१४

चतुर्दशोऽध्यायः
14 - पवित्रोत्सवादि विधिः मुनयः शयनस्थे जगन्नाथे चातुर्मास्यस्य मध्यतः ।
पवित्रारोपणं कार्यमित्युक्तं भवता पुरा ॥ 1
तद्विधानं विस्तरेण वदस्व वदतां वर ।
नारदः वक्ष्ये लोकहितार्थाय पवित्रारोपणक्रमम् ॥ 2
शृणुध्वं सावधानेन चेतसा मुनिपुङ्गवाः ।
लोपबुद्धिं विना यस्य भोगानामप्यसम्भवः ॥ 3
सामर्थ्येन विना यस्य कृच्छ्रादीनां परिच्युतिः ।
ज्वरादिव्याधिदोषेण जातो यस्याह्निकक्षयः ॥ 4
चातुर्मास्यस्य वाऽप्राप्तिर्यस्य स्वातन्त्यतो विना ।
तस्य तस्य महाबुद्धे शृणु यद्विहितं हितम् ॥ 5
सांस्पर्शिकानां भोगानां मात्रावित्तं हि पूरणम् ।
हृदयङ्गमसञ्ज्ञानामन्नं च हविषाऽऽप्लुतम् ॥ 6
औपचारिकभोगानां बीजानि विहितानि वै ।
कृच्छ्रचान्द्रायणादीनां व्रतानां परिपूरकः ॥ 7
विशेषार्चनसंयुक्तश्चातुर्मास्यस्य संयमः ।
सौत्रं प्रतिसरं चित्रं मुक्ताहारोपमं शुभम् ॥ 8
शमं नयति भक्तानां सर्वदा लोपमाह्निकम् ।
तच्च मासचतुष्कस्य मध्ये कुर्याच्छुभे दिने ॥ 9
आषाढपञ्चदश्यास्तु यावद्वै कार्तिकस्य च ।
सम्पूर्णं चन्द्रदिवसं तं कालं चान्द्रमन्तिमम् ॥ 10
आकर्कटकसङ्क्रान्तेस्तुलाभोगक्षयावधि ।
कालं तमष्टपक्षं च सौरं मध्यमसञ्ज्ञितम् ॥ 11
एकादश्यां दिनान्तो यश्चातुर्मास्योपलक्षितः ।
कालं तं वैष्णवं विद्धि तूत्तमं सर्वसिद्धिदम् ॥ 12

[[159]] अप्राप्तेरस्य कालस्य त्वन्तरायेण केनचित् ।
निर्वाहणीयोऽप्यपरः कालश्चान्द्रायणादिना ॥ 13
सम्पाद्यश्चैव तन्मध्ये विधिवद्यागपूर्वकम् ।
प्रासादस्याग्रतः कुर्यात्तदर्थं मण्टपं द्विजाः ॥ 14
प्रथमावरणे वापि द्वितीयावरणेपि वा ।
तृतीयावरणे वाथ चतुर्थे पञ्चमेपि वा ॥ 15
अग्र्यालाभे तदन्यत्र यथा वाञ्छितदिग्गतम् ।
चतुरश्रं समं वापि प्राक्पश्चिमदिगायतम् ॥ 16
सौम्ययाम्यायतं वापि कर्तुरिच्छानुरूपतः ।
तथा प्रागाननं यद्वा यथाभिमतदिम्मुखम् ॥ 17
द्वाविंशतिधनुर्मानं मण्टपं चोत्तमं भवेत् ।
अष्टादशधनुर्मानं मण्टपं मध्यमं भवेत् ॥ 18
अधमं द्वादशधनुर्मानं स्यादथ वा द्विजाः ।
पञ्चहस्तात्समारभ्य द्विद्विहस्तप्रवर्धनात् ॥ 19
त्रिसप्तकरपर्यन्तं मानैर्नवविधं भवेत् ।
यद्वोत्तमं दशकरं मध्यमं चाष्टहस्तकम् ॥ 20
षड्ढस्तं त्वधमं विद्यात् क्षुद्रं हस्तत्रयायतम् ।
त्रिंशत्करावसानं वा षट्करात्पञ्चविंशतिः ॥ 21
एकं सङ्गृह्य मानेषु ह्येषु वित्तानुरूपतः ।
सोपपीठमधिष्ठानं केवलं वा मसूरकम् ॥ 22
अधिष्ठानोपरि स्तम्भं प्रस्तरं च त्रिवर्गकम् ।
कपोतप्रतिसंयुक्तं यद्वोक्ताकृतिवर्जितम् ॥ 23
एकत्रिपञ्चसप्तादिभित्तिभेदैः समावृतम् ।
प्रत्यङ्गोक्तैरलङ्कारैर्युक्तं वा तद्विवर्जितम् ॥ 24
शिलयेष्टकया वापि पक्वया वाप्यपक्वया ।
एकद्वारं चतुर्द्वारं यद्वा द्वारद्वयान्वितम् ॥ 25
भित्तियुक्तमयुक्तं वा कोणभित्तियुतं तु वा ।
केवलं वा प्रपामात्रमुक्तलक्षणवर्जितम् ॥ 26
क्षिप्रकर्मप्रसिद्ध्यर्थं शरकाष्टमयं शुभम् ।
गवाक्षकान्वितं चैव द्वारैस्तु परिभूषितम् ॥ 27
छन्नं वितानकेनोर्ध्वे प्रासादं परिकल्पयेत् ।
क्षेत्रसङ्कोचविस्तारौ कर्तुरिच्छानुसारतः ॥ 28
शिल्पशास्त्रानुसारेण कृत्वैवं मण्टपं द्विजाः ।
यागार्थं सुशुभं विप्रास्तन्मध्येथ प्रकल्पयेत् ॥ 29
मसूरकमधिष्ठानं वास्त्वाधारं धरातलम् ।
दृढां समां तदाकारामीषत्प्रागुत्तरप्लवाम् ॥ 30
प्रोच्छ्रितां च विशेषेण स्थलीं दर्पणसन्निभाम् ।
सामान्या न भवेद्येन मेदिनी मण्टपस्य तु ॥ 31
द्विद्विकेनाङ्गुळानां तु प्रोन्नतेर्यावदष्टकम् ।
एकवृध्याल्पमानानां यागानां तु स्थलाङ्गणम् ॥ 32
नवाङ्गुळोन्नतेस्तावद्यावत्पञ्चदशाङ्गुळम् ।
प्रोन्नतत्वं स्थलानां च मध्यमानं मितात्मनाम् ॥ 33

[[160]] चर्तुींवशत्यङ्गुळान्तमुच्छ्रायं षोडशाङ्गुळात् ।
प्रागुक्तवृध्या कर्तव्यं ज्येष्टमानं मितात्मनाम् ॥ 34
एवमुच्छ्रायमानं च कथितं च स्थलीषु हि ।
पादमर्धं तु हस्तं वा विस्तारात्सर्वदिक्षु वै ॥ 35
स्थलीनामिष्टकाद्यैश्च चिन्वीयात्प्रथमं ततः ।
मृदा सम्पूर्य तन्मध्यमीषद्वालुकयान्वितम् ॥ 36
परीक्ष्य केशकीटादीनाकोट्य तदनन्तरम् ।
यावद्भवति पूर्वोक्तलक्षणं वा विशेषतः ॥ 37
स्थलीं मध्योन्नतां रम्यां सप्ताहं सम्परीक्ष्य सा ।
न ददाति यदा भेदं यागयोग्या भवेत्तदा ॥ 38
तदूर्ध्वे वेदिकां कुर्यादनेकचरणान्विताम् ।
तोरणैश्च समायुक्तां विभवेच्छानुसारतः ॥ 39
पावनैर्यज्ञकाष्ठैश्च सुदृढैः सरलैः समैः ।
यथालक्षणयुक्तानि तोरणानि चतुर्दिशि ॥ 40
द्वाराणां बाह्यतो विप्रास्तदन्तर्वा नियोजयेत् ।
त्रीणि त्रीण्यथ वा सम्यगेकैकस्यां न्यसेद्दिशि ॥ 41
बुध्वा मण्टपविस्तारं पञ्चकं सप्तकं तु वा ।
एतानि हेमरत्नाद्यैश्चित्रयेद्विभवे सति ॥ 42
श्रीवृक्षोदुम्बरवटप्लक्षोत्थैरथ वा द्विजाः ।
पूर्वाद्युत्तरपर्यन्तं तोरणानां चतुष्टयम् ॥ 43
चतुष्टयं चतुर्दिक्षु ह्येषामेकैकमेव वा ।
तोरणानां समुच्छ्रायः स्तम्भायामसमः स्मृतः ॥ 44
स्तम्भद्वयान्तरस्थेन मानेन स्यात्तु विस्तृतिः ।
स्तम्भमस्तकमानेन साधिकेन सदैव हि ॥ 45
तद्दण्डान् विन्यसेद्भूमौ स्तम्भाभ्यन्तरगा स्थितिः ।
सदैव दृक्स्वरूपाणां कार्या वेदविदां वराः ॥ 46
द्वाराणां बाह्यतो विप्रास्तोरणानां यदा स्थितिः ।
तलाच्छिखरपर्यन्तं मानमुच्छ्रायतस्तदा ॥ 47
सार्धं समं वा द्विगुणं तद्दण्डेषु च भूगतम् ।
चक्रद्वितयमध्यस्थं पक्षमण्डलमण्डितम् ॥ 48
तोरणे तोरणे कुर्याद्गरुडं चोर्ध्वसंस्थितम् ।
तत्पार्श्वयोश्चक्रचिह्नौ नानावर्णध्वजौ न्यसेत् ॥ 49
सितरक्तादिभेदेन प्रागादौ तु ध्वजाष्टकम् ।
निवेश्य मध्यवेद्यां तु प्रभवाप्यययोगतः ॥ 50
मत्स्यादीनवतारांश्च प्रादुर्भावाननेकशः ।
चित्रोदितेन विधिना चतुर्दिक्षु समालिखेत् ॥ 51
मुनिसिद्धामरव्रातैरनेकाद्भुतदर्शिभिः ।
द्वीपाचलवनोद्यानैर्बहुभिर्मृगयूथपैः ॥ 52
सरस्सारसकह्लारजलक्रीडापरान्वितैः ।
खेचरैरङ्गनायुक्तैर्नृपैर्विद्याधरादिपैः ॥ 53
प्रशान्तमानसैर्विप्रैरात्मध्यानपरायणैः ।
एवमाद्यैरनन्तैश्च व्यापारैश्चित्रसम्भवैः ॥ 54

[[161]] तद्यागवेश्म सकलं रञ्जनीयं प्रयत्नतः ।
कुर्यात्सुधावलिप्तं वा भूषयेत्तदनन्तरम् ॥ 55
दर्पणैश्चामरैर्वस्त्रैर्दुकूलैर्विविधोज्वलैः ।
घण्टाभिरर्धचन्द्राद्यैरातपत्रैर्मनोहरैः ॥ 56
प्रोच्छ्रितैः कदळीपूगैः द्रुमाङ्गैः पावनैर्दृढैः ।
मध्वाज्यदधिसत्क्षीरसम्पूर्णैः कांस्यभाजनैः ॥ 57
शालितण्डुलपात्रैश्च सहिरण्यैः फलैः शुभैः ।
लाजसिद्धार्थकैर्बीजभाजनैः षड्रसान्वितैः ॥ 58
सत्सुगन्धैस्त्वगेलाद्यैः पर्णैः पूगफलैस्तथा ।
मधूकबदरद्राक्षाइक्षुभिस्त्रिफलैः फलैः ॥ 59
यथर्तुप्रभवैः पुष्पैः बहुभिः प्रकरीयकैः ।
इत्येवमाद्यैर्विविधैर्भोगपूगैस्तु पावनैः ॥ 60
पवित्रेण वितानेन सुसितेनोज्वलेनवा ।
चक्राम्बुरुहचिह्नेन भूषयेच्च तदूर्ध्वतः ॥ 61
स्तम्भान् संवेष्टयेत्पश्चाद्दुकूलैर्विविधैः पृथक् ।
प्रागुत्तरादिदिग्भागाद्यावत्कोणं च मारुतम् ॥ 62
सितादिवर्णभेदोत्थाः पताकास्तत्र योजयेत् ।
एवं रागविभागेन प्रत्यग्भागाच्च वै पुनः ॥ 63
दक्षिणाशावधिर्यावद्द्वितीयं च चतुष्टयम् ।
एकैव स्वर्ण(सर्व)वर्णा च नाभौ कार्या वितानके ॥ 64
बाह्यतो वेदिकायास्तु मण्टपस्य दिगष्टके ।
वह्निकोणात्समारभ्य यावत्कोणं तु शाङ्करम् ॥ 65
सितारुणं च पीतं च कृष्णं कुर्याच्चतुष्टयम् ।
भूयश्चोत्तरदिग्भागाद्यावत्पश्चिमदिक् द्विजाः ॥ 66
तथाविधं चतुष्कं तु ध्वजानां परिकीर्तितम् ।
राजपाषाणवर्णाभं चक्रपक्षीश्वरोपगम् ॥ 67
वैजयन्तीत्रयं कुर्यात्तोरणे पूर्वदिक्स्थिते ।
दक्षिणे स्फटिकाभं तु आप्ये सिन्दूरवर्चसम् ॥ 68
हेमाभं चोत्तरे कुर्यात्तोरणे ध्वजकत्रयम् ।
चतुष्केणपताकानां युक्तं श्वेतादिकेन च ॥ 69
एकैकं तोरणं वात्र त्रितयं पञ्चकं तु वा ।
अर्धेन तोरणायामात्पताकानां च दीर्घता ॥ 70
एवं त्वभिनवं कृत्वा यागार्थं मण्टपं द्विजाः ।
स्नपनाद्युत्सवान्तस्य वैशेषिकगणस्य च ॥ 71
पुरा प्रकल्पितं वाथ मण्टपं भूषयेत्तदा ।
एवं कृते ततः पश्चाद्वेदिकां तोरणैः सह ॥ 72
विलिप्य चन्दनाद्यैस्तु गन्धवर्णोज्वलैः क्रमात् ।
चन्दनेन समालभ्य वेदिकां केवलेन च ॥ 73
बाह्लीकभावितेनैव तेनैवाद्यं च तोरणम् ।
लिप्तं मृगमदेनैव कुर्याद्दक्षिणदिग्गतम् ॥ 74
तुषारधूळीधवळं पश्चिमं कारयेत्ततः ।
कुङ्कुमेन समालभ्य केवलेनोत्तरे स्थितम् ॥ 75

[[162]] क्षीरेण चन्दनेनैव कुङ्कुमेन कृतां स्थलीम् ।
रजनीचूर्णयुक्तेन ह्रीबेरेणाम्बुना सह ॥ 76
पुण्यगन्धौषधीभिस्तु द्वाराणां मण्टपावनिम् ।
ततस्तु विविधैर्धूपैर्बहुभिर्धूपयेद्द्विजाः ॥ 77
ततस्तिरस्करिण्या तद्वेष्टयेत्सर्वतो बहिः ।
मण्टपस्योत्तरे भागे कुर्यात्कुण्डं पुरैव तु ॥ 78
यद्वा द्विजास्ततोऽन्यत्र यागाग्रस्था च वर्ज्यदिक् ।
दिक् त्रयेऽभिमता या दिक्कुर्यादनलमण्टपम् ॥ 79
धूमनिर्गमनोपेतं नानाकुण्डविभूषितम् ।
सान्द्रैश्च सुपलाशैश्च संयुक्तं तोरणादिकैः ॥ 80
यद्वा पचनगेहे तु कुण्डं कुर्यात्सलक्षणम् ।
अन्यन्नैमित्तिकार्थं तु पुरा कॢप्तं तु वा भवेत् ॥ 81
यागमण्टपविन्यासं सर्वत्रैवं समाचरेत् ।
एवं कृते ततः कुर्यात्सम्भारग्रहणं द्विजाः ॥ 82
तत्र तावत्पवित्राणां निर्माणमधुनोच्यते ।
तेषां तु द्विविधं रूपं सूक्ष्मस्थूलविभेदतः ॥ 83
सर्वभावेन भक्तानां यत्पालयति सर्वदा ।
मनोवाक् चित्तजं कृत्स्नं व्यापारं शुभलक्षणम् ॥ 84
परिज्ञेयमतस्तस्मात्स्वरूपं तस्य यादृशम् ।
फलमेति च वै येन भक्तानां तत्समापनात् ॥ 85
यदच्छिन्नं जगद्योनेरनन्तप्रसरं सितम् ।
विच्छेदमकृतज्ञानमेति नानात्मना स्वयम् ॥ 86
जगत्सूत्रं तु तद्विद्धि हेमसूत्रादिना तु वै ।
षाड्गुण्यमहिमानं यद्धत्ते प्रतिसरात्मना ॥ 87
ज्ञानरागोपरक्तं तु युक्तं कार्यैस्तु वीर्यजैः ।
तैजसैरावृतं मन्त्रैर्बलेनावासितं परि ॥ 88
ऐश्वर्यमुपचारे तु सम्पत्तौ शक्तितोऽव्ययम् ।
एवं पवित्रकं तावत्परिज्ञेयं जगत्प्रभोः ॥ 89
ब्रह्मण्याधिपतौ विष्णौ तदाकारे प्रतिष्ठिते ।
भक्त्या च विधिवद्दत्तं ददाति भगवत्पदम् ॥ 90
स्थूलस्य व्यतिरिक्तस्य व्यवहारपदे स्थितैः ।
पदार्थैः कल्पनीयं च तद्विधानमिहोच्यते ॥ 91
सूक्ष्मं दृढं सितं श्लक्ष्णं सूत्रं ब्रह्मप्रसूतया ।
विनिर्मितं कुमार्या वा वृद्धया वा विनीतया ॥ 92
शुद्धया वा विधवया सम्पादितमथापि वा ।
क्षौमं वा पट्टजं वापि केशरोमादिवर्जितम् ॥ 93
यथालब्धं समादाय सम्यक् प्रक्षाळ्य वारिणा ।
तस्य शुद्धिं पुरा कृत्वा दहनाप्यायनेन च ॥ 94
अवलोक्य स्मरन्मूलं विनिष्पाद्य चतुर्गुणम् ।
चातुरात्म्यव्यपेक्षायामथ वाष्टगुणं द्विजाः ॥ 95
प्रभवाप्ययबुध्या तु भेदभिन्नोपलक्षितम् ।
केशवादिष्वधिष्ठातृभावेन त्रिचतुर्गुणम् ॥ 96

[[163]] तन्तुभिर्विशमैर्विष्णोः समस्य परिवर्जयेत् ।
पावित्रिकी क्रिया यस्माद्विषमा सा न कस्य चित् ॥ 97
पवित्रकाणि कार्याणि तन्तुभिस्तैः सितासितैः ।
मूलमन्त्रादिसर्वेषां मन्त्राणां मुनिसत्तमाः ॥ 98
कुम्भस्थमन्त्रमूर्तेः प्राक्कल्पयेद्भूषणं द्विजाः ।
अध्यर्धशतजैर्व्यासाद्धाराकारैश्च तन्तुभिः ॥ 99
शतेनाष्टोत्तरेणाद्यं द्विगुणेन द्वितीयकम् ।
त्रिगुणेन तृतीयं तु व्यासमेवं तु तन्नयेत् ॥ 100
षट्त्रिंशद्ग्रन्धिकं चाद्यं द्वितीयं द्विगुणं स्मृतम् ।
तृतीयं त्रिगुणं कुर्यादेवमेव महामतिः ॥ 101
मण्डलस्थस्य च विभोस्तथा वह्निगतस्य च ।
बिम्बस्थस्य पवित्राणां विशेषोप्यवधार्यताम् ॥ 102
मालाकृतिं तु शिरसि यथेच्छग्रन्धिपूर्वकम् ।
द्वितीयमंसयोर्यावल्लम्बितं जानुमण्डले ॥ 103
मूर्ध्नः पादावधिर्यावत्तृतीयमिति विश्रुतम् ।
आमूर्ध्नः पीठपर्यन्तं वनमालापवित्रकम् ॥ 104
पृथक्पीठस्य वै कुर्यात्स्वप्रमाणेन शोभनम् ।
बिम्बप्रतिसराणां च व्यासश्चानियतः स्मृतः ॥ 105
सूत्रमानं च पूर्वोक्तं द्विगुणं सति सम्भवे ।
त्रिगुणं वा मुनिश्रेष्ठाः वनमालाख्यभूषणम् ॥ 106
अष्टोत्तरेण सूत्राणां सहस्रेण समन्वितम् ।
यद्वा तदर्धं पादं वा कुर्याद्वित्तानुरूपतः ॥ 107
लेपभित्तिपटस्थे तु मूलबिम्बे यदा द्विजाः ।
कुर्यादुत्सवबिम्बस्य भूषणानां तु पञ्चकम् ॥ 108
तदापि मूलबिम्बस्य भूषणान्यपि पूर्ववत् ।
कल्पयेदाद्यपूर्वाणि बिम्बप्रतिसरेषु तु ॥ 109
विभवे देवदेवेशे हारपञ्चकसंयुतम् ।
नानाकाराणि तन्तूनि मुक्ताहारसमन्वितम् ॥ 110
त्र्यङ्गुळान्तरिता देयाः सर्वेषां ग्रन्धयः समाः ।
सङ्ख्यानेन विना सम्यम्मातुलुङ्गोपमाः शुभाः ॥ 111
अष्टोत्तरशतग्रन्धिसंयुक्ता वनमालिका ।
चतुःस्थानावतीर्णस्य विभोरामन्त्रणाय च ॥ 112
पवित्रमाद्यसदृशमेकैकं वा द्वयं द्वयम् ।
सर्वेषां कर्मबिम्बानां तथा वै गोपुरादिषु ॥ 113
स्थितानां मन्त्रबिम्बानां भजतां सन्निधिं सदा ।
उत्तमादीनि कर्माणि कुर्याद्वै मुख्यकल्पने ॥ 114
प्रकल्पयेत्तत्सदृशं मध्यमेनोत्तमेन वा ।
द्वितयं द्वितयं वापि ह्येकैकं वानुकल्पने ॥ 115
अङ्गानां भूषणानां च लाञ्छनानां तथैव च ।
शक्तीनां विहगेशस्य पवित्रं कल्पयेत्तथा ॥ 116
प्राग्वत्त्रीण्यथ वा द्वे द्वे एकैकं वाथ वा द्विजाः ।
यथेच्छामानसङ्ख्योत्थैः सूत्रैस्तु परिकल्पयेत् ॥ 117

[[164]] सूत्रभ्रमसमोपेतैर्गर्भैर्भूषणसञ्चयम् ।
अन्येषां मण्डलाङ्गानां देवानां विभवे सति ॥ 118
पवित्रकगणं कुर्याद्यथेच्छाग्रन्धितन्तुभिः ।
तथैव विष्वक्सेनादेः परिवारगणस्य च ॥ 119
मन्त्रास्त्रकुम्भयोर्द्वे वै ह्येकं वै मण्डलस्य च ।
द्वयं च कुण्डानलयोः शास्तृपीठस्य च द्वयम् ॥ 120
लिपेर्वाक्तत्वभूतस्य शब्दतत्त्वस्य च प्रभोः ।
घण्टाक्षसूत्रपूर्वाणां क्रियाङ्गानां महात्मनाम् ॥ 121
बलिपीठाधिदेवानां देशान्तरनिवासिनाम् ।
गुर्वादीनां चतुर्णां तु हरिलिप्साप्रलापिनाम् ॥ 122
द्विजोत्तमादिवर्णानां नित्यमच्युतभाविनाम् ।
गृहस्थब्रह्मचारिणां यतीनां वनवासिनाम् ॥ 123
वृद्धानां जनकादीनां भगवत्तत्ववेदिनाम् ।
बन्धूनां भ्रातृपुत्राणां नारायणरतात्मनाम् ॥ 124
जायाया भक्तिनम्राया रताया अर्चने हरेः ।
सम्बन्धिनां च मित्राणां भगवद्धामवासिनाम् ॥ 125
तदुत्तरसहायानां चातुरात्म्याभिलाषिणाम् ।
भृत्यानां स्वानुकूलानां पुरुषोत्तमयाजिनाम् ॥ 126
वृद्धये योग्यतायै च पवित्रीकरणाय च ।
यथाभिमतमानैस्तु तन्तुभिर्ग्रन्थिभिस्तथा ॥ 127
कुर्यात्पवित्रनिचयमथ वा मुनिसत्तमाः ।
गुर्वादीनां चतुर्णां तु यतीनां च कुटुम्बिनाम् ॥ 128
क्रमाच्चर्तुींवशतिभिः सूत्रैः षोडशभिस्तथा ।
ततो द्वादशभिश्चैव अष्टभिः षट्त्रिभिस्तथा ॥ 129
पवित्रकाणि कार्याणि ग्रन्थयः सूत्रसङ्ख्यया ।
आराधकस्य च गुरोः कुर्याद्वै भूषणद्वयम् ॥ 130
स्थूलकल्पमिदं प्रोक्तं सूक्ष्मकल्पमिहोच्यते ।
शिरःप्रमाणेनार्चाया भूषणं प्रथमं स्मृतम् ॥ 131
चतुःशतेन सूत्राणां द्वात्रिंशद्भिस्तथाधिकैः ।
सूत्रावर्तैश्च सुसमैः परिकल्प्य च शोभनम् ॥ 132
सप्तविंशत्प्रमाणेन दत्वास्मिन् ग्रन्थिसञ्चयम् ।
कर्णादूर्ध्वगतं नाभिप्रमाणेन पवित्रकम् ॥ 133
परिकल्प्य द्वितीयं च सूत्राणां मुनिसत्तमाः ।
शतत्रयेण च तथा चर्तुींवशद्भिरेव च ॥ 134
द्विगुणैर्ग्रन्थिनिचयैरनुगर्भं तु तत्स्मृतम् ।
स्कन्धदेशात्समारभ्य यावत्पादद्वयावधि ॥ 135
नेत्रसूत्रैस्त्रिभागोनैः सूत्रग्रामैश्च कल्पयेत् ।
त्रिगुणैर्ग्रन्थिनिचयैस्ततोन्यद्द्विजसत्तमाः ॥ 136
अष्टोत्तरेण सूत्राणां शतेन ग्रन्थिभिस्तथा ।
शिरःपूर्वावतारादौ यावत्पीठं तु वैष्णवम् ॥ 137
सूत्रैर्ग्रन्थिगणैश्चैव गर्भैस्तु विविधैस्ततः ।
मण्डलस्य प्रमाणेन कुर्याच्चान्यच्चतुष्टयम् ॥ 138

[[165]] प्रथमं पद्ममानेन नाभिमानं द्वितीयकम् ।
अरतुल्यं तृतीयं स्याच् चतुर्थं नेमिभिः समम् ॥ 139
एकाशीतिभिरावर्तैः सूत्राणां द्विजसत्तमाः ।
अग्नेः कुण्डप्रमाणेन ग्रन्थिभिस्तावदेव हि ॥ 140
भूषणत्रितयं कुर्याद्यथायोगं महामतिः ।
अष्टोत्तरशतादर्धैस्सूत्रैस्तद्ग्रन्थिभिस्तथा ॥ 141
भूषणं सुसमं चैव सुशुभं परिकल्पयेत् ।
द्विजेन्द्रा द्विजमुख्यानां ब्राह्मणानां तदर्धतः ॥ 142
मुख्यमेतत्स्मृतं कल्पमनुकल्पोधुनोच्यते ।
अष्टाधिकेन सूत्रेण शतेन प्रथमं त्विदम् ॥ 143
चतुर्भागोनमपरं तदर्धेन तृतीयकम् ।
आद्याच्चतुर्थभागेन चतुर्थं कल्पयेत्ततः ॥ 144
त्रिभागोनं चतुर्थात्तु अग्नेः कुर्यात्तु भूषणम् ।
द्विजेन्द्राणां प्रकुर्वीत सप्तविंशतितन्तुजम् ॥ 145
ब्राह्मणानां प्रकुर्वीत तन्तुभिर्नवभिर्द्विजाः ।
स्तनादूर्ध्वमधो नाभेर्न कर्तव्यं कदाचन ॥ 146
सूत्रत्रयेण चान्येषां भक्तानां तु जगद्गुरोः ।
सूक्ष्मकल्पमिदं प्रोक्तं परकल्पमिहोच्यते ॥ 147
चतुःस्थानावतीर्णस्य मुख्यमन्त्रस्य वै विभोः ।
शतेनाष्टोत्तरेणैव ह्यर्धेनांशेन वा द्विजाः ॥ 148
तन्तूनां भूषणं कुर्यादेकैकं वा त्रयं त्रयम् ।
जपहोमादिका सङ्ख्या पूर्णा रिक्ता महात्मनाम् 149
समीकरोति भक्तानां मन्त्रिणामत एव हि ।
कुर्यात्तद्ग्रन्थिनिचयं सूत्रसङ्ख्योपलक्षितम् ॥ 150
यदृच्छया ततोन्येषां याज्यानां परिकल्प्य च ।
सूत्रभ्रमसमोपेतैर्गर्भैर्भूषणसञ्चयम् ॥ 151
ततस्तु देवदेवस्य चतुःस्थानस्थितस्य यत् ।
पवित्रकगणं विप्राः प्रोक्तमाद्यपुरस्सरम् ॥ 152
कुर्यात्तु गर्भरचनां तस्य सर्वस्य सत्तमाः ।
हेमसद्रत्नकर्पूरमलयक्षोदकुङ्कुमैः ॥ 153
सर्वौषधिसमोपेतैस्त्वगेलादिविमिश्रितैः ।
पावनैर्विविधैर्द्रव्यैर्नीव्या सपिचुना सह ॥ 154
बीजपूरसमाकारमाम्रामलकशङ्खवत् ।
तदन्तराळानि पुनस्त्वच्छिन्नेन तु तन्तुना ॥ 155
विभागप्रतिपत्त्यर्थं ग्रथनीयान्यदूरतः ।
अन्येषां सर्वबिम्बानां यथावित्तानुरूपतः ॥ 156
कल्पयेद्गर्भरचनां पूर्वोक्तैर्द्रव्यसञ्चयैः ।
आराधकस्य च गुरोः सगर्भं भूषणद्वयम् ॥ 157
विहितं भगवन्मन्त्रन्यासात्तादात्म्यभावनात् ।
अतोन्येषामगर्भं च रचनीयं यथाक्रमम् ॥ 158
अन्तराळगणं गार्भं कुर्याद्बाह्लीकरञ्जितम् ।
अलङ्कृत्य च सौवर्णैरुपरिष्टाच्च रूप्यकैः ॥ 159

[[166]] पवित्रच्छेदसम्मूलं जातरूपमयैस्तु वा ।
शङ्खपद्मगदाचक्रमालाश्रीवत्सपूर्वकैः ॥ 160
एकस्यैव बहूनां वा यथावित्तानुसारतः ।
एवं कृत्वा पवित्राणि क्रमेण द्विजसत्तमाः ॥ 161
धातुजे वितते भाण्डे वस्त्रच्छन्ने निधाय च ।
अथ वा वैदळे भाण्डे मृण्मये वा सुशोभने ॥ 162
पालाशे वापि चैकस्मिन् मान्त्रं भूषणसञ्चयम् ।
अन्यस्मिन् लौकिकं स्थाप्य समस्तं द्विजसत्तम ॥163
आच्छाद्य वाससा पश्चात् सुसितेनाऽहतेन च ।
बन्धयित्वा तु सूत्रेण दृढेन सुसितेन च ॥ 164
मध्ये तु यागद्रव्याणां ते भाण्डे विनिवेशयेत् ।
एवं हि सर्वसम्भारान् सम्पाद्य द्विजसत्तमाः ॥ 165
चातुर्मास्ये त्वन्यतमे मासे वै शुक्लपक्षके ।
द्वादश्यां देवदेवस्य पवित्रारोपमाचरेत् ॥ 166
पूर्वं दशम्येकादश्योः कुर्यात् कर्माधिवासनम् ।
एकादश्यां वानुकल्पे अधिवासनमाचरेत् ॥ 167
सद्योधिवासं द्वादश्यां कुर्याद्वा शक्त्यभावतः ।
अधिवासदिनात्पूर्वदिने कृत्वाङ्कुरार्पणम् ॥ 168
अधिवासदिने कुर्याद्रक्षाबन्धं च देशिकः ।
अधिवासादिकं सर्वं शृणुध्वं मुनिपुङ्गवाः ॥ 169
आचार्यो मूर्तिपैः सार्धं दशम्यां तु निशामुखे ।
मन्त्रेशसन्निधिं गत्वा प्रपूज्यार्घ्यादिभिः क्रमात् ॥ 170
तस्मादनुज्ञामादाय प्रासादाग्रस्थितं शुभम् ।
यागमण्टपमासाद्य द्वारार्चनपुरस्सरम् ॥ 171
पूर्ववत्पूजनं कुर्यात्कलशे मण्डलक्षितौ ।
सम्प्रविश्य ततः प्राग्वन्मूलमूर्तौ तु पूजनम् ॥ 172
प्रदक्षिणप्रणामान्तं सविशेषं समाचरेत् ।
लेपभित्तिपटस्थं तु मूलबिम्बं यदा द्विजाः ॥ 173
तदा नैमित्तिके बिम्बे सर्वं कुर्याद्विशेषतः ।
एतस्य सन्निधौ विप्राः कृत्वा स्नपनमात्रकम् ॥ 174
स्नपनाधिकृते बिम्बे नित्यनैमित्तिकेपि वा ।
सर्वमन्यत्पवित्रान्तं मूलबिम्बे समाचरेत् ॥ 175
नित्योत्सवार्थं बिम्बे तु तदा कुर्यात्तदुत्सवम् ।
तेषामसन्निधौ विप्राः दर्पणे तत्समीपगे ॥ 176
कुर्यात्स्नपनमात्रं तु तदा कुर्यात्तदुत्सवम् ।
दर्भमञ्जरिजे कूर्चे चक्रे वा कुम्भकेपि वा ॥ 177
प्राग्वदन्यत्समस्तं तु मूलबिम्बे समाचरेत् ।
ततो होमगृहं गत्वा कुण्डं संस्कृत्य पूर्ववत् ॥ 178
तत्रानलं च संस्कृत्य कुर्याद्वै मन्त्रतर्पणम् ।
प्रासादं सम्प्रविश्याथ कृत्वा होमसमर्पणम् ॥ 179
प्रणम्य देवदेवेशं ततस्त्वेकं पवित्रकम् ।
दहनाप्यायसंशुद्धं प्रोक्षितं चार्घ्यवारिणा ॥ 180

[[167]] वासितं गन्धधूपाभ्यां चतुस्स्थानस्थितस्य च ।
निवेद्य च क्रमेणैव धूपं दत्वार्घ्यपूर्वकम् ॥ 181
निजानन्दमयैर्भोगैर्नित्यतृप्तस्त्वमव्ययः ।
तथापि भक्त्या तृप्तोहं त्वां यजाम्यात्मसिद्धये ॥ 182
इति विज्ञाप्य देवस्य ततोस्त्रेणार्घ्यवारिणा ।
सर्वं भूषणपूर्वं तु सम्प्रोक्ष्य द्रव्यसञ्चयम् ॥ 183
अथ पाणिद्वयेनैव अग्नीषोमात्मकेन तु ।
योग्यतापदवीं नीत्वा सर्वं भूषणसञ्चयम् ॥ 184
मूलमन्त्रेण सम्प्रोक्ष्य संस्पृश्याथ निरीक्ष्य च ।
कुम्भयोग्यानि चैकस्मिन् मण्डलीयानि चापरे ॥ 185
बिम्बयोग्यानि चैकस्मिन्ननियोग्यानि चापरे ।
अन्यानि मन्त्रयोग्यानि एकस्मिन् द्विजसत्तमाः ॥ 186
पात्रे पात्रे पृथक् स्थाप्य पात्रालाभानुरूपतः ।
आच्छाद्य वाससा पश्चात्सुसितेनाऽहतेन तु ॥ 187
तानि भूषणपात्राणि क्रमेण च पृथक् पृथक् ।
बन्धनीयानि सूत्रेण दृढेन सुसितेन च ॥ 188
शालिभिस्तण्डुलैर्वापि तिलैर्वा त्रितयेन वा ।
चतुस्त्रिद्व्येकभारैर्वा कृते पीठेथ वा स्थले ॥ 189
तानि भूषणपात्राणि संस्थाप्य पुरतो विभोः ।
प्रणवेनार्चयित्वा तु वर्मणा स्थगयेत्पुनः ॥ 190
देवागारं बहिश्चान्तः मन्दिरं यागसञ्ज्ञितम् ।
संवेष्ट्य सितसूत्रेण चतुर्धा तद्गुणेन तु ॥ 191
ततोऽभ्यर्थ्य समूहं तु पञ्चकालपरायणम् ।
षट्कर्मनिरतं चापि यतिबृन्दं तु वैष्णवम् ॥ 192
समक्षं भवतां भक्त्या श्वः प्रभुं पूजयाम्यहम् ।
सन्निधानमतः कार्यं मदनुग्रहकाम्यया ॥ 193
एवमभ्यर्थ्य तेभ्यस्तु ह्यनुज्ञां प्रतिगृह्य च ।
सन्निधौ देवदेवस्य जागरेण नयेन्निशाम् ॥ 194
एकादश्यां प्रभातेथ कृतस्नानः कृताह्निकः ।
आचार्यो ब्राह्मणैः सार्धं यतिभिर्वैष्णवोत्तमैः ॥ 195
स्वधर्मनिरतैश्चैव विष्णुभक्तैर्दृढव्रतैः ।
प्रविश्य भगवद्गेहं कृत्वा नित्यार्चनं विभोः ॥ 196
चतुःस्थानार्चनं चापि सविशेषं समाचरेत् ।
तथैव रात्रावपि च सविशेषं समाचरेत् ॥ 197
हवनान्तं क्रियाकाण्डं जपस्तुतिपरस्ततः ।
आराध्यस्याग्रतः स्थित्वा जागरेण नयेन्निशाम् ॥ 198
स्नात्वा ब्राह्मे मुहूर्तेथ देशिको वैष्णवैः सह ।
प्रविश्य देवसदनं कृत्वा नित्यार्चनं विभोः ॥ 199
चतुःस्थानस्थितं देवं समभ्यर्च्य यथाविधि ।
ततस्तु चौत्सवं बिम्बं श्रीपुष्टिभ्यां समन्वितम् ॥ 200
यानमारोप्य वस्त्राद्यैरलङ्कृत्य विशेषतः ।
मण्टपं तु समानीय विनिवेश्य च विष्टरे ॥ 201

[[168]] पाठयेच्चतुरो वेदान् चतुर्दिक्षु यथाविधि ।
अथ भूषणपात्रस्य गत्वा वै सन्निधिं द्विजाः ॥ 202
पूजयित्वा समुद्घाठ्य पात्रं प्रतिसरीयकम् ।
अवलोक्य समादाय ध्यायेदाद्येखिलं द्विजाः ॥ 203
सांवत्सरं तु यत्कर्म आप्रभातान्निशान्तिमम् ।
ध्यानोत्थं निष्कलं सम्यगपवर्गप्रदं तु यत् ॥ 204
संस्मृत्य निष्कलं मन्त्रं शुद्धोच्चारक्रमेण तु ।
मन्त्रे सन्धाय तत्सूत्रं सूत्रे मन्त्रं तथैव च ॥ 205
एकीकृत्यात्मना सार्धं दद्याद्वै मन्त्रमूर्धनि ।
समादायापरं सूत्रं तस्मिन् सकलनिष्कलम् ॥ 206
ध्यानकर्मस्वरूपं तु कर्म ध्यायेच्च वात्सरम् ।
स्मृत्वा चोभयरूपं तु मन्त्रं कलशपूजितम् ॥ 207
पूर्ववच्चानुसन्धानं कृत्वा दद्यात्पवित्रकम् ।
ततः प्रतिसरं विप्राः तृतीयं च समाचरेत् ॥ 208
बाह्यं सांवत्सरं कर्म सकलं चाखिलं स्मरेत् ।
पूजयन्तं स्वमात्मानम् आधाराच्च परावधिम् ॥ 209
लयभोगाधिकाराख्यक्रमेण सकलात्मना ।
सकलं मन्त्रनाथं तु लयभोगादि विग्रहम् ॥ 210
स्मृत्वा कृत्वा च सन्धानं दद्यात्प्रतिसरं ततः ।
अर्घ्यपुष्पैस्तथा गन्धैर्माल्यैर्धूपैस्तथा द्विजाः ॥ 211
पूजया सम्पुटीकुर्याद्भूषणानि पृथक् पृथक् ।
अन्तरान्तरयोगेन घण्टाशब्दसमन्विता ॥ 212
समस्तरत्नसद्धातुपुष्पाक्षतफलान्विता ।
सत्सुगन्धार्घ्यदर्भाड्या लाजसिद्धार्थकैर्युता ॥ 213
प्रक्षेप्तव्या तु बहुशो वृष्टिः करगतैर्मुदा ।
केवलापुष्पवृष्टिर्वा शङ्खादीनपि नादयेत् ॥ 214
दत्वैवं कलशस्थस्य पुरा विप्राः पवित्रकम् ।
अनेन विधिना दद्यान्मण्डलस्थस्य वै पुरा ॥ 215
पवित्रकत्रयं शुभ्रं भोगस्थाने च नारद ।
दद्यात्समस्तमन्त्राणां त्रीण्येकं वा यथेच्छया ॥ 216
बिम्बस्थं तु समभ्यर्च्य प्रदद्याद्भूषणानि तु ।
कलशोक्तक्रमेणैव वनमालाख्यभूषणे ॥ 217
पूर्ववच्चानुसन्धानं सर्वं कृत्वा निवेदयेत् ।
पृथङ् न्यासो यदा प्रोक्तः किरीटाद्यं चतुष्टयम् ॥ 218
क्रमेणावाहयेद्विप्रा भूषणानां चतुष्टये ।
किरीटाख्य सुरेशस्य भानुतुल्यप्रभान्वित ॥ 219
परिवारयुतस्तिष्ट त्वमस्मिन् शीर्षभूषणे ।
वक्षःस्थले जगद्योनेर्भूषणं कल्पितं मया ।
श्रीवत्सागच्छपूर्णेन्दु समाने भगवत्प्रिय ॥ 220
वक्षःस्थले जगद्योनेर्भूषणं कल्पितं मया ।
कौस्तुभागच्छ रत्नानामीश त्वं भगवत्प्रिय ॥ 221
धातुपुष्पसमाकीर्णे प्रवाळमणिभूषिते ॥ 222

[[169]] वनमाले समागच्छ देवदेवप्रिये शुभे ।
चतुर्भिरेतैर्मन्त्रैस्तु क्रमेणावाहयेद्द्विजाः ॥ 223
अस्त्राणां भूषणानां च लाञ्छनानां तथैव च ।
शक्तीनां विहगेशस्य तथैव मुनिसत्तमाः ॥ 224
पीठस्य च पवित्राणि प्रदद्यात्क्रमशस्ततः ।
एवमेव विभोर्दद्यान्मूलबिम्बगतस्य च ॥ 225
सर्वेषां मूलबिम्बानां लक्ष्म्यादीनां तथैव ।
अन्येषामङ्गबिम्बानां परिवारगणस्य च ॥ 226
शास्त्रपीठस्य च लिपेः शब्दतत्वस्य च प्रभोः ।
घण्टाक्षसूत्रपूर्वाणाम् अर्घ्यपात्रादिकस्य च ॥ 227
छत्रचामरपूर्वाणां सर्वोपकरणस्य च ।
द्वारावरणदेवानां सर्वेषां च द्विजोत्तमाः ॥ 228
क्रमेण भूषणं दत्वा यायादग्निनिकेतनम् ।
अग्निस्थस्य विभोर्दद्याद्भूषणानि तु पूर्ववत् ॥ 229
अग्नौ निवेदयेद्विप्राः भूषणं न तु होमयेत् ।
यस्मात्सन्यासमूर्ध्वे तु विहितं भूषणस्य च ॥ 230
नाहर्तुं युज्यते दग्धं दोषमाभरणं विना ।
तथैव स्रुक्स्रुवादीनां दद्यात्प्रतिसरं तदा ॥ 231
देशिकस्य हृदारोप्य पूजितस्य च देववत् ।
स्वं स्वं चारोप्य चान्येषां देशिकानां तथैव च ॥ 232
साधकानां ततो दद्याद्यागाङ्गानामपि क्रमात् ।
मूलबिम्बे यदा कुर्यात्पवित्रारोपणं द्विजाः ॥ 233
तदा तु मूलबेरस्य दत्वा प्रतिसरं पुरा ।
नैवेद्यान्तं समभ्यर्च्य पश्चादुत्सवकौतुके ॥ 234
यागमण्टपमानीय अथ वास्थानमण्टपे ।
भद्रासने समारोप्य पूर्वोक्तविधिना ततः ॥ 235
चतुःस्थानस्थितस्यापि दद्यात्प्रतिसरं द्विजाः ।
एवं हि देवदेवस्य चतुःस्थानस्थितस्य च ॥ 236
अलङ्कारासने मूलमन्त्रेण प्रणवेन वा ।
आमूर्ध्नः क्रमशो दत्वा भूषणानि यथाविधि ॥ 237
भोज्यासनं ततो नीत्वा विविधाभ्यवहारिकैः ।
भोगैरभ्यर्च्य देवेशं ब्रूयाद्बद्धाञ्जलिस्त्विदम् ॥ 238
नावलेपान्न मोहाच्च कर्मत्यागो मया कृतः । त्वमेवसर्वं जानासि सर्वेषां हृदये स्थितः। 239
यथाशक्त्यावनिच्छाथ तत्रापि परमेश्वर। तन्निमित्तमिदङ्कर्म त्वत्प्रीतये मया॥240
एवमुक्त्वा समभ्यर्च्य चतुरः पाञ्चरात्रिकान् । भगवप्रीतिपत्यातु शक्त्या प्रावरणैर्धनैः।241
तथा प्रतिसरान्तैस्तु ब्रह्मचारीन् यतीन् गुरून् । तर्पयित्वाथचान्नेन पूतेन विविधेन तु।242
पश्चादुत्सवबिम्बं तु यानमारोप्य देशिकः॥ महोत्सवविधिःप्रोक्त सर्वमङ्गलसंयुतम् ।243

[[170]] प्रदक्षिणक्रमेणैव प्रासादं तु प्रवेशयेत् ॥ देशिकत्वथ नैवेद्य पूर्वं कुर्याच्च भोजनम् ।244
बन्धुभ्रातृसमोपेत सविशेषं द्विजोत्तमाः॥ सायम्प्रातः प्र्तिदिनं भूषणोत्सर्जनावधि।245
चतुःस्थानस्थितन्देवं तमभ्यर्च्य यथा विधि॥ मण्डपे चौत्सवम्बिम्बं सविशेषं समर्चयेत् ।246
उत्सवं देवदेवस्य कुर्यात् कालद्वयेपि च॥ वाहनारोहणं रात्रौ दिवसे वाचरेद् द्विजाः।247
समाप्तिदिवसे प्रातर्विशेष यजनं ततः॥ चतुःस्थानस्थितस्यापि मध्येमध्येर्चनैःसह।248
अवरोप्य पवित्राणि रात्रौ मण्डलवह्निगम् ॥ विसृज्य विधिवत् कुर्यात् कुम्भसम्प्रोक्षणादिकम् ।249
एकरात्रं त्रिरात्रं वा पञ्चवा सप्तरात्रकम् ॥ पवित्रकंस्थापयित्वा ततस्सव्यासमाचरेत् ।250
अथवार्चागतं विप्राः तावत्संस्थाप्यभूषणम् । यावदेकदशीशुक्ला संवृता कार्तिकस्य तु। 251
अपनीय च माल्यादीन् प्रदद्याद्वा दिने दिने ।
नो याति म्लानतां यावत्सम्प्राप्ते कालवासरे ॥ 252
अपनीय गुरोर्भक्त्या निवेद्य ब्राह्मणस्य वा ।
पञ्चकालप्रसक्तस्य तदभावात्तु नारद ॥ 253
षट्कर्मसम्प्रवृत्तस्य विष्णुभक्तस्य तत्वतः ।
विशेषयागहोमान्ते कृत्वाचार्यप्रपूजनम् ॥ 254
वैष्णवाः पूर्ववत्पूज्याः दद्यादाच्छादनं ततः ।
तेषां चैव यथाशक्ति अभावादथ नारद ॥ 255
युग्ममेकं तु वा वस्त्रमेकस्यावश्यमेव हि ।
उपवीतानि चान्येषां सोत्तरीयाणि योजयेत् ॥ 256
प्रार्थना च ततः कार्या यतीनां संयतात्मनाम् ।
युष्मत्प्रसादसामर्थ्यान्ममास्तु परिपूर्णता ॥ 257
क्रियाङ्गानां च सर्वेषां मा मेस्तु समयच्युतिः ।
एवमस्त्विति वक्तव्यं सर्वैस्तालसमन्वितम् ॥ 258
संवत्सरकृताकृत्यदोषः समयपूर्वकः ।
नाशमायाति वै क्षिप्रं पवित्रारोपणान्नतु ॥ 259
पाति यस्मात्सदोषं हि पतनात्परिरक्षति ।
विशेषेण द्विजांस्त्राति पूर्णं कर्म करोति च ॥ 260
साधके च क्रियाहीने तस्मादुक्तो मया महान् ।
याग एष पवित्राख्य उक्तलक्षणलक्षितः ॥ 261
वक्ष्यते सूक्ष्मरूपोन्यः प्रकारो मुनिपुङ्गवाः ।
केवले बिम्बके वापि यागमन्दिरसंस्थिते ॥ 262
प्रासादसंस्थिते वापि दशम्यामधिवासिते ।
कल्पयेद्भूषणारोपं विना कलशमण्डले ॥ 263
अग्निस्थेति तदा कुर्यात्तत्प्राग्वदधिवासिते ।
एकं द्वे त्रीणि वा दद्यात्पवित्राणि तदा विभोः ॥ 264

[[171]] समानीयोत्तमाद्येन भेदेन तु कृतानि वा ।
द्रव्याभावे द्विजश्रेष्ठा अशक्तिर्यदि वा भवेत् ॥ 265
सद्योधिवासं द्वादश्यां कृत्वा शक्त्या तु कारयेत् ।
सोपवासं द्विजश्रेष्ठा अर्चायां भूषणं विभोः ॥ 266
यथेच्छाकल्पितैः सूत्रैर्ग्रन्धिभिस्तु यथेच्छया ।
निशारोचनया वापि पवित्राणां च धातुना ॥ 267
केनचिद्ग्रन्धयो विप्रा विधिवत्परिरञ्जयेत् ।
पुष्पपूर्णानि गर्भाणि कृत्वा वा केवलान्यतः ॥ 268
प्रपूज्य पूर्ववद्विप्रा बिम्बसन्निहितं विभुम् ।
निवेद्य भूषणं दद्याद्वाणीमुच्चारयेदिमाम् ॥ 269
यन्मया ब्रह्मसूत्रं च कल्पितं ग्राहयस्व च ।
कर्मणां पूरणार्थाय यथा दोशो न मे भवेत् ॥ 270
इत्युक्त्वा च ततो दद्यात्पूज्योपरि पवित्रकम् ।
स्तुत्वा च देवदेवेशं द्वितीयेऽह्नि प्रयत्नतः ॥ 271
पूजयित्वाथ देवेशं कुर्यात्तदुपसंहृतिम् ।
गृहे पवित्रयागे तु विशेषोऽयमथोच्यते ॥ 272
बिम्बस्थे मण्डलस्थे वा चतुःस्थानस्थितेपि वा ।
पवित्राणां त्रयं दद्यादेकैकं वा यथेच्छया ॥ 273
इत्युक्तं योगिनां श्रेष्ठाः पवित्रारोहणं परम् ।
एवं कृते सति तदा सिद्धिर्भवति शाश्वती ॥ 274
सर्वार्थाः साधकानां च चेतसाभीप्सितं तदा ।
तपोदानव्रतानां च विहितस्याह्निकस्य च ॥ 275
निश्शेषयागभोगानां कृत्वा सम्पूरणक्रियाम् ।
अपरेऽहनि वै कुर्याच्चतुर्थे सप्तमेपि वा ॥ 276
स्नपनं पूज्यमन्त्रस्य तीर्थोद्देशेऽथ सङ्गमे ।
नद्यां समुद्रगामिन्यां देवखाते ह्रदे तु वा ॥ 277
प्रीतये परमेशस्य त्वात्मनो दुःखहानये ।
अह्लादायामराणां च पितॄणां तृप्तये तु वै ॥ 278
आप्यायनार्थं भूतानां भुवनानां च भूतये ।
देशदोषप्रशान्त्यर्थं गोब्राह्मणहिताय वै ॥ 279
यथावत्स्नपनं कुर्यात्तीर्थबिम्बे विशेषतः ।
नित्यस्नपनबिम्बे तु कुर्यात्तत्तदसन्निधौ ॥ 280
नित्योत्सवपरे बिम्बे ह्याचरेत्तदसन्निधौ ।
तदभावे पवित्रे तु दर्भमञ्जरिजे शुभे ॥ 281
विधानमत्र मे सम्यक् शृणुध्वं सुसमाहिताः ।
बहुशाखमभग्नाग्रं समूलं यदपुष्पितम् ॥ 282
प्राम्मुखो दर्भमादाय प्रणवेन पुरा क्षितेः ।
ततस्तेनैव तन्मूलं प्राग्वत्कुर्यादधिष्ठितम् ॥ 283
तस्य मध्यमनाळं यन्न्यग्भूतमवतिष्टते ।
आराध्य मन्त्रनाथेन स्मरेद्व्याप्तं महात्मना ॥ 284
विवर्तं परमात्मीयमध्यक्षाख्यं च विद्धि तम् ।
अनेकदर्भमुच्चं यत्काण्डं काण्डेषु चोत्तमम् ॥ 285

[[172]] अणिमादिगुणैर्युक्तं पुंस्तत्वं तेन कल्प्यते ।
वाचकं तस्य योक्तव्यं हंसयुक्तं द्विलक्षणम् ॥ 286
बहिः काण्डचतुष्केण चित्तपूर्वं चतुष्टयम् ।
ग्रथनीयमथोवक्त्रमव्यक्तान्तं स्वकैः पदैः ॥ 287
प्रणवादिनमोन्तैस्तु व्यापकं सूक्ष्मलक्षणम् ।
एवं श्रोत्रादिकान् पञ्च स्वनाम्ना ग्रथयेत्तदा ॥ 288
कर्मेन्द्रियाणि तदनु ततस्तन्मात्रपञ्चकम् ।
पञ्चकं त्वथ भूतानां बध्वा वै क्ष्मावसानिकम् ॥ 289
अवशिष्टैस्तु तत्काण्डैर्बध्नीयात्तु करण्डवत् ।
विना शिखासमूहेन समुत्थानावधेरथ ॥ 290
किञ्चित्तदूर्ध्वदेशाच्च यथा नो याति वै पुनः ।
बहुधा काण्डसङ्घस्तु कल्पितस्तत्वसङ् ख्या ॥ 291
विभिन्नानां च काण्डानां भङ्गादेकरतस्य च ।
उत्पद्यतेन्यथात्वं च तस्मात्तद्ग्रन्धयेद् दृढम् ॥ 292
दर्भमञ्जरिजं त्वेवं सम्पाद्यादौ पवित्रकम् ।
अनुसन्धीयते तत्र मात्राध्यानं यथास्थितम् ॥ 293
पूजयित्वार्घ्यपुष्पाद्यैरलङ्कृत्य पठेदिदम् ।
त्वमेव तीर्थं भगवन् त्वमेवायतनं परम् ॥ 294
त्वयैवाधिष्ठितं सर्वमिदं जानामि तत्वतः ।
तत्रापि च त्वयाऽऽदिष्टं क्रियाकाण्डं शुभप्रदम् ॥ 295
यत्तन्निर्वाहयाम्यद्य त्वदनुग्रहकाम्यया ।
एवं विज्ञाप्य भगवन्मन्त्रर्मूीन्त परात्परम् ॥ 296
तत्पात्रपात्रगं कृत्वा ब्रह्मयानगतं तु वा ।
वेदगेयध्वनीशङ्खशब्दमङ्गळपूर्वकम् ॥ 297
नीत्वा तीर्थान्तिकं तत्र नीरदेशे निधाय च ।
पूर्वमुखं च तद्यानमादाय च पवित्रकम् ॥ 298
वामहस्ततले कुर्यात् क्ष्मामण्डलगतं त्विव ।
निधृयान्मध्यभागे च पाणिना दक्षिणेन तु ॥ 299
अवतीर्याम्भसो मध्यं निमज्जेत्सह तेन वै ।
सन्निधिं तत्र तत्कालं प्रकुर्वन्त्यचिरात्तु वै ॥ 300
अशेषाणि च तीर्थानि लोकत्रयगतानि च ।
मन्त्रात्मा यत्र रक्षार्थं क्षणमास्ते जलाशये ॥ 301
तत्रायतनतीर्थानां सर्वेषां स्यात्समागमः ।
किं पुनर्यत्र भगवान् मन्त्रमूर्तिरधोक्षजः ॥ 302
साधकाभ्यर्थितः स्नायात्सर्वानुग्रहया धिया ।
विद्वान् योनेन विधिना तीर्थमासाद्य तत्ववित् ॥ 303
स्नापयेद्बान्धवादीनां प्राप्नुवन्त्यचिराच्च्य ते ।
तैर्थं फलमनायासान्मन्त्रमूर्तैः प्रसादतः ॥ 304
किं तु तद्यानवादित्रवर्जितस्तु भवेद्विधिः ।
इमं विद्यान्महाबुद्धिर्विशेषं चात्र कर्मणि ॥ 305
सामान्यमविनाशं यच्चिन्मयं रूपवर्जितम् ।
विशेषज्ञानसम्बन्धं जीवहंसं विभाव्य तम् ॥ 306

[[173]] पवित्रकं तदाकारं स्मृत्वा प्लाव्यं ततोम्भसा ।
एवं तेनैव चान्येषां बहूनां बहुभिस्तु वा ॥ 307
सम्पाद्य विष्टरे स्नानं दूरस्थानां सदैव हि ।
सम्पन्ने स्नपने त्वेवं द्वितीयेह्नि महामतिः ॥ 308
रथे कृत्वार्चिते तं वै प्रपूज्य च यथाविधि ।
यात्राख्यमुत्सवं कुर्यादन्नदानपुरस्सरम् ॥ 309
सनृत्तगेयवादित्रं जागरेण समन्वितम् ।
एकरात्रं द्विरात्रं वा त्रिरात्रं भक्तिपूर्वकम् ॥ 310
सकृत्संवत्सरस्यान्ते तूत्सवं स्नपनादिकम् ।
कुर्याद्वै मन्त्रनाथस्य स सिद्धिं लभते पराम् ॥ 311
अथ वा मन्दिरे देवमुत्तमोत्तममार्गतः ।
संस्नाप्य समलङ्कृत्य रथादौ जगतां पतिम् ॥ 312
समारोप्य विशेषेण यात्रोत्सवमथाचरेत् ।
इति पावित्रकं सम्यग्विधानं परिकीर्तितम् ॥ 313
इतः परं च श्रोतव्यमस्ति चेत्कथ्यतां द्विजाः ॥
इति यां पवित्रोत्सवादिविधिर्नाम चतुर्दशोऽध्यायः