतन्त्रदीक्षितैः रर्चकेतरैः ।
स्पृष्ठे बिम्बे तथा कुर्यात्स्नपनं त्वधमाधमम् । 133
शान्तिहोमं जपं चापि तद्दोषस्य प्रशान्तये ।
एतेषां गर्भगेहान्तः प्रवेशे नवभिर्घटैः । 134 ।
संस्नाप्य देवदेवेशं शान्तिहोमादिकं चरेत् ।
स्त्रीभिर्वानुपवीतैर्वा तथावैखानसैर्द्विजैः । । 135 ।
अवैष्णवैर्वा संस्पृष्ठे बिम्बेत्वधममध्यमम् ।
स्नपनं विधिवत्कृत्वा शान्तिहोमादिकं चरेत् । 136 ।
एतैः प्रविष्टे गेहान्तरमधमाधममार्गतः ।
संस्नाप्य विधिवद्देवं शान्तिहोमं समाचरेत् । 137 ।
पतितः पातकी वापि कुष्ठ्यपस्माररोगवान् ।
काणोवान्धश्च मूको वा बधिरोवाङ्गहीनकः । 138 ।
परस्त्रीगमनासक्तः कुण्डो वा गोळकोपि वा ।
ऱजस्वलान्त्यजाद्यैश्च संस्पृष्ठो गर्दभादिभिः । 139 ।
स्पर्शेच्चेद्भगवद्बिम्बमधमोत्तम मार्गतः ।
संस्नाप्य देवं विधिवच्छान्तिहोमं तथाचरेत् । 140 ।
एतैःप्रविष्टे धामान्तः कुर्यादधममध्यमम् ।
स्नपनं देवदेवस्य शान्तिहोमं तथाचरेत् । 141 ।
क्षत्रियैर्वैश्यैस्तथा शूद्रैः तत्त्तस्त्रीभिस्तु वा द्विजाः ।
बिम्बे स्पृष्टे क्रमात्कुर्यात् स्नपनं त्वधमोत्तमम् । 142
मध्यमाधमसञ्ज्ञं च तथा मध्यममध्यमम् ।
एतैर्गर्भगृहाभ्यन्तःप्रवेशे मुनिपुङ्गवाः ! । 143 ।
अधमाधम सञ्ज्ञं च तथाधममध्यमम् ।
अधमोत्तम सञ्ज्ञं च क्रमात्स्नपनमाचरेत् । 144 ।
सर्वत्रशान्तिहोमं च सहस्रं जपमाचरेत् ।
अनुलोमज संस्पृश्ये बिम्बस्य स्नपनं भवेत् । 145 ।

[[259]] मध्यमोत्तम सञ्ज्ञं तु प्रविष्टेतैर्गृहान्तरे ।
विमानेवापि संस्पृष्टे स्नपनं मध्यमाधमम् । 146 ।
प्रतिलोमज संस्पृष्टे बिम्बेतूत्तममध्यमम् ।
स्नपनं त्वाचरेत्तेषां प्रवेशे गर्भमन्दिरे । 147 ।
प्रासादेवापि तैस्स्पृष्टे स्नपनं तूत्तमाधमम् ।
कुर्यात्सर्वत्र होमं च जपं प्राग्वन्मुनीश्वराः ! । 148 ।
चोरभूतो ब्राह्मणो वा क्षत्रियो वैश्य एव वा ।
शूद्रोऽनुलोमजो वापि प्रतिलोमज एव वा । 149 ।
स्पर्शेच्चेद्देवबिम्बं तु क्रमेण स्नपनं भवेत् ।
मध्यमाधम सञ्ज्ञं च तथा मध्यम मध्यमम् । 150 ।
मध्यमोत्तम सञ्ज्ञं च ह्युत्तमोत्तमसञ्ज्ञकम् ।
तन्मध्यमं च स्नपनं तदस्यादुत्तमोत्तमम् । 151 ।
एतैस्तु गर्भगेहान्तः प्रवेशे ह्यधमोत्तमम् ।
मध्यमाधमपूर्वं च त्रितयं चोत्तमाधमम् । 152 ।
तन्मध्यमं च स्नपनं ह्याचरेत्क्रमशो द्विजाः! ।
अज्ञातजातिभिश्चोरैः बिम्बसंस्पर्शने कृते । 153 ।
सहस्रकलशैर्देवं स्नापयेद्विधिपूर्वकम् ।
तैस्तु गर्भगृहाभ्यन्तःप्रवेशे तूत्तमोत्तमम् । 154 ।
स्नपनं स्यात्तु सर्वत्र शान्तिहोमो जपस्तथा ।
आशौचवद्भिर्मनुजैः महापातकिभिर्नरैः । 155 ।
चण्डालैः सूतिकोदक्याम्लेच्छैर्वा पुल्कसादिभिः ।
संवृते भगवद्बिम्बे गोघृतेनाभिषिच्य तत् । 156 ।
सम्प्रोक्षणं च विधिवत्कृत्वा शान्तिं समाचरेत् ।
ग़ोदानादिस्तथा कुर्याद्ब्राह्मणश्चापि भोजयेत् । 157 ।
चित्रमृण्मयबिम्बं तु नवीकृत्य यथाविधि ।
पुनः प्रतिष्ठां कुर्वीत स्वयंव्यक्तादिकेषु च । 158 ।
चित्रबिम्बादिकं चापि न नवीकृत्य पूर्ववत् ।
सम्प्रोक्षणादिकं कुर्यात् तत्तु तेनैवशुद्ध्यति । 159 ।
एतैराशौचवत्पूर्वैः प्रवेशे गर्भमन्दिरे ।
विमानस्पर्शने चापि ह्यालयस्थानि सर्वतः । 160 ।
मृत्पात्राणि परित्यज्य लोहपात्राणि शोधयेत् ।
आलयं चापि संशोध्य मार्जनाल्लेपनादिभिः । 161 ।
पञ्चगव्येन सम्प्रोक्ष्य सर्वत्र मुनिपुङ्गवाः ! ।
उत्तमोत्तममार्गेण स्नापयेद्विधिवत्प्रभुम् । 162 ।
तैरग्रमण्टपाभ्यन्तः प्रथमावरणेपि वा ।
प्रवेशे धामसंशुद्धिं प्राग्वत्कृत्वा मुनीश्वराः ! । 163 ।
अधमोत्तममार्गेण स्नापयेत्पुरुषोत्तमम् ।
द्वितीयावृत्तिमारभ्य रथ्यावरणपश्चिमम् । 164 ।
तैरन्तःस्सम्प्रविष्टे तु कृत्वाऽऽलय विशोधनम् ।
अधमाधममार्गेण देवं संस्नापयेद् द्विजाः 1 । 165 ।
सर्वत्र शान्तिहोमं च कुर्याद्ब्राह्मणभोजनम् ।
चण्डालैश्श्वपचैर्वापि प्रमादाद्विष्णुमन्दिरे । 166 ।

[[260]] निरन्तरं कृते वासे मासमेकं मुनीश्वराः! ।
मृत्पात्राणि परित्यज्य सम्मार्ज्य भगवद्गृहम् । 167 ।
गोमयेनोपलिप्याथ पर्यग्निकरणं चरेत् ।
पुण्याहं वाचयित्वाथ प्रोक्षयेत्पञ्चगव्यकैः । 168 ।
गोगणं वासयेत्तत्र सर्वदोषप्रशान्तये ।
वाचयित्वा महाशान्तिं ब्राह्मणैर्वेदपारगैः । 169 ।
भोजयित्वा द्विजांस्तत्र तेभ्योदद्यात्तु दक्षिणाम् ।
एवं मासं तु मासार्धं सप्तपञ्चत्र्यहन्तु वा । 170 ।
कृत्वा शुद्धिं मन्दिरस्य बिम्बानां गोघृतैः पुरा ।
कृत्वाभिषेचनं प्राग्वत्सम्प्रोक्षणमथाचरेत् । 171 ।
मानुषं मृण्मयं बिम्बं तथा चित्रमयं द्विजाः! ।
नवीकृत्य यथापूर्वं प्रतिष्ठां पुनरारभेत् । 172 ।
चण्डालश्वपचाद्यास्तु प्रमादाद्भगवद्गृहे ।
कर्मण्यधिकृताश्चेत्तैः सहवासोपि च द्विजाः! । 173 ।
स्नात्वा सर्वे कुशाम्भश्च पीत्वा चान्द्रायणादिकम् ।
कृत्वा चालयसंशुद्धिं द्विजभोजनपश्चिमम् । 174 ।
सम्प्रोक्षणादिकं सर्वं प्राग्वदेव समाचरेत् ।
अन्ते महोत्सवं कुर्यात्सर्वदोषप्रशान्तये । 175 ।
तथैव प्रतिलोमाद्याः कर्मण्यधिकृता यदि ।
प्राग्वदालयशुद्ध्यन्तं सर्वं कृत्वा यथाविधि । 176 ।
सहस्रकलशैः स्नानमुत्सवं च समाचरेत् ।
ब्रह्मक्षत्रियविट्छूद्र शवैश्चानुलोमजैः । 177 ।
शवैः स्पृष्टं कौतुके तु गोघृतेनाभिषिच्य तम् ।
सम्प्रोक्षणं प्रकुर्वीत सहस्रकलशाप्लवम् । 178 ।
शान्तिहोमं च कुर्वीत जपं चायुतसङ्ख्यया ।
मानुषं चित्रबिम्बाद्यं नवीकृत्य यथाविधि । 179 ।
पुनः प्रतिष्ठां कुर्वीत सहस्रकलशाप्लवम् ।
तैश्शवैर्गर्भगेहान्तविमाने वापि दूषिते । 180 ।
कुर्यात्सम्प्रोक्षणं चापि स्नपनं चोत्तमोत्तमम् ।
प्रतिलोमजचण्डालसूतिकाशव दूषिते । 181 ।
बिम्बे प्रतिष्ठां कुर्वीत नयनोन्मीलनं विना ।
सहस्रकलशैश्चापि स्नापयेत्पुरुषोत्तमम् । 182 ।
प्रासादे दूषिते तैस्तु शवैः सम्प्रोक्षणं चरेत् ।
सहस्रकलशैश्चापि स्नापयेद्विधिपूर्वकम् । 183 ।
प्रथमावृत्तिमारभ्य रथ्यावरणपश्चिमे ।
ब्राह्मणादिशवैर्वापि प्रतिलोमशवादिकैः । 184 ।
दूषिते प्राङ्कणक्षेत्रे चतुर्हस्तमितां क्षितिम् ।
ख़ात्वा मृदं समुद्धृत्य बहिः प्रक्षिप्य शुद्धया । 185 ।
सम्पूर्य च समीकृत्य कारयेन्मार्जनादिकम् ।
शिलातलं चेत्तां भूमिं दाहयेत्खननं विना । 186 ।
ग़ोमयेनोपलिप्याथ पुण्याहोद्घोषणादिकम् ।
पञ्चगव्येन चाभ्युक्ष्य गोगणं तत्र वासयेत् । 187 ।

[[261]] वाचयित्वा महाशान्तिं भोजयेत्तत्र वै द्विजान् ।
कृत्वैवं स्थलसंशुद्धिं शान्तिं कुर्यादतः परम् । 188
मुख्योत्तमात्तु स्नपनान् नीचान्तिममनुक्रमात् ।
स्नापयित्वा विशेषेण शान्तिहोमादिकं चरेत् । 189 ।
आलये जनने वापि प्रमादान्मुनिपुङ्गवाः ! ।
प्रायश्चित्तं भवेदेव तत्तदावरणक्रमात् । 190 ।
सालमण्टप पीठेषु गोपुरेषु मन्दिरेषु वा ।
विमानाद्बाह्यतो वापि परिवारालयादिषु । 191 ।
वर्णानां ब्राह्मणादीनामनुलोमादिकस्य च ।
मरणे जनने वापि तत्तदावरणोक्तवत् । 192 ।
प्रायश्चित्तं प्रकुर्वीत बिम्बस्पर्शादिकेपि च ।
तत्तत्सान्निध्यानुगुणं प्रायश्चित्तं समाचरेत् । 193 ।
एवं महानसे वापि यागमण्टप एव वा ।
चण्डालादि प्रवेशे वा शवाद्यैर्वापि दूषिते । 194 ।
मृत्पात्राणि परित्यज्य खननाद्यैर्महीतलम् ।
संशोध्य कुण्डचुल्लीस्थमग्निं त्यक्त्वा यथाविधि । 195
पुनरग्निं प्रतिष्ठाप्य शान्तिहोमादिकं चरेत् ।
स्वयंव्यक्ताद्यालस्यानामङ्गत्वेन प्रकल्पिते । 196 ।
ग्रामादौ ब्रह्मवर्णस्य मरणं सम्भवेद्यदि ।
ग्राममध्ये गतो यावच्छवस्तिष्ठति वै द्विजाः । 197 ।
सम्प्रोक्ष्य सर्वतोग्रामं पुण्याहोद्घोषपूर्वकम् ।
तत्तस्तु देवदेवस्य प्रकुर्यात्पूजनादिकम् । 199 ।
आरब्धे पूजने विप्राः ! ग्रामश्चेच्छवदूषितः ।
आरब्दपूजनं शीघ्रं कुर्यात्तन्त्रेण देशिकः । 200 ।
प्राग्वद्ग्रामप्रोक्षणान्ते पुनः पूजनमाचरेत् ।
ग्रामे शूद्रादिमरणं सम्भवेद्यदि वै तदा । 201 ।
आशौचं गृहमात्रस्य ग्रामाशौचं न विद्यते ।
तत्रापि भगवद्गेहसमीपे द्विजसत्तमाः । 202 ।
एकादशधनुर्भ्योन्तः शूद्रादि शवदूषिते ।
निष्कास्य तच्छवं पश्चात्कुर्याद्देवस्य पूजनम् । 203
पुरग्रामाद्यङ्गतया क्लृप्तेपि भगवद्गृहे ।
अन्तश्शवं चेद्ग्रामाद्यं न कुर्याद्देवपूजनम् । 204 ।
चतुश्शतब्राह्मणैस्तु युक्ते ग्रामपुरादिके ।
अन्तश्शवेपि नैवास्ति ग्रामाशौचं मुनीश्वराः! । 205
तत्रापि भगवद्गेहसमीपे चैकवीधिषु ।
शवस्तिष्ठति चेद्देवं नार्चयेत्प्रोक्षणात्पुरा । 206 ।
उत्सवाङ्गतया क्लृप्तग्रामादौ राष्ट्रसङ्कुलात् ।
चण्डाळपतितोदक्या सूतिका शबरादिभिः । 207 ।
अधिष्ठिते च श्वानाद्यैर्मध्यमांसादिभिस्तथा ।
शवास्थिभिश्च सन्दुष्टे सर्वत्रैकत्र वा क्षितिम् । 208 ।
ख़ात्वा मृदं समुद्धृत्य बहिःप्रक्षिप्य शुद्धया ।
समापूर्य समीकृत्य पञ्चगव्योक्षणादिभिः । 209 ।

[[262]] शुद्धिं कृत्वा ग्रामशान्तिं कुर्यात्तद्दोषशान्तये ।
रेतोमूत्रपुरीषाद्यैः रुधिरापेयवान्तिभिः । 210 ।
निष्टीवनास्थिमांसाद्यैर्बिम्बे स्पृष्टे मुनीश्वराः ।
उत्तमोत्तममार्गेण स्नापयेच्छान्तिमाचरेत् । 211 ।
एतैः प्रासादसंस्पर्शे मध्यमोत्तममार्गतः ।
संस्नाप्य देवदेवेशं शान्तिहोमं समाचरेत् । 212 ।
प्रथमावरणे तैस्तु संस्पृष्टे मुनिपुङ्गवाः! ।
अधमोत्तममार्गेण स्नापयेत्पुरुषोत्तमम् । 213 ।
द्वितीयावरणादौ तु शकृन्मूत्रादिदूषिते ।
तत्क्षणात्तद्बहिर्नीत्वा मार्जनाल्लेपनादिभिः । 214 ।
शोधयित्वा भुवं पश्चात्पञ्चगव्यैस्तु सेचयेत् ।
शान्तिहोमं ततः कुर्यात्सर्वदोषप्रशान्तये । 215 ।
तथैव भगवद्गेहे प्रथमावरणादिषु ।
रजसा दूषिते स्त्रीणां तद्भुवं जानुमात्रकम् । 216 ।
खात्वा तु मृद्भिर्नव्याभिरापूर्य धरणीतलम् ।
गोमयाम्भोभिरालिप्य पर्यग्निकरणं तथा । 217 ।
पुण्याहवाचनं पञ्चगव्यैरभ्युक्षणं तथा ।
कृत्वा रजस्वलाभिस्तु स्पृष्टं द्वारकवाटकम् । 218 ।
सङ्क्षाळ्य वारिणा भूयस्तासां मार्गं च मार्जनैः ।
गोमयालेपनश्चैव शोधयित्वालयस्थितान् । 219 ।
मृद्भाण्डांश्च परित्यज्य प्रासादान्तःस्थितं विभुम् ।
अधमोत्तममार्गेण स्नापयित्वा तथैव हि । 220 ।
रजस्वलासन्निकृष्टं बिम्बं च स्नाप्य शास्त्रतः ।
शान्तिहोमं जपं चापि कुर्याद्देशिकसत्तमः । 221 ।
मार्जालमूषिकासर्प मण्डुकसरटादिभिः ।
गौळीभिश्चापि खद्योतैः बिम्बसंस्पर्शने सति । 222 ।
स्नापयेन्नवभिः कुम्भैर्देवदेवं मुनीश्वराः! ।
पिपीलिकाद्यैर्बिम्बस्य स्पर्शे दोषो न विद्यते । 223 ।
बिम्बे गोमुखसंस्पृष्टे तथा वै वर्षबिन्दुभिः ।
अधमाधममार्गेण स्नाप्य शान्तिं समाचरेत् । 224 ।
श्वानैश्च गर्दभैरुष्ट्रैर्वराहैश्च शिवाशशैः ।
बिम्बे स्पृष्टे स्नापयेत्तमुत्तमोत्तममार्गतः । 225 ।
सहस्रसङ्ख्यया शान्तिहोमं च जपमाचरेत् ।
एतैर्गर्भगृहाभ्यन्तःप्रवेशे स्पर्शनेपि वा । 226 ।
मध्यमोत्तममार्गेण स्नापयेत्पुरुषोत्तमम् ।
प्रथमावरणाभ्यन्तःप्रवेशे त्वधमोत्तमम् । 227 ।
स्नपनं कारयेत्तेषां द्वितीयावरणादिषु ।
प्रवेशश्चेद्देवदेवमधमाधम मार्गतः । 228 ।
संस्नाप्य शान्तिहोमं च सहस्रं जपमाचरेत् ।
मार्जालादिशवैर्बिम्बस्पर्शने त्वधमोत्तमम् । 229 ।
स्नपनं शान्तिहोमं च कुर्याद्देशिकसत्तमः ।
तैस्तु गर्भगृहाभ्यन्तर्दूषिते नवभिर्घटैः । 230 ।

[[263]] स्नापयेद्देवदेवं तु शान्तिहोमं तथाचरेत् ।
प्रथमावरणादौ तैर्दूषिते तद्बहिर्नयेत् । 231 ।
मार्जनैर्गोमयालेपैः पञ्चगव्यैश्च शोधयेत् ।
गोमहिष्यव्यजाद्यैस्तु वानरादिशवैस्तथा । 232 ।
बिम्बस्पर्शे स्नापयेत्तमुत्तमोत्तम मार्गतः ।
एतैस्तु गर्भगेहान्तर्दूषिते मध्यमोत्तमम् …233 ।
स्नपनं शान्तिहोमं च कुर्याद्देशिकसत्तमः पूर्वोक्तानां गवादीनां प्रथमावरणादिषु । 234 ।
जनने मरणे चैव तद्भुवं खननादिभिः ।
संशोध्य स्नापयेद्देवमधमोत्तममार्गतः । 235 ।
श्वगर्भवराहादिशवैः स्पृष्टे तु कौतुके ।
सम्प्रोक्षणं तथा शान्तिहोमादींश्च समाचरेत् । 236
एतैः प्रासाद संस्पर्शे उत्तमोत्तममार्गतः ।
स्नापयेद्देवदेवं तु प्रथमावरणादिषु…237 ।
तैर्दूषिते देवदेवं मध्यमोत्तममार्गतः ।
संस्नाप्य शान्तिहोमादीन् कुर्याद्देशिकसत्तमः238 ।
तथा महानसे यागगेहे श्वादिप्रवेशने ।
तच्छवैर्दूषिते वापि मृत्पात्राणि परित्यजेत् । 239 ।
लोहपात्राणि संशोध्य कृत्वा सम्मार्जनादिकम् ।
पञ्चगव्यैश्च सम्प्रोक्ष्य शान्तिहोमं समाचरेत् । 240
तैस्तु कुण्डादिसंस्पर्शे चुल्लीस्पर्शे तथा द्विजाः ! ।
त्यक्त्वा तमग्निमन्यन्तु स्नापयेद्विधिवद्द्विजाः 241
काकैर्गृध्रैस्तथा धूकैः कुक्कुटैश्च कपोतकैः ।
श्येनाभिश्च गोधाभिर्बिम्बस्पर्शे मुनीश्वराः । 242 ।
मध्यमोत्तममार्गेण स्नापयेच्छान्तिमाचरेत् ।
एतेषां गर्भगेहान्तःप्रवेशे मुनिपुङ्गवाः! । 243 ।
अधमोत्तममार्गेण स्नाप्य शान्तिं समाचरेत् ।
प्रथमावरणाद्येषु ह्यप्रवेश्यस्थले द्विजाः । 244 ।
एषां प्रवेशे तत्स्थानं प्रोक्षयेत्पञ्चगव्यकैः ।
शान्तिहोमादिकं कुर्यात्सर्वदोषप्रशान्तये । 245 ।
काकादीनां शवैः स्पृष्टे बिम्बे चैवोत्तमोत्तमं

स्नपनं शान्तिहोमं च कुर्यात्तद्दोषशान्तये । 246 ।
तैस्तु प्रासादसंस्पर्शे मध्यमोत्तममार्गतः ।
स्नापयेद्देवदेवं तु प्रथमावरणादिषु । 247 ।
तैर्दूषिते स्थले तत्तु मार्जनाल्लेपनादिभिः ।
संशोध्य पञ्चगव्यैश्च प्रोक्षणं शान्तिमाचरेत् । 248 ।
महानसादौ तैर्दुष्टे प्राग्वत्सर्वं समाचरेत् ।
शिथिलीसरघातुम्भी वल्मीकादौ तु वा द्विजाः । 249
बिम्बोपरि समुत्पन्ने तत्समुद्धृत्य तत्क्षणात् ।
बिम्बाभिषेचनं कृत्वा पञ्चगव्यैर्यथाविधि । 250 ।
कृत्वा सम्प्रोक्षणं पश्चाच्छान्तिहोमं समाचरेत् ।
गोभूतिलादिकं दद्यात्तद्दोषस्य प्रशान्तये । 251 ।

[[264]] सहस्रं ब्राह्मणांश्चैव भोजयेन्मुनिपुङ्गवा ! ।
प्रासादे गर्भगेहे वा शिथिल्यादि समुद्भवे । 252 ।
उत्तमोत्तममार्गेण स्नापयेत्पुरुषोत्तमम् ।
शान्तिहोमादिकं सर्वं प्राग्वदेव समाचरेत् । 253 ।
प्राकारे मण्टपे वापि गोपुरे वाहनादिके ।
शिथिलीसरटादीनां वल्मीकादेस्समुद्भवे । 254 ।
छत्रकाणां समुत्पत्तौ ब्रह्मदण्डसमुत्थितौ ।
तत्क्षणात्तत्समुद्धृत्य प्रोक्षयेत्पञ्चगव्यकैः । 255 ।
अधमोत्तममार्गेण संस्नाप्य पुरुषोत्तमम् ।
शान्तिहोमादिकं सर्वं प्राग्वदेव समाचरेत् …256 ।
भगवन्मन्दिरे विप्राः ! । कृतं चेत्पूजकेतरैः ।
आसनेष्वासनं चैव शयनं भोजनादिकम् । 257 ।
तत्स्थानं पञ्चगव्येन प्रोक्ष्यशान्तिं समाचरेत् ।
बिम्बोपर्यशनेः पाते भग्नाङ्गं च यथाविधि । 258 ।
सन्धाय प्रोक्षणं कृत्वा सहस्रकलशैस्तथा ।
संस्नाप्य देवं शान्त्यर्थं हुत्वा ब्राह्मणभोजनम् । 259 ।
सहस्रसङ्ख्यया कृत्वा कुर्यादन्ते महोत्सवम् ।
प्रासादेत्वशनेपाते भग्नं सन्धाय पूर्ववत् । 260 ।
सम्प्रोक्षणादिकं कृत्वा उत्तमोत्तममार्गतः ।
संस्नाप्य देवं तदनु शान्तिहोमादिकं चरेत् । 261 ।
प्रथमावरणाद्येषु गोपुरे मण्टपे तु वा ।
भवेदशनिपातश्चेदधमोत्तममार्गतः । 262 ।
स्नपनं शान्तिहोमं च ब्राह्मणानां च भोजनम् ।
अथोत्पातस्य शान्तिं तु वक्ष्यामि शृणुत द्विजाः ! ।
उल्काशान्त्यादिपाते च नक्षत्रे पतिते च खात् ।
सधूमे च दिशां दाहे भूतोद्यावेशिते नृपे । 264 ।
दुर्भिक्षे व्याधिते राष्ट्रे तथा वै शत्रुसङ्कटे ।
सूर्योदयस्य व्यत्यासे भूकम्पे तद्वदारिणे । 265 ।
अतिवृष्टिरनावृष्टौ दिव्यदुन्दुभिनिस्वने ।
ऱात्राविन्द्रधनुर्दर्शे जलेऽग्निजने तथा । 266 ।
चन्द्रोदयेऽन्धकारे च विनाग्निं धूमदर्शने ।
प्रतिसूर्यप्रदेशे च दिवा नक्षत्रदर्शने । 267 ।
दर्शने वालमीनस्य रात्रौ सूर्यप्रदर्शने ।
स्वप्ने तु चन्द्रपतने भूमौ ज्वलनदर्शने । 268 ।
भूतादिदर्शने चैव व्योम्नि नेमिस्वने तथा ।
आकाशे ग्रहयुद्धे च निमित्तं तु विना द्विजाः । 269 ।
आर्द्रवृक्षस्य पतने तथैव पतिते गिरौ ।
वृक्षे त्वन्यफले दृष्टे शिलायामङ्कुरे तथा…270 ।
शिलावर्षे तटाकादौ रक्तशैवालदर्शने ।
द्विशीर्षाजन्तु प्रसवे द्रुमे शोणितसम्भवे ।
विभिन्नजन्तुप्रसवे । मनुष्यपशुपक्षिषु ।
एवमन्येष्वद्भुतेषु महोत्पातेषु सत्स्वपि । 272 ।

[[265]] तद्दोषशान्तिं विप्रेन्द्राः ! कारयेदचिरान्नृपः ।
स्थापनोक्तविधानेन कल्पिते मण्टपे शुभे । 273 ।
चक्राम्बुरुहपूर्वेषु यथावत्कल्पितेषु च ।
कुण्डेषु दशसङ्ख्येषु ब्रह्मवृक्षादिसम्भवैः । 274 ।
समिद्गणैस्तिलैराज्यैः सेचितः प्रागुदीरितैः ।
पञ्चभिर्मधुराद्यैश्च मिश्रीभूतैः क्रमेण तु । 275 ।
महत्तराणां दोषाणां शान्तये मन्त्रवित्तमैः ।
अयुतं नियुतं लक्षं कोटिनिष्टं यथाबलम् । 276 ।
होतव्यं पूर्णया सार्धं दशभिर्मन्त्रवित्तमैः ।
कुण्डेषु मध्यपूर्वेषु मन्त्राणां नियतिः क्रमात् । 277 ।
चक्राब्जे द्वादशार्णेन वस्वश्रेऽष्टाक्षरेण तु षडर्णेन षडश्रेषु शङ्खाभे प्रणवेन तु । 278 ।
जितन्तया चतुरश्रे विश्वत्राता त्रिकोणके।
द्वात्रिंशद्दळपद्माख्ये नृसिंहानुष्टुभेन तु । 279 ।
सुदर्शननृसिंहेन चक्रकुण्डाक्षरारके।
वारानहेणार्धचन्द्राख्ये वृत्तौ सौदर्शनेन तु । 280 ।
धिष्ण्यद्वयं मध्यवेद्यां प्रागुक्तं दक्षिणोत्तरे।
शेषाणि परितः कुर्याद्दिक्षु चैव विदिक्षु च । 281 ।
सिद्धमन्त्रा नियोक्तव्या होतारः शान्तिकर्मणि।
सर्वकुण्डानि सर्वेषां मन्त्राणामिच्छया गुरोः । 282 ।
कल्पनीयानि वा मन्त्रा यतः सर्वफलप्रदाः।
न्यस्तमन्त्रैर्यथान्यायं जप्यास्ते सङ्ख्यया तथा । 283
गोभूहेमतिलान्नानां दानैर्योग्यजनस्य च।
तृप्तिः कार्या विशेषेण दिव्याद्यायतनस्य च । 284 ।
प्रजापालनशीलेन भूपेनात्महितेच्छुना।
शान्तिरेवंविधा कार्या शास्त्राङ्गैर्बहुभिर्धनैः । 285 ।
मुख्यकल्पे विधिरयमनुकल्पे द्विजोत्तमाः !।
पूर्ववद्यागगेहे तु पञ्चकुण्डेष्वनुक्रमात् । 286 ।
व्यापकैः पञ्चभिर्मन्त्रैरष्टाक्षरपुरस्सरैः।
मधुक्षीरादिभिर्द्रव्यैः पञ्चभिर्नियुताख्यया । 287 ।
सङ्ख्यया जुहुयान्मन्त्री लक्षसङ्ख्या यथा भवेत् ।
गोभूतिलादिकं दद्यात्प्राग्वदेव मुनीश्वराः ! । 288 ।
सर्वत्रान्ते ध्वजारोहपूर्वकं तूत्सवं चरेत् ।
तथा बिम्बस्य हसने चलने रोदने तथा । 289 ।
पतने भ्रमणे स्वेदसम्भवे रक्तसम्भवे।
सम्प्रोक्षणं तु कृत्वाथ पूर्वोक्तां शान्तिमाचरेत् । 290 ।
महोत्सवान्तं देवस्य सर्वदोषप्रशान्तये।
प्रासादान्तःस्थिते बिम्बे अकस्मादुष्णसम्भवे । 291 ।
पयोमधुघृतैश्चैव नाळिकेरजलैस्तथा।
पृथक्प्रस्थसहस्रैस्तु स्नापनीयेत्सप्तवासरान् । 292 ।
ततः पूर्वोदितां शान्तिमुत्सवान्तं समाचरेत् ।
रक्तवर्षेतु सञ्जाते प्रासादादीन् मुनीश्वराः! । 293 ।

[[266]] शुद्धोदकैः क्षाळयित्वा गोमयालेपनं तथा।
पर्यग्निकरणं पञ्चगव्यैः सम्प्रोक्षणं तथा । 294 ।
कृत्वा देवस्य विधिवत्सम्प्रोक्षणमथाचरेत् ।
संस्नाप्य मधुसर्पिभ्यां देवं प्रस्थसहस्रकैः । 295 ।
कुर्यात्पूर्वोदितां शान्तिमुत्सवान्तं यथाविधि।
मधुवर्षे क्षीरवर्षे तत्तत्प्रस्थसहस्रकैः । 296 ।
संस्नाप्य देवं सप्ताहं प्राग्वच्छान्तिं समाचरेत् ।
अकस्माद्धामपतने तदूर्ध्वे पतिते द्रुमे । 297 ।
सन्धाय पूर्ववच्छीघ्रं कृत्वा सम्प्रोक्षणं विभोः।
कुर्यात्पूर्वोदितां शान्तिमन्ते कुर्यान्महोत्सवम् । 298
एवं महोत्पातशान्तिर्विप्राः! प्रकीर्तिताः।
अथ नित्यार्चनादीनां प्रायश्चित्तं तु वक्ष्यते । 299 ।
अस्नातोनूर्ध्वपुण्ड्राश्चापवित्रोनुपवीतकः।
नग्नो वा ह्येकवस्त्रो वा जीर्णवस्त्रधरस्तु वा । 300 ।
तथा पर्यूषितं वासो दधानो नीलवस्त्रधृक्।
दग्धवस्त्रधरो वापि ह्यार्द्रवस्त्रधरस्तु वा । 301 ।
अनाचान्तो ध्यानहीनो मुक्तकेशस्तथा द्विजाः!।
स्विन्नाङ्गश्च हसन् कुप्यन् श्वसंश्च प्रलपन् द्विजाः। 302
निष्टीवादियुतश्चापि देवं सम्पूजयेद्यदि।
तद्दोषशान्तये विप्रा अष्टाक्षरमनुत्तमम् । 303 ।
जपेत्सहस्रवारं तु शतवारं तु वा द्विजाः!।
पुनः सम्पूजनं कुर्याद्देवस्य विधिपूर्वकम् । 304 ।
केशास्थिलोष्टचीरासृगस्पर्शस्य स्पर्शदूषितः।
तथा मूत्रपुरीषादीन् समाक्रम्य ह्यनाप्लुतः । 305 ।
आशौचवद्भिः सम्पृष्टष्चण्डालाद्युपघातकः।
रुधिराद्यन्विताङ्गश्च पूजयेद्यदि केशवम् । 306 ।
पञ्चगव्यैः स्नापयित्वा पुनः पूजनमाचरेत् ।
काकगृध्रादिभिः स्पृश्टः श्वानैर्वा गर्दभादिभिः। 307 ।
पाशण्डलोप्रतिलोमाद्यैः पतितैर्हीनवृत्तिभिः।
चैत्यवृक्षादिभिश्चापि संस्पृषटः पूजयेद्यदि । 308 ।
अधमाधममार्गेण स्नापयेत्पुरुषोत्तमम् ।
चण्डालाद्यैर्वा तथा म्लेच्छैरुदक्यासूतिकादिभिः । 309
महापातकिभिः स्पृष्टः स्त्रियं गत्वाह्यनाप्लुतः।
पूजयेद्यदि देवेशं नीचमध्यममार्गतः । 310 ।
संस्नाप्य देवं तदनु पुनः पूजनमाचरेत् ।
परस्त्रीगमनासक्तः कुष्ठी वाप्यङ्गहीनकः । 311 ।
काणो वान्धोपि मूको वा बधिरः पुङ्गरेव वा।
अपस्मारी तथोन्मत्तो देवं सम्पूजयेद्यदि । 312 ।
अधमोत्तममार्गेण देवं संस्नापयेद् द्विजाः!।
आशौचवान्वा पतितः गुण्डो वा गोळकोपि वा । 313।
महापातकवांश्चापि देवं सम्पूजयेद्यदि।
उत्तमोत्तममार्गेण संस्नाप्य पुरुषोत्तमम् । 314 ।

[[267]] शान्तिहोमं मूलमन्त्रजपं चापि समाचरेत् ।
क्रिमिकीटादिभिर्दुष्टधान्य पुष्पफलादिभिः । 315 ।
प्राण्यङ्गतुष भस्मास्थि केशदन्तनखादिभिः।
स्पृष्टैर्द्रव्यैस्तथाऽस्पृश्यपाणिपृष्टैः फलादिभिः । 316
तथा पर्यूषितैर्वान्यैः पत्रपुष्पफलादिभिः।
पूजने सति देवस्य मूलमन्त्रशतं जपेत् । 317
चण्डालपतितोदक्यासूतिका प्रतिलोमजैः।
शबराद्यैश्च संस्पृष्टैर्द्रव्यैश्शास्त्रविनिन्दितैः । 318 ।
पत्रपुष्पादिभिश्चैव स्पृष्टैर्वा गोमुखादिभिः।
मनुष्यलङ्घितद्रव्यैस्तथाऽस्पृश्य मृगादिभिः । 319 ।
क्रिमिकीट पतङ्गास्थि दन्तकेशनखादिभिः।
तुषैश्च भस्मलोष्टाद्यैर्युक्तैर्द्रव्यैस्तथा द्विजाः । 320 ।
पूर्वं समर्पितैर्द्रव्यैस्तथा पर्यूषितोदकैः।
पूजने सति देवस्य पुंसूक्तेन कुशोदकैः…321 ।
स्नापयित्वा मूलमन्त्रमष्टोत्तरशतं जपेत् ।
शान्तिहोमं तु वा कुर्यात्सर्वदोषप्रशान्तये । 322 ।
जन्तुभक्षित पुष्पाद्यैर्नीचावास समीपगैः।
अन्यारामोद्भवैः पुष्पैर्ग्रथितैर्दीक्षितेतरैः । 323 ।
शूद्रानीतैःपुष्पगेहाद्बहिर्बद्दैश्च रोगिभिः।
भूगतैः पत्रपुष्पाद्यैः फलाद्यैर्वार्चने हरेः । 324 ।
क्षीरेण स्नाप्य देवेशमष्टोत्तरशतं जपेत् ।
मूलमन्त्रं पुनः शुद्धपत्रपुष्पादिभिर्यजेत् । 325 ।
जीर्णवस्त्रैरधोतैश्च जीर्णैश्छत्रादिभिस्तथा।
अशोधितार्घ्यपात्राद्यैः कृते देवस्य पूजने । 326 ।
अष्टोत्तरशतं जप्त्वा पुनः पूजनमाचरेत् ।
केशास्र्ह्याद्यशुचिस्पृष्टैः स्पॄष्टैश्शूद्रादिभिस्तथा । 27।
श्वानादिभिर्वा संस्पृष्टैश्चाण्डालाद्युपघातकैः।
वस्त्रैस्सम्पूजिते देवे अध॑मोत्तममार्गतः । 328 ।
संस्नाप्य देवदेवेशं तु शान्तिहोमं समाचरेत् ।
चण्डाल सूतिकोदक्यास्पृष्टैर्वस्त्रैः प्रपूजने । 329 ।
उत्तमोत्तममार्गेण स्नाप्य शान्तिं समाचरेत् ।
केशास्थिश्वादिभिश्शूद्रैः स्पॄष्टं कार्पासवस्त्रकम् ।
पुनस्संशोध्य देवाय दद्याच्चण्डालपूर्वकैः।
स्पॄष्टं कार्पासवस्त्रं तु सन्त्यजेन्मुनिपुङ्गवाः 331।
पट्टवस्त्रं तु शूद्राद्यैः स्पृष्टं सम्प्रोक्षयेद्द्विजाः।
चण्डलपूर्वैः स्पृष्टं तु जलैः सङ्क्षालयेद्गुरुः । 332 ।
अजाविमहिषोष्ट्राज्यैस्तैलैरेरण्डजैस्तथा।
प्राण्यङ्गसम्भवैस्तैलैः फलजैर्वापि दीपने । 333 ।
अजादि क्षीरदध्याज्यहोमो वा मुनिपुङ्गवाः!।
शान्तिहोमं प्रकुर्वीत तद्दोषस्य प्रशान्तये । 334 ।
पूर्वोक्ताज्यादिभिर्देवस्नपने वा निवेदने।
अधमोत्तममार्गेण स्नपनं शान्तिमाचरेत् । 335 ।

[[268]] नरभुक्तैर्वस्त्रखण्डैर्दीपवर्त्यादिके कृते।
शान्तिहोमं प्रकुर्वीत सहस्रं जपमाचरेत् । 336 ।
धूपैः प्राण्यङ्गसम्मिश्रैस्तैलजैः स्नुहिजैरपि अन्यैर्दुर्गन्धजैश्चैव पूजयेद्यदि मोहतः । 337 ।
कपिलागोघृतेनैव हुत्वाहुतिसहस्रकम् ।
जातिपुष्पसहस्रेण देवमभ्यर्च्य देशिकः । 338 ।
पुनः शुद्धं मुनिश्रेष्ठाः ! कर्पूरागरु धूपयेत् ।
देवतान्तरनिर्माल्यदुष्टद्रव्यैः प्रपूजने । 339 ।
अधमाधममार्गेण स्नाप्य शान्तिं समाचरेत् ।
चण्डालसूतिकोदक्यास्पृष्टाद्वा शवदूषितात् । 340 ।
कूपात्समुद्धृत्यतैस्तोयैः कृते देवस्य पूजने।
उत्तमोत्तम मार्गेण स्नापयेत्पुरुषोत्तमम् । 341 ।
अन्तस्तिर्यक्छवात्कूपात्स्पृष्टाद्वा प्रतिलिमजैः।
समुद्धृतैर्जलैर्देवमर्चयेद्यदि मोहतः । 342 ।
तद्दोषशान्तये कुर्यात्स्नपनमुत्तममध्यमम् ।
अन्तर्जन्तुशवात्कूपाद्विण्मूतत्रोपेयदूषितात् । 343
देवतान्तरनिर्माल्यदुष्टाद्वोद्धृतवारिभिः।
पूजने देवदेवस्य स्नानं स्यादुत्तमाधमम् । 344 ।
अन्तश्शवोषितद्वापि स्पृष्टाच्चण्डाळपूर्वकैः।
सरसः प्रोद्धृतैस्तोयैः पूजने मध्यमोत्तमम् । 345 ।
स्नानं कुर्यात्तु देवस्य अन्तस्तिर्यक्छवोषितात् ।
स्पृष्टाद्वा प्रतिलोमाद्यैः सरः प्रोद्धृतैर्जलैः । 346 ।
पूजने सति देवस्य स्नानं मध्यममध्यमम् ।
स्पृष्टाच्चण्डालपूर्वैर्वा मनुष्यशवदूषितात् । 347 ।
तटाकादुद्धृतैस्तोयैः पूजने त्वधमोत्तमम् ।
स्नपनं देवदेवस्य कुर्याद्देशिकसत्तमः । 348 ।
अन्तश्शवोषिते कूपे स्पृष्टे चण्डालपूर्वकैः।
सर्वमुद्धृत्य तत्तोयं तदर्धं वा मुनीश्वराः । 349 ।
पुण्याहं वाचयित्वाथ प्रोक्षयेत्पञ्चगव्यकैः।
तिर्यक्छवादिभिर्दुष्टे जलस्यार्धं समुद्धरेत् । 350 ।
पादं वापि समुद्धृत्य प्रोक्षयेत्पञ्चगव्यकैः।
चुचुन्दर्यादिजन्तूनां शवैर्मूत्रपुरीषकैः । 351 ।
दुष्टे वा शिवनिर्माल्यैः कूपेतज्जलमुद्धरेत् ।
पादं वापि तदर्धं वा सेचयेत्पञ्चगव्यतः । 352 ।
चण्डालाद्यशुचिस्पर्शमनुष्यशवदूषिते।
प्रतिलोमजसंस्पर्शतिर्यक्छवादि दूषिते । 353। , कुर्यात्सरसि कूपोक्तप्रायश्चित्तार्धमेव च।
तटाके शवचण्डाळस्पर्शनाद्यैर्विदूषिते । 354 ।
आचरेत्सरसि प्रोक्तप्रायश्चित्तार्धमेवच।
यद्वा सरसि विस्तीर्णे तटाके च महत्तरे । 355 ।
कुम्भानां तु सहस्रं वा शतं वा जलमुद्धरेत् ।
दिवा समुद्धरेत्तोयं रात्रौ चेदग्निसन्निधौ । 356 ।

[[269]] चण्डालसूतिकोदक्या शबरैर्मद्यपादिभिः।
श्वसृगालवराहाद्यैः काकगृध्रादिभिस्तथा । 357 ।
स्पृष्टान्नपानभक्ष्यादेर्देवाय विनिवेदने।
तथा रुधिरमांसास्थिस्पृष्टान्न विनिवेदने । 358 ।
शवादिदूषितेगेहे पक्वान्नस्य निवेदने।
मृत्पात्राणि परित्यज्य लोहपात्राणि शोधयेत् । 359 ।
कृत्वा चालयसंशुद्धिं सर्वे स्नात्वा यथाविधि ।
कुर्युः कुशोदपानं च स्नपनं चोत्तमोत्तमम् । 360 ।
कृत्वा देवस्य विधिवच्छान्तिहोमं स॑माचरेत् ।
परस्त्रीगमनासक्तैर्भक्ष्याभक्ष्यविवेकिभिः । 361 ।
अवैष्णवैश्च संस्पृष्टहविषो विनिवेदने।
त्यक्तं पर्यूषितं वापि दृष्टं वाऽयोग्यमानुषैः । 362
मण्डूकमूषिकासर्पैर्बिडालैः स्पृष्टमेव वा ।
क्रिमिकीट पतङ्गाद्यैः स्पृष्टं केशादिदूषितम् । 363
श्वासाहतं तथाघ्रातं तथा पूर्वं निवेदितम् ।
निवेदयेच्चेदन्नाद्यं कुम्भैर्द्वादशभिः क्रमात् । 364 ।
संस्नाप्य देवदेवेशं शान्तिहोमं समाचरेत् ।
श्वगृध्रादि स्पृष्टचुल्ल्यां पक्वान्न विनिवेदने । 365 ।
प्राग्वद्द्वादशभिः कुम्भैः स्नापयेत्पुरुषोत्तमम् ।
चण्डालाद्यैः स्पृष्टचुल्ल्यां पक्वान्न विनिवेदने । 366
पञ्चविंशतिभिः कुम्भैः स्नापयेत्पुरुषोत्तमम् ।
अत्युष्णञ्चातिशीतं च रजस्तुषकणान्वितम् । 367 ।
मृत्पाषाणैर्दूषितं वा हविश्चेद्विनिवेदयेत् ।
जपेत्सहस्रवारं तु मूलमन्त्रं द्विजोत्तमाः ! । 368 ।
अया ज्ञीयैः कोद्रवाद्यैः कृतस्य हविषोऽर्पणे ।
निषिद्धशाकमूलानां फलानान्वा निवेदने । 369 ।
गोघृतेनस्नाप्यदेवं शान्तिहोमं समाचरेत् ।
महाहविर्विधाने तु विशेषः श्रूयतां द्विजाः ! । 370 ।
पचनालयतोऽन्यत्र साधितं दीक्षितेतरैः ।
अमन्त्रसंस्कृतं चान्नामविभक्तमलक्षणम् । 371 ।
निरीक्षितमयोग्यैश्च संस्पृष्टमक्षिकादिभिः ।
सम्प्रोक्ष्यचास्त्रतोयेन निवेद्यं यत्नगौरवात् । 372 ।
अन्यत्रैवं दुष्टहविः कल्पने शान्तिमाचरेत् ।
माक्षिकाघुणभृङ्गाद्यैः दष्टं दुष्टं पुरीषकैः । 373 ।
पत्रपुष्पफलाद्यन्नं त्यक्तव्यं तदधिष्ठितम् ।
अस्त्रोदकेन सम्प्रोक्ष्य दद्याद्देवाय भक्तितः । 374 ।
अकृत्वा भूतसंशुद्धिं मन्त्रन्यासादिकं तु वा ।
हृदि देवमनभ्यर्च्य निर्माल्योद्वासनादिकम् । 375 ।
बिम्ब संशोधनं वापि स्थानसंशोधनं त॑था ।
अकृत्वा देवयजनं कुर्याच्चेन्मोहतो द्विजाः! । 376 ।
तद्दोष शान्तये मूलमन्त्रं जप्त्वा सहस्रकम् ।
लुप्तकर्म ततः कृत्वा पुनः पूजनमाचरेत् । 377 ।

[[270]] अर्घ्यादीनां द्रव्यलोपे दहनाप्यायनादिके ।
लुप्ते वा विष्णुगायत्रीं शतं जप्त्वा यथा विधि । 378 ।
द्रव्यन्यासादि सम्स्कारं कृत्वार्घ्यादीन् समर्चयेत् ।
प्रासादद्वारदेवानां तथाऽऽवरणवासिनाम् । 379 ।
लुप्तेऽर्चने तत्पुरतस्तत्तन्मन्त्रान् यथाक्रमम् ।
अष्टोत्तरशतं जप्त्वा पुनरर्चनमाचरेत् । 380 ।
प्रासादद्वारदेवानां परिवारगणस्य वा ।
विपर्यासे मूलमन्त्रं शतं जप्त्वा क्रमाद्यजेत् । 381 ।
पीठार्चनमकृत्वैव देवसम्पूजने कृते ।
पीठादिदेवतामन्त्रं शतं जप्त्वा यथोदितम् । 382 ।
पुनः पीठार्चनं कृत्वा देवमभ्यर्चयेद्गुरुः ।
कर्मार्चाद्याङ्गबिम्बेषु वीनाऽऽवाहनमर्चने । 383 ।
लययागं भोगयागं विनावाभ्यर्चने कृते ।
सहस्रवारं सञ्जप्त्वा मूलमन्त्रं यजेत्पुनः । 384 ।
मन्त्रहानौ क्रियाहानौ मुद्राहानौ तथैव च । ; भोगमन्त्रक्रियादीनां विपर्यासेपि च द्विजाः ! । 385 ।
तद्दोषशान्तये मन्त्रमष्टोत्तरशतं जपेत् ।
पूजाकाले तु घण्टायाश्चालने तु विवर्जिते । 386 ।
वेदघोषविहीने वा शान्तिहोमं समाचरेत् ।
पूर्वक्लृप्तोपचारेतु न्यूने द्विगुणवस्तुभिः । 387 ।
पुनरभ्यर्चनं कृत्वा अष्टोत्तरशतं जपेत् ।
औपचारिकसांस्पर्श हृदयाङ्गमरूपिणाम् । 388 ।
परिच्युतौ च भोगानां त्रयाणां क्रमशो द्विजाः । ! पूजने सर्वबीजानि मात्रावित्तं घृतोदनम् । 389 ।
निवेदनीयं देवस्य विशेषेज्या पुरस्सरम् ।
मात्रादानादिहानौ तु देवं मङ्गलवारिभिः । 390 ।
संस्नाप्य शान्तिहोमं च कुर्यात्तद्दोषशान्तये ।
अकस्माद्दीपनिर्वाणे पूजा मध्ये मुनीश्वराः! । 391 ।
पुनरुद्दीप्य शान्त्यर्थं हुत्वा नेत्रमनुं जपेत् ।
अनिर्वाणस्य दीपस्य नाशे तु मुनिपुङ्गवाः ! । 392 ।
क्षीरेण स्नाप्य॑ देवेशं शान्तिहोमं समाचरेत् ।
पुनरारोप्य तद्दीपं जपेन्मूलसहस्रकम् । 393 ।
पाकस्थानादाहृतेषु देवनीराजनार्थतः ।
दीपेष्वेकतमो दीपो यायादुपरितिं यदि । 394 ।
प्रमादाद्वातवेगाद्यैः पुरस्ताद्विनिवेदनात् ।
श्रीभङ्गो जायते पश्चाद्यदि व्याद्यादि पीडनम् । 395 ।
तस्मात्प्रदीप्यसहसा मूलमष्टोत्तरं जपेत् ।
तथा नीराजने नष्ठे प्राक्पश्चाद्वा समर्पणात् । 396 ।
पुनः प्रदीप्यसहसा जपेन्मन्त्रं सहस्रधा ।
अयोग्यजन संस्पृष्टे तत्कुम्भे तं विहाय तु । 397 ।
कुम्भान्तरं समापाद्य तेन तत्तु स॑माचरेत् ।
पूजाकाले धूपपात्रे दीपपात्रे तु वा द्विजाः । 398 ।

[[271]] नीराजनार्थकुम्भे वा प्रमादात्पतिते सति ।
घण्टायाश्चार्घ्यपात्रादेश्छत्रादीनां तु वा द्विजाः ! । 399
पतने प्रजपेन्मन्त्रमष्टोत्तरसहस्रकम् ।
धूपपात्रादिके भग्ने पुनः शान्ताय पूर्ववत् । 400 ।
पञ्चगव्यैस्तु सम्प्रोक्ष्य पूजनादौ नियोजयेत् ।
क्लृप्तेषु पूजाकालेषु लुप्ते कस्मिंश्चिदर्चने । 401 ।
तदनन्तरकाले तु देवं द्विगुणवस्तुभिः ।
पूजयेद्द्वि त्रिकालेषु लुप्तेषु मुनिसत्तमाः! । 402 ।
त्रिचतुर्गुणितैर्द्रव्यैः पूजयेत्पुरुषोत्तमम् ।
एकाहमर्चना हीने त्वधमाधम मार्गतः । 403 ।
देवं संस्नाप्यविधिवच्छान्तिहोमं समाचरेत् ।
यजेद् द्विगुणितैर्द्रव्यैर्ब्राह्मणान् भोजयेत्तथा । 404 ।
द्विदिनादौ च पक्षान्ते पूजाहीने मुनीश्वराः ।
अधमोत्तममार्गेण स्नाप्य शान्तिं समाचरेत् । 405 ।
तावद्द्विगुणितैर्द्रव्यैर्दिनसङ्ख्यावशेन तु ।
देवमारोप्य विधिवद्ब्राह्मणान् भोजयेद्बहून् । 406 ।
एकमासेऽर्चनाहीने तूत्तमोत्तममार्गतः ।
संस्नाप्य देवं विधिवत्प्राग्च्वच्छान्त्यादिकं चरेत् । 407
संवत्सर त्रयादर्वाम्मासादूर्ध्वं द्विजोत्तमाः ! ।
पूजालोपे तु देवस्य कुर्यात्सम्प्रोक्षणं तथा । 408 ।
तावद्द्विगुणितैर्द्रव्यैर्माससङ्ख्यावशेन तु ।
देवमभ्यर्च्य विधिवत्सहस्रं भोजयेद् द्विजान् । 409 ।
संवत्सरत्रयादूर्ध्वं पूजालोपे तु मानुषे ।
पुनः प्रतिष्ठां कुर्वीत स्वयंव्यक्तादिकेषु तु । 410 ।
कुर्यात्सम्प्रोक्षणं चापि सहस्रकलशाप्लवम् ।
मनुष्यनिर्मिते स्थाने पूजालोपादिके द्विजाः! । 411 ।
प्रायश्चित्तं तु कृत्वैव नित्यपूजादिकं चरेत् ।
स्वयंव्यक्तादिके स्थाने पूजालोपादिके सति । 412 ।
पूजायां वर्तमा॑नायां प्रायश्चित्तं समाचरेत् ।
समित्परिधिदर्भाणां कूर्चानां हविषामपि । 413 ।
आज्यस्थाल्यादिपात्राणामग्नेः स्थण्डिलकुण्डयोः ।
स्रुक्स्रुवस्य प्रणीताया अभावे लक्षणोज्झिते । 414 ।
शान्त्यर्थं जुहुयान्मन्त्री प्राग्वद्व्यापकपञ्चकैः ।
एतेषां भेदने छेदे वह्निदाहादिके सति । 415 ।
पुनरन्यं समापाद्य शान्तिहोमं समाचरेत् ।
अभावे काष्ठसमिधामाज्येन चरुणा हुनेत् । 416 ।
समिद्भिराज्याभावे तु तिलैर्वा होममाचरेत् ।
अलाभे हविषान्येषामाज्येन जुहुयात्सुधीः । 417 ।
सर्वथा होमकार्येषु तिलमाज्यं न लोपयेत् ।
तिलाज्योरभावे तु हवनं स्यान्निरर्थकम् । 418 ।
शान्तिहोमं प्रकुर्वीत तद्दोषस्यापनुत्तये ।
वह्नौ कुण्डे स्थले चुल्यां संस्कृतेनुगतिं गते । 419 ।

[[272]] पुनराधाय संस्कृत्य शान्तिहोमादिकं हुनेत् ।
अग्निप्रतिष्ठाकर्मादौ मोहादविधिवत्कृते । 420 ।
पुनर्विधिवदापाद्य शान्तिहोमं समाचरेत् ।
वह्नौ स्पृष्टे तथाऽस्पृश्यैः केशास्थिनखरैरपि । 421 ।
यथावन्मूलमन्त्रेण जुहुयात्सर्पिषा शतम् ।
उदक्या सूतिकाद्यैश्च सन्निकृष्टेऽयुतं हुनेत् । 422 ।
संस्पृष्टेऽन्यं समाधाय जुहुयाच्चायुतं जपेत् ।
असमिद्धे हुतेऽग्नौ तु पुनर्होमं समाचरेत् । 423 ।
नैमित्तिकेषुकाम्येषु चोत्सवेषु विशेषतः ।
तदङ्गहुतभुग्यागं कुण्डेऽन्यस्मिन्समाचरेत् । 424 ।
विपर्यीसे कृते मोहाच्छान्तिहोमं समाचरेत् ।
हुतशेषहविश्शेषे भुक्ते योग्यजनैर्विना । 425 ।
जपेन्मूलायुतं मन्त्री दाता किल्बिषशान्तये ।
एकद्वित्रिचतुःपञ्चषट्कालेषु यथाक्रमम् । 426 ।
सङ्कल्प्य यागं होमान्तं हवनं न कृतं यदि ।
द्विगुणं हवनं कुर्यात्पूर्णान्तं मन्त्रवित्तमः । 427 ।
एकं दिनं समारभ्य मासान्तं होमलोपने ।
अधमोत्तममार्गेण संस्नाप्य पुरुषोत्तमम् । 428 ।
तत्तद्विगुणितैर्द्रव्यैर्होमकर्म समाचरेत् ।
मासोर्ध्वं वत्सरादर्वाक् होमलोपोऽधमोत्तमम् । 429
स्नपनं शान्तिहोमं च सहस्राहुतिभिश्चरेत् ।
वर्षोर्ध्वं होमलोपे तु स्नपनं मध्यमोत्तमम् । 430 ।
शान्तिहोमं च गोदानं कुर्याद्ब्राह्मण भोजनम् ।
पतने बलिवस्तूनां तत्त्यक्त्वान्येन देशिकः । 431 ।
बलिं दत्वाथ तच्छान्त्यैशान्तिहोमं समाचरेत् ।
तथैव बलिवस्तूनामस्पृश्यस्पर्शने द्विजाः ! । 432 ।
तथैव पात्रेऽभिमते केशलोष्टादिदूषिते ।
तत् त्यक्त्वान्येन निर्वर्त्य मूलमष्टोत्तरं जपेत् । 433 ।
बलिं दुष्टेन दद्याच्छेच्छातिहोम पुरस्सरम् ।
बलिं दत्वा विशेषेण परिवारमनुं जपेत् । 4429 ।
स्नपनं शान्तिहोमं च सहस्राहुतिभिश्चरेत् ।
वर्षोर्ध्वं होमलोपे तु स्नपनं मध्यमोत्तमम् । 430 ।
शान्तिहोमं च गोदानं कुर्याद्ब्राह्मण भोजनम् ।
पतने बलिवस्तूनां तत्त्यक्त्वान्येन देशिकः । 431 ।
बलिं दत्वाथ तच्छान्त्यैशान्तिहोमं समाचरेत् ।
तथैव बलिवस्तूनामस्पृश्यस्पर्शने द्विजाः ! । 432 ।
तथैव पात्रेऽभिमते केशलोष्टादिदूषिते ।
तत् त्यक्त्वान्येन निर्वर्त्य मूलमष्टोत्तरं जपेत् । 433 ।
बलिं दुष्टेन दद्याच्छेच्छान्तिहोम पुरस्सरम् ।
बलिं दत्वा विशेषेण परिवारमनुं जपेत् । 434 ।
मुद्रामन्त्रक्रियाध्यान द्रव्याणां भोगरूपिणाम् ।
तत्तद्गानस्वराणां च ताळनृत्तादिकस्य च । 435 ।

[[273]] विशेषाद्बलिकाले तु हानिरुत्पाद्यते यदि ।
जपेन्मूलसहस्त्रं तु मन्त्री ध्यानसमन्वितः । 436 ।
यानस्थे बलिबिम्बे तु व्यूढेऽयोग्यजनैः सति ।
कुशोदकेन सम्प्रोक्ष्य शुचिनान्येन वाहयेत् । 437 ।
बलिकाले दीपनाशे पुनरारोप्य दीपिकम् ।
कृत्वा चोत्सवशेषं तु शान्तिहोमं समाचरेत् । 439
बलिबिम्बे निपतिते शिबिकादौ मुनीश्वराः! ।
स्थापयित्वा यथापूर्वं बलिशेषं नयेत्ततः । 440 ।
तद्दोषशान्तये कुम्भैर्नवभिस्नापयेद्विभुम् ।
सबिम्बयानपतनेप्येवं शान्तिं समाचरेत् । 441 ।
नित्योत्सवार्थबिम्बे तु यानान्निपतिते भुवि।
तदैवोद्धृत्य तद्बिम्बमक्षतं स्नाप्य मन्त्रवित् । 442
अधमाधममार्गेण शान्त्यर्थं जुहुयादनु।
तथैव च क्षतं बिम्बं समाधाय यथापुरम् । 443 ।
कृत्वा प्रातिष्ठिकं कर्म स्वस्थाने स्थापयेदनु ।
यावत्समाधानकालं तु तावद्बिम्बान्तरेण वा । । 444 ।
कूर्चेन वाऽन्यबिम्बेन कुर्यान्नित्योत्सवं हरेः ।
बलिबिम्बस्य मूर्धस्थपुष्पादिपतने तु वा । । 445 ।
किरीटपतनेचापि तद्दोषस्य प्रशान्तये ।
स्नपनं नवभिः कुम्भैश्शान्तिहोमं समाचरेत् । 446 ।
बलिकाले तु नृत्यन्त्याः पतने वारयोषितः ।
तद्दोषशान्तये कुर्याच्छान्तिहोमं द्विजोत्तमाः! । 447 ।
बलिदानविहीने तु एककालार्चनादिके ।
बलिं द्विगुणितं दद्यात्तथा त्वेकदिने द्विजाः ! । 448 ।
बलिप्रदानहीने तु हुत्वा मूलशतं ततः ।
तत्तदावरणद्वारदेवानां स्वस्वसञ्ज्ञया । 44रयोषितः ।
तद्दोषशान्तये कुर्याच्छान्तिहोमं द्विजोत्तमाः! । 447 ।
बलिदानविहीने तु एककालार्चनादिके ।
बलिं द्विगुणितं दद्यात्तथा त्वेकदिने द्विजाः ! । 448 ।
बलिप्रदानहीने तु हुत्वा मूलशतं ततः ।
तत्तदावरणद्वारदेवानां स्वस्वसञ्ज्ञया । 449 ।
जुहुयात्तिलमिश्रेण घृतेनैव शतं शतम् ।
द्विदिनादौ च मासान्तं तदूर्ध्वं वत्सरान्तिमम् । 450 ।
वर्षादूर्ध्वं च रहिते बलिदानेऽधमाधमम् ।
तदुत्तमं च स्नपनं क्रमाद्वै मध्यमोत्तमम् । 451 ।
शान्तिहोमं च कुर्वीत द्रव्यैर्द्विगुणितैर्बलिम् ।
सूतकं वा मृताशौचं पूजाकाले शृतं यदि । 452 ।
आशौचमाचरेद्विप्राः! पूजान्ते देशिकोत्तमः ।
देवस्य नित्यपूजादौ मोहात्सिद्धान्तसङ्करे । 453 ।
संहितासङ्करे वापि जाते तद्दोषशान्तये ।
सम्प्रोक्षणं पुरा कृत्वा सहस्रकलशात्मकम् । 454 ।
महोत्सवं च कुर्वीत नान्यथा शान्तिरिष्यते ।

[[274]] एकत्र दीक्षितस्तन्त्रे सिद्धान्ते वा मुनीश्वराः! । 455 ।
न कुर्याद्देशिकोऽन्यत्र पूजादीनपि द्विजाः! ।
तन्त्रभेदे च सिद्धान्तभेदे वाप्युत्सवादिषु । 456 ।
आचार्यत्वं तथार्त्विज्यं न कार्यं मोहतः कृते ।
दोषायकल्पते राजराष्ट्रधामक्षयात्मने । 457 ।
पञ्चरात्रोक्तमार्गेण पूज्यमाने प्रतिष्ठिते ।
वैखानसैः पूजिते तु प्रतिष्ठां पुनराचरेत् । 458 ।
तथैव कर्मबिम्बानां साङ्कर्यमपि नाचरेत् ।
कर्मणां स्नपनादीनां यत्कर्मविहितं द्विजाः ! । 459 ।
यस्मिन् वै कर्मबिम्बे तु तत्रैव च समाचरेत् ।
तत्तत्कर्मार्थबिम्बे तु तत्र सन्निहिते सति । 460 ।
तत्तत्कर्मविशेषाणां व्यत्ययं न समाचरेत् ।
असन्निधाने तेषां तु राष्ट्रभङ्गादि दोषतः । 461 ।
तद्देशकालानुगुणं तत्र सन्निहितं भवेत् ।
यद्यत्कर्मार्थ बिम्बं तु तत्र सर्वं समाचरेत् । 462 ।
स्नपनद्वितयञ्चैव नित्यनैमित्तिकात्मकम् ।
नित्योत्सवविधानं च तथा नैमित्तिकोत्सवम् । 463 ।
तीर्थयात्राविधानञ्चेत्येवं कर्माणि पञ्च वै।
शयनोत्थापनं कर्म तदा कूर्चे समाचरेत् । 464 ।
यद्वा शोभार्थबिम्बे तु पूज्यमाने प्रतिष्ठिते ।
एवं कथितमेकस्मिन् बिम्बे सन्निहिते सति । 465 ।
बिम्बद्वये सन्निहिते तत्तत्कर्मविभेदतः ।
कृत्वा तदन्यत्सकलं यथायोगं समाचरेत् । 466 ।
एवमभ्यूह्य कर्तव्यं तत्तद्बिम्बे प्रकाशिते ।
सर्वेषु कर्मबिम्बेषु तत्र सन्निहितेषु वै । 467 ।
तदा तेषां तु बिम्बानां व्यत्ययं न समाचरेत् ।
प्रमादाद्व्यत्यये जाते कुर्यात्स्नपनमुत्तमम् । 468 ।
अतः परं प्रवक्ष्यामि प्रायश्चित्तं तु चोत्सवे ।
पुरस्तात्सर्वकर्मार्थमर्पितेष्वङ्कुरेष्वनु । 469 ।
रक्तेषु श्यामवर्णेषु तथा तिर्यग्गतेषु च।
वक्रेषु चाप्ररूढेषु दक्षिणाभिमुखेषु च । 470 ।
विधिहीनेषु चास्पृश्य स्पृष्टेष्वधिकृतैर्विना ।
पालिकादिषु भिन्नेषु नष्टेषु पतितेषु च…471 ।
मूषिकाद्यैश्च दष्टेषु मूलमन्त्रायुतं जपेत् ।
पुनः कृत्वाङ्कुरारोपं शान्तिहोमं समाचरेत् । 472 ।
सकृन्नियुक्तपात्रेषु मृण्मयेषु पुनर्द्विजा! ।
बीजावापो कृते विप्राः! महान् दोषः प्रजायते । । 473
तच्छान्त्यैशान्तिहोमं तु कृत्वा भूयोऽङ्कुरार्पणम् ।
समाचरेत्पालिकादौ वल्मीकादिसमुद्भवे । 474 ।
तान् त्यक्त्वान्येषु पात्रेषु बीजावापं समाचरेत् ।
शान्तिहोमं तथा कृत्वा भोजयेद्ब्राह्मणान् शतम् । 475
शान्तिहोमं तथा कृत्वा तत्कर्माकरणे द्विजाः! ।

[[275]] अङ्कुरानपि तान् त्यक्त्वा शान्तिहोमं समाचरेत् 476
अनर्प्य त्वङ्कुरं मोहादारब्धे तु महोत्सवे ।
सद्यः कृत्वा तदन्तेद्युर्बीजावापं यथाविधि । 477 ।
शान्तिहोमं प्रकुर्वीत तद्दोषस्यापनुत्तये ।
देवताव्यत्यये जाते पालिकादौ मुनीश्वराः! । 478 ।
अष्टोत्तरशतं जप्त्वा शान्तिहोमं समाचरेत् ।
तथैव पालिकादीनां स्थानव्यत्यय सम्भवे । 479 ।
अष्टोत्तरशतं जप्त्वा क्रमेण स्थापयेत्पुनः ।
पात्राणां पालिकादीनां विहीने लक्षणादिके । 480 ।
जपेदष्टोत्तरमनु मष्टोत्तरसहस्रकम् ।
करस्थे देशिकादीनां देवदेवस्य वा द्विजाः ! । 481 ।
नष्टे कौतुक सूत्रं तु छिन्ने वा मुनिपुङ्गवाः ।
सूत्रान्तरं पुनर्बध्वा शान्तिहोमं समाचरेत् । 482 ।
रक्षाबन्धं विना कर्मप्रारम्भे मुनिसत्तमाः ! ।
सद्यो बध्वा प्रतिसरं शान्तिहोमं समाचरेत् । 483 ।
महोत्सवाद्युत्सवेषु प्रतिष्ठा प्रोक्षणादिके ।
कर्मणिस्नपनादौ वा बद्धप्रतिसरो गुरुः । 484 ।
ॠत्विजश्च तथाभूता मध्येप्याशौचसम्भवे ।
भवन्ति नैवाशुचयस्तत्तत्कर्मावसानकम् । 485 ।
शवं वा सूतकाशौचं कर्मानन्तरमाचरेत् ।
कर्ममध्येपि वाशौचं भवेदात्मान्विते मृते ।
पिता माता ज्येष्टपुत्रो भार्या चात्मान्विता स्मृताः 487
तदा गुरोरभ्यनुज्ञां लब्ध्वान्यो देशिकोत्तमः ।
तद्दोषस्य प्रशान्त्यर्थमुत्तमोत्तममा॑र्गतः । 488 ।
देवं संस्नाप्य शान्त्यर्थं हुत्वाहुतिसहस्रकम् ।
गोभूतिलादिकं दत्वा ब्राह्मणान् भोजयेद्बहून् । 489 ।
कर्मशेषं द्विजश्रेष्ठाः प्रायश्चित्तपुरस्सरम् ।
प्रमाणरहिते वंशे पटे बालध्वजेपि च । 491 ।
वर्णभूषणनामोद्ये दण्डयष्टौ तु वैणवे ।
फेणके चावटे पीठे प्रपायां ध्वजरज्जुषु । 492 ।
आचरेच्छान्तिहोमं च अष्टोत्तरशतं जपम् ।
छिन्ने भिन्नेऽग्निनादग्धे नष्टे मूषदंशिने । 493 ।
विण्मूत्ररुधिरोपेय रेतो निष्ठीवनादिभिः ।
दूषिते ध्वजमुत्सृज्य प्राग्वदन्यं समाचरेत् । 494 ।
प्रतिष्ठाप्याथ दण्डाग्रमानयित्वाधमेन तु ।
संस्नाप्य दोषशान्त्यर्थं जुहुयात्सर्पिषा शतम् । 495 ।
स्तम्भाग्रे ध्वजवस्त्रस्य रक्षाकार्यार्थ दीक्षितैः ।
आरोहणे न दोषोऽत्र रक्षाहेतोर्द्विजातिभिः । 496 ।
ध्वजस्य रज्जुविच्छेदे किञ्चिच्छिन्ने तु वा ध्वजे ।
यष्टिघण्टाविहीने वा शान्तिहोमं समाचरेत् । 497 ।
सजीर्णां फेणदण्डादीन् परित्यज्य ततोपरान् ।
संस्कृत्य योजयेत्तत्र बध्वा तु ध्वजमञ्जसा । 498 ।

[[276]] मध्यमस्नपनान्ते तु शान्तिहोमं समाचरेत् ।
वर्षवातातपस्पर्शैर्लुप्तवर्णो खगध्वजे । 499 ।
न किञ्चिदप्यनिष्टं स्यात् स्तम्भाग्रे यावदुत्सवम् ।
बद्धध्वजपटे स्तम्भे वातवेगादिहेतुभिः । 500 ।
मूलदेशे तु विच्छिन्ने सध्वजे पतिते सति ।
अकृत्वा ध्वजविश्लेषं स्थापयेच्छेषमञ्जसा । 501 ।
स्नपनं चोत्तमं कुर्याच् चतुःस्थानार्चनादिकम् ।
गोभूतिलादीनां दानं शक्त्या समाचरेत् । 502 ।
उत्सवध्वजभङ्गेन राज्याद्भ्रष्टो भवेन्नृपः ।
तस्मात्तत्परिहारार्थं त्वरया शान्तिमाचरेत् । 503 ।
हेतुभिर्वातवेगाद्यैर्ध्वजे निपतिते भुवि ।
क्षिप्रमुद्धृत्य तद्बद्ध्वा स्नपनं चाधमेन तु । 504 ।
शान्त्यर्थं जुहुयादाज्यं तिलेन शतसङ्ख्यया ।
ध्वजे निपतिते छिन्ने कुर्यात्स्नपनमुत्तमम् । 505 ।
पुनरन्यं समुत्पाद्य बध्नीयात् संस्कृतं तथा ।
अन्यथा यदि दोषस्स्याद् राज्ञोराष्ट्रस्य॑ मन्त्रिणः । 506
ग्रामप्रदक्षिणे काले ध्वजे वातादिना भुवि ।
पतिते तत्पुनर्याने स्थाप्य नीत्वालयं ततः । 507 ।
स्नाप्याधमाधमेनाथ शान्तिहोमं समाचरेत् ।
सकृन्नियुक्तस्तम्भादौ पुनश्चापि नियोजिते । 508 ।
अधमोत्तममार्गेण स्नपनं शान्तिमाचरेत् ।
विपरीतध्वजपटं बन्धयेद्यदि मोहतः । 509 ।
तं मोचयित्वा बध्वान्यमधमाधम मार्गतः ।
स्नपनं शान्तिहोमं च कुर्याद्दोषापनुत्तये । 510 ।
पक्षीशाधिष्ठितेकुम्भे नष्टे वा पतिते भुवि ।
स्पृष्टेऽस्पृश्यैस्तथा केशलोष्टास्थि शकृदादिभिः511
कुम्भेऽन्यस्मिन् समारोप्य तांशक्तिं कुम्भमध्यगाम् ।
हुत्वा मूलायुतं जप्त्वा शेषं कर्मसमाचरेत् । 512 ।
ध्वजारोहण काले तु अतिक्रान्ते द्विजोत्तमाः! ।
शान्तिहोमं तु वा कुर्यात्सहस्रं जपमेव वा । 513 ।
ध्वजस्तम्भेऽग्निना किञ्चिद्दग्धे सन्धायपूर्ववत् ।
शान्तिहोमं प्रकुर्वीत तद्दोषस्यापनुत्तये । 514
स्तम्भस्यतु महद्दाहे छेदेभेदे तु वा द्विजाः! ।
स्तम्भान्तरं प्रतिष्ठाप्य देवस्योत्तममार्गतः । 515 ।
स्नपनं शान्ति होमञ्च कुर्याद्देशिकसत्तमः ।
ध्वजस्तम्भे तु चण्डालोदक्यादिस्पर्श दूषिते । 516 ।
तं त्यक्त्वान्यं प्रतिष्ठाप्य प्राग्वच्छान्तिं समाचरेत् ।
सूतका प्रेतकस्पृष्टे सृष्टे वा प्रतिलोमजैः । 517 ।
पञ्चगव्यैस्तु सम्प्रोक्ष्य शान्तिहोमं समाचरेत् ।
ध्वजस्तम्भे खगेशस्य पूजालोपे मुनीश्वराः ! । 518 ।
पूजालोपोदितं प्राग्वत्प्रायश्चित्तं समाचरेत् ।
देवतावाहनार्थं तु भेरीताडन कर्मणि । 519 ।

[[277]] वाद्यजालेषु सर्वेषु मृदङ्गप॑णवादिषु ।
न स्थापितेषु स्वस्थाने तत्तत्पूजाविलोपने । 520 ।
पुण्याहपाठराहित्ये जप्त्वा मनुसहस्रकम् ।
तत्तत्कुर्याद्यथाशास्त्रं भेरीताडनलोपने । 521 ।
अधमाधममार्गेण देवं स्नाप्य यथाविधि ।
पुनस्तत्ताडनं कुर्याच्छान्तिहोम पुरस्सरम् । 522 ।
भेरीताडनकाले तु कोणच्छेदे द्विजोत्तमाः! ।
चर्मविच्छेदने चैव शान्तिहोमपुरस्सरम् । 523 ।
जप्त्वा गारुत्मतं मन्त्रं पुनरण्यं समाचरेत् ।
ताडयेद्विधिवद्भेरीं तथाऽऽवाहनगाधया । 524 ।
सगणेषु च भूतेषु सगृहेषूत्कटादिषु ।
स्वासु दिक्षु यथान्यायमनाहूतेषु सत्सु च । 525 ।
द्वारावरण रथ्यासु ग्रामवास्तुष्वनुक्रमात् ।
बलिप्रदान हीने तु तथा ताळस्वरादिषु । 526 ।
गेय नृत्तेषु हीनेषु शान्तिहोमपुरस्सरम् ।
प्रत्येकं देवतामन्त्रमष्टधावर्तयेद्बुधः । 527 ।
पुनरापादयेत्सर्वं देवतावाहनादिकम् ।
आरम्भस्नपने हीने शान्तिहोमपुरस्सरम् । 528 ।
देवं संस्नापयेक्लृप्ते महाहविषि सत्तमाः! ।
शान्तिहोम पुरस्कं तु द्विगुणं हविराचरेत् । 529 ।
द्वाःस्थानां यागगेहस्य पूजालोपे प्रमादतः ।
तत्तन्मन्त्राष्टवारं जप्त्वा भूयः समर्चयेत् । 530 ।
चतुःस्थानार्चना हीने त्वेककालं द्विजोत्तमाः! ।
शान्तिहोमपुरस्कं तु यजेद्द्विगुणवस्तुभिः । 531 ।
एकाहमर्चनाहीने चतुःस्थानस्थितस्य तु ।
अधमाधममार्गेण देवं स्नाप्य यथा विधि । 532 । ; ।
शान्तिहोमपुरस्कं तु यजेद्द्विगुणवस्तुभिः ।
भेदेच्छेदे तु वा जाते महाकुम्भस्य सत्तमाः । ! । 533
तथाचास्पृश्यसंस्पर्शे तच्छक्तिं मण्डलावनौ ।
समावाह्य तु तत्कुम्भं त्यक्त्वाऽन्यस्मिन् सलक्षणे।
कुम्भेप्राग्वत्समावाह्य यजेच्छान्तिं समाचरेत् ।
मण्डलेप्येवमादीनां दोषाणां सम्भवेद्द्विजाः! । 535
कुम्भेदेवं समावाह्य प्राग्वत्सर्वं समाचरेत् ।
वल्मीकशिथिलीदुष्टे मण्डले तत्स्थदेवताः । 536 ।
कुम्भे विसृज्यतद्वेदीं खात्वापूर्यच सैकतैः ।
पुनर्मण्डलमालिख्य प्राग्वत्तत्र समर्चयेत् । 537 ।
तद्दोषशान्तये देवमधमाधममार्गतः ।
संस्नाप्यशान्ति होमं च कुर्याद्देशिकसत्तमः । 538 ।
ध्वजतोरणकुम्भानां कूर्चपल्लववाससाम् ।
प्रतिमा धान्यपीठादेर्लोपे शान्तिं समाचरेत् । 539 ।
अष्टोत्तरशतं जप्त्वा यथाशास्त्रं प्रकल्पयेत् ।
ध्वजतोरणपूर्वाणां पीठानामङ्गरूपिणाम् । 540 ।

[[278]] प्रपामण्टपपात्राणामण्येषां वा मुनीश्वराः! ।
अग्निदाहे समुत्पन्ने पुनरुत्पाद्यतानपि । 541 ।
शान्ति होमं प्रकुर्वीत मूलमन्त्रजपं तथा ।
प्रमादादुत्सवाग्नेस्तु नाशे जाते मुनीश्वराः! । 542 ।
पुनरग्निं प्रतिष्ठाप्य देवमावाह्य पूर्ववत् ।
शान्तिहोमं प्रकुर्वीत शतब्राह्मणभोजनम् । 543 ।
यागशालाकुम्भदीपनिर्वाणे मुनिपुङ्गवाः! ।
शान्तिहोमपुरस्कं तु दीपमुद्दीप्य पूर्ववत् । 544 ।
जपेदष्टोत्तरशतं नेत्रमन्त्रं द्विजोत्तमाः! ।
चण्डाळसूतिकोदक्या गर्दभ श्वानसूकरैः । 545 ।
उष्ट्रादिभिः सूतकीभिस्तथैव प्रतिलोमजैः ।
प्रविष्टे यागगेहान्तःकुम्भमण्डलवह्निषु । 546 ।
स्थितान् देवान् स्वहृदये समावाह्य यथाविधि ।
कुम्भमण्डल वह्न्यादीन् त्यक्त्वालोहमायानि चेत्

पात्रानि तानि संशोध्य मार्जनोल्लेखनादिभिः ।
यागगेहं शोधयित्वासेचयेत्पञ्चगव्यकैः । 548 ।
पुनः कुम्भादिकान् स्थाप्य हृदयस्थास्तु देवताः ।
यथापूर्वं समावाह्य शान्तिहोमं समाचरेत् । 549 ।
मूलमन्त्रायुतं जप्त्वा भोजयेद्ब्राह्मणान् शतम् ।
प्रतिरात्रं बलिद्रव्य व्यत्यासे सर्पिषां शतम् । 550 ।
हुत्वाग्नौ मूलमन्त्रेण॑ जपेदष्टोत्तरं शतम् ।
काले तस्मिन् बलिं दद्यात्तत्काले प्राप्तमञ्जसा । 551
व्यत्यासे बलिदेवानां जपो होमश्चतादृशः ।
अस्वतन्त्रालये ग्रामबलिदानेऽकृते द्विजाः । 552 ।
शान्तिहोमं प्रकुर्वीत तद्दोषस्य प्रशान्तये ।
सायं प्रातस्तु कर्तव्यमुत्सवेषु बलिद्वयम् । 553 ।
तन्न्यूनाधिक्य दोषेतु अधमोत्तममा॑र्गतः ।
संस्नाप्यदेवं विधिवत् शान्तिहोमं समाचरेत् । 554 ।
बिम्बाधिष्ठित यानस्य पतने भुविसत्तमाः । ! ।
उद्धृत्योत्सवशेषं तु कृत्वा नवघटैर्विभुम् । 555 ।
संस्नाप्य शान्तिहोमं च कुर्याद्देशिकसत्तमः ।
अधिष्ठितेषु बिम्बेन यानेषु पतनादिना । 556 ।
भिन्नेष्वपि च वाहेषु प्रमादाद्यत्र कुत्रचित् ।
यानान्तरे समारोप्य वाहनेवाऽथ कौतुकम् । 557 ।
शान्तिहोमं पुरा कृत्वा जपेन्मूलसहस्रकम् ।
गोभू हेमादिकं दद्याद्वैष्णवेभ्यो गुरोरपि । 558 ।
यानाद्वा वाहनाद्वापि बिम्बे तु पतिते सति ।
उत्तमं स्नपनं कृत्वा शान्तिहोमं समाचरेत् । 559 ।
यानमारोप्य तद्बिम्बं पुनरुत्सवमाचरेत् ।
तथैवचक्षतं बिम्बं समाधाय यथापुरम् । 560 ।
कृत्वा सम्प्रोक्षणं पश्चादुत्सवंशेषमाचरेत् ।
समादौ दीर्घकालीने कुर्याच्छोभार्थकौतुके । 561 ।

[[279]] शेषकर्म महार्चायां निर्वृत्ते सन्धिकर्मणि ।
पूर्ववत्तां प्रतिष्ठाप्य यथावच्छान्तिमाचरेत् । 562 ।
बिम्बेनाधिष्ठिते याने व्यूढेऽस्पृश्य जनैस्तदा ।
यानादीन् क्षालयेद्देवमधमाधममार्गतः । 563 ।
स्नापयेत्केवलं याने व्यूढे तैः शुद्धवारिणा ।
सङ्क्षाळ्य यानं विधिवत्प्रोक्षयेत्पञ्चगव्यकैः । 564 ।
देवस्योत्सव काले तु जातायां दीपनिर्वृतौ ।
पतनेवापि दीपस्य मूलमन्त्रेण मन्त्रवित् । 565 ।
अष्टोत्तरसहस्रं तु हुत्वा तत्सङ्ख्यया जपेत् ।
छत्रचामरपूर्वाणां पतने तु शतञ्जपेत् । 566 ।
वह्निदाहेसमुत्पन्ने पुनरुत्पाद्यतानपि ।
सजपं शान्तिहोमं तु कुर्यादष्टोत्तरं शतम् । 567 ।
देवस्योत्सव काले तु ग्रामे मरणसम्भवे ।
पश्चाद् ग्रामं तु सम्प्रोक्ष्य अधमाधममार्गतः । 568 ।
देवं संस्नापयेत्पश्चाच्छान्तिहोमं समाचरेत् ।
देवस्योत्सव काले तु ग्रामादौ वह्निदाहतः । 569 ।
दूषिते पञ्चगव्यैस्तु प्रोक्ष्यग्रामादिकं बुधः ।
शान्तिहोमं च कृत्वाथ पुनरुत्सवमाचरेत् । 570 ।
ग्रामादावह्निना दग्धे वात्यासारादि दूषिते ।
शान्तिहोमं पुरा कृत्वा पश्चादुत्सवमाचरेत् । 571 ।
अन्यथाचोत्सवे क्लृप्ते त्वधमोत्तममार्गतः ।
देवं संस्नाप्य विधिवच्छान्तिहोमं समाचरेत् । 572 ।
शून्येषु ग्रामनगर पत्तनादिषुचोत्सवम् ।
बलिदानं न कुर्वीत कृते तत्रापि निष्फलम् । 573 ।
धामन्येवोत्सवं कुर्याद् बलिदानं च देशिकः ।
अन्यथा करणे देवमुत्तमोत्तम मार्गतः । 574 ।
संस्नाप्यशान्ति होमं च कुर्यात्तद्दोषशान्तये ।
समाहिते तु ग्रामादौ ग्रामशान्ति पुरस्सरम् । 575 ।
पुनरप्युत्सवं कुर्याद् ब्राह्मणानामनुज्ञया ।
रिपुचोराग्निवृष्ट्यादि भयात्कस्मिंश्चिदुत्सवे । 573 ।
विघ्निते मुनिशर्दूलाः! केवलं बलिमाचरेत् ।
अतिक्रान्तोत्सवं कुर्यादन्येद्युः शान्तिपूर्वकम् । 577
विघ्निते बलिदानेपि ह्यन्येद्युरधमोत्तमम् ।
स्नपनं शान्तिहोमं च कृत्वातिक्रान्तमुत्सवम् । 578
बलिदानं च कुर्वीत द्विदिनं त्रिदिनं तु वा ।
चतुष्पञ्चदिनं वापि उत्सवे विघ्निते सति । 579 ।
तत्तद्दोषानुरूपेण प्रायश्चित्तं विधाय च ।
अतिक्रान्तोत्सवान् कुर्याद्बलिदानानि च क्रमात् 580
देवस्योत्सवकाले तु महावातैस्तथाऽऽतपैः ।
पांसुभिर्वर्षनीहारैः स्पृष्टे बिम्बेऽधमोत्तमम् । 581 ।
स्नपनं शान्तिहोमं च कुर्यात्तद्दोषशान्तये ।
बिम्बेचोरादिभिर्नष्टे वर्तमाने महोत्सवे । 582 ।

[[280]] बिम्बान्तरं समापाद्य प्रतिष्ठाप्य यथापुरम् ।
महाभिषेकं हवनं जपञ्चैव यथाविधि । 583 ।
कुर्यादुत्सवशेषं तु कर्मार्चादिषुनाचरेत् ।
रथस्ययात्राकाले तु चक्रच्छेदे ऽक्षभेदने । 584 ।
रज्जुच्छेदेपि वा ह्यन्यं संयोज्य च यथापुरम् ।
यात्रान्ते शान्ति होमं तु कुर्यात्तद्दोषशान्तये । 585 ।
शिखाकुम्भस्य पतने सारथेःपतने तु वा ।
पुनर्यथापुरं स्थाप्य कृत्वा पुण्याहवाचनम् । 586 ।
रथं सम्प्रोक्ष्य यात्रान्ते शान्तिहोमं समाचरेत् ।
रथोपरित्वयोग्यानामारोहे पञ्चगव्यकैः । 587 ।
रथं सम्प्रोक्ष्ययात्रान्तेत्वधमाधम मार्गतः ।
स्नापयेद्देवदेवेशं रथे वै किञ्चिदग्निना । 588 ।
दग्धे पुनर्नवीकृत्य सेचयेत्पञ्चगव्यकैः ।
यात्रान्ते स्नपनं कुर्यादधमोत्तमसञ्ज्ञकम् । 589 ।
रथस्य तु महद्दाहे रथाद्देवं खगोपरि ।
समारोप्यालयं नीत्वा उत्तमोत्तममार्गतः । 590 ।
स्नपनं शान्तिहोमं च कुर्याद्ब्राह्मणभोजनम् ।
रथाद्बिम्बस्य पतने रथोपरि खगेतु वा । 591 ।
पुनर्देवं समारोप्य नीत्वा वै मन्दिरं ततः ।
उत्तमोत्तममार्गेण स्नपनं हवनं तथा । 592 ।
मूलमन्त्रायुतजपं कृत्वा गोभूतिलादिकम् ।
दत्वा तद्दोषशान्त्यर्थं सहस्रं भोजयेद्द्विजान् । 593 ।
सबिम्बस्य रथस्यैव पतने प्राग्वदाचरेत् ।
प्रायश्चित्तं द्विजश्रेष्ठाः ! रथ भङ्गे तु तं पुनः । 594 ।
सन्धायोत्सव शेषं तु कृत्वा शान्त्यै हुनेत्गुरुः ।
असन्धेये रथे देवमारोप्य च खगोपरि । 595 ।
नीत्वालयं तत्र देवमधमोत्तममार्गतः ।
संस्नाप्य शान्तिहोमादि कुर्यात्तद्दोषशान्तये । 596 ।
रथचक्रादिघातैस्तु मनुष्यमरणे सति ।
शवं बहिर्विनिष्कास्य तद्देशखननादिकाम् । 597 ।
पञ्चशुद्धिं क्रमात्कृत्वा यात्रान्ते त्वधमोत्तमम् ।
स्नपनं शान्तिहोमं च कुर्याद्ब्राह्मण भोजनम् । 598 ।
चक्रघातादिना तिर्यम्मरणे प्राग्वदाचरेत् ।
भूमिशुद्ध्यादिकं सर्वं स्नपनन्त्वधमाधमम् । 599 ।
यात्राकाले तथान्योन्य विरोधादायुधादिना ।
रथान्तिके जनमृतौ प्राग्वन्निष्कृतिरीरिता । 600
तत्राद्यै रथेस्पृष्टे रथं सङ्क्षाळ्य वारिभिः ।
पञ्चगव्येन सम्प्रोक्ष्य यात्रान्ते त्वधमाधमम् । 601 ।
स्नपनं शान्तिहोमं च कुर्याद्देशिकसत्तमः । ; रथोत्सवस्य काले तु तद्ग्रामे यत्र कुत्र वा । 602 ।
मरणे ब्राह्मणादीनां तच्छवं ग्रामतो बहिः ।
निष्कास्य ग्रामवीधीस्तु मार्जनाल्लेखनादिभिः । 603

[[281]] संशोध्य पञ्चगव्येन प्रोक्ष्य यात्रां समाचरेत् ।
ततोऽधमाधमं स्नानं शान्तिहोमं समाचरेत् । 604 ।
एकद्वित्रिदिनान्ते तु रथे स्वस्थानसंस्थिते ।
अधमोत्तममार्गेण स्नपनं हवनं तथा । 605 ।
कृत्वा तत्तस्त्वतिक्रान्तमुत्सवं बलिमाचरेत् ।
तथा तीर्थदिने वापि ह्यप्रविष्टे रथे स्थलम् । 606 ।
अवरोप्य रथाद्देवं समारोप्य खगेश्वरे ।
ग्रामप्रदक्षिणं नीत्वा उत्तमोत्तममार्गतः । 607 ।
स्नपनं शान्तिहोमं च कृत्वातिक्रान्तमुत्सवम् ।
बलिदानं च कुर्वीत तत्तत्तीर्थादिकं चरेत् । 608 ।
एकद्वित्रिदिनान्तं तु रथारोहे तु विघ्निते ।
अधमोत्तममार्गेण स्नपनं हवनं तथा । 609 ।
द्विजानां भोजनं कृत्वा सद्यः कुर्याद्रथोत्सवम् ।
एकद्विचतुर्वर्षं विघ्निते तु रथोत्सवे । 610 ।
उत्तमस्नपनं होमं सहस्रद्विजभोजनम् ।
गोभूदानादिकं कृत्वा रथप्रोक्षणमाचरेत् । 611 ।
रथस्था देवताः पूज्य खगेशमनुना ततः ।
अष्टोत्तरशतं हुत्वा तिलैराज्यैश्च तण्डुलैः । 612 ।
रथस्थदेवतामन्त्रैः पृथगष्टाहुतीर्हुनेत् ।
एवं कृत्वाथ देवस्य रथयात्रां समाचरेत् । 613 ।
महोत्सवाङ्गभूते तु वसन्तोत्सवकर्मणि ।
डोलोत्सवे च मृगयाद्युत्सवे च मुनीश्वराः । 614 ।
युद्धारम्भे च देवीभ्यां तथा चूर्णाभिषेचने ।
लुप्ते कुर्यात् शान्तिहोमं तत्तद्दोषप्रशान्तये । 615 ।
मुहूर्तातिक्रमेप्येवमुत्सवे सर्वकर्मणाम् ।
शान्तिहोमं प्रकुर्वीत अष्टोत्तरशतं तथा । 616 ।
दिवारात्र्युत्सवं कुर्यादासूर्यास्तमयोदयात् ।
कालयोर्विपरीतश्चेदधमस्नपनं चरेत् । 617 ।
तीर्थयात्रा प्रकर्तव्या सूर्यस्यास्तमयात्पुरा ।
पूर्वभागे रजन्यां वा कुर्यात्स्वव्यक्तदिव्ययोः । 618 ।
उत्तमस्नपनं कुर्यात्तीर्थकाल विपर्यये ।
भ्रष्टायां तीर्थयात्रायामवरोप्य खगध्वजम् …619 ।
पूर्ववद्ध्वजमुत्थाप्य कुर्यात्तीर्थार्थमुत्सवम् ।
कुम्भप्रोक्षणलोपे तु स्नपनं मध्यमोत्तमम् । 620 ।
महोत्सवान्ते स्नपने न कृते स्नापयेत्ततः ।
उत्तमोत्तममार्गेण शान्त्यर्थं जुहुयात्ततः । 621 ।
निशायां स॑र्वशान्त्यर्थं पुष्ट्यर्थी मध्यमे दिने ।
आप्यायनार्थी पूर्वाह्णे धर्मार्थी मध्यतो निशि । 622 ।
तथा रिपुक्षयार्थी च पुष्पयागं समाचरेत् ।
न तु पर्यूषितैः पुष्पैः परिम्लानैस्तथार्चयेत् । 623 ।
तद्दोषशान्तये कुर्यात्स्नपनं त्वधमाधमम् ।
न कृते पुष्पयागेस्मिन् कुर्यात्स्नपनमुत्तमम् । 624 ।

[[282]] तद्रात्रौ ध्वजदण्डाग्रादवरोप्य खगध्वजम् ।
ग्रामादिवास्तुनिष्टानां बलिं दत्वा विसर्जयेत् । 625 ।
उत्सवान्ते ध्वजे नष्टे पुरस्तादवरोहणात् ।
प्राग्वद् ध्वजं समुत्थाप्य पुनरेवावरोहयेत् । 626 ।
तीर्थान्ते पञ्चदिवसादूर्ध्वं चाप्यवरोहणे ।
ध्वजस्य न कृते कुर्यात्स्नपनं मध्यमोत्तमम् । 627 ।
अवरोप्य ध्वजं पश्चाद्देवतास्तु विसर्जयेत् ।
उद्वासनबलिर्लोपे शान्तिहोमपुरस्सरम् । 628 ।
द्विगुणं तु बलिं दत्वा देवतोद्वासनं चरेत् ।
आचार्यदक्षिणाहीने निष्फलः स्यात्स उत्सवः । 629
आचार्यदक्षिणाहीनम् ऋत्विजां च तथैव च ।
यत्कर्म क्रियते सर्वमभिचाराय कल्पते । 630 ।
तच्छान्त्यै शान्तिहोमं तु कारयेद्गुरुणा ततः ।
प्रणम्य दण्डवद्भूमौ यजमानः स्वयं गुरोः । 631 ।
सन्तोषं कारयेद्धीमान् वस्त्रहेमाङ्गुळीयकैः ।
दक्षिणां द्विगुणां दद्यात्तेन शान्तिर्भविष्यति । 632 ।
द्विजभोजन लोपेपि ह्येवं शान्तिं समाचरेत् ।
अतुष्टेषु ब्राह्मणेषु न प्रीणाति हरिः सदा । 633 ।
यत्र विप्रास्तु सन्तुष्टास्तत्र देवः प्रसीदति ।
ततस्तद्दोषशान्त्यर्थं द्विगुणं भोजयेद्द्विजान् । 634 ।
दैवाद्वा मानुषाद्धेतो राष्ट्रक्षोभादिनापि वा ।
एकद्वित्रिदिनं विप्रा अनारब्धे महोत्सवे । 635 ।
ब्राह्मणान् समनुज्ञाप्य देवेशस्याधमोत्तमम् ।
स्नपनं शान्तिहोमं च कृत्वा ब्राह्मणभोजनम् । 636 ।
अङ्कुरार्पणपूर्वं तु द्रव्यैर्द्विगुणितैस्ततः ।
अतिक्रान्तोत्सवान् कृत्वा क्रमप्राप्तमथाचरेत् । 637 ।
चतुः पञ्च दिनं विघ्ने स्नपनं मध्यमोत्तमम् ।
कुर्यात्तद्दोषशान्त्यर्थं सर्वं पूर्ववदाचरेत् । 638 ।
षट्सप्तदिनपर्यन्तमनारब्धे तु चोत्सवे ।
उत्तमोत्तममार्गेण स्नानमन्यत्तु पूर्ववत् । 639 ।
तथाष्टदिनपर्यन्तमनारब्धे महोत्सवे ।
सहस्रकलशैर्देवं स्नाप्य प्राग्वदाचरेत् । 640 ।
यद्वा तीर्थदिने विप्राः आरभ्य पुनरुत्सवः ।
तथा तीर्थदिने चापि ह्यतिक्रान्ते द्विजोत्तमाः । 641 ।
तदनन्तर मासस्थ तीर्थऋक्षवशेन तु ।
पुनरप्युत्सवं कुर्यात्सर्वदोष प्रशान्तये । 642 ।
तस्मिन् मासेप्यतिक्रान्ते मासिस्यात्तदनन्तरे ।
एवं संवत्सरान्तं स्यादतिक्रान्तोपि वत्सरे । 643 ।
सहस्रकलशस्नानं शान्तिहोमोऽयुतं जपः ।
सहस्रब्राह्मणानां च भोजनं कारयेद्द्विजाः ! । 644 ।
तेनैव शान्तिर्भवति न गतोत्सवमाचरेत् ।
नवाहोत्सवपूर्वेषु पूर्वं यावद्दिनोत्सवम् । 645 ।

[[283]] सङ्कल्पितं तथैव स्यात्प्रतिसंवत्सरं द्विजाः! ।
तावन्न्यूनादिकदिनं नोत्सवं परिकल्पयेत् । 646 ।
अमत्या यदि कुर्वीत पुनरुत्सवमाचरेत् ।
वैशेषिकेषु प्राप्तेषु वर्तमाने महोत्सवे । 647 ।
द्वादश्यादिषु तत्सर्वं यथान्यायं समाचरेत् ।
न लोपयेत्प्रयत्नेन प्राप्तं वैशेषिकं सुधीः । 648 ।
जपेदस्त्रायुतं मन्त्री त्वकृतेषु च शान्तये ।
एवमादिषुचान्येषु दोषेषु मुनिसत्तमाः! । 649 ।
उत्सवाग्नौ यथाशास्त्रं शान्तिहोमं समाचरेत् ।
पर्वोत्सवेषु लुप्तेषु स्नपनं त्वधमाधमम् । 650 ।
हविर्निवेदनं चापि विशेषेण समाचरेत् ।
श्रवणाद्युत्सवे लुप्ते स्नपनं त्वधमोत्तमम् । 651 ।
लुप्ते तु कृत्तिकादीपे तदनन्तरमासि वा ।
कुर्वीत वह्निनक्षत्रे स्नपनं त्वधमोत्तमम् । 652 ।
दीपोत्सवं प्रकुर्वीत शान्तिहोमपुरस्सरम्

अन्येष्वप्युत्सवेष्वेवं लुप्तेषु मुनिपुङ्गवाः! । 653 ।
तदनन्तरमासे वा तत्तदुत्सववासरे ।
आचरेदुत्सवं प्राग्वत्स्नानहोमपुरस्सरम् । 654 ।
प्रायश्चित्तमथो वक्ष्ये पवित्रारोपणे द्विजाः! ।
अप्रमाणे पवित्रे तु अस्त्रमन्त्रायुतं जपेत् । 655 ।
अतीत उक्तकाले तु चातुर्मास्यस्य मध्यतः ।
मध्यमं स्नपनं कृत्वा कालेऽन्यस्मिंस्तदाचरेत् । 656
पवित्रके केशपाषाणचर्माङ्गारनखादिभिः ।
दू षिते वाग्निना दग्धे छिन्नेदष्टेऽतिभक्षिते । 657 ।
मूषिकाद्यैश्च काकाद्यैस्स्पृष्टे त्यक्त्वा तु तत्पुनः ।
सूत्रैस्तथाविधं कृत्वा विधिवच्चाधिवासयेत् । 658 ।
एवं दुष्टपवित्राणां मोहादारोपणे कृते ।
तत्परित्यज्य देवेशमधमोत्तममार्गतः । 659 ।
संस्नाप्य हुत्वा शान्त्यर्थं दद्याच्छुद्धपवित्रकम् ।
अक्रमेण तु देवस्य पवित्रारोपणे कृते । 660 ।
शान्तिहोमं तदा कृत्वा सहस्रं जपमाचरेत् ।
मुहूर्ते समतिक्रान्ते शुद्धे यजनविस्तरात् । 661 ।
तदन्यस्मिन् विभोर्दद्यात्पवित्रं शान्तिपूर्वकम् ।
पावित्रकी तीर्थयात्रा न कृता चेन्मुनीश्वराः । 662 ।
उत्तमं स्नपनं कृत्वा पुनरुत्सवमाचरेत् ।
पवित्रे देवदेवस्य अयोग्यानां नियोजिते । 663 ।
शान्तिहोमं तदा कृत्वा सहस्रं जपमाचरेत् ।
चातुर्मास्ये तु देवस्य कुर्वीत शयनोत्सवम् । 664 ।
तद्व्यत्यये विलोपे च चतुःस्थानार्चनादिकम् ।
जप्त्वा मूलायुतं मन्त्री शान्त्यर्थं जुहुयात्तथा । 665 ।
कलशस्थापनार्थं चेन्नकुर्यादङ्कुरार्पणम् ।
तथा प्रतिसरं बन्धं मूलमन्त्रायुतं जपेत् । 666

[[284]] पुरस्तादङ्कुरानर्प्य बध्वा बिम्बे तु कौतुकम् ।
अमत्या वा समत्या वा स्नपनं नाचरेद्यदि । 667 ।
शान्तिहोमं पुरा कृत्वा जपेदष्टोत्तरायुतम् ।
कौतुकाङ्कुरपूर्वं तु पुनरेवाभिषेचयेत् । 668 ।
अकृत्वाङ्कुर यागं तु तथा कौतुकबन्धनम् ।
स्नापितो यदि देवेशः स्नपनं निष्फलं भवेत् । 669 ।
विधिवच्चाङ्कुरावापं कृत्वा कौतुकबन्धनम् ।
स्नापयेद्विधिवन्मन्त्री शान्तिहोमपुरस्सरम् । 670 ।
सङ्कल्पिते तु स्नपने त्वकृते द्विगुणं चरेत् ।
नादितैर्द्रव्यहीनैः स्नापितेप्येवमाचरेत् । 671 ।
स्थापितेष्वथ कुम्भेषु हीनेषु स्थाप्य पूर्ववत् ।
जपेत्कलशदैवत्यं मन्त्रमष्टोत्तरं शतम् । 672 ।
समुद्धृतेषु कुम्भेषु रिक्तेषु सुषिरादिना ।
प्राग्वदन्यं प्रतिष्ठाप्य जपेदष्टोत्तरं शतम् । 673 ।
मार्जालमूषिकाद्यैस्तु स्पृष्टे वा लङ्घिते घटे ।
केशास्थिलोष्टसंस्पृष्टे भेदच्छेदादिदूषिते । 674 ।
पिपीलिकादेर्गव्यादौ पतने सूत्रवस्त्रयोः ।
अग्निदाहे तथा कुम्भे काळमण्डलदूषिते । 675 ।
तं तं कुम्भं परित्यज्य स्थाप्य कुम्भान्तरं पुनः ।
सम्पूज्य कुम्भदैवत्यं मन्त्रमष्टोत्तरं जपेत् । 676 ।
स्थापिते स्नानकलशे श्वानकुक्कुटवायसैः ।
अस्पृश्यैश्चापि संस्पृष्टे उदक्यासूतिका॑दिभिः । 677 ।
चण्डालैर्वा सन्निकृष्टे स्पृष्टे सूतकिभिर्नरैः ।
सर्वान् कुम्भाण् परित्यज्य शुद्धान् संस्थाप्य पूर्ववत् ।
पुण्याहपूर्वकं चेष्ट्वा जप्त्वा मूलसहस्रकम् ।
मन्त्रं कलशदैवत्यमष्टवारं जपेत्पृथक् । 679 ।
दुष्टैस्संस्नापिते देवे पुनरप्यभिषेचयेत् ।
माहिषाजोष्ट्र सम्भूत दधिक्षीरघृतादिभिः । 680 ।
मासातीतघृतैर्वापि पयोभिर्दधिसम्युतैः ।
क्षीरयुक्तैश्च दधिभिर्गुडमिश्रैश्च माक्षिकैः । 681 ।
अन्यैश्च सङ्करद्रव्यैस्तथा पर्यूषितोदकैः ।
अगाळितैश्च सलिलैस्तथा वै पल्वलोदकैः । 682 ।
संस्नापिते तु देवेशे पुनरप्यभिषेचयेत् ।
शान्तिहोमं च कुर्वीत तत्तद्दोषप्रशान्तये । 683 ।
अधिवासितकुम्भस्थ तोयानां पूर्वमेव तु ।
न पर्यूषितदोषोस्ति अधिवासैस्तथार्चनैः । 684 ।
अनर्चने च कुम्भानामक्रमेण समर्चने ।
अक्रमेण समुद्धारे स्थापने द्रव्ययोजने । 685 ।
द्रव्ये न्यूनेऽधिकेवापि शरावे कलशे तथा ।
कूर्चे वस्त्रे तथा कोष्टे पीठादौ तोरणादिके । 686 ।
प्रमाणरहिते धान्यपीठाभावे मुनीश्वराः ! ।
सूत्रवस्त्राद्यभावे च शतवारं जपेन्मनुम् । 687 ।

[[285]] गेयमङ्गळवादित्र स्तोत्रनृत्तादिभिर्विना ।
वीणावेणुनिनादैश्च तथा पुण्याहवाचनैः । 688 ।
विनाभिषेचने मूलमष्टोत्तरशतं जपेत् ।
मोक्षार्थी स्नापयेद्देवं सर्वकालं यथाविधि । 689 ।
रिपूणां निग्रहार्थीतु दिवा कुर्यात्तु सर्वदा ।
स्वर्गकामस्तु पूर्वाह्णे धर्मार्थी दिनमध्यमे । 690 ।
दिनान्ते सर्वभोगार्थी प्रायश्चित्तेषु सर्वदा ।
चन्द्रसूर्योपरागे च तत्काले स्नापयेत्प्रभुम् । 691 ।
सङ्क्रान्तिषु च सूर्यस्य प्राग्वत्पश्चात्तथैव च ।
सङ्क्रान्तिकाला विज्ञेया नाड्यः षोडश षोडश । 692
तदानीं स्नापयेद्देवमतिक्रान्ते हुनेन्मनुम् ।
सहस्रकृत्वस्तदनु तत्समञ्जसमाचरेत् । 693 ।
बद्धप्रतिसरे बिम्बे स्नपनार्थं तु मन्त्रिणा ।
सम्प्राप्ते स्नपनेन्यस्मिन् प्रायश्चित्तनिमित्ततः । 694 ।
तदर्थं कौतुकं बध्वा स्नानकर्म समाप्य च ।
पूर्वारब्धं प्रकुर्वीत प्रायश्चित्तादनन्तरम् । 695 ।
अन्यथा क्रमशःकुर्यात्पूर्वारब्धं समाप्य च ।
अन्यथा चेदिदं कर्म निष्फलं भवति द्विजाः ! । 696 ।
तद्दोषपरिहारार्थं शान्तिहोम जपस्तथा ।
सहस्रसङ्ख्यया युक्तो मूलमन्त्रेण मन्त्रवित् । 697 ।
विनावभृथकालं तु देवमालयतो बहिः ।
स्नापयेद्यदि सम्मोहाच्छान्तिहोमं समाचरेत् । 698 ।
बहुबेरेऽभिषेकार्चां तां गृहीत्वाऽग्रमण्टपात् ।
न गच्छेद्बाह्यतो मन्त्री स्नपनार्थं बहिर्गते । 699 ।
शान्तिहोमं प्रकुर्वीत तस्य दोषस्य शान्तये ।
बिम्बेऽभिषिच्यमाने तु पतिते स्नानविष्टरे । 700 ।
प्रतिष्ठास्नपनं कृत्वा शान्तिहोमं समाचरेत् ।
स्नानकाले विशेषेण बिम्बस्य चलने द्विजाः ! । 701 ।
चलने स्नानवेद्याश्च शान्तिहोमं समाचरेत् ।
प्रभापीठास्त्रवस्त्राङ्ग भेदभङ्गादि दूषिते । 702 ।
तत्तद्बिम्बगतां शक्तिं नियोज्य धृवकौतुके ।
सन्धानं शिल्पिभिःकृत्वा संस्कृत्य तदैव तु । 703 ।
शेषकर्मणि निर्वृत्ते स्नापयेदुत्तमक्रमात् ।
तिलेन चरुणाज्येन प्रत्येकञ्च सहस्रशः । 704 ।
जुहुयान्मूलमन्त्रेण तेन शान्तिर्भविष्यति ।
तदा न घटितुं शक्तिर्यदि स्याद्यत्नगौरवात् । 705 ।
शोभार्थबिम्बे पुरतः स्थापिते शेषमाचरेत् ।
एवमुत्सवतीर्थार्थ शयनादिषु मूर्तिषु । 706 ।
तत्तदङ्गादिसन्धानं स्थापनं योजनं पुनः ।
क्ष्मा परिग्रहकाले तु दुर्निमित्तोदये द्विजाः ! । 707 ।
शान्तिहोमं पुरा कृत्वा सहस्रं जपमाचरेत् ।
तथैव क्षेत्रमानार्थं सूत्रं यत्सम्प्रसारितम् । 708 ।

[[286]] विच्छेदे तस्य सूत्रस्य शङ्कूनां वा विदारणे ।
भूतानां बलिकाले तु पतिते बलिपात्रके । 709 ।
भूतले खन्यमानेतु भस्माङ्गारतुषादिके ।
क्रिमिकीटादिके वापि दृष्टे तच्छान्तये द्विजाः ! । 710
नारसिंहेन मन्त्रेण तिलैराज्यैः सहस्रशः ।
हुनेदाचार्यवरणमकृत्वा॑ क्ष्मापरिग्रहम् । 711 ।
मन्दिरे निर्मिते विप्रा ब्राह्मणानामनुज्ञ॑या ।
शान्तिहोमपुरस्कन्तु क्ष्मापरिग्रहमाचरेत् । 712 ।
बालस्थानमकृत्वैव मन्दिरे निर्मिते द्विजाः ! ।
मूलार्चास्थापनात्पूर्वं यजमानान्वितो गुरुः । 713 ।
रविमण्डलमध्यस्थं देवं सम्पूज्य भक्तितः ।
ओन्नमःपुण्डरीकाक्ष भक्तानुग्रहकारक । 714 ।
क्षन्तुमर्हसि देवेश यन्मयाप्यकृतं कृतम् ।
इति प्रणम्य देवेशं वासस्थानं यथाविधि । 715 ।
निर्माय तत्र देवं तु प्रतिष्ठाप्य समर्चयेत् ।
खातप्रदेशे प्रासादभूमध्ये मुनिसत्तमाः ! । 716 ।
विना प्रासाद॑निर्माणे कुम्भ संस्थापनादिकम् ।
ब्राह्मणान् समनुज्ञाप्य खात्वा प्रासादमध्यतः । 717 ।
तत्र कुम्भस्थापनादि यथासम्भवमाचरेत् ।
शान्तिहोमं च कुर्वीत सर्वदोषप्रशान्तये । 718 ।
गर्भन्यासेपि न कृते तथा गर्भं च विन्यसेत् ।
आयशुद्ध्यादि हीने वा प्रासादे लक्षणोज्झिते । 719 ।
यथाशास्त्रं पुनः कृत्वा शान्तिहोमं समाचरेत् ।
न स्थापयति शिखाकुम्भे प्रासादे चाप्रतिष्ठिते । 720 तत्तत्कर्म पुनः कृत्वा कुर्याच्छान्तिहोमपुरस्सरम् ।
प्राकारमण्टपादीनां गोपुरादेस्तथा द्विजाः । 721 ।
अकृते स्थापने शान्तिपूर्वं तत्तत्समाचरेत् ।
दारुलोहशिलादीनां सङ्ग्रहावसरे द्विजाः । 722 ।
दुर्निमित्तोदये चैव तथा दुस्स्वप्नदर्शने ।
नारसिंहेन मन्त्रेण तिलाज्यैस्तु सहस्रशः । 723 ।
शान्तिहोमं प्रकुर्वीत सर्वदोषप्रशान्तये ।
दारुलिहशिला मृत्स्नावस्त्रादीनां परिग्रहे । 724 ।
तत्तदङ्गतयोदीर्ण द्रव्यमन्त्रक्रियादिषु ।
परिच्युतेषु तत्कुर्याच्छान्तिहोम जपादिकम् । 725 ।
अकृते पर्वतादौ तु दार्वादीनां परिग्रहे ।
आनीतस्यालयक्षेत्रे शिल्पिभिः सत्क्रियां विना । 726
यथावदाचरेद्विद्वानर्चाद्रव्यस्य सङ्ग्रहम् ।
विनैव सङ्ग्रहं कर्मबिम्बादौ निर्मिते सति । 727 ।
पश्चादपि च तत्कुर्याच्छान्तिहोमपुरस्सरम् ।
बिम्बपीठशिलादीनां मानोन्मानादि लक्षणे । 728 ।
रहिते शान्तिहोमं तु कुर्यात्तद्दोषशान्तये ।
बिम्बपीठशिलानां तु व्यत्यस्ते पुंशिलादिके । 729 ।
तत्तत् त्यक्त्वा॑ पुनः कुर्याद्यथोक्तशिलया द्विजाः ! ।

[[287]] निर्मिता प्रतिमा शीघ्रं स्वगृहे न निवेशिता । 730 ।
राज्ञो राष्ट्रस्य तत्कर्तुरनिष्टमुपपादयेत् ।
एकविंशद्दिनादूर्ध्वमासुरी सा भवेद्ध्रुवम् । 731 ।
कृत्वा महाभिषेकाद्यं स्थापयेदन्यथा त्यजेत् ।
जलाधिवासे स्नपने तथा नयनमोक्षणे । 732 ।
शयने वेदिकायां च मन्त्रन्यासादिकर्मसु ।
कुम्भमण्डलपूजायां द्वारतोरणकुम्भयोः । 733 ।
होमे पीठादिसंस्कारे अकृते वान्यथा कृते ।
शान्तिहोमं प्रकुर्वीत सहस्राहुतिसङ्ख्यया । 734 ।
मूलमन्त्रायुतजपं शतब्राह्मणभोजनम् ।
अस्थाने स्थापिते बिम्बे पादाधारशिलान्वितम् । 735
तदानीमेव चोद्धृत्य स्थापयेत्तं स्वके पदे ।
उत्तमस्नपनं कृत्वा शान्तिहोमं समाचरेत् । 736 ।
न स्थापिते मुहूर्तेऽस्मिन् न तदा बिम्बमुद्धरेत् ।
पूर्ववत्स्नपने होमे कृते शान्तिर्भविष्यति । 737 ।
स्थापनेऽधिकृतेमुख्ये देशिके व्याधितेसति ।
न्यस्तदेहेऽथवा मध्ये वर्तमाने क्रियाक्रमे । 738 ।
क्रियामन्त्रोपदेष्टा च प्रतिष्टाकर्मणि स्थितः ।
पुत्रो वा देशिकेन्द्रस्य स्थापने शेषमाचरेत् । 739 ।
अन्ते सहस्रकलशैरभिषिच्य सुरेश्वरं

चक्राम्बुरुहकुण्डे तु मधुक्षीरादिभिः क्रमात् । 740 ।
शान्त्यर्थं मधुना हुत्वा तत्सङ्ख्यं जपमाचरेत् ।
प्रतिष्ठाकर्मकालादा वाचार्ययजमानयोः । 741 ।
ऋत्विगाचार्ययोर्वापि सञ्जाते कलहे द्विजाः! ।
कर्मनिष्फलतां याति शान्तिहोमं समाचरेत् । 742 ।
नमस्कृत्याभ्यर्च्य गुरुं क्षम्यतामिति चोच्चरेत् ।
दोषाणामेवमादीनां सम्भवेपि मुनीश्वराः! । 743 ।
तत्तच्छान्तिं प्रकुर्वीत शान्तिहोमजपादिभिः ।
मुनयः- प्रायश्चित्तान्यशेषाणि श्रुतानि मुनिपुङ्गव! । 744 ।
तत्र तत्र त्वया प्रोक्तं कर्म सम्प्रोक्षणाभिध ।
ग्रामशान्तिविधिश्चापि शान्तिहोमश्च भूयशः । 745 ।
तद्विधानादिकं सर्वं ज्ञातुमिच्छामहे मुने! ।
नारदः- सम्प्रोक्षणविधानादीन् वक्ष्यामि मुनिसत्तमाः! । 746 ।
श्रुणुध्वमधुना सर्वे सावधानेन चेतसा ।
बिम्बपीठविमानानां भग्नाङ्गे तु समाहिते । 747 ।
प्रतिमापीठयोरष्टबन्धने तु पुनः कृते ।
आशौचवद्भिर्मनुजैर्महापातकभिर्नरैः । 748 ।
चण्डालोदक्यादिभिश्च म्लेच्छैर्वा पुल्कसादिभिः ।
देवबिम्बेषु संस्पृष्टे चण्डाळश्वपचादिभिः । 749 ।
निरन्तरं त्वेकमासमालये समधिष्ठिते ।

[[288]] चण्डालश्वपचादीनां प्रमादाद्भगवद्गृहे । 750 ।
कर्मण्यधिकृतौ तैस्तु महावासेपि च द्विजाः! ।
बिम्बे प्रासादभागे वा शवैः स्पृष्टे द्विजोत्तमाः! । 751
बिम्बे वल्मीकशिथिलीसरघाणां समुद्भवे ।
बिम्बेत्वशनिसंस्पृष्टे प्रासादे वा मुनीश्वराः ! । 752 ।
बिम्बस्य हसने चैव चलने रोदने तथा ।
पतने भ्रमणे चैव स्वेदरक्तादिसम्भवे । 753 ।
कम्पने च तथा विप्राः! रक्तवर्षादिसम्भवे ।
आराधने च विच्छिन्ने मासादूर्ध्वं मुनीश्वराः! । 754 ।
संहितासङ्करे चैव तथा सिद्धान्तसङ्करे ।
भूगुप्ते चोद्धृते बिम्बे मासादूर्ध्वं द्विजोत्तमाः! । 755 ।
सम्प्रोक्षणं प्रकुर्वीत तत्ताद्दोषप्रशान्तये ।
दोषैरपहतं ज्ञात्वा प्रासादप्रतिमादिकम् । 756 ।
असम्प्रोक्ष्यार्चनं कुर्वन् राजानं राष्ट्रमञ्जसा ।
देवतायतनं ग्रामं नाशयेन्नात्र संशयः । 757 ।
तस्मात्सम्प्रोक्षणं कार्यं प्रासादप्रितिमादिषु ।
पुरा सम्प्रोक्षणदिनं राजराष्ट्राभिवृद्धिदम् । 758 ।
निश्चयीकृत्य कालज्ञैः पुरस्तादुक्तवासरे ।
अङ्कुरानर्प्य विधिवपश्चात्संशोधिते गृहे । 759 ।
सर्वत्र गोमयाम्भोभिः पुण्याहोक्तिपुरस्सरं

सम्प्रोक्ष्य पञ्चभिर्गव्यैः कुशोदकसमन्वितैः । 760 ।
मूलबेरादिबिम्बानां षड्भिस्सीद्धार्थकादिभिः ।
पवित्रावर्तितैरद्भिर्बहुशः क्षाळने कृते । 761 ।
प्रधानदिनपूर्वस्यां रात्रौ यागादिमण्टपे ।
तोरणद्वारकलशे वितानध्वजशोभिते । 762 ।
दीक्षाधिवासवत्कृत्वा कुम्भे वै मण्टपस्थले ।
पूजनं विभवेनैव जपान्तं मूलमन्दिरे । 763 ।
क्षीराद्यैः पञ्चविंशद्भिः स्नापयेद्ध्रुवकौतुकम् ।
लेपभित्तिपटस्थस्य पुरस्ताद्भद्रविष्टरे । 764 ।
कर्मार्चामथवा कूर्चदर्पणे प्रतिबिम्बितम् ।
संस्नाप्य विधिवत्कुम्भैः स्थापितैरग्रमण्टपे । 765 ।
उत्सवार्चादिबिम्बानामङ्गानामाश्रयात्मनाम् ।
तत्रस्थे हवनं कुण्डे शङ्खचक्रादि लक्षणे ।
मधुक्षीरादिभिः कार्यं सहस्रशतसङ्ख्यया । 767 ।
कर्मबिम्बं विनान्येषां बिम्बानामङ्गरूपिणाम् ।
दक्षिणेमण्टपस्याथ शयने कल्पयेन्महत् । 768 ।
तिलतण्डुलशालीनां भारैर्वस्त्रादिभिः सह ।
तदूर्ध्वे शाययेदर्चां विधिवद्बद्धकौतुकाम् । 769 ।
सम्पूज्यकम्बळाद्यैश्च छादयेत्तां सितादिभिः ।
वर्णकैर्मण्डलं कुर्याच्चक्राम्बुरुहभूषितम् । 770 ।
यावत्प्रभातसमयं बिम्बस्थस्य समीपतः ।
देशिको मूलमन्त्रस्य जपेनैव नयेन्निशाम् । 771 ।

[[289]] प्रभा॑तायां तु शर्वर्यां कृतसन्ध्याविधिर्गुरुः ।
चतुःस्थानार्चनं कृत्वा पूर्ववत्स्नपनान्वितम् । 772 ।
पूर्णाहुत्यादिकं सर्वं विधाय तु यथाविधि कुण्डस्थं मण्डलस्थञ्च देवं हृदि विसृज्य च । 773 ।
उद्वास्य द्वारदेवां॑श्च बलिदानपुरस्सरम् ।
मुहूर्तेशोभने प्राप्ते नववस्त्र परिष्कृतम् । 774 ।
सोत्तरीयोपवीतं च कृतकौतुकबन्धनम् ।
समस्ततत्वविन्यस्तमभ्यर्च्यार्घ्यादिभिः क्रमात् । 775
तासु स्वहृदयाम्भोजात्पुष्पाञ्जलिपुरस्सरम् ।
अग्र्राह्यमपरिच्छेद्यममूर्तममलं महत् । 776 ।
नित्यशुद्धमनौपम्यं सुसूक्ष्ममचलं स्फुटं

सच्चिद्रूपं त्वसामान्य भास्वरं सुदृढं महत् । 777 ।
तेजस्तु सङ्क्रमय्याथ दण्डवत्प्रणिपत्य तु ।
विनिवेद्य विभोः सर्वं कृतं कर्म द्विजोत्तमाः ! । 778 ।
उत्थाप्योत्सवबिम्बादीन् पूर्ववन्मङ्गळैः सह ।
महाकुम्भं च पुरतो वाहयन् मूर्तिपादिभिः । 779 ।
करकास्त्रं स॑मादाय त्वाचार्यः पुरतो व्रजेत् ।
शलाकामात्रयाऽच्छिन्नधारया सेचयन् भुवम् । 780 ।
प्रादक्षिण्येन धामान्तः प्रवेश्य मुनिपुङ्गवाः ! ।
महोत्सवोक्तमार्गेण कुम्भप्रोक्षणमाचरेत् । 781 ।
द्वारावरणदेवांश्च आलयाश्रय वर्तिनः ।
खगेशविष्वक्सेनादि परिवारांश्च सर्वशः । 782 ।
कुम्भावशिष्टतोयेन प्रोक्षयेत्सर्वतः क्रमात् ।
अवशिष्टं कुम्भतोयं बलिपीठेऽभिषेचयेत् । 783 ।
एवं सम्प्रोक्ष्य विधिवत्प्रासादान्तः प्रविश्य च ।
करस्थं कौतुकं चाथ हृदयेन विसृज्य तु । 784 ।
गोभूहेमादिकं दत्वा सर्वदोषप्रशान्तये ।
देवमर्घ्यादिनाभ्यर्च्य हविरन्तं विशेषतः । 785 ।
ब्राह्मणान् भोजयेत्पश्चात् सहस्रं शतमेव वा ।
सद्यो वा सकलन्त्वेवं कुर्यात्सम्प्रोक्षणं विभोः । 786 ।
पुष्पाङ्कुरपुरस्कं तु तत्तद्दोषप्रशान्तये ।
न तिथिर्न च नक्षत्रं कालवेळा न विद्यते । 787 ।
सद्यस्सम्प्रोक्षणं विप्राः ! निशिवा दिवसेपि वा ।
प्रायश्चित्तविळम्बे तु कुर्यात्कालनिरीक्षणम् । 788 ।
इति सम्प्रोक्षणं प्रोक्तं सर्वञ्चापि द्विजोत्तमाः ! ।
प्राश्चित्तं तु वै कुर्यात् सञ्जाते तन्निमित्तके । 789 ।
तत्तदैवाथ कर्मान्ते विधिनाभ्यन्तरेपि वा ।
तद्गुरुत्वानुगुण्येन पञ्च सप्त दिनान्तरे । 790 ।
तदारम्भसमाप्तिर्वा ह्यन्यथा द्विगुणं चरेत् ।
प्रायश्चित्तं तु सर्वत्र स्वयंव्यक्तादिके स्थले । 791 ।
अथातः सम्प्रवक्ष्यामि ग्रामशान्ति विधिं द्विजाः! ।
राज्यक्षोभावसाने च शून्ये ग्रामे च हेतुना । 792 ।

[[290]] ग्रामे वा वह्निना दग्धे वात्यासारादि दूषिते ।
पुनः समाहिते रक्तमधुवर्षादिसम्भवे । 793 ।
ग्रामे बहुब्रह्मवधे तथा गोवधसम्भवे ।
चण्डाळशबराद्यैस्तु ग्रामे बहुदिनोषिते । 794 ।
महामार्यादिरोगेण सङ्घातमरणादिके ।
ग्रामशान्तिं प्रकुर्वीत सर्वदोषप्रशान्तये । 795 ।
तद्ग्रामे मुनिशार्दूलाः सर्वत्रैकत्र वा क्षितिम् ।
ख़ात्वा मृदं समुद्धृत्य बहिःप्रक्षिप्य शुद्धया । 796 ।
सम्पूर्य च समीकृत्य कुशाद्भिः परिमृज्य च ।
पर्यग्निकरणं विप्रैः कारयित्वा समन्ततः । 797 ।
संसिच्य गोमयाम्भोभिः पुण्याहोद्घोषपूर्वकम् ।
पञ्चगव्येन चाभ्युक्ष्य गोगणं तत्र वासयेत् । 798 ।
वाचयित्वा महाशान्तिं ब्राह्मणैर्वेदपारगैः ।
भोजयित्वा द्विजांस्तत्र तेभ्यो दद्यात्तु दक्षिणाम् । 799
कृत्वैवं स्थलसंशुद्धिं शान्तिं कुर्यादनुक्रमात् ।
देवगेहपुरोभागे बहिर्द्वारस्य सन्निधौ । 800 ।
मण्टपङ्कारयेत्पूर्वं चतुर्द्वारादिसंयुतम् ।
तन्मध्ये वेदिकां कुर्यादूर्ध्वकुण्डसमन्विताम् । 801 ।
परितः कल्पयेत्कुण्डानष्टौवा चतुरोपि वा ।
मध्यकुण्डेपि वा सर्वं होमं कुर्याद्द्विजोत्तमाः । 802 ।
सर्वांश्च यागसम्भारान् सम्भृत्य सुसमाहितः ।
निशामुखे प्रवृत्ते तु कृतस्नानः कृताह्निकः । 803 ।
देवगेहं समासाद्य ऋत्विग्भिः सह देशिकः ।
देवदेवं समभ्यर्च्य तदनुज्ञापुरस्सरम् । 804 ।
सर्वैः परिजनैः सार्धं यागगेहं प्रविश्य तु ।
द्वारकुम्भादिकांस्तत्र परिकल्प्य यथाविधि । 805 ।
वेदिकोर्ध्वे तु कुण्डस्य दक्षिणे करकान्वितम् ।
महाकुम्भं च विन्यस्य वामे शान्तिघटं न्यसेत् । 806
करशुद्ध्यादिकं सर्वं कृत्वा हृद्यागपश्चिमम् ।
पुण्याहं वाचयित्वा तु सम्भारान् प्रोक्ष्यकृत्स्नशः ।
द्वारार्चनपुरस्कन्तु महाकुम्भे यथाविधि ।
अभ्यर्च्य देवमर्घ्याद्यैर्हविरन्तैस्तथास्त्रपम् । 808 ।
परितो वासुदेवादीन् ततः शान्तिघटे द्विजाः! ।
शान्तिं पुष्टिं च तुष्टिं च तमभ्यर्च्य यथाविधि । 809 ।
वास्तुदेवगणांश्चापि तत्रैव परिपूजयेत् ।
तदष्टदिक्षु कुम्भेषु कुमुदादीन् समर्चयेत् । 810 ।
अथोर्ध्वकुण्डे विधिवत्प्रतिष्ठाप्य हुताशनम् ।
तत्र देवं तु सन्तर्प्य समिद्भिः सप्तभिः क्रमात् । 811 ।
अष्टोत्तरसहस्राख्यसङ्ख्यया सघृतैस्तिलैः ।
तर्पयित्वा तु शान्त्यर्थमुद्धृत्याग्निगणं ततः । 812 ।
दिक्कुण्डेषु विनिक्षिप्य विदिक्कुण्डेषु च क्रमात् ।
प्रागादिदिक्षु चतुरो ऋत्विजः सन्निवेश्य तु । 813 ।
वासुदेवादिभिर्मन्त्रैः समित्सप्तकपूर्वकम् ।

[[291]] सहस्रसङ्ख्यया देवान् तर्पयेत्सघृतैस्तिलैः । 814 ।
एवमप्यययोगेन वाय्वादीशावसानकम् ।
ऋग्वेदाद्यांश्च चतुरह् सन्निवेश्य यथाक्रमम् । 815 ।
तैश्चापि वैष्णवैः सूक्तैः शान्तिसूक्तैश्च पावनैः ।
सहस्रसङ्ख्यया साज्यतिलहोमं तु कारयेत् । 816 ।
शान्तिं पुष्टिं च तुष्टिं च वासुदेवगणांस्तथा ।
कुमुदादिगणांश्चापि मध्यकुण्डे यथाक्रमम् । 817 ।
प्रत्येकमष्टाहुतिभिस्तर्पयेद्घृतधारया ।
ब्रह्मा मरीचिरत्रिश्च विवस्वान् पृथिवीश्वरः । 818 ।
चित्रश्चैवापवत्सश्च सन्धिता च सवित्रकः ।
रुद्रो रुद्रजयश्चैव इन्द्र इन्द्रजयस्तथा । 819 ।
ईशश्चैवाथ पर्जन्यो जयन्तश्च महेन्द्रकः ।
भानुः सत्यो भृगुश्चैव अन्तरिक्षश्च पूर्वकः । 820 ।
अग्निः पूषा कृशो भानुर्गुहः क्षेत्राधिपस्तथा ।
गन्धर्वो भृङ्गराजश्च मृत्युश्चैव तथान्तकः । 821 ।
पितृदौवारिकश्चैव सुग्रीवः पुष्पदन्तकः ।
वरुणश्च भृगोश्चापो यक्षमासमनोजवः । 822 ।
योगो नागश्च मृत्यन्तो भल्लाटः सोम एव च ।
अदितिर्वास्तुनाथश्च ग्रामवास्तुगणाः स्मृताः । 823 ।
एतांस्तु स्वस्वनाम्नैव स्वाहान्तेन हुनेत्क्रमात् ।
ग्रामाश्रितांस्तथादेवान् नगराश्रितदेवताः । 824 ।
भूपालाश्रितदेवांश्च चैत्यप्रासाददेवताः ।
उद्यानोपवनस्थांश्च पर्वतद्रुमसम्स्थितान् । 825 ।
सर्वानभ्यागतान् देवान् तर्पयेद्घृतधारया ।
सम्पाताज्यं तु सङ्गृह्य शान्तिकुम्भे तु सेचयेत् । 826
कुम्भस्थं देवदेवं तु पुनरभ्यर्च्य देशिकः ।
गेहादिग्राममध्यान्तं बलिदानं समाचरेत् । 827 ।
रात्रिशेषं समाप्याथ प्रभाते देशिकोत्तमः ।
नित्यकर्माणि निर्वृत्य गत्वा वै यागमन्दिरम् । 828 ।
द्वारार्चनपुरस्कन्तु महाकुम्भादिषु स्थितान् ।
देवानर्घ्यादिभिर्भोगैर्हविरन्तं यजेत्क्रमात् । 829 ।
ततस्तु मूर्तिपैः सार्धं मध्यकुण्डादिषु क्रमात् ।
देवं सन्तर्प्य विधिना पूर्वोक्तेन मुनीश्वराः! । । 830 ।
पूर्णाहुत्यादिकं सर्वं विधाय च यथाविधि ।
अग्निमध्यस्थितं देवं विसृज्य स्वहृदि क्रमात् । 831 ।
द्वारदेवान् विसृज्याथ बलिदानपुरस्सरम् ।
महाकुम्भादिकान् सर्वान् वाहयन्मूर्तिपादिभिः । 832
पठद्भिः शान्तिसूक्तानि ब्राह्मणैः सहदेशिकः ।
शङ्खादिमङ्गळरवैर्घण्टारवसमन्वितैः । 833 ।
देवगेहं समासाद्य देवमर्घ्यादिभिर्यजेत् ।
पुंसूक्तेन प्रोक्षयेत्तं महाकुम्भस्थतोयतः । 834 ।
प्रासादद्वारमारभ्य बलिपीठान्तिमं क्रमात् ।

[[292]] कुम्भावशिष्टतोयेन प्रोक्षयेत्पूर्ववद्द्विजाः! । 835 ।
शान्तिकुम्भजलेनाथ शान्तिसूक्तैः समन्ततः ।
ग्रामं सम्प्रोक्षयेद्विप्राः! सर्वदोषप्रशान्तये । 836 ।
ततो गेहं समासाद्य सम्पूज्य पुरुषोत्तमम् ।
महाहविर्निवेद्याथ होमान्तं सर्वमाचरेत् । 837 ।
ततस्तु बलिबिम्बं तु यानमारोप्य देशिकः ।
नित्योत्सव विधानेन यात्रोपकरणैः सह । 838 ।
द्वारावरणदेवानां बलिं दत्वा विशेषतः ।
कुमुदादिबलिं दद्याद्ग्रामेपि च यथाविधि । 839 ।
मूलबिम्बं समभ्यर्च्य प्रणिपत्य क्षमापयेत् । 840 ।
गोभूहेमादिकं दद्यात्तत्काले सर्वशान्तये ।
आचार्य ॠत्विगादींश्च दक्षिणाभिः प्रतोषयेत् । 841 ।
ब्राह्मणान् भोजयेत्पश्चात्सहस्रं शतमेव वा ।
तेभ्यश्च दक्षिणां दद्याद्राजराष्ट्रसुखावहः । 842 ।
ग्रामशान्तिविधिस्त्वेष कथितो मुनिपुङ्गवाः! ।
अथातस्सम्प्रवक्ष्यामि शान्तिहोमविधिक्रमम् । 843 ।
सर्वदोषप्रशमनं सर्वाच्छिद्र प्रपूरणम् ।
सर्वैश्वर्यप्रदं नॄणाण् सर्वारिष्टविनाशनम् । 844 ।
कर्तुःकारयितुःश्चैव प्रजानां वाञ्छितप्रदम् ।
अतिवृष्टिरनावृष्टौ दुर्भिक्षे रोगसम्भवे । 845 ।
दुस्स्वप्नादौ दुर्निमित्ते महोत्पातेषु सत्सु च ।
आराधनाङ्गवैकल्ये गळिते चोत्सवाङ्गके । 846 ।
प्रतिष्ठास्नपनादीनामङ्गवैकल्य सम्भवे ।
बिम्बोपकरणादीनामस्पृश्यस्पर्शनादिके । 847 ।
पूर्वोक्तेषु निमित्तेषु सर्वेषु मुनिपुङ्गवाः । ! ।
शान्तिहोमं प्रकुर्वीत तत्तद्दोषप्रशान्तये । 848 ।
प्रासादस्याग्रतो वापि प्रथमावरणादिके ।
तदर्थं मण्टपं कुर्याच्चतुर्द्वारसमन्वितम् । 849 ।
यद्वा पूर्वं कृतो विप्राः! कुत्र चिन्मण्टपादिके ।
यागार्थमन्दिरे वापि उद्यानोपवनादिषु ।
द्विहस्तमेकहस्तं वा वृत्तं वा चतुरश्रकम् । 851 ।
कुण्डं प्रकल्पयेद्यद्वा स्थण्डिले होममाचरेत् ।
कुण्डस्य दक्षिणे पार्श्वे धान्यपीठे सलक्षणम् । 852 ।
सोपकुम्भं सकरकं महाकुम्भं तु विन्यसेत् ।
शान्तिकुम्भं च तत्पार्श्वे विन्यस्य तु सलक्षणम् । 853
कृत्वा मानसयागान्तं करशुद्ध्यादिकं द्विजाः ! ।
पुण्याहं वाचयित्वाथ सम्भारान्प्रोक्ष्य कृत्स्नशः । 854
अर्घ्यादीन् परिकल्प्याथ द्वारार्चन पुरस्सरम् ।
महाकुम्भे योगपीठं परिकल्प्य यथाविधि । 855 ।
तत्रावाह्य नृसिंहं तु सर्वदोषप्रशान्तिदम् ।
सकळीकृत्य विधिवल्लयभोगादिकं क्रमात् । 856 ।
कृत्वासनादिभिर्भोगैर्हविरन्तं समर्चयेत् ।

[[293]] सुदर्शनं च करके प्रागादिकलशेषु च । 857 ।
वासुदेवादिकां चेष्ट्वा प्रभवाप्यययोगतः ।
शान्तिं पुष्टिं च तुष्टिं च शान्तिकुम्भेसमर्चयेत् । 858
कुण्डं संस्कृत्य तत्राग्निं प्रतिष्ठाप्य यथाविधि ।
तत्रापि नृहरिं देवं समावाह्य यथाविधि । 859 ।
समिद्भिः सप्तभिश्चापि सन्तर्प्याथ स्वमन्त्रतः ।
विशेषेण हुनेद्दोषशान्त्यर्थं मुनिपुङ्गवाः! । 860 ।
ओं क्ष्रौं नमश्चेतिमन्त्रसंयुक्तेनादितो द्विजाः! ।
ओं नमोभगवतेनारसिंहायेत्यनेन तु । 861 ।
एतद्दोषं जहि जहि स्वाहेत्यन्तेन देशिकः ।
मध्वाज्यक्षीरसम्मिश्रान् सफलांस्तु तिलान् द्विजाः । 862
शतं सहस्रं साष्टं वा यथाशक्त्यथवा हुनेत् ।
पालाशं खादिरं चैव बिल्वमौदुम्बरं तथा । 863 ।
अश्वत्थप्लक्षन्यग्रोधमपामार्गमिति द्विजाः! ।
समिधाष्टकं क्लृप्तं मधुक्षीरान्वितैर्घृतैः । 864 ।
अष्टाक्षरेण जुहुयात्पृथगष्टोत्तरं शतम् ।
द्वादशाक्षरेणमन्त्रेण केवलाज्यं हुनेत्तथा । 865 ।
षडक्षरेण मन्त्रेण तिलं साज्यं हुनेच्छतम् ।
बीजानि विष्णुगायत्र्या हुत्वा चाष्टोत्तरं शतम् । 866
चरुं पुरुषसूक्तेन जुहुयाद्देशिकोत्तमः ।
कृत्वाथ स्विष्टकृद्धोमं प्रायश्चित्ताहुतीस्तथा । 867 ।
नारसिंहेनमन्त्रेण दद्यात्पूर्णाहुतिं ततः ।
सम्पाताज्यं समादाय सेचयेत्कुम्भमध्यतः । 868 ।
पुनः कुम्भे स्थितं देवं समभ्यर्च्य यथाविधि ।
शान्तिकुम्भं तु संस्पृष्ट्वा ब्राह्मणैः सह देशिकः । 869
नारसिंहेनमन्त्रेण शान्तिसूक्तैश्च मन्त्रयेत् ।
ततश्च द्वारदेवेभ्यो बलिं दद्याद्यथाविधि । 870 ।
एवं पूर्वदिने रात्रौ कृत्वा देशिकसत्तमः ।
परेद्युः प्रातरुत्थाय कृतस्नानः कृताह्निकः । 871 ।
इष्ट्वा कुम्भस्थितं देवं सन्तर्प्याग्नौ यथाविधि ।
द्रव्यैः पूर्वोदितैश्चापि अष्टाविंशतिसङ्ख्यया । 872 ।
पूर्णाहुतिं च कृत्वाथ विसृज्याग्निस्थितं विभुम् ।
विसृज्य द्वारदेवांश्च बलिदान पुरस्सरम् । 873 ।
महाकुम्भं शान्तिकुम्भं वाहयन् ब्राह्मणैः सह ।
वेदघोषैर्वाद्यघोषैर्घण्टारव समन्वितैः । 874 ।
आसाद्य देवसदनं समभ्यर्च्य जगत्प्रभुम् ।
पुंसूक्तेन महाकुम्भस्ततोयेन प्रोक्षयेद्विभुम् । 875 ।
शान्तिकुम्भजलेनाथ देवं वा मन्दिरादिकम् ।
सर्वोपकरणं वापि दूषितं दोषशान्तये । 876 ।
प्रोक्षयेच्छान्तिसूक्तेन दोषशान्तिर्भविष्यति ।
यजमानो गुरुं पश्चात्तोषयेद्दक्षिणादिभिः । 877 ।
सद्यःकालेपि वा ह्येवं तत्तद्दोषानुसारतः ।

[[294]] शान्तिहोमं प्रकुर्वीत सर्वदोषप्रशान्तये । । 878। ।
कुम्भार्चनं विना वापि केवलं होममाचरेत् ।
महोत्सवाद्युत्सवेषु प्रतिष्ठास्नपनादिके । 879 ।
तत्तकर्माङ्गभूतेग्नौ शान्तिहोमं समाचरेत् ।
इति सर्वं समाख्यातं किमन्यच्छ्रोतुमिच्छथ । 880 ।
इति श्री पाञ्चरात्रे ईश्वरसंहितायां प्रायश्चित्त (जीर्णोद्धार) विधिर्नाम
एकोन विंशोऽध्यायः ।