१२

[[134]] द्वादशोऽध्यायः 12-पक्षोत्सवादि विधिः नारदः ।
अतः परं प्रवक्ष्यामि पक्षमासोत्सवादिकान् ।
तथा वसन्तोत्सवादीन् शृणुध्वं मुनिपुङ्गवाः ॥ 1
पक्षे पक्षे च द्वादश्यां मासे मासे तथैव च ।
अमावास्यां पौर्णमास्यां श्रवणे चोत्तरे दिने ॥ 2
अवतारदिनेष्वेवं देवदेवस्य वै द्विजाः ।
यजमानादिजन्मर्क्षे चैत्रादिविषुवद्वये ॥ 3
अयनद्वितये चापि तथा सङ्क्रान्तिषु द्विजाः ।
आचरेद्देवदेवस्य विशेषयजनं गुरुः ॥ 4
नक्षत्रभेदे सम्प्राप्ते पूर्वमेव फलप्रदम् ।
परेद्युर्दशनाडी चेत्परमेव शुभं भवेत् ॥ 5
तिथिभेदे तथा प्राप्ते परमेव फलप्रदम् ।
एकादश्याममावास्यां द्वादश्यादिषु वा द्विजाः ॥ 6
परेद्युश्चेत् कालमात्रं तदेव शुभदं भवेत् ।
उत्तरायणपूर्वेषु षट्सु सङ्क्रान्तिषु द्विजाः ॥ 7
पश्चात् षोडशनाडीनामन्तरे देवमर्चयेत् ।
दक्षिणायनपूर्वेषु षट्सु सङ्क्रमणेषु च ॥ 8
प्रागेवाभ्यर्चयेद्देवं नाडीषोडशकान्तरे ।
अनुकल्पे तु तत्कुर्यात् पश्चात् षोडशकान्तरे ॥ 9
एवमृक्षादिकं ज्ञात्वा कुर्यात्त्तत्तद्दिनेर्चनम् ।
द्वादश्यादिषु कर्तव्यम् उत्सवं त्वधुनोच्यते ॥ 10
पुरा नित्यार्चनं कृत्वा देवदेवस्य सत्तमाः ।
संस्नाप्य विधिवद्देवं मूलमूर्तिगतं विभुम् ॥ 11
यात्रामूर्तिगतं वापि यद्वा स्नपनकौतुकम् ।
अलङ्कारासनं नीत्वा समभ्यर्च्य विधानतः ॥ 12
महाहविर्निवेद्याथ होमान्तं वा जपान्तिमम् ।
सर्वं कुर्याद्विशेषेण मूलादुत्सवकौतुके ॥ 13
किञ्चिदावाह्य तदनु यात्रामूर्तिगतं विभुम् ।
यानमारोप्य सौवर्णं सपुष्पप्रभयान्वितम् ॥ 14
अलङ्कृत्य विशेषेण पूर्वोक्तविभवैस्सह ।
उत्सवभ्रमणं कृत्वा सम्यग्ग्रामप्रदक्षिणम् ॥ 15
भगवन्मन्दिराग्रे वा बलिपीठाग्रतोऽपि वा ।
देवस्य श्रमशान्त्यर्थं कुर्यादभ्यर्चनं गुरुः ॥ 16
अर्घ्यं पाद्यं तथाचामं गन्धं माल्यं च दीपकम् ।
धूपं तथार्हणजलम् अपूपान्पृथुकानपि ॥ 17
तर्पणं नाळिकेरोत्थरसमाचमनं तथा ।
मुखवाससमोपेतं ताम्बूलं च निवेदयेत् ॥ 18
विविधैर्नृत्तगीताद्यैस्तदा सन्तोषयेत्प्रभुम् ।

[[135]] गणिका देवदास्यश्च तथा वै वाद्यकोविदाः ॥ 19
वन्दिनश्च तथान्येऽपि सर्वे भक्तिसमन्विताः ।
देवं प्रदक्षिणीकृत्य बलिपीठेन वै सह ॥ 20
द्विवारं वा चतुर्वारं प्रणमेयुश्च भक्तितः ।
ततस्तु देवदेवेशं मन्दिरान्तः प्रवेशयेत् ॥ 21
यानात्समवरोप्याथ पादुके विनिवेद्य च ।
अग्रमण्टपभूभागे भद्रपीठे निवेश्य च ॥ 22
अर्घ्याद्यैः प्राग्वदभ्यर्च्य स्वस्थाने सन्निवेशयेत् ।
आदौ नियोजितां शक्तिं मूलबिम्बे नियोजयेत् ॥ 23
द्वादश्यादिषु कर्तव्यमुत्सवं त्वेवमीरितम् ।
मधुमाधवमासे तु शुक्लपक्षे विशेषतः ॥ 24
कलयापि चतुर्दश्या ह्यपृष्टे पर्वणि द्विजाः ।
जलक्रीडां देवस्य कुर्याद्देशिकसत्तमः ॥ 25
जलक्रीडानुसारेण सप्ताहं वा नवाहकम् ।
पञ्चाहं चा त्र्यहं वापि एकाहं वोत्सवं चरेत् ॥ 26
उत्सवारम्भदिवसात्पूर्वेद्युर्निशि देशिकः ।
अङ्कुरारोपणं कृत्वा रक्षाबन्धं यथाविधि ॥ 27
उत्सवारम्भदिवसादारभ्य प्रतिवासरम् ।
चतुःस्थानार्चनं कुर्यात्सायम्प्रातर्यथाविधि ॥ 28
बलिं नित्योक्तविधिना कुर्यात्कालद्वयेऽपि च ।
मध्याह्ने बलिदानान्ते यात्रामूर्तिगतं विभुम् ॥ 29
शिबिकायां समारोप्य श्रीपुष्टिभ्यां सह द्विजाः ।
नीत्वा महामण्टपं तु तत्र वै भद्रविष्टरे ॥ 30
समारोप्य च देवस्य पुरतो धान्यविष्टरे ।
चूर्णाधिवासनं प्राग्वत्कृत्वा देशिकसत्तमः ॥ 31
अर्घ्याद्यैदेवमभ्यर्च्य हविरन्तं यथाविधि ।
श्रीसूक्तेन ततो देवं श्रियं पुष्टिं च देशिकः ॥ 32
अभिषिच्य च चूर्णेन हारिद्रेण यथाविधि ।
देवीभ्यां सह देवेशं भ्रामयेद्ग्रामवीधिषु ॥ 33
प्रादक्षिण्येन पूर्वोक्तयात्रोपकरणैः सह ।
तदा देवस्य देव्याश्च युद्धक्रीडां च कारयेत् ॥ 34
प्रथमे गन्धयुद्धं तु द्वितीये पुष्पयुद्धकम् ।
तृतीये चूर्णयुद्धं च चतुर्थे तैलयुद्धकम् ॥ 35
पञ्चमे क्षीरयुद्धं स्यात् षष्ठे कर्पूरकुङ्कुमैः ।
नाळिकेरजलैर्युद्धं सप्तमे तु समाचरेत् ॥ 36
गन्धाम्भसाष्टमे युद्धं नवमे जलयुद्धकम् ।
गेहादिग्राममध्यान्तं भक्तैर्भागवतैः सह ॥ 37
गणिकादेवदासीभिः कार्यं युद्धं विनोदितः ।
युद्धक्रीडां तु कृत्वैवं देवमन्तः प्रवेशयेत् ॥ 38
सप्ताहमुत्सवे कुर्याच् चूर्णयुद्धादिसप्तकम् ।
पञ्चाहमुत्सवे कुर्यात् क्षीरयुद्धादिपञ्चकम् ॥ 39
त्र्यहोत्सवे नाळिकेररसयुद्धादिकं भवेत् ।

[[136]] केवलं जलयुद्धं तु कुर्यादेकाह उत्सवे ॥ 40
जलक्रीडाविधानं तु शृणुध्वं मुनिपुङ्गवाः ।
तृतीयावरणादौ वा यद्वा गोपुरबाह्यतः ॥ 41
खात्वा पुरुषमात्रं तु क्षितौ वै मुनिसत्तमाः ।
शिलाभिरिष्टकाभिर्वा दृढीकृत्य समन्ततः ॥ 42
सोपानपङ्क्तिभिर्युक्तां जलद्रोणीं प्रकल्पयेत् ।
चतुःस्तम्भसमायुक्तं मण्टपं वा प्रपां तु वा । 43
कृत्वोपरिष्टात्तद्रोणीं पूरयेच्छुद्धवारिभिः ।
प्राग्वत्कटाहं वापूर्य कस्तूरीकुङ्कुमादिभिः ॥ 44
सुरभीकृत्य तदनु प्रसूनैर्विकिरेच्छुभैः ।
पृथक् चूर्णाधिवासं तु कृत्वा यागगृहे गुरुः ॥ 45
कुण्डे वा स्थण्डिले वाग्नौ श्रियमावाह्य मन्त्रवित् ।
तत्र सन्तर्प्य विधिवत्सम्पाताज्येन सेचयेत् ॥ 46
तच्चूर्णपात्रमादाय वाद्यघोषपुरःसरम् ।
जलद्रोणीं समासाद्य पुण्याहोक्तिपुरस्सरम् ॥ 47
तत्र चूर्णं विनिक्षिप्य वसन्तं तत्र पूजयेत् ।
परितो लोकपालांश्च समभ्यर्च्य विशेषतः ॥ 48
बलिं दद्यादष्टदिक्षु गेयवाद्यपुरस्सरम् ।
जलद्रोण्यां तु संस्कारस्त्वेवमुक्तो मुनीश्वराः ॥ 49
देवीभ्यां सह देवेशं मण्टपे प्राग्वदर्चयेत् ।
कृत्वा चूर्णाभिषेकान्तं जलद्रोणीसमीपतः ॥ 50
देवमानीय देवीभ्यामर्घ्याद्यैः परिपूज्य च ।
भेरीपटहवादित्रशङ्खघोषसमन्वितम् ॥ 51
स्तुतिमङ्गलघोषैश्च वेदघोषसमन्वितम् ।
पौरुषेणैव सूक्तेन कुर्यात्तत्रावगाहनम् ॥ 52
बध्वा कूर्चे पादुकायां देवमावाह्य मन्त्रवित् ।
तत्रावगाहयेद्विप्राः तदानीं देशिकोत्तमः ॥ 53
यजमानो मूर्तिपाश्च भूसुरा वैष्णवोत्तमाः ।
यतयो ब्रह्मनिष्ठाश्च सिञ्चेयुर्मङ्गळाम्भसा ॥ 54
चातुर्वर्ण्यभवाः सर्वे पुरुषाश्च स्त्रियोऽपि च ।
गणिका देवदास्यश्च तथान्ये वाद्यवादकाः ॥ 55
परस्परं च सिञ्चेयुः सर्वे मङ्गळवारिभिः ।
गङ्गास्नानफलं प्राप्य विष्णुसायुज्यमाप्नुयात् ॥ 56
याने देवं समारोप्य सह स्नानार्द्रवाससा ।
जलक्रीडापुरस्कं तु यात्रोपकरणैःसह ॥ 57
भ्रामयेद्ग्रामवीधीषु प्रीतये वरुणस्य च ।
प्रजानामपि सर्वेषां पवित्रीकरणाय च ॥ 58
ततस्तु देवदेवेशं मन्दिरान्तः प्रवेशयेत् ।
तत्र देवं यथाशास्त्रं पञ्चविंशतिभिर्घटैः ॥ 59
अभिषिच्य विशेषेण हविरन्तं समर्चयेत् ।
प्रत्यहं चापि युद्धान्ते स्नपनं त्वेवमाचरेत् ॥ 60
तद्रात्रौ पूर्ववत्कुर्यात्कुम्भसम्प्रोक्षणान्तिमम् ।

[[137]] आचार्यं पूजयेत्पश्चाद्वस्त्रहेमाङ्गुळीयकैः ॥ 61
मूर्तिपादीन्यथान्यायं तोषयेद्द्रविणैस्तथा ।
इति सङ्क्षेपतः प्रोक्तो वसन्तोत्सव उत्तमः ॥ 62
चैत्रे तु शुक्लद्वादश्यां कुर्याद्दमनिकोत्सवम् ।
पवित्रारोहवत्कुर्याच्चतुःस्थानार्चनादिकम् ॥ 63
भूषणान्युत्तमादीनि कुर्याद्दमनिकैः तथा ।
तत्तु सङ्ख्याविरहितं यथा शोभानुरूपतः ॥ 64
पञ्चविंशतिकुम्भांस्तु स्थापयित्वाभिषेचयेत् ।
एक एव नारायण इति प्राक्कलशेन तु ॥ 65
तस्य ध्यानान्तःस्थस्येति द्वितीयकलशेन तु ।
अथ पुनरेव नारायण इति तु तृतीयतः ॥ 66
अथ पुनरेव नारायण इति चतुर्थतः ।
सहस्रशीर्षा पुरुष इति पञ्चमकुम्भतः ॥ 67
पतिं विश्वस्यात्मेश्वरमिति वै षष्टकुम्भतः ।
नारायणपरं ब्रह्म इति वै सप्तमेन तु ॥ 68
यच्च किञ्चिज्जगत्यस्मिन्निति ह्यष्टमकुम्भतः ।
अनन्तमव्ययं कविमिति नवमेनाभिषेचयेत् ॥ 69
अथो निष्ट्या वितस्त्यां तु इति स्याद्दशमेन वै ।
सन्ततं सिराभिस्तु इत्येकादशेनतु ॥ 70
तस्य मध्ये महानग्निरिति द्वादशेन वै ।
सन्तापयति स्वं देहमिति त्रयोदशेन तु ॥ 71
नीलतोयदमध्यस्था इति चतुर्दशेन वै ।
तस्याः शिखाया मध्य इति पञ्चदशेन वै ॥ 72
सर्वस्य वशिनमिति षोडशमेन तु ।
बहिरावरणस्थैस्तु कलशैरभिषेचयेत् ॥ 73
बहिरावरणे नास्ति इति प्राक्संस्थितेन तु ।
यन्नाभिपद्मादभवदिति वह्निगतेन तु ॥ 74
धृतोर्ध्वपुण्ड्रः परमेति याम्यदिक्संस्थितेन तु ।
दक्षिणे तु भुजे विप्र इति यातुगतेन तु ॥ 75
विष्णुनात्तमश्नन्तीति वारुणीसंस्थितेन तु ।
पुम्प्रधानेश्वरो विष्णुरिति वायुगतेन तु ॥ 76
इमां महोपनिषदमिति सोमगतेन तु ।
ओमिति प्रथमं नाम इतीशानगतेन तु ॥ 77
पुरुषो ह वै वासुदेव इति मध्यगतेन तु ।
यद्वा पुरुषसूक्तीयैर्मन्त्रैः षोडशभिः क्रमात् ॥ 78
बहिरावरणस्थैस्तु कलशैरभिषिच्य च ।
पूर्वोक्तैर्ब्रह्मसूक्तस्थैर्मन्त्रैर्द्विद्विकसङ्ख्यया ॥ 79
अन्तरावरणस्थैस्तु संस्नाप्य कलशैः क्रमात् ।
अवशिष्टैस्त्रिभिश्चान्ते मध्यकुम्भेन सेचयेत् ॥ 80
रजनीचूर्णसम्मिश्रान् संस्थाप्य नवकुम्भकान् ।
अर्घ्याद्यैरर्चयित्वा तु चक्ररश्मिसमप्रभान् ॥ 81
रजनीचूर्णनिचयान् ध्यात्वा तैरभिषेचयेत् ।

[[138]] सर्वविघ्ननिरासार्थं सर्वसम्पूरणाय च ॥ 82
दक्षिणे तु भुजे विप्र इति प्राक्संस्थितेन तु ।
निचिक्षेप सुषणमिति वह्निगतेन तु ॥ 83
प्रते विष्णो अब्जचक्रे इति याम्यगतेन तु ।
एभिर्वयमुरुक्रमस्येति यातुगतेन तु ॥ 84
धृतोर्ध्वपुण्ड्रः कृतचक्रेति पश्चिमगेन तु ।
पवित्रमित्यग्निरिति वायुकोणगतेन तु ॥ 85
चरणं पवित्रं विततमिति सोमगतेन तु ।
लोकस्य द्वारमर्चिमदिति रुद्रगतेन तु ॥ 86
मन्त्रैरेतैस्तु चाष्टाभिरन्यैः सौदर्शनैस्तथा ।
संस्नाप्य मध्यकुम्भेन शुद्धोदैरभिषिच्य च ॥ 87
महोपनिषदन्तस्थैर्ब्रह्मसूक्तैः पुरोदितैः ।
मन्त्रैश्चतुर्भिः पुंसूक्तमन्त्रैः षोडशभिस्तथा ॥ 88
वासुदेवद्विषट्कार्णब्राह्मणद्वितयेन तु ।
ओङ्कारादिपवित्रान्तैश्चतुर्भिर्व्यापकैस्तथा ॥ 89
सहस्रधारया देवं स्नापयेद्विधिपूर्वकम् ।
यद्वाष्टाक्षरमन्त्रेण सर्वं स्नपनमाचरेत् ॥ 90
ततोऽन्यैः सकलैर्भागैः प्राग्वदिष्ट्वा क्रमेण तु ।
सर्वैः पुरोदितैर्मन्त्रैर्मूलमन्त्रेण वा द्विजाः ॥ 91
होमं कृवा विशेषेण समिद्भिस्त्रिमधुप्लुतैः ।
ततो दमनिकारोपमाचरेत्तु यथाविधि ॥ 92
अत्रानुक्तं तु सकलं पवित्रारोहवद्भवेत् ।
अतः परं प्रवक्ष्यामि विशाखोत्सवमुत्तमम् ॥ 93
वृषभस्थे दिनकरे पौर्णमासी तु या भवेत् ।
विशाखऋक्षयुक्ता वा ह्ययुक्ता वा द्विजोत्तमाः ॥ 94
चतुर्दश्या ह्यविद्धायां तस्यामुत्सवमाचरेत् ।
सहकारफलादीनि नालिकेरफलान्यपि ॥ 95
द्राक्षाखर्जूरकादानि मातुलङ्गफान्यपि ।
अन्यानि चैव योग्यानि यथालब्धानि वा द्विजाः ॥ 96
आहृत्य सर्वाण्येकत्र न्यस्य पात्रेषु च द्विजाः ।
तानि पात्राणि विन्यस्य परिचारकमूर्धसु ॥ 97
विष्वक्सेनं पुरस्कृत्य वाद्यघोषसमन्वितम् ।
ग्रामं प्रदक्षिणीकृत्य मन्दिरान्तः प्रवेशयेत् ॥ 98
महानसादौ निक्षिप्य फलपात्राण्यतः परम् ।
वैष्णवैर्ब्राह्मणैः शुद्धैर्महाहर्षसमन्वितैः ॥ 99
वस्त्रेण पिहितास्यैश्च जिह्वाचापल्यवर्जितैः ।
निस्त्वक्करणयोग्यानि तथा निस्त्वञ्चि कारयेत् ॥ 100
यथावस्थितरूपेण शोधनार्हाणि शोधयेत् ।
तथैव क्षाळनार्हाणि क्षाळयेच्छुद्धवारिभिः ॥ 101
फलानि सहकाराणां क्षीरेण गुडमुश्रितम् ।
पाचयेन्नालिकेराणां खण्डैश्चैव मरीचिभिः ॥ 102
एलाकर्पूरचूर्णैश्च मिश्रयेदेवमेव हि ।

[[139]] महाहविः पायसादीनपूपांश्च प्रकल्पयेत् ॥ 103
दिवापि वा रजन्यां चा नित्यपूजावसानतः ।
मन्त्रासनपुरस्कं तु देवं स्नानासनं नयेत् ॥ 104
पञ्चविंशभिः कुम्भैः संस्नाप्य पुरुषोत्तमम् ।
अलङ्कारासनेऽभ्यर्च्य ततो भोज्यासनं नयेत् ॥ 105
महाहविः पायसाद्यं सहकारफलादिकम् ।
निवेद्य देवदेवाय ताम्बूलादीन्निवेदयेत् ॥ 106
कारिभ्यो वैष्णवेभ्यश्च तत्प्रसादं प्रदापयेत् ।
ततस्तु चौत्सवं बिम्बं श्रीपुष्टिभ्यां समन्वितम् ॥ 107
यानमारोप्य वस्त्राद्यैरलङ्कृत्य विशेषतः ।
सर्वमङ्गळसंयुक्तं नीत्वा ग्रामं प्रदक्षिणम् ॥ 108
मन्दिरान्तः प्रवेश्याऽथ स्वस्थाने सन्निवेशयेत् ।
यजमानोऽथ गुर्वादीन् तोषयेद्दक्षिणादिभिः ॥ 109
एवं विशाखोत्सवस्य विधानं सम्प्रकीर्तितम् ।
अथ प्लवोत्सवविधिं शृणुध्वं मुनिपुङ्गवाः ॥ 110
शिशिराद्येषु ऋतुषु त्रिष्वेकस्मिन् समाचरेत् ।
शुक्लपक्षेऽथ वा कृष्णे देवेशस्य प्ल्वोत्सवम् ॥ 111
यजमानस्य जन्मर्क्षे देवशस्य जन्मर्क्षकेऽपि वा ।
प्लवाधिरोहणं कुर्याद्राजराष्ट्राभिवृद्धिदम् ॥ 112
तन्नक्षत्रानुसारेण सप्ताहं वा नवाहकम् ।
पञ्चाहं वा त्र्यहं वापि एकाहं वोत्सवं भवेत् ॥ 113
उत्सवारम्भपूर्वेद्युरङ्कुरार्पणमाचरेत् ।
रक्षाबन्धं च विधिवत् कृत्वा देशिकसत्तमः ॥ 114
आरम्भदिनमारभ्य प्रत्यहं कालयोर्द्वयोः ।
चतुःस्थानार्चनं कुर्याद्बलिदानसमन्वितम् ॥ 115
आदावन्ते च देवेशमधमोत्तममार्गतः ।
संस्नापयेत्प्रतिदिनं वाहनारोहणं भवेत् ॥ 116
अन्तिमे तु दिने कार्यमुडुपस्याधिरोहणम् ।
प्रत्यहं चापि मध्याह्ने देवं देवीसमन्वितम् ॥ 117
यानमारोप्य वस्त्राद्यैरलङ्कृत्य विशेषतः ।
ग्रामं प्रदक्षिणीकृत्य सरस्तीरं समानयेत् ॥ 118
तत्र प्रकल्पिते दिव्ये मण्टपे सुमनोहरे ।
भद्रासने देवदेवं समारोप्य विशेषतः ॥ 119
अर्घ्याद्यैस्तु समभ्यर्च्य महता हविषा तथा ।
ततस्तु देवदेवेशं मन्दिरान्तः प्रवेशयेत् ॥ 120
उडुपारोहणदिनेप्येवं देवं सरस्तटे ।
समाराध्य विशेषेण हविरन्तं जगत्प्रभुम् ॥ 121
स्वस्तिके चतुरश्रे वा वृत्ते वापि सरोवरे ।
परितः कृतसोपाने चतुर्द्वारोपशोभिते ॥ 122
चतुर्दिक्षु महोत्तुङ्गगोपुरैश्चोपशोभिते ।
समध्यमण्टपे दिव्ये विमलोदकपूरिते ॥ 123
प्रकल्पितं प्लवं दिव्यं फलकाभिर्दृढीकृतम् ।

[[140]] अनेकस्तम्भसंयुक्तं लोहकीलैर्दृढीकृतम् ॥ 124
विमानसदृशाकारं मण्टपाकृतिमेव वा ।
द्वितलं त्रितलं वापि चतुःपञ्चतलान्वितम् ॥ 125
अलङ्कृतं च विविधैः वितानैः पुष्पमाल्यकैः ।
दर्पणैश्चामरैश्चैव ध्वजैश्च विविधैरपि ॥ 126
नाळिकेरैः पूगफलस्तबकैः कदलीफलैः ।
ह्रीबेरैश्चैव घण्टाभिः परितः समलङ्कृतम् ॥ 127
प्रोक्ष्य पुण्याहतोयेन सरस्तोयं च देशिकः ।
दहनाप्यायनाभ्यां च संशोध्य विमलोदके ॥ 128
क्षीरार्णंवं समावाह्य सम्पूज्यार्घ्यादिभिर्द्विजाः ।
प्लवे फणीन्द्रमावाह्य परितः कुमुदादिकान् ॥ 129
समभ्यर्च्यार्घ्यगन्धाद्यैः कुम्भे चावाह्य पूजयेत् ।
अग्नावनन्तमन्त्रेण हुत्वा चैव यथाविधि ॥ 130
प्लवं तत्कुम्भतोयेन प्रोक्षयेद्देशिकोत्तमः ।
एवं प्लवं तु संस्कृत्य मुहूर्ते तु सुशोभने ॥ 131
देवीभ्यां सह देवेशं प्लवमारोपयेद्गुरुः ।
आचार्यः साधकश्चैव दीक्षिताः परिचारकाः ॥ 132
सेवापरास्तथाश्चन्ये च वैष्णवा वेदपाठकाः ।
तिष्ठेयुः परितो देवमन्येषां तु पृथक्प्लवः ॥ 133
अन्ये तु न स्पृशेयुस्तं यस्तु शेषात्मनः प्लवः ।
वन्दिनो वारिवनिताः ये चान्ये वाद्यवादकाः ॥ 134
ते ते पृथक्प्लवारूढाः कुर्युर्नृत्तादिकं तथा ।
शङ्खभेर्यादिनिनदैर्वेदघोषैः समन्ततः ॥ 135
पुष्पवर्षैर्विनोदैश्च देवं सन्तोषयेत्तदा ।
प्रदक्षिणत्रयं कुर्यात्पञ्चकं सप्तकं तु वा ॥ 136
ततः सरोमध्यभागमण्टपे देवमानयेत् ।
तत्र देवं समभ्यर्च्य अर्घ्याद्यैर्देशिकोत्तमः ॥ 137
अर्हणं पृथुकापूपनाळिकेररसं तथा ।
तर्पणं चैव ताम्बूलं मुखवाससमन्वितम् ॥ 138
निवेद्य देवदेवाय ताम्बूलाद्यैस्ततः परम् ।
सेवाजनांश्च सन्तोष्य यावदस्तमयं रवेः ॥ 139
नानाविनोदैः सन्तोष्य देवं नीत्वा पुनः प्लवम् ।
तीरमासाद्य देवेशमवरोप्य प्लवात्ततः ॥ 140
ग्रामप्रदक्षिणं देवं मन्दिरान्तः प्रवेशयेत् ।
नित्यार्चनं पुरा कृत्वा विशेषयजनं तथा ॥ 141
प्राग्वत्कुम्भप्रोक्षणान्तं सर्वं कुर्याद्यथाविधि ।
यजमानो गुरुं चैव तोषयेद्दक्षिणादिभिः ॥ 142
एवं प्लवोत्सवविधिः प्रोक्तः सङ्क्षेपतो द्विजाः ।
अथ चाग्रयणाख्यस्य विधानं किञ्चिदुच्यते ॥ 143
आषाढे पूर्वफल्गुन्यां पुष्ये चैव विशेषतः ।
माघमासे तु पञ्चम्यां सप्तम्यामथ वा द्विजाः ॥ 144
मुहूर्ते शोभने प्राप्ते कुर्याद्धान्यस्य सङ्ग्रहम् ।

[[141]] सेनाधिपं तदर्थं तु तार्क्ष्यं वा मारुतिं तु वा ॥ 145
आरोप्य शिबिकायां सर्वैः परिजनैः सह ।
आचार्यो यजमानश्च वाद्यघोषपुरस्सरम् ॥ 146
क्षेत्रदेशं समासाद्य पुण्याहं वाचयेद्गुरुः ।
क्षेत्रमर्घ्यादिनाभ्यर्च्य भूमन्त्रेणैव मन्त्रवित् ॥ 147
लवित्रं चापि सम्प्रोक्ष्य मूलमन्त्रेण पूजयेत् ।
ततस्तु क्षेत्रपालेभ्यो बलिं दद्यात्समन्ततः ॥ 148
दध्योदनं पायसं वा देशिकः क्षेत्रवृद्धये ।
सुमुहूर्ते मौनयुक्तो देशिको मूलमन्त्रतः ॥ 149
धान्यानां लवनं कुर्यात्ततश्चैवं कृषीवलैः ।
कारयित्वा धान्यभारान् विविधानि फलानि च ॥ 150
सङ्गृह्य वाहयन् पश्चाद्वेदवाद्यरवैः सह ।
विष्वक्सेनपुरस्कं तु कृत्वा ग्रामप्रदक्षिणम् ॥ 151
देवगेहं समासाद्य प्रासादान्तः प्रविश्य च ।
देवस्य दक्षिणे हस्ते धान्यं किञ्चित्प्रदर्शयेत् ॥ 152
आतपे शोषयेत्पश्चादवघातं समाचरेत् ।
तत्स्थाने गोमयाम्भोभिः समालिप्य समन्ततः ॥ 153
सुधाचूर्णैरलङ्कृत्य मुसलं तदुलूखलम् ।
क्षाळयित्वा शुद्धजलैरर्घ्यगन्धादिनार्चयेत् ॥ 154
धान्यान्युलूखले न्यस्य सुमुहूर्तेऽवघातयेत् ।
सार्धं मङ्गळगानैश्च सर्ववाद्यरवैः सह ॥ 155
सधवब्राह्मणस्त्रीभिर्देवदासीगणैस्तु वा ।
तुषानपोह्य शूर्पेण क्षाळयेच्छुद्धवारिणा ॥ 156
शोधयित्वा पुनः सर्वान् गुडपाकेन मिश्रितान् ।
मरीचिजीरकैर्युक्तान् नाळिकेरफलान्वितान् ॥ 157
विधाय मूलबिम्बादीनभ्यर्च्य च विशेषतः ।
निवेद्य तानि तदनु वह्नौ सन्तर्पयेद्विभुम् ॥ 158
होमान्ते सप्तसमिधां तण्डुलैर्जुहुयात्ततः ।
पश्चात्तन्निवेदितं सर्वं गुर्वादिभ्यः प्रदापयेत् ॥ 159
एवमाग्रयणाख्यं हि अश्वमेधसहस्रतः ।
उत्तमं देवदेवस्य कारयेत्प्रतिवत्सरम् ॥ 160
अथ डोलोत्सवविधिं श्रुणुध्वं मुनिपुङ्गवाः ।
उत्तरायणकाले वा दक्षिणायन एव च ॥ 161
शुक्लपक्षे विशेषेण पञ्चमीं सप्तमीं तु वा ।
एकादशीं वा दशमीं द्वादशीं पूर्णिमां तु वा ॥ 162
समारभ्योत्सवं कुर्यात्सप्ताहं वा नवाहकम् ।
पञ्चाहं वा त्र्यहं वापि विभवेच्छानुसारतः ॥ 163
उत्सवारम्भपूर्वेद्युर्निशायामङ्कुरार्पणम् ।
रक्षाबन्धं च विधिवत्कुर्याद्देशिकसत्तमः ॥ 164
प्रथमावरणे वापि द्वितीयावरणादिके ।
बहिर्वा गोपुरद्वारात्कुत्रचित्सुमनोहरे ॥ 165
देशे डोलोत्सवार्थं तु मण्टपं परिकल्पयेत् ।

[[142]] द्वात्रिंशत्स्तम्भसंयुक्तं चर्तुींवशतिभिस्तु वा ॥ 166
षोडशस्तम्भयुक्तं वा चतुर्द्वारसमन्वितम् ।
मण्टपं समलङ्कुर्यान्नानावर्णवितानकैः ॥ 167
विचित्रक्षौमवासैश्च मुक्तादामभिरेव च ।
नानाकुसुममाल्यैश्च दर्पणैश्चामरादिभिः ॥ 168
ध्वजैश्च विविधै रम्यैः प्रसूनस्तबकैस्तथा ।
घण्टाभिः फलभारैश्च प्रदीपावळिभिस्तथा ॥ 169
मण्टपाभ्यन्तरभुवं कस्तूरीकुङ्कुमादिभिः ।
कर्पूरैश्च समालिप्य सुधाचूर्णादिभिर्भुवम् ॥ 170
अलङ्कृत्य विशेषेण कुसुमैरक्षतैः शुभैः ।
विकीर्य दिव्यधूपैश्च धूपयित्वा समन्ततः ॥ 171
सौवर्णीं राजतीं ताम्रीं दारुजां वा यथारुचि ।
यथोक्तलक्षणां डोलां वृत्तां च चतुरश्रकाम् ॥ 172
विमानसदृशीं वापि यथेष्टतलशोभिताम् ।
चतुःस्तम्भसमायुक्तां यद्वा स्तम्भद्वयाञ्चितम् ॥ 173
वितानैर्विविधैर्माल्यैर्दर्पणैः केतुभिस्तथा ।
अलङ्कृत्य विशेषेण लम्बयेन्मण्टपान्तरे ॥ 174
रज्जुभिर्लोहक्लृप्ताभिः क्षौमकार्पासतन्तुभिः ।
कृताभिर्वा यथायोगं ततो देशिकसत्तमः ॥ 175
पुण्याहं वाचयित्वा तु डोलां सम्प्रोक्ष्य मन्त्रवित् ।
डोलायाः फलकामध्ये अनन्तं परिपूजयेत् ॥ 176
पादेषु चैव धर्माद्यमष्टकं वा चतुष्टयम् ।
स्तम्भेषु गरुडव्यूहमभ्यर्च्य क्रमयोगतः ॥ 177
तथैव चतुरो वेदान् रज्जुषु क्रमशोऽर्चयेत् ।
इतिहासपुराणानि वेदाङ्गानि तथैव च ॥ 178
फलकायामष्टदिक्षु पूजयेन्मुनिसत्तमाः ।
व्यापकांस्तु चतुर्मन्त्रान् पादेषु परिपूजयेत् ॥ 179
इष्ट्वा ध्वजेषु सावित्रीं छत्रेषु व्याहृतीस्तथा ।
प्रणवं तु पताकासु तोरणेषु स्वरांस्तथा ॥ 180
व्यञ्जनानि च सम्पूज्य डोलां कृत्वा तु वाम्मयीम् ।
डोलायाः परितो दिक्षु इन्द्रादीन् परिपूजयेत् । 181
डोलायास्तु पुरोभागे यद्वान्यत्र यथाविधि ।
धान्यपीठे महाकुम्भमुपकुम्भाष्टकान्वितम् ॥ 182
विन्यस्य तत्र डोलोक्तान् देवानावाह्य पूजयेत् ।
उपकुम्भाष्टके चैव इन्द्रादीन् परिपूजयेत् ॥ 183
कुण्डे वा स्थण्डिले वापि वह्निं संस्कृत्य पूर्ववत् ।
तान् देवांस्तत्र चावाह्य तत्तन्मन्त्रैरनुक्रमात् ॥ 184
पृथगष्टाहुतीर्हुत्वा घृताद्यैर्देशिकोत्तमः ।
पूर्णाहुत्यादिकं कृत्वा विसृज्याग्निं ततो गुरुः ॥ 185
सम्पाताज्येन तां डोलां संसिच्य सुमुहूर्तके ।
कुम्भतोयेन सम्प्रोक्ष्य पूजयेच्च विशेषतः ॥ 186
डोलायाः परितो दिक्षु इन्द्रादिभ्यो बलिं ददेत् ।

[[143]] एवं डोलां तु संस्कृत्य कुर्याड्डोलोत्सवं विभोः ॥ 187
चतुःस्थानार्चनयुतं बलिदानसमन्वितम् ।
आरम्भे चावसाने च पूर्वेक्तस्नपनान्वितम् ॥ 188
सायं नित्यार्चनं कृत्वा विशेषयजनं तथा ।
देवं याने समारोप्य श्रीपुष्टिभ्यां समन्वितम् ॥ 189
धाम प्रदक्षिणीकृत्य डोलापार्श्वं समानयेत् ।
शङ्खभेरीनिनादैश्च तूर्यमङ्गलनिस्वनैः ॥ 190
सुमुहूर्ते सुलग्ने च डोलामारोपयेद्विभुम् ।
तत्रार्चयेज्जगन्नाथमलङ्कारासनोदितैः ॥ 191
भोगैर्नीराजनान्तं च ततो भोज्यासने विभुम् ।
नीत्वा महाहविर्दिव्यमपूपानुपहारकान् ॥ 192
निवेद्य तर्पणादीनि ताम्बूलान्तं निवेदयेत् ।
डोलारज्जून् चतुर्दिक्षु गृहीत्वा द्विजसत्तमाः ॥ 193
मन्दं मन्दं चालयेयुस्तदानीं देशिकसत्तमाः ।
पुंसूक्ताद्यैर्देवदेवं स्तुवन्नुच्चावचैस्तदा ॥ 194
कस्तूरीकुङ्कुमाद्यैश्च कर्पूरैः परिभावितम् ।
दिव्यगन्धं तु देवाय समर्प्य च विशेषतः ॥ 195
बीजयेयुस्तौलवृन्तैश्चामरैश्च विशेषतः ।
विचित्रकुसुमस्रग्भिर्हेमरत्नसरादिभिः ॥ 196
अलङ्कुर्याद्देवदेवं तत्काले द्विजसत्तमाः ।
विविधानुपहारांश्च पुनराचमनं तथा ॥ 197
मुखवाससमोपेतं ताम्बूलं च निवेदयेत् ।
विविधानि च नृत्तानि कुर्युर्वाराङ्गनास्तदा ॥ 198
वीणावेणुनिनादैश्च गीतैश्च विविधैस्तदा ।
तोषयेद्देवदेवेशं स्तोत्रैश्च विविधैस्तथा ॥ 199
स्तुवन्तु वन्दिनः सर्वे भगवद्भक्तिबृंहिताः ।
एवमन्यैश्च विविधैरुपचारैश्च तोषयेत् ॥ 200
डोलाचालनवेळायां ये पश्यन्ति श्रियःपतिम् ।
इह ते प्राप्य चाभीष्टान् प्राप्नुवन्ति परां गतिम् ॥ 201
ततस्तु देवं देवीभ्यां यानमारोप्य देशिकः ।
धाम प्रदक्षिणं कृत्वा प्रासादान्तः प्रवेशयेत् ॥ 202
सकृत् त्र्यहं वा पञ्चाहं सप्ताहं वा नवाहकम् ।
कृत्वैवमुत्सवं नित्यं सायङ्काले यथाविधि ॥ 203
प्राग्वत्कुर्यादुत्सवान्ते कुम्भ्सम्प्रोक्षणान्तिमम् ।
आचार्यं पूजयेत्प्राग्वद्यजमानस्तु पूर्ववत् ॥ 204
इति डोलोत्सवविधिः सङ्क्षेपेण प्रदर्शितः ।
आषाढशुक्लद्वादश्यां स्वापोत्सवमथाचरेत् ॥ 205
तदादि कौमुदाख्यस्य यावन्मासस्य तद्दिनम् ।
तपसा योगनिद्रायाः सन्तुष्टो जगदीश्वरः ॥ 206
योगनिद्रां प्रभजति लोकरक्षणहेतुना ।
नैमित्तिकान्मासिमासि तथा संवत्सरोत्सवान् ॥ 207
विशेषयागसंयुक्तान् सर्वसम्पूरणादृते ।

[[144]] नान्यं नैमित्तिकं काम्यं कुर्यान्मासचतुष्टये ॥ 208
अभीष्टव्रतमाश्रित्य नेतव्यं तच्चतुष्टयम् ।
भगवद्भक्तिनिष्णातैः कार्यं तत्रेदमुच्यते ॥ 209
प्रासादस्य पुरोभागे यद्वान्यत्र मुनीश्वराः ।
कल्पयेच्छयनागारं सर्वालङ्कारसंयुतम् ॥ 210
सर्वोपकरणैर्युक्तं पर्यङ्काद्युपशोभितम् ।
यद्वा गर्भगृहे विष्णोर्मूलमूर्तेस्तु दक्षिणे ॥ 211
शयनं कल्पयेद्विप्राः सर्वोपकरणैः सह ।
सङ्गृह्य सर्वसम्भारान् दशम्यां द्विजसत्तमाः ॥ 212
एकादश्यां निशि विभुं चतुःस्थानेषु पूजयेत् ।
यागमण्टपमासाद्य जागरेण नयेन्निशाम् ॥ 213
ब्राह्मे मुहूर्ते सम्प्राप्ते कृतस्नानः कृताह्निकः ।
नित्यार्चनं पुरा कृत्वा चतुःस्थानार्चनं तथा ॥ 214
ततो विसृज्य देवेशं कुम्भमण्डलकुण्डगम् ।
अर्घ्येण गन्धपुष्पाभ्यां धूपेन सुशुभेन च ॥ 215
मूलर्मूीन्त समभ्यर्च्य तस्माच्छयनकौतुके ।
कूर्चे वा देवमावाह्य श्रीभूमिभ्यां समन्वितम् ॥ 216
संस्नाप्य समलङ्कृत्य अभ्यर्च्य हविरन्तिमम् ।
निशामुखे प्रवृत्ते तु कृत्वा नित्यार्चनं विभोः ॥ 217
ततस्तु शयनागारं नीत्वा शयनकौतुकम् ।
ततः शयनदेशे तु पश्चिमे हेमविष्टरे ॥ 218
निवेश्य प्राम्मुखं देवं हविरन्तं समर्चयेत् ।
होमं विधाय विधिवत्कृत्वा होमसमर्पणम् ॥ 219
पर्यङ्केऽनन्तमावाह्य तस्मिन् देवं यथाविधि ।
शाययित्वाथ तस्याग्रे नियमान् शास्रचोदितान् ॥ 220
सङ्कल्प्य चतुरो मासान् देवस्योत्थापनावधि ।
व्रतानुष्ठाननिरतः प्रत्यहं देवमर्चयेत् ॥ 221
सर्वेऽपि वैष्णवाः सर्वे कुर्युस्तदादि व्रतमुत्तमम् ।
शयनाङ्गोपचारैश्च प्रत्यहं तोषयेद्विभुम् ॥ 222
एवं मासद्वये याते मासि भाद्रपदे द्विजाः ।
द्वादश्यां शुक्लपक्षस्य देशिकेन्द्रो निशामुखे ॥ 223
विशेषयागपूर्वं तु परिवर्तनमाचरेत् ।
प्रबोधनं ततः कुर्यात् शयनस्थस्य वै प्रभोः ॥ 224
द्वादश्यां शुक्लपक्षस्य कार्तिके मासि तु द्विजाः ।
दशम्यां पूर्ववत्सर्वसम्भारान् समुपार्ज्य च ॥ 225
एकादश्यां निशायां तु चतुःस्थानस्थितं विभुम् ।
समभ्यर्च्य विशेषेण जागरेण नयेन्निशाम् ॥ 226
ब्राह्मे मुहूर्ते द्वादश्यां मन्त्रर्मूीन्त प्रबोधयेत् ।
नित्यार्चनं पुरा कृत्वा चतुःस्थानार्चनं तथा ॥ 227
ततः शयनर्मूीन्त च समभ्यर्च्य विशेषतः ।
स्नानादिहविरन्तं तु गर्भगेहे प्रवेशयेत् ॥ 228
विसर्जयेन्मूलमूर्तौ मन्त्रं शयनमूर्तिगम् ।

[[145]] ततस्तु चौत्सवं बिम्बं देवीभ्यां समलङ्कृतम् ॥ 229
रथादिके समारोप्य यात्रोपकरणैः सह ।
ग्रामप्रदक्षिणं कृत्वा स्वस्थाने सन्निवेशयेत् ॥ 230
ततो विसर्जयेद्देवं कुम्भमण्डलकुण्डगम् ।
तदा चाश्रमिणः सर्वे कुर्युर्व्रतविसर्जनम् ॥ 231
यजमानोथ गुर्वादीन् साधकान् ब्राह्मणानपि ।
हिरण्यैस्तोषयेत्सर्वान् यथाशक्ति द्विजोत्तमाः ॥ 232
इत्येवमुक्तं देवस्य शयनं च प्रबोधनम् ।
शयनस्थे जगन्नाथे चातुर्मासस्य मध्यतः ॥ 233
पवित्रारोहणं कुर्यादनन्तस्यातितुष्टिदम् ।
इति यां पक्षोत्सवविधिर्नाम द्वादशोऽध्यायः