१३

त्रयोदशोऽध्यायः 13 – जयन्त्युत्सव विधिः नारदः जन्मोत्सवं च कृष्णस्य श्रृणुध्वं मुनिपुङ्गवाः ।
कृष्णजन्मदिनं त्वेतद्द्विविधं परिकीर्तितम् ॥ 1
जन्माष्टमी जयन्तीति तयोर्भेदस्तु कथ्यते ।
चन्द्रोदयेऽष्टमीयुक्ता सप्तमीकलया विना ॥ 2
रोहिणीरहिता वापि सा हि जन्माष्टमी स्मृता ।
सिह्मं गतेर्के सा मुख्या यद्वा श्रावणमात्रगा ॥ 3
तस्यामभ्यर्चनं विष्णोर्धर्मकामार्थसिद्धिदम् ।
निष्कामो यदि कैवल्यफलदं भवति धृवम् ॥ 4
सूर्योदयेपि सप्तम्या तथा कृत्तिकायापि च ।
कलयापि ह्यविद्धा या रोहिणी द्विजपुङ्गवाः ॥ 5
अष्टमीसहिता वापि अष्टमीरहितापि वा ।
तथैव बुधवारेण सहिता रहितापि वा ॥ 6
जयन्ती नाम सा प्रोक्ता जयत्यशुभमित्यसौ ।
अष्टम्यां वा नवम्यां वा दशम्यां वापि रोहिणी ॥ 7
अविद्धा यदि लभ्येत कलामात्रापि वैष्णवैः ।
ग्राह्या कदापि विद्धा तु न ग्राह्या वैष्णवोत्तमैः ॥ 8
मृगशीर्षं तु वा ग्राह्यं शुद्धर्क्षस्य ह्यभावतः ।
सिह्मभाद्रपदे मुख्या जयन्ती सिंहगापि वा ॥ 9
तस्मिन् मासे मुनिश्रेष्ठाः यदा ऋक्षद्वयं भवेत् ।
परत्रैवोत्सवं कुर्यान्महापातकनाशनम् ॥ 10
पश्चाच्चेद्रोहिणी विद्धा पूर्वत्रैव समाचरेत् ।

[[146]] एवमेव हि सङ्क्रान्तिवेधत्यागोपि शस्यते ॥ 11
दिवा सङ्क्रान्तियोगश्चेज्जयन्तीं पूर्वतस्त्यजेत् ।
परतो निशि योगे तु त्यजेद्योगान्वितामपि ॥ 12
उभयोः क्रान्तिवेधश्चेज्जयन्त्योर्मुनिसत्तमाः ।
उत्सवं मृगशीर्षे वा पूर्वमेव समाचरेत् ॥ 13
एवं जयन्त्यां रामस्य नरसिंहवराहयोः ।
वामनादिजयन्त्यामप्येवमेव विनिर्णयः ॥ 14
जयन्त्यां तत्र कृष्णस्य दिवोपोष्य विशेषतः ।
रात्रावभ्यर्चनं कुर्यात्तद्विधानमिहोच्यते ॥ 15
नित्यकर्माणि निर्वर्त्य सायं देशिकसत्तमः।
भगवद्गृहमासाद्य कृत्वा नित्यार्चनं पुरा ॥ 16
प्रासादस्य पुरोभागे मण्टपं परिकल्पयेत् ।
कॢप्तं वा मण्टपं पूर्वमलङ्कुर्याद्विशेषतः ॥ 17
चतुर्द्वारसमायुक्तं ध्वजतोरणभूषितम् ।
वितानैर्विविधैश्चित्रैः सर्वतः परिशोभितम् ॥ 18
परितश्चित्रकौशेयमहायवनिकान्वितम् ।
मुक्तासरैश्च विविधपुष्पमाल्यैर्विराजितम् ॥ 19
कदळीजम्बुजम्बीरनाळिकेरफलादिभिः ।
रम्भास्तम्भैः पूगफलस्तबकैः समलङ्कृतम् ॥ 20
दर्पणैर्दीपमालाभिः शोभितं धूपधूपितम् ।
कुङ्कुमागरुकस्तूरीसमालिप्तमहीतलम् ॥ 21
सुधाचूर्णादिभिश्चित्रैः परितः समलङ्कृतम् ।
मध्ये प्रविलसद्दिव्यरत्नविष्टरशोभितम् ॥ 22
एवं पूर्वमलङ्कृत्य मण्टपं तु ततः परम् ।
कृष्णबिम्बं समानीय विन्यसेद्भद्रविष्टरे ॥ 23
अर्घ्यादिभिः समभ्यर्च्य ततस्तु तदनुज्ञया ।
पुष्पाङ्कुरं निधायाथ रक्षाबन्धं समाचरेत् । 24
देवस्यैशानभागे तु महाकुम्भं तु विन्यसेत् ।
मण्डलं तु पुरोभागे समालिख्य यथाविधि । 25 ।
मण्टपस्य पुरोभागे कुण्डं तु परिकल्पयेत् ।
एवं सर्वं समापाद्य यावच्चन्द्रोदयं गुरुः । 26 ।
देवस्य दक्षिणेपार्श्वे जपन्नष्टाक्षरं मनुम् ।
गापयन् कृष्णमाहात्म्यं तथान्य वैष्णवीः कथा । 27 ।
गानैर्नृत्तैर्विनोदैश्च तोषयेज्जगतां पतिम् ।
उदिते तु निशानाथे जन्मकाले जगत्पतेः । 28 ।
कुम्भे च मण्डले कृष्णं यथोक्तविधिना यजेत् ।
ततो बिम्बे समभ्यर्च्य देवं मन्त्रासनान्तिमम् । 29 ।
एकाशीतिघटैर्देवं स्नापयेद्धोमपूर्वकम् ।
पञ्चविंशतिकुम्भैर्वा स्नापयेत्तु यथाविधि । 30 ।
अलङ्कारासनं नीत्वा समभ्यर्च्य विशेषतः ।
कृत्वा नीराजनान्तं च ततो भोज्यासनं नयेत् । 31 ।
अर्घ्यादिभिः समभ्यर्च्य अर्हणं च समर्पयेत् ।

[[147]] मधुपर्कं निवेद्याथ नवनीतं च शर्करम् । 32 ।
गोक्षीरं घृतसंयुक्तम् फलानि विविधानि च ।
पृथुकादींश्चोपहारान् गुडखण्डान्वितानपि । 33 ।
माषमुद्गैस्तिलयवैर्दधिमध्वाज्यदुग्धकैः ।
हरिद्राजीरकैलाद्यैर्योजितानि विशेषतः । 34 ।
विविधानि च भक्ष्याणि गोघृतैः पाचितानि च ।
क्रमादष्टविधान्नानि सुश्रुतं क्षीरमुत्तमम् । 35 ।
शीतलं तर्पणजलं पानकं च विशेषतः ।
भक्ष्यम् भोज्यं तथा लेह्यम् पेयं चापि ह्यनेकशः । 36
निवेद्य देवदेवाय मात्रान्तं देशिकोत्तमः ।
मुखवाससमोपेतं ताम्बूलं विनिवेद्य च । 37 ।
कृत्वाथ जपयज्ञान्तं गत्वा कुण्डसमीपगम् ।
तत्र प्रतिष्ठिताग्नौ तु योगपीठं प्रकल्पयेत् । 38
तन्मध्ये कृष्णमावाह्य सकलीकृत्यमन्त्रवित् ।
कृत्वा सप्तसमिद्धोमं ततः पूर्णां निवेदयेत् । 39 ।
ततो देवं विसृज्याग्नेरग्निं च विसृजेद्गुरुः ।
ततस्तु देवदेवाय कृत्वा होमसमर्पणम् । 40 ।
अर्घ्यदानं विशेषेन कुर्यात्सर्वफलप्रदम् ।
तद्विधानं प्रवक्ष्यामि देवस्य पुरतो भुवि । 41 ।
गोमयेनोपलिप्याथ वृत्ताकारं सुशोभनम् ।
सुधाचूर्णैरलङ्कृत्य गन्धपुष्पाक्षतैः फलैः । 42 ।
तन्मण्डले रोहिण्या सह चन्द्रं समर्चयेत् ।
ततस्तस्मै नमस्कुर्यान्मन्त्रेणानेन वै द्विज । 43 ।
ज्योत्स्नाम्पते! नमस्तेस्तु नमस्ते ज्योतिषां पते ।
नमस्ते रोहिणीकान्त सुधाकुम्भ नमोस्तुते । 44
इति चन्द्रं नमस्कृत्यदत्वादर्घ्यं ततःपरम् ।
शङ्खे तोयं समापूर्य गोक्षीरेण विमिश्रितम् । 45
शङ्खाग्रे चन्द्रदैवत्यं तन्मूले कृष्णमर्चयेत् ।
हस्ताभ्यां शङ्खमादाय सपुष्पफलचन्दनम् । 46 ।
जानुभ्यामवनौ स्पृष्ट्वा चन्द्रायार्घ्यं निवेदयेत् ।
क्षीरोदार्णवसम्भूत अत्रिनेत्र समुद्भव । 47 ।
गृहाणार्घ्यं शशीनाथ रोहिण्या सहितो मम ।
इति चन्द्रायार्घ्यदानं कृष्णसन्तोषकारणम् । 48 ।
प्रीणनं सर्वदेवानां सर्वसस्यविवृद्धिदम् ।
कृष्णायार्ध्यं ततो दद्यान्मन्त्रेणानेन वै द्विजाः ॥ 49
जातः कंसवधार्थाय भूभारोत्तारणाय च ।
पाण्डवानां हितार्थाय धर्मसंस्थापनाय च ॥ 50
कौरवाणां विनाशाय दैत्यानां निधनाय च ।
गृहाणार्ध्यं मया दत्तं देवक्या सहितो हरे ॥ 51
इति कृष्णायार्ध्यदानं राजराष्ट्राभिवृद्धिदम् ।
सर्वसम्पत्करं चैव सर्वलोकहितार्थकृत् ॥ 52
यजमानोपि वा दद्यादर्ध्यमेवं जगत्प्रभोः ।

[[148]] इह सर्वाभीष्टसिद्ध्यै परत्र च सुखाप्तये ॥ 53
तत्काले देशिकादिभ्यो गोभूस्वर्णान्यनेकशः ।
दद्याद्देवस्य सन्तुष्ट्यै यजमानो विशेषतः ॥ 54
अथोपहारैर्विविधैस्ताम्बूलाद्यैश्च देशिकः ।
जपस्तोत्रादिभिश्चैव तोषयेत्तु श्रियः पतिम् ॥ 55
निवेदितान्नभक्ष्यादीन् चतुर्धा विभजेत्ततः ।
आचार्यः स्वयमादाद्यदेकांशं तु ततस्त्रिभिः ॥ 56
मूर्तिपान् वैष्णवानन्यान् भक्तान् भागवतोत्तमान् ।
तोषयित्वा ततः सर्वांस्ताम्बूलाद्यैश्च तोषयेत् ॥ 57
कुम्भस्थं मण्डलस्थं च प्राग्वद्देवं विसर्जयेत् ।
ततस्तु देवदेवस्य शयनं कारयेद्गुरुः ॥ 58
रम्ये तु मण्टपे डोलां कृत्वा मणिमयीं शुभाम् ।
मृदूपधानतूलाड्यां स्वर्णरज्जुविलम्बिताम् ॥ 59
सौवर्णकिङ्कणीयुक्तां मुक्तादाभविलम्बिताम् ।
कस्तूरीकुङ्कुमाद्यैश्च वासितां धूपधूपिताम् ॥ 60
तत्रानन्तं समभ्यर्च्य देवमारोपयेद्गुरुः ।
शयनासनभोगैस्तु देवं तत्र समर्चयेत् ॥ 61
एवं हि शयनान्तं तु कृत्वा चैकदिनोत्सवम् ।
अनुयागं ततः कुर्यादाचार्यो वैष्णवैः सह ॥ 62
वैष्णवानामुत्सवान्ते पारणं विहितं द्विजाः ।
यद्वा फलेच्छया कार्यं पारणं तु परेऽहनि ॥ 63
ततोऽवशिष्टयामिन्यामाचार्यो देवसन्निधौ ।
भक्तैर्भागवतैः सार्धं गापयन् वैष्णवीः कथाः ॥ 64
गानैर्नृत्तैस्तथा हास्यैर्जागरेण नयेन्निशाम् ।
ततः प्रभाते त्वाचार्यः कृतस्नानः कृताह्निकः ॥ 65
देवमुत्थाप्य विधिवन्नित्यपूजां समाचरेत् ।
विशेषेणार्चयेद्देवं स्नानाद्यैर्हविरन्तिमैः ॥ 66
ततः कृष्णमलङ्कृत्य विविधैर्वस्त्रभूषणैः ।
दिव्ये तु कुञ्जरे वाश्वे शिबिकायां रथेपि वा ॥ 67
समारोप्य दृढीकृत्य ह्यलङ्कृत्य विशेषतः ।
उत्सवं देवदेवस्य् कुर्याद्ग्रामप्रदक्षिणम् ॥ 68
विचित्रैर्दारुरचितैश्चतुस्स्तम्भैर्मनोहरैः ।
चित्रवस्त्रवितानाड्यैः फलपल्लवसंयुतैः ॥ 69
मध्यालम्बिक्षीरघटैर्नवनीतघटान्वितैः ।
दधिभाण्डान्वितैश्चैव तोरणैर्विविधैस्तदा ॥ 70
चित्रध्वजपताकाभिः पुष्पमालाशतान्वितैः ।
वितानैः फलभारैश्च रम्भास्तम्भादिभिस्तथा ॥ 71
अलङ्कृतासु सिक्तासु दिव्यकुङ्कुमवारिभिः ।
सुधाचूर्णालङ्कृतासु कीर्णासु कुसुमाक्षतैः ॥ 72
दिव्यधूपैर्धूपितासु वीधीषु द्विजसत्तमाः ।
शनैः शनैर्देवदेवं सविलासं नयेत्तदा ॥ 73
छत्रध्वजपताकाभिर्वन्दिभिर्गणिकादिभिः ।
वाद्यघोषैर्वेदघोषैर्भक्तैर्भागवतोत्तमैः ॥ 74

[[149]] तैलं च रजनीचूर्णं विकिरद्भिः परस्परम् ।
नवनीतं च दधि च क्षीरं च कुसुमादिकम् ॥ 75
क्षिपद्भिश्च हसद्भिश्च भक्षयद्भिश्च कैश्चन ।
अर्थीन् सन्तोषयद्भिश्च नवनीतघृतादिकैः ॥ 76
ताम्बूलं रजनीचूर्णं ददद्भिः पौरयोषिताम् ।
विकिरद्भिः पुष्पगन्धैः कुङ्कुमैः कृष्णमव्ययम् ॥ 77
हस्तमुद्धृत्य कूजद्भिस्तथा गोपालबालकैः ।
दध्यादिभाण्डान् भिन्दद्भिः कृष्णस्य पुरतो भुवि ॥ 78
पिबद्भिः क्षीरदध्यादीन् किरद्भिश्च परस्परम् ।
आस्वाद्य नवनीतं च क्षिपद्भिर्बहुधा मिथः ॥ 79
रोहद्भिस्तोरणस्तम्भान् नृत्यद्भिर्गर्जितैर्मुहुः ।
आभीरकुलजैर्युक्तैः कृष्णानुचरभावतः ॥ 80
यन्त्रस्थभाण्डान् दण्डेन ताडयद्भिर्मुहुर्मुहुः ।
तत्र भाण्डस्त्रुतां धारां पिबद्भिश्च पदे पदे ॥ 81
एवं क्रीडारतैर्भक्तैर्विनोदैरेवमादिभिः ।
ग्रामप्रदक्षिणं कृत्वा मन्दिरान्तः प्रवेशयेत् ॥ 82
आस्थानमण्टपं नीत्वा देवं वै हेमविष्टरे ।
समारोप्य समभ्यर्च्य विविधैरुपहारकैः ॥ 83
ताम्बूलाद्युपचारैश्च देवमन्तः प्रवेशयेत् ।
सकृत् त्र्यहं वा पञ्चाहं सप्ताहं वा नवाहकम् ॥ 84
पक्षं मासं तु वा चैवमुत्सवैस्तोषयेद्विभुम् ।
स्वतन्त्रं पतन्त्रं वा कृष्णमेवं समर्चयेत् ॥ 85
अभावे कृष्णबिम्बस्य तत्तत्प्रासादसंस्थितम् ।
देवमेवार्चयेद्भक्त्या जयन्त्यां तु विशेषतः ॥ 86
एवं नृसिंहं रामं च वराहं वामनादिकान् ।
तत्तज्जन्मदिने सम्यग्विशेषस्नपनेन तु ॥ 87
महता हविषा चैव चतुःस्थानेषु पूजयेत् ।
कुम्भे च मण्डले बिम्बे वह्नौच यजनं विभोः ॥ 88
मुख्ये कल्पे प्रकुर्वीत ह्यनुकल्पे तु मण्डलम् ।
विना कुम्भादिषु यजेद्बिम्बवह्न्योस्तु वा यजेत् ॥ 89
इत्थं यः कारयेद्भक्त्या जयन्त्युत्सवमुत्तमम् ।
इहेप्सितार्थान् सम्पाद्य सायुज्यं पदमाप्नुयात् ॥ 90
अथ चाश्वयुजे मासि कर्तव्यं सर्वसिद्धिदम् ।
वीरलक्ष्म्य़ुत्सवविधिं वक्ष्यामि मुनिसत्तमाः ॥ 91
तस्मिन् मासि सिते पक्षे ह्यष्टमीकलयापि वा ।
अविद्धायां नवम्यां तु श्रीदेव्युत्सवमाचरेत् ॥ 92
तद्वासरानुसारेण नवाहोत्सवमाचरेत् ।
तिथिलोपे ह्यमावास्याम् आरभ्योत्सवमाचरेत् ॥ 93
वृद्धौ द्वितीयमारभ्य नवाहोत्सवमाचरेत् ।
सप्ताहं वापि पञ्चाहं त्र्यहमेकाहमेव वा ॥ 94
आचरेदुत्सवं लक्ष्म्याः फलकामनयाः द्विजाः ।
नवाहं वैष्णवं प्रोक्तं सप्ताहं त्वार्षकं भवेत् ॥ 95

[[150]] पञ्चाहं त्वैन्द्रकं प्रोक्तं त्रियहं शैवमुच्यते ।
एकाहमुत्सवं ब्राह्मं पञ्चधैवं प्रकीर्तितम् ॥ 96
ब्राह्मं वै ब्रह्मसिद्ध्यर्थं शैवं रोगविनाशनम् ।
ऐन्द्रं दुर्भिक्षनाशार्थमार्षं राष्ट्राभिवृद्धिदम् ॥ 97
वैष्णवं तूत्सवं प्रोक्तं भक्तिमुक्तिफलप्रदम् ।
उत्सवारम्भपूर्वेद्युर्निशायामङ्कुरर्पणम् ॥ 98
रक्षाबन्धं च विधिवत्कुर्या द्देशिकसत्तमः ।
आरम्भे चावसाने च अधमोत्तममार्गतः ॥ 99
संस्नापयेच्छ्रियं देवीं श्रीमन्त्रेणैव देशिकः ।
प्रत्यहं नित्यपूजान्ते विशेषार्चनमाचरेत् ॥ 100
कुम्भे च मण्डले बिम्बे वह्नौ चापि यथाविधि ।
तत्र तत्र विशेषो यः कथ्यते सम्प्रति द्विजाः ॥ 101
कुम्भार्चने श्रियं देवीं मध्यकुम्भे समर्चयेत् ।
सुदर्शनं तु वर्धन्यां प्राग्वदेव समर्चयेत् ॥ 102
लक्ष्मीः कीर्तिर्जया माया उपकुम्भाष्टके द्विजाः ।
प्रभवाप्यययोगेन पूज्याः प्रागादिषु क्रमात् । 103
तत्र द्वारार्चनबिधिं श्रृणुध्वं मुनिपुङ्गवाः ।
वास्त्वीशक्षेत्रपालौ द्वौ सर्वद्वारेषु पूजयेत् ॥ 104
लक्ष्मीः कीतिंर्जया माया द्वारेषूर्ध्वस्थिताः क्रमात् ।
सृष्टिर्लज्जा जया माया सावित्री च क्षमा तथा ॥ 105
शुद्धाऽशुद्धा तथा द्वे द्वे प्रागादिद्वारशाखयोः ।
तथाऽऽदिद्वारकुम्भेषु ज्येष्ठाविध्योस्तथैव च ॥ 106
श्रद्धाकान्त्योः क्रियासृष्ट्याः क्षमामूर्तिजयाख्ययोः ।
क्रमाद्द्वन्द्वप्रयोगेण पूजनं तु समाचरेत् ॥ 107
चण्डीं चैव प्रचण्डीं च पूर्वद्वारे प्रपूजयेत् ।
दक्षिणोत्तरयोगेन तोरणस्तम्भमूलयोः ॥ 108
बलाकिनीं दक्षिणे तु यजेच्च वनमालिनीम् ।
विभीषिकां शाङ्करीं च पश्चिमे सम्प्रपूजयेत् ॥ 109
तथैव चोत्तरद्वारे शङ्खपद्मनिधी यजेत् ।
सत्यादींश्च पताकासु इन्द्रादींश्च यथाक्रमम् ॥ 110
प्राग्वदेवार्चयेद्विप्राः अयं द्वारार्चनक्रमः ।
प्रातर्विशेषयागान्ते उत्सवं च समाचरेत् ॥ 111
सौवर्णशिबिकायाने अथ वा पुष्पमण्टपे ।
श्रियं देवीं समारोप्य ह्यलङ्कृत्य विशेषतः ॥ 112
सर्वैर्यात्रोपकरणैर्नयेद्ग्रामप्रदक्षिणम् ।
एवं कृत्वोत्सवं पश्चाद्देवीमास्थानमण्टपे ॥ 113
हेमपीठे समारोप्य ह्यलङ्कारासनोदितैः ।
भोगैः क्रमेण सम्पूज्य नयेद्भोज्यासनं ततः ॥ 114
अर्घ्यादीनर्हणं चापि मधुपर्कं समर्पयेत् ।
मुद्गान्नपायसादीनि भक्ष्याणि विविधानि च ॥ 115
पृथुकादींश्चोपहारान् श्रियै देव्यै निवेदयेत् ।
शीतलं तर्पणं चैव नाळिकेररसं तथा ॥ 116

[[151]] समर्प्य दद्यात्ताम्बूलं मुखवाससमन्वितम् ।
जपयज्ञं ततः कुर्याल्लक्ष्मीमन्त्रेण मन्त्रवित् ॥ 117
निवेदितं तु यद्द्रव्यं चतुर्धा विभजेत्ततः ।
तेष्वेकांशं समादाय आचार्याय प्रदापयेत् ॥ 118
शिष्टानंशांस्तथा सर्वान् भक्तेभ्यश्च प्रदापयेत् ।
स्तोत्रैश्च विविधैर्नृत्तैः गीतैर्वाद्यरवैः सह ॥ 119
तदा सान्तोषयेल्लक्ष्मीं सर्वाभीष्टफलप्रदाम् ।
एवं कृत्वा ततो लक्ष्मीं प्रासादान्तः प्रवेशयेत् ॥ 120
एवं प्रतिदिनं कुर्यान्नवम्यन्तं महोत्सवम् ।
सायं प्रातश्चतुस्थानपूजनेन समन्वितम् ॥ 121
नवमीदिवसे प्राप्ते प्राग्वत्कृत्वोत्सवादिकम् ।
रात्रौ विशेषयागान्ते कुण्डमण्डलमध्यगाम् ॥ 122
श्रियं विसृज्य हृदये कुम्भं देव्यास्तु सन्निधिम् ।
समानीय समभ्यर्च्य श्रियं श्रीसूक्तमुच्चरन् ॥ 123
कुम्भतोयेन सम्प्रोक्ष्य कौतुकं च विसृज्य च ।
हविरन्तं समभ्यर्च्य प्रणिपत्य क्षमापयेत् ॥ 124
यजमानो दक्षिणाभिराचार्यादीन् प्रतोषयेत् ।
एवं यः कारयेद्भक्त्या महानवमिकोत्सवम् ॥ 125
आयुष्यारोग्यमैश्वर्यं तेजः र्कीीन्त च सन्ततिम् ।
सर्वाभीष्टांश्च सम्प्राप्य ब्रह्मसायुज्यमाप्नुयात् ॥ 126
तदन्येद्युर्दशम्यां तु देवस्य मृगयोत्सवम् ।
वक्ष्यमाणेन विधिना कुर्याद्राष्ट्राभिवृद्धिदम् ॥ 127
नवम्यामेव देवस्य तुरगं च विशेषतः ।
अलङ्कृतं तथास्त्रौघं देवस्य धनुरादिकम् ॥ 128
वाहयंस्तु नदीतीरं सरस्तीरमथापि वा ।
समानीयाथ संस्नाप्य तुरगं चायुधादिकम् ॥ 129
अलङ्कृत्य विशेषेण माल्यैर्वस्त्रादिकैस्तथा ।
छत्रध्वजपताकाद्यैर्नृत्तवाद्यरवैः सह ॥ 130
ग्रामप्रदक्षिणं नीत्वा आलयं सम्प्रवेशयेत् ।
तत्र देवस्य तुरगं तार्क्ष्यमन्त्रेण मन्त्रवित् ॥ 131
समभ्यर्च्यार्घ्यगन्धाद्यैर्हविरन्तं समर्चयेत् ।
आयुधान्यर्चयेत्तद्वत्तत्तन्मन्त्रेण देशिकः ॥ 132
दशम्यां देवदेवस्य कृत्वा नित्यार्चनं पुरा ।
यात्रामूर्तिगतं देवं नयेदास्थानमण्टपम् ॥ 133
तं देवं तत्र संस्नाप्य पञ्चविंशतिभिर्घटैः ।
अलङ्कारासनेभ्यर्च्य निवेद्य च महाहविः ॥ 134
देवमश्वे समारोप्य ततस्तु मृगयोचितैः ।
अलङ्कारैरलङ्कृत्य यात्रोपकरणैः सह ॥ 135
भक्तैर्भागवतैः सार्धं सन्नद्धैः सायुधैर्भटैः ।
महावनं समानीय तत्र तत्र विशेषतः ॥ 136
वानप्रस्थैस्तापसाद्यैरर्पितानि च भक्तितः ।
कन्दमूलफलादीनि विविधाः कुसुमस्रजः ॥ 137

[[152]] समर्प्य देवदेवाय वह्निवृक्षसमीपतः ।
नीत्वा प्रदक्षिणीकृत्य देवं तत्र प्रपादिके ॥ 138
भद्रासने समावेश्य वह्निवृक्षस्य मूलतः ।
आयुधानि समभ्यर्च्य पुण्याहोक्तिपुरस्सरम् ॥ 139
शमीपत्रं तु सङ्गृह्य मूलमन्त्रेण देशिकः ।
दत्वा देवस्य शिरसि अर्घ्याद्यैः सम्प्रपूज्य च ॥ 140
ताम्बूलं विनिवेद्याथ देशिकस्तदनुज्ञया ।
धनुर्बाणान् समादाय सर्वदिग्विजयाय च ॥ 141
सर्वशत्रुविनाशाय राजराष्ट्राभिवृद्धये ।
चतुर्दिक्षु चतुर्बाणान् ऊर्ध्वेऽधश्च शरद्वयम् ॥ 142
प्रयुञ्जेदस्त्रमन्त्रेण धन्वनागेति वा ऋचा ।
ततोऽर्चयेद्देवदेवं विविधैरुपहारकैः ॥ 143
सायङ्काले तु सम्प्राप्ते आरोप्याश्वे जगत्प्रभुम् ।
प्रदीपशतसंयुक्तं नानावाद्यसमन्वितम् ॥ 144
ग्रामप्रदक्षिणं देवं मन्दिरान्तः प्रवेशयेत् ।
देवेशं नवभिः कुम्भैः स्नाप्यालङ्कृत्य देशिकः ॥ 145
श्रीपुष्टिभ्यां सह विभुं हविरन्तं समर्चयेत् ।
एवं दशम्यां कर्तव्यमुत्सवं च प्रकीर्तितम् ॥ 146
अतः परं प्रवक्ष्यामि दीपोत्सवमनुत्तमम् ।
वृश्चिकस्थे दिनकरे पौर्णमासी तु या द्विजाः ॥ 147
चतुर्दश्याभरण्याश्च कलयाप्यरुणोदये ।
अविद्धा कृत्तिकायुक्ता ह्ययुक्ता वा मुनीश्वराः ॥ 148
तस्यां वृषभकाले तु दीपारोपणमाचरेत् ।
द्वयोरह्नोः सङ्गतिश्चेत्पर्वणस्त्वन्तिमे दिने ॥ 149
ग्राह्यं पर्व कालामात्रमपि दीपोत्सवादिके ।
दीपं कुर्यात्प्रतिपदि त्वलब्धौ शुद्धपर्वणः ॥ 150
पर्वद्वये तु सम्प्राप्ते तस्मिन्मासे द्विजोत्तमाः ।
दीपोत्सवं तु मासान्तपर्वण्येव समाचरेत् ॥ 151
तस्मिन् सङ्क्रान्तिदुष्टे तु पूर्वमेव समाचरेत् ।
उभयत्रापि सङ्क्रान्तौ कृत्तिकाभिः समन्विते ॥ 152
पर्वण्येव मुनिश्रेष्ठाः दीपारोपणमाचरेत् ।
पर्वद्वयं कृत्तिकाभिरयुक्तं चेत्तदा द्विजाः ॥ 153
रोहिण्या वापि संयुक्ते पर्वण्युत्सवमाचरेत् ।
रोहिण्या अप्ययोगे तु तदा मासान्तपर्वणि ॥ 154
सङ्क्रान्तियोगदुष्टेपि दीपारोपणमाचरेत् ।
अथ चन्द्रोपरागेण दुष्टं पर्व यदि द्विजाः ॥ 155
प्राक्पश्चादुपरागस्य सन्त्यक्त्वा सप्त नाडिकाः ।
दीपं रात्र्यन्तरे कुर्याद्राजराष्ट्रसुखावहम् ॥ 156
एवं सम्यग्विचार्याथ कुर्याद्दीपोत्सवं बुधः ।
तद्विधानं विस्तरेण वक्ष्यामि मुनिसत्तमाः ॥ 157
तद्दिने देवदेवस्य मन्दिरं सर्वतो द्विजाः ।
प्रासादभागमारभ्य बहिरावणान्तिमम् ॥ 158

[[153]] सङ्क्षाळ्येच्छुद्धतोयैब्राह्मणैः परिचारकैः ।
शलाकासहितैर्दर्भैः सहदेवीविमिश्रितैः ॥ 159
मार्जयेत्सर्वतस्तत्रालेपयेद्गोमयाम्बुभिः ।
अस्त्रेण प्रोक्षयेत्पश्चात्पञ्चगव्यकुशाम्बुभिः ॥ 260
सुधाचूर्णैरलङ्कृत्य विकिरेदक्षतैर्भुवम् ।
वितानैः पुष्पमालाभिरलङ्कृत्य च सर्वतः ॥ 161
चन्दनागरुकर्पूरधूपैः सर्वत्र धूपयेत् ।
ततोपराह्णे सम्प्राप्ते देशिको मूर्तिपैः सह ॥ 162
प्रासादं सम्प्रविश्याथ मूलबिम्बगतं विभुम् ।
समभ्यर्च्यार्घ्यगन्धाद्यैस्तस्मादुत्सवकौतुके ॥ 163
समावाह्य समभ्यर्च्य श्रीपुष्टिभ्यां समन्वितम् ।
यात्राबिम्बं भद्रपीठे निवेश्यास्थानमण्टपे ॥ 164
पुष्पाङ्कुरं ततः कृत्वा मूलबिम्बादिषु द्विजाः ।
रक्षाबन्धं च विधिवत्कृत्वा देशिकसत्तमः ॥ 165
चतुस्थानार्चनं कुर्याद्यथोक्तविधिना ततः ।
संस्नापयेत्तदा देवं पञ्चविंशतिभिर्घटैः ॥ 166
महता हविषा चैव अपूपैरुपहारकैः ।
अभ्यर्च्य देवदेवेशं कुर्याद्दीपाधिवासनम् ॥ 167
मूलबिम्बस्य पुरतो धान्यपीठं प्रकल्पयेत् ।
सौवर्णं राजतं वापि ताम्रं मृण्मयमेव वा ॥ 168
दीपपात्रं समादाय तस्मिन्नाढकसम्मितम् ।
गव्यमाज्यं समापूर्य र्वीन्त तन्मध्यतो न्यसेत् ॥ 169
नूतनैर्वस्त्रखण्डैर्वा कृतां कार्पासतन्तुभिः ।
तत्पात्रं धान्यपीठोर्ध्वे विन्यस्य मुनिपुङ्गवाः ॥ 170
तत्पात्रपरितश्चाष्टौ शरवान् घृतपूरितान् ।
सवर्तिकान् न्यसेत्तत्र प्रागादिषु यथाक्रमम् ॥ 171
पुण्याहं वाचयित्वा तु प्रोक्षयेदस्त्रवारिणा ।
प्रदोषे दीपपात्राणि वाहयन् दीक्षितैर्द्विजैः ॥ 172
गत्वा कुण्डसमीपं तु तत्र कुण्डस्थवह्निना ।
दीपान् प्रज्वाल्य नेत्रेण वाहयन् ब्राह्मणैस्तदा ॥ 173
वेदघोषैर्वाद्यघोषैः साकं धामप्रदक्षिणम् ।
कृत्वा देवस्य पुरतः प्राग्वत्पीठे तु विन्यसेत् ॥ 174
नेत्रेण वाग्निमन्त्रेण दीपमर्घ्यादिभिर्यजेत् ।
ततः शुभे मुहूर्ते तु वृषलग्ने गुरूत्तमः ॥ 175
देवमर्घ्यादिनाभ्यर्च्य दीपपात्रं समुज्वलम् ।
आदाय नेत्रमन्त्रेण उद्दीप्यस्वेति वा ऋचा ॥ 176
प्रदर्श्य देवदेवाय सर्वमङ्गलसंयुतम् ।
परिचारकहस्ते तद्दीपं दत्वा ततोगुरुः ॥ 177
तेन द्वारेषु सर्वेषु मण्टपावरणेषु च ।
विन्यस्ता दीपिकाः सर्वा दीपयेद्द्विजपुङ्गवाः ॥ 178
तदानीमौत्सवं बिम्बं श्रीपुष्टिभ्यां समन्वितम् ।
यानमारोप्य वस्त्राद्यैरलङ्कृत्य विशेषतः ॥ 179

[[154]] यात्रोपकरणैः सार्धं प्रदीपानां सहस्रकैः ।
अधीयानैर्द्विजश्रेष्ठैर्मन्त्राननलदेवतान् ॥ 180
प्रथमावरणाद्येषु सर्वेष्वावरणेष्वपि ।
भ्रामयेद्देवदेवेशं प्रादक्षिण्येन वै द्विजाः ॥ 181
देवस्योत्सववेळायां सर्वत्रावरणादिषु ।
दीपा नानाविधाकाराः कल्पनीयाः समन्ततः ॥ 182
तथा प्रासाददिग्भागे मण्टपे गोपुरेषु च ।
श्रियादीनां मन्दिरेषु परिवारालयेषु च ॥ 183
धनधान्यादिगेहेषु तथा पुष्पालयादिके ।
दीपारोपं तदा कुर्याद्यात्राबिम्बस्य सन्निधौ ॥ 184
ततस्तु देवदेवेशं गोपुरद्वारमानयेत् ।
तत्र द्विजाः वक्ष्यमाणं विष्णुदीपं प्रकल्पयेत् ॥ 185
शैलजं लोहजं वापि दारुजं वा यथारुचि ।
प्रासादोच्छ्रायमानं वा शततालमथापि वा ॥ 186
तदर्धं वा तदर्धं वा दीपस्तम्भं समाचरेत् ।
चतुर्धा विभजेत् स्तम्भम् एकांशं चतुरश्रकम् ॥ 187
त्र्यंशं तूर्ध्वे षोडशाश्रमष्टाश्रं वृत्तमेव वा ।
एकहस्तं द्विहस्तं वा त्रिहस्तं वा घनं तथा ॥ 188
स्तम्भाग्रे चतुरश्रं च पीठं कुर्यात्सपद्मकम् ।
तथा स्तम्भमलङ्कृत्य पत्रपुष्पलताचयैः ॥ 189
आहृत्यैवंविधं स्तम्भं बहिर्द्वारस्य बाह्यतः ।
संस्थापयेदन्तराळं स्तम्भगोपुरयोर्भवेत् ॥ 190
द्वात्रिंशद्धस्तमानं वा चर्तुींवशकरं तु वा ।
रथयात्राऽविरोधेन ततोऽप्यधिकमेव वा ॥ 191
यद्वा स्तम्भं गोपुरान्तः स्थापयेन्मुनिपुङ्गवाः ।
पीठगोपुरयोर्मध्ये यद्वा स्तम्भं प्रकल्पयेत् ॥ 192
स्तम्भमूले चतुर्हस्तं त्रिहस्तं वायतं द्विजाः ।
तावन्मानेन विस्तीर्णं द्वित्रिहस्त्रोच्छ्रितं द्विजाः ॥ 193
सार्धहस्तोच्छ्रितं वापि चतुरश्रं तु पीठकम् ।
शिलाभिरिष्टकाभिर्वा कल्पयेन्मुनिपुङ्गवाः ॥ 194
स्तम्भाधस्तात्पूर्वभागे सिंहं दक्षे तु मारुतिम् ।
पश्चिमे वैनतेयं चाप्युत्तरे हंसमालिखेत् ॥ 195
एवं कृते दीपदण्डे यथाशास्त्रं सुशोभने ।
मुहूर्ते तार्क्ष्यमन्त्रेण पूर्वमेव प्रतिष्ठिते ॥ 196
तदा पूर्वोदितं दीपपात्रमारोपयेद्द्विजैः ।
इत्येवं विष्णुदीपस्य विधानं सम्प्रकीर्तितम् । 197
एवं कृत्वा ततो देवं नयेद्ग्रामप्रदक्षिणम् ।
तत्र तत्र ग्रामवीथ्यां दीपारोपणमाचरेत् । 198 ।
तीर्थतीरेषु चोद्याने कूपतीरादिषु द्विजाः ।
चत्वरेषु च सर्वत्र दीपारोपणमाचरेत् । 199 ।
गृहे गृहे तथा कुर्याद्गमयन् सर्ववीथिकाः ।
ततस्तु देवदेवेशं मन्दिरान्तः प्रवेशयेत् । 200 ।

[[155]] आस्थानमण्टपे भद्रविष्टरे सन्निवेश्य तु ।
अर्घ्यादिभिः समभ्यर्च्य अपूपानुपहारकान् । 201 ।
पायसादीन् तथा लाजान् ताम्बूलादीन्निवेदयेत् ।
अग्नौ सन्तर्पयेद्देवं प्रायश्चित्ताहुतीस्तथा । 202 ।
घृतेनाष्टोत्तरशतं जुहुयाद्देशिकोत्तमः ।
ततो विसर्जयेद्देवं कुण्डमण्डलमध्यगम् । 203 ।
कुम्भसम्प्रोक्षणादींस्तु प्राग्वदेव समाचरेत् ।
ततस्तु चौत्सवं बिम्बं प्रासादान्तः प्रवेशयेत् । 204 ।
तत्र चावाहितां शक्तिं पुनर्मूले नियोजयेत् ।
यजमानो दक्षिणाभिराचार्यादीन् प्रतोषयेत् । 205 ।
एवं यः कारयेद्भक्त्या दीपोत्सवमनुत्तमम् ।
इहलोके सुखं प्राप्य परलोके महीयते । 206 ।
कार्तिक्यां पौर्णमास्यां हि कर्तव्यमिदमुत्सवम् ।
तोषकृद्देवदेवस्य विस्तरेण प्रकीर्तितम् । 207 ।
कार्तिके मासि विप्रेन्द्राः ! शुक्लैकादशिका तु वा ।
तस्यामुपोष्य रात्र्यां तु जागरेण जगत्पतिम् । 208 ।
तत्कालोचित रागोत्थैस्तोषयित्वा तु गीतकैः ।
ब्राह्मे मुहूर्ते सम्प्राप्ते विशेषेण यजेद्विभुम् । 209
संश्राव्येद्भक्तिगीतानि स्तोत्राणि विविधाः कथाः ।
होमावसानं सर्वं तु सविशेषं समाचरेत् । 210 ।
तत्काले ये च गायन्ति तच्च शृण्वन्ति ये जनाः ।
तेषां पुण्यफलावाप्तिं कः शक्नोत्यभिवर्णितुम् । 211 ।
अतः परं प्रवक्ष्यामि मार्गशीर्षोत्सवं परम् ।
कोदण्डस्थे दिनकरे तत्काले सङ्क्रमे द्विजाः । 212 ।
संस्नाप्य देवदेवशमधमोत्तममार्गतः ।
अलङ्कारासनं नीत्वा ह्यर्घ्याद्यैः परिपूज्य च । 213 ।
वासोभिर्भूषणैर्माल्यैःर्गन्धैः कस्तूरिकादिभिः ।
अलङ्कृत्य च देवेशं विष्वक्सेनादिकं तथा । 214 ।
तथैव भक्तबिम्बांश्च संस्नाप्य नवभिर्घटैः ।
अलङ्कृत्य विशेषेण यजेदर्घ्यादिभिः क्रमात् । 215 ।
ततस्तु देवदेवेशं नीत्वा भोज्यासनं शुभम् ।
मुद्गान्नं पायसान्नं च शर्कराघृतसंयुतम् । 216 ।
नानाविधानि भक्ष्याणि विविधानि फलानि च ।
ताम्बूलं मुखवासं च विनिवेद्य यथाविधि । 217 ।
निवेदितान्नभक्ष्यादीन् विष्वक्सेनादिकस्य च ।
भक्तानां च निवेद्याथ देवदेवं श्रियः पतिम् । 218
प्रदक्षिणीकृत्य तदा प्रणम्य च यथा विधि ।
तोषयेद्वैष्णवैर्देवं स्तोत्रैर्नानाविधैस्तथा । 219 ।
संस्कृतैर्द्वाविडैर्वापि देवपारम्यसूचकैः ।
मानसं ध्यानमित्युक्तं कायिकं कर्मचोच्यते । 220
वाचिकं स्तोत्रमित्युक्तं त्रिविधैस्तोषयेत्प्रभुम् ।
ततस्तु वैष्णवाग्र्याणां वैष्णवस्तुतिगायिनाम् । 221 ।

[[156]] तीर्थं निवेदितान्नादीन् दद्याद्देवस्य सन्निधौ ।
वैष्णवा भगवद्भक्ताः गृहीत्वा विनयान्विताः ॥ 222
पीत्वा तीर्थं प्रसादं च भक्षेयुर्देवसन्निधौ ।
आरभ्य सङ्क्रमादेवं मासान्तं मुनिपुङ्गवाः ॥ 223
अरुणस्योदयात्पूर्वं समाराध्य यथाविधि ।
मुद्गान्नपायसान्नादीन् भक्ष्याणि विविधानि च ॥ 224
निवेदयेच्च देवाय भक्तेभ्यश्च दिने दिने ।
भक्तप्रणीतगधाभिः स्तुवीत पुरुषोत्तमम् ॥ 225
तस्मिन् मासे विशेषेण देवदेवस्य सन्निधौ ।
सर्पिषा तिलतैलैर्वा दीपारोपणमाचरेत् ॥ 226
त्रिंशद्दिने विशेषेण दीपमारोपयेत्तु यः ।
इह भुक्त्वाखिलान् भोगान् विष्णुलोकं स गच्छति ॥227
एवं त्रिंशद्दिनं कुर्यादर्चनं स्वरुणोदये ।
तस्मिन्नन्त्ये दशदिने विशेषोत्सवमाचरेत् ॥ 228
उत्सवारम्भपूर्वेद्युर्निशायामङ्कुरार्पणम् ।
रक्षाबन्धं च विधिवत्कृत्वा देशिकसत्तमः ॥ 229
उत्सवारम्भदिवसादारभ्यान्त्यदिनावधि ।
चतुस्थानार्चनं कुर्यात्सायम्प्रातर्यथाविधि ॥ 230
आरम्भे चावसाने च स्नपनं प्राग्वदाचरेत् ।
द्वितीयावरणादौ वा गोपुराद्बहिरेव वा ॥ 231
कल्पयेद्देवदेवस्य महामण्टपमुत्तमम् ।
वितानैः फलपुष्पैश्च दर्पणैश्चामरादिभिः ॥ 232
अलङ्कुर्याद्विशेषेण यथालोचनसुप्रियम् ।
मध्याह्ने देवदेवेशं श्रीपुष्टिभ्यां समन्वितम् ॥ 233
शिबिकायां समारोप्य ह्यलङ्कृत्य विशेषतः ।
विष्वक्सेनादिभिश्चैव भक्तबिम्बादिभिः सह ॥ 234
यात्रोपकरणैस्सार्धं कृत्वा ग्रामप्रदक्षिणम् ।
महामण्टपमानीय तत्र वै सिंहविष्टरे ॥ 235
देवमारोप्य देवीभ्यांविष्वक्सेनादिकानपि ।
देवस्याभिमुखंस्थाप्य ह्यलङ्कारासनोदितैः ॥ 236
भोगैर्देवं समभ्यर्च्य भक्तबिम्बांश्च देशिकः ।
सदागमादिकान्वेदांस्तथा दिव्याश्च संहिताः॥ 237
इतिहासपुराणानि स्तोत्रं दैवं च मानुषम् ।
वेदोपबृंहणञ्चान्यत्संस्कृतं प्राकृतं तु वा ॥ 238
भाषान्तरगतं वापि तदा संश्रावयेद्विभुम् ।
ततस्त्वष्टविधान्नानि भक्ष्याणि विविधानि च ॥ 239
पृथुकान्नालिकेरेक्षुकदलीचणकादिकान् ।
नालिकेरोदकादीनि ताम्बूलमुपहारकान् ॥ 240
निवेद्य देवदेवाय भक्तेभ्यश्च यथाक्रमम् ।
निवेदितान्नभक्ष्यादीन् वैष्णवेभ्यः प्रदापयेत् ॥ 241
ततस्तु देवदेवेशं श्रीपुष्टिभ्यां समन्वितम् ।
शिबिकायां समारोप्य भक्तबिम्वादिभिः सह ॥ 242

[[157]] सविलासं नयेत्तत्र मण्टपे द्विजसत्तमाः ।
तत्काले भक्तबिम्बनां सन्मानं च समाचरेत् ॥ 243
वेदघोषैः स्तोत्रघोषैर्गद्यपद्यात्मकैः स्तवैः ।
वीणावेणुरवैश्चैव नृत्तगीतादिभिः सह ॥ 244
मण्टपं द्विः परिभ्राम्य पुनः सिंहासने विभुम् ।
समारोप्य समभ्यर्च्य सायङ्काले विशेषतः ॥ 245
चतुः सहस्त्रिकामाद्यां द्रामिडीं स्तुतिमुत्तमाम् ।
गापयेद्वैष्णवैस्तत्र नैवेद्यान्ते दिने दिने ॥ 246
ततस्तु देवदेवेशं पूर्वोक्तविधिना द्विजाः ।
धामप्रदक्षिणं नीत्वा मन्दिरान्तः प्रवेशयेत् ॥ 247
आस्थानमण्टपं नीत्वा कृत्वा नित्यार्चनं विभोः ।
चतुस्थानार्चनं चापि कृत्वा स्वस्थानमानयेत् ॥ 248
एवं दशदिनं कुर्यादुत्सवं मुनिसत्तमाः ।
उत्सवान्ते तु कुम्भादिगतं देवं यथाविधि ॥ 249
विसर्जयेत्ततो देवं प्रणिपत्य क्षमापयेत् ।
यजमानो दक्षिणाभिराचार्यादीन् प्रतोषयेत् ॥ 250
मार्गशीर्षोत्सवविधिरित्येवं सम्प्रकीर्तितः ।
मकरस्थे दिनकरे तत्काले सङ्क्रमे द्विजाः ॥ 251
संस्नाप्य देवदेवेशं पञ्चविंशतिभिर्घटैः ।
अलङ्कृत्य विशेषेण हविरादीन्निवेदयेत् ॥ 252
तत्काले यजमानश्च गोभूस्वर्णादिकांस्तथा ।
कूश्माण्डव्रीहिदानं च कुर्याद्देवस्य तुष्टये ॥ 253
तदन्येद्युर्देवदेवं समभ्यर्च्य विशेषतः ।
अश्वरत्ने समारोप्य देवमुत्सवबिम्बगम् ॥ 254
पूर्वोक्तविधिना कुर्यान्मृगयोत्सबमुत्तमम् ।
वने वने समानीय सविलासं जगत्पतिम् ॥ 255
तत्र तत्र विशेषेण समभ्यर्च्य यथाविधि ।
मृगयां कारयेत्पश्चात्सविनोदं मुनीश्वराः ॥ 256
वराहवारणव्याघ्रकृष्णसारशशादिकान् ।
मध्ये कृत्वा तु परितः सेनां विन्यस्य सायुधाम् ॥ 257
अतिशूरभटास्तत्र मध्ये संविश्य यत्नतः ।
जीवग्राहं मृगान् बध्वा नयेयुर्देवसन्निधिम् ॥ 258
ततो विमोचयेत्सर्वान्मृगानेकैकशः क्रमात् ।
हतानां वा मृगाणां च भवेत्पुण्यगतिर्ध्रुवम् ॥ 259
ततस्तु देवदेवेशं मण्टपे वा प्रपादिके ।
भद्रासने समारोप्य समभ्यर्च्य विशेषतः ॥ 260
सायङ्काले तु सम्प्राप्ते पूर्वोक्तविभवैः सह ।
ग्रामप्रदक्षिणं नीत्वा मन्दिरान्तः प्रवेश्येत् ॥ 261
संस्नाप्य देवदेवेशमलङ्कृत्य यथाविधि ।
श्रीपुष्टिभ्यां सह विभुं हविरन्तं समर्चयेत् ॥ 262
एवं हि देवदेवस्य मृगयोत्सव ईरितः ।
प्रतिसंवत्सरं त्वेवं देवस्य सकलोत्सवान् ॥ 263

[[158]] यः कारयति विप्रेन्द्राः स तु साम्राज्यसंयुतः ।
इह लोके सुखं भुक्त्वा चिरं भोगान् यथेप्सितान् ॥ 264
देहसन्यासकाले तु प्राप्नोति भगवत्पदम् ।
इति सङ्कीर्तिताः सम्यग्देवस्य सकलोत्सवाः ॥ 265
इतोऽन्यच्छ्रोतुमिच्छा चेत्कथ्यतां मुनिपुङ्गवाः । इति यां कृष्णोत्सवमृगायान्तविधिर्नाम त्रयोदशोध्यायः ।