अष्टादशोऽध्यायः
18 - प्रतिष्ठाविधिः
अतःपरं प्रवक्ष्यामि मन्त्रबिम्बनिवेशनम् ।
भोगेप्सूनां च वर्णानां साम्प्रतं यदभीष्टदम् । 1 ।
कैवल्यदं शमाच्चैव चातुराश्रम्यसेविनाम् ।
यज्ञकर्मरतानां च सहायं च फलैस्तु तत् । 2 ।
प्राग्वद्देवगृहस्याग्रे दिग्भागेसति मण्टपम् ।
चतुरश्रं चतुर्द्वारं दर्भमालान्तरीकृतम् । 3 ।
अन्यत्र तदलाभे तु यथाभिमतदिम्मुखम् ।
चतुर्दशकराच्चैव यावत्त्रिंशकरावधि ।4।
षट्करान्तं पुरस्तस्माद्बिम्बमानव्यपेक्षया ।
कार्यामध्ये स्थली तेषां द्विसप्तांशैस्ततोष्टभिः 5 ।
समन्तभद्रा सुश्लक्ष्णा चित्ता पक्वेष्टकादिभिः ।
तालोन्नतेः समारभ्य सामान्येस्मिन्
हि कर्मणि 6
उन्नताङ्गुळवृध्यातु नीता तद्घ्रासतां क्रमात् ।
द्वित्रिरष्टांशकैर्मध्ये सर्वासां मण्डलं भवेत् । 7 ।
चतुरश्रं चतुर्द्वारं चक्राम्बुरुहभूषितम् ।
दक्षिणेशयनं सौम्ये कुण्डमग्नेस्तु पूर्ववत् । 8 ।
समेखलं द्विहस्तं तु चक्रपद्माङ्कितं शुभम् ।
तदधश्चतुरश्रं प्राग्दाममेखलकान्वितम् ।9 ।
अथ दक्षिणदिग्भागे कुर्याद्वै चक्रचिह्नितम् ।
वर्तुळं पश्चिमे सौम्ये कमलाङ्कं मनोहरम् । 10 ।
शङ्खाङ्कं सर्वकोणेषु मानमेषां यथोर्ध्वगे ।
सर्वे दशान्तां
चतुर्णामेकमेखलाः । 11 ।
[[227]]
मण्टपानां तु किन्त्वत्र ऊर्ध्वगं सर्वमेखलम् ।
अतोधस्सम्मिस्थिताः सर्वे एककुण्डास्तु मण्टपाः 12
तेषां समेखलं चाद्यं द्वाविंशत्यङ्गुळैर्भवेत् ।
ह्रासादङ्गुळयुग्मस्य यावद्वै षोडशाङ्गुळम् । 13 ।
स्यात्षट्करे गृहे कुण्डं कार्या वा मेखलाधिका ।
अष्टहस्तोच्छ्रितं पूर्वमथोर्ध्वकर वर्धिताः । 14 ।
न ह्रासष्षट्करान्तानां न्यूनानामुच्छ्रितेर्भवेत् ।
त्रयोदशकरादीनां चतुर्णां पातयेत्ततः । 15 ।
अष्टकं चाङ्गुळानां तु सप्तपञ्चचतुःक्रमात् ।
एवं स्नानगृहाणां तु विस्तारश्चोन्नतैः सह । 16 ।
किं तु वै वालुकापीठैः मध्यतश्चोपशोभिताः ।
द्विचतुर्भिः द्विहस्तांशैर्विस्तृताः प्राग्वदुन्नताः 17
स्नानीया अग्रगेहाद्वै दिक्त्रयोभिमते शुभे ।
अर्धमानसमं मुख्यात्सुपीठ शयनान्वितम् । 18 ।
दृग्दानभवनं कुर्यान्माङ्गळ्य कलशैः सह ।
सर्वेषामपि भूभागे कोणस्तम्भैर्विभूषितम् । 19 ।
सुनेत्रैर्वेष्टितं
कुर्याच्चक्राद्यैः पूर्ववद्युतम् ।
सुस्थितं दृढपादं च स्नानाम्भोग्रहणक्षमम् । 20 ।
अर्धेन वालुकापीठं
दीर्घमाद्यक्रमेण तु ।
वर्धितं चार्धहस्तेन ह्रासितं
चतुरङ्गुलैः । ,21 ।
स्वदैर्घ्यादर्धविस्तीर्णं कृत्वैवं सप्रणाळकम् ।
तेन तद्वालुकापीठं भूषयेन्मध्यगेन तु । 22 ।
यागागारस्य वै दिक्षु द्वारार्थं तत्र चान्तरे ।
शमार्धवृद्धियोगेन ह्रासयेन्यत्र कलादिकः । 23 ।
तोरणानि बहिःकुर्याद्
दृढैः काष्टैः सुपूजितैः ।
पञ्चहस्तानि चार्धेन वर्धितानि करेण तु । 24 ।
न ह्रासमाचरेत्तेषामन्यत्र करणे सति ।
न समात्पञ्चहस्तानामृते भूमौ प्रवेशयेत् । 25 ।
शमार्थं वर्धितानां च द्वे द्वे संवर्धयेत्कले ।
दैर्घ्यात्प्रवेशशिष्टात्तु त्रिभागेन तदन्तरम् । 26 ।
सर्वे चक्रध्वजाः कार्या वस्त्रस्रम्मञ्जरीयुताः ।
सुधाद्यैर्वर्णैकै पीतैश्चन्दनाद्यैस्तु लेपिताः । 27 ।
भिन्नाङ्गमेतदखिलं यथैकस्मिन्
हि युज्यते ।
कर्म यागगृहे शश्वद्विभूतेर्वा वनेर्विना । 28 ।
पञ्चत्रिंशत्करं क्षेत्रं स्वतुर्यांशेन विस्तृतम् ।
तन्मध्ये तु चतुर्हस्तं त्वापाद्यं स्थलसप्तकम् । 29 ।
स्थलानां व्यवधानां तु कुर्याद्वै ताळसम्मितम् ।
एकापायेन वै कुर्याद्
द्विहस्तान्तं स्थलाङ्गणम् ।
क्रमेणाष्टाङ्गुळान्मानाद्
द्व्यङ्गुळं द्व्यङ्गुळं विना ।
स्थलानां सङ्कटानां च व्यवधानं द्विगोळकम् ।
एवमेव समुच्छ्रायः सर्वेषां परिकीर्तितः ।
परितो विहितं वीधेः मानमत्र स्वपीठजम् । 32 ।
[[228]]
एवं वा सङ्कटे कुर्यादाद्योक्तान्मण्टपद्वयात् ।
मध्यमण्डलपीठं तु तस्य दक्षिणदिग्भवेत् । 33 ।
समीपे शयनस्थानं कुम्भानां स्थापनायनम् ।
एवं हि वामनिकटे भोगानां मन्त्रतर्पणम् । 34 ।
ऋग्यजुस्सामपूर्वाणां श्रुतीनां हवनं परे ।
दृग्दानं शयनस्थानं ह्यन्यस्मिन्
शयने हितम्
35
प्रासादस्याष्टदिम्मूर्तिपानामेव यथोदितम् ।
स्थण्डिलेष्वथ कुण्डेषु तादर्थ्येनाथ वा स्वयम् । 36
स्वकुण्डे हवनं कुर्याच्चतुर्वेदमये परे ।
समस्तमूर्तिपीयं वा स्वयमेव समाचरेत् । । 37 ।
सामग्रीविरहाद्योग्यमूर्तिपानामभावतः ।
एवं त्वभिनवं
कृत्वा यागार्थं मण्टपं द्विजाः । 38
पूर्वोदितैरलङ्कारैरलङ्कृत्य पृथग्विधैः ।
सितरक्तादिभेदेन प्रागादौ तु ध्वजाष्टकम् । 39 ।
निवेश्य मध्यवेद्यां तु पुनरप्ययवत्तथा ।
तदर्थान्
सर्वसम्भारान्
सम्भृत्य सुसमाहितः । 40 ।
दिने कर्मदिनात्पूर्वे सप्तमे पञ्चमेपि वा ।
अङ्कुरानर्पयित्वा तु ततः कर्म समारभेत् । 41 ।
प्रधानदिवसात्पूर्वं दिने देशिकसत्तमः ।
स्नातः शुक्लाम्बरः स्रग्वी कृत्यन्याः सुशान्तधीः 42
कृताह्निकोधिवासार्थं सर्वालङ्कारभूषितः ।
सर्व साधनसंयुक्तत्वर्घ्यपात्र समन्वितः । 43 ।
माङ्गळ्यकुम्भमादाय ध्यायेनानोच्युतं हृदि ।
सह चैकायनैर्विप्रैः सदागमपरायणैः । 44 ।
तथा ऋम्मयपूर्वैस्तु आमूलाद्भगवन्मयैः ।
भेरीपटहवादित्रशङ्खशब्दादिकैः सह । 45
ऋग्यजुस्सामपूर्वैस्तु प्रशस्ताः सम्पठन्
श्रुतीः ।
द्वारपालार्चनं कृत्वा यागागारं प्रविश्य च । 46 ।
संस्मृत्य स्वासने व्याप्तिमर्चयित्वोपविश्य च ।
मध्यपीठसमीपे तु प्राम्मुखः पश्चिमे पदे । 47 ।
अग्रे माङ्गल्यकलशमाधारस्योपरि विन्यसेत् ।
विप्रानृम्मयपूर्वांश्च उपवेश्य च पूर्ववत् । । 47 ।
पूर्वोक्तस्त्वविधैर्युक्तो द्रव्यैर्द्रव्यगणः शुभः ।
यत्र यत्रोपयोज्यस्तु तत्र तं सम्प्रवेशयेत् । 49 ।
मन्त्राणामुपदेष्टा च अनुकूलो महामतिः ।
योक्तव्यः कर्मदक्षस्तु सर्वेष्ववसरेषु च । 50 ।
दक्षिणो ह्यात्मनो विप्राः! एकचित्तः समाहितः ।
स्वयं वस्त्वनुसन्धाय हवनार्चनकर्मणाम् । 51 ।
आस्ते ह्युत्पत्तिपूर्वाणां न्यासान्तानामनन्यधीः ।
करशुद्ध्यादि सर्वं तु चक्रादि न्यासपश्चिमम् । 52
सर्वं क्रमेण कृत्वा तु पुण्याहं वाचयेत्ततः ।
पूर्वोक्तविधिना कुर्यात्सहोमं कलशार्चनम् । 53 ।
[[229]]
कुर्यात्सतोरणानां च ध्वजानां स्थापनं ततः ।
सत्यादिकं चतुष्कं तु मध्यवेद्या ध्वजाष्टके ।54 ।
प्रभवाप्यययोगेन यजेत्प्रागादियोगतः ।
उतदेवा अवहिता ऋम्मयान्
पाठयेत्ततः । 55 ।
प्रागादि दिक्चतुष्केषु तोरणानां चतुष्टये ।
सुशोभनं सुभद्रं च सुगन्धं च यजेत्क्रमात् । 56 ।
सुगोत्रं च ततश्चक्रं विहगेश्वरसंयुतम् ।
उपरिष्ठान्मुनिश्रेष्ठाः! पूजयेत्प्रतितोरणम् । 57 ।
एतेषामथ वा पूर्वं भवेद्वार्स्थैः सहार्चनम् ।
पाठयेद्
द्वारपालीयं साम सामविदस्ततः । 58 ।
अथार्घ्य पुष्पभृन्मूर्तिधरैर्यायात्समावृतः ।
य़त्र तिष्ठति विश्वेशः पीठब्रह्मशिलान्वितः । 59 ।
तत्रावलोकनं तेषां कुर्यात्सन्ताडनादिकम् ।
चक्रास्त्रमन्त्रितैः स्नानकलशैः स्नापयेत्ततः । 60 ।
सिद्धार्थकैः तथा पञ्चगव्यमृद्भूतवारिणा ।
वल्मीकमृज्जलेनाथ चक्राङ्कौषधिवारिणा । 61 ।
सङ्क्षाळ्याभ्यर्च्य चोद्वर्त्य क्षाळयेदस्त्रवारिणा ।
तमर्घ्येणार्चयित्वा च ततस्तन्मन्त्रितान्
करे ।62 ।
सिद्धार्थकन्
दक्षिणे तु बध्वाग्रे पाठयेदृचम् ।
प्ररोहणं तथा सर्वन्नयेत्प्रतिसरे मणीन् । 63 ।
सर्वत्र वेष्टितं कृत्वा समारोप्य रथोत्तमे ।
कर्मारम्भं च पठतस्तस्य दक्षिणदिङ् न्यसेत् ।64
ऋक्सामपूर्वान्
वामे तु ब्राह्मणांश्च चतुश्चतुः ।
पुरतस्तोत्रं स्मरन्यायात्स्वयं विघ्नांस्तु सूदयन् । 65
सनृत्तगीतवादित्रस्तुतिमङ्गळपाठकैः ।
इदंविष्णुर्विचक्रम इति ऋम्मयैः सहपाठकैः ।66 ।
एकायनांस्तदन्ते तु ओन्नमोब्रह्मणे तु यत् ।
तथैव शाकुनं सूक्तं श्रीसूक्तेन समन्वितम् । 67 ।
स्वर्णादिनार्थिनः शक्याः तर्पयेस्तन्निवेशयेत् ।
यागभूमिं ततो बिम्बमवरोप्य रथादिकात् । 68 ।
निषण्णं दृढकाष्टोत्थतोरणे सन्निवेश्य च ।
स्नानभूमौ ततः कुर्यादस्त्रेणाज्यतिलाहुतीः । 69 ।
यद्वा पूर्वं समानीय पीठं ब्रह्मशिलान्वितम् ।
भूमिष्ठे भद्रपीठे तु वेदिकायां निवेश्य च । 70 ।
ततो बिम्बं समानीय स्थापयेत्पिण्डिकोपरि ।
स्थाप्यमाने बृहद्बिम्बे विशेषः कथ्यते द्विजः!।71 ।
पूर्ववत्कर्मशालायां संस्थाप्यकरशुद्धये ।
संस्नाप्य विधिना कृत्वा नयनोन्मीलनं ततः । 72 ।
स्नपनं बृहदापाद्य केवलं वा बहूदकैः ।
स्नानकर्मशिलादीनामीषत्कृत्वा तु सार्चनम् । 73 ।
उत्थाप्य मूर्तिपाद्यैस्तु बहुभिस्तु रथस्थितम् ।
समानीय ततो यत्नात्
प्रासादाभ्यन्तरं तु वै । 74
[[230]]
यथावद्रत्नविन्यासपूर्वं पीठे निवेश्य च ।
बृहद्बिम्बं ततः कुर्यात्कर्मबिम्बेऽखिलं तु वै । 75 ।
सन्निरोधस्तु मन्त्राणां तत्र लग्नोदये स्मृतः ।
आबृहत्स्नपनात्पूर्वं यत्किञ्चिदपि तत्र तत् । 76 ।
निर्वर्तनीयं पूर्णान्तं प्राम्मुनीश्वराः! ।
तथा कार्यं शुभे येन मुहूर्तो नावसीदति ।
एवं हि चित्रपूर्वाणामन्येषां मुनिसत्तमाः ।
सद्रत्नब्रह्मपाषाणवर्जितानां समापयेत् । 78 ।
स्नानाद्यं कर्मबिम्बे तु तत्समीपेऽथ दर्पणे ।
कर्मबिम्बं विनान्येषां प्रस्वपाद्यं हि विष्ठरे । 79 ।
कुर्यात्प्रवेशपूर्वं तु सर्वमुत्सवपश्चिमम् ।
शक्तिभिः कर्मबिम्बैश्च गरुडाद्यैर्यदा सह । 80 ।
समाचरेत्प्रतिष्ठानं मूलबिम्बस्य वै सह ।
तदानीं तानि बिम्बानि यागभूमौ प्रवेशयेत् । 81 ।
एवं प्रवेश्य तद्बिम्बं स्नानार्थं स्थापयेद्घटान् ।
अथवा कर्माधिवासात्तृतीये वासरे पुरा । 82 ।
प्रागुक्तविधिना कृत्वा सहोमं कलशार्चनम् ।
आचार्यो मूर्तिपैः सार्धं कर्मशालां प्रविश्य च 83 ।
प्राप्तेऽपराह्णसमये बिम्बमाकारशुद्धये ।
संस्नाप्य विधिना पश्चाद्बिम्बं तोयाधिवास्य च ।84 ।
अपरस्मिन्दिने प्राप्ते देशिकस्तु कृताह्निकः ।
ज़लादुत्थाप्य तद्बिम्बं यागभूमौ प्रवेशयेत् । 85 ।
मुनयः-
तोयाधिवासनविधिः कथं कार्यो मुनीश्वर ।
तद्विधानं विस्तरेण वदस्व वदतां वर । 86 ।
नारदः-
जलाधिवासनविधिं शृणुध्वं मुनिपुङ्गवाः ।
प्रासादस्य विशुद्ध्यर्थं बिम्बशुद्ध्यर्थमेव च । 87 ।
मानोन्मानप्रमाणानामूनाधिक्योपशान्तये ।
जगदाप्यायनार्थं च सर्वसम्पूर्णसिद्धये । 88
प्रतिष्ठार्थक्रियारम्भात्पूर्वमेव शुभे दिने ।
पञ्चगव्यादिना स्नानं पूजाहोमौ तथा जपम् । 89 ।
समाचरेत्स्वमन्त्रस्य यत्रैवं न कृतं पुरा ।
हेतुना केन चित्तत्र जलवासं समाचरेत् ।90 ।
नदीषु दीर्घिकायां वा तटाके निर्झरे ह्रदे ।
सम्भवे सति कुर्वीत जलवासं यथाविधि ।91 ।
असम्भवे जलद्रोण्यां कटाहे धातुमर्हसि ।
य़थासम्भवमन्यस्मिन्
पात्रे वा मृण्मयादिके ।92
अल्पतोये श्मशानान्ते लवणोदपरिप्लुते ।
कटुके च कषाये च तिक्ते फेनैश्च दूषिते ।93 ।
चैत्यवृक्षसमीपे च नीचावाससमीपके ।
वर्णान्तरयुते स्वल्पे ऊषरे शैवलान्विते ।94 ।
[[231]]
एवमादिषु दुष्टेषु जलवासं न कारयेत् ।
एकत्रिपञ्चरात्रं वा जलमध्येऽधिवासयेत् ।95 ।
देशकालानुसारेण सद्यो वा जलवासनम् ।
प्रतिष्ठादिवसात्पूर्वं तृतीये पञ्चसप्तमे ।96 ।
दिनेपराह्णसमये कर्मशालां प्रविश्य च ।
अस्त्रमन्त्रेण सम्प्रोक्ष्य बिम्बं सन्ताडयेत्त्ततः ।97 ।
सिद्धार्थकैस्तिलैर्दीर्घैरस्त्रमन्त्राभिमन्त्रितैः ।
संस्नाप्याकारशुद्ध्यर्थं षड्भिः सिद्धार्थकादिभिः। 98
वस्त्राभरणपुष्पाद्यैरलङ्कृत्य च भूषणैः ।99 ।
पूर्ववच्छ्रुति घोषैश्च शङ्खभेर्यादिकैः सह ।
विविधैर्नृत्तगेयैश्च तथान्यैर्मङ्गळैः सह । 100 ।
ग्रामं वा नगरं वापि प्रासादं च प्रदक्षिणम् ।
भ्रामयित्वा जलोद्देशमानयेन्मूर्तिपैः सह । 101 ।
प्रपायां तु जलेभ्यर्णे अवरोप्य रथादिकम् ।
विष्टरे विनिवेश्याथ प्राम्मुखं वाप्युदम्मुखम् ।102 ।
मण्टपं जलमध्ये तु वातवृष्टिक्षमं शुभम् ।
चतुस्तम्भसमायुक्तं चतुस्तोरणभूषितम् । 103 ।
वितानध्वजसंयुक्तं वेष्टितं दर्भमालया ।
विचित्रैश्च फलैर्युक्तं द्रुमाङ्गैः पावनैस्तथा । 104 ।
मुक्तादामसमायुक्तं स्रग्दामभिरलङ्कृतम् ।
कोणेप्रदीपसंयुक्तं चामरैरुपशोभितम् । 105 ।
पुरैव कारयित्वा तु कुर्यात्पुण्याहघोषणम् ।
प्राग्वच्छुद्धिमपां कृत्वा तन्मध्ये विन्यसेत्ततः । 106
प्रतिमानुगुणं भद्रपीठमास्तरणान्वितम् ।
सोपधानं तदूर्ध्वे तु कल्पयेन्मान्त्रमासनम् । 107 ।
अनन्तं कल्पयित्वोर्ध्वे अर्घ्यगन्धादिनार्चयेत् ।
मूलमन्त्रेण बिम्बस्य अर्घ्यं पाद्यं तथैव च ।108 ।
आचामं वासितं गन्धमुपवीतोत्तरीयके ।
भूषणानि च माल्यानि दीपं धूपं यथाक्रमम् ।109 ।
दत्वा कृत्वा घृतारोपं संस्मरेत्संहृतिक्रमम् ।
संहारस्य क्रमं वक्ष्ये समाकर्णयत द्विजाः! ।110 ।
आत्मानं सर्वगन्ध्यात्वा सर्वज्ञं विष्णुमव्ययम् ।
कुर्याद्भावान्वितो मन्त्री तद्विष्णोरधिवासनम् । 111
प्रणवेन समारोप्य जीवमर्चाभिमानिनम् ।
उत्क्रम्यात्म्यैकतां कृत्वा स्वस्मिन्
सर्वेश्वरे हरौ । 112
संशोध्य मलिनां पृथ्वीं दग्ध्वा बीजान्विताग्निना ।
अद्भिः सम्प्लाव्य तां वायुशुष्कां वह्नौ विलाप्य च।113
संहृत्य वायुना वह्निं वायुमाकाशतां नयेत् ।
आध्यात्मिकाधिदैवस्तु करणैर्विषयैः सह । 114 ।
तन्मात्रासंस्थितान्येव क्रमात्संहृत्य देशिकः ।
नभो मनसि संहृत्य मनोऽहङ्कृति तत्पुनः । 115 ।
महत्यात्मनि तं चापि नयेदव्याकृतैकताम् ।
[[232]]
शान्तानन्ते परे व्योम्नि निष्कले ज्ञानविग्रहे । 116
तं ध्यायेत्परमानन्दे संस्थितं शान्तविग्रहम् ।
यस्मिन्नव्याकृतं लीनं सावस्थं यत्स्वरूपकम् ।117
वासुदेवोपि विज्ञेयः सर्वात्मा सर्त्वकृत्प्रभुः ।
तस्मिन्नेव तु संहृत्य पृथिव्यादीनि देशिकः ।118 ।
एवं ध्यात्वा यथान्यायं बिम्बं वस्त्रेण वेष्टयेत् ।
स्थगयित्वांशुकैर्दिव्यैर्दर्भैः सर्वैः समादिभिः।119 ।
आचार्यो मूर्तिपैर्मन्त्रान्
व्यापकांश्चतुरोपि वा ।
पठद्भिः शाकुनं सूक्तं तथाचान्यैस्त्रयीमयैः।120।
आम्नायोद्घोषणपरैः सार्धमादाय तीरतः ।
तद्बिम्बं जलमध्ये तु पीठोर्ध्वे शाययेत्स्वयम् । 121
अम्भस्येति च मन्त्रेण प्राम्मूर्धानमुदम्मुखम् ।
दुन्दुभिर्विविधाकारा नादयित्वा दिशो दश । 122 ।
ज़यशब्दैश्च गीताद्यैः सपुण्याहपुरस्सरम् ।
आत्मन्यासं क्रमात्कृत्वा दिशोऽस्त्रेणावबध्नियाद्
अवलोक्य च नेत्रेण कवचेनावकुण्ठयेत् ।
लोकपालान्
बहिर्ध्यात्वा स्थानादस्मात्समन्ततः 124
तीरदेशमनुप्राप्य कुम्भं सूत्रेण वेष्टितम् ।
वेष्टितं नववस्त्राभ्यां सापिधानं सपल्लवम् । 125 ।
संस्थाप्य तद्दक्षिणतः करकं च तथैव हि ।
इन्द्रादीशानपर्यन्तं कलशान्
परितो न्यसेत् ।126 सवस्त्रान्
सापिधानांश्च सहिरण्यान्
सकूर्चकान् ।
कुम्भे विशाखयूपं तु करके च सुदर्शनम् । 127 ।
आवाह्यार्घ्यादिनाभ्यर्च्य इन्द्रादीन्
कलशाष्टके ।
बिम्बस्य शिरसो देशे कुम्भं च करकं न्यसेत् । 128
अर्चितं परितश्चाष्टौ कलशान्विन्यसेत्क्रमात् ।
कोणेषुपालिका न्यस्य अनिर्वाणैश्च दीपकैः।129 ।
दर्शयेच्चक्रमुद्रां च रक्षामुद्रां तथैव च ।
अत ऊर्ध्वं न वै कुर्याद् ग्राम्यधर्मं तु तज्जले।130 ।
दारुलोहशिलोत्थानां बिम्बानां जलवासनम् ।
साक्षाद्भवेत्त्तदन्यत्र भवेच्छायाधिवासनम् । 131
विधानं तत्र वक्ष्यामि यथावन्मुनिपुङ्गवाः ।
स्नानमाकारशुद्ध्यर्थं दर्पणे तु समाचरेत् ।132 ।
अन्यच्च सकलं विप्राः! प्राग्वद्बिम्बे समाचरेत् ।
अग्रतो देवबिम्बस्य छायाधिवासनार्थतः । 133 ।
जलद्रोणीं कटाहं वा स्थापयेल्लोहनिर्मितम् ।
मृण्मयं दारुजं वापि भाजनं धान्यसञ्चये । पूरयेद्गन्धतोयेन
शुद्धस्फटिकवर्चसा ।
पूर्ववद्विष्टरं कृत्वा दर्भमञ्जरिजं शुभम् । 135 ।
अष्टाविंशतिदर्भोत्थं कूर्चं कृत्वा द्विजोत्तमाः ।
देशिकेन्द्रो विधानेन तत्रावाह्य जगद्गुरुम् । 136 ।
अर्घ्यगन्धादिनाभ्यर्च्य स्मृत्वा वै संहृतिक्रमम् ।
विष्टरं जलमध्ये तु प्राम्मूर्धानं तु शाययेत् । 137 ।
चक्रमुद्रां प्रदर्श्याथ कुम्भादीन्
पूर्ववन्न्यसेत् ।
[[233]]
शक्तीनामपि विप्रेन्द्राः! पूर्ववद्विष्टरं भवेत् ।138
अथवा तु त्रिभिर्दर्भैः कूर्चं कुर्याद्विधानतः ।
छायाधिवासमात्रं तु तासामपि पृथक् पृथक् । 139
सर्वाङ्गं नव वस्त्रेन प्रतिमायाः समन्ततः ।
छादयित्वा समन्ताच्च सिद्धार्थान्
विकिरेत्
क्षितौ 140
रक्षोहनेति मन्त्रेण रक्षां कुर्यात्समन्ततः ।
अनुक्तमत्र यत्किञ्चित्
प्राग्वत्सर्वं समाचरेत् । 141
मृण्मये भीतिसंस्थे च बिम्बे छायाधिवासनम् ।
अन्तः प्रविश्य प्रासादे देशिकेन्द्रः समाचरेत् । 142।
अन्येषां यागगेहस्य प्राग्वत्कृत्वा तु मण्टपम् ।
कुटीं वा तत्र कुर्वीत छायाधिवसनं गुरुः । 143 ।
दारुलोहशिलोत्थानां बिम्बानां विभवे तदा । जलद्रोण्यादिके पात्रे
तोयाधिवसनं चरेत् । 144 ।
तदापि जलवासन्तु आचरेन्मण्टपान्तरे ।
य़द्वा स्नानार्थतः क्लृप्तमण्टपे वा समाचरेत् । 145 ।
अथवा यागसदने स्नानभूमौ तु तद्भवेत् ।
एवं जलाधिवासं तु कृत्वा वै देशिकोत्तमः । 146
उपयोज्यं प्रतिष्ठायां यद्यद्द्रव्यमुपार्जितम् ।
तत्सर्वं समुपाहृत्य प्रासादादींश्च शोधयेत् । 147 ।
पर्यग्निकरणं चापि कारयेद्ब्राह्मणेन तु ।
मार्जनैर्गोमयालेपैः शोधयित्वा तु मन्दिरम् ।148 ।
सुधाचूर्णैरक्षताद्यैः भूषयित्वा समन्ततः ।
पञ्चगव्यैस्ततः प्रोक्ष्य दीपानारोप्य सर्वतः । 149 ।
वितानाद्यैरलङ्कृत्य गन्धद्रव्यैश्च धूपयेत् ।
नास्तिकान्
भिन्नमर्यादान्
देवब्राह्मणनिन्दकान् ।
पापयोगयुतानन्यान्
निन्दितान्
पिशुनांस्तथा ।
पाषण्डिनो हीनवृत्तीन्
प्रतिलोमान्
समत्सरान् ।151
लुब्धान्मूर्खानविदुषो बहिर्निर्वासयेत्ततः ।
कर्माहाद्वासरे विप्राः! अपराह्णे गुरुः स्वयम् ।152 ।
जलाधिवासदेशं तु सम्प्राप्य सह मूर्तिपैः ।
उत्थाप्य बिम्बमुदकात्
कुम्भं च कलशानपि । 153।
उद्वास्य देवतास्तत्स्थास्तद्बिम्बं तीरविष्टरे ।
प्राम्मुखं समवस्थाप्य वारिभिः क्षाळयेत्ततः । 154
लोहजाश्चेद्विशुद्ध्यन्ति तिन्त्रिणीफलवारिभिः ।
प्राग्वत्सृष्टिक्रमं कृत्वा विधानेन मुनीश्वराः! । 155 ।
वस्त्राभरणपुष्पाद्यैरलङ्कृत्य मनोहरैः ।
य़ानमारोप्य तद्बिम्बं शङ्खभेर्यादिसंयुतम् । 156 ।
ग्रामं प्रदक्षिणीकृत्य ह्यालयं वा समानयेत् ।
य़ागगेहं तु यानादेरवरोप्य निवेशयेत् । 157 ।
स्थाने पूर्वोदिते पश्चादारभेत्स्नपनं गुरुः ।
लेख्यादौ सम्प्रविश्याथ प्रासादं मूर्तिपैः सह । 158 ।
प्राक्चाधिवासितं कूर्चं जलात्तस्मात्समुद्धरेत् ।
बिम्बाच्च वस्त्राभरणमाल्यान्यपनयेत्ततः । 159 ।
[[234]]
पीठे तु स्नानकुम्भानां स्थापनार्थं प्रकल्पिते ।
पूर्वोदितं स्थूलपरं स्नपनं स्थापयेद्द्विजाः । 160 ।
पूर्वादिपश्चिमाशान्तं पृथक्स्नपनमण्टपम् ।
विहितं यत्र तत्रैव देवदेवस्य वामतः । 161
यातुधानपदं यावदग्निकोणादितो न्यसेत् ।
स्नपनं स्थूलपराख्यं स्थूलसूक्ष्मं तु पृष्ठतः । 162 ।
ईशकोणात्समारभ्य यावदाग्नेयगोचरम् ।
देवस्य दक्षिणे पार्श्वे ईशानाद्वायुपश्चिमम् । 163 ।
स्थूलस्थूलाभिधं स्नानं स्थापयेत्क्रमयोगतः ।
अधिवासदिने कुर्यात्स्नानं स्थूलपराभिधम् । 164 ।
प्रतिष्ठादिवसे कुर्यात्स्नपनं स्थूलसूक्ष्मकम् ।
चतुर्थे दिवसे स्नानं स्थूलस्थूलाभिधं भवेत् । 165
तदा तत्तद्दिने तत्तत्स्नपनं स्थापयेद्गुरुः ।
एवं हि स्नानकलशान्
क्रमात्संस्थाप्य पूर्ववत् । 166
तदर्पणावसानेथ शयनं कल्पयेद्
द्विधा ।
नयनोन्मीलनार्थं तु शयनं कल्पयेत्पुरा । 167 ।
द्वादशाक्षरमन्त्रेन पीठं सम्प्रोक्षयेत्ततः ।
प्रागग्रानुदगग्रान्वा दर्भानास्तीर्य पुष्कलान् । 168 ।
पञ्चभारमितान्
शालीनथ वा चार्धसम्मितान् ।
वृत्तं वा चतुरश्रं वा कम्बळानुपरि न्यसेत् ।
उपधानानि चित्रानि शयनाङ्गानि कल्पयेत् ।
माङ्गल्यकुम्भान्
संस्थाप्य दिगष्टकमाश्रितान् । 170।
ततो बिम्बाधिवासार्थं शयनं परिकल्पयेत् ।
तदर्थं वेदिकोर्ध्वे तु कुर्यात्स्वस्तिकमण्डलम् । 171
ऱजसा कुसुमैर्वाथ चतुर्वर्णैर्महोज्वलैः ।
प्रागग्रानुदगग्रांश्च दर्भानास्तीर्य तत्परम् । । 172 ।
पञ्चभारप्रमाणेन शालिस्तत्र विनिक्षिपेत् ।
तदर्धं तण्डुलं शुद्धं तदर्धं तु तिलं तथा । 173
उपर्युपरि निक्षिप्य लाजानूर्ध्वे तु विन्यसेत् ।
काष्ठजं सुदृढं स्निग्धं चतुर्गात्रसमन्वितम् । 174
चतुष्पादसमायुक्तं चतुरश्रायतं ततम् ।
खट्वासञ्ज्ञितपर्यङ्कं तदूर्ध्वे स्थापयेत्ततः । 175 ।
दुकूलं मृदुतल्पं च विन्यसेत्सोपरिच्छदम् ।
केवलं तल्पमात्रं वा विन्यसेदथवा द्विजाः! । 176 ।
खट्वातूले विसृज्याथ लाजोर्ध्वे रत्नकम्बळम् ।
न्यसेदभिनवं पश्चाद्वस्त्रं कार्पासजं नवम् । 177 ।
क्षौमवस्त्रं न्यसेन्मध्ये चित्रवस्त्रं ततोपरि ।
शिरोपधानसंयुक्तं पादगण्डूकसंयुतम् । 178 ।
सर्वानभिनवान्
शुभ्रान्
सकपोलोपधानकान् ।
सुगन्धधूपितान्
वस्त्रान्
कुसुमामोदसम्मितान् । 179
इन्द्रादीशानपर्यन्तं कलशान्
सूत्रवेष्टितान् ।
तोयपूर्णान्
समान्स्निग्धान्
सापिधानान्
सवस्त्रकान्
[[235]]
सरत्नपल्लवैर्युक्तान्
धान्यराशिषु निक्षिपेत् ।
शङ्खचक्रगदापद्मैर्ध्वजैश्चेन्द्रादिषु क्रमात् । 181 ।
श्रीवत्सं गरुडं कूर्मं सौवर्णं तेषु निक्षिपेत् ।
मध्ये मध्ये च कुम्भानां धान्योर्ध्वे मङ्गलान्
न्यसेत्
शङ्खं चक्रं तथा लक्ष्मीं कुम्भं श्रीवत्समेव च ।
दर्पणं स्वस्तिकं मत्स्ययुग्मं वै मङ्गलाष्टकम् ।
वस्त्रैराच्छादितास्तद्वन्
न्यसेत्कोणेषु पालिकाः ।
एवं शयनयुग्मं तु प्रकल्प्य तदधो यजेत् । 184 ।
सर्वाधारमनन्तं तु तदूर्ध्वे सर्वगं प्रभुम् ।
प्रभवाप्ययोगेन यजेत्प्रागादियोगतः । 185 ।
पाठयेत्सर्पसामादि सञ्ज्ञां ज्ञानबलात्मिकाम् ।
हुत्वा शताष्टसङ्ख्यं तु मूलं तदनु कल्पयेत् । 186 ।
मण्डलं पावनै रागैः सिताद्यैर्मङ्गळीयकैः ।
तदूनाधिकशान्त्यर्थं हुत्वा कुण्डगनं ततः । 187 ।
संस्कुर्यात्प्रतिकुण्डस्य निकटे कुम्भमध्यगम् ।
प्रभवाप्यययोगेन चातुरात्म्यं तु संयजेत् । 188 ।
हृदादि यद्वा दिक्स्थेषु विदिक्स्थेषु तदस्त्रपम् ।
दत्वा तदर्थं पूर्णां तु पूर्णात्पूर्णं च पाठयेत् ।189।
एकायनान्यजुर्मयानाश्रावितमनन्तरम् ।
एवं सर्वं समापाद्य प्रायाद्बिम्बसन्निधिम् । 190 ।
बिम्बमर्घ्यादिनाभ्यर्च्य गुरुः स्नपनमारभेत् ।
अथास्त्रमन्त्रेण पुरा माङ्गळ्यकलशाम्भसा । 191 ।
सम्सेच्य बिम्बं तदनु स्नापयेत्तन्मृदाम्भसा ।
पाठयेत्तत्र कुश्माण्डान्
बलमन्त्रादनन्तरम् । 192 ।
ततो गोमयकुम्भेन इह गावः प्रपाठयेत् ।
भूतिस्त्वमिति मन्त्रेण पाठ्यमाने विभूतिना । 193 ।
पञ्चगव्येन तदनु पाठयेच्छाक्वरन्ततः ।
पूर्ववच्च ततोभ्यर्च्य विधिवच्चमसाम्बुना । 194 ।
क्षाळयित्वा जलैः शुद्धैरभिषिच्य ततोऽर्चयेत् ।
शिल्पिदोषविनाशार्थं स्नानमेतदुदाहृतम् । 195 ।
परिधाय ततो विप्रा वाससी अधरोत्तरे ।
नयनोन्मीलनार्थं तु शयनं यत्प्रकल्पितम् । 196 ।
तत्र पूर्वशिरस्कं च बिम्बं प्रस्वापयेद्
द्विजाः! ।
ततःसमन्ताद्बिम्बं तु छादयेत्कम्बळादिभिः । 197 ।
सौवर्णं राजतं चैव पात्रमाढकपूरणम् ।
धान्यराशौ निधायाग्रे पूरयेत यथाक्रमम् । 198 ।
मधुना सर्पिषा चैव ततस्तु मधुपात्रके ।
अर्कमण्डलमध्यस्थं मार्ताण्डायुतसन्निभम् । 199 ।
ध्यात्वा मन्त्रेशमभ्यर्च्य तदन्यस्मिन्
मुनीश्वराः! ।
चन्द्रमण्डलमध्यस्थं धेनुमुद्रासमन्वितम् । 200 ।
मन्त्रं वै सौरभेयीं च स्फुरदिन्दुशतप्रभम् ।
तदन्तरस्थं मन्त्रेशं हिमाचलनिभं स्मरेत् । 201 ।
[[236]]
तत्स्रुतैरमृतौघैश्च शशिजैर्धेनुजैरपि ।
सुभावितं स्मरेद्बिम्बं मधुवातेति मन्त्रतः । 202 ।
घृतादि मन्त्रयेत्पश्चाद्
वस्त्रेणाच्छादयेत्तु तत् ।
अष्टाङ्गुला च सौवर्णी शलाका राजती तथा । 203 ।
केवला वापि सौवर्णी शलाका स्याद्
द्विजोत्तमाः । ! अष्टधान्यानि
परितः पात्रेषु विनिवेशयेत् । 204 ।
गाः कन्यकाशुभाकारा भूषणैश्चापि भूषिताः ।
आनीय स्थापयेत्पार्श्वे ब्रह्मघोषेण घोषयेत् । 205 ।
स्वयं शलाकां सौवर्णीं कृत्वा नेत्राभिमन्त्रिताम् ।
मध्वक्तां च तथा नेत्रं दक्षिणं त्वीषदुल्लिखेत् ।
संस्मरन्
परमं ज्योतिर्नेत्रमन्त्रेण देशिकः ।
आज्यक्तया तया वापि राजत्या वाममुल्लिखेत् । 207
तन्मन्त्रितेण शस्त्रेण शिल्पी स्नातोऽवलोकितः ।
यथावत्प्रकटीकुर्याद्
विधिदृष्टेन वर्त्मना । 208 ।
वारुणं पाठयेत्साम सहचन्द्रेण सामगान् ।
पूरयेन्मधुसर्पिभ्यां नेत्रयुग्मं क्रमेण तु । 209 ।
वौषडन्तेन मूलेन तेनैव जुहुयात्ततः ।
सिञ्चन्तममृतौघं तु हृदाद्यन्तेन सेचयेत् । 210 ।
तन्मूर्ध्नि शशिबिम्बं तु ध्यायेत्तापादिशान्तये ।
व्यपोह्याच्छादनपटं दर्शयन्मधुसर्पिषी । 211 ।
अष्टधान्यानि गाश्चैव कन्यकाः पुरतःस्थिताः ।
मध्वाज्ये च शलाके च प्रदद्याच्छिल्पिने द्विजाः । 212
अष्टधान्यानि गाश्चैव शय्योपकरणं तथा ।
प्रदद्याद्देशिकेन्द्राय साधकः सिद्धिलालसः । 213 ।
य़द्वा मध्वादि सकलमाचार्याय निवेदयेत् ।
य़थाशक्ति तथान्येषां मूर्तिपानां च दक्षिणाः । 214
मृण्मये मूलबिम्बे तु भित्तिस्तेथ प्रविश्य तु ।
प्रासादं तत्र कुर्वीत नयनोन्मीलनक्रियाम् । 215 ।
एवं श्रियादिशक्तीनां नयनोन्मीलनं भवेत् ।
एवं नेत्रे समुन्मील्य बिम्बस्यतु ततः परम् । 216 ।
दहनाप्यायने कुर्यादस्त्रेण हृदयेन च ।
आमूर्ध्नो मूलमन्त्रं तु मूर्त्यर्थं पूर्ववन्
न्यसेत् । 217 ।
स्नानार्थतः पुराक्लृप्ते पीठे बिम्बं नयेत्ततः ।
व्याप्तिसत्तासमायुक्ते संस्कृते प्रोक्षणादिना । 218 ।
आधारादिक्रमोपेती समालब्धे सुपूजिते ।
पीठेवतार्य सम्वेष्ट्य वाससीह्यधरोत्तरे । 219 ।
अधः क्रमोदितैः कुम्भैर्द्विषोढावर्तितैर्हृदा ।
स्नापयेत्पाठयेद्विप्रानोषधीनामिति श्रुतिम् । ,220 ।
या ओषधय इत्यादि ऋग्वेदांस्तदनन्तरम् ।
एवं दशावशिष्टान्तैः सेचिते कलशैः सति । 221 ।
ततः कुम्भचतुष्केण चतुर्भिर्मूर्तिधारकैः ।
ऋक्सामपूर्वैर्विधिवत्
स्नपनीयं च पाठयेत् । 222 ।
उदुत्तमं हि ऋग्वेदान्
पाठयेद्द्रविणं यजुः ।
[[237]]
ततस्तु वारुणं साम सामज्ञोऽथर्वणस्ततः । 223 ।
अयन्ते वरुणश्चेति पवित्रं ते ततो ऋचम् ।
वसोःपवित्रं हि यजुः पाठयेत्सुमहांस्ततः । 224 ।
पवित्रं ते हि यत्साम संयोज्यैकायनांस्ततः ।
मूर्तिपान्
समुदायेन पावमानीचतुष्टयम् । 225 ।
तदन्ते तु परं मन्त्रं व्यूहीयं भगवानिति ।
पवित्रमन्त्रं तदनु इदंविष्णुर्विचक्रमे । 226 ।
ततो विभवमन्त्रैस्तु सर्वैस्सम्मन्त्रितेन च ।
कुम्भेन सेचयित्वा तु व्यूहमन्त्रैः परेण तु । 227 ।
स्नापयित्वाऽर्चयित्वा च जुहुयात्साधिकं शतम् ।
यथावत्प्रणवेनाथ व्याप्तिं कृत्वा च पाठयेत् । 228 ।
माप्रगामेति ऋग्वेदान्
अग्नेर्वायुर्यजुर्मयान् ।
प्राणापानं हि यत्साम ततः प्राणाय वै नमः । 229।
यातव्येति परं मन्त्रं विप्रानेकायनांस्ततः ।
ध्यानयुक्तो धिया सम्यक्पठेदाराधकस्ततः ।
“आवहयाम्यरबृन्दनताङ्घ्रियुग्मं-
लक्ष्मीपतिं भुवनकारणमप्रमेयम् ।
आद्यं सनातनतनुं प्रणवासनस्थं
पूर्णेन्दुभास्करहुताशसहस्रदीप्तिम् । 231 ।
ध्येयं परं सकलतत्वविदां च वेद्यं-
वाराहकापिलनृकेसरिसौम्यमूर्तिम् ।
श्रीवत्सकौस्तुभमहामणिभूषिताङ्गं
कौमोदकीकमलशङ्खराथाङ्गहस्तम् । 232 ।
सर्वत्रगोसि भगवन्
!किल यद्यपि त्वा-
मावाहयामि हि यथा व्यजनेन वायुम् ।
गूढो यथैव दहनो मथनादुपैति
आवाहितोपि हि तथा त्वमुपैषि चार्चाम् । 233 ।
मालाधराच्युत! विभो! परमार्थमूर्ते!
सर्वज्ञ! नाथ! परमेश्वर! सर्वशक्ते! ।
आगच्छ मे कुरु दयां प्रतिमां भजस्व
पूजां गृहाण मदनुग्रहकाम्ययाद्य । 234 ।
ततो विमृज्य वस्त्रेण भोगैः पूर्वोदितैर्यजेत् ।
अर्घ्याद्यैर्दक्षिणान्तैस्तु पाठयेदृम्मयांस्ततः । 235 ।
अर्चामि तेति मन्त्रं वै सामगांश्चार्चितस्त्विति ।
ॐ भगवानिति तद्ज्ञांस्तु अग्नौसन्तर्पयेत्ततः । 236
स्वकुण्डे देशिकेन्द्रस्तु समिधां सप्तकं हुनेत् ।
पश्चाच्छताष्टसङ्ख्यं च साज्यैश्च तिलतण्डुलैः । 237 ।
दिक्कुण्डेषु विनिक्षिप्य संस्कृतेषु पुरैव तु । 238 ।
तथैव च विदिक्स्थेषु उद्धृत्याभ्यर्च्य वै क्रमात् ।
ततः प्रभवयोगेन चतुर्दिक्षु निवेशयेत् । 239 ।
चतुरो वासुदेवादिनाम्ना एकायनान्
द्विजान् ।
स्वाभिस्वाभिरसङ्ख्यं च तैः कार्यमभिधादिभिः ।240
[[238]]
समित्सप्तकपूर्वैस्तु साज्यैस्तु तिलतण्डुलैः ।
एवमप्यययोगेन वाय्वादीशावसानकम् । 241 ।
ऋग्वेदाद्यांस्तु चतुरः संस्कृत्याद्यौ तथा न्यसेत् ।
तैरप्यच्युतलिङ्गैस्तु स्वशाखोक्तैश्च पावनैः । 242 ।
हवनं विधिवत्कार्यं भक्तियुक्तेन चेतसा ।
एवं क्रमेण कुण्डांस्तु सर्वान्
हुत्वा ततो गुरुः । 243।
द्वार्स्थादीनां पुरोक्तानां दिक्पतीनां समाचरेत् ।
हवनं विधिवत्कुण्डे स्थण्डिले वा मुनीश्वराः! । 244
प्रासादस्येशदिग्भागे तदर्थं पूर्वनिर्मिते ।
स्तुत्वा जितन्तेमन्त्रेण सामज्ञान्
पाठयेत्पुनः। 245।
सह गायत्रसाम्ना तु यद्रथन्तरसञ्ज्ञितम् ।
प्रजप्यद्वादशार्णं तु मुद्रां बध्वा प्रणम्य च । 246
अष्टाङ्गेनाथ विज्ञाप्यो भगवान्
भूतभावनः ।
मूर्तिभेदेन रूपेण अनेनैव हि साम्प्रतम् । 247 ।
लोकानज्ञाततत्वांस्तु समाह्लादय नागरान् ।
येनान्तस्सम्प्रविष्टेन ईषत्कालवशात्तु वै । 248 ।
जन्मान्तरसहस्रोत्थान्मोक्षमायान्ति किल्बिषात् । ,,
एवमर्थ्यो हि भगवान्
लोकानुग्रहकृत्प्रभुः । 249 ।
दत्वाऽर्घ्यगन्धस्रग्धूपदीपान्नैवेद्यमेव च ।
निवेद्याचमनं चार्घ्यं कुर्यान्नीराजनं ततः । 250 ।
पुण्याहजयघोषेण वेदध्वनियुतेन च ।
शङ्खवादित्रनिर्घोषपटहैर्गीतिभिः सह । 251 ।
करावङ्घ्रिगतौ कृत्वा देवदेवस्य देशिकः ।
पाठयेदृम्मयं मन्त्रमुत्तिष्ठेति ततस्सह । 252 ।
यात्रोपकरणैर्मन्त्रं कृत्वा ब्रह्मरथे स्थिरे ।
सुयन्त्रिते च क्षीराज्यदध्योदनसमन्विते । 253 ।
सुभिक्षक्षेमशान्त्यर्थं परमान्नफलैर्युते ।
पाठयेदस्यवामीय मृम्मयं तदनन्तरम् । 254 ।
तन्मयान्
बलमन्त्रं तु दशार्धेति मुनीश्वराः! ।
स्वयमाद्यन्तसंरुद्धं हृदा तु कवचं जपेत् । 255 ।
भ्रामयेद्बलिदानं च क्रियमाणं तु सर्वदिक् ।
रत्नकाञ्चनवज्राणां पूर्ववत्
क्षेपमाचरेत् । 256 ।
दिव्याद्यायतनानां च कार्या पूजा यथोचिता ।
पञ्चरात्रविदां चैव यतीनां ब्रह्माचारिणाम् । 257 ।
षट्कर्मनिरतानां च दानं दीनजनेष्वपि ।
ऱथस्थे मन्त्रबिम्बे तु यावत्पदशतं व्रजेत् । 258 ।
तद्रथं तूर्यघोषेण तावत्क्रतुशतं फलम् ।
आप्नोत्याराधकः शश्वत्सकामोनियतव्रतः । 259 ।
ततस्तोरणदेशस्थं रथं कृत्वार्चयेत्प्रभुम् ।
पाद्यार्घ्यपुष्पधूपैश्च नमस्कृत्य च पाठयेत् । 260 ।
उत्तिष्ठेति द्विषट्कार्णं सजितन्तं तु चाखिलम् ।
सम्पठन्
पौरुषं सूक्तं यागवेश्म प्रवेशयेत् । 261 ।
[[239]]
शय्यायां प्राक्शिरो बिम्बं शाययेद्धृदयेन तु ।
देशिको मूर्तिपैःसार्धं यात्राहोमं समापयेत् । 262 ।
ततस्तच्छिरसो देशे चक्राधारस्थिरे घटे ।
पूर्वोक्तलक्षणे नेत्रमन्त्रसम्पुटितं यजेत् । 263 ।
पूजयेन्मङ्गळान्यष्टौ प्रागादौ तु स्वनामभिः ।
अष्टासु तत्र कुम्भेषु पुरैव स्थापितेषु च । 264 ।
वासुदेवादयः पूज्याः प्रभवाप्यययोगतः ।
हृदादि यद्वा दिक्स्थेषु विदिक्स्थेषु तदस्त्रपम् । 265।
यद्वा प्राच्यां तु वाराहो नारसिंहस्तु दक्षिणे ।
प्रतीच्यां श्रीधरो देवो हयवक्त्रस्तथोत्तरे । 266 ।
आग्नेयां भार्गवो रामो नैॠते राम एव च ।
वायव्ये वामनश्चापि विष्णुरीशानगोचरे । 267 ।
स्वनाम्ना पूजयित्वैतानर्घ्यगन्धादिभिस्ततः ।
पूजयित्वाऽर्घ्यगन्धाद्यैः शयनस्थं विभुं ततः । 268
वर्मणाच्छादनपटं दत्वा धूपाधिवासितम् ।
मूलेन शयनस्थस्य कुर्यादाप्यायनं ततः । 269 ।
देवाङ्घ्रिनिकटोद्देशे उपविष्टस्तु देशिकः ।
मन्त्रविद्देवबिम्बस्य मन्त्रन्यासं समाचरेत् । 270 ।
लेख्यादौ मन्त्रबिम्बेतु प्रासादस्थे द्विजोत्तमाः! ।
उत्सवं कर्मबिम्बे तु विष्टरे वा प्रकल्प्य च । 271 ।
प्रस्वाप्य शयने प्राग्वत्प्रासादं सम्प्रविश्य च ।
मन्त्रन्यासादिकं कुर्याद्वक्ष्यमाण विधानतः । 272 ।
सुविस्तृतं तद्विधानं शृणुध्वं मुनिपुङ्गवाः! ।
पीठे पुष्पाञ्जलिं कृत्वा गन्धयुक्तं च साक्षतम् । 273 न्यसेदष्टाक्षरं
प्राग्वदामूर्ध्नश्चरणान्तिमम् ।
न्यसेद्धृदादिषण्मन्त्रान्
स्थानेषु हृदयादिषु । 274 ।
किरीटं शिरसो द्देशे श्रीवत्सं तु गळादधः ।
वक्षसो वामभागे तु विन्यसेत्तदनन्तरम् । 275 ।
कौस्तुभं हृदये न्यस्य वनमालां च कण्ठतः ।
देवस्य दक्षिणे हस्ते चक्रं शङ्खं तु वामतः । 276 ।
वामहस्ते गदाखड्गौ ह्यथवा दक्षवामयोः ।
क्रमाल्लाञ्छनमन्त्रांस्तु चक्रादीन्
लाञ्छनान्न्यसेत् ।
श्रियं दक्षिणभागे तु पुष्टिमुत्तरतो न्यसेत् ।
ऊरुमूले वैनतेयमथेदानीं निबोधत । 278 ।
चतुर्भुजस्य देवस्य चक्रादेर्विनिवेशनम् ।
मुख्यदक्षिणहस्तेऽब्जं गदां वामकरे न्यसेत् । 279 ।
अपरे दक्षिणे चक्रं शङ्खं वामकरे परे ।
अन्यान्
लाञ्छनमन्त्रांस्तु यथायोगं च विन्यसेत् । 280
अन्येषु षड्भुजाद्येषु मुख्यदक्षोदितः क्रमात् ।
सर्वान्
लाञ्छनमन्त्रांस्तु यथास्थानगतान्
न्यसेत् ।
संस्थाप्या भगवन्मूर्तिर्धत्ते चक्रादिलाञ्छनम् ।
हस्ते येन क्रमेणैव लाञ्छनानि न्यसेत्तथा । 282 ।
मन्त्रान्
किरीटपूर्वांश्च प्राग्वत्सर्वत्र विन्यसेत् ।
[[240]]
पादादि द्वादशाङ्गेषु ततो दामोदरादिकान् । 283 ।
तच्छक्तिकांस्तथा मन्त्रान्
तद्वद्व्यापकलक्षणान् ।
ऐश्वरेणाथ बीजेन यथावस्थेन भावयेत् । 284 ।
पादादि तन्मयेनैव तद्वन्मन्त्रवरेण तु ।
प्राग्वदप्यययुक्त्या तु ह्यन्तर्ज्योतिर्मयात्मना । 285 ।
विभुना वाक्स्वरूपेण तदेवाथ परं पदम् ।
सुशान्तं सर्वगं बुध्वा निस्तरङ्गमिवोदधिम् । 287 ।
जीमूतस्येति ऋग्वेदान्
नासदासीत्तु पठयेत् ।
क्रमेणानेन हुत्वा तु पदार्थशतसङ्ख्यया । 288 ।
तिलानां च तथाज्यस्य मन्त्रैरेभिर्मुनीश्वराः! ।
दत्वा पूर्णाहुतिं प्राग्वदुपसंहारलक्षणाम् । 289 ।
ततस्तत्परमं ब्रह्म ह्युदितं पूर्ववत्
स्मरेत् ।
सर्वशक्तिमयेनैव स्वभावेन स्वकेन तु । 290 ।
ओजो बलात्मना तद्वद्गन्धो द्रव्यात्मना तु वै ।
बीजं तत्स्वरूपेण समुद्रो बुद्बुदात्मना । 291 ।
एवमव्यपदेश्या वा शक्तिः स्वे शक्तिर्दर्पणे ।
स्थितमादाय विश्वेशं स्वातन्त्याच्च मुनीश्वराः । 292
मन्त्ररूपां तनुं धत्ते सम्यगाराधनाय च ।
नानात्वमुपयातस्य प्रसरं तस्य च स्वयम् । 293 ।
निष्प्रभत्वं प्रयातस्य चिद्बीजनियमस्य च ।
आविष्कृतस्य भेदे वाप्यमूर्तेन बलीयसा294 ।
अज्ञानगहनेनैव नित्यानित्यामलात्मना ।
स्मृत्वैवं मूलमन्त्रं तु बिम्बहृत्पद्मगं स्मरेत् ।295
षट्छक्तिकरणोपेतं तैस्तद्रव्यमयीं तनुम् ।
संस्मरेत्संहरन्तं च प्रागुक्तेनैव वर्त्मना । 296 ।
स्वरूपममलं भूयःस्मरेन्मूर्त्यात्मना तु तत् ।
नयन्तं पूर्वविधिनाप्येवं स परमेश्वरः । 297 ।
मन्त्रात्मना स्वतन्त्रत्वमुपयातो यदा तदा ।
सहस्रशिरसं देवमिति सर्वांस्तु पाठयेत् । 298 ।
पाठयेद्ब्राह्मणान्
धातर्यद्धक्षेति च मन्त्रपम् ।
योविश्वतश्चक्षुरिति ध्यातव्यो भवतीति च । 299 ।
द्वासुपर्णेति तदनु अतोदेवेति वै ततः ।
ऋम्मयं पौरुषं सूक्तं ततः परतमानिति । 300 ।
शाश्वता च ततः कालकालेति समुदाहरेत् ।
एषाबुद्धिः सप्तधेति अत्रेदानीं च पाठयेत् । 301 ।
ततोऽर्चयित्वा मन्त्रेशं शयने बिम्बवृत्तिकम् ।
सांस्पर्शिकैरासनाद्यैर्विविधैरौपचारिकैः । 302 ।
हृदयङ्गमसञ्ज्ञैश्च मधुपर्कादिभिर्द्विजाः ।
परमान्नादिभिश्चान्नैः पवित्रैः पावनैस्तथा । 303 ।
अन्यैश्च विविधैर्भोगैर्यथा चानुक्रमेण तु ।
सर्वं तु सम्प्रदानान्तं कृत्वा पश्चात्तु मण्डले । 304 ।
सन्निधीकृत्य सम्पूज्य महता विभवेन तु ।
[[241]]
अग्नौ सन्तर्पयेत्साङ्गं समित्सप्तकपूर्वकम् । 305
ज़ुहुयुर्मूर्तिपाश्चापि स्वे स्वे कुण्डे यथाक्रमम् ।
प्रागादि दिक्षु कुण्डेषु क्रमेण समिधः स्मृताः । 306
पलाशवृक्षखदिरबिल्वोदुम्बरभूरुहान् ।
आग्नेयादिविदिक्षु स्युः पिप्पलप्लक्षसम्भवाः । 307
न्यग्रोधप्रभवाश्चैव कश्मर्यप्रभवास्तथा ।
पलाशसमिधोन्यत्र भूयसां परिकल्पने । 308 ।
ऊक्ताभावे तु सर्वत्र पलाश्यः समिधो मताः ।
चतस्रो धेनवः स्थाप्याः दक्षिणस्याप्युदम्मुखाः । 309
ग़ङ्गा सरस्वती गोदा यमुना रूपधारिणी ।
दुग्धैस्तदीयैश्श्रपणं चरुणामाहुतिस्तथा । 310 ।
श्रपयेत्पयसा पूर्वे शालितण्डुलमाढकम् ।
कृसरैर्दक्षिणाग्नौ तु पाश्चात्ये गुढमिश्रितम् । 311 ।
उदीच्याग्नौ हरिद्रान्नं शुद्धान्नमितराग्निषु ।
प्रत्येकं शतमष्टौ च होमाः स्युः समिदादिभिः । 312
तदर्धं वापि पादं वा देशकालानुरूपतः ।
तिलशालि यवैर्वेणुहोमबीजान्यनुक्रमात् । 313 ।
तिलैरितरकुण्डेषु तैर्वा सर्वत्र कल्पयेत् ।
स्वमूर्तिकुम्भान्मन्त्रेण जलमुद्धृत्य भाजने । 314 ।
बिम्बमूर्ध्नि क्रमाद्देयं सर्वैरेकायनादिकैः ।
चतुर्दर्भकृतेनैव कूर्चेन तदनन्तरम् । 315 ।
पलाशखादिराश्वत्थ बिल्वशाखाभिरम्बुभिः ।
सिञ्चेयुर्मूर्तिपाः सम्यक् वेदिकाकलशस्थितैः । 316 ।
आचार्यः कोणदेशस्थैर्मन्त्रैर्वेतसशाखया ।
सन्तर्पयित्वा तदनु मन्त्रं सपरिवारकम् । 317 ।
आज्यादिना प्रभूतेन दत्वा पूर्णाहुतिं ततः ।
बिम्बात्मना प्रयातानां क्ष्मादीनामङ्गरूपिणाम् । 318
आपादनेपि प्राणार्थं पिण्डीभूतार्थमेव च ।
आरम्भादेव जातानां छिद्राणां शमने तु वै । 319 ।
आप्यायनार्थं मन्त्राणां द्रव्यैर्होमं समाचरेत् ।
द्विषट्केणाहुतीनां च एकैकेन चतुर्हृदा । 320 ।
आचाङ्घ्रेर्जानुपर्यन्तं स्पृष्ट्वाज्यं होमयेत्पुरा ।
आनाभि जानुदेशाच्च तथैव जुहुयाद्धधि । 321 ।
नाभेराकण्ठतः क्षीरमामूर्ध्नः कण्ठतो मधु ।
सम्मिश्रं जुहुयात्सर्वं स्पृष्ट्वा देहन्तु चाखिलम् । 322 ।
दत्वा घृतेन वै पश्चात्पूर्णं मूलेन तत्परम् ।
संस्कृत्य बिम्बवत्पीठं भिन्नं ब्रह्मशिलां तथा । 323 ।
प्राणाभिमानदेवं वा यस्य यो विहितस्तु वै ।
वेष्टयित्वाम्बरैश्चित्रैः चक्रमन्त्रेण वै ततः । 324 ।
कार्यो ब्रह्मशिलाहोमः शताष्टाधिकसङ्ख्यया ।
गायत्रीभिस्तदर्धं च बह्वृचाद्यैः पॄथक् पृथक् । 325 ।
अजस्यनाभावित्यादि मन्त्रैरेकायनैस्ततः ।
अध्वादिभूतमूर्तं तु भोग्यं वपि पृथक् स्थितम् । 326 ।
[[242]]
देवतानां त्वधिष्टानं पीठं कृत्वा तु बुद्धिगम् ।
होतव्यं प्रणवेनैव स्वयं व्याहृतिभिस्ततः । 327 ।
अपरैर्बलमन्त्रेण प्रणवान्तेन हावयेत् ।
ततो हवनमन्त्रेण तर्पणीयं तथैव हि । 328 ।
स्वनाम्ना प्रणवेनैव स्वाहान्तेनापरैस्तथा ।
संरोधस्तर्पितानां च कार्यः पूर्णान्तमेव हि । 329 ।
साम्भसा विष्टरेणैव भावेन सजपेन च ।
सर्वेश्वरस्य देवस्य स्वकीयासु च मूर्तिषु । 330 ।
शब्दात्मिकासु मुर्तासु तद्वच्छ्रुतिमयस्य च ।
कृत्वैवं च तदा दिक्षु मूर्तिपान्
विनिवेश्य च । 331 ।
पार्श्वदेशे तु कुण्डानां तर्पयेत्पायसेन तु ।
दक्षिणां च यथाशक्ति दद्याद्धेमादिकां ततः । 332 ।
गृहीत्वा दक्षिणां मन्त्रः प्रीणनीयैस्तु तैस्ततः ।
अथ निद्रायमाणं तु देवं स्तुत्वावकुण्ठ्य च । 333 ।
अर्चयित्वा नमस्कृत्य तत्र सर्वान्
प्रवेशयेत् ।
विप्रानेकायनांश्चापि तथा वै बह्वृचादिकान् । 334 ।
स्वशाखोदितान्
मन्त्रान्
पाठयेत्क्रमयोगतः ।
स्तुतिपाठकपूर्वांश्च नृत्तगीतपरायणान् । 335 ।
वीणावेणुमृदङ्गादीनितरांश्च प्रवेशयेत् ।
विदिक्स्थान्
प्रणवे जापे मूर्तिपान्
विनिवेशयेत् । 336
दिक्स्थितान्
मूर्तिपान्
विप्रान्
द्वादाशार्णे नियोजयेत् ।
रक्षामुद्रां ततः कृत्वा दर्शयेत्सर्वदिक्ष्वथ । 337 ।
शाययेद्दर्भशय्यायां यजमानमुपोषितम् ।
स्थण्डिले स्वप्नसिद्ध्यर्थं प्राक्शिरस्कन्ततो द्विजाः!338
एवं कृत्वाधिवासं तु जागरेण नयेन्निशाम् ।
प्रभातायां तु शर्वर्यां कॄत्वा स्नानादिकाः क्रियाः । 339
प्रतिष्ठामारभेत्पश्चाद्देशिकः शास्त्रवित्तमः ।
प्रबुद्धं यजमानं तु स्वप्नं पृच्छेच्छुभाशुभम् । 340 ।
तत्राशुभोपशान्त्यर्थं तदानीं जुहुयाद्गुरुः ।
शतं सहस्रं साष्टं वा यथाशक्त्यथ वा द्विजाः! । 341 ।
मध्वाज्यक्षीरसम्मिश्रान्
सफलांश्च तिलानपि ।
अस्त्रसम्पुटितेनैव नाम्ना स्वाहान्वितेन तु । 342 ।
दोषं जहि जहीत्येवम्पदं नामावसानकम् ।
केवलेनाथ वाक्येन सिंहमन्त्रेण होमयेत् । 343 ।
एवं दुस्स्वप्नशान्तिं तु कृत्वा स्थापनमाचरेत् ।
प्रासादं दर्भशाखाभिर्बहिरन्तश्च मार्जयेत् । 344 ।
विकीर्य साक्षतं पुष्पं गुग्गुलं धूपयेत्पुनः ।
सहमूर्तिधरैर्विप्राः! शिल्पिभिश्चाथ देशिकः । 345 ।
सार्घ्यपुष्पाक्षतकरः प्रासादान्तं व्रजेत्ततः ।
हन्यात्सिद्धार्थकैस्तत्स्थान्
विघ्नानस्त्राभिमन्त्रितैः
प्राम्मध्ये विधिनानेन श्वभ्रं वा साम्प्रतं खनेत् ।
तदर्थं गर्भगेहं तु सूत्रपातैर्विभाजयेत् । 347 ।
[[243]]
सप्तधा विभजेत्सम्यक् पैशाचः प्रथमः स्मृतः ।
द्वितीयो मानुषे भागस्तृतीयो दैवसञ्ज्ञितः । 348 ।
ब्राह्मश्चतुर्थो विज्ञेयः क्रमादन्ये त्रयस्तथा ।
दैवमानुषपैशाचा विज्ञेया द्विजसत्तमाः! । 350 ।
प्रासादे तु चतुर्द्वारे चतुर्दिक्षु समैः पदैः ।
विभजेत्सप्तधा मध्यो भागः स्याद्ब्राह्मसञ्ज्ञितः । 351
दिव्यमानुषपैशाचाः क्रमात्पङ्क्तिक्रमेण तु ।
चतुर्द्वारेत्रभवने ब्राह्माख्ये मध्यमे पदे । 352 ।
चतुर्दिग्वीक्षमाणस्य स्थापनं चतुरात्मनः ।
प्रासाद एकद्वारे तु देवं संस्थापयेद्
द्विजाः! । 353 ।
ब्रह्मदैविकभागाभ्यां दैवमानुषयोस्तु वा ।
ब्राह्मे वा दैविके वाथ तस्मिन्
दिव्याश्रिते तु वा । 354
मानुषाश्रितदैवेन फलभेदवशात्तु वै ।
ब्राह्मभागे तु मोक्षःस्याद्दिव्यं स्थानाभिवृद्धिकृत् । 355
भोगमोक्षफलावाप्तिर्ब्राह्मे दिव्यसमाश्रिते ।
दिव्यभागफलावाप्तिर्मानुषाश्रितदैविके । 356 ।
दैवमानुषभागाच्च त्वैहिकामुष्मिकं फलम् ।
विबुधब्रह्मभागाच्च सैहिकं तु गुणाष्टकम् । 357 ।
अग्रदेशेथ बिम्बस्य वेदिर्भागद्वयोपरि ।
आराधनार्थतो विप्राः! स्थापनीया शिलान्विता । 358
पीठोपर्यथ वा देवं यन्त्वाराध्यते सदा ।
मध्ये रत्नोपलं पीठे न्यस्त्वोर्ध्वे स्थापयेत्तु तम् । 359
देवीसमन्वितं यत्र स्थापनं भवति द्विजाः! ।
मूलबिम्बस्य पार्श्वे तु पीठदेशं विसृज्य च । 360 ।
सपीठानां तु देवीनां स्थापनं तु समाचरेत् ।
एका सव्ये दक्षिणे वा स्थाप्या द्वे दक्षवामयोः । 361 ।
चतस्रस्तु क्रमेणैव स्थाप्या दक्षिणवामयोः ।
प्रमादाद्बुद्धिपूर्वाद्वा तत्तत्स्थानविपर्ययम् । 362 ।
न कुर्याद्द्राजराष्ट्रादेर्हितैषी देशिकोत्तमः ।
भिन्नप्रेक्षवशान्मध्ये सति भूयः समाचरेत् । 363 ।
क्षाळितेस्त्राम्बुना लिप्ते हृदा वै चन्दनादिना ।
श्वभ्रेधो घटरुद्धानां मन्त्राणां च निवेशयेत् । 364 ।
पूर्वोक्तेन विधानेन धिया स्वे स्वेयने तथा ।
कृत्वार्चनं यथोद्दिष्टं पूर्णान्तं तत्र विन्यसेत् । 365 ।
बाहुल्येन तु षट् पञ्च चतुर्गोळकसम्मिताम् ।
पीठाद्विनिर्गतां किञ्चिद्भूतये सुस्थिरां शिलाम् । 366
ग्रस्तां पीठेन मुक्त्यर्थं नवरन्ध्रकृतां पुरा ।
स्वमन्त्रेण तु तत्रापि प्रतिष्ठासीति पाठयेत् । 367 ।
प्रागादौ प्रभवेनाथ पञ्चकं पञ्चकं न्यसेत् ।
शिलावटेषु द्रव्याणां तत्र वज्रं च हाटकम्म् । 368 ।
हरितालमुशीरं च व्रीहयो दक्षिणेत्वथ ।
इन्द्रनीलमयश्चैव कासीसं चन्दनं तिलम् । 369 ।
[[244]]
मुक्ताफलं च रजतं पारदञ्चाप्यदिक्तथा ।
सहोशीराश्च वै मुद्गाः पद्मरागमथोत्तरे । 370 ।
कांस्यं
सराजपाषाणं राजेन्द्रं चणकैः सह ।
विंशकं विन्यसेन्मध्ये पूर्वमेव ततो बहिः । 371 ।
विदिक्ष्वप्ययोगेन त्वेवमन्यत्
पृथक् पृथक्
एवं वैडूर्यपूर्वन्तु चक्राङ्कं चाभ्रकं तथा । 372 ।
षाष्टिकं त्वीशदिग्वायोः पुष्यरागो हरीतिका ।
गैरिकं शौरिकात्रैव मसूराण्यथ यातु दिक् । 373 ।
महानीलञ्च वङ्गञ्च तथा पाषाणमाक्षिकम् ।
यवान्सागरुकांश्चैव आग्नेय्यां स्फटिकं तथा । 374 ।
ताम्रं मनश्शिलाश्चैव गोधूमाश्शङ्खपुष्पिकाः ।
मध्ये सर्वाणि तदनु ततो गर्तगणं तु तत् । 375 ।
लेपैराच्छादितं कृत्वा साङ्गं मन्त्रं पदे पदे ।
पूजयित्वा यजुर्वेदं श्चमषट्कांश्च पाठयेत् । 376 ।
तदूर्ध्वे विन्यसेत्पीठं तच्छ्वभ्रे विनिवेश्य च ।
अष्टलोहमयं चक्रं तदूर्ध्वे तु महामते । 377 ।
द्वादशाख्या द्विशेषोत्थादवधारो यस्य यः स्वकः ।
हैमन्तदूर्ध्वे कमलं तज्जं वा ताम्रमेव वा । 378 ।
यथाक्रमस्थितं ह्येतत्पञ्चकं चतुरात्मनि ।
न्यसेदनन्तं चक्रस्य मीनकूर्मौ तु तस्य वै । 379 ।
कूर्मानन्तौ तु मीनस्य मीनानन्तौ तु तस्य च ।
सर्वस्य विहितं पद्मं तस्यानन्तं तु विन्यसेत् । 380 ।
लक्ष्म्यादीनां च शक्तीनां चक्रस्थापनकर्मणि ।
न्यस्य पूर्णान्तिकं कृत्वा कर्माण्यत्र च तर्पणम् । 391
मण्टपे तु खगेशस्य एवमेव समाचरेत् ।
सह मूर्तिधरः प्राग्वत्कार्या दर्भोदकक्रिया । 382 ।
चतुर्गुणितसूत्रेण वेष्टयेद्देवमन्दिरम् ।
छादयेन्नववस्त्रेण तथा वै दर्भमालया । 383 ।
ततस्तु मूर्तिपैः सार्धं प्रविशेद्यागमण्टपम् ।
प्रतीक्षेल्लग्नकालं तु यावत्कालं न याति च । 384 ।
तावद्विनोदैर्होमैश्च हास्यैः पाठैश्च सङ्क्षिपेत् ।
प्राप्ते लग्नोदये विप्राः! शयनस्थं प्रबोधयेत् । 385 ।
अर्घ्यालभनमाल्याद्यैरचयित्वा त्विमं पठेत् ।
मन्त्रात्मन्
रूपमात्मीयं प्रभुत्वमुपसंहर । 386 ।
समाश्रयस्व सौम्यत्वं स्थित्यर्थं परमेश्वर ।
नमस्तेऽस्तु हृषीकेश! उत्तिष्ठ परमेश्वर! । 387 ।
मदनुग्रहहेत्वर्थं पीठभूमिं समाश्रय ।
उद्धृत्य हृदयेनाथ त्यक्तनिद्रं च मन्त्रपम् । 388 ।
उत्थाप्य मूर्तिमन्त्रेण सह मूर्तिधरैर्बलात् ।
तथा तच्छिरसो देशे चक्राधारस्थितं घटम् । 389 ।
तदष्टदिक्स्थितांश्चापि कुम्भांस्तन्मङ्गळैः सह ।
उत्थाप्य मूर्तिपाद्यैस्तु वाहयन्
देशिकोत्तमः । 390 ।
[[245]]
यायात्प्रक्षिप्तमाणस्तु रत्नांश्च विविधान्
बहून् ।
नानाविधैस्तु कुसुमैर्लाजाद्यान्
मिश्रितान्
बहून् । 391
प्रतिमामुद्वहन्तो ये मूर्तिधारास्त्वनन्तरम् ।
अन्ये यथा न गच्छेयुरन्तराचार्य बिम्बयोः । 392 ।
अष्टकुम्भधराश्चान्ये ये च मङ्गळपाठकाः ।
परितस्तोपि गच्छेयुः पठन्तः शाकुनं तथा । 393 ।
वाग्यतो यजमानस्तु कुशपाणिः प्रणामवान् ।
तेषां वै पृष्ठतस्त्वन्ये गच्छेयुः परिवारकाः । 394 ।
तोरणेन च निष्क्रम्य प्रदक्षिणचतुष्टयम् ।
कुर्यात्प्रासादपीठस्य द्वाराग्रे सन्निरोध्य च । 395 ।
पाद्यार्घ्याचमनं दत्वा हृन्मन्त्रेण प्रवेशयेत् ।
शाखाद्यमस्पृशन्
तं च पाठयेत्तद्विदस्ततः । 396 ।
चतुश्चक्रेति तदनु पुरमेकादशेति च ।
वर्माभिमन्त्रितेनाथ दुकूलेन सितेन च । 397 ।
पादाम्बुरुहनाळं प्राक् शिखामन्त्रेण वेष्टयेत् ।
अग्नीषोमौ समीकृत्य प्रणवाद्यन्तकेन तु । 398 ।
मूलमन्त्रेण पीठोर्ध्वे बिम्बं संस्थापयेत्
स्थिरम् ।
द्वारमध्यं न सन्त्याज्यं देवस्थापनकर्मणि । 399 ।
न ततश्चाग्रतः स्थाप्यं न पार्श्वे न च पृष्ठतः ।
नामतो मारुतं पश्चात्
सन्त्यजेद्देशिकोत्तमः । 400 ।
प्रतिष्ठालिङ्गशब्दौ च द्वौ मन्त्रौ पाठयेत्क्रमात् ।
शान्तं ब्रह्ममयं रूपं स्वकं समवलम्ब्य च । 401
यत्रापि केवले ब्राह्मे स्थापनं समुदीरितम् ।
तत्रापि वामतः किञ्चिद्दिव्यभागं समाश्रयेत् । 402 ।
य़तो हितार्थं सर्वेषां निर्गतष्षड्गुणात्मना ।
अतो ब्रह्मपदादीषद्देवभागे समानयेत् । 403
मोक्षादिफलसिद्धीनां प्राप्तयेह्यविचारतः ।
करस्थमथ मोक्तव्यं कौतुकं हृदयेन तु । 404 ।
सर्वाङ्गमर्घ्यमन्त्रेण दत्वा मूलमनुंस्मरेत् ।
हृदास्त्रपरिजप्तेन वज्रलेपेन वै ततः । 405 ।
बिम्बपीठशिलानां चाप्येकत्वेनाचरेत्
स्थितम् ।
ततस्तु नेत्रकुम्भस्थैस्तथा कुम्भाष्टकस्थितैः । 406 ।
तोयैः कूर्चाग्रसंलर्ग्नैीम्बबं सम्प्रोक्ष्य मन्त्रतः ।
तत्तत्कुम्भगतान्
मन्त्रान्
बिम्बेन सह योजयेत् । 407
बालबिम्बगता चापि शक्तिं मूले न्यसेत्तदा ।
मूलबिम्बे मुनिश्रेष्ठाः मृदादिद्रव्यनिर्मिते । 408 ।
कर्मार्चायां विष्टरे वा दर्भमञ्जरिजे द्विजाः! ।
प्रबोधनं च वै कर्म तथा प्रादक्षिणक्रियाम् । 409 ।
प्रासादे सम्प्रवेशं च कृत्वान्यत्सर्वमाचरेत् ।
मूलबिम्बे क्रमेणैव देशिकेन्द्रः समाहितः । 410 ।
मूलमन्त्रं ततो ध्यात्वा संशान्तब्रह्मलक्षणम् ।
आधारादि ध्वजाग्रान्तं व्याप्तं तेनाखिलं स्मरेत् । 411
[[246]]
इति सामान्यसन्धानं प्राक्कृत्वा तद्विशिष्यते ।
स्थूलसूक्ष्मपरत्वेन स्थूलं षोढा शिलान्तगम् । 412, ।
पिण्डिकयां तथासूक्ष्मं तत्परं बिम्बनिग्रहे ।
विन्यासं पीठमूलेथ देवतानां समाचरेत् । 413 ।
भवोपकरणीयानामेतासां मुनिपुङ्गवाः ।
विन्यासं मन्त्रबिम्बे तु न कदाचित्समाचरेत् । 414 ।
पीठोर्ध्वे तु मुनिश्रेष्ठाः! प्रतिष्ठैवं विनैव तु ।
न्यसेद्विभवदेवांस्तु ह्युपर्युपरि पूर्ववत् । 415 ।
घटोद्देशात्समारभ्य परमर्चागतं ततः ।
एवं हि सर्वदेवानां विनिवेशवशात्तु वै । 416 ।
चिन्तामणिमयो न्यासः कृतो भवति सिद्धिदः।
मन्त्रन्यासं ततःकुर्याबिम्बाङ्गेषु यथाविधि । 417 ।
सृष्टिसंस्थितिसंहारन्यासं कुर्यात्
त्रयं विभोः ।
स्थितेपि च तथासीने शयाने यानगेपि च । 428 ।
एतेष्वपि च सर्वेषु कुर्यान्न्यासत्रयं द्विजाः! ।
यद्वा स्थिते स्थितिन्यासम्मासीने सृष्टिसञ्ज्ञितम् । 419
शयाने संहृतिन्यासमाचरेद्
द्विजसत्तमाः! ।
अङ्गमन्त्रस्थितिं कुर्यात्
स्थानेषु हृदयादिषु । 420 ।
अन्यानि भूषणादीनि विन्यस्य गरुडान्तिमम् ।
ततः सम्पूजयेत्तत्र लययागेन चाखिलम् । 421 ।
पीठस्थं भोगयागेन मन्त्रचक्रं यजेत्पुनः ।
स्वनाम्नि स्वामिशब्दं तु समारोप्य परं तु वा । 422 ।
हरिकेशवपूर्वं तु ततस्तारसमन्वितम् ।
प्रब्रूयुर्मूर्तिपाद्या वै सुप्रतिष्ठितमस्त्विति । 423 ।
पुष्पाक्षताञ्जलिं पूर्णं क्षिपमाणाश्च सर्वतः ।
सर्वे वदेयुस्तत्रस्थाः सुप्रतिष्टितमस्त्विति । 424 ।
आत्वाहर्षेति सह वै प्रतिष्ठासीति पाठयेत् ।
विश्वस्य मित्रमित्यादि मन्त्रमेकायना द्विजाः । 425 ।
ॐ नमोस्तु नमश्चान्तो ऋग्वेदाद्यैस्तु तैः सह ।
ॐ नमो ब्रह्मणेभीक्ष्णं जितन्तेत्येवमेव हि । ,426 ।
जयशब्दसमोपेतं स्तोत्रं श्रोतृमनोहरम् ।
देशिकैः सह सर्वैस्तु वाग्भिरुच्चाभिरुच्चरेत् । 427 ।
जीवभूतेन चैतेन विभुना मन्त्रमूर्तिना ।
प्रतिष्ठितेन विप्रेन्द्रा वित्त सर्वं प्रतिष्ठितम् । 428 ।
एवं कृत्वाधिवासादि मूलबिम्बेन वै सह ।
स्थापयेत्कर्मबिम्बादीन्
मूलबिम्बाग्रतो द्विजाः! । 429 ।
लक्ष्म्यादींश्च यथाशक्ति स्थापयेत्तु विधानतः ।
अथ मण्टपमध्ये तु देवदेवस्य सम्मुखम् । 430 ।
स्थितेपि तन्मुहूर्तांशे स्थापनीयश्च पक्षिराट् ।
स्नातोनुलिप्तो मन्त्रेण स्वेन यः संस्कृतः पुरा । 431 ।
ज्ञशक्त्या सह बिम्बेन यस्माद्भिन्नेषु वस्तुषु ।
बिम्बसन्निकटस्थेषु अथवान्यत्र सत्तमाः । 432 ।
[[247]]
तत्कालमङ्गभावत्वं व्रजमानेषु सर्वदा ।
हवनान्तं च निश्शेषं ध्यानार्चनपुरस्सरम् । 433
स्वयमेवानुरूपेण कर्म सामान्यतां व्रजेत् ।
तस्मात्तद्यागभवनादुत्थाप्यादाय बिम्बवत् । 434 ।
देवं प्रदक्षिणीकृत्य प्राग्वत्संस्थापनापदे ।
एकस्मिन्
मध्यरन्ध्रे तु वज्राद्यं पञ्चकं न्यसेत् । 435 ।
एक एव तदूर्ध्वेतु आधारो य उदीरितः ।
प्राग्वन्निवेशनीयश्च तत्पीठोर्ध्वेथ भावनम् । 436 ।
भावनीयं शरीरे च शेषं विज्ञप्तिलक्षणम् ।
पाठयेद्ब्राह्मणांस्तद्वत्सुपर्णोसीति मन्त्रराट् । 437 ।
तमेवास्त्रार्चितं कृत्वा त्वथप्राक् शाङ्करे ततः ।
सोमेशानेन्तरे वापि अङ्कणे वापि तत्पदे । 438 ।
अथ वा मूर्तिपीठस्थं भवनाभ्यन्तरेपि च ।
स्वगोक्तेन विधानेन विष्वक्सेनं निवेश्य च । 439 ।
द्वारस्थानखिलान्
देवान्
तथा चावरणस्थितान् ।
पूर्वोदितान्
क्रमेणैव स्थापयेद्देशिकोत्तमः । 440 ।
सम्प्रोक्ष्य कुम्भतोयेन यायात्पाकगृहं ततः ।
चुल्लीष्वग्निं प्रतिष्ठाप्य अग्निमीळेति पाठयेत् । 441
तत्र वै पायसादीनि हवींषि विविधानि च ।
पाचयेच्च ततो विप्रा यायाद्देवनिकेतनम् । 442 ।
कलशैः पृष्ठभागस्थैः स्नापनीयस्ततो विभुः ।
सह मूर्तिधरैः सर्वैः यथा चानुक्रमेण तु । 443 ।
सहाघमर्षणेनैव गायत्र्यावर्तितेन तु ।
प्रागृम्मयस्तु तदनु चतुर्धावर्तितैः स्वयम् । 444 ।
हृदाद्यावर्तितैः षड्भिर्यजुर्ज्ञस्तेन सेचयेत् ।
भूयः स्वयं तथा कुम्भैः सामवित्
स्नापयेत्त्ततः । 445
षड्भिरन्यैः स्वयं पश्चात्तेनैवाथर्वणस्ततः ।
पवित्रावर्तितैरेवं कलशैरन्तरान्तरा । 446 ।
सह चैकायनीयैस्तु स्नपनीयमनन्तरम् ।
चतुर्मूर्तिमयैर्मन्त्रैर्बहुशः परिभावितैः । 447 ।
स्नापयेत्कलशेनाथ शेषमादाय वै घटम् ।
तच्छतावर्तितं कृत्वा समूलेनाद्यमूर्तिना । 448 ।
सार्घ्यं वै देवदेवस्य मूर्ध्नि चोत्कीर्य पाठयेत् ।
तिज़न्त इति वै सर्वांस्ततश्चास्त्रोदकेन तु । 449 ।
प्रासादं शोधयित्वा तु गत्वा वै कुम्भसन्निधिम् ।
तत्र सम्पूज्य देवेशं पूर्वोक्तेन क्रमेण तु । 450 ।
मण्डले पूजयित्वाथ प्रायायाद्बिम्बसन्निधिम् ।
तत्र सम्पूजयेद्देवं स्नानवर्जं विशेषतः । 451 ।
सांस्पर्शिकैरासनाद्यैर्विविधैरौपाचारिकैः ।
पूर्ववन्मण्डलस्थं तु कुण्डस्थं तदनन्तरम् ।
विष्वक्सेनं यजेत्प्राग्वदिष्टशिष्टैस्तु वै क्रमात् । 478
भूषयेद्गुरुपूर्वांस्तु मूर्तिपान्
कटकादिकैः ।
[[248]]
ग़ुरोर्वा गुरुपुत्रस्य यागद्रव्यं निवेदयेत् । 479 ।
सिद्धिमूर्त्योरभीप्सार्थं स्नायादवभृधेन च ।
इत्येतत्साधकस्योक्तं मन्त्राराधनकाङ्क्षिणः । 480 ।
मन्त्रमूर्तिप्रतिष्ठानं यत्रस्थस्सिद्धिमाप्नुयात् ।
स्थापने यजमानस्य फलं वक्ष्ये समासतः । 481 ।
आ देवालयभूभागाद्
ध्वजान्ताद्वापि मण्टपात् ।
सर्वोपकरणोपेतात्सर्वेष्वावरणेषु च । 482 ।
समन्तात्परमाणूनां सर्वेषां द्विजसत्तमाः! ।
य़ावती जायते सङ्ख्या तावत्कर्ता समावसेत् । 483 ।
भोगभुग्विष्णुलोके च यात्यन्ते परमं पदम् ।
कर्ता वै ब्राह्मणो विप्रः सर्वविद्याधिपो भवेत् । 484 ।
क्षत्रियो यजमानस्तु सर्वदेशाधिपो भवेत् ।
वैश्यस्तु यजमानः स्याद्धनधान्यसमृद्धिमान् । 485 ।
शूद्रस्तु यजमानः स्यान्मोदते बन्धुभिः सह ।
सज्जन्मना च ज्ञानेन एवमेव भवेत्तु सः । (स्त्रियोपि च)
पुत्रार्थी पुत्रमाप्नोति राज्यार्थी राज्यमाप्नुयत् ।
अकामानां तु भक्तानां भक्तिरव्यभिचारिणी । 487 ।
यच्चपि शाश्वतं ज्ञानं भवेत्तद्धर्मणा सह ।
स्वयं कृतानां बिम्बानां स्थापनं सम्प्रकीर्तितम् । 488 ।
एवं बिम्बं प्रतिष्ठाप्य प्रासादे स्वगृहे तु वा ।
ततः प्रभृति कालाच्च पूजयेत्प्रतिवासरम् । 489 ।
जीर्णोद्धारविधिर्यावत्तावत्कालं विधानतः ।
प्रमादाद्बुद्धिपूर्वाद्वा पूजालोपं न कारयेत् । 490 ।
एवं श्रियादिदेवीनां चक्रादीनां तथैव च ।
सर्वेषां विष्णुभक्तानां प्रतिष्ठां च समाचरेत् । 491 ।
प्रथमावरणादौ वा मण्टपे वाङ्कणादिके ।
लक्ष्मीप्रतिष्ठया सर्वा समृद्धिर्जायते नॄणाम् । 492 ।
चक्रसंस्थापनात्
स्थानसंरक्षा भवति ध्रुवम् ।
विष्णुभक्तप्रतिष्ठानादैहिकामुष्मिकं फलम् । 493 ।
तस्मात्कार्यं श्रियादीनां स्थापनं देवमन्दिरे ।
देवप्रतिष्ठाकाले वा ह्यन्यकालेपि वा पृथक् । 494 ।
सहसंस्थापने त्वेषां न पृथक्त्वङ्कुरादिकम् ।
न यागगेहनिर्माणं परिवारोक्तवद्भवेत् । 495 ।
सर्वं तत्रापि कर्तव्यं शृणुध्वं मुनिसत्तमाः! ।
सिद्धार्थकादिभिः षड्भिः स्नानं कौतुकबन्धनम्म्
496
जलाधिवसनं चैव सूक्ष्मसूक्ष्मादिपञ्चसु ।
स्नानेष्वन्यतमस्नानं नयनोन्मीलनं तथा । 497 ।
शय्यायामधिवासं च तत्तन्मन्त्राधिकस्य च ।
तत्तल्लाञ्छनजालस्य न्यसनञ्च यथा विधि । 498 ।
तत्तन्मन्त्रैस्तथा होमं कुर्यात्कुण्डे पृथक्कृते ।
तत्तत्पीठादिसंस्कारं पीठसंस्थापनं तथा । 499 ।
वज्रादिपञ्चकन्यासं प्राग्वत्संस्थापनं पदे ।
[[249]]
तदाधारनिवेशं च यस्य यः समुदीरितः । 500 ।
बिम्बसंस्थापनं चैव पीठोर्ध्वे तु यथाविधि ।
तत्तत्स्थापनकाले तु तत्तन्मन्त्रप्रपाठनम् । 501 ।
एतत्सर्वं समभ्यूह्य कुर्याद्देशिकसत्तमः ।
पृथक्संस्थापने कुर्यात्
सर्वं कर्म यथाविधि । 502 ।
तत्तन्मन्त्रैस्तथा तत्तत्परिवारार्चनैः सह ।
चक्रसंस्थापने कश्चिद्विशेषः श्रूयतां द्विजाः । 503 ।
अमूर्तं द्वादशारन्तु अष्टारं षडरन्तु वा ।
चक्रं संस्थापयेत्तत्र प्रासादशिखरोपरि । 504 ।
मूर्तमङ्कणदेशे तु षोडशाष्टभुजं तु वा ।
तस्य स्थापनकाले तु तस्य सञ्ज्ञामनुं जपेत् । 505 ।
विद्यां गदामित्याद्यं यत्पाठयेतद्विदो जनान् ।
चमूषच्छ्येन इति च प्रतेविष्णो इति त्वृचौ । 506 ।
पाठयेद्बह्वृचान्
पश्चाच्छाकुनं सूक्तमेव च ।
धृतोर्ध्वपुण्ड्रः कृतचक्रेति मन्त्रं ततः परम् । 507 ।
पवित्रन्ते विततमिति मन्त्रान्यजुर्मयान् ।
आरोहेति(क्षुरोहरेति) च सामज्ञान्
पवित्रन्तेग्नि
रित्यपि । एभिर्वयमुरुक्रस्येत्याधर्वणिकान्
द्विजान् ।
एवं संस्थाप्य विधिवन्नवभिः कलशैस्ततः । 509 ।
स्नापयेद्ब्रह्मसूक्तस्थैर्मन्त्रैरष्टभिरेव च ।
विश्वस्य वशिनं देवमिति प्राक्स्थापितेन तु । 510 ।
बहिरावरणेनास्तीत्यग्निदिक्संस्थितेन तु ।
य़न्नाभिपद्मादभवदिति यान्यस्थितेन तु । 511 ।
धृतोर्ध्वपुण्ड्र इति च यातुधानगतेन तु ।
दक्षिणे तु भुजे विप्र इति पश्चिमगेन वै । 512 ।
विष्णुनात्तमश्नन्तीति वायुदिक्संस्थितेन वै ।
पुम्प्रधानेश्वरो विष्णुरिति सोमगतेन वै । 513 ।
इमं महोपनिषदमितीशानगतेन तु ।
मन्त्रैरेतैः समस्तैस्तु मध्यकुम्भेन सेचयेत् । 514 ।
प्रासादाग्रस्थिते चक्रे प्रोक्षणं तु समाचरेत् ।
महोपनिषदन्तस्थानष्टौ मन्त्रान्
पुरोदितान् । 515 ।
यद्वा पुरुषसूक्तं तु सर्वशान्त्यै ततो जपेत् ।
अत्रानुक्तं तु सकलं पूर्वोक्तं तु समाचरेत् । 516 ।
इत्थं हि वीरलक्ष्म्यादि प्रतिष्ठा च प्रकीर्तिता ।
भूषोपकरणानां तु प्रतिष्ठा तूच्यतेऽधुना । 517 ।
तदर्थमिह सर्वेषां शृणुध्वं देवताक्रमम् ।
किरीटे कौस्तुभे चैव श्रीवत्सवनमालयोः । 518 ।
ता एव देवतास्तासां रूपं प्रागेव कीर्तितम् ।
प्रभायां तु प्रभा देवी पीठेनन्तादयस्तथा । 519 ।
पादुकायां वैनतेयो घण्टायां तु सरस्वती ।
शिबिकायां तथा याने हंसकेसरिणोस्तथा । 520 ।
गजाश्वयो रथश्चैव गरुत्मानेव देवता ।
[[250]]
शेषपक्षीशयोश्चैव तथा चन्द्रार्कबिम्बयोः । 521 ।
वायुसूनौ ध्वजाः साक्षाच्छेषाद्या एव देवताः ।
एवं ज्ञात्वा पुरा तत्तद्देवताः क्रमशो द्विजाः! । 522 ।
तत्तत्संस्थापनं कुर्यात्
तत्तन्मन्त्रेण देशिकः ।
अङ्कुरारोपणं कृत्वा सद्योङ्कुरमथापि वा । 523 ।
सिद्धार्थकादिभिः षड्भिः स्नाप्य कौतुकबन्धनम् ।
कृत्वा छायाधिवसनं जलाधिवसनं तु वा । 524 ।
कृत्वा मूर्तस्य नयने समुन्मील्य यथाविधि ।
कुम्भैः संस्नाप्य विधिवत्कृत्वा शय्याधिवासनम् । 525
कुम्भं संस्थाप्य तत्रेष्ट्वा तत्तद्देवांस्तदङ्गके ।
तत्तन्मन्त्रादिकान्यस्य तत्तन्मन्त्रैः समर्चयेत् । 526 ।
कुण्डेषु वा स्थण्डिलेषु हुनेदेकत्र वा द्विजाः! ।
ततः शुभमुहूर्ते तु प्रोक्षयेत्कुम्भतोयतः । 527 ।
आचार्यदक्षिणादीनि यथाशक्ति प्रदापयेत् ।
एवं सामान्यतः प्रोक्तः सर्वेषां स्थापनक्रमः । 528 ।
रथस्य स्थापने ज्ञेयो विशेषो मन्दिरोक्तवत् ।
अन्यत्सर्वोपकरणं छत्रचामरपूर्वकम् । 529 ।
भूषणानि च दिव्यानि धूपपात्रादिकानि च ।
अर्घ्यादिसर्वपात्राणि वाद्यानि विविधानि च । 530 ।
क्षाळनार्हाणि प्रक्षाळ्य कृत्वा पुण्याहवाचनम् ।
सम्प्रोक्ष्य पञ्चगव्येन दहनाप्यायनादिकैः । 531 ।
संस्कृत्य देवदेवस्य पूजनादौ नियोजयेत् ।
नानारत्नप्रभाड्यानि लाञ्छनान्यङ्गदानि च । 532 ।
निर्मितानि सुवर्णाद्यैः प्रभा संयोजयन्ति ये ।
ते धूतकल्मषाः सर्वे देहमासाद्य निष्कळम् । 533 ।
सम्यक् ज्ञानेन युज्यन्ते भावं नायान्ति येचन ।
आत्मनश्चोपकाराय सर्वदुःखनिवृत्तये । 534 ।
अङ्गुष्टाग्राच्च गुल्फान्तमाजान्वंसावधीह वा ।
मणिमुक्ताप्रवाळाड्यं कवचं काञ्चनादिकम् । 535
यः क्षिपत्यतिभक्त्या वै स्वशक्त्या चागतेच्युते ।
स याति परमं स्थानं सर्वत्र पशुबान्धवाः । 536 ।
लग्नं यद्भगवान्
मूर्तावङ्गदं नूपुरादिकम् ।
नियोजयति यो मोहात्तस्य वीचौ स्थिता स्थितिः । 537
यः पञ्चकालसक्तानां विप्राणामधिकारिणाम् ।
पञ्चकालविदां चैव भक्तानां सिद्धिकाङ्क्षिणाम् । 538
अथ योच्छिन्नशाखानां नारायणरतात्मनाम् ।
तपस्विनां व्रतीनां वा स्नातकब्रह्मचारिणाम् । 539 ।
भक्तानामथवान्येषामर्चनानिरतात्मनाम् ।
प्रीतये परमेशाय कृत्वा सम्यक्प्रयच्छति । 540 ।
शालाद्यायतनोपेतमश्मपक्वेष्टकान्वितम् ।
ग्राम्यैर्धान्यैस्तथारण्यैः पूर्णं सद्वृत्तिसङ्कुलम् । 541
वणिक्कुडुम्बभृतकरक्षापालैः समन्वितम् ।
[[251]]
सोनन्तं फलमप्नोति कालामाचन्द्रतारकम् । 542 ।
संस्थितिं शाश्वतं लोके प्राप्नुयादक्षयं यशः ।
भोगोपयोगिनीं भद्रां रम्यां पूर्वोक्तलक्षणाम् । 543 ।
यागनिष्पत्तये कुर्याद्योग्रतः पीठसन्निधेः ।
बहिरावरणार्थं वा कर्मिणां ब्रह्मयोजिनाम् । 544 ।
ऋषिदेवपितृभ्यश्च मुच्यते स ऋणत्रयात् ।
मध्ये गरुडाक्रान्तं सचक्राम्बुरुहाङ्कितम् । 545 ।
तुर्याश्रमथवा वृत्तं कुण्डवत्पदवीयुतम् । ।
बलिपीठं बहिः कुर्याद्दाता यस्त्वच्युतालये।546 ।
स याति चाच्युतं स्थानं विमानैः सूर्यवर्चसैः ।
य़स्तु प्राग्ग्राममारामं सम्प्रयच्छति वै विभोः । 547 ।
नानापुष्पफलोपेतं वापीद्रुमसमाकुलम् ।
साब्जतोयाशयोपेतं मारखड्गसमन्वितम् । 548 ।
स नन्दवने भोगान्
भुक्त्वा यात्वच्युतालयम् ।
क्षोणीं यः सस्यसम्पूर्णां युक्तां सद्गन्धशालिना । 549
केदारं जलपातैस्तु परिच्छिन्नं समन्ततः ।
केदारं जलपातैस्तु परिच्छिन्नं समन्ततः ।
स गच्छति जगद्योनेः कालमासाद्य शाश्वतम् । 550
स यायात्सुसितद्वीपं तत्रास्ते भगवानिव ।
स्नानोपभोगमन्त्रार्थसवृषेन्द्रन्तु गोगणम् । 551।
समर्चयित्वा योर्चां वैष्णवीं प्रतिपादयेत् ।
सोचिरान्मुक्तदोषस्तु विष्णुलोकं प्रयाति च । 552 ।
गजं रथं वराश्वं च दीपस्थालीं सुलक्षणाम् ।
व्यजनं चामरं छत्रं वादित्रं गणिकागणम् । 553 ।
शुभ्रवस्त्राणि नेत्राणि दिव्यान्याभरणानि च ।
वितानं वैजयन्तीं च चित्रपत्रलतागणम् । 554 ।
सुस्वरामुपघण्टां च धूपस्थालीं सुलक्षणाम् ।
भृङ्गारं दर्पणं तोयकुम्भं गन्धोपलं महत् । 555 ।
पूर्वोद्दिष्टानि चान्यानि धान्यानि विविधानि च ।
यो ददाति हरेर्भक्त्या स तल्लोकमाप्नुयात् । 556 ।
ईक्षमाणं विभोर्वक्त्रं वहन्तं दीपभाजनम् ।
महान्तं चाथवा दीपं यन्त्रं कूर्मादिरूपधृक् । 557 ।
शरयज्ञासनस्थं च चित्तसम्पुटभूषितम् ।
सच्छास्त्रपीठं विविधं श्रद्धया यो मुनीश्वराः। 558।
ददाति देवदेवस्य परं स्थानं प्रयाति सः ।
पुरस्कृत्य जगद्योनिं यद्यद्भक्त्या प्रदीयते । 559 ।
तदाराधनसक्तानां तत्तदक्षय्यतामियात् ।
इत्येवं बिम्बपूर्वाणां प्रतिष्ठाविधिरीरितः । 560 ।
इतोन्यच्छ्रोतुमिच्छा चेत्कथ्यतां मुनिपुङ्गवाः ! ।
इति ईश्वरसंहितायां प्रतिष्ठाविधिः नाम अष्टादशोऽध्यायः.