१७

सप्तदशोऽध्यायः
17 – प्रतिमा पीठादि लक्षणं

नारदः ।
अथ बिम्बस्य पीठादेर्लक्षणं वक्ष्यते द्विजाः ।
चित्रमृत्काष्टशैलोत्थं सल्लोहमयमेव च ॥ 1
भेदभिन्नं द्विजातीनां हितं बिम्बं फलार्थिनाम् ।
तदभिन्नमकामानां प्राप्तं चाप्यविरोधकृत् ॥ 2
अत्र चित्रमयं विद्धि भित्तिकाष्ठाम्बराश्रितम् ।
पुनर्वर्णक्रमेणैव चतुर्धा चाम्बरोत्थितम् ॥ 3
तच्च कार्पासकौशेयक्षौमशाणमयं तु वै ।
मृज्जमेवं सिताद्युत्थं वार्क्षं विविधमेव च ॥ 4
आश्वत्थं ब्रह्मवृक्षोत्थं श्रीपर्णीसुरदारुजम् ।
सालतालमयं चैव शाशवन्तीन्दुसारजम् ॥ 5
एवं द्वयं द्वयं विद्धि द्विजातीनां यथाक्रमम् ।
अतोन्ये दृढमूलाश्च सारवन्तो हि याज्ञिकाः ॥ 6
साधारणाश्चतुर्णां तु प्रतिमाद्ये च कर्मणि ।
सामान्यं भक्तिमुक्त्यर्थमश्ममृण्मयवत्स्मृतम् ॥ 7
तारहाटकताम्रोत्थमारकूटमयं तथा ।
एवं हि भूमयो वस्त्रपाषाणा धातवो द्रुमाः ॥ 8
वज्रादयोखिला रत्नाः सितरक्तादिलक्षणाः ।
असामान्याः फलेप्सूनां लाभालाभवशात्पुनः ॥ 9
सम्यक् स्वमूर्तिमन्त्रैस्तु जपहोमार्चनादिना ।

[[212]] नयेत्सामान्यभासित्वं तथा तत्कारणार्चनात् ॥ 10
यजेत्सेन्द्रां धरां शैलमृदापादनकर्मणि ।
एवं पटद्रुमार्थं तु वरुणं सवनस्पतिम् ॥ 11
सरत्नानां च धातूनां सम्भन्धेर्केन्दुपावकान् ।
रत्नाश्रयेण धात्वर्थे नार्च्यादेशेन वै विना ॥ 12
तथार्चनासनेनैव चक्रपद्ममयादिना ।
नारत्नी प्रतिमा शस्ता ध्यायिनां ध्यानसिद्धये ॥ 13
केवला लघुमाना च प्रमाणावयवोज्झिता ।
वर्णाश्रमगुरुत्वाच्च स्वामित्वादखिलस्य च ॥ 14
भूतादिदेवरूपत्वादुत्तमाद्येषु वस्तुषु ।
नृपश्चार्हति वै नित्यं सविशेषपदे स्थितः ॥ 15
किं पुनर्योऽफलाकाङ्क्षी भक्तिश्रद्धपरः सदा ।
बुध्वैवं चित्रबिम्बार्थी यत्रेनेदं समाचरेत् ॥ 16
गुह्यकान् गृहदेवांस्तु हृदार्च्यार्घ्यादिना पुरा ।
मलभस्मतुषाङ्गारकेशकीटनखास्तृणम् ॥ 17
मूलकण्टकचर्मास्थिसामान्याऽश्मवह्नि भित्तिका ।
भवत्यनर्थदाऽवश्यमतः प्राक्चतुरङ्गुळम् ॥ 18
विहाय मृद्दळं भित्तेरीषद्बिम्बात्तुवाऽधिकम् ।
उक्तदोषविमुक्ताथ पञ्चगव्येन साम्भसा ॥ 19
मर्दितया मृदा भूयस्तद्भित्यंशं प्रपूर्य च ।
शस्त्रेण काष्टफलकां मृगचर्मसमां पुरा ॥ 20
छविं विहाय शद्धर्थं तिरीमुक्तं च वै घटम् ।
प्रक्षाळ्य सलिलेनैव त्वस्त्रजप्तेन सप्तधा ॥ 21
हृन्मन्त्रेण तु सास्त्रेण मूर्तिमन्त्रान्वितेन च ।
तीर्थदेशान्नदीतीरात्पुण्यक्षेत्राच्च पर्वतात् ॥ 22
अपास्य दोषसङ्कीर्णामूर्ध्वादादाय मृत्तिकाम् ।
साऽवचूर्ण्याऽथ संशोष्या सूपलिप्ते धरातले ॥ 23
शाणमूर्णं च कार्पासं ससूत्रं चाविजं तथा ।
कृत्वा पाषाणभिन्नं प्राग्योज्यं तत्र सवालुकम् ॥ 24
ईषद्गोमययुक्तेन भूरिक्षीरघृतादिना ।
भावयेत्पञ्चगव्येन खादिरेण कषेण च ॥ 25
सिद्धार्थकातसीस्नेहतिलोत्थेन तु वै सह ।
क्लेदयेच्च त्रिसप्ताहं भाण्डे कृत्वाऽऽयसादिके ॥ 26
मारुतानलसूर्येन्दुदर्शनेन विनैव हि ।
तया समाप्य तद्बिम्बं शुभाकाष्ठान्तरीकृतम् ॥ 27
वस्त्रवच्चैव लोहानां कृत्वा प्रक्षाळनं ततः ।
मार्जनं भूतिना भूयस्तथा तन्मन्त्रितेन च ॥ 28
भक्त्या प्रवर्तमानस्तु बिम्बसाधनकर्मणि ।
सर्वत्र चास्त्रमन्त्रस्य कुर्यान्निर्विघ्नशान्तये ॥ 29
पूजनं हवनं भूतबलिदानं सदक्षिणम् ।
सम्यग्ग्रहणकाले तु एतत्सामान्यमेव च ॥ 30
सच्छैलदारुग्रहणे विशेषस्त्वधुनोच्यते ।

[[213]] सर्वत्रारम्भकाले तु निमित्तमुपलक्ष्य च ॥ 31
विशेषार्चनयात्रायां तच्छुभेन शुभोदयः ।
अशुभेन निमित्तेन यात्रा विघ्नवती भवेत् ॥ 32
विरामेण तु जप्येन शान्तिस्वस्त्ययनादिना ।
निवर्तनेन तद्धन्याद्दहते शुभकृद्यतः ॥ 33
मन्त्रमभ्यर्च्य यात्रायामभ्यर्थ्याज्ञां विनन्द्य च ।
नैवेद्यशेषभुग्वामचारस्थः संयतेन्द्रियः ॥ 34
प्राम्मुखः संस्मरेन्मन्त्रं समुत्थायामृतोदये ।
परिज्ञाय परां र्मूीन्त तन्मूर्त्यन्तरमेव वा ॥ 35
यायात्तदीयं दिग्भागं तदभावात्तु चान्यदिक् ।
सहायैरप्रमत्तैस्तु शिल्पिभिः सह संवृतः ॥ 36
लाजदध्यक्षतैः कुम्भैः यायात्पुष्पपुरस्सरैः ।
सौमनस्यं महोत्साहस्त्वङ्गस्पन्दस्तु दाक्षिणः ॥ 37
शुभा वाणी ध्वनिः शाङ्खस्तन्त्रीवाद्यफलादयः ।
गोगजाश्वद्विजाः कन्या नवभाण्डं च मृद्दधि ॥ 38
आर्द्रमांसान्यलङ्कारो मदिराग्निर्घृतं पयः ।
सिद्धान्नं शालिबीजानि दर्भाः सद्द्रु ममञ्जरी ॥ 39
छत्रं वस्त्रं ध्वजो यानं रोचना कुङ्कुमं मधु ।
दर्पणं चामरो हारो धातवः शस्त्रवर्जिताः ॥ 40
रत्नानि वैबुधं बिम्बं मधुमत्तोह्यकातरः ।
जीवन्मत्स्या निमित्तं च मनसो यदखेददम् ॥ 41
तत्सर्वं दर्शने श्रेष्ठं तत्स्वेददमशोभनम् ।
स्वगृहद्वारदेशाच्च पथि सप्तपदावधि ॥ 42
क्रममाणो निमित्तं च फलं यच्छति तेन हि ।
निर्गत्य नगराद्ग्रामात्क्रोशार्धं क्रोशमेव वा ॥ 43
गृहीयाच्छाकुनं चिह्नं नकुलादिमयं त्वतः ।
पूर्णात्सार्धाधिकात्क्रोशात् हितकृन्मृगदर्शनम् ॥ 44
दिम्मुखे निर्मले सिद्धिर्व्रजेद्यत्र विशेषतः ।
सिद्धिकृच्चाम्बरं स्वच्छं सुदीप्ता भास्करादयः ॥ 45
मरुत्सुखावहः स्निग्धप्रदक्षिणगतिः स्थिरः ।
दिव्याद्युत्पातनिर्मुक्तः स कालः सिद्धिसूचकः ॥ 46
हंसः शुको भरद्वाजः कोकिलः खञ्जरीटकः ।
मयूरो भ्रमरश्चक्रवाकाः खेचराः शुभाः ॥ 47
भूचराः नकुलाः सौम्याः सितोहिर्गृहगोधिका ।
गन्धाखुर्जम्बुकश्चैव सर्वेषां दर्शनं शुभम् ॥ 48
मृगाणां हरिणः सिंहो व्याघ्रः शशकचित्रिकाः ।
सिद्धिसंसूचनाः सर्वे सर्वेषां विहितं तु वै ॥ 49
प्रदक्षिणं विशेषेण व्यत्यये जम्बुकः शुभः ।
द्विजादिकं रुतं स्निग्धं सिद्धिकृत्तच्च सौख्यदम् ॥ 50
समुत्पन्ने निमित्ते तु धातुसङ्क्षेपकर्मणि ।
प्रतीक्षितुं न युज्येत यदा शान्तिं तदाचरेत् ॥ 51
पूर्वोक्तां चित्तशुद्ध्यर्थं सविशेषां सदक्षिणाम् ।

[[214]] प्रविश्य विधिवत्क्षेत्रं निरीक्षेत स्वतेजसा ॥ 52
पश्येच्छिलां गुणवतीं तरुं वा कर्मणि क्षमम् ।
वर्जयेदतिवृद्धां च परिक्षीणत्वचं तथा ॥ 53
सभङ्गां दावदग्धां च निश्शाब्दां रूक्षविग्रहाम् ।
सवालुकां च सच्छिद्रां बिन्दुयुक्तां पुटोद्वहाम् ॥ 54
आखुदर्दुरमीनाहिमार्जारशशकोपमाम् ।
सवर्णपरवर्णोत्थसिराजालेन सन्तताम् ॥ 55
प्रागुक्तरूपस्याभावादमीषां ग्रहणं हितम् ।
परावतशुकाब्जाभां मधुमाञ्जिष्टमाषभा ॥ 56
गुर्वीं हृदा शुभा स्निग्धा अतो वाऽन्याभिशस्तये ।
सुहृद्ये भूतले मग्ना जलाशयतलस्थिता ॥ 57
छन्ना तरुवरेणैव वनराजिष्ववस्थिता ।
वेष्टिता वल्लिबृन्देन तथैवौषधिभिर्वृता ॥ 58
ऊर्ध्वगा जनदेशाच्च एकपिण्डीकृता मृदुः ।
मोक्षदा च स्ववक्त्रा वै भोगदा सुतलानना ॥ 59
दिम्मुखी चोभयकरी प्राम्मूर्धा भूतिरायुषे ।
अतोऽन्यमस्तका कीर्तियशोवृद्धिकरी मता ॥ 60
वंशवृद्धिदमारोग्यशान्तिकृत्कं यदाप्यदिक् ।
पुष्टिमुन्नतिसन्मेधां यच्छत्युत्तरमस्तका ॥ 61
एवं पुरा परिज्ञाय पृष्ठोरुचरणं शिरः ।
बलात्मना सवीर्येण प्रोद्धृत्य सह शोल्पिभिः ॥ 62
प्राम्मुखं चोत्तरस्यां वै प्राग्भागे चोत्तराननम् ।
स्थलेवतार्य मन्त्रेशमिष्ट्वा स्रक्चन्दनादिना ॥ 63
ध्यात्वा शिलान्तः संरुद्धं सम्पूज्य जुहुयात्ततः ।
उक्तदिग्द्वितयस्यैकदेशे कुण्डेऽथ वा स्थले ॥ 64
दत्वा पूर्णाहुतिं ध्यानजपयुक्तः क्षिपेदहः ।
निशागमेऽर्चनं कुर्याद्बलिभिर्भूततर्पणम् ॥ 65
नैवेद्यशेषमश्नीयान्मन्त्रविन्यस्तविग्रहः ।
तद्दक्षिणेन दर्भेषु प्राक्शिराः प्रस्वपेज्जनम् ॥ 66
पूर्ववत्स्वप्नलाभार्थमुत्थाय रजनीक्षये ।
कुर्यात्स्वकृत्यं जुहुयादशुभस्वप्नशान्तये ॥ 67
अभिनन्द्य शुभं स्वप्नं हृदयावर्जकं स्फुटम् ।
पर्वतं च स्वात्मानं स्थानं तदुपलस्थलम् ॥ 68
स्फटिकामलसङ्काशं पश्येद्वा तप्तहेमवत् ।
निर्धूमाङ्गारकूटाभं तदाशु लभते शुभम् ॥ 69
सशस्त्रमथ चादाय मुद्गरं चास्त्रमन्त्रितम् ।
प्राम्मुखश्चतुरो वारांस्ताडयेन्मस्तकावधेः ॥ 70
पाददेशाच्च वा मध्यादवेक्ष्य च फलं पुरा ।
चतुरश्रायतां कृत्वा भिन्नां पीठेन यन्त्रगाम् ॥ 71
आनाय्य वा पृथक्पीठां छन्नां कर्मालयं शुभम् ।
विन्यस्य वै पुरा तेन विधिना चोद्धरेच्छिलाम् ॥ 72
पीठार्थं भिन्नवर्णां च तद्रूपां वा यथेच्छया ।

[[215]] अङ्गाङ्गिभावगुणवदृष्टदां तु मुनीश्वराः ॥ 73
काष्टलोहमणीनां चाप्यलाभे सति वै शुभम् ।
सति लाभे न वै कुर्याद्वैषम्यं व्यत्ययं च वा ॥ 74
तत्कालमेव चाहृत्य रत्नाधारां शिलां शुभाम् ।
पुंस्त्रीनपुंसकोत्थाभिः शिलाभिस्त्रितयं हितम् ॥ 75
बिम्बाख्यं विद्धि चाभावात्सर्वं बिम्बोपलात्तु वै ।
निषिद्धं भगवद्बिम्बं रत्नपीठमयोत्पलात् ॥ 76
लक्ष्माद्या देवताकारा स्वोपलाः सर्वसिद्धिदाः ।
याऽहताऽनलबिन्दून्वै सनादमभिमुञ्चति ॥ 77
पुमानिति शिला सा वै निस्तेजाः सस्वनाऽबला ।
आदिमध्यावसानेषु नाग्निर्यस्या न च ध्वनिः ॥ 78
नपुंसकेति सा ज्ञेया स्वपदस्था फलप्रदा ।
ज्ञात्वैवं देवदेवस्य लक्ष्मादीनां तथैव च ॥ 79
सर्वेषां परिवाराणां पीठादीनां तथैव च ।
प्रासादादेः शिलाश्चैव तत्तन्मन्त्रैर्यथाक्रमम् ॥ 80
समभ्यर्च्य शिलाः सर्वाः सङ्गृह्य शकटादिषु ।
समारोप्य समानीय बिम्बादीन् कारयेद्गुरुः ॥ 81
शिलाग्रहणमित्युक्तं दारुग्रहणमुच्यते ।
आपर्वतान्तः सञ्चारो निर्व्रणं सरळं बृहत् ॥ 82
रोगामुक्तं न सिंहाद्यैः प्रान्नखैः सङ्क्षतीकृतम् ।
नानिलाशनिदावाग्निहतवीर्यं न बाह्यगम् ॥ 83
सलक्षणं तु सुस्निग्धं भूभागे चोन्नते स्थितम् ।
तदायत्तशिलस्यादौ परेऽहन्यर्चयेत्ततः ॥ 84
तदाश्रितामविज्ञातस्वरूपां देवतां पठन् ।
इहाश्रितात्मने तुभ्यं नमः सर्वेश्वराय च ॥ 85
क्षमस्वावतरान्यत्र सन्तिष्ठात्र चिदात्मना ।
अथास्त्रोदकशुद्धेन विलिप्तेन घृतादिना ॥ 86
जपन्मन्त्रवरं वौषट् छिन्द्याद्वै कवचादिना ।
प्राच्यामुदीच्यामैशान्यां पतत्यभिमुखं यदि ॥ 87
परिज्ञेयं शुभं कुर्यादन्यपातेऽर्चनादिकम् ।
आनाय्या देवभागं चाप्यनादेयेन वै विना ॥ 88
बिम्बमिच्छति वै कर्तुं वार्क्षं चैवातिविस्तृतम् ।
अनेकभुजवक्त्रास्त्रभूषितं तत्तरूत्थितैः ॥ 89
भिन्नैरवयवैर्मानयुक्तैः शिष्टैर्न दुष्यति ।
भक्तिश्रद्धावशाच्चैव सर्वं चार्णमयं मनः ॥ 90
एवमेकतमस्यापि भक्तिपूर्वस्य वस्तुनः ।
सङ्ग्रहं च पुरा कृत्वा कुर्यादाकारमीप्सितम् ॥ 91
तादर्थ्येन तु सामान्यं सौम्यमानं पुरोच्यते ।
ऋज्वाख्यमविकारं च व्यापकं त्वेकमूर्तिमत् ॥ 92
भूभागे सुसमे श्लक्ष्णे मानमुत्कीर्य तेन वै ।
निरूप्यावयवानां च लक्ष्म विस्तृतिपूर्वकम् ॥ 93
अष्टाधिकशतांशो यः स्वोन्नतेरङ्गुलं च तत् ।

[[216]] द्वे अङ्गुले कला नेत्रं गोलकं भाव एव च ॥ 94
अङ्गुलादष्टभागो यः स यवः परिकीर्तितः ।
षट्कलं च परिज्ञेयं तालं बिम्बादिकर्मणि ॥ 95
मुखाङ्गनाभिमेढ्रक्ष्मास्तालमानास्त्वथोरुयुक् ।
द्विकाले च तथा जङ्घे गुल्फं जानुर्गलं च कम् ॥ 96
त्र्यङ्गुळं त्र्यङ्गुळं ज्ञेयमित्युन्मानमुदाहृतम् ।
जटाधराणां बिम्बानां दीर्घह्रस्ववशेन तु ॥ 97
चतुष्कलं च त्रिकलं मानं मानाद्बहिः क्षिपेत् ।
त्रिपञ्चसप्तशिखरो मौळिरष्टकलोन्नतः ॥ 98
निर्जटानां ललाटोर्ध्वे मकुटं वा सुशोभनम् ।
तालेन ह्रासवृद्धी तु कार्ये त्वत्र व्यपेक्षया ॥ 99
यथोदितेषु भागेषु एकैकेनाङुळेन तु ।
आस्यनासाललाटार्थं वदनांशं भजेत्त्रिधा ॥ 100
ततोग्रतः कलामानं घ्राणं स्यात्तिलपुष्पवत् ।
कालार्धेन तु विस्तारः सोन्नतिस्तत्पुटद्वये ॥ 101
नासाग्रग्रासनिर्मुक्तं गोजीमानं चतुर्यवम् ।
तच्चतुर्यवमानेन घ्राणाग्रेणान्तरीकृतम् ॥ 102
अर्धाङ्गुलं चोत्तरोष्टमधरोष्ठं तु चाङ्गुळम् ।
गोळकं चिबुकं वित्त सृक्किण्यौ चतुरङ्गुळे ॥ 103
आद्यस्य नासिकांशस्य मध्यभागसमाश्रिते ।
कुर्यान्नेत्रश्रुतिच्छिद्रे तत्र नेत्रे कलान्तरे ॥ 104
कलायामसमं दैर्घ्यात्कलार्धेन तु विस्तृतम् ।
यदुत्पलदळाकारं द्वियवेनाधिकं तु तत् ॥ 105
कुर्यात्पद्मदळाकारं नेत्रार्धं वृत्ततारकम् ।
तारादैर्घ्यत्रिभागेन त्वाद्यस्यान्यस्य चाधिका ॥ 106
यवनैकेन सार्धेन ज्योतिस्तत्पञ्चभागिकम् ।
त्रिभागेनापि विहितं तत्पद्मदळलोचन ॥ 107
द्विषड्यवं नेत्रकोशं विस्तरेण यवाधिकम् ।
सार्धाङ्गुळद्वयं दैर्घ्याद्भूतले द्विकले स्मृते ॥ 108
मध्यतो वृद्धिते बालचन्द्रतुल्ये क्रमक्षते ।
तदन्तरं कलार्धं च तत्कोटी समसूत्रके ॥ 109
श्रोत्रे द्व्यङ्गुळविस्तीर्णे आयामेने द्विगोळके ।
द्वियवः कण्ठपरिधिः पर्वणी द्वे चतुर्यवे ॥ 110
मध्यं ताभ्यां तथा विद्धि द्रोणीं सार्धाङ्गुळा तु वै ।
कलार्धेन तु तच्छिद्रं पाशमानं यथारुचि ॥ 111
अङ्गुळाद्विकलान्तं तु वैषम्यमपि तत्र तत् ।
अन्तश्छिद्रविनिर्मुक्तं तद्विज्ञेयं चतुर्वयम् ॥ 112
सदलङ्करणोपेतमेवं श्रोत्रद्वयं स्मृतम् ।
चतुष्कळं ललाटन्तु शिखरे द्वे द्विगोळके ॥ 113
उच्छ्रायात् त्र्यङ्गुळे चैव अग्रतोऽङ्गुळविस्तृते ।
केशभूमेः समुद्भूतं ललाटोपरि संस्थितम् ॥ 114
कुर्यात्कलार्धमानं तु वक्त्रं चालकसञ्चयम् ।

[[217]] कपोलपरिधिं कुर्यात्कर्णात्कण्ठगतं समम् ॥ 115
तन्मध्ये वर्तुलौ गण्डौ परिश्छिन्नौ पुरोदितैः ।
शिरसः परिणाहं तु वित्त षट्त्रिंशदङ्गुलम् ॥ 116
श्रोत्रकोटिद्वयाच्चैव मस्तकस्य यदन्तरम् ।
तत् षोडशाङ्गुळं वित्त वर्तिभ्यां पृष्टतस्तथा ॥ 117
सार्धतालं परिज्ञेयं ललाटात्ककुभान्तरम् ।
तत्कम्बुसदृशी ग्रीवा मूलमध्याग्रतो हि सा ॥ 118
परिधेर्द्वादशकला एकविंशाङ्गुळाग्रतः ।
अष्टादशाङ्गुळा चैव स्वांशात् त्र्यंशेन विस्तृता ॥ 119
तन्मूलं विस्तृतौ स्कन्धौ तुङ्गौ वृत्तायतौ समौ ।
षडङ्गुळं तद्बाहुळ्यं बाहुमानं तथोच्यते ॥ 120
स्कन्धोत्तमाङ्गं त्रिकलं सन्ध्यन्तं षट्कलं स्मृतम् ।
सन्धेर्वै मणिबन्धान्तं मानं नवकलं स्मृतम् ॥ 121
मणेर्मध्यमशाखान्तो हस्तः सप्ताङ्गुळो मतः ।
परिज्ञेयं कलाहीनं तन्मानं मध्यमाङ्गुले ॥ 122
तच्चतुर्यवहीनाच्च सनामा तु प्रदेशिनी ।
द्विकला च परिज्ञेया साङ्गुष्ठा तु कनीयसी ॥ 123
द्विपर्वा च स्मृतोङ्गुष्ठः सर्वांश्चाङ्गुळि विस्तृताः ।
सर्वासां मूलपर्यन्ताद्ध्रासयेच्च यवं यवम् ॥ 124
अग्रपर्वार्धमानेन कार्या लिङ्गोपमा नखाः ।
मानमङ्गुष्टमूलस्य परिधेश्चतुरङ्गुळम् ॥ 125
तच्चतुर्यवहीनं च ज्ञेयं त्रिष्वङ्गुलीषु च ।
न्यूनाङ्गुळेः कला सार्धा प्राग्वद्ध्रासश्च वेष्टनात् । 126
अङ्गुष्टमङ्गुळं चाग्रात्तिस्रोऽन्याः षड्यवाः स्मृताः ।
अर्धाङ्गुळाग्रतोन्यूना वित्त मध्यं क्रमक्षतम् ॥ 127
निजलक्ष्मोपेतं चाग्रात्साङ्गुलं द्विकळं करम् ।
ईषन्निम्नतलं चैव लक्ष्मरेखाविभूषितम् ॥ 128
शाखामूलावधेः पाणी बाहुळ्यं द्वे यवेऽङ्गुळम् ।
चतुर्यवाधिकं चैव मणिबन्धावधेः स्मृतम् ॥ 129
मध्ये कलार्धहीनं तु तद्बाहुळ्यमुदाहृतम् ।
मणिबन्धावधेर्बाहुवेष्टनं षट्कलं स्मृतम् ॥ 130
सन्धेः सप्तकलं वित्त साङ्गुलं त्र्यवमप्युत ।
हीनमर्धाङ्गुळेनैव मूलाद्वै नवगोळकम् ॥ 131
तथैव सन्धेरूर्ध्वं तु विस्तारः प्राग्वदत्र च ।
अत्रापि पूर्ववद्दृष्ट्या कार्यान्तस्थाः क्षितिः स्वयम् ॥ 132
तालं गळाबधेस्त्यक्त्वा तन्मानेनान्तरीकृते ।
स्तनद्वयं समं कुर्यात्तद्धारा च समांसळा ॥ 133
निम्नं हृद्गोळकार्धेन ऊर्ध्वतो रत्नराड्युतम् ।
स्तनाभ्यां त्रिकलौ पार्श्वौ त्रियवं स्तनमण्डलम् ॥ 134
यवोन्नतं तथाचान्याद्विस्तृतं तेन चूचुकम् ।
लोचनं त्रियवं सार्धं कक्षमानमुदाहृतम् ॥ 135
स्कन्धमानविनिर्मुक्तं पृष्टमंसावधेः समम् ।

[[218]] द्रोणीनिकाशसदृशमश्वराशेः समांसलम् ॥ 136
कक्षान्तर्वेष्टनं वित्त पञ्चतालं सलोचनम् ।
विनाङ्गुळद्वयेनैव द्वे ताले द्विगुणीकृते ॥ 137
यवत्रयसमायुक्ते वित्त तत्कुक्षिवेष्टनम् ।
त्रियवोनं कलामानं विज्ञेयं नाभिमण्डलम् ॥ 138
तन्मानं तु त्र्यवोनं तु तन्निम्नत्वं विधीयते ।
परिधिर्नाभिमध्ये तु त्रिकालः सत्रिलोचनः ॥ 139
षड् गोलकं च तन्मानं परिध्यर्थं कटेः स्मृतम् ।
करिकुम्भोपमौ पीनौ परितः पञ्चगोळकौ ॥ 140
स्फिजौ कौपीनराजी च द्व्यङ्गुळा मूलतः स्मृताः ।
परितोऽङ्गुळमानासौ मेढ्रं तु त्रिकळं स्मृतम् ॥ 141
चतुर्यवं तु तत्कोशं वेष्टनं तु षडङ्गुळम् ।
द्व्यङ्गुळौ वृषणौ दैर्ध्यान्मूलान्तं समविस्तृतौ ॥ 142
परितो द्व्यङ्गुलं वित्त वायुरन्ध्रं सुवर्तुलम् ।
ऊरुमानं परिज्ञेयं मध्यभूमेर्नवाङ्गुळम् ॥ 143
षट्कलं मूलदेशाच्च अग्रान्तं त्रिकळं स्मृतम् ।
हीनमेकाङ्गुळेनैव द्विकलं जानुमण्डलम् ॥ 144
विस्तारेणोन्नतत्वेन चतुर्यवसमं तु तत् ।
जङ्घामूले परिज्ञेये वेष्टनं नवगोळकम् ॥ 145
द्विसप्ताङ्गुळकं मध्ये सार्धपञ्चकलं ततः ।
अत्रापि वेष्टनाद्विप्र तृतीयांशेन विस्तृतम् ॥ 146
मध्यमूलावसानेभ्यो विस्तारमनुगण्यतु ।
भुजाभ्यां मध्यदेशस्य तथाङ्गुळिगणस्य च ॥ 147
ऊरुयुग्मस्य जङ्घाभ्यामापाद्या द्विपहस्तता ।
सताळभागमानं च दैर्ध्यं वै चरणं स्मृतम् ॥ 148
पार्ष्णी द्विगोळकतले तन्मध्ये साङ्गुले तले ।
त्रिकलं चाग्रतश्चैव बाहुळ्येन कलासमम् ॥ 149
पदमङ्गुष्टनिकरात्रियवोनं प्रकीर्तितम् ।
बाहुळ्यं च कलामानं गुल्फदेशाच्च साङ्गुळम् ॥ 150
कनीयोङ्गुळिमूलाच्च गुल्फान्तं पिण्डिकाङ्गुळम् ।
जङ्घावसानदेशाच्च वेष्टनं सप्तलोचनम् ॥ 151
कलाहीनं तदैवाग्रात्परिणाहो विधीयते ।
चरणं विधिना तेन कूर्मपृष्ठं समाप्य च ॥ 152
त्र्यङ्गुळेन च तद्दैर्घ्यादङ्गुष्टस्य च दीर्घता ।
पञ्चाङ्गुळः परिज्ञेयः परिधिस्तस्य लाङ्गलिन् ॥ 153
यावद्वयाधिका कार्या तद्दैर्घ्यात्तु प्रदेशिनी ।
अङ्गुष्टयामतुल्याथ कार्या वै पदमध्यगा ॥ 154
मध्याङ्गुले र्द्विरष्टांशहीना तदनु या स्थिता ।
तद्वत्तदनुगा या च त्रिपर्वास्तास्तु पूर्ववत् ॥ 155
संयुक्ता नखजालेन कूर्मपृष्ठोपमेन च ।
द्विकलं तु यवार्धोनं पादतर्जनिवेष्टनम् ॥ 156
चतुश्चतुर्यवोनं च तच्छेषाणां प्रकीर्तितम् ।

[[219]] त्र्यंशेन वेष्टनाद्ज्ञेयं सर्वासां चैव विस्तृतम् ॥ 157
सर्वे समांसलाः सौम्याः समास्त्ववयवाः शुभाः ।
दशनावलिबाह्यस्थे दंष्ट्रे सप्तयवोन्नते ॥ 158
यावद्वयोन्नतं मानं मध्यदन्तचतुष्टये ।
तत्पक्षगानां सर्वेषां मानं वित्त चतुर्यवम् ॥ 159
त्रियवं द्विजविस्तारमग्रान्मूलाद्यवद्वयम् ।
तत्सार्धं मध्यदेशाच्च सर्वे दन्ता निरन्तराः ॥ 160
लोमप्रदक्षिणावर्तमयुग्जन्मोत्थितं शुभम् ।
सुनिश्चितं हितं चैतन्मानमव्यभिचारि यत् ॥ 161
मनोहारित्वमेकत्र रूपलावण्यभूषितम् ।
सर्वदा चानयोर्वित्त अन्योन्यत्वेन संस्थितिम् ॥ 162
ससौन्दर्यं तु मानस्य क्वचिदाक्रम्य वर्तते ।
लावण्यस्य क्वचिन्मानं समाच्छाद्यावतिष्टते ॥ 163
यथाभिरूपवान् लोके दारिद्रोऽप्येति मान्यताम् ।
विरूपोप्यतिवित्ताड्यो नारूपो नैव निर्धनः ॥ 164
एवं द्वयोज्झितं बिम्बमनादेयत्वमेति च ।
आदेयमेकमुक्तं च नित्यं यस्मान्मुनीश्वराः ॥ 165
सम्यम्माने च सौन्दर्ये भक्तानुग्रहकाम्यया ।
मन्त्रसन्निधिशक्तिर्वै सफलाह्यवतिष्टते ॥ 166
सा सम्यक्प्रतिपन्नस्य बिम्बे दृग्गोचरस्थिते ।
आमूर्ताह्रादयत्याशु ज्ञात्वैवं यत्नमाचरेत् ॥ 167
मानोन्मानप्रमाणानामथ सौन्दर्यसिद्धये ।
ऋजोः सुसमपादस्य त्र्यङ्गुलं चरणान्तरम् ॥ 168
तद्वै विषमपादस्य अग्रात्ताळसमं स्मृतम् ।
तत्पार्ष्णिद्वयमध्यात्तु परिज्ञेयं द्विगोळकम् ॥ 169
स्थित्यर्थं ब्रह्मनाड्या वै तथा मार्गद्वयस्य च ।
सूत्रेण सुसमे कुर्याद्देहोत्थे दक्षिणोत्तरे ॥ 170
समपादस्य बिम्बस्य ललाटान्मेढ्रमस्तकम् ।
प्रसार्य सूत्रमाच्छाद्य तेन नाभिहृदन्तरम् ॥ 171
घ्राणाग्रमलकानां च सिद्धिर्यस्तिलकोर्ध्वगः ।
एवं विषमपादास्य दक्षाङ्गुष्ठाग्रतं नयेत् ॥ 172
गात्रसाम्यं समापाद्यं क्षेत्रात् क्षेत्रगतेन च ।
सूत्रेण सर्वबिम्बानां वैषम्यविनिवृत्तये ॥ 173
चतुस्त्रिद्व्यश्रिपरितः परिशुद्धा यतः शुभाः ।
अशुभाऽपरिशुद्धा तु बिम्बोत्थाऽवयव स्थितिः ॥ 174
ललाटमश्ववक्त्रस्य विस्ताराद्द्वादशाङ्गुळम् ।
अष्टलोचनमायामादग्रतश्चतुरङ्गुळम् ॥ 175
कलार्धसुषिरे घ्राणरन्ध्रे भागान्तरीकृते ।
अष्टाङ्गुळे तु हुनके सृक्विण्यौ द्वेऽथ तत्समे ॥ 176
मध्यतः श्रोत्रशुक्ती द्वे द्व्यगुळे द्विकलोन्नते ।
द्व्यङ्गुलं घ्राणवंशं तु तदूर्ध्वं द्विकलं स्मृतम् ॥ 177
वित्त वक्त्रविकासं च द्वियवं चाग्रतः क्रमात् ।

[[220]] तमेव हि यवांशेन हन्वन्तं तनुतां नयेत् ॥ 178
घ्राणवंशस्य पक्षौ द्वौ मध्यनिम्नौ च संहितौ ।
यवद्वयेन सार्धेन दृग्घ्राणाभ्यां तु चान्तरे ॥ 179
अथो दळं तु दृग्द्रोणेर्यवमानेन सञ्चितम् ।
ललाटं सालकं प्राग्वद्दृम्मध्यं साङ्गुला कला ॥ 180
नृसिंहस्य मुखे वित्त परितश्चाष्टलोचनम् ।
तदोष्टखण्डदेशाच्च कुर्यात्कर्णद्वयोत्थितम् ॥ 181
तत्कर्णद्वयमानेन ललाटान्तं नयेत्पुनः ।
प्रमाणात्प्राक्प्रणीताच्च संरम्भाघ्राणलक्षणम् ॥ 182
प्रफुल्लविकसच्छिद्रं घ्राणंवंशान्वितं भवेत् ।
तच्छिद्रे पूर्वमानाच्चाप्यस्य वै त्रियवाधिकम् ॥ 183
सगोळमुत्तराङ्गेषु सकलांशं च लोचनम् ।
अधरोष्ठं परिज्ञेयं सचतुर्यवमङ्गुलम् ॥ 184
सार्धं चतुष्कलं वक्त्रं शेषायामो हनोः स्मृतः ।
तद्विकासः परिज्ञेयः नेत्रमानं यवाधिकम् ॥ 185
अग्रतो ह्रासमायाति सृक्विण्यन्तं हि चाङ्गुळम् ।
सर्ववृत्तं तदर्धेन नेत्रयुग्मं सविस्मयम् ॥ 186
पूर्ववद्विस्तृतं श्रोत्रं कलार्धेन तदुन्नतेः ।
तुल्या चेन्द्रकलायुग्मयोगस्य भूस्त्रिगोळका ॥ 187
तन्मध्यं तु कलामानं शङ्खावर्तोपमं महत् ।
भागमानं समावृतं कार्यं तच्छिरसि स्फुटम् ॥ 188
दैर्घ्येण सार्धतालं च क्ष्माधरस्याननं स्मृतम् ।
विस्तारेण ललाटाच्च तन्मानं द्व्यङ्गुळोज्झितम् ॥ 189
सौम्यरूपस्य च विभोः प्रोद्यतस्य कलोज्झितम् ।
तच्चतुर्धांशमानेन पोत्रदेशस्य विस्तृतिः ॥ 290
तस्योपरिष्टाद्बाहुल्यं तत्समं चाङ्गुलं त्वधः ।
हनुद्वयस्य वै मानं सार्धं सप्ताङ्गुलं स्मृतम् ॥ 191
शेषमाननरन्ध्रं तु सृक्विणीभ्यां यदन्तरम् ।
तद्विकासाच्च सार्धेन कलार्धेनाग्रदेशतः ॥ 192
स एवाङ्गुलमानेन विज्ञेयः सृक्विणीद्वयात् ।
घ्र्राणरन्ध्रश्च वक्रोक्ते दंष्ट्र्रे त्वर्धकलोन्नते ॥ 193
नासावंशं यथापूर्वं कदळीनाहिपृष्टवत् ।
श्रोत्रे वाजिमुखोक्ते तु कोटेः सप्तकलान्तरे ॥ 194
तत्तुल्ये लोचने किं तु प्रान्ततीक्ष्णे यवोज्झिते ।
एतेषां विहिता ग्रीवा ह्यङ्गुळद्वितयेन तु ॥ 195
प्रत्येकदेशात्संयुक्ता सौम्यमूर्त्युदिता च या ।
विनोच्छ्रायेण नृहरेः यस्य गात्रस्य या प्रमा ॥ 196
सा सा संवेष्टनाद्व्यासात्कलार्धेनाधिका भवेत् ।
वक्षःकट्युदरांस्सस्फिक्कलामानाधिकानि च ॥ 197
तथैव नखपत्राणि देहश्चास्य समांसलः ।
सम्पूर्णो दक्षिणावर्तैर्लोमभिश्चातिकुञ्चितैः ॥ 198
त्रिचतुःपञ्चवक्त्राभ्यां विनैवोर्ध्वमुखेन तु ।

[[221]] दक्षिणोत्तरवक्त्रस्य ह्वासं कुर्याद्विगोळकम् ॥ 199
विकासः सिंहवक्त्रोक्तः उदग्वक्त्रस्य तत्र च ।
समो दृक्सन्निवेशस्तु चतुर्णां मोक्षसिद्धये ॥ 200
आरोग्यभोगकैवल्यप्राप्तयेऽर्धाङ्गुळेन च ।
कुर्यात्सव्यापसव्याभ्यामथो दृक्सन्निवेशनम् ॥ 201
सहपूर्वाननेनैव सम्यक्प्रत्यम्मुखस्य च ।
निष्कासायामविस्तारघ्राणदृग्भूशृतिष्वथ ॥ 202
ईषत्तिर्यक्क्षितिन्यस्तदृम्मुखं दक्षिणं शुभम् ।
तद्वच्च पोत्रक्तदृग्वक्त्रमुत्तरं सर्वसिद्धिकृत् ॥ 203
स्वकार्यसूचनान्नूनं तन्मन्त्रस्य च सन्निधिः ।
अतोऽन्यथा समाश्रित्य शान्तिमास्ते च मन्त्रराट् ॥ 204
नित्यं तत्सन्निधानाच्च भूतवेताळराक्षसाः ।
आदर्शनात्पलायन्ते आविशन्ति च दर्शनम् ॥ 205
आदाय शिरसा मन्त्रिसमाज्ञां सम्प्रयान्ति ते ।
अतः समाचरेद्यत्तद्येन स्याद्बिम्बसन्निधिः ॥ 206
नहि तत्सन्निधानाद्वै कश्चिदारम्भते शुभम् ।
वराहदंष्ट्रं सिंहाक्षं तथा चिपिटनासिकम् ॥ 207
विधेयं पश्चिमं वक्त्रं पञ्चवक्त्रस्य वै विभोः ।
अस्याधरोत्तराभ्यामप्योष्ठाभ्यां समता भवेत् ॥ 208
विभिन्नताङ्गुळार्धेन ताभ्यां तन्मध्यगा स्फुटा ।
कार्या दशनपाळी वै मूलमध्याग्रतः समा ॥ 209
कालार्धेनोल्बणं वृत्तं तद्गण्डद्वितयं ततः ।
द्विकलं चाग्रतः श्मश्रु कला चार्धकला क्रमात् ॥ 210
सम्बन्धवेणिः पूर्वोक्तमानेन शुभकृद्भवेत् ।
सिंहसूकरवन्मुख्यवक्त्राणां सौम्यतां नयेत् ॥ 211
प्रमाणं दृग्गताल्लक्षाद्व्यवहारमयात्तु वै ।
विकासश्चाश्ववक्त्रोक्तः सौम्यरूपस्य भूभृतः ॥ 212
तदाद्योक्तस्तु नृहरेः प्रागुक्तो यः समाचरेत् ।
तथा वक्त्राङ्गभावित्वे विभोः शक्तीश्वरस्य च ॥ 213
हारनूपुरवस्त्रस्रक्कटकाङ्गदभूषिता ।
माल्योपवीतकेयूरमकुटाद्युपशोभिताः ॥ 214
प्रतिमा मन्त्रमूर्तिनां कृता भवति सिद्धिदा ।
यत्पुरा पञ्चधा प्रोक्तं वाहनं प्राणदैवतम् ॥ 215
तस्य बिम्बसमुत्थेन तालेन मुखमण्डलम् ।
द्व्यङ्गुलं तु ललाटोक्तं जटाबन्धो द्विलोचनः ॥ 216
द्व्यङ्गुळेनोन्नतः कर्णः उरः पञ्चकलं स्मृतम् ।
अष्टाङ्गुलं तदुदरं कटिः पञ्चाङ्गुळोन्नता ॥ 217
नवाङ्गुळोन्नतावूरू जानुनी द्व्यङ्गुळे स्मृते ।
अष्टाङ्गुळोच्छ्रिते जङ्घे द्व्यङ्गुळे पदपिण्डके ॥ 218
सममेकं कलाहीनं तद् ग्रिवायाश्च वेष्टनम् ।
बिम्बतुल्या परिज्ञेया सर्वदा साङ्गविस्तृतिः ॥ 219
तद्विभागाधिकं वित्त वेष्टनं ह्युदरस्य च ।

[[222]] परिधिः कटिदेशस्य चतुर्नेत्राधिकस्तु वै ॥ 220
बिम्बोक्तसदृशं वित्त तदूर्वोर्मूलवेष्टनम् ।
तदेव जङ्घामध्यस्य जङ्घान्तस्य तदेव हि ॥ 221
पादं पञ्चकलायामं चतुरङ्गुळविस्तृतम् ।
त्र्यङ्गुलं पार्ष्णिदेशाच्च अङ्गुष्ठोऽर्धकलासमः ॥ 222
विज्ञेया अङ्घ्रिदेशाच्च यवेनाङ्गुळयः क्रमात् ।
नाभिरन्ध्रं सुवीस्तीर्णं ह्यार्धलोचनविस्तृतम् ॥ 223
मध्यमाङ्गुळिपर्यन्तं मणिबन्धान्नवाङ्गुलम् ।
त्रिकलः पाणिविस्तारः तन्नखा निशितोन्नताः ॥ 224
तद्बाहुमस्तकं वित्त उच्छ्रायेण द्विलोचनम् ।
भुजोपभुजयुग्मं यत्तद् द्वितालसमं स्मृतम् ॥ 225
कलार्धमानं बिम्बबाह्वोस्तद्बाहुवेष्टनम् ।
बिम्बोक्ता सद्विधीह्येवं स्तनभूर्लोचनोल्बणा ॥ 226
वृत्तवैपुल्यमानेन लोचने पद्मपत्रवत् ।
भ्रूयुग्मं नरसिंहोत्थं घ्राणाग्रं शुकचञ्चुवत् ॥ 227
कलार्धमानं दीर्घं च तद्वंशं गजपृष्टवत् ।
स्वायामदीर्घं तत्पक्षयुगलं कुक्षिदेशगम् ॥ 228
तदेव दैर्घ्यादर्धेन विस्तृत् हंसपक्षवत् ।
स्वपक्षमानाद्द्विगुणं तत्पुच्छं शतशाखकम् ॥ 229
सपक्षमिममायामं सत्यं त्ववयवान्वितम् ।
सर्वेषां वित्त सामान्यं विशेषाख्यमथोच्यते ॥ 230
ऊरुद्वयान्नयेद्ध्रासमङ्गुळानां त्रयं तथा ।
जङ्घाकाण्डोच्छ्रितेः कुर्याज्जङ्घाभ्यां चात्र वेष्टनम् ॥ 231
बिम्बाख्यं मणिबन्धस्य सममूलान् महामते ।
ज्वालदेशात्तदर्धेन सह चार्धांर्दाङ्गुलेन तु ॥ 232
पादे जालं परिज्ञेयं विस्तारेण षडङ्गुळम् ।
शेषं सत्योदितं सर्वं सर्वेषां वित्त सर्वदा ॥ 233
किं तु पादोज्झितौ पक्षौ दैर्घ्यात्तद्दलविस्तृतौ ।
एषाञ्चोड्डीयमानानां स्वयामा पक्षविस्तृतिः ॥ 234
पञ्चानाञ्च परिज्ञेया स्थितानामर्धलक्षणा ।
एतदादाय मानं तु पुच्छभ्रूपक्षवर्जितम् ॥ 235
विद्धि वामनरूपस्य लक्षणं किन्तु लाङ्गलिन् ।
ललाटनासावक्त्रेभ्यः समादायाङ्गुलत्रयम् ॥ 136
मस्तकस्योपरिष्टात्तु जटाबन्धं प्रकल्पयेत् ।
जटावसानमायामं यथा स्यात्पञ्चतालकम् ॥ 237
ततस्तु कर्मबिम्बेषु विशेषः कथ्यतेऽधुना ।
कर्मार्चा चोत्सवार्चा च बल्यर्चा तीर्थकौतुकम् ॥ 238
निमित्तस्नपनार्चा च शयनार्चेति षड्विधाः ।
अर्चाः कार्यास्त्विमा विप्राः बहुबेरविधानके ॥ 239
एकबेरे तु कर्मार्चा विना पञ्च प्रकल्पयेत् ।
एतैः सर्वैरङ्गबिम्बैर्युक्तं चेन्मूलकौतुकम् ॥ 240
उत्तमं स्यात्त्रिभिर्युक्तं मध्यमं परिकीर्तितम् ।

[[223]] एकेन युक्तमधमं तत्तन्मानमिहोच्यते ॥ 241
मूलबिम्बसमुच्छ्रायं द्विधा वापि त्रिधापि वा ।
चतुर्धा वा संविभज्य एकभागेन कल्पयेत् ॥ 242
उत्सवार्चां तदुच्छ्रायां द्विधा वापि त्रिधापि वा ।
चतुर्धा वा विभज्यैकभागेन परिकल्पयेत् ॥ 243
कर्मार्चादीनि बिम्बानि पञ्चापि द्विजपुङ्गवाः ।
बिम्बषट्कं च देवीभ्यां सहितं परिकल्पयेत् ॥ 244
अथवा चौत्सवं बिम्बं तथा शयनकौतुकम् ।
श्रीपुष्टिसहितं कार्यं मूलबिम्बे द्विजोत्तमाः ॥ 245
स्थिते वा वाहनारूढे समासीनेपि वा द्विजाः ।
कर्मबिम्बादिषट्कं च तथैव स्यात् स्थितं तु वा ॥ 246
मूलबिम्बे शयाने तु कर्मबिम्बादयो द्विजाः ।
स्थितावपि समासीनाः विधातव्या मुनीश्वराः ॥ 247
नित्योत्सवार्थबिम्बं तु सर्वत्रैव स्थितं भवेत् ।
मुनयः ।
कैर्लिङ्गैर्मुनिशार्दूल बेरैकत्ववहुत्वकम् ॥ 248
ज्ञातव्यं तदशेषेण वदस्व वदतां वर ।
नारदः ।
शिलया मणिना वापि लोहैर्वापि कृता तु या ॥ 249
नित्यादिसकलस्नानविषया रहिता सदा ।
कर्मार्चयापि देवीभिः स्थिताप्यासीनतां गता ॥ 250
स्थाप्यते केवला मूर्तिरेकबेरं तु वित्त तत् ।
मृद्दारुजं तु यद्बिम्बं कार्मार्चादिसमन्वितम् ॥ 251
नित्यादिसर्वस्नानार्थं शक्तिभिः सहितं न वा ।
मणिवज्रादिशैलोत्थं निमित्तस्नपनक्षमम् ॥ 252
सदा तु नित्यस्नानार्थं कर्मार्चासहितं तु यत् ।
बृहद्बिम्बं तु लक्ष्मादिसहितं रहितं तु वा ॥ 253
नित्यनैमित्तिकाद्युक्तसकलस्नपनक्षमम् ।
लक्ष्मादिभिः समोपेतं यद्बिम्बं शक्तिभिः सदा ॥ 254
तदेतत्त्रिविधं वित्त बहुबेरं मुनीश्वराः ।
यत्तु चित्रमयं बिम्बं भित्तिकाष्ठाम्बराश्रयम् ॥ 255
कर्मबिम्बसमोपेतं नित्यादिस्नानकर्मणि ।
यच्चापि मृण्मयं बिम्बं त्रिविधं वापि चित्रजम् ॥ 256
नित्यनैमित्तिकस्नाने दर्पणादिसमन्वितम् ।
कर्मबिम्बान्वये योग्यं विभवेच्छानुसारतः ॥ 257
एतच्चतुर्विधं वित्त बहुबेरं विशेषकम् ।
बहुबेरं यथायोग्यं स्थितमासीनमेव वा ॥ 258
शयानं यानगं वापि भवेदिच्छानुरूपतः ।
बहुबेरादिभेदास्तु पञ्चधा परिकीर्तिताः ॥ 259
अन्यानि कर्मबिम्बानि यात्राबिम्बपुरस्सरम् ।
तत्तत्कर्मविशेषार्थं बहुबेरैकबेरयोः ॥ 260
द्वयोश्च कल्पनीयानि विभवस्यानुरूपतः ।

[[224]] इत्युक्तं लेशतो बिम्बलक्ष्म पीठमथोच्यते ॥ 261
बिम्बानामुपविष्टानां चतुरश्रं तु वा भवेत् ।
चतुरश्रायतं चैव प्रोत्थितानां सदैव हि ॥ 262
वृत्तवृत्तायतत्वेन ह्यनयो रूपमन्यथा ।
याङ्गुळैःपरमाणूत्थैराराधकमयैस्तु वा ॥ 263
धत्तेऽर्चा तु समायामद्वाराद्वा मन्दिरोत्थितात् ।
तन्मानेन तु पीठस्य दैर्घ्यमर्धेन विस्तृतिः ॥ 264
द्वारोर्ध्वाच्च त्रिरन्तानि एकपूर्वाणि वै पुरा ।
सन्त्यज्य द्वादशांशाद्वै अथ पीठोन्नतिस्त्रिभिः ॥ 265
शेषेणात्रांशसङ्घेन प्रतिमा चोत्थिता भवेत् ।
अथ वा वाहनारूढा न्यूना वा मध्यमोत्तमा ॥ 266
चतुर्भिर्द्वादशांशैस्तदुपविष्टस्य चोन्नतिः ।
विहिता चास्य सर्वत्र प्रतिमार्धेन विस्तृतिः ॥ 267
तत्र्यंशकविलुप्ता वा चतुर्थांशोज्झिताथ वा ।
परिवारवशेनैव चातुरात्म्यस्य वै पुनः॥ 268
अलुप्तांशं च विहितपीठयामं च सर्वदिक् ।
चतुर्दिग्दृग्गतस्यैव एकदिग्दृग्गतस्य च ॥ 269
तदेव दैर्घ्यं द्विगुणं लाञ्छनैरावृतस्य च ।
सार्धं चानावृतस्यैव तद्बाहुळ्यं पुरोदितम् ॥ 270
चतुष्कमेकपीठानां केवलं लक्ष्मवर्जितम् ।
एकैकं लक्ष्मभेदेन तत्सङ्ख्यं वित्त वै पुनः ॥ 271
अनन्तासनमाद्यं च द्वितीयं पक्षमन्दिरम् ।
कमलाङ्कं तृतीयं तु चतुर्थं चक्रभूषितम् ॥ 272
एवं हि सर्वसामान्यं पीठानां हि द्विरष्टकम् ।
भेदभिन्नं समासेन पुनरेव निबोधत ॥ 273
दिक्षु लक्ष्माणि पीठानां वित्त कण्ठगतानि च ।
अन्योन्यसन्निवेशाच्च तेषां बह्वात्मना पुनः ॥ 274
चक्राम्बुजाभ्यां तत्स्थाभ्यां लुप्ताभ्यामथ तत्स्थितेः ।
ताभ्यामन्योन्ययोगाच्च दिक्ष्वनन्तखगाश्रयात् ॥ 275
द्विद्व्यात्मना द्व्यात्मना वा बहुत्वमवधार्यताम् ।
पद्मेनोर्ध्वगतेनैव द्वयं चक्रेण तद्बहिः ॥ 276
एवं ह्यधोगतेनैव परिज्ञेयं द्वयं द्वयम् ।
उपरिष्ठात्तु पद्माभ्यामधश्चक्रं द्वयं द्वयम् ॥ 277
द्वितयव्ययाच्चान्यत्परिज्ञेयं मुनीश्वराः ।
अन्तर्बहिः स्थितिवशाच्चक्रपद्मद्वयस्य च ॥ 278
व्यत्ययादनयोर्वित्त ऊर्ध्वभागाच्चतुष्टयम् ।
अधोभागादेवमेव चतुष्कमपरं तु वै ॥ 279
पीठानामष्टकमिदमधस्तादूर्ध्वतस्तु वा ।
युक्तमेकेन वै कुर्याच्चक्रेण कमलेन वा ॥ 280
चक्राकारस्तु विहिता ह्येकभ्रमसमाश्रिताः ।
बहवोऽपि तलास्तद्वदीषद्वै कर्णिकान्विताः ॥ 281
इति लाञ्छनसञ्चारो बहुधा तन्मयोदितम् ।

[[225]] यस्मिन् प्रकृतिभूते तु पीठे तदधुनोच्यते ॥ 282
कृत्वा द्विर्दशधा पीठं पुरायामात्समैः पदैः ।
एकेन चरणं जङ्घाकलशौ च त्रिभिस्त्रिभिः ॥ 283
कण्ठवीथीमथैकेन षड्भिः कण्ठं तदूर्ध्वतः ।
भागेन कण्ठसूत्रं तु शुक्तिकांशत्रयेण तु ॥ 284
उष्णीषं च तदूर्ध्वे तु कुर्यादंशत्रयेण वै ।
निर्गमः स्वदळेनैव विहितश्चरणस्य तु ॥ 285
चतुर्दिक्षु महात्मानः क्षेत्रतो ह्यधिकः स्मृतः ।
सर्ववृत्तं घटं कुर्यात्पल्लवैर्वारकैर्युतम् ॥ 286
परितोंशद्वयेनैव कर्णपीठं प्रवेशयेत् ।
अन्तः प्रवेशमेकेन वीथ्यंशेन गलस्य च ॥ 287
कुर्याद्गलप्रवेशस्य समां सूत्रस्य निःसृताम् ।
शुक्तेरधः कण्ठसूत्रभागात्पादेन निर्मितम् ॥ 288
वदनान्तं समासेन शक्तेः सङ्कोचमाचरेत् ।
उष्णूषघटजङ्घानामश्रिसाम्यं यथास्थिताम् ॥ 289
घटवद्भूषयेच्छुक्तिमरकैर्वाब्जपल्लवैः ।
तत्रोपरिष्टात्परिधिः चतुरंशकसम्मितम् ॥ 290
सन्त्यज्य निखिनेद्द्रोणीमंशनिम्नां समन्ततः ।
विस्तृतेर्मध्यभागेऽथ स्वत्र्यंशेन च निर्गमम् ॥ 291
तन्मानं चतुरश्रं तु पीठक्षेत्राद्विनिर्गतम् ।
तच्चाग्रतस्त्रिधा कृत्वा पक्षभागौ क्षयं नयेत् ॥ 292
अनुपादेन चामूलात्सम्यक् लाङ्गलवक्त्रवत् ।
अग्रतो मूलदेशाच्च कृत्वादौ वै त्रिधा त्रिधा ॥ 293
भूयस्तन्निख्नेन्मध्याज्जलं याति यथा द्रुतम् ।
सुकराननतुल्यं तु भवत्येवं मुनीश्वराः ॥ 294
कुर्याद्वै शङ्खसदृशं मकरास्योपमं तु वा ।
जलनिर्गममेतद्वै पीठेषूदितलक्षणम् ॥ 295
नकुर्यात्कर्मबिम्बानामशमादिमितात्मनाम् ।
चित्रमृत्काष्टजानां तु चलानां तु विशेषतः ॥ 296
तथैव चतुरश्रस्य चतुर्मूर्तिगतस्य च ।
प्रणाळमग्रगं मूर्तेर्यतः संसिद्धिहानिकृत् ॥ 297
प्रयोजनं विना काचिन् न क्षतिस्तस्य तद्विना ।
सामान्यस्य तु वै यस्मादाधारस्य विशेषतः ॥ 298
सप्रणालं भवेत्पीठमासनं च प्रणालकम् ।
भूरि नीरादिना स्नानं यत्र यच्छति साधकः ॥ 299
प्रत्यहं तद्विना तत्र प्रत्यवायो भवेत् स्फुटम् ।
एवमेव बृहद्बिम्बं भूषितानां विधीयते ॥ 300
धातुशैलोत्थितानां च निमित्तस्नपनार्थतः ।
भद्रासनगते कर्मबिम्बे तस्य समाचरेत् ॥ 301
सततं च यथालभं दधेक्षीरघृतादिना ।
तोयेन तन्नयेद्यत्नाद्भूभागं वा प्रतिग्रहम् ॥ 302
यथा नाक्रम्यते पादैः जन्तुभिस्तन्महर्धिदम् ।

[[226]] अतः प्रणालं विहितं निषिद्धमद् एव हि ॥ 303
जन्मान्तं वा जगत्यन्तं कैरवान्तं गळान्तकम् ॥
पट्टिमध्यस्तलं पञ्चभेदं सर्वेषु धामसु । 304 ।
तत्संस्थापनकाले तु देवानां दिद्ग्द्वये हितम् ।
प्राक्प्रत्यगाननणां च तदुदग्दिग्गतं शुभम् । 305 ।
उदग्दक्षिणवक्त्राणां प्राग्भागे विहितं सदा ।
तत्पुनर्भद्रपीठीय देवाद्वामेऽर्थसिद्धिकृत् । 306 ।
सदैवाराधकानां तु विलोमाद्विपरीदतम् ।
इत्येवं पीठलक्ष्मापि समासात्कथितं मया । 307 ।
इति याम् प्रतिमालक्षणं नाम सप्तदशोऽध्यायः