१६

षोडशोऽध्यायः 16 – प्रासाद लक्षणप्रतिष्ठा विधिः मुनयः ।
भगवन्मुनिशार्दूल! सर्वज्ञ! वदतां वर! ।
प्रतिष्ठा मन्त्रबिम्बस्य कथं कार्या ? नरोत्तमैः ॥ 1॥
प्रासादस्य च बिम्बस्य पीठादेर्लक्षणं कथम् ? ।
तत्सर्वं विस्तरेणैव वदस्व कृपयाधुना ॥ 2॥
नारदः ।
शृणुध्वं मुनयः! सर्वे सावधानेन चेतसा ।
मन्त्रबिम्बप्रतिष्ठाया विधानं लक्षणादिकम् ॥ 3॥
तत्सर्वं देवदेवेन सात्वतादिषु कीर्तितम् ।
तेषां सारं समुद्धृत्य प्रवक्ष्यामि समासतः ॥ 4॥
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा भगवन्मयः ।
श्रद्धाभक्तिसमायुक्तः सम्पन्नः शान्तमानसः ॥ 5॥
आस्तिकः सत्यसन्धश्च सदाचारसमन्वितः ।
आचार्यं वरयेत्पूर्वं भगवच्छास्त्रकोविदम् ॥ 6॥
तत्वज्ञं भगवद्भक्तं भगवद्वंशसम्भवम् ।
आचार्यो यजमानश्च सह सम्मन्त्य शिल्पिभिः॥ 7॥
पुण्ये देशेऽनुकूले च मनोज्ञे साधुसेविते ।
मृद्वारिफलपष्पाड्ये कुशेन्धनसमन्विते ॥ 8॥
गोसस्यशालिसुभगे क्षुद्रप्राणिविवर्जिते ।
पर्वताग्रे च तन्मध्ये सानुदेशे द्विजोचिते ॥ 9॥
भूगते तु वने रम्ये पादपौषधिसङ्कुले ।
भद्रे चोपवने ह्यद्य प्रशस्ते कमलान्विते ॥ 10॥
कूलेषु निम्नगानां च तासामपि च सङ्गमे ।
समीपे पुण्यतीर्थानां सुस्थिरे सारसङ्कुले ॥ 11॥

[[195]] दुष्टप्राणिविनिर्मुक्ते चोरातङ्कभयोज्झिते ।
सर्वदोषविनिर्मुक्ते देशे दिव्ये मनोहरे ॥ 12॥
भुवं परीक्ष्य तत्रादौ शास्त्रदृष्टेन वर्त्मना ।
ततः परं द्विजश्रेष्ठाः! क्ष्मापरिग्रहमाचरेत् ॥ 13॥
क्ष्मापरिग्रहपूर्वाणामारम्भे सर्वकर्मणाम् ।
द्वादशाक्षरपूर्वैस्तु मन्त्रैः सर्वेश्वरः पुरा ॥ 14॥
आराध्यो भगवान्भक्त्या वेद्यां वा कलशे स्थले ।
सन्तर्प्याज्यादिकैर्भक्त्या मन्त्रैः श्रुतिमयैस्ततः ॥ 15॥
भगवान् विश्वकर्मात्मा सगणेशं तु याजयेत् ।
विविधैरुपचारैस्तु पुष्पधूपानुलेपनैः ॥ 16॥
विसर्जने कृते विष्णोः सानले कमलोद्भव! ।
शिल्पिनो यत्र ये दक्षाः मान्यास्ते तदनन्तरम् ॥ 17॥
यथा प्रसन्नबुद्ध्या तु शश्वन्निर्वर्तयन्ति च ।
तैरपि प्रयतैः स्नातैस्तर्पणीयः स्वकः पतिः ॥ 18॥
ततः परिगृहीतव्यं क्षेत्रं त्वभिमतं द्विजाः! ।
अभुक्तमथवा भुक्तं वसुधागुणलक्षितम् ॥ 19॥
निश्शल्यमनुकूलं च स्थपतीनां च सम्मतम् ।
समादाय प्रतिष्ठार्थं यथाभिमतविस्तृतम् ॥ 20॥
महेन्द्रोपाम्पतिर्वायुर्वित्तपेशानदिक्षु च ।
पदमासाद्य वै कुर्याद्दिव्याद्यायतनाश्रितम् ॥ 21॥
पञ्चायतनपूर्वं तु शुभं देवगृहं महत् ।
सिद्धये तत्स्वमार्गात्तु विमार्गात्तदसिद्धये ॥ 22॥
एतावदर्थानान्मुक्तमतोन्येषां तु दोषकृत् ।
स्वमार्गं परमार्गं वा येषां सर्वगतो हरिः ॥ 23॥
स्फुरत्यविरतं बुद्धौ गुरुं तं शास्त्रतः स्वयम् ।
शुभेनुकूले नक्षत्रे नमस्कृत्याच्युतं विभुम् ॥ 24 ॥
निर्वर्त्य नित्यं विघ्नेशपूर्वमर्चपयेद्विजाः! ।
सह चैकायनैश्चान्यैः ऋग्यजुस्सामपाठकैः ॥ 25॥
सालङ्कारैश्च सोष्णीषैः सिताम्बरधरैस्तथा ।
समालभनमाल्यैश्च भूषितैः साङ्कुळीयकैः ॥ 26॥
शङ्खवादित्रनिर्घोषैर्गीतिभिर्माङ्गळीयकैः ।
फलपुष्पाक्षतकरो लाजसिद्धार्थकादिकम् ॥ 27॥
समादाय शुचिः कर्ता देशिकेन सह द्विजाः! ।
स्थानमासाद्य सर्वेषां वासुदेवं हृदि स्मरन् ॥ 28॥
पुण्याहं वाचयित्वा तु पूर्वोक्तविधिना ततः ।
जपन्नष्टाक्षरं तिष्ठन् कर्तास्ते देशिकस्ततः ॥ 29॥
बहिः क्षेत्रस्य चैशान्यां प्राच्यां वा मुनिपुङ्गवाः! ।
ततां पर्णकुटीं कृत्वा वातवृष्टिक्षमां शुभाम् ॥ 30॥
तत्र पुष्पार्घ्यधूपाद्यं कृत्वा वै भद्रपीठगम् ।
पञ्चगव्यं समापाद्य सार्धं मन्त्रैर्विलक्षणैः ॥ 31॥
नारयणमपां र्मूीन्त हेमाद्ये कुतपे शुभे ।
सन्निधीकृत्य सम्पूज्य सरित्तीर्थाम्बुपूरिते ॥ 32॥

[[196]] हेमसर्वौषधीरत्नदर्भवर्गस्रगन्विते ।
मन्त्रास्त्रकलशाभ्यां तु सम्पाद्य रचनां ततः ॥ 33॥
साधारमासनं ताभ्यां ध्यात्वा कुर्यात्तदर्चनम् ।
हृदि मन्त्रेश्वरं सास्त्रं पूजयित्वा यथाविधि ॥ 34॥
न्यस्तव्यमासने कौम्भे प्रणवं नमसा सह ।
सौम्यनाडीपथा चैव ततो ह्यस्त्रं समन्त्रराट् ॥ 35॥
दक्षिणेन तु मार्गेण त्वपसव्यघटे विभोः ।
अवतार्य ज्वलद्रूपं दहन्तं विघ्नसञ्चयान् ॥ 36॥
मन्त्रत्रयं तु सामान्यं सर्वत्र विहितं द्विजाः! ।
षडष्टाक्षरमन्त्रं यत्तथा वै द्वादशाक्षरम् ॥ 37॥
हेतीशं यत्सहस्रारं परिज्ञेयं तथायुधम् ।
कृतदीक्षेण यल्लब्धं सुप्रसन्नाच्च वै गुरोः ॥ 38॥
अस्त्रं तदङ्गमापाद्यं सविशेषमिदं शुभम् ।
साङ्गं समर्चयित्वा तु भोगैर्मात्रावसानकैः ॥ 39॥
सत्सूक्तैर्यजुभिः सामैर्यथावसरलक्षणैः ।
व्यञ्जकैरथ सर्वेशमथ होमं समाचरेत् ॥ 40॥
सहस्रशतसङ्ख्यं यत्पूर्णान्तं साक्षतैस्तिलैः।
कुण्डे मन्त्रास्त्रदिक्पूते एवं कुर्यात्तु देशिकः ॥ 41॥
स्थलेषु वालुकाद्येषु प्रागादौ विनिवेश्य च ।
चत्वारश्चातुरात्मीयाः मन्त्रज्ञाः कृतमण्डनाः ॥ 42॥
ऋग्वेदाद्याश्चतस्रो ये ईशाद्वायुपथावधि ।
भक्त्यानयां परा योज्या होमार्थं क्षेत्रसङ्ग्रहे ॥ 43॥
होतव्यं भूमिलिङ्गैस्तैर्मन्त्रैराज्यादिकं बहु ।
चतुर्भिश्चातुरात्मीयैर्द्विषट्कार्णपुरस्सरैः ॥ 44॥
होतव्यमपरैर्विप्रैः स्मरन् सर्वेश्वरं हरिम् ।
उपद्रष्टा चतुष्कोणे एकैकं विनियोज्य च ॥ 45॥
होमार्थं सर्वकुण्डेषु मन्त्रविन्यस्तविग्रहम् ।
शुचयः संयता दक्षा वास्तुशास्त्रकृतश्रमान् ॥ 46॥
विश्वकर्मकुलोद्भूतानाहूयाग्रे निवेश्य च ।
पञ्चगव्यादिनाभ्युक्ष्य सिताम्बरधरांस्तु वै ॥ 47॥
माल्यचन्दनसूष्णीषैः भूषितानङ्गुळीयकैः ।
संवीक्ष्य पावनीकृत्य ह्यादाय घटिकान्वितम् ॥ 48॥
कार्पासं सुदृढं सूत्रं सहस्राराभिमन्त्रितम् ।
स्थपतीनां करे दद्यात्सह चैकशलाकया ॥ 49॥
प्रोक्षितान् पञ्चगव्येन सहस्राराभिमन्त्रितान् ।
विकीर्य लाजसम्मिश्रान् बीजान् सिद्धार्थकान्वितान् ॥50॥
जपन्नस्त्रं सचक्रं च त्रिधा कुर्यात्प्रदक्षिणम् ।
प्राक्पदात्तत्पदं यावत्सह घण्टारवैः शुभैः ॥ 51॥
क्षेत्रमानमथादाय करैरभिमतैस्ततः ।
शिष्यदेशिककर्तृस्थैर्विश्वकर्मांशजैस्तु वा ॥ 52॥
ईशकोणादि तत्सूत्रं चतुर्दिक्षु प्रसार्य च ।
शङ्कुभिर्यज्ञदारूत्थैर्मुद्रयेच्च दिशाष्टकम् ॥ 53॥

[[197]] ततो भूतबलिं दद्यात्प्रादक्षिण्येन बुद्धिमान् ।
तिलपिष्टं निशाचूर्णं सलाजं दधिसक्तुकम् ॥ 54॥
भूतक्रुरमिति प्रोक्तं तेन भूतबलिं हरेत् ।
भूतनि राक्षसा वापि यत्र तिष्टन्ति के चन ॥ 55॥
ते सर्वेद्यापगच्छन्तु स्थानं कुर्यामिमं हरेः ।
शलवेत्रलताचर्मपुञ्जाद्यैर्ग्रथितान् द्रुमान् ॥ 56॥
मृदङ्गोर्वासमाकारान् पाण्डुमृद्ग्रहणक्षमान् ।
न चाङ्गहोमाः स्युस्तीक्ष्णान् कुद्दालख्यान् खनित्रकान् ॥ 57॥
सुदृढान् यज्ञकाष्ठोत्थान् हस्तिपादांश्च पूजयेत् ।
क्षेत्रब्रह्मपदे स्थित्वा यथाभिमतदिम्मुखः ॥ 58॥
संस्मृत्य द्वादशार्णेन भगवान् भूतभावनः ।
अधिभूताधिदैवाख्यं स्मरेदध्यात्मलक्षणम् ॥ 59॥
सप्तद्वीपवतीं तत्र समुद्रादिसमन्विताम् ।
सप्तपाताळसहितां भूतैर्युक्तां नरादिकैः ॥ 60॥
शक्तिभिः शब्दनिष्ठाभिः सर्वगाभिः समावृताम् ।
ब्रह्मबीजसमेतेन लकारेण सबिन्दुना ॥ 61॥
स्वयं ज्ञाननियुक्तेन मानयित्वा पुरा ततः ।
भावयित्वाधिभूतत्वमधिदैवमतः स्मरेत् ॥ 62॥
सामर्थ्यं यद्भगवतो विष्णोः सर्वेश्वरस्य च ।
परमध्यात्मरूपं च वाराहं वैष्णवं महत् ॥ 63॥
एतावदुक्तं सामान्यं ध्यानं क्षितिपरिग्रहे ।
देवालयवशादन्यद्विशेषं चात्र संस्मरेत् ॥ 64॥
चतुरश्रे चतुर्मूर्तिव्यक्तिव्यूहं विचिन्त्य च ।
चतुरश्रायते ध्यायेद्दिव्यं विद्यागमाभिधम् ॥ 65॥
वृते शान्तोदितं चक्रं संवृतावयवं स्मरेत् ।
अनन्तशयनं देवं ध्यायेद्वृत्तायते गृहे ॥ 66॥
पुर्यष्टकं यदमलं कालपुष्करदेहभृत् ।
नाभिरन्ध्रोद्भवं विष्णोः स्थितमष्टदिगात्मनाम् ॥ 67॥
देवालये तथाष्टाश्रे स्मर्तव्यं वसुधागृहम् ।
ध्यात्वैवं द्वादशार्णेन मन्त्रेणैव पुनः पुनः ॥ 68॥
षडक्षरेण संरोध्य् मुद्रां बध्वा तथाच्युतम् ।
अभिध्यानसमाधानाद्यावत्कलशसन्निधिम् ॥ 69॥
प्राग्वद्विलक्षणैर्भोगैः अथाष्टार्णेन पूजयेत् ।
सह विप्रैः स्वयं दद्यादग्नौ पूर्णाहुतिं पुनः ॥ 70॥
सर्वकर्मसमाप्त्यर्थं क्षेत्रे क्षेत्रीकृते सती ।
कुर्यात्पादप्रतिष्ठां वै सुशुभे दिवसेऽपरे ॥ 71॥
अथ कर्मकरा दक्षाः नियोक्तव्याः क्रमणे तु ।
सन्तोष्य चान्नपानाद्यैस्तोषमायान्ति वै यथा ॥ 72॥
एवं परिगृहीते तु क्ष्मांशे शल्योज्झिते सति ।
आघृष्टे सापला बाला वसुधा वसुभूमिदा ॥ 73॥
शुद्धिं सापेक्षते किञ्चित्कृत्रिमामुदपासर ।
यावन्नोपवनस्तां तु चिररूढैर्महाद्रुमैः ॥ 74॥

[[198]] सङ्कीर्णा तत्प्रसूतैश्च मूलैर्व्याप्ता निरन्तरैः ।
ज्ञातं तस्यापि बालत्वं शुद्धिर्वै भाविनी स्मृता ॥ 75॥
त्यक्ता सरित्प्रवाहैर्न नगरग्रामदेशिका ।
महान्तं प्रेक्षते शुद्धिं भुक्ता सा बहुशो यतः ॥ 76॥
खात्वा वैभावमुद्धृत्य यावदभ्येति मृच्छुभाम् ।
सितामशर्करां स्निग्धां जलान्तं निखनेत वा ॥ 77॥
दृष्ट्वा जलं समभ्यर्च्य तर्पयेद्यादसां पतिम् ।
नागनाथसमोपेतं सुरसङ्घमतः स्थितम् ॥ 78॥
स्थित्यर्थमुपलैः सर्वैः सह सम्पूर्यते मृदा ।
मृदोपलैश्च सम्पूर्य जातिषु स्निग्धया तया ॥ 79॥
आकोट्य पौनःपुण्येन बालाद्वै वारिसेचनात् ।
समीकृत्योपलिप्याथ गोगणांस्तत्र वासयेत् ॥ 80॥
बालवत्ससमेतं च वृक्षेन्द्रगणसंयुतम् ।
सतोयाः शालयश्चैव प्रभूततृणसञ्चयम् ॥ 81॥
विकीर्य सलिलं तत्र सन्त्यक्ते गोमयादिके ।
अपास्य गोगणं तत्र त्रिदिनान्ते पुनर्महीम् ॥ 82॥
शोधयित्वा चतुर्थेह्नि लाङ्गलैः परिवर्तितम् ।
प्रदीप्तेनेष्टकेनाथ स्पर्शनीया च सर्वशः ॥ 83॥
ततः काञ्चनजं रेणुं ताम्रतारमयं त्वपि ।
रत्नजं गन्धमाल्याड्यं सस्यशालिफलान्वितम् ॥ 84॥
सुपुष्पाक्षतलाजाड्यं सिद्धार्थैश्च तिलैर्युतम् ।
श्रीकरं पञ्चगव्येन भूमौ सर्वत्र सेचयेत् ॥ 85॥
अकृते वा कृते खाते शुद्धिमेति च तत्क्षणात् ।
यस्मात्तस्मादिदं सम्यग्यत्रकुत्र समाचरेत् ॥ 86॥
ततो भुवं समीकृत्य गोमयेनोपलिप्य च ।
समर्चयित्वा विधिवत्ततो दिक्सिद्धिमाचरेत् ॥ 87॥
शास्त्रदृष्टेन मार्गेण शङ्कुसंस्थापनादिकम् ।
कृत्वा यथोक्तविधिना प्रासादं कर्तुमाभरेत् ॥ 88॥
आरभ्यमाणे प्रासादे ये वै प्रत्यूहकारिणः ।
भूतदानवयक्षाश्च राक्षसास्तत्प्रशान्तये ॥ 89॥
बालालये देवदेवं प्रतिष्ठाप्य यथाविधि ।
अर्चयेद्विविधैर्भोगैर्यावद्वै मूलमन्दिरे ॥ 90॥
स्थापनं देवदेवस्य तदन्ते बालबिम्बगाम् ।
शक्तिं कुम्भे समावाह्य मूलबिम्बे समर्पयेत् ॥ 91॥
एवं बालगृहे विष्णौ पूजिते मुनिपुङ्गवाः! ।
प्रत्यूहकारिणः सर्वे प्रणश्यन्ति ततो गुरुः ॥ 92॥
शुभे दिनेनूकूले च नक्षत्रे पूजितग्रहे ।
लग्ने स्थिरे स्थिरांशे च दृक्शुद्धे चोत्तरायणे ॥ 93॥
दिव्याद्युत्पातसंशुद्धे सितपक्षेऽमलेऽम्बरे ।
आजलान्तं कृते खाते पूर्ववत्सम्प्रपूरिते ॥ 94॥
विमुक्तदोषे भूभागे सर्वलक्षणलक्षिते ।
पूरणादंशशेषे तु सूपलिप्ते धरातले ॥ 95॥

[[199]] चतुप्षष्टिपदे भूते प्राग्वत्सूत्रेण सर्वदिक् ।
स्नातः शुक्लाम्बरः स्रग्वी कृतन्यासः सुशान्तधीः ॥96॥
सर्वसाधनसंयुक्तश्चार्घ्यपात्रसमन्वितः ।
माङ्गल्यकुम्भमादाय ध्यायमानोऽच्युतं हृदि ॥ 97॥
सह चैकायनैर्विप्रैः! सदागमपरायणैः ।
तथा ऋ॒म्मयपूर्वैस्तु आमूलाद्भगबन्मयैः ॥ 98॥
विशेत्प्रासादभूभागं मध्ये कुम्भं निधाय तम् ।
कुर्यान्निरीक्षणं भूमेस्ताडनं प्रोक्षणं तथा ॥ 99॥
सेचनं पञ्चगव्येन सह चास्त्रोदकेन तु ।
ओङ्काराद्यं पवित्रान्तं मन्त्राणां प्राक् चतुष्टयम् ॥ 100॥
पाठयेच्च सपुण्याहं ब्राह्मणान् कृतमङ्गळान् ।
बह्वृचान् शाकुनं सूक्तं ततो भद्रं यजुर्मयान् ॥ 101॥
इडामयेति सामज्ञान् शान्ताद्यौरित्यथर्वणान् ।
ईशकोणात्समारभ्य प्रागादौ प्रतिपङ्क्तिषु ॥ 102॥
द्वादशाक्षरमन्त्रेण स्वनाम्ना तु पदे पदे ।
नतिप्रणवगर्भेण दैवतं देहलक्षणम् ॥ 103॥
यष्टव्यो वास्तुपुरुषो दधिस्रक्वन्दनादिना ।
सात्विकेनोपहारेण अग्नौ सन्तर्पयेत्ततः ॥ 104॥
यद्वा विध्यन्तरं भूयः शृणुध्वं मुनिपुङ्गवाः! ।
सर्वदिक्षु समैर्भागैर्नवधा संविभज्य च ॥ 105॥
सूत्रैः सुधावलिप्तैश्च यागागास्वसुन्धराम् ।
एकाशीतिपदोपेतां कृत्वैतां सम्प्रयत्नतः ॥ 106॥
प्रत्येकस्मिन् पदे कुर्यात्तत्तुर्यांशेन चाम्बुजम् ।
दळाष्टकयुतं चैव कर्णिकाकेसरान्वितम् ॥ 107॥
अग्नीशरक्षोवायव्यबहिः कोणपदेषु च ।
चतुष्टयं यत्पद्मानां केवलं तच्चतुर्दुळम् ॥ 108॥
ईशानपदपद्मात्तु समारभ्य प्रपूजयेत् ।
बाह्यपङ्क्तिषु पद्मेषु क्रमाद्देवासुरान् ऋषीन् ॥ 109॥
वृषाङ्कपदपद्मे तु ब्रह्माणं कर्णिकान्तरे ।
ईश्वरं तपनं चैव दितिं चैव तथाऽदितिम् ॥ 110॥
पूर्वपत्रं समारभ्य विन्यसेद्याबदुत्तरम् ।
एवं तस्मिन् पदाब्जे तु पूजयित्वा तु पञ्चकम् ॥ 111॥
यष्टव्यं च ततः सम्यग्विबुधानां च सप्तकम् ।
क्रमात्सप्तपदस्थानां पद्मानां कर्णिकोपरि ॥ 112॥
वाय्वाख्यं चापवत्सं च जयेन्द्रः समरीयकः ।
रविः सत्यात्मदेवौ च ततो वह्निपदाम्बुजे ॥ 113॥
भूयः पितामहं मध्ये पूर्वपत्रे न्यसेद्भृगुम् ।
गगनं हि विभुं पूषा दक्षिणे पश्विमोत्तरे ॥ 114॥
इष्ट्वैवं कोणपद्मेषु पत्रस्थं च चतुष्टयम् ।
यजेद्राक्षसकोणान्तमम्बुजेष्वथ सप्तकम् ॥ 115॥
सवित्राख्यश्च सावित्रः ससैन्यश्च गृहक्षमः ।
विवस्वान् धर्मदेवस्तु गन्धर्वाधिपतिः स्मृतः ॥ 116॥

[[200]] पद्मे नैरृतकोणस्थे भूयो ब्रह्माणमन्तरे । आ भृङ्गाख्यो भृङ्गराट् चैव ततः पितृगणाधिपः ॥ 117॥
दैवदौवारिकाख्यश्च प्राक्पत्रादौ चतुष्टयम् ।
ततोऽष्टपत्रपद्मेषु देवतासप्तकं क्रमात् ॥ 118॥
कर्णिकान्तर्गतं न्यस्य यावद्वायुपदावधि ।
इन्द्र्श्चेन्द्रपदाख्यश्च सुग्रीवः कुसुमद्विजः ॥ 119॥
मित्राख्यो वरुणश्चैव त्वसुराधिपतिः पुनः ।
वायव्यपदपद्मे तु मध्ये चैव प्रजापतिम् ॥ 120॥
प्राक्पूर्वेषु च पत्रेषु शेषश्चाधर्म एव च ।
यन्मयाधिपतिश्चैव नागेन्द्रस्तदनन्तरम् ॥ 121॥
सप्तकं देवतानां च पूर्ववत्पूजयेत्ततः ।
पूर्वाख्यो रुद्रदासश्च मुखो भल्लकसोमकौ ॥ 122॥
धाराधरश्च मत्सञ्ज्ञा इत्येतद्देवतागणम् ।
पूजयित्वा ततः पश्चादेकैकस्मिंस्तु पङ्कजे ॥ 123॥
स्वनाम्ना वास्तुनाथं तु पत्रमध्ये स्थितं यजेत् ।
कोणभागस्थपद्मानां केसराधो यजेच्च तम् ॥ 124॥
प्रणवं वास्तुनाथाय नमश्चान्ते प्रपूजयेत् ।
पूजयित्वा विधानेन पुष्पधूपादिकेन च ॥ 125॥
दधिक्षीरोदकेनैव भक्ष्यैः सफलमूलकैः ।
इष्ट्वैवं विबुधव्रातं बाह्ये त्वावरणे पुरा ॥ 126॥
तदन्तरपदाब्जानामीशकोणादितः पुनः ।
यावन्मध्यपदाब्जं तु पूर्व वर्णाष्टकेन तु ॥ 127॥
मातृकावर्णभेदेन अकारादिक्रमेण तु ।
यावद्धकारवर्णं तु ततोऽब्जदळेषु च ॥ 128॥
तेनैव क्रमयोगेन पूजयेद्देवतागणम् ।
द्वितीयावरणे चैव अन्तरीये निबोधत ॥ 129॥
धाता याता ध्रुवः कालः कामः कर्ता जयन्तकः ।
जीवः प्राणस्तरो यज्ञो रविश्च मृगयाम्यकौ ॥ 130॥
लोकनाथो विधाता वै भृगुः स्रष्टा नियामकः ।
मनोजवश्च कल्याणः पर्जन्यो द्रविणस्ततः ॥ 131॥
स्रष्टारो विश्वकर्मा च इत्येता मुनिपुङ्गवः! ।
देवताश्चान्तरे पूज्याश्चर्तुींवशतिसङ्ख्यया ॥ 132॥
एतेषामन्तरे भूयस्तृतीयावरणे तथा ।
षोडशानां ततः सम्यग्देवतानां गणं क्रमात् ॥ 133॥
समुद्रा मातरो द्वीपा मासा नद्यश्च तारकाः ।
विश्वे देवाश्चाप्सरसो मनवो ऋषयस्तथा ॥ 134॥
वसवो मरुतः सिद्धा नागाः साध्या ग्रहाः क्रमात् ।
इन्द्रादिलोकपालांस्तु चतुर्थावरणे न्यसेत् ॥ 135॥
तत्पादादौ तु चेशान्तं पद्मानां पत्रमध्यतः ।
मध्यपद्मे तु पद्मस्थं विश्वरूपं यजेत्प्रभुम् ॥ 136॥
यस्यैवं देवताचक्रं वाहनास्त्रानुयायिभिः ।
संयुक्तं तिष्टते देहे सकलस्य माहात्मनः ॥ 137॥

[[201]] प्रणवेन स्वनाम्ना च नमस्कारयुतेन तु ।
एकैकं पूजयेद्देवं तथैकैकमिहाक्षरम् ॥ 138॥
इष्ट्वैवं देवताः प्राग्वदग्नौ सन्तर्पयेत्ततः ।
कुर्यात्कुम्भप्रतिष्ठानं यथा तदवधार्यताम् ॥ 139॥
पूर्ववत्तोरणाद्यैस्तु भूभागमुपशोभयेत् ।
निर्णिक्तालयवक्त्रस्य अग्रतस्तत्क्षितेर्बहिः ॥ 140॥
पूर्वोपकरणोपेतं कुर्यान्मण्डलमुत्तमम् ।
कुण्डाष्टकान्तरस्थं च स्थलं तत्राष्टहस्तकम् ॥ 141॥
सपिण्डिका द्विहस्तास्तु कुण्डाः पूर्वोक्तलक्षणाः ।
त्रिहस्तपरिता वीथिस्यादेवं द्विनवः शमः ॥ 142॥
पूर्ववत्प्रतिकुण्डे तु विनिवेश्य च साधनम् ।
आत्मनश्चोत्तरे कुर्यात्कुण्डं चाथ समस्थले ॥ 143॥
दक्षिणे पूर्ववद्देवमवतार्य यजेत्क्रमात् ।
स्थलायां स्थण्डिलस्योर्ध्वे उन्नतायां च पूर्ववत् ॥ 144॥
तर्पयित्वा यथाकाममुद्धृत्याग्निगणं ततः ।
दिक्कुण्डेषु विनिक्षिप्य संस्कृतेषु च पूर्ववत् ॥ 145॥
तथैव च विदिक्स्थेषु उद्धृत्याभ्यर्च्य वै क्रमात् ।
ततः प्रभवयोगेन चतुर्दिक्षु निवेशयेत् ॥ 146॥
चतुरो वासुदेवादीन् नाम्ना एकायनान् द्विजान् ।
स्वाभिः स्वाभिरसङ्ख्यं तु तैः कार्यमभिधाय व ॥ 147॥
कर्मावसानं हवनं साज्यैस्तु तिलतण्डुलैः ।
एवमप्यययोगेन वाय्वादीशानगोचरम् ॥ 148॥
ऋग्वेदाद्यांस्तु चतुरः संस्कृत्यादौ तथा न्यसेत् ।
तैरप्यच्युतलिङ्गैस्तु स्वशाखोक्तैश्च पावनैः ॥ 149॥
हवनं विधिवत्कार्यं भक्तियुक्तेन चेतसा ।
अथेशकोणमासाद्य ब्राह्मणैरपरैः सह ॥ 150॥
प्रान्निर्दिष्टं न्यसेत्तत्र स्नानोपकरणं तु यत् ।
दशार्धगव्यपूर्वं तु कलशेषु पृथक् पृथक् ॥ 151॥
तानर्च्यार्घ्यादिना पश्चाद्द्विषट्केनाभिमन्त्य च ।
समानीय शिलोपेतान् कलशान् पूर्वसम्भृतान् ॥ 152॥
उत्कृष्टधातुसम्भूतान् नव शैलमयांस्तु वा ।
समान् सुपक्वान् सुघनान् मृण्मयांस्तदभावतः ॥ 153॥
द्वादशाङ्गुळविस्तीर्णान् तन्मानेन तु चोन्नतान् ।
द्विगुणान् सति सामर्थ्ये नृपाणां हेमजान् हितान् ॥154॥
तत्सङ्ख्यं चतुरश्रं तु द्वादशाङ्गुळविस्तृतम् ।
तत्त्यंशतुल्यं बाहुल्याच्छिलाबृन्दं समाहरेत् ॥ 155॥
संस्थाप्य विधिवत्कुम्भान् पूर्वोक्तेन क्रमेण तु ।
कम्बुतुल्यमथैकं वा तत्कण्ठं त्र्यङ्गुळोन्नतम् ॥ 156॥
तद्गुणैरपि विस्तीर्णं तत्खातोऽष्टाङ्गुळः स्मृतः ।
परितः कर्णवर्जन्तु शङ्खो वा सुसितो महान् ॥ 157॥
विहितो हत नासस्तु अन्तः शुद्धस्तु साक्षतः ।
एवं हि सान्तराद्बाह्यात्समालभ्याधिवास्य च ॥ 158॥

[[202]] फलैर्हेमादिकै रत्नैः सर्वौषधिमयैस्ततः ।
गन्धैर्बीजैस्तथा धान्यैर्विद्रुमाद्यैस्तु मौक्तिकैः ॥159॥
नेत्रवस्त्रैरलङ्कारैर्भूषयेत्स्रग्वरैः शुभैः ।
द्वादशाक्षरमन्त्रेण एकैकस्य समाचरेत् ॥ 160॥
मूर्तिसंसिद्धये न्यासं प्रणवैस्तच्चिदात्मनाम् ।
ततश्चार्घ्यादिकैर्भोगैर्बल्यन्तैर्विविधैर्यजेत् ॥ 161॥
शिलास्वेवं कृतेः पश्चान्निनयेत्कुण्डसन्निधिम् ।
सशिलं कुम्भबृन्दं तु आधारेषूपरि न्यसेत् ॥ 162॥
तदाधारशिलां पश्चात्तत्र वा मण्टपाद्बहिः ।
एवमेव च संस्कृत्य भावयेत्प्रणवेन तु ॥ 163॥
ज्वलन्तीं गोसहस्रेण खचितां सूर्यबिम्बवत् ।
ततश्चाराध्य मन्त्रं तु सन्तर्प्य शतसङ्ख्यया ॥ 164॥
मध्ये तत्कलशं न्यस्य साङ्गं सपरिवारकम् ।
निश्शेषशक्तिगर्भं तु व्यापकं ब्रह्मतत्ववित् ॥ 165॥
अत उर्ध्वे तिर्यगाभिर्वागाद्याभिश्च शक्तिभिः ।
व्रतमूर्तिसमेताभिरभिन्नाभिस्तु तत्वतः ॥ 166॥
पाठयेद्ब्राह्मणान् तत्र आत्मव्यूहं तु मन्त्रराट् ।
तथैवात्मानुवादं च प्रणवाद्यन्तगन्तु वै ॥ 167॥
तमर्चयित्वा विधिवत्तर्पयित्वा त्वनन्तरम् ।
दिक्स्थितानां च कुम्भानां वासुदेवादिकान् न्यसेत् ॥ 168॥
पूर्वक्च्चानिरुद्धाद्यान् विदिक्संस्थापितेषु च ।
पाठयेच्चातुरात्मीयं सञ्ज्ञामन्त्रचतुष्टयम् ॥ 169॥
प्रभावाप्यययोगेन ततः सूक्तं तु पौरुषम् ।
ऋग्वेदान् पाठयेद्भक्त्या युञ्जतेत्यपरान् यजुः ॥ 170॥
रथन्तराख्यं यत्साम सामज्ञान् भगवन्मयान् ।
सहस्रशिरसं चेति मन्त्रं चाथर्वणं ततः ॥ 171॥
एकस्मिन् वा मुनिश्रेष्ठाः! सर्वोक्तं कलशे हितम् ।
तथैव हवनं कुण्डे मध्यमे विहितं स्वयम् ॥ 172॥
किं तु क्रमेण वै मन्त्रान् पाठयेच्च यथास्थितान् ।
एवं सम्पातहोमं तु कृत्वा पूर्णान्तिकं ततः ॥ 173॥
महाशक्तिसमूहस्तु परः सामर्थ्यलक्षणः ।
अभेदेन च मन्त्रादिमूर्तीनां यः स्थितः स्फुटम् ॥ 174॥
ससन्धेयः शिलानां च स्वनाम्ना प्रणवेन तु ।
ज्ञानभासा निवसति तथा नन्दबला प्रभा ॥ 175॥
सर्वगा ब्रह्मवदना द्योतकी सत्यविक्रमा ।
सम्पूर्णा चेति कथिताः शक्तयो विश्वधारिकाः ॥ 176॥
या शिला कलशाधारसञ्ज्ञा तां विद्धि सर्वगाम् ।
सामर्थ्यशक्तिसामान्यां निष्कळां पारमेश्वरीम् ॥ 177॥
सन्तर्प्य मूलमन्त्राच्च शिखामन्त्रेण लाङ्गलिन् ! ।
अजस्यनाभावध्येकमन्त्रेणैकायनैस्ततः ॥ 178॥
तादर्थ्येन तु होतव्यं मृण्मयैस्तु तथैव हि ।
होतव्यमस्य वाग्मीयं गायत्रीभिरतोपरैः ॥ 179॥

[[203]] होतव्यं ब्राह्मणैः सम्यक्तद्व्याप्तेरुपलक्षकैः ।
दत्वा पूर्णां स्वयं कृत्वा स्थलस्थस्यार्चनं पुनः ॥ 180॥
बलिदानं च भूतानां समाचम्य ततो व्रजेत् ।
प्रासादब्रह्मभूभागं न्यसेत्तत्र महाशिलाम् ॥ 181॥
संस्मरंश्चक्रमन्त्रं तु सानन्तं प्रणवेन वै ।
बीजभूतं तदन्तःस्थमध्वषट्कं स्मरन् यजेत् ॥ 182॥
निश्शेषमन्त्रबृन्देन तामर्घ्यादेरनन्तरम् ।
द्वारदिग्वीक्षमाणं तु मध्ये मन्त्रघटं न्यसेत् ॥ 183॥
स्वदिक्ष्वन्यान्यथावस्थान् स्वैः स्वैर्मन्त्रैर्निवेशयेत् ।
ततः स्वशक्तिपाषाणैरेकैकं स्थगयेद्घटम् ॥ 184॥
पूरयेदस्त्रमत्रेण घटानामन्तरं ततः ।
मृदुमृद्वालुकाभिस्तु सुधयाऽचलसिद्धये ॥ 185॥
संवेष्ट्य नेत्रवस्त्रैस्तु ऋग्वेदान् पाठयेत्ततः ।
आत्वा हार्षेति सूक्तं तु प्रतिष्ठासाम सामगान् ॥ 186॥
द्वादशाक्षरसंयुक्तं बलमन्त्रं पुनः पुनः ।
वक्तव्यं ब्रह्मनिष्ठैस्तु प्रणवान्तं सुभावितैः ॥ 187॥
तदेकतनुतां यातं संस्मरेत्प्रणवेन तु ।
मूर्त्यादिशक्तिनिष्ठं यन्नामरूपक्रियात्मकम् ॥ 188॥
द्वादशाक्षरमन्त्रेण भूयः सहृदयङ्गमैः ।
मन्त्राराध्यं खर्मूीन्त तु संस्मरेत्तेजसां निधिम् ॥ 189॥
ततस्त्वोम्भगवन्भोगैः पाठयेत्पाञ्चरात्रिकान् ।
अर्चामितेति ऋग्वेदान् अर्चासाम च तद्विदः ॥190॥
ततः परिगृहीते तु क्षेत्रे देवगृहीयके ।
द्वादशाङ्गुळमानं तु दिग्विदिक्ष्वष्टकं न्यसेत् ॥ 191॥
स्नापितं पूजितं सम्यक् शिष्याणां शुभलक्षणम् ।
तदन्तः सन्निरोद्धव्यो बुद्धिधर्मगुणः क्रमात् ॥ 192॥
धर्माद्याश्चाग्निकोणात्तु यावदीशपदं पुनः ।
प्रागादावुत्तरान्तं च अधर्माद्यं चतुष्टयम् ॥ 193॥
शिलानामन्तरे भूमौ षट्कं षट्कं क्रमेण तु ।
न्यस्तव्यं पूर्ववर्णाच्च वर्णानां सावसानकम् ॥ 194॥
शब्दब्रह्मानुविद्धां च कृत्वैवं बुद्धिवागुराम् ।
सूत्रभूतां न्यसेत्सम्यक् प्रासादतलसंस्थिताम् ॥195॥
न्यसेत्प्राङ्गणभित्त्यर्थं तथैव हि शिलाष्टकम् ।
तासु संरोधयेत्सम्यक् प्रागुक्तांस्तु दिगीश्वरान् ॥ 196॥
चक्रं तदन्तभूमीनां भ्रमद्वह्रिस्फुलिङ्गवत् ।
क्षार्णेन चिन्तयेद्व्याप्तं भूभागं चाङ्कणीयकम् ॥ 197॥
आभोगं तदधः शेषं तदूर्ध्वे गगनेश्वरम् ।
बहिः प्राङ्गणभित्तीनां सास्त्रं सपरिवारकम् ॥ 198॥
प्रागादावीशकोणान्तमिन्द्राद्यं चाष्टकं न्यसेत् ।
तथाविधेषूपलेषु अन्तर्भूमिगतेषु च ॥ 199॥
तत्स्वनाम्नाऽर्चयित्वा तु ऋग्वेदान् पाठयेत्ततः ।
क्लीबो न विद्वानिति वै ये देवास्तु यजुर्मयान् ॥ 200॥

[[204]] देवव्रतं च सामज्ञान् प्रविश्याभ्यन्तरं ततः ।
स्थित्वाग्रतो मन्त्रमूर्तेरध्वव्याप्तिमनुस्मरेत् ॥ 201॥
बीजतश्चाङ्कुरीभूता पुरस्ताद्व्यक्तिमेति सा ।
प्रासादपीठपर्यन्तं कुम्भाधारोपलात्तु वै ॥ 202॥
भुवनाध्वा यथावस्थो भावनीयस्तु सर्वदा ।
गर्भोच्छ्रयावधिर्यावत्पदाध्वानं विलोकयेत् ॥ 203॥
मन्त्राध्वा शुकनासान्तं तत्त्वाध्वा वेदिकावधि ।
कलाध्वा तु गळान्तं च वर्णाध्वा तु तदूर्ध्वतः ॥ 204॥
समीकृय पुरा सर्वं प्रासादं प्रारभेत्ततः ।
प्रासादस्थैर्यसिध्यर्थं देवसान्निध्यसिद्धये ॥ 205॥
सर्वदोषप्रशान्त्यर्थं सर्वसम्पत्तिसिद्धये ।
गर्भन्यासं पुरा कुर्याद्गर्भगेहे यथाविधि ॥ 206॥
रत्नैर्लोहैस्तथा बीजैः कन्दैर्मुद्गैश्च पूरिताम् ।
सौवर्णीं राजतीं वाऽथ ताम्रजां वा स्वशक्तितः ॥ 207॥
नवगर्तसमायुक्तां मञ्जूषां सापिधानकाम् ।
सम्प्रोक्ष्य चास्त्रतोयेन वस्त्रयुग्मेन वेष्टयेत् ॥ 208॥
धान्यराशौ तु विन्यस्य मूलमन्त्रेण देशिकः ।
अर्घ्यगन्धादिनाभ्यर्च्य कुण्डे वा स्थण्डिलेपि वा 209॥
देवमभ्यर्च्य विधिवत्समिद्भिः सप्तभिः क्रमात् ।
हुत्वा पूर्णाहुतिं पश्चादाचार्यः समुपोषितः ॥ 210॥
शुभ्रवस्त्रोत्तरीयश्च भूषणैरपि भूषितः ।
गन्धमाल्यालङ्कृताङ्गः रात्रौ लग्ने सुशोभने ॥ 211॥
भाजनं तत्समादाय वेदघोषैश्च मङ्गळैः ।
वाद्यघोषैश्च सहितः कृत्वा गेहं प्रदक्षिणम् ॥ 212॥
प्रविश्य गर्भभूभागं तत्र द्वारस्य दक्षिणे ।
कृतं श्वभ्रं पञ्चगव्यैः सेचयित्वा समन्ततः ॥ 213॥
तत्र भूमिं तु चार्घ्याद्यैः समभ्यर्च्य ततस्तु ताम् ।
परिचिन्त्य ऋतुस्नातामात्मानं च हरिं स्मरन् ॥ 214॥
सर्वभूतधरे! कान्ते! पर्वतस्तनमण्डिते ।
समुद्रपरिधानीये! देवि! गर्भं समाश्रय ॥ 215॥
इत्युक्त्वा भाजनं श्वभ्रे निधाय सुधया ततः ।
दृढीकृत्य ततः श्वभ्रं मृदापूर्यं समन्ततः ॥ 216॥
त्रिचतुः पञ्चरात्रं वा रक्षां कुर्यान्मुनीश्वरः! ।
गर्भन्यासस्त्वयं विप्राः! देवधाम्नाश्च वृद्धिदः ॥ 217॥
अकृते गर्भविन्यासे प्रत्यवायो महान् स्मृतः ।
तस्मात्सर्वप्रयत्नेन गर्भन्यासं समाचरेत् ॥ 218॥
प्रासादस्याथ वक्ष्यामि लक्षणं मुनिपुङ्गवाः! ।
तलादूनाधिकाच्चैव साङ्गुळैरुचितैः करैः ॥ 219॥
द्विद्वादशकरं यावत्तलेनोनाधिकेन तु ।
शुभाय सिद्धये विद्धिगर्भं देवगृहस्य च ॥ 220॥
कृत्वा क्षेत्राङ्गुळानां च कराणां वा घनं पुरा ।
त्यजेत्तदष्टभिः सम्यग्यच्छेषं तद्विचार्य च ॥ 221॥

[[205]] एकाद्यष्टमपर्यन्ता ध्वजधूममृगेश्वराः ।
श्वा च गोखरमातङ्गवायसास्तु ततः शुभाः ॥ 222॥
एकत्रिपञ्चसप्ताख्याः सर्वत्रैव विधीयते ।
एवमन्तर्भ्रमेणैव सह भित्तिगणेन तु ॥ 223॥
गर्भद्विगुणविस्तीर्णं क्षेत्रं देवगृहस्य च ।
मन्दिरे त्वेकभित्तीये क्षेत्रमानं विधीयते ॥ 224॥
गर्भोक्तं तत्त्रिभागेन युक्तं युक्तेन वर्त्मना ।
तत्रापि ह्रासवृद्ध्या तु आयशुद्धिं विचारयेत् ॥ 225॥
एवं निर्जगतीकं च भागपीठं विवर्जितम् ।
प्रासादक्षेत्रमानं च तद्युक्तमवधार्यताम् ॥ 226॥
षड् भागेनाथ पादेन त्रिभागेनोभयात्मिका ।
अधिकार्धं चतुर्दिक्षु तत्पञ्चांशैस्तु वै त्रिभिः ॥ 227॥
तृतीयांशेन वै मध्ये निर्गमस्तु विधीयते ।
कोणात्कोणात्तु वै शेषं भागं भागं प्रवेशयेत् ॥ 228॥
उच्चं गर्भसमं पीठं तत्पीठेन दळेन वा ।
पीठोक्तालयपीठस्य लक्ष्मस्थित्यंशकल्पना ॥ 229॥
चतुर्दिक्षु विधेया वै बहुधानन्तपूर्विका ।
अथोच्छ्रायं तु वै क्षेत्रात् त्रिकोणं मन्दिरस्य च ॥ 230॥
कुर्याद् त्र्यर्धगुणं चैव द्विगुणं वा यथेच्छया ।
द्विरेकादशधा कुर्यात्तं च भागैः समं पुरा ॥ 231॥
विधेयं पीठवत्पञ्चादेकांशेन मसूरकम् ।
तदूर्ध्वे विहिता जङ्घा गर्भमानेन चोन्नता ॥ 232॥
भवोपकरणीयाभिर्देवताभिरलङ्कृता ।
जङ्घायामंशयुग्मेन उपर्यूनाधिकेन वै ॥ 233॥
कार्यं शिखरपीठं तु पूर्वलक्षणलक्षितम् ।
किं तु प्रवेशनिर्यासौ तत्र चार्धांशसम्मितौ ॥ 234॥
शिखरं चात्र विहितं भूमिकानवकान्वितम् ।
सङ्कोच्य तत्पुरा सूत्रमादायोन्नतिसम्मितम् ॥ 235॥
एतस्मादेकवर्णात्तु जङ्घोर्ध्वीयात्प्रसार्य च ।
संस्पृशेच्छिखरं पीठमञ्जसा तन्निरोध्य च ॥ 236॥
प्रासादाद्बहिराद्यत्र भूभागे त्वमलेक्षण! ।
कर्णादूर्ध्वं नयेत्सूत्रं लाञ्च्छ्यमानं क्रमेण तु ॥ 237॥
शिखरोन्नतिपर्यन्तं चतुर्दिक्ष्वेवमेवहि ।
पर्यटेल्लाञ्छ्यमानं तु कर्णात्कर्णं मुनीश्वराः! ॥ 238॥
यावत्कुमुदपत्राभा सा स्याच्छिखरमञ्जरी ।
एवमालेख्यदृष्ट्या तु सम्पाद्यातन्तुपाततः ॥ 239॥
भूमिकाण्डप्रसिध्यर्थं कार्या सा दशधा पुनः ।
उपरिष्टात्तु भागेन भवेदामलसारकम् ॥ 240॥
भूमयो भागमानास्तु ततस्तासां समाचरेत् ।
क्षयवृद्ध्या विधानं तु तद्द्विरष्टांशसम्मितम् ॥ 241॥
विभिन्ना पीठरचना तासु कार्या यथास्थिता ।
सचक्रैर्विविधैः पद्मैः प्रादुर्भावैस्तु चाखिलैः ॥ 242॥

[[206]] सर्वैर्वा लाञ्छनैर्मूर्तैः नृत्तगीतरसस्थितैः ।
नवांशेनोर्ध्वभागात्तु स्वपादेन विनिर्गतम् ॥ 243॥
उष्णीषमूर्ध्वभूमेस्तु कार्यं वै रचनोज्झितम् ।
शिष्टं कृत्वा त्रिधा पीठं मण्डलस्थेन पूर्ववत् ॥ 244॥
द्वितीयेन ततः कण्ठं तृतीयेनोर्ध्वगेन तु ।
सुसमं श्रीयुतं कुर्यादण्डं धात्रीफलाण्डवत् ॥ 245॥
नवधोष्णीषकं कृत्वा चतुर्भिर्वेदिकाभ्रमम् ।
त्रिभागपृथुभागेन सस्तम्भा ह्यथ केवला ॥ 246॥
उन्नता शिखरार्धेन साप्युत्पलदळोपमा ।
कार्या शिखरपीठोर्ध्वे दिव्यकर्मविभूषिता ॥ 247॥
ततः शुभतरं कुर्यान्मण्टपं स्तम्भसंयुतम् ।
भूषितं विहगेन्द्रेण बलिमण्डलगेन तु ॥ 248॥
चतुर्द्वारे तथा दिक्षु विधेयं मण्टपत्रयम् ।
प्रवेशत्रितयोपेतं मण्टपे मण्टपं भवेत् ॥ 249॥
कुर्यान्मण्टपमुक्तं वा यथाभिमतनिर्गमम् ।
रथोपरथकाद्यं तु तेषां गर्भाद्विधीयते ॥ 250॥
निर्यासो दशमांशेन द्वादशांशेन लाङ्गलिन् ! ।
अथवा षोडशांशेन ते कार्या नेमिवत्पुनः ॥ 251॥
चतुर्दिक्पक्षसंलिप्ताः पीठकर्मविभूषिताः ।
शिखरस्य चतुर्दिक्षु पीठोपरि समापयेत् ॥ 252॥
समं रथकयुक्त्या तु नासिकामञ्जरीगणम् ।
मध्यदेशचतुर्दिक्षु कुर्याद्द्वारगणं समम् ॥ 253॥
त्रिचतुः पञ्चषड्भागे ततो गर्भाद्विधीयते ।
द्विगुणं चोन्नतत्वेन त्रिपञ्चनवशाखिकम् ॥ 254॥
युक्तं द्वार्स्थद्वयेनैव कुम्भेभदशनैस्तु वा ।
विधिवत् स्थापनं तस्य मन्त्रपूर्वं समाचरेत् ॥ 255॥
संस्नाप्य मूलमन्त्रेण सम्पूज्यार्घ्यादिना हृदा ।
शाखामूलगतां कुर्याद्धातुरत्नमयीं स्थितम् ॥ 256॥
सर्वाधारमयं मन्त्रं सन्निरोध्य हि तत्र च ।
ज्ञानक्रियात्मकं ध्यात्वा शिखामन्त्रेण शाश्वतम् ॥ 257॥
दक्षिणोत्तरभागाभ्यां शाखायुग्मं तु विन्यसेत् ।
हृन्मन्त्रेण तदूर्ध्वे तु रुध्वाद्यं परमेश्वरम् ॥ 258॥
सन्निधीकृत्य सम्पूज्य गगनस्थे ह्युदुम्बरे ।
द्विविधं धातुजालं तु रत्नं सिद्धार्थकान् तिलान् ॥ 259॥
चन्दनाद्या हि गन्धा ये क्षीरं दधि घृतं मधु ।
शालयः सर्वबीजानि सर्वौषध्यः सविद्रुमाः ॥ 260॥
कृत्वा नेत्रेण नेत्रस्थान् द्वारोर्ध्वे विनिवेश्य तान् ।
दृश्यं भोगाप्तये चैव त्वदृश्यं मोक्षसिद्धये ॥ 261॥
चतुष्पात्सकलो धर्मः तदूर्ध्वे सन्निरोध्य च ।
चत्वारि शृङ्गा इति यत् पाठयेदृम्मयांस्ततः ॥ 262॥
कर्महोमचयं कृत्वा पूर्णां मूलेन पातयेत् ।
एतद्बिम्बप्रतिष्ठानात्प्राग्वत्पश्चात्समाचरेत् ॥ 263॥

[[207]] स्थित्यपेक्षावशेनैव ह्यालयस्य तु वै विभोः ।
अनन्तभुवनं नाम सर्वकामापवर्गदम् ॥ 264॥
चतुष्प्रकारमेवं हि प्रसादं विद्धि पीठवत् ।
रचनासन्निवेशोत्थभेदेनानेकधा तथा ॥ 265॥
पतत्रीशमृगेन्द्रैस्तु निधिभूतोपमैर्घटैः ।
शङ्खपद्माङ्किताभिस्तु सोपानपदपङ्क्तिभिः ॥ 266॥
युक्तं द्वारवशेनैव तथा पीठवशात्तु वै ।
विस्तारः प्रतिदिक्संस्थस्त्वरुणस्य विधीयते ॥ 267॥
गर्भोत्थक्षेत्रसञ्ज्ञा च जगतीकस्य लाङ्गलिन् ! ।
ज्ञेयः सजगतीकस्य तन्मानेनापि सर्वदिक् ॥ 268॥
एभ्यः पादादिकं कुर्यात्पादाद्यंशोज्झितं तु वै ।
बुध्वा चायतनानां च संस्थितश्चाङ्गणे पुरा ॥ 269॥
चतुरायतनं ह्येतत्प्रासादैः दिक् त्रयस्थितैः ।
आद्येन सह कोणस्थैः तत्पञ्चायतनं स्मृतम् ॥ 270॥
विज्ञेयमष्टायतनं त्रिभिरन्यैस्तु दिग्गतैः ।
विना मध्यस्थितेनैव दिग्गतैस्तु द्विभिर्द्विभिः ॥ 271॥
तद्दशायतनं तेन युक्तमेकाधिकं भवेत् ।
प्रतोळीपक्षगेनैव प्रासादद्वितयेन तु ॥ 272॥
द्वादशायतनं ह्येतत्सह मध्यस्थितेन तु ।
तदेवाधिकसञ्ज्ञं तु अतोन्येऽनन्तसञ्ज्ञिकः ॥ 273॥
परस्परमुखौ कुर्यात्प्रासादौ द्वारदेशगौ ।
प्रासादाभिमुखाच्चैव दिक्त्रयेऽवस्थितास्तु ये ॥ 274॥
कोणस्थाभ्यां च साम्मुख्यं द्वाभ्यां द्वाभ्यां विधीयते ।
द्वाभ्यां चभिमताभ्यां तु कुर्यादुचितदिम्मुखम् ॥ 275॥
द्वौ परस्परवक्त्रौ तु कोणदेशसमाश्रितौ ।
द्वाराण्यनन्तायतने प्रासादानां मुनीश्वराः ॥ 276॥
यथाभिमतदिक्स्थानि कर्तव्यान्यविशङ्कया ।
न तत्र तेषां भवति वेधदोषः परस्परम् ॥ 277॥
अङ्गभावगतत्वाच्च प्रधानायतनस्य वै ।
अर्धेन च त्रिभागेन हितः पादेन चाङ्गणात् ॥ 278॥
परण्डकस्य चोच्छ्रायस्तद्विस्तारस्तथोच्छ्रितेः ।
तच्च पीठोपमं कुर्यात् श्लक्ष्णं सोष्णीषमेव वा ॥ 279॥
युक्तं कोटिगणेनाथ नानादेवान्तगेन तु ।
यदेकायतनं चैव त्वङ्गणं तन्मुनीश्वराः ॥ 280॥
युक्तं लघुपरण्डेन केवलं वा परण्डकम् ।
यदा द्व्यायतनाद्यं च द्वादशायतनान्तिमम् ॥ 281॥
एकदिग्वीक्षमाणं च चतुरश्रायतेऽङ्गणे ।
वृत्तायते वा वितते प्रासादे चोक्तलक्षणे ॥ 282॥
यस्माद्देवालयानां च अङ्गणानां विशेषतः ।
चतुरश्रादिपीठानां नित्यमेव मुनीश्वराः! ॥ 283॥
अन्योन्यानुगतत्वं तु हितं वापेक्षिकं तु वै ।
भूमिभागवशेनैव तथैवार्चावशेन तु ॥ 284॥

[[208]] नानाफलवशेनापि तथा शोभावशेन च ।
भूलाभश्चतुरश्रात्तु चतुरश्रायताद्घनम् ॥ 285॥
वर्तुलात्सर्वकामाप्तिर्निर्वृतिस्तु तदायतात् ।
दृष्टादृष्टफलेप्सूनां लोकास्तु महदादयः ॥ 286॥
यच्छन्ति वैष्णवं स्थानमारोग्यं भूतिमुत्तमाम् ।
वैष्णवानामकामानां च्युतेरन्ते परं पदम् ॥ 287॥
मुनयः ।
प्रासादलक्षणमिदं श्रुतं त्वत्तो मुनीश्वर ! ।
तस्य संस्थापनविधिं विस्तरेण प्रकाशय ॥ 288॥
नारदः ।
प्रासादादिप्रतिष्ठानां शृणुध्वं विधिमुत्तमम् ।
प्रासादस्याग्रतः कृत्वा पूर्ववद्यागमण्टपम् ॥ 289॥
सर्वोपकरणैर्युक्तं सर्वलक्षणसंयुतम् ।
प्रासादस्यापि परितः कुर्यात्कुण्डाष्टकं गुरुः ॥ 290॥
सामग्र्यादेरभावे तु प्रासादाग्रप्रकल्पिते ।
यागमण्टपभूभागे कुण्डमेकं प्रकल्पयेत् ॥ 291॥
समस्तमूर्तिपीयं च होमं तत्रैव कल्पयेत् ।
प्रासादस्थापनारम्भात्तृतीये पञ्चमेपि वा ॥ 292॥
दिवसे त्वङ्कुरारोपं यथाविधि समाचरेत् ।
शैलोत्थं पूर्ववत्कुम्भं कृत्वा धातुमयं तु वा ॥ 293॥
तद्विगोळकमानेन मन्त्रबिम्बेन वै सह ।
शुभेऽन्यस्मिन् दिने यागमण्टपे ह्युक्तलक्षणे ॥ 294॥
अधिवास्य यथान्यायं सर्वोपकरणान्वितम् ।
स्नानाद्यमखिलं ताभ्यामापाद्य च यथाविधि ॥ 295॥
तस्मिन् रत्नादिसन्तुक्ते बिम्बं कुम्भे निवेश्य च ।
वस्त्रैराभरणैः पुष्पैश्छन्नं कृत्वार्घ्यपुष्पवत् ॥ 296॥
शनैः प्रासादपर्यङ्कमारुहेन्मूर्तिपैः सह ।
तत्र प्राक्ताड्नादींस्तु कुर्यात्सङ्क्षाळनादिकान् ॥ 297॥
आचरेद्रत्नविन्यासं सर्वं वाऽऽवाहनोदितम् ।
निवेशनीयमित्येव बिम्बं कुम्भसमन्वितम् ॥ 298॥
हृदाद्यन्तनिरुद्धेन मूलमन्त्रेण लाङ्गलिन् ! ।
तत्राद्यमनुसन्धानमेकं कृत्वा परान्वितम् ॥ 299॥
सामान्यलक्षणं पश्चात्पूर्वोक्तं वै कलात्मकम् ।
सम्पूज्य वाससाच्छाद्य सुधया व्यक्ततां नयेत् ॥ 300॥
ततः पिण्डं तदूर्ध्वे तु साण्डं कुर्याद्यथोदितम् ।
प्रासादं स्नापयेत्पश्चात् षड्भिः सिधार्थकादिभिः ॥ 301॥
सुधामयं चेत्प्रासादं दर्पणे स्नानमाचरेत् ।
समालभ्यार्चयित्वा च स्रगाद्यैर्मण्डयेत्ततः ॥ 302॥
प्रासादपट्टिकायां तु पञ्चविंशतितन्तुभिः ।
बध्वा तु कौतुकं पश्चात्कुर्याच्छायाधिवासनम् ॥ 303॥
स्नपनं दर्पणे कुर्यात्प्राग्वद्देशिकसत्तमः ।
प्रासादस्य चतुर्दिक्षु मूर्तयः कल्पिता यदि ॥ 304॥

[[209]] तेषां नेत्राणि चोन्मील्य यथाविधि मुनीश्वराः! ।
सर्वमन्यद्यथावोगं वक्ष्यमाणेन वर्त्मना ॥ 305॥
प्रासादस्यापि कुर्वीत कूर्चद्वाराधिवासनम् ।
प्रासादस्याग्रपर्यन्तं कुम्भाधारोपलात्तु वै ॥ 306॥
लोकाध्वतत्त्वदेवानां न्यासं प्राग्वत्समाचरेत् ।
दिम्मूर्तिनां तथाऽङ्गेषु मूलमन्त्रादिकान् न्यसेत् ॥ 307॥
कलशे मण्डले चैव प्रासादस्थान् समर्चयेत् ।
प्रासादपरितः कॢप्तकुण्डेष्वग्निं यथाविधि ॥ 308॥
संस्कृत्य वासुदेवादीन् प्रभवाप्यययोगतः ।
सन्तर्पयेद्यथाशास्त्रं यद्वा तत्पुरतः स्थिते ॥ 309॥
कुण्डे तु सकलं होममाचार्यः स्वयमाचरेत् ।
मन्त्रांश्च पाठयेद्विप्रांस्तत्प्रतिष्ठां नयेत्तु वै ॥ 310॥
संरोध्य वर्ममन्त्रं तु तत्र ध्यानधिया स्वयम् ।
पूर्णान्तमखिलं कृत्वा विधिनानेन वै पुनः ॥ 311॥
क्षुरो हरेति वै साम पाठयेत्सामगांस्तु वै ।
चक्रमामलसारस्य मध्यतः सन्निवेशयेत् ॥ 312॥
यथाभिमतरूपं तु दिग्वक्त्रं वाम्बराननम् ।
स्वशक्तिवर्णदण्डस्थं चण्डमार्ताण्डभास्वरम् ॥ 313॥
चक्रमन्त्रं न्यसेत्तस्मिन् वर्णाध्वानं पुरोदितम् ।
गत्यागतिप्रयोगेण प्राक्प्रमेयज्ञलक्षणम् ॥ 314॥
नान्यथावत्पुरा ज्ञात्वा द्रव्यमूर्तिगते विभुम् ।
कुर्यात्ततोध्वसन्धानां नान्यथा तु मुनीश्वराः ! ॥ 315॥
अमलं शान्तसञ्ज्ञं वै तथा शान्तोदितोदितम् ।
एकमेव हि तन्मूर्ति यश्चक्रंवेत्ति तत्वतः ॥ 316॥
सोस्मिन् संसारचक्रे तु सर्वाश्रमनिवासिनाम् ।
सर्वधर्मरतानां च चक्रवर्तित्वमाप्नुयात् ॥ 317॥
यच्छक्तिर्ब्रह्ममूर्त्यैव सिद्धा साक्षान्निराश्रया ।
अन्तर्बहिस्थं सर्वेषां मोक्षदं चामलं स्मृतम् ॥ 318॥
क्षीरोदार्णवतुल्यं यत्सहस्रादित्यसन्निभम् ।
निरङ्गं तीक्ष्णधारं वै तच्छान्ताख्यं हि योगतः ॥ 319॥
यत्तु नानाङ्गभावेन स्वातन्त्यात्स्वयमेव हि ।
सर्वदिक्प्रसृतां कृत्वा स्वात्मवृत्तिं हि वर्तते ॥ 320॥
ईषद्वलयवन्नाभेरराणामन्तरे खवत् ।
शान्तोदितं च तद्विद्धि चक्रमिछाफलप्रदम् ॥ 321॥
यच्छान्तमूर्तौ सम्बन्धः सर्वं कृत्वावतिष्टते ।
प्रवृत्तं नाभिपूर्वं तु उदिताख्यं तु चक्रराट् ॥ 322॥
तस्मिन्नाराधितो मन्त्रस्तद्वै सम्पूजितं स्मृतम् ।
जप्तं सन्तर्पितं भक्त्या सर्वेषां सर्वमृच्छति ॥ 323॥
एवं चाभिमतं चक्रं सर्वविघ्नक्षयङ्करम् ।
प्रतिष्ठाप्य समभ्यर्च्य तस्यैवं समनन्तरम् ॥ 324॥
त्र्यंशेन शिखरादुच्चं खगराड् परिभूषितम् ।
संस्कृत्य ध्वजदण्डं च शिखामन्त्रेण विन्यसेत् ॥ 325॥

[[210]] ततो विविधवर्णं च किङ्किणीगणभूषितम् ।
ध्वजाग्रशिखराग्रं तु यत्तद्दीर्घमकृत्त्रिमम् ॥ 326॥
दैर्घ्याद्वादशमांशेन द्विनवांशेन वा ततम् ।
कृत्वास्त्रसन्निधिं तस्मिन् लाच्छनाख्ये पुरा पटे ॥ 327॥
निवेश्य ध्वजदण्डाग्रे गन्धाद्यैरर्चयेत्ततः ।
सुधामयादिबिम्बानां स्थापने मुनिपुङ्गवाः ॥ 328॥
बिम्बप्रासादयोर्विप्राः ! युगपत् स्थापनं भवेत् ।
प्रासादस्य प्रतिष्ठेत्थं समासात्कीर्तिता मया ॥ 329॥
मण्टपादि प्रतिष्ठां च शृणुध्वं मुनिपुङ्गवाः ! ।
प्रथमं मण्डपं चाग्र्यं तथैवास्थानमण्टपम् ॥ 330॥
प्राकारं पचनावासं कोशागाराम्बरास्पदे ।
पुष्पपानीयशाले च तथा वै यागमण्टपम् ॥ 331॥
धान्यागारादिकं सर्वं सङ्क्षाल्य बहुभिर्जलैः ।
पर्यग्निकरणं चैव मार्जनोल्लेखनादिकम् ॥ 332॥
कारयित्वा द्विजवरैर्गव्यैः सम्प्रोक्ष्य पञ्चभिः ।
वितानाद्यैरलङ्कृत्य मण्टपादीन् विशेषतः ॥ 333॥
प्रधूपयित्वागरुभिर्दीपानारोप्य सर्वतः ।
सुधाचूर्णैरलङ्कृत्य अक्षतान्विकिरेद्भुवि ॥ 334॥
पुण्याहं वाचयित्वा तु वास्तुपूरुषमर्चयेत् ।
धान्यपीठं प्रकल्प्याथ कुम्भं तत्र सलक्षणम् ॥ 335॥
सोपकुम्भं सकरकं न्यस्य प्राग्वत्सलक्षणम् ।
तत्र देवं समभ्यर्च्य साङ्गं सपरिवारकम् ॥ 336॥
कुण्डे वा स्थण्डिले वापि प्रतिष्ठाप्यानलं ततः ।
तत्र देवं तु सन्तर्प्य पूर्णान्तं देशिकोत्तमः ॥ 337॥
सुमुहूर्ते तु सम्प्राप्ते प्रोक्षयेत्कुम्भतोयतः ।
सर्वत्र मूलमन्त्रेण देशिको मन्त्रवित्तमः ॥ 338॥
इत्येवं मण्टपादीनां प्रतिष्ठाविधिरीरितः ।
मण्टपादिप्रतिष्ठायां गोपुरस्थापने तथा ॥ 339॥
क्ष्मापरिग्रहपूर्वं तु गर्भन्यासं समाचरेत् ।
गर्भं तु मण्टपादीनामग्निकोणे तु विन्यसेत् ॥ 340॥
गोपुरस्य भवेद्याम्ये गर्भन्यासो मुनीश्वराः! ।
गोपुरस्य प्रतिष्ठां तु कुर्यात्प्रासादवद्बुधः ॥ 341॥
तत्र वै देवतान्यासे विशेषः कथ्यतेऽधुना ।
शाखामूलादिषु यजेच्चक्राद्यान् धर्मपश्चिमान् ॥ 342॥
कवाटद्वितये पूज्यौ कालाग्निर्बरुणस्तथा ।
न्यसेज्जङ्घासमूहे तु भवोपकरणं महत् ॥ 343॥
मूर्तयः केशवाद्यास्तु जङ्घाग्रोपरि संस्थिताः ।
विन्यसेत्प्रस्तरोद्देशे चक्राद्यायुधसञ्चयम् ॥ 344॥
पूर्ववद्वेदिकाग्रीवाशिखरोद्देशभूमिषु ।
न्यस्या विभवदेवाश्च पद्मनाभान्तिमं द्विजाः! ॥ 345॥
तले तले गोपुरस्य दिम्मूर्तीश्च यथापुरम् ।
प्रासादोक्तविधानेन कल्पयेन्मुनिपुङ्गवाः ! ॥ 346॥

[[211]] ततस्तु कलशाधारवेदिकायास्तले द्विजाः! ।
सुदर्शनं तु षडरं यजेत्कुम्भचतुष्टये ॥ 347॥
वासुदेवादिकाः पूज्याः कुम्भषट्के कृते सति ।
सम्पूज्यं केशवादीनां षट्कं कुम्भाष्टके कृते ॥ 348॥
केशवाद्यष्टकं पूज्यं द्विषट्के द्वादशार्चयेत् ।
युग्मयोगेन कुम्भानां स्थापनं मोक्षकाङ्क्षिणः ॥ 349॥
इतरस्यायुग्मयुक्त्या कुम्भस्थापनमाचरेत् ।
एकरिमन् स्थापिते कुम्भे वासुदेवं समर्चयेत् ॥ 350॥
त्रयादौ केशवादींश्च पूजयेद्विजसत्तमाः! ।
इत्येवं देवतावृन्दं गोपुरे न्यस्य पूजयेत् ॥ 351॥
प्रासादादिप्रतिष्ठाया विधिरेवं मुनीश्वराः! ।
इति यां प्रासादादिप्रतिष्ठाविधिर्नाम षोडशोऽध्यायः ।