पञ्चदशोऽध्यायः
15 - स्नपनविधिः
मुनयः
स्नपनानां विधिं सम्यक्समाख्याहि मुनीश्वर! ।
यद्ज्ञानात्सकलाः पूर्णा नित्यनैमित्तिकाः क्रियाः ॥1
नारदः
शृणुध्वं मुनयः! सर्वे सावधानेन चेतसा ।
विधानं स्नपनानां तु बहुभेदविनिर्मितम् ॥ 2 ॥
प्रासादस्याग्रतः कुर्यान्मण्टपं तु तदर्थतः ।
प्रथमावरणे वापि द्वितीयावरणेपि वा ॥ 3 ॥
तृतीयावरणे वापि चतुर्थे पञ्चमेपि वा ।
आग्नेय्यां दक्षिणस्यां वा नैरृत्यां पश्चिमे तु वा ॥ 4 ॥
वायव्यामुत्तरस्यां वा ऐशान्यां वा यथारुचि ।
कुर्यान्मानादिकं सर्वं यागमण्टपवद्द्विजाः! ॥ 5 ॥
विना यागस्थलं मध्ये वेदीं चापि तदूर्ध्वतः ।
अधिवासश्च कुम्भानां स्थापनं स्नपनं तथा ॥ 6 ॥
युज्यते वै यथैकस्मिन्
तथाभ्यूह्य समाचरेत् ।
आचार्यांश्चतुरो विप्राः! षडष्टौ द्वादशापि वा ॥ 7 ॥
[[174]]
यजमानस्तु वरयेच्छास्त्रज्ञान्
गुरुणा सह ।
प्रवीणांश्च बहुत्वे तु तत्सङ्ख्यानियतिः कृता ॥ 8 ॥
तेषां यथोक्तसङ्ख्यानामभिज्ञानामसन्निधौ ।
तादृशान्
वरयेद्विप्रांश्चतुस्त्रिद्व्येकमेव वा ॥ 9॥
साधकांश्चतुरः षड्वा ह्यष्टौ द्वादश षोडश ।
वरयेच्छास्त्रकुशलान्
प्रवीणानुक्तकर्मसु ॥ 10 ॥
एवं सर्वेषु यागेषु नित्यनैमित्तिकात्मसु ।
आचार्याणां साधकानां सङ्ख्यानियम ईरितः ॥ 11 ॥
सङ्ख्याहीनं न गृह्णीयादापद्यपि कदाचन ।
मोहेन यदि गृह्णीयाद्भयं स्याद्राजराष्ट्रयोः ॥ 12 ॥
प्राम्मुखे मण्टपे भागे तृतीये पश्चिमे स्थिते ।
मध्यसूत्रं समाश्रित्य स्नानपीठं प्रकल्पयेत् ॥ 13 ॥
प्राग्गतं प्रत्यगास्ये तु सौम्यास्ये दक्षिणागतम् ।
तदास्ये चोत्तरासंस्थं यथालक्षणलक्षितम् ॥ 14 ॥
यदा स्नपनबिम्बादौ बिम्बे स्नपनमाचरेत् ।
एवं तदा प्रकुर्वीत मण्टपं द्विजसत्तमाः! ॥ 15 ॥
मूलबिम्बे यदा कुर्यात्तदग्रे मण्टपं तदा ।
तदानीं न तु कुर्वीत स्नानपीठं द्विजोत्तमाः! ॥ 16 ॥
सप्तमे पञ्चमे वापि पूर्वे स्नपनवासरात् ।
तृतीये वा मुनिश्रेष्ठास्तस्मिन्नहनि वा द्विजाः! ॥ 17 ॥
अङ्कुरानर्पयित्वा तु ततः स्नपनमारभेत् ।
यदा पूर्वदिने कुर्यात्कुम्भानामधिवासनम् ॥ 18 ॥
तदानीं पूर्वरात्रौ तु कुर्यात्कौतुकबन्धनम् ।
पूर्वेद्युर्विघ्निते पश्चात्तस्मिन्नहनि वाचरेत् ॥ 19 ॥
यदा कर्मदिने विप्राः! कुर्यात्कुम्भाधिवासनम् ।
तदानीं तु दिने तस्मिन्
कुर्यात्कौतुकबन्धनम् ॥ 20 ॥
ततः प्रभात आचार्यः कृतस्नानः प्रसन्नधीः ।
प्रविश्य मण्टपं सार्धं परिचर्यापरैर्जनैः ॥ 21 ॥
शलाकासहितैर्दर्भैः सहदेवीविमिश्रितैः! ।
मार्जयेत्सर्वतो विप्राः! प्राम्मुखो वाप्युदम्मुखः ॥ 22
आलेपयेद्गोमयेन पूर्वादीशानपश्चिमम् ।
नूतनेनाम्बरेणैव गाळितेन जलेन तु ॥ 23 ॥
प्रोक्षयेत्सर्वदिग्विप्राः! पञ्चगव्यकुशाम्बुभिः ।
एको द्वौ बहवो वापि देशिकाः स्नपने स्मृताः ॥ 24 ॥
नववस्त्रधराः सर्वे सर्वालङ्कारसंयुताः ।
नववस्त्रोत्तरीयाश्च सोष्णीषा गुरुसम्मताः ॥ 25 ॥
नियमस्थास्तु बहवस्तथैव परिचारकाः ।
यद्यद्योग्यं भवेद्विप्राः! स्नपने यत्र यत्र तु ॥ 26 ॥
तत्समस्तं समाहृत्य मण्टपे सम्प्रवेश्य च ।
स्नपनं प्रारभेत्पश्चाद्देशिकः शास्त्रपारगः ॥ 27 ॥
स्नपनं द्विविधं विद्धि परापरविभेदतः ।
परं तु दशधा प्रोक्तं प्रधानादिविभेदतः ॥ 28 ॥
[[175]]
प्रधानं प्रथमं विद्धि द्वितीयं तु परं स्मृतम् ।
तृतीयं परसूक्ष्मं स्यात्परस्थूलं चतुर्थकम् ॥ 29 ॥
पञ्चमं स्यात्सूक्ष्मपरं सूक्ष्मसूक्ष्मं तु षष्टकम् ।
सूक्ष्मस्थूलं सप्तमं स्यात्
स्थूलं स्यात्परमष्टमम् ॥30॥
स्थूलसूक्ष्मं तु नवमं स्थूलस्थूलं तदुत्तरम् ।
उत्तमादिविभेदेन त्वपरं नवधा स्थितम् ॥ 31 ॥
परापरविभेदानामेषां साधारणं स्मृतम् ।
अनन्तकलशं नाम्ना स्नपनं सर्वपूरकम् ॥ 32 ॥
एषां प्रधानपूर्वाणां सूत्रपातपुरस्सरम् ।
सर्वमुद्धारपर्यन्तं क्रमेण शृणुत द्विजाः! ॥ 33 ॥
लोहजं दारुजं वापि मृण्मयं वा सुशोभनम् ।
मण्टपेशानदिग्भागे संस्थाप्य जलभाजनम् ॥ 34 ॥
वेदिं प्रक्षाळ्य तोयेन वस्त्रैः संवेष्ट्य नूतनैः ।
सूत्रपातं ततः कुर्यात्कुम्भसङ्ख्यानुरूपतः ॥ 35 ॥
यथोक्तमानविस्तीर्णं क्षेत्रमण्टपमध्यतः ।
मण्टपस्य तु विप्रेन्द्राः! प्राग्भागमवलम्ब्य वा ॥ 36
स्वीकृत्य पश्चात्प्राक्प्रत्यग्दद्यात्सूत्रचतुष्टयम् ।
दक्षिणोत्तरगं सूत्रपञ्चकं विनिवेशयेत् ॥ 37 ॥
एवं कृते भवन्त्यत्र पदानि द्वादश द्विजाः! ।
एकैकस्य तु विस्तारं तालं प्रादेशमेव वा ॥ 38 ॥
हस्तं वारत्रिमात्रं वा मण्टपस्यानुरूपतः ।
महत्त्वस्य च कुम्भानामेवं सर्वत्र चोर्ध्वतः ॥ 39 ॥
पिष्टचूर्णैरलङ्कृत्य चतुर्दिक्षु समन्ततः ।
कोष्ठेषु पीठिकां कुर्यात्तण्डुलैर्व्रीहिभिस्तु वा ॥ 40 ॥
तासां हि प्रतिकोष्ठं तु कुर्यादाढकसम्मितैः ।
अर्धाधिकैस्त्रिभिः प्रस्थैरथवा केवलैस्त्रिभिः ॥ 41 ॥
अर्धोत्तरेण वा विप्राः! कुर्यात्प्रस्थद्वयेन वा ।
यद्वा प्रस्थद्वयेनैव प्रस्थेनार्धोत्तरेण वा ॥ 42 ॥
प्रस्थेन वा तदर्धेन तत्पादेनाथ वा द्विजाः! ।
तुर्याश्रामथ वा वृत्तां कृत्वैवं पीठिकां ततः ॥ 43 ॥
सौवर्णा राजता ग्राह्यास्ताम्रा वा भेदवर्जिताः ।
श्लक्ष्णा असुषिराः कुम्भाश्चर्तुींवशाङ्गुळोन्नताः ॥ 44 ॥
विस्तृतेर्मध्यतस्तद्वत्तद्गलं त्र्यङ्गुळोन्नतम् ।
ततमङ्गुळिषट्केन तत्रास्यं त्र्यङ्गुळं स्मृतम् ॥ 45 ॥
मेखला परितो ज्ञेया त्र्यङ्गुळा द्विजसत्तमाः! ।
यद्वा तदर्धमानं तु सर्वमुच्छ्रायपूर्वकम् ॥ 46 ॥
यद्वोत्तमोत्तमा विप्राः! द्रोणमानोदपूरकाः ।
तदष्टमांशतो न्यूनाः क्रमात्प्रस्थद्वयावधि ॥ 47 ॥
अधमाधमकुम्भास्तु प्रस्थमात्रोदपूरकाः ।
एवं लक्षणयुक्तास्तु कार्या वित्तानुसारतः ॥ 48 ॥
चक्राधारोपरिस्थास्तु वितताः कमठोदराः ।
पाञ्चजन्यवलिग्रीवाः शतपत्रमुखाननाः ॥ 49 ॥
[[176]]
ऊर्ध्वाधः कौमुदीमालामण्डलालङ्कृता द्विजाः! ।
मकराननशेषाभिरमृताम्बुप्रवाहकाः ॥ 50 ॥
नदीसमुद्रश्रीवृक्षनानामाल्यैः परिष्कृताः ।
चक्राधारादिभिर्यद्वा रहिताः सत्यसम्भवे ॥ 51 ॥
मृण्मया वानुकल्पे तु भेदच्छिद्रविवर्जिताः ।
न द्वितप्ताः सुतप्ताश्च ह्येकवर्णास्तु सुस्वराः ॥ 52 ॥
सङ्गृह्य क्षाळयेत्सम्यक् शुद्धतोयैश्च सर्वतः ।
सूत्रेण वेष्टयेद्यत्नादङ्गुळाङ्गुळमन्तरम् ॥ 53 ॥
पश्चिमे कलशस्थानात्कलशानधिवासयेत् ।
शालिभिः स्थण्डिलं कृत्वा केवले स्थण्डिले तु वा॥ 54
पूर्वाग्रानुत्तराग्रांश्च कुशांस्तत्र परिस्तरेत् ।
तारेण तत्र कलशान्
न्यस्य पुष्पेण पूजयेत् ॥ 55 ॥
अधोमुखांस्तु तानेव न्यस्य पङ्क्तिक्रमेण तु ।
कुशानुपरि संस्तीर्य प्राम्मुखं परमेष्ठिना ॥ 56 ॥
दर्भमुद्रां प्रदर्श्याथ गन्धतोयेन सर्वतः ।
सम्प्रोक्ष्य पुंसा विश्वेन विकिरेदक्षतानि च ॥ 57 ॥
निवृत्या चोन्मुखीकृत्य सर्वेण मुनिपुङ्गवाः! ।
पृथगुद्धृत्य कलशान्
स्वस्थानेषु क्रमान्न्यसेत् ॥ 58
कुम्भन्यासादिकं सर्वं मूलमन्त्रेण वाचरेत् ।
निरीक्षणादिसंशुद्धान्
कृत्वा सहृदयेन तु ॥ 59 ॥
अष्टाक्षरेण मन्त्रेण मन्त्रयेत्तान्
सकृत्सकृत् ।
तेनैव पूजयेत्पश्चादर्घ्यस्रक् चन्दनादिना ॥ 60 ॥
तदाहरणहोमं तु यथाशक्ति समाचरेत् ।
पूर्णान्तमथ सम्पूर्य क्रमाद्द्रव्यैर्नियोजयेत् ॥ 61 ॥
पङ्क्तित्रये पश्चिमादि पूर्वान्तं च चतुश्चतुः ।
तत्र दक्षिणदिक्पङ्क्तौ कलशे पश्चिमस्थिते ॥ 62 ॥
धात्रीफलोदकं चैव लोध्रतोयमनन्तरम् ।
रक्तचन्दनतोयं च रजनीनीरमुत्तमम् ॥ 63 ॥
ततस्तु मध्यपङ्क्तौ तु तथैव विनिवेशयेत् ।
ग्रन्धिपल्लववार्येव ततस्तु तगरोदकम् ॥ 64 ॥
प्रियङ्गुवारि तदनु मांसीजलमतः परम् ।
तथैवोत्तरपङ्क्तौ तु भवेदेतच्चतुष्टयम् ॥ 65 ॥
सिद्धार्थकोदकं चैव सर्वौषधिजलं ततः ।
सर्वरत्नोदकं चैव शुद्धोदकमतः परम् ॥ 66 ॥
न्यसेत्कूर्चं कुशं दार्भमुदग्रं षोडशाङ्गुळम् ।
अङ्गुळं ग्रन्धिमानं तु मूलं वै द्वादशाङ्गुळम् ॥ 67 ॥
शेषमग्रं विजानीयादित्येतत्कूर्चलक्षणम् ।
अथ वार्धाङ्गुळा ग्रन्धिरग्रं वै द्व्यङ्गुळं भवेत् ॥ 68 ॥
मूलं कुर्यात्तु विप्रेन्द्राः! द्वादशाङ्गुळसम्मितम् ।
ब्राह्मणस्य चतुर्दर्भं त्रिदर्भं क्षत्रियस्य तु ॥ 69 ॥
द्विदर्भं तु विशां कूर्चं स्त्रीशूद्राणां तथा भवेत् ।
सर्वेषामथ वा कूर्चं चतुःसप्तकृतं तु वा ॥ 70 ॥
[[177]]
मूलमन्त्रेण तदनु पूजयेत्कलशान्
क्रमात् ।
अर्घ्यालभनपुष्पैश्च धूपेन मुनिपुङ्गवाः! ॥ 71 ॥
अपिधाय क्रमेणैव पिधानैः सूत्रवेष्टितैः ।
प्रतिकुम्भं तु वसनैर्वेष्टयेद्विभवे सति ॥ 72 ॥
आच्छाद्य नववस्त्रेण सर्वतः प्रागुदम्मुखः ।
पूर्ववत्पूजयित्वा तु ततो होमं समारभेत् ॥ 73 ॥
अष्टोत्तरशतं हुत्वा समिदादीन्
पृथक् पृथक् ।
पूर्णाहुतिं ततो हुत्वा कलशानभिमन्त्रयेत् ॥ 74 ॥
मूलमन्त्रेण सर्वेषां स्नपनं विहितं द्विजाः! ।
अन्तरान्तरयोगेन कुम्भैः शुद्धोदपूरितैः ॥ 75 ॥
स्नपनं चार्घ्यदानं च द्रव्याणां तु समाचरेत् ।
द्रव्यन्यासक्रमेणैव तदुद्धारः प्रकीर्तितः ॥ 76 ॥
प्रधानमेतत्कथितं द्विषट्ककलशात्मकम् ।
सर्वेषां कारणमिदं कार्याण्यन्यानि सत्तमाः! ॥ 77 ॥
अम्बुना पञ्चगव्येन क्षीरेण तदनन्तरम् ।
दध्ना घृतेन मधुना सर्वौषधिजलेन तु ॥ 78 ॥
बीजाम्बुफलतोयेन गन्धपुष्पाम्बुना ततः ।
हेमरत्नोदकेनाथ पूरितं तु यथाक्रमम् ॥ 79 ॥
कलशानां द्विषट्कं यत्परमेतदुदाहृतम् ।
पञ्चगव्यदधिक्षीरघृतमध्विक्षुवारिणा ॥ 80 ॥
सर्वौषधीगन्धरत्नफलपुष्पजलैस्तथा ।
केवलेनोदकेनापि क्रमेण परिपूरितम् ॥ 81 ॥
द्विषट्कमेतत्कुम्भानां परसूक्ष्ममुदाहृतम् ।
सूत्रपातादिकं चामिन्
द्वितीयेपि प्रधानवत् ॥ 82 ॥
पाद्यमर्घ्यं तथाचामं सर्वौषधिजलं तथा ।
दधि क्षीरं मधु घृतं तथा शुद्धोदकं द्विजाः! ॥ 83 ॥
कुम्भानां नवकं त्वेतत्परस्थूलमुदाहृतम् ।
सूत्रपातादिकं चास्य प्रागेव परिकीर्तितम् ॥ 84 ॥
पञ्चधा भाजिते क्षेत्रे भागाः स्युः पञ्चविंशतिः ।
बहिः प्रागादियोगेन कलशानां द्विरष्टके ॥ 85 ॥
क्षीरं दधि घृतं चैव मधु वै रसमैक्षवम् ।
धात्रीफलादिदशकं सर्वौषध्यन्तमेव हि ॥ 86 ॥
पत्रोदकं ततः पश्चात्तदन्तः कलशाष्टके ।
प्रागादि पुष्पतोयं च फलबीजोदके त्वथ ॥ 87 ॥
गन्धोदकं च तदनु हेमरत्नजले तथा ।
पुण्यतीर्थसरित्तोये मध्ये शुद्धोदकं न्यसेत् ॥ 88 ॥
द्रव्यन्यासक्रमेणैव तदुद्घार उदाहृतः ।
एवं क्रमाद्द्रव्ययुक्तकलशैर्द्विजसत्तमाः! ॥ 89 ॥
स्नपनं पञ्चविंशद्भिरेतत्सूक्ष्मपरं स्मृतम् ।
पञ्चविंशत्तु कोष्ठानि कल्पयित्वा तु पूर्ववत् ॥ 90 ॥
मध्ये शुद्धोदकं न्यस्य बहिरिन्द्रादियोगतः ।
पूर्वं क्षीराम्भसा पूर्णं परं शुद्धेन वारिणा ॥ 91 ॥
[[178]]
तृतीयं रत्नयोगेन हेमतोयेन चापरम् ।
गन्धाम्बुमिश्रितं चान्ये फलपुष्पोदकान्विते ॥ 92 ॥
शालिबीजाम्भसा पूर्णमष्टमं परिकीर्तितम् ।
कुम्भाष्टकं तु तद्बाह्यदिगष्टकसमाश्रितम् ॥ 93 ॥
धात्रीफलोदकं पूर्वे पथ्यातोयं ततोपरे ।
गुळूचीक्षोदमन्यस्मिन्
विभीतकजलं परे ॥ 94 ॥
कुमारीक्वथितं तोयं व्याघ्रीसलिलमेव च ।
नागरोदकमन्यस्मिन्
तथान्यस्मिन्
मधूदकम् ॥95
विहितोत्र समुद्घारो द्रव्यन्यासक्रमेण तु ।
नृसिंहमन्त्रैर्जप्तेन केवलेनोदकेन तु ॥ 96 ॥
सत्याद्यैः पञ्चभिर्मन्त्रैस्त्रिभिःसिंहादिभिः क्रमात् ।
अन्तरावरणस्थानां कलशानां मुनीश्वराः! ॥ 97 ॥
एकैकं सपृधामन्त्य प्रागादौ तद्बहिःस्थितान् ।
कलशांश्चक्रमन्त्रेण हृदाद्येनाभिमन्त्रयेत् ॥ 98 ॥
गायत्र्यान्तर्गतैर्विप्राः! कलशैः स्नापयेत्क्रमात् ।
द्वितीयावरणस्थैस्तु उपचारा हृदा मताः! ॥ 99 ॥
केवलेनोदकेनाथ अस्त्रजप्तेन सेचयेत् ।
यद्वा प्रागुदितेनैव वर्त्मना सर्वमाचरेत् ॥ 100 ॥
दशभिः सप्तभिः कुम्भैः सूक्ष्मसूक्ष्ममिदं स्मृतम् ।
चतुर्हस्तं त्रिहस्तं वा क्षेत्रं सार्धद्विहस्तकम् ॥ 101 ॥
द्विहस्तं वा समापाद्य तदर्धं तु द्विधा भवेत् ।
एकेन कर्णिकां कुर्याद्द्वितीयेन द्विरष्टकम् ॥ 102 ॥
दळानां तु ततो विप्राः! कर्णिकोपरि विन्यसेत् ।
कलशानां चतुष्कं तु दिक् चतुष्कसमाश्रितम् ॥ 103
पूर्वं तु पञ्चगव्येन ततश्चैव मृदम्बुना ।
सर्वौषध्युदकेनैव केवलेनाम्भसाऽथ च ॥ 104 ॥
पूर्वपात्रात्समारभ्य यावदीशानगोचरम् ।
षोडशान्यान्
प्रतिष्ठाप्य तत्रैव कलशान्
क्रमात् ॥ 105
प्रथमं पञ्चगव्येन केवलेन तु पूरयेत् ।
गोमूत्रेण द्वितीयं तु तृतीयं गोमयाम्बुना ॥ 106 ॥
त्रेताग्निभूतिना विप्राः! चतुर्थं सोदकेन तु ।
गजगोवृषभशृङ्गवल्मीकाख्यमृदा परम् ॥ 107 ॥
शालिक्षेत्रान्नदीमध्यात्पद्मषण्डाच्च पर्वतात् ।
मृद्भिः षष्ठं तु कलशं पूरणीयं ततो द्विजाः! ॥ 108 ॥
सप्तमं सर्षपाम्भोभिः सर्वौषधिभिरष्टमम् ।
क्षीरेण नवमं विद्धि दध्ना दशममुच्यते ॥ 109 ॥
घृतेन चैकादशमं मधुना द्वादशं द्विजाः! ।
सर्वैस्त्रयोदशं बीजैः फलैः सर्वैश्चतुर्दशम् ॥ 110 ॥
समस्तधान्यैरपरं सर्वगन्धैस्तु षोडशम् ।
विहितोत्र समुद्धारो द्रव्यन्यासक्रमेण तु ॥ 111 ॥
हृदाभिमन्त्रितं कृत्वा एकैकं कलशं पुरा ।
स्नापयेन्मूलमन्त्रेण एकैकेन ततः क्रमात् ॥ 112 ॥
[[179]]
इति विंशतिभिः कुम्भैरन्वितं द्विजसत्तमाः! ।
सूक्ष्मस्थूलमिदं प्रोक्तं ततोन्यत्कथ्यते द्विजाः! 113 ॥
प्राक्प्रत्यगायतं सूत्रपञ्चकं विनिवेश्य च ।
दक्षिणोत्तरसूत्राणामेकादश विनिक्षिपेत् ॥ 114 ॥
एवं कृते तु कोष्ठानि चत्वारिंशद्भवन्ति हि ।
तत्र पश्चिमदिक्पङ्क्तेरारभ्य क्रमयोगतः ॥ 115 ॥
दक्षिणादुत्तरान्तं च कलशानां चतुश्चतुः ।
विन्यस्य पूरयेत्तांस्तु क्रमाद्द्रव्यैर्निबोधत ॥ 116 ॥
पाद्यार्घ्याचमनीयार्थद्रव्यैः पूर्वोदितैस्त्रयम् ।
नगादाद्यन्तमध्येभ्यो नदीमृत्तीरसम्भवा ॥ 117 ॥
ह्रदाद्वल्मीकशिखराद्गजदन्तक्षतीकृतात् ।
हलोत्था गोवृषशृङ्गशालीनां तु समुद्भवा ॥ 118 ॥
तथा च पद्मषण्डोत्था त्वेकस्मिन्गोमयं परे ।
वनदाहसमुद्भूतं तथैव च महानसात् ॥ 119 ॥
त्रेताग्निभस्म त्वपरे विनिवेश्य घटान्तरे ।
अन्यस्मिन्
पञ्चगव्यं तु कुशोदकसमन्वितम् ॥ 12 ॥
सघृतं तैलकुम्भं तु चमसीवारिपूरितम् ।
पलाशखादिराश्वत्थशमीलोहितचन्दनम् ॥ 121 ॥
कषायोदकमन्यस्मिन्
परे तु त्रिफलोदकम् ।
वचा शतावरी कन्या व्याघ्री सिंही कृताञ्जलिः ॥122
गोलोमी सिंहलोमी च कुष्ठं भूम्यञ्जनं तथा ।
महागरुडवेगा च कलशेन्यत्र सत्तमाः! ॥ 123 ॥
महानीला गुळूची च सहदेवी शतावरी ।
विष्णुक्रान्ता च कार्कोटा श्र्याह्वा वह्निशिखा परे ॥ 124
यष्टी वराहकर्णी चाप्यन्यस्मिन्
गजपिप्पली ।
श्रीफलाद्यानि चान्यस्मिन्
पावनानि फलानि च ॥ 125
दधिक्षीराज्यकुम्भांश्च द्वौ मध्विक्षुरसान्वितौ ।
मूलान्यम्भोरुहाणां च तान्यन्यस्मिन्
द्वये न्यसेत् ॥126
द्रुमाणां पावनानां तु सक्षीराणां विशेषतः ।
पत्रपुष्पफलोपेतमेकस्मिन्
मञ्जरीगणम् ॥ 127 ॥
जात्यादिकमथैकस्मिन्
कौसुमीयं लताचयम् ।
रोचनारजनीयुग्मं बला मोटाथ पद्मकम् ॥ 128 ॥
इति पञ्चकमन्यस्मिन्
दर्भदूर्वाङ्कुराणि च ।
सास्यं शाल्यङ्कुरचयं कलशे ह्यपरे तु वै ॥ 129 ॥
सिद्धार्थकान्
सिताद्यांस्तु प्रियङ्गुं गन्धसञ्ज्ञितम् ।
अपरस्मिन्
न्यसेत्कुम्भे सह वै नागकेसरैः ॥ 13 ॥
ग्राम्याश्चौषधयः सप्त सप्तारण्या घटद्वये ।
बाह्लीकं चन्दनं चैव रसं कर्पूरमेव च ॥ 131 ॥
चतुष्कमेतदपरे त्वन्यस्मिन्
धातवः शुभाः ।
ताम्रजाम्बूनदाद्यास्तु परे रत्नचयं महत् ॥ 132 ॥
न्यसेद्विद्रुमजालं च र्द्वयोर्मुक्ताफलानि च ।
अर्घ्योदकमथैकस्मिन्
नदीतीर्थोदकं द्वये ॥ 133 ॥
[[180]]
सर्वौषधिघटं चैव सुशीताम्भोघटं ततः ।
सुगन्धपुष्पकलशं चत्वारिंशत्त्वमी स्मृताः ॥ 134 ॥
द्रव्यन्यासक्रमोद्घार इदं स्थूलपरं स्मृतम् ।
शीताम्बुपूरितानां च घटानां केवलं द्विजाः! ॥ 135 ॥
चत्वारिंशत्समायुक्तं स्थूलसूक्ष्मं प्रकाशितम् ।
गन्धोदकेन पूर्णानां चत्वारिंशद्भिरेव च ॥ 136 ॥
समन्वितं घटानां तु स्थूलस्थूलं प्रकीर्तितम् ।
सूत्रपातविधानं च कुम्भन्यासक्रमं तथा ॥ 137 ॥
उद्घारं चानयोः कुर्यात्
स्थूलाद्यसदृशं द्विजाः! ।
भक्तिश्रद्धावशाच्चापि विभवानुगुणं तु वा ॥ 138 ॥
त्रिविधं स्थूलभेदं तु द्विगुणं तु समाचरेत् ।
अनुकल्पे तदर्धं वा पादमष्टांशमेव वा ॥ 139 ॥
चतुष्टयं वा कुम्भानां प्रत्येकं वा द्वयं द्वयम् ।
एकैकं वापि विप्रेन्द्राः! सर्वद्रव्यमयं घटम् ॥ 140 ॥
नवानां परिपूर्णानामुक्तादन्यदपेक्षितम् ।
कुर्यादभ्यूह्य तत्सर्वं प्रधानोदितवर्त्मना ॥ 141 ॥
एवं तु दशधा विप्राः! परभेदाः प्रकीर्तिताः ।
अपरस्य विभेदांस्तु क्रमेण शृणुत द्विजाः! ॥ 142 ॥
चतुरश्रीकृते क्षेत्रे ह्येकत्रिंशद्विभाजिते ।
कोष्टकानां नवशतमेकषष्टिस्तथैव च ॥ 143 ॥
मध्ये पङ्क्तित्रयं स्थाप्य मार्जयेत्तद्बहिर्द्वयम् ।
वीध्यर्थं तद्बहिर्भूयः स्थाप्य पङ्क्तित्रयं पुनः ॥ 144 ॥
द्वयं विमृज्य वीध्यर्थं स्थापयेत्सप्तकं पुनः ।
विभज्य वा त्रिनवधा ह्येकैकं विमृजेद्द्विजाः! ॥ 145 ॥
वीध्यर्थं सङ्कटे देशे कलशानां तु पूर्ववत् ।
क्रमेण तेषु कोष्ठेषु कलशान्
पूर्ववन्न्यसेत् ॥ 146 ॥
घृतमुष्णोदकं चैव रत्नवारि फलोदकम् ।
लोहाम्भो मार्जनाम्भश्च गन्धाम्भोक्षतवारि च ॥ 147
यवोदकमथेशान्तं मध्यादारभ्य मध्यमे ।
पाद्यमर्घ्यं तथाचामं पञ्चगव्यं क्रमेण तु ॥ 148 ॥
द्विचतुष्कोणसंवीतनवकानां तु मध्यमे ।
ऐन्द्राद्युत्तरपर्यन्तं विदिक्स्थानां तु मध्यमे ॥ 149 ॥
दधि क्षीरं मधु तथा कषायं वह्निदिक्क्रमात् ।
एवं सप्तदश प्रोक्ताः प्रधानद्रव्यसंयुताः ॥ 150 ॥
शेषाश्चान्ये चतुष्षष्टिः शुद्धोदकसमन्विताः ।
इत्येकाशीतिकलशा मध्यतः संस्थिता द्विजाः!॥ 151
ततस्त्वेकोनपञ्चाशत्कलशास्तद्दिगष्टके ।
तत्र मध्यमकुम्भेषु दिक्स्थितानां तु सेचयेत् ॥ 152 ॥
गुडोदकं चेक्षुरसं नाळिकेररसं तथा ।
शान्तिवारि मुनिश्रेष्ठाः! पूर्वादिक्रमयोगतः ॥ 153 ॥
विदिक्स्थब्रह्मकुम्भेषु सेचयेन्मङ्गळोदकम् ।
आग्नेयादीशपर्यन्तं शिष्टमन्यच्छतत्रयम् ॥ 154 ॥
[[181]]
अशीतियुक्तं कुम्भानां तथैव चतुरुत्तरम् ।
सुगन्धैः शीतलैस्तोयैः सम्पूर्णं द्विजसत्तमाः! ॥155
पश्चान्मध्यस्थनवके मध्यादीशानपश्चिमम् ।
वासुदेवाद्वराहान्तं मूर्तीनां नवकं यजेत् ॥ 156 ॥
अर्घ्यालभनमाल्यैश्च धूपेन च यथाक्रमम् ।
तद्बहिर्नवकानां तु ब्रह्मकुम्भेषु पूजयेत् ॥ 157 ॥
केशवाद्वामनान्तं च द्विचतुः पूर्वदिक्क्रमात् ।
तत एकोनपञ्चाशत्कलशानां मुनीश्वराः! ॥ 158 ॥
पूजयेद्ब्रह्मकुम्भेषु श्रीधराद्यं चतुष्टयम् ।
पूर्वाद्युत्तरपर्यन्तं वह्न्यादीशानपश्चिमम् ॥ 159 ॥
नराद्यं कृष्णपर्यन्तं चतुष्कं पूजयेद्द्विजाः! ।
प्राग्वत्कूर्चानि विन्यस्य चक्रिकाभिः पिधाय च ॥ 160
ततः प्रच्छादयेद्वस्त्रैः नूतनैस्तु पृथक् पृथक् ।
तत ऊर्ध्वं यजेद्देवं वासुदेवं जगत्पतिम् ॥ 161 ॥
पाद्याद्यैर्मङ्गळान्तैस्तु कुम्भैः संस्नापयेद्विभुम् ।
अष्टाक्षरेण मन्त्रेण द्विषट्काक्षरतोपि वा ॥ 162 ॥
विष्णुगायत्रिया वापि तन्मूर्तिमनुनापि वा ।
स्नपनं सर्वकलशैर्विहितं त्वथवा द्विजाः! ॥ 163 ॥
देवं वैष्णवगायत्र्या स्नापयेत्पाद्यवारिणा ।
तद्विष्णोरितिमन्त्रेण स्नापयेदर्घ्यवारिणा ॥ 164 ॥
प्रतेविष्णो इति ऋचा स्नानमाचमनेन तु ।
विष्णोः कर्मेति मन्त्रेण स्नानं स्यात्पञ्चगव्यकैः ॥ 165
दधिक्राविण्णमन्त्रेण दध्ना संस्नापयेद्विभुम् ।
आप्यायस्वेति मन्त्रेण गोक्षीरेणाभिषेचयेत् ॥ 166 ॥
मधुवातेति मन्त्रेण मधुना स्नपनं विभोः ।
ओषध्य इति मन्त्रेण कषायैः स्नपनं भवेत् ॥ 167 ॥
त्वं विष्णुरिति मन्त्रेण स्नपनं तूष्णवारिणा ।
फलनीत्यादि मन्त्रेण स्नापयेत्फलवारिणा ॥ 168 ॥
शन्नो देवीति मन्त्रेण स्नपनं मार्जनाम्बुभिः ।
सावित्र्याक्षततोयेन अग्न आयाहि मन्त्रतः ॥ 169 ॥
रत्नोदकैरिषेत्वेति लोहतोयेन सेचयेत् ।
गन्धद्वारेति मन्त्रेण स्नपनं यववारिणा ॥ 170 ॥
शतधारेति मन्त्रेण स्नपनं गन्धवारिणा ।
घृतेन स्नापयेद्देवं ततः शुक्रमसीत्यृचा ॥ 171 ॥
अथ वा पाद्यपूर्वं तु यावत्तोयावसानकम् ।
ऋग्भिः पुरुषसूक्तस्य ततः शुक्रमसीत्यृचा ॥ 172 ॥
आज्यं च गुडतोयाद्यं चतुष्कं शान्तिपश्चिमम् ।
त्वं विष्णुरिति मन्त्रेण विष्णोर्नुकमिति द्विजाः! ॥ 173
स्नापयेन्मङ्गळाख्येन तोयेन मुनिपुङ्गवाः! ।
येनाभिषिञ्चेद्देवेशं प्रधानकलशेन तु ॥ 174 ॥
तच्छुद्धवारिकलशैस्तन्मन्त्रेणाभिषेचयेत् ।
प्रतिद्रव्यं तु मन्त्रेण ह्यर्घ्यालभनमाल्यकैः ॥ 175 ॥
[[182]]
धूपेन च समभ्यर्च्य ततस्तेनाभिषेचयेत् ।
यद्वार्घ्यं पाद्यमाचामं गन्धस्रग्धूपदीपकम् ॥ 176 ॥
दद्याद्यथाक्रमं सर्वं केवलं चार्घ्यमेव वा ।
युक्तं शतचतुष्केण सप्तत्या च त्रयेण च ॥ 177 ॥
कुम्भानां स्नपनं ह्येतदुत्तमोत्तममुच्यते ।
हीनमष्टाष्टसङ्ख्यातैरन्तः शुद्धोदवारिभिः ॥ 178 ॥
कलशैः स्नपनं यत्तु तत्स्यादुत्तममध्यमम् ।
तथा पङ्क्तिचतुष्कं तु हीनं स्यात्पूर्वनिश्चितात् ॥ 179
यदेतत्
स्नपनं युक्तमेकाशीत्या च मध्यतः ।
दिक्षु चैकोनपञ्चाशच्चतुष्केण विदिक्षु च ॥ 180 ॥
ब्राह्मदैविकभागस्थैः कलशैरन्वितं द्विजाः! ।
शेषैः षष्ट्युत्तरशतसङ्ख्यातैः शुद्धवारिभिः ॥ 181 ॥
विहीनं कलशैर्विप्रास्तद्भवेदुत्तमाधमम् ।
शतद्वयेन कुम्भानां चतुर्दिक्संस्थितेन च ॥ 182 ॥
चतुर्हीनेन वै विप्रा ह्येकाशीत्या च मध्यतः ।
संयुक्तं स्नपनं प्राग्वत्तद्भवेन्मध्यमोत्तमम् ॥ 183 ॥
अष्टाष्टपरिसङ्ख्यातैरन्तः शुद्धोदवारिभिः ।
कलशैर्यद्भवेद्धीनं तत्स्यान्मध्यममध्यमम् ॥ 184 ॥
एकाशीत्या च कुम्भानां मध्यतस्तु समन्वितम् ।
दिक्षु चैकोनपञ्चाशन्मध्यस्थनवसंयुतम् ॥ 185 ॥
शेषैः शुद्धोदकलशैर्विहीनं मध्यमाधमम् ।
पङ्क्तीनामष्टकेनात्र हीनक्षेत्रं तु कल्पयेत् ॥ 186 ॥
एकाशीत्या च कुम्भानां केवलं पूर्ववद्द्विजाः! ।
अधमोत्तममेतत्तु स्नपनं परिकीर्तितम् ॥ 187 ॥
द्वित्रिंशद्भिस्तु कलशैः कोणस्थैः शुद्धवारिभिः ।
विहीनं स्नपनं यत्तद्भवेदधमाधममध्यमम् ॥ 188 ॥
यच्चतुःषष्टिकलशैर्विहीनं सर्वदिक्स्थितः ।
शुद्धोदकैर्द्विजश्रेष्ठास्तद्भवेदधमाधमम् ॥ 189 ॥
नवधा सप्तधा वात्र क्षेत्रं कृत्वा तु पीडयेत् ।
द्वयं चतुष्कं वा शिष्टं कुम्भानां स्थापनार्थतः ॥190 ॥
इत्येवमपरं प्रोक्तं नवधा मुनिसत्तमाः! ।
कुम्भाधिवासपूर्वं तु सर्वं पूर्ववदाचरेत् ॥ 191 ॥
आज्यस्य दैवतं देवो वासुदेवः परः स्मृतः ।
उष्णाम्भसः सङ्कर्षणः प्रद्युम्नो रत्नवारिणः ॥ 192 ॥
फलाम्भसोऽनिरुद्धस्तु भगवान्
दैवतं द्विजाः! ।
नारायणस्तु मन्त्रात्मा लोहतोयस्य दैवतम् ॥ 193॥
मार्जनस्य हयग्रीवो विष्णुः स्याद्गन्धवारिणः ।
नृसिंहोक्षततोयस्य वराहो यववारिणः ॥ 194 ॥
पाद्यस्य केशवो देवोऽर्घ्यस्य नारायणः स्मृतः ।
देव आचमनीयस्य माधवस्त्वधिदेवता ॥ 195 ॥
गोविन्दः पञ्चगव्यस्य विष्णुस्तु दधिदैवतम् ।
मधुसूदनसञ्ज्ञस्तु पयसो देवता स्मृता ॥ 196 ॥
[[183]]
त्रिविक्रमाख्यो मधुनः कषायस्य च वामनः ।
भगवान्
श्रीधराख्यस्तु गुडतोयस्य देवता ॥ 197 ॥
देवदेवो हृषीकेश इक्षुसारस्य दैवतम् ।
दामोदरोऽधिदैवं तु नाळिकेराम्भसो द्विजाः! ॥198॥
पद्मनाभस्तु भगवान्
शान्तितोयस्य देवता ।
नरो नारायणश्चैव हरिः कृष्णस्तथैव च ॥ 199 ॥
आग्नेयादीशपर्यन्तं देवता मङ्गळाम्भसः ।
एकाशीतिस्थितानां तु शुद्धोदानां च दैवतम् ॥ 200 ॥
कान्त्याद्युन्नतिपर्यन्मष्टकं प्रतिदिक्क्रमात् ।
बहिरेकोनपञ्चाशच्छुद्धतोयेषु च क्रमात् ॥ 201 ॥
स्वधादिगायत्र्यन्तास्तु शक्तयो ह्यधिदेवताः ।
अष्टावष्टौ तु पूर्वादिदिक्ष्वग्न्यादिविदिक्षु च ॥ 202 ॥
कलशानां तु गरुडः शेषः सूत्रस्य दैवतम् ।
कूर्चानां तु परं ब्रह्म चक्रिकाणां तु चक्रराट् ॥ 203 ॥
वाससां वासुदेवस्तु सर्वेषां च स एव वा ।
मार्जनं प्रोक्षणं चैव शकृदा चानुलेपनम् ॥ 204 ॥
सूत्रपातमलङ्कारं पिष्टचूर्णैः समन्ततः ।
अष्टाक्षरादिमन्त्रेण कारयेत्पञ्च मन्त्रवित् ॥ 205 ॥
पञ्चोपनिषदा मन्त्री कलशानधिवासयेत् ।
विष्णुगायत्रिया तत्र कोष्ठेषु कलशान्न्यसेत् ॥ 206 ॥
तत्र द्रव्याधिदेवानां वाचकैः पूरयेत्क्रमात् ।
कूर्चांस्तु प्रक्षिपेत्तेषु द्विषट्कब्रह्मविद्यया ॥ 207 ॥
तत्तद्द्रव्याधिदेवांस्तु तत्तद्द्रव्येषु पूजयेत् ।
चक्रिकाः स्थापयेत्पश्चाच्चक्रमन्त्रेण साधकः ॥ 208 ॥
वासोभिश्छादयेत्पश्चाद्द्विषट्कार्णेण मन्त्रवित् ।
वस्त्रापनयनं कुर्यान्मूलमन्त्रेण मन्त्रवित् ॥ 209 ॥
प्रणवेन तु सूत्राणि छित्वा तेनाभिवन्द्य च ।
उद्धृत्य विष्णुगायत्र्या दद्याद्धस्ते गुरोस्तथा ॥ 210 ॥
यस्मिन्यस्मिन्न मन्त्रेत्र विहितः कर्मणि द्विजाः! ।
अष्टाक्षरेण मन्त्रेण तत्तत्कुर्याद्विचक्षणः ॥ 211 ॥
अथ वा सर्वकर्माणि मूलेनैव समाचरेत् ।
पूर्वोक्तः परभेदानां स्नपनानां द्विजोत्तमाः! ॥ 212 ॥
अर्घ्यादिद्रव्यनिचय इतरेषां तु कथ्यते ।
विष्णुपर्णी च दूर्वा च पद्मं श्यामाकमेव च ॥ 213 ॥
एतानि पाद्यस्याङ्गानि चत्वारि द्विजपुङ्गवाः! ।
गन्धपुष्पाक्षतफले यवसिद्धार्थकं तिलम् ॥ 214 ॥
कुशाग्रमर्घ्यस्याङ्गानि ह्येतान्यष्टौ भवन्ति हि ।
लवङ्गजातितक्कोलमङ्गमाचमनीयके ॥ 215 ॥
शकृद्रसं च गोमूत्रं क्षीरं दधि घृतं तथा ।
अङ्गानि पञ्चगव्यस्य पञ्चैतानि च सर्वतः ॥ 216 ॥
शम्युदुम्बरबिल्वानां पलाशवटयोस्तथा ।
खदिराश्वत्थयोश्चापि विकङ्कततरोस्तथा ॥ 217 ॥
[[184]]
त्वक्सारं तु कषायं स्यात्सर्वपापापनोदनम् ।
कदळीबिम्बचूताश्च पनसं मातुलुङ्गकम् ॥ 218 ॥
नाळिकेरं चामलकं बीजपूरं फलाम्भसः ।
अङ्गान्येतानि चैवाष्टौ फलानि कथितानि वै ॥ 219
सहदेवी शिरीषं च रजनी सूर्यवर्तिनी ।
सदाभद्रा कुशाग्राणि मार्जनाङ्गानि षट् द्विजाः! ॥ 220 ॥
सूर्यकान्तं पद्मरागमिन्दुकान्तं तथैव च ।
वैडूर्यं चाप्ययस्कान्तमिन्द्रनीलप्रवाळकौ ॥ 221 ॥
गारुडं पुष्यरागं च स्फटिकब्रह्मरागकौ ।
वज्रं मौक्तिकमङ्गानि रत्नोदस्याथ वा द्विजाः! ॥ 222
मणिर्मुक्ताफलं वज्रं प्रवाळं पुष्यकं तथा ।
रत्नोदकाङ्गान्येतानि पञ्चैवं मुनिपुङ्गवाः! ॥ 223 ॥
बाह्लीकं चन्दनं चैव कर्पूरमगरुं तथा ।
गन्धाङ्गानि च चत्वारि त्वथ वा मुनिपुङ्गवाः! ॥224 ॥
चन्दनं कुङ्कुमं मांसी हरिबेरं मुरं तथा ।
उशीरं कुष्टमगरुर्गन्धाम्भोऽङ्गं तु चाष्टकम् ॥ 225 ॥
रुक्म रूप्यं च ताम्रं चाप्ययस्त्रपुकमेव च ।
अङ्गानि कथितान्येव पञ्च वै लोहवारिणः ॥ 226 ॥
तिलसिद्धार्थनीवारयववेणुयवानि च ।
तुळसीपत्रयुक्तानि शान्त्यम्भोङ्गानि चैव षट् ॥ 227
इन्द्रवल्ल्यङ्कुरं पद्ममश्वत्थाङ्कुरमेव च ।
एकपद्मं च चत्वार्यङ्गानि मङ्गळवारिणः ॥ 228 ॥
शुद्धोदकलशाः सर्वे चन्दनैकाङ्गसंयुताः ।
इत्युक्तोपरभेदानां स्नपनानां यथाक्रमम् ॥ 229 ॥
द्रव्याणां निचयश्चाथ सर्वौषध्यादि चोच्यते ।
कुष्ठं मांसी हरिद्रे द्वे मुराशैलेयचम्पकाः ॥ 230 ॥
वचाकच्चोरमुस्ताश्च सर्वौषध्यः प्रकीर्तिताः ।
पलाशबिल्ववकुळकदम्बाम्रशिरीषजाः ॥ 231 ॥
न्यग्रोधाश्वत्थजाश्चापि पल्लवाः पत्रवारिणः ।
केतकीमल्लिकाजातिनन्द्यावर्तोत्पलोद्भवाः ॥ 232 ॥
पद्मचम्पककुन्दोत्थाः कुसुमाः पुष्पवारिणः ।
यवगोधूमकव्रीहिशालिमुद्गप्रियङ्गुकाः ॥ 233 ॥
माषनीवारक्रौ चाङ्गं कथितं बीजवारिणः ।
अथ चानन्तकलशं नाम्ना सकलपूरकम् ॥ 234 ॥
यदेतस्य विधानं तु शृणुध्वं मुनिसत्तमाः! ।
पूर्ववन्मण्टपं कुर्याच्चत्वारिंशत्करायतम् ॥ 235 ॥
द्वात्रिंशत्करविस्तारं चतुर्द्वारादिसंयुतम् ।
ध्वजाद्यैरप्यलङ्कारैः पूर्ववत्सुविभूषितम् ॥ 236 ॥
आपाद्य वा प्रपामात्रं यथाभिमतदेशगम् ।
यागार्थं मण्टपं प्राग्वत्कल्पयेत्तत्समीपतः ॥ 237 ॥
उक्ते दिनेऽङ्कुरारोपं कृत्वा कर्मदिनात्पुरा ।
तदर्थान्
सर्वसम्भारान्
सम्भृत्य सुसमाहितः ॥ 238 ॥
[[185]]
देशिकेन्द्रस्तु पूर्वेद्युः सुस्नातश्च कृताह्निकः ।
भूषणैर्विविधैर्वस्त्रैर्नूतनैश्च विभूषितः ॥ 239 ॥
सितोष्णीषोत्तरीयश्च चित्रैर्माल्यैरलङ्कृकः ।
चतुर्भिरष्टभिर्वार्यैस्तादृशैरपि साधकैः ॥ 240 ॥
तत्सङ्ख्यैः शास्त्रकुशलैः कञ्चुकादिविभूषितैः ।
अन्यैश्च सुसितैर्वस्त्रैः स्थगितानननासिकैः ॥ 241 ॥
तत्तत्प्रयोगकुशलैरनेकैः परिचारकैः ।
प्राप्तेऽपराह्णसमये कृत्वा द्वार्स्थार्चनं विशेत् ॥ 242 ॥
यागार्थं मण्टपं तत्र देवं कुम्भादिके यजेत् ।
तत्रैव वा यजेद्बिम्बं वह्नौ सन्तर्प्य पूर्ववत् ॥ 243 ॥
ततोऽनुज्ञां समादाय क्रमेण मुनिपुङ्गवाः! ।
अनुकल्पविधाने तु प्रासादं सम्प्रविश्य च ॥ 244 ॥
मूलबिम्बं तु सम्पूज्य अर्घ्यालभनमाल्यकैः ।
धूपेन च ततोऽनुज्ञां समादायारभेत्ततः ॥ 245 ॥
द्वार्स्थाभ्यर्चनपूर्वं तु विशेत्स्नपनमण्टपम् ।
प्रोक्षयेत्पञ्चगव्येन मूलमन्त्रेण सर्वतः ॥ 246 ॥
नानाविधानि पुष्पाणि विकिरेत्सर्वदिक्षु च ।
सिद्धार्थकांश्च बीजानि ततो मण्टपमध्यतः ॥ 247 ॥
सार्धद्वाविंशतिकरं भजेत्
क्षेत्रं तु पञ्चधा ।
एकैकं नवधा भूयश्चत्वारिंशच्च पञ्च च ॥ 248 ॥
पङ्क्तयश्चापि कोष्ठानां पञ्चविंशोत्तरं भवेत् ।
द्विसहस्रं ततो मध्ये कलशस्थापनार्थतः ॥ 249 ॥
एकाशीतिं च कोष्ठानि संस्थाप्य परिमार्जयेत् ।
परितो वीधयः पङ्क्तिद्वितयं तद्बहिः पुनः ॥ 250 ॥
पूर्वादिदिक् चतुष्के तु एकाशीतिपदानि च ।
कल्पयेत्पार्श्वतो वीध्यै पुनः पङ्क्तिद्वयं भवेत् ॥ 251 ॥
चतुर्षु कोणेष्वेकोनपञ्चाशत्कोष्टकानि च ।
कल्पयेत्तत्र चाप्येकाशीतिमध्यानुसारतः ॥ 252 ॥
मध्यतो नवकं स्थाप्य पङ्क्त्येकां लोपयेत्परि ।
बहिः पङ्क्तिद्वये दिक्षु षट्कं षट्कं विदिक्षु च ॥ 253 ॥
चतुश्चतुश्च संस्थाप्य शेषाणि परिमार्जयेत् ।
तद्बहिः परितो वीध्यै लुम्पेत्पङ्क्तिद्वयं ततः ॥ 254 ॥
कोणानि कल्पयेद्यत्नात्पदषोडशकानि तु ।
तत्पार्श्वे लोपयेत्पङ्क्तिमेकैकां दिक् चतुष्टये ॥ 255 ॥
पङ्क्तिद्वये तु द्वाराणामन्तर्भागास्त्रयो बहिः ।
पञ्च पार्श्वे तु शोभार्थं चतुरं तद्बहिर्द्वयम् ॥ 256 ॥
तदन्तः पङ्क्तित्रितये त्रयस्त्रिंशत्पदानि तु ।
वीध्या सहैकतां नीत्वा ह्येकैकं स्थापयेद्बहिः ॥ 257 ॥
द्वाराणामपि कोणानां मध्ये षोडशसङ्ख्यया ।
पञ्चविंशतिकोष्ठानि स्थापयित्वा तु पार्श्वतः ॥ 258 ॥
अन्योन्यं लोपयेत्पङ्क्तिमेकैकां तु मुनीश्वराः! ।
एवमापाद्य कुम्भानां पदानि स्थापनार्थतः ॥ 259 ॥
[[186]]
ततः सुगन्धरजसा सितेन सुसमा द्विजाः! ।
अङ्गुष्टविस्तरोत्सेधा ऋज्वी रेखास्तु कल्पयेत् ॥260
विकीर्य कोष्ठेषु रजः पश्चाद्द्वाराणि पूरयेत् ।
तेनैव शोभां पीतेन विचित्रैः कुसुमान्वितैः ॥ 261 ॥
लताबृन्दैर्मुनिश्रेष्ठाः! वीधीः सर्वत्र भूषयेत् ।
ततः सङ्गृह्य कलशान्
सर्वलक्षणलक्षितान् ॥ 262 ॥
अष्टोत्तरशतं हुत्वा मूलमन्त्रेण वै घृतम् ।
गायत्र्या वा ततो द्वारचतुष्के पूर्वदिक्क्रमात् ॥ 263 ॥
द्वौ द्वौ संस्थाप्य कलशौ कुमुदादीन्प्रपूज्य च ।
पुष्पैरभ्यर्च्य कोष्ठानि विचित्रैर्मन्त्रमन्त्रितैः ॥ 264 ॥
सर्वधान्यैः प्रयत्नेन कल्पयित्वा तु वीथिकाः ।
तासु द्वौ द्वौ कुशाग्रौ च निक्षिपेन्मूलमन्त्रतः ॥ 265 ॥
सूत्रेण वेष्टितान्
कृत्वा कलशान्
पूर्ववद्द्विजाः! ।
गायत्र्या क्षाळयित्वा तान्
कोष्ठेषु न्यस्य तारतः 266 ॥
अधोमुखान्
न्यसेत्पृष्ठे परमेष्ठ्यात्मना कुशान् ।
ततः सम्प्रोक्षयेत्पुंसा पञ्चगव्येन तान्
कुशैः ॥ 267 ॥
विश्वेन विकिरेत्सिक्तान्
अक्षतांश्च तदूर्ध्वतः ।
उत्तानयेन्निवृत्त्या तान्
क्रमाद्यत्नेन वै ततः ॥ 268 ॥
गाळितेन तु तोयेन सुगन्धैश्चन्दनादिकैः ।
वासितेन तु तान्
विप्राः! सर्वेणापूरयेत्क्रमात् ॥ 269
मध्यैकाशीतिमध्यस्थनवके मध्यकुम्भके ।
सूर्यकान्तं पद्मरागं वैडूर्यं चन्द्रकान्तकम् ॥ 270 ॥
अयस्कान्तं चेन्द्रनीलं प्रवाळं गारुडं तथा ।
पुष्यरागं स्फाटिकं च ब्रह्मरागं च मेचकम् ॥ 271 ॥
वज्रं च रजतं चैव मौक्तिकं ताम्रमेव च ।
सर्वाण्येतानि निक्षिप्य तद्बहिर्नवकाष्टके ॥ 272 ॥
पूर्वादीशानपर्यन्तं मध्यकुम्भेषु वै क्रमात् ।
द्रव्याणि षोडशैतानि द्वन्द्वयोगेन विन्यसेत् ॥ 273 ॥
द्विसप्ततिकसङ्ख्येषु न्यसेच्छेषेषु मौक्तिकम् ।
पूर्वेकाशीतिमध्यस्थनवके मध्यगोचरे ॥ 274 ॥
कदळीपनसाम्राणां क्षीरिकाबदराख्ययोः ।
मातुलुङ्गकेसरयोर्भव्यजम्बीरयोरपि ॥ 275 ॥
फलानि निक्षिपेत्पश्चात्तद्बहिर्नवकाष्टके ।
प्रागादीशानपर्यन्तं मातुलुङ्गं च दाडिमम् ॥ 276 ॥
नारङ्गं चापि जम्बीरं तक्कोलं बदरीं तथा ।
क्षीरिकामलके चैव द्राक्षाखर्जूरके तथा ॥ 277 ॥
आम्रं च सहकारं च पनसस्य फलं तथा ।
क्षुद्रपूर्वं च पनसं कदळीमोचके तथा ॥ 278 ॥
क्रमाद्द्वन्द्वप्रयोगेण मध्यकुम्भेषु विन्यसेत् ।
नवकाष्टककुम्भेषु बदराणि विनिक्षिपेत् ॥ 279 ॥
उशीरं कुङ्कुमं चैव मांसीं मलयजं तथा ।
मुरं च हरिबेरं च कुष्ठं चागरुमेव च ॥ 280 ॥
[[187]]
एकाशीतिपदे याम्ये विश्वान्येतानि निक्षिपेत् ।
मध्ये मध्यस्थकलशे पूर्वादिक्रमयोगतः ॥ 281 ॥
शेषेषु मध्यकुम्भेषु न्यसेदेकैकजं फलम् ।
विनिक्षिपेन्मलयजमेतेषामष्टकेषु च ॥ 282 ॥
समुद्रवापीकूपानां तटाकानां ह्रदस्य च ।
वृष्टेर्नदीहिमानां च तोयानि प्रतिपादयेत् ॥ 283 ॥
वारुणे मध्यमे कुम्भ एकैकं शेषमध्यमे ।
शेषेषु चाष्टवर्णेषु शुद्धोदानि विनिक्षिपेत् ॥ 284 ॥
यवगोधूमकव्रीहिशालिमुद्गप्रियङ्गुकान् ।
माषनीवारकौ चापि नवमे मध्यमे घटे ॥ 285 ॥
शेषेषु धान्यमेकैकं मध्यकुम्भेषु च क्रमात् ।
अष्टकेषु च शुद्धानि तोयानि प्रतिपादयेत् ॥ 286 ॥
आग्नेयैकोनपञ्चाशन्नवके पूरयेद्घृतम् ।
षट्केष्विन्द्रादियोगेन गोमूत्रं गोमयं तथा ॥ 287 ॥
क्षीरं दधि विनिक्षिप्य कोणेषूष्णोदकं न्यसेत् ।
नैरृते मध्यनवके तैलं विन्यस्य तद्बहिः ॥ 288 ॥
शेषेषु चत्वारिंशत्सु कलशेषु गुडोदकम् ।
वायव्यनवके मध्ये न्यसेत्तैलं तु सार्षपम् ॥ 289 ॥
कलशेषु च शेषेषु विन्यसेदैक्षवं रसम् ।
ईशानैकोनपञ्चाशन्नवके मधु विन्यसेत् ॥ 290 ॥
शेषेषु नाळिकेराम्भस्तत्क्षीरं वापि विन्यसेत् ।
ऐन्द्रादिपञ्चविंशत्सु प्रथमे मध्यमे घटे ॥ 291 ॥
क्षेत्रतीर्थाब्धिशैलेभ्यः सूकराख्यबिलाद्गजात् ।
वल्मीकाद्वृषशृङ्गाच्च मृदमादाय पूरयेत् ॥ 292 ॥
शेषेष्वष्टसु चेकैकं षोडशे गन्धवारि च ।
सहदेवी वचा चैव शतमूली शतावरी ॥ 293 ॥
कुमारी च गळूची च सिंही व्याघ्री तथैव च ।
द्वितीये मध्यमे कुम्भे विन्यसेद्बहिरष्टके ॥ 294 ॥
एकैकं प्राक्क्रमेणैव षोडशे पूर्ववद्भवेत् ।
न्यग्रोधोदुम्बराश्वत्थजम्बुबिल्वपलाशजैः ॥ 295 ॥
शिरीषमधुकोत्थैश्च त्वग्रसैर्मध्यमं घटम् ।
तृतीये पूरयित्वाष्टौ व्यस्तैः षोडश पूर्ववत् ॥ 296 ॥
पलाशविल्ववकुळकदम्बाम्रशिरीषजान् ।
न्यग्रोधाश्वत्थजान्
क्षिप्त्वा चतुर्थे पल्लवान्
घटे ॥ 297
मध्यमेऽष्टासु च व्यस्तान्
प्राग्वत्
षोडश विन्यसेत् ।
मल्लिकाजातिवकुळनन्द्यावर्तप्रियङ्गुजैः ॥ 298 ॥
पद्मचम्पककुन्दैश्च पुष्पैरापूर्य मध्यमम् ।
कलशं पञ्चमे व्यस्तैरष्टौ शेषांश्च पूर्ववत् ॥ 299 ॥
सिद्धार्थं सर्षपं माषं रोचनां गोसमुद्भवाम् ।
इन्द्रयवं वेणुयवं शमीश्यामाकबीजके ॥ 300 ॥
षष्ठे मध्यस्थिते कुम्भे न्यसेदष्टासु च क्रमात् ।
व्यस्तानि तानि द्रव्याणि प्राग्वच्छेषांश्च षोडश ॥ 301 ॥
[[188]]
तिलं वनतिलं चैव जीरकं कृष्णजीरकम् ।
अतसीं शतपुष्पां च कुठारच्छिन्नमेव च ॥ 302 ॥
ऋषिबीजं च विन्यस्य मध्यकुम्भे तु सप्तमे ।
एकैकं बहिरष्टासु प्राग्वत्
षोडशसु द्विजाः! ॥ 303 ॥
षष्टीश्यामाकशालीनां नीवारस्य च तण्डुलम् ।
दूर्वाकुशेन्द्रवल्लीनामङ्कुरान्
पिप्पलस्य च ॥ 304 ॥
न्यसेन्मध्येऽष्टमेऽष्टासु व्यस्तानन्येषु पूर्ववत् ।
कुशोदीच्येक्षुकाशानामुशीरशरपुङ्खयोः ॥ 305 ॥
अगर्वपामार्गयोश्च मूलानि नवमे न्यसेत् ।
कुम्भे मध्यस्थितेऽष्टासु व्यस्तानन्येषु पूर्ववत् ॥306
तुलस्याः कृष्णतुलस्या ग्रन्थिवेणोरपिच्छदाः ।
भृङ्गराजस्य बिल्वस्य शम्याः केतकिजातयोः ॥ 307
दशमे मध्यमेऽष्टासु व्यस्तान्
शेषेषु पूर्ववत् ।
मुस्तानागरमुस्ताख्यकन्दे कुवलयस्य च ॥ 308 ॥
कुमुदोत्पलयोश्चापि शीतळीयककन्दकम् ।
कल्हारस्य कशेरोश्च कन्दे एकादशे क्षिपेत् ॥ 309 ॥
मध्यकुम्भेषु चैतानि क्रमादन्येषु पूर्ववत् ।
मुद्गमाषकनिष्पावशिम्बिव्रीहियवाङ्कुरान् ॥ 310 ॥
आढकानां कुळुत्थानामङ्कुरान्
द्वादशे क्षिपेत् ।
मध्यकुम्भेऽष्टके व्यस्तान्
प्राग्वत्
षोडशसु द्विजाः! ॥ 311
शङ्खपुष्पी सदाभद्रा विष्णुक्रान्तैकपद्मयोः ।
बलायाः खरमञ्जर्याः सहायाश्च तथैव च ॥ 312 ॥
अङ्कुरान्
सहदेव्याश्च मध्ये कुम्भे त्रयोदशे ।
विन्यस्याऽष्टासु च व्यस्तानन्येषु प्राग्वदाचरेत् ॥ 313
श्वेतार्कं ब्रह्मदण्डीं च तथा ब्रह्मसुवर्चलाम् ।
सरक्तां च विरक्तां च प्रश्निपर्णीं स्थिरां तथा ॥ 314
एरण्डं चापि विन्यस्य मध्ये कुम्भे चतुर्दशे ।
अष्टासु तानि व्यस्तानि प्राग्वदन्येषु विन्यसेत् ॥ 315
सुरभिं पद्मकिञ्जल्कं नागकेसरमेव च ।
पत्रमेलात्वचं चैव लतां कस्तूरिकां तथा ॥ 316 ॥
जातीफलं च वै पञ्चदशमे मध्यसंस्थिते ।
कुम्भे न्यस्याष्टके व्यस्तं शेषं पूर्ववदाचरेत् ॥ 317 ॥
सुवर्णं रजतं ताम्रमायसं त्रपु सीसकम् ।
आरं कांस्यं च विन्यस्य षोडशे मध्यसंस्थिते ॥ 318
कलशेऽष्टासु च व्यस्तं प्राग्वत्
षोडशसु द्विजाः! ।
एवं द्रव्याणि विन्यस्य क्रमेण सुसमाहितः ॥ 319 ॥
तत आग्नेयकोणे तु देवस्याराधनार्थतः ।
अर्घ्यादिद्रव्यनिचयं मधुपर्कं च विन्यसेत् ॥ 320 ॥
ततो नैरृतकोणे तु हरिद्राशालिपिष्टके ।
दूर्वामश्वत्थपत्रं च सिद्धार्थं च तथाक्षतम् ॥ 321 ॥
माल्यानि पूर्णकुम्भं च न्यसेन्नीराजनार्थतः ।
तथा चोद्वर्तनार्थं च चूर्णं गोधूमशलिजम् ॥ 322 ॥
[[189]]
रजनीचूर्णसम्मिश्रमीषत्पद्मकभावितम् ।
चमसीं च खळीं चैव तथैव मुनिपुङ्गवाः! ॥ 323 ॥
चन्दनं मुखलेपार्थं घृष्टकर्पूरभावितम् ।
चम्पकैर्मुरमांसीभ्यां हरिबेरैः समन्वितम् ॥ 324 ॥
पिष्टमामलकं चैव शिरःस्नानार्थकं न्यसेत् ।
पृथक् पृथक् च पात्रेषु ततो वायव्यकोणके ॥ 325 ॥
धौतवस्त्रं करण्डं च पुष्पमाल्यादिभाजनम् ।
तत ईशानकोणे तु शलाकान्यायसानि तु ॥ 326 ॥
आयसा गुळिकाश्चैव तथा सन्दंशनं द्विजाः! ।
अन्यद्यदुपयोगि स्यात्
स्थापयेत्तद्यथारुचि ॥ 327 ॥
एतदुक्तं समस्तं वा यथाभिमतकोणगम् ।
मध्यैकाशीतिमध्यस्थनवके मध्यसंस्थिते ॥ 328 ॥
कुम्भे यजेद्वासुदेवं ततः प्रागादियोगतः ।
दिक्स्थानां नवकानां तु मध्येषु प्रभवक्रमात् ॥329 ॥
चतुरो वासुदेवादीन्
विदिक्स्थानां तु मध्यतः ।
ईशादिवह्निपर्यन्तं तानेवाप्यययोगतः ॥ 330 ॥
मध्यशुद्धोदकुम्भेषु सत्यं सर्वेषु पूजयेत् ।
बहिर्दिङ् नवकानां तु शुद्धोदेषु च दिक्क्रमात् ॥ 331
सुपर्णं गरुडं चैव तार्क्ष्यं च विहगेश्वरम् ।
वह्न्यादीशानपर्यन्तं नवकानां चतुष्टये ॥ 332 ॥
शुद्धोदेषु च तानेव क्रमेण परिपूजयेत् ।
एकाशीतिषु दिक्स्थेषु पूर्वादिक्रमयोगतः ॥ 333 ॥
मध्यकुम्भेषु षट् त्रिंशत्सङ्ख्यातेषु यथाक्रमम् ।
पद्मनाभादयो विप्राः! देवा वेदविदन्तिमाः ॥ 334 ॥
पूज्या नवकयुक्त्या तु मध्यादीशानपश्चिमम् ।
मध्यशुद्धोदकुम्भेषु यजेत्कल्किस्वरूपिणम् ॥ 335 ॥
बहिर्नवकशुद्धोदकलशेषु यजेद्विभुम् ।
पाताळशयनाख्यं तु पश्चादग्निदिगादितः ॥ 336 ॥
चतुर्षु कोणेष्वेकोनपञ्चाशन्नवकेषु च ।
मध्येषु केशवादीनां क्रमात्त्रिकचतुष्टये ॥ 337 ॥
आद्यान्
दिक्स्थेषु कुम्भेषु द्वितीयांस्तु चतुर्ष्वपि ।
विदिक्स्थेषु तृतीयांश्च षट्कषोडशके क्रमात् ॥ 338 ॥
चक्रादिवज्रपर्यन्तमस्त्रषोडशकं यजेत् ।
कोणस्थेषु चतुष्केषु न्यसेच्छक्तिं ततः परम् ॥339
ऐन्द्रीदक्षिणतः पञ्चविंशतौ प्रथमे यजेत् ।
सर्वसम्पत्प्रदां लक्ष्मीं मध्यकुम्भेषु तद्बहिः ॥ 340 ॥
अष्टासु पुष्टिं तद्बाह्ये कान्तिं षोडशके द्विजाः ।
एवमाद्येषु चान्येषु पञ्चविंशतिषु क्रमात् ॥ 341 ॥
प्रभादीनां च शक्तीनां त्रितयं त्रितयं यजेत् ।
तत्रापि पञ्चदशमे बहिः षोडशके न्यसेत् ॥ 342 ॥
किरीटमन्तिमे पञ्चविंशतौ त्रितयं यजेत् ।
श्रीवत्सं कौस्तुभं चापि वनमालां तथैव च ॥ 343 ॥
[[190]]
वासुदेवादिमन्त्रैस्तु वनमालान्तिमैः क्रमात् ।
अष्टाविंशतिसङ्ख्यं तु हुत्वाज्यं वै यथारुचि ॥ 344 ॥
पूर्णां दत्वा ततः कुम्भान्
सम्पातविधिना स्पृशन् ।
पिधाय चक्रिकाभिस्तु सर्वानुक्तक्रमेण तु ॥ 345 ॥
वासोभिः छादयेत्पश्चान्नूतनैस्तु पृथक् पृथक् ।
भूयः पूर्णाहुतिं दत्वा दिक्षु भूतबलिं हरेत् ॥ 346 ॥
मृदादि सर्वरत्नान्तमुद्धारक्रम इष्यते ।
पूर्वं विष्णोर्नुकमिति मन्त्रेण च मुनीश्वराः! ॥ 347 ॥
पूर्वादीशानपर्यन्तं मृत्कुम्भैरभिषिच्य च ।
सर्वमृत्कलशेनैव मध्यस्थेन ततो बहिः ॥ 348 ॥
कुम्भैः षोडशभिर्विप्राः! प्रागादिक्रमयोगतः ।
एवमेव क्रमः सर्वपञ्चविंशतिषु द्विजाः! ॥ 349 ॥
प्रतद्विष्णुरित्यनेन मूलाद्भिरभिषेचयेत् ।
प्रतत्ते विष्णुवास इति कषायैरन्विताम्बुभिः ॥ 350 ॥
यस्य त्रिपूर्णेत्येतेन कलशैः पल्लवान्वितैः ।
तदस्येति च मन्त्रेण पुष्पैरापूरितैर्घटैः ॥ 351 ॥
तावामिति च मन्त्रेण सिद्धार्थादिसमन्वितैः ।
प्रवः पान्तमित्यनेन तिलाद्यन्वितवारिभिः ॥ 352 ॥
परोमात्रेतिमन्त्रेण षष्ट्यादिद्रव्यवारिभिः ।
नते विष्णोरित्यनेन कुशमूलान्विताम्बुभिः ॥ 353 ॥
इरावतीति मन्त्रेण तुलस्यादिजलैस्ततः ।
अतो देवेति मन्त्रेण मुस्ताकन्दादिसंयुतैः ॥ 354 ॥
इदं विष्णुरित्येतेन मुद्गाद्यङ्कुरपूरितैः ।
त्रीणि पदेति मन्त्रेण शङ्खपुष्पादिवारिभिः ॥ 355 ॥
विष्णोः कर्माणीत्यनेन श्वेतार्काद्यम्बुभिस्ततः ।
तद्विष्णोरिति मन्त्रेण सुरभ्यादिजलैस्ततः ॥ 356 ॥
तद्विप्रास इत्यनेन स्नापयेल्लोहवारिभिः ।
प्रागेकाशीतिकलशैः स्नापयेत्क्रमयोगतः ॥ 357 ॥
पूर्वादिमध्यपर्यन्तनवकस्नपने क्रमः ।
ऐन्द्रेण नवकेनादौ पुरूयज्ञाय इत्यृचा ॥ 358 ॥
इन्द्राविष्णु दृंहितेति वह्निदिक्संस्थितेन च ।
यं मनीषेति याम्येन नवकेनाभिषेचयेत् ॥ 359 ॥
वषट् ते विष्णुवासेति नैरृतेन ततः परम् ।
तिस्रोवाच इत्यनेन वारुणेन मुनीश्वराः! ॥ 360 ॥
योवर्द्धओषधिमन्त्रेण वायव्यनवकेन तु ।
स्तरीरत्वद्भतीति सौम्येन नवकेन तु ॥ 361 ॥
ईशानदिक्स्थितेनैव यस्मिन्विश्वेतिचेत्यृचा ।
इदंवचः पर्जन्यायेति स्नापयेन्मध्यमेन तु ॥ 362 ॥
याम्यैकाशीतिकलशैस्ततः संस्नापयेद्विभुम् ।
सहस्रशीर्षं देवमिति मन्त्रपुरस्सरैः ॥ 363 ॥
सन्ततं सिराभिरिति पर्यन्तैश्च क्रमेण तु ।
अष्टमन्त्रैर्मुनिश्रेष्ठाः! प्रागादिनवकाष्टकैः ॥ 364 ॥
[[191]]
एतैरेव समस्तैस्तु स्नापयेन्मध्यमेन तु ।
एकाशीत्या तु वारुण्या कलशैरभिषेचयेत् ॥ 365 ॥
समुद्रज्येष्ठा इत्यनेन पूर्वादिनवकेन तु ।
वापीकूपतटाकोत्थैः ह्रदवृष्टिसमुद्भवैः ॥ 366 ॥
या आपो दिव्या इति मन्त्रेणैवाभिषेचयेत् ।
नद्यम्भसा स्नापयित्वा यासां राजेत्यृचा ततः ॥ 367
यासु राजेतिमन्त्रेण हिमतोयेन वै ततः ।
समुद्रज्येष्टपूर्वैस्तु चतुर्भिर्मध्यमेन तु ॥ 368 ॥
ततोऽभिषिञ्चेत्सौम्यैकाशीतिकुम्भैः क्रमेण तु ।
यदिमा इति मन्त्रेण शाक्रेण नवकेन तु ॥ 369 ॥
यस्यौषधीरित्येतेन वह्निदिक्संस्थितेन तु ।
साकंयक्ष्येति याम्येन अन्यावो इति नैरृते ॥ 37 0
याः फलिनीरिति मन्त्रेण वारुण्यां नवकेन तु ।
मुञ्चन्तु मा शपथ्यादिति वायुदिन्नवकेन तु ॥ 37 1 ॥
अवपतन्तीरित्यनेन सोमदिक्संस्थितेन च ।
या ओषधीः सोमराज्ञीरिति मन्त्रेणैशानकेन तु ॥ 372 ॥
या ओषधीः सोमराज्ञीर्विष्ठिता इति मध्यतः ।
ततोऽग्न्येकोनपञ्चाशत्कलशैरभिषेचयेत् ॥ 373 ॥
गायत्र्या चैन्द्रषट्केण गन्धद्वारेति याम्यतः ।
पयस्वतीरोषधयः इति षट्केण पश्चिमे ॥ 374 ॥
दधिक्रावण्ण इत्यृचा सैम्यषट्केण तत्परम् ।
सम्यक्स्रवन्तिसरितस्सूक्तेनैव घृतेन च ॥ 375 ॥
नैरृतैकोनपञ्चाशत्कलशैरभिषेचयेत् ।
तेजोसीत्यादियजुषा तैलेन स्नापयेत्ततः ॥ 376 ॥
द्वादशाक्षरमन्त्रेण प्राक्क्रमेण गुडोदकैः ।
तेजोसीत्यादिमन्त्रेण वायौ तैलैस्तु सार्षपैः ॥ 377॥
द्वादशार्णाख्यमन्त्रेण सर्वैरिक्षुरसैस्ततः ।
मधुवातादिभिर्मन्त्रैः कलशैर्मधुपूरितैः ॥ 378 ॥
पूर्वोदितेन मन्त्रेण नाळिकेरजलैः क्रमात् ।
तेनैवोष्णजलैः पश्चाद्वह्न्यादीशानपश्चिमम् ॥ 379 ॥
सुतप्तायोगुळक्षेपात्सञ्जातोष्णैस्तदैव तु ।
उद्वर्त्तयेत्ततो देवं द्रुपदादिति मन्त्रतः ॥ 380 ॥
शिरस्यामलकं दद्यान्मानस्तोकेति मन्त्रतः ।
प्रक्षाळ्य शुद्धतोयैश्च बहुभिश्च सुगन्धिभिः ॥ 381 ॥
मध्यैकाशीतिकलशैस्ततः संस्नापयेत्क्रमात् ।
सहस्रशीर्षेत्यनया ऋचैन्द्रीनवकैर्घटे ॥ 382 ॥
अष्टाभिरष्टदिक्संस्थैर्मध्यमेन द्वितीयया ।
द्वाभ्यां द्वाभ्यां तथा ऋग्भ्यां क्रमान्नावकसप्तकैः ॥ 383
पौरुषेण तु सूक्तेन समस्तेन शनैः शनैः ।
स्नापयेद्देवदेवेशं मध्यस्थनवकेन तु ॥ 384 ॥
यद्वा सर्वस्य वशिनमित्याद्यैर्मनुभिः क्रमात् ।
महोपनिषदन्तःस्थैर्दिक्स्थितैः कलशाष्टकैः ॥ 385 ॥
[[192]]
एक एव नारायण इति मध्यगतेन तु ।
यद्वाष्टाक्षरमन्त्रेण सर्वकुम्भैः क्रमेण तु ॥ 386 ॥
मृदादि सर्वरत्नान्तं स्नापयेद्द्विजसत्तमाः! ।
उद्घार एवं कथितः कर्मक्रम इहोच्यते ॥ 387 ॥
प्रभाते तु कृतस्नातः कृतकौतुकमङ्गळः ।
देशिकेन्द्रस्तथा चान्यैर्देशिकैश्च समन्वितः ॥ 388 ॥
प्रासादं सम्प्रविश्याथ नित्यं निर्वर्त्य पूर्ववत् ।
यागमण्टपमासाद्य रजोभिः पूर्य मण्डलम् ॥ 389 ॥
कुम्भमण्डलयोरिष्ट्वा प्रासादं सम्प्रविश्य च ।
ततस्त्वर्घ्यादिभिर्भोगैर्मूलबिम्बं तु पूजयेत् ॥ 390 ॥
तस्मात्
स्नपनविम्बे तु समावाह्य तथैव च ।
इष्ट्वालङ्कृत्य विविधैर्वस्त्रैर्माल्यैश्च भूषणैः ॥ 391 ॥
शिबिकादौ समारोप्य सर्वालङ्कारसंयुतम् ।
पूर्वोक्तविधिना विप्राः! निनयेत्स्नानमण्टपम् ॥ 392
स्नानपीठे समारोप्य पूर्वोदितविधानतः ।
यथाक्रमं समभ्यर्च्य यावदात्मनिवेदनम् ॥ 393 ॥
ततस्तु देवदेवस्य कुर्यात्कौतुकबन्धनम् ।
कुम्भानां विहितं कर्म न कृतं यदि वै पुरा ॥ 394 ॥
कया त्वनुपपत्त्या तु तदा तत्सर्वमाचरेत् ।
स्नानासनोदितैभोगैर्मुखलेपान्तिमैः क्रमात् ॥ 395 ॥
पूजयित्वा ततः कुम्भैः स्नापयेदुक्तवर्त्मना ।
सर्वेषामपि कुम्भानां स्नानशेषं तु पूरयेत् ॥ 396॥
घटान्तरं तु द्रव्याणामन्तरान्तरयोगतः ।
शुद्धाम्भसा स्नापयित्वा वस्त्रेणार्घ्यादिभिर्यजेत् ॥ 397
एवं संस्नाप्य विधिवद्रजनीचूर्णपूरितैः ।
अलङ्कृते धान्यपीठे पुरस्तादधिवासितैः ॥ 398 ॥
पञ्चविंशतिभिः कुम्भैर्नवभिः पञ्चभिस्तु वा ।
एकेन वापि तच्चूर्णं श्रीसूक्तेन द्विजोत्तमाः! ॥ 399 ॥
प्रदद्यान्मूर्ध्नि देवस्य भूयश्चार्घ्यादिभिर्यजेत् ।
सर्वाङ्गं परिमृज्याथ भक्तानां मूर्ध्नि दापयेत् ॥ 400 ॥
विष्वक्सेनस्य दत्वा तु तन्मन्त्रेण ततो द्विजाः! ।
सहस्रधारास्नपनमाचरेच्छुद्धवारिभिः ॥ 401 ॥
सवन्दनादिकं दत्वा ततः पीठास्ततः प्रभुम् ।
अलङ्कारासनं नीत्वा आसनादिक्रमाद्यजेत् ॥ 402 ॥
भोगैः सांस्पर्शिकैः प्राग्वद्विविधैरौपचारिकैः ।
हृदयङ्गमसञ्ज्ञैश्च विचित्रैश्च मनोहरैः ॥ 403 ॥
एवं द्विजप्रदानान्तं होमान्तं वा प्रपूज्य च ।
शिबिकादौ समारोप्य पूर्ववत्सम्प्रवेशयेत् ॥ 404॥
प्रदक्षिणक्रमेणैव प्रासादाभ्यन्तरं ततः ।
तत्रावरोप्य तद्बिम्बं स्वस्थाने सन्निवेश्य च ॥ 405 ॥
इष्ट्वा चार्घ्यादिभिर्भोगैर्मूलबिम्बं तथैव च ।
समर्प्य च कृतं कर्म कुर्याच्चैव विसर्जनम् ॥ 406 ॥
[[193]]
मृण्मयादौ मूलविम्बे विधिरेवं प्रकीर्तितः ।
शिलामयादिके मूले स्नपनार्हे मुनीश्वराः! ॥ 407 ॥
तमेव स्नाप्य पूर्वोक्तविधिना कौतुकादिमम् ।
हविरन्तैः समभ्यर्च्य होमान्तं सर्वमाचरेत् ॥ 408 ॥
ततस्तु चौत्सवं बिम्बं विचित्रैर्वसनैस्तथा ।
अनेकैर्भूषणै रम्यैर्माल्यैश्च सुसुगन्धिभिः ॥ 409 ॥
अलङ्कृत्य समारोप्य शिबिकां सम्प्रवेशयेत् ।
आस्थानमण्टपं सम्यगुत्सवोदितवर्त्मना ॥ 410 ॥
तत्रावरोप्य यानाच्च सौवर्णे वितते शुभे ।
भद्रासनेथ वा विप्राः! विचित्रास्तरणान्विते ॥ 411 ॥
यथाक्रमोदितेनैव वर्त्मना सम्प्रपूजयेत् ।
सांस्पर्शिकादिकैर्भोगैर्विविधैस्तु विशेषतः ॥ 412 ॥
महाहविर्निवेद्याथ कृत्वा सर्वं क्रमेण तु ।
द्विजप्रदानपर्यन्तमग्नौ सन्तर्पयेत्क्रमात् ॥ 413 ॥
समर्पणादिकं सर्वं कृत्वा देवं जगत्पतिम् ।
समारोप्य च यानादौ सर्वमङ्गळसंयुतम् ॥ 414 ॥
प्रवेशयेत्तु प्रासादं यानादेरवरोप्य च ।
स्वस्थाने सन्निवेश्याथ अर्घ्यगन्धादिभिर्यजेत्
415 ॥
मूलबिम्बं तथाभ्यर्च्य कृतं कर्म समर्पयेत् ।
स्नानशेषेण तोयेन कुम्भस्थेन क्रमेण तु ॥ 416 ॥
द्वारस्थान्
सकलान्
देवान्
तथा चावरणस्थितान् ।
बलिदानक्रमेणैव सम्प्रोक्ष्य परिपूज्य च ॥ 417 ॥
बलिं च दत्वा शेषेण गणेशमभिषिच्य च ।
पूजयेदर्घ्यगन्धाद्यैरथ वा ह्यनुकल्पके ॥ 418 ॥
पूजावसाने देवस्य स्नपनव्यक्तिगस्य च ।
प्रोक्षणं देवतानां च गणेशस्याभिषेचनम् ॥ 419 ॥
आचरेत्क्रमयोगेन यजमानस्ततो द्विजाः! ।
आचार्यान्
साधकांश्चैव तोषयेद्विविधैर्धनैः ॥ 420 ॥
अन्यांश्च वैष्णवान्
सर्वान्
यथाशक्ति च तोषयेत् ।
अनिवारितमन्नाद्यं सार्वजन्यं तु कारयेत् ॥ 421 ॥
एवमेव हि सर्वेषु स्नपनेषु क्रियाक्रमः ।
प्रोक्षणं परिवाराणां बलिदानं च वर्जयेत् ॥ 422 ॥
महाहविर्विधानं च विभवे सति कल्पयेत् ।
प्रधानादिक्रमेणैव स्नपनानां तु पञ्चकम् ॥ 423 ॥
कुर्यान्नित्ये विधौ विप्राः! तथा नैमित्तिकेषु च ।
ततस्तु सूक्ष्मसूक्ष्मादिस्थूलस्थूलान्तपञ्चकम् ॥ 24 ॥
चातुरात्म्यादिदेवानां कार्यं स्नापनकर्मणि ।
अयने विषुवे चैव ग्रहणे चन्द्रसूर्ययोः ॥ 425 ॥
स्नपनं मुख्यकल्पे तु ह्याचरेदुत्तमोत्तमम् ।
अनुकल्पे तु तन्मध्यं तन्न्यूनादिचतुष्टयम् ॥ 426 ॥
अयनद्वयमध्यस्थसङ्क्रान्तिद्विचतुष्टये ।
आवृतिक्रमयोगेन कल्पयेन्मुनिपुङ्गवाः! ॥ 427 ॥
[[194]]
उत्सवारम्भदिवसे तदन्ते च समारभेत् ।
अधमोत्तमसञ्ज्ञं तु तन्मध्ये वानुकल्पके ॥ 428 ॥
महाहविर्विधाने तु तन्न्यूनं तु समाचरेत् ।
प्रायश्चित्तेषु कार्येषु सर्वाण्येतानि कल्पयेत् ॥ 429 ॥
तेषां स्नपनभेदं तु वक्ष्याम्युपरि विस्तृतम् ।
स्नपनानां विधानं तु दिव्यशास्त्रोक्तवर्त्मना ॥ 430 ॥
यथावत्कथितं सम्यक् किमन्यच्छ्रोतुमिच्छथ ।
इति यां स्नपनविधिर्नाम पञ्चदशोऽध्यायः