[[113]] एकादशोऽध्यायः 11 - महोत्सवविधिः अवभृधान्तं
नारदः ।
निशामुखे प्रवृत्ते तु देशिको मूर्तिपैः सह ।
स्नानादिनित्यनियमान्
कृत्वा चैव यथाविधि ॥ 1
देवस्य सन्निधिं गत्वा नित्यपूजां समाचरेत् ।
यात्रामूर्तिगतं देवं श्रीपुष्टिभ्यां समन्वितम् ॥ 2
आस्थानमण्टपं नीत्वा स्थापयेत्स्नानविष्टरे ।
ततस्तु वक्ष्यमाणं यत्
स्नपनं त्वधमोत्तमम् ॥ 3
तेन संस्नापयेद्देवं यथाविभवविस्तरम् ।
अलङ्कारास्सनेऽभ्यर्च्य भोगैः परमपावनैः ॥ 4
प्रभूतमथ नैवेद्यं विनिवेद्य यथाक्रमम् ।
कृत्वा जपावसानं तु भेरीताडनमाचरेत् ॥ 5
देवस्य दक्षिणे पार्श्वे उपविश्यासने गुरुः ।
भेरीसंस्थापनार्थं तु देवेशस्याग्रतस्ततः ॥ 6
चरणं पवित्रमुच्चार्य महीं प्रक्षाळ्य वारिणा ।
विष्णोरराटमन्त्रेण दर्भैस्सम्मार्ज्य देशिकः ॥ 7
गन्धद्वारेति मन्त्रेण गोमयेनानुलेपयेत् ।
आप उन्दन्तु मन्त्रेण सुधाचूर्णैरलङ्कृतिः ॥ 8
देवस्यत्वेति मन्त्रेण विकिरेदक्षतान्
क्षितौ ।
ग्रीष्मो हेमन्त मन्त्रेण धान्यपीठं प्रकल्पयेत् ॥ 9
शन्नोदेवीति मन्त्रेण शतपत्रं चतुर्दिशि ।
त्रातारमिति मन्त्रेण मध्ये पद्मं च संलिखेत् ॥ 10
धन्वनागेति मन्त्रेण ऊर्ध्वं दर्भैः परिस्तरेत् ।
मूर्धानमिति मन्त्रेण नमस्कुर्याद्भुवं ततः ॥ 11
तत्र कोणचतुष्के तु न्यसेद्दीपचतुष्टयम् ।
वाचयेत्
स्वस्ति पुण्याहं ततो देशिकसत्तमः ॥ 12
तज्जलैः प्रोक्षयेद्भेरीम् आप उन्दन्तुमन्त्रतः ।
अग्निरायुष्ममन्त्रेण प्रोक्षयेत्सर्ववाद्यकान् ॥ 13
अर्यमायेति तद्भेरीं विन्यसेद्धान्यविष्टरे ।
तत्पूर्वे शङ्खनिकरं वह्नौ काहळसञ्चयम् ॥ 14
याम्ये तु मर्दलं तन्त्रीं वंशयुक्तां तु यातुदिक् ।
वारुण्यां तु मृदङ्गं च डुड्डुकान्
ह्रस्वमर्दलान् ॥ 15
वायव्ये झल्लरीं न्यस्य कांस्यताम्रसमन्वितम् ।
तेषां बाह्ये तु विप्रेन्द्राः दक्षिणे गणिकाजनान् ॥ 17
न्यसेन्मङ्गलगानार्थं तत्पार्श्वे मन्त्रगायकान् ।
नर्तकानग्रतः स्थाप्य उत्तरे वन्दिवृन्दकान् ॥ 19
स्वस्वस्थानेषु संस्थाप्य अन्यान्वै वाद्यकोविदान् ।
एवं क्रमेण संस्थाप्य सम्भवानुगुणं द्विजाः ॥ 20
वाससा वेष्टयेद्भेरीं यथावित्तानुसारतः ।
[[114]]
शब्दविग्रहमाकाशं भेर्यां संस्कृत्य पूजयेत् ॥ 21
भेरीमध्ये ततो विष्णुं पूजयेद्विष्णुमन्त्रतः ।
ब्रह्माणं दक्षिणेऽभ्यर्च्य रुद्रमभ्यर्च्य वामके ॥ 22
कोणं तद्दक्षिणे स्थाप्य वायुं तत्र सुपूजयेत् ।
शङ्खेषु विष्णुमभ्यर्च्य काहलेषु सरस्वतीम् ॥ 23
मर्दलेष्विन्दुमभ्यर्च्य तन्त्यां गन्धर्वमर्चयेत् ।
मृदङ्गे रुद्रमभ्यर्च्य षण्मुखं डड्डुकेषु च ॥ 24
ह्रस्वमर्दलवाद्येषु मेदिनीं च समर्चयेत् ।
झल्लर्यां विष्णुमभ्यर्च्य ब्रह्माणं कांस्यतालके ॥ 25
पटहेषु श्रियं देवीं घण्टायां तु सरस्वतीम् ।
अन्येषु सर्ववाद्येषु विष्णुमेव समर्चयेत् ॥ 26
भेर्यादिसर्ववाद्यानि यजेदेवं गुरुः स्वयम् ।
तत्काले वारवनिताः पुष्पाञ्जलिसमन्विताः ॥ 27
भेर्यूर्ध्वे तानि पुष्पाणि विकिरेयुर्मुदान्विताः ।
ततः पारशवं स्नातं दर्भपाणिमलङ्कृतम् ॥ 28
उपवीतादिसंयुक्तं पञ्चसंस्कारशालिनम् ।
भगवद्भक्तिसंयुक्तमग्रतः स्थाप्य वीक्षयेत् ॥ 29
अस्त्रेण प्रोक्षयेत्पश्चादर्घ्यतोयेन तत्परम् ।
मुहूर्ते शोभने प्राप्ते भेरीमेवं प्रपूजिताम् ॥ 30
कोणेन ताडयेन्मूर्तित्रयं ध्यायन्
गुरुः स्वयम् ।
तद्विष्णोरितिमन्त्रेण प्रथमं ताडनं भवेत् ॥ 31
ब्रह्मजज्ञानमन्त्रेण द्वितीयं ताडनं भवेत् ।
कद्रुद्रायेतिमन्त्रेण तृतीयं ताडनं भवेत् ॥ 32
त्रिस्थानादिषु देवानां त्रिधा वै तेन ताडयेत् ।
ततः पाराशवस्तां तु वहन्
भेरीमलङ्कृताम् ॥ 33
प्रथमं वामहस्तेन त्रिधा सन्ताडनं चरेत् ।
दक्षिणेन ततः सम्यक्तथा सन्ताडयेत्त्रिधा ॥ 34
प्रथमं शङ्खनादं तु द्वितीयं काहलस्वनम् ।
तृतीयं ताडनं प्रोक्तं क्रमेणैव हि कारयेत् ॥ 35
देवताह्वानवेलायां सर्ववाद्यानि घोषयेत् ।
देवतावाहिनीं गाथां संस्कृतां प्राकृतां तु वा ॥ 36
द्रामिडीं वा यथेच्छातस्तथा संश्रावयेद्विभुम् ।
तत्काले देवतानृत्तं तत्तद्गीतादिसंयुतम् ॥ 37
दर्शयेद्देवदेवस्य देवतानां सुतृप्तये ।
ततस्तु चोत्सवं बिम्बं देवीभ्यां सह देशिकः ॥ 38
यानमारोप्य सुदृढमलङ्कृत्य विशेषतः ।
बलिबिम्बपुरस्कं तु यात्रामूर्तिमनन्तरम् ॥ 39
भ्रामयेत्क्रमयोगेन वाद्यघोषपुरस्सरम् ।
सर्वैः परिजनैः सार्धं बलिदानपुरस्सरम् ॥ 40
पायसं द्रोणमानं तु समादायाथ पात्रतः ।
तथार्घ्यगन्धमाल्यानि धूपं ताम्बूलमेव च ॥ 41
प्रासादद्वारमारभ्य बहिर्द्वारावसानकम् ।
[[115]]
आवृतिष्वपि सर्वासु वीथ्यावरणपश्चिमम् ॥ 42
बलिं प्रदाय विधिना गीतनृत्तादिसंयुतम् ।
ततः प्रविश्य ग्रामं तु पूर्वस्यां दिशि संस्थितः ॥ 43
देवताऽऽवाहनं कुर्यात्प्राम्मुखो देशिकः स्वयम् ।
तत्पुत्रस्तस्य शिष्यो वा स्वरेणोच्चतरेण तु ॥ 44
आगच्छतामरगणाः प्रागाशां येऽधिशेरते ।
विरूपाश्च सुरूपाश्च सपर्यामुद्यतामिमाम् ॥ 45
गृहीत्वा पान्तु नस्तृप्ताः कुमुदस्यानुयायिनः ।
महन्त्विममुपायान्तु प्रीतास्तेभ्यो नमोऽस्तु वः ॥ 46
अनेन मन्त्रेणावाह्य कुमुदं सगणं ततः ।
अर्घ्यलेपनमाल्यानि धूपं तोयं यथाक्रमम् ॥ 47
पायसान्नं पुनस्तोयं ताम्बूलं च प्रदापयेत् ।
पश्चात्सन्तोषयेद्रम्यैर्महद्भिः शङ्खजैः रवैः ॥ 48
तदीयतालसङ्गीतनृत्तैश्चापि ततः परम् ।
आगच्छतामरगणाः येऽग्न्याशामधिशेरते ॥ 49
भीमा भीममुखा रौद्राः सपर्यामुद्यतामिमाम् ।
गृहीत्वा पान्तु नस्तृप्ताः कुमुदाक्षानुयायिनः ॥ 50
महन्त्विममुपायान्तु प्रीतास्तेभ्य नमोऽस्तु वः ।
अनेने कुमुदाक्षं तु समावाह्य गणाधिपम् ॥ 51
प्राग्वत्सन्तोषयित्वा तु ततः सम्प्राप्य याम्यदिक् ।
आगच्छत पितृगणाः याम्याशां येऽधिशेरते ॥ 52
दारुणा दारुणाचाराः सपर्यामुद्यसतामिमाम् ।
गृहीत्वा पान्तु नस्तृप्ताः पुण्डरीकानुयायिनः ॥ 53
महन्त्विममुपायान्तु प्रीतास्तेभ्यो नमोऽस्तु वः ।
अनेन पुण्डरीकाख्यं समावाह्य गणेश्वरम् ॥ 54
क्रमेण पूजयित्वा तु गत्वा वै यातुधानदिक् ।
आगच्छत यातुगणाः यात्वाशां येऽधिशेरते ॥ 55
क्रव्याशिनः क्रूरधियः सपर्यामुद्यतामिमाम् ।
गृहीत्वा पान्तु नस्तृप्ताः वामनस्यानुयायिनः ॥ 56
महन्त्विममुपायान्तु प्रीतास्तेभ्यो नमोऽस्तु वः ।
इत्यावाह्य गणेशं तु वामनं पूजयेत्क्रमात् ॥ 57
वारुणाशां ततो गत्वा शङ्कुकर्णं गणेश्वरम् ।
आगच्छताहिप्रथमाः प्रतीचीं येऽधिशेरते ॥ 58
महाविषाः दन्दशूकाः सपर्यामुद्यतामिमाम् ।
गृहीत्वा पान्तु नस्तृप्ताः शङ्कुकर्णानुयायिनः ॥ 59
महन्त्विममुपायान्तु प्रीतास्तेभ्यो नमोऽस्तु वः ।
इत्यावाह्य यजेत्प्राग्वत्पश्चात्सम्प्राप्य वायुदिक् ॥ 60
आयान्तु गन्धर्वगणाः वाय्वाशां येऽधिशेरते ।
सुदर्शना भीमवेगाः सपर्यामुद्यतामिमाम् ॥ 61
गृहीत्वा पान्तु नस्तृप्ताः सर्वनेत्रानुयायिनः ।
महन्त्विममुपायान्तु प्रीतास्तेभ्यो नमोऽस्तु वः ॥ 62
अनेनावाह्य सगणं सर्वनेत्रं तु तोषयेत् ।
[[116]]
ततः सोमदिशं गत्वा सुमुखं तु गणाधिपम् ॥ 63
आगच्छत यक्षगणा उदीचीं येऽधिशेरते ।
विरूपा दण्डहस्ताश्च सपर्यामुद्यतामिमाम् ॥ 64
गृहीत्वा पान्तु नस्तृप्ताः सुमुखस्यानुयायिनः ।
महन्त्विममुपायान्तु प्रीतास्तेभ्यो नमोऽस्तु वः ॥ 65
इति मन्त्रेण चावाह्य तोषयेत्पूर्ववर्त्मना ।
ततस्स्त्वीशदिशं गत्वा गणेशं सुप्रतिष्ठितम् ॥ 66
आयान्तु पिशाचगणाः ईशाशां येऽधिशेरते ।
सशूलायुधहस्ताश्च सपर्यामुद्यतामिमाम् ॥ 67
गृहीत्वा पान्तु नस्तृप्ताः सुप्रतिष्ठानुयायिनः ।
महन्त्विममुपायान्तु प्रीतास्तेभ्यो नमोऽस्तु वः ॥ 68
मन्त्रेणावाह्य सम्पूज्य गत्वा वै ग्राममध्यतः ।
तत्रचावाहयेदूर्ध्वे पृश्निगर्भं गणेश्वरम् ॥ 69
आगच्छत सिद्धगणाः गगनं येऽधिशेरते ।
शुचिमतयः शुचयः सपर्यामुद्यतामिमाम् ॥ 70
गृहीत्वा पान्तु नस्तृप्ताः पृश्निगर्भानुयायिनः ।
महन्त्विममुपायान्तु प्रीतास्तेभ्यो नमोऽस्तु वः ॥ 71
आवाह्य तोष्यित्वा तु अधस्तान्मानवं ततः ।
आगच्छताधरगणाः पृथिवीं येऽधिशेरते ॥ 72
बहुरूपा बहुज्ञानाः सपर्यामुद्यतामिमाम् ।
गृहीत्वा पान्तु नस्तृप्ताः मानवस्यानुयायिनः ॥ 73
महन्त्विममुपायान्तु प्रीतास्तेभ्यो नमोऽस्तु वः ।
आवाह्य तोषयेत्प्राग्वत्क्रमात्कृत्वावसानकम् ॥ 74
तृप्तये सर्वभूतानां बलिशेषं ततः क्षिपेत् ।
बलिदाने तु पूर्वादि वैवस्वतदिगन्तिमम् ॥ 75
आचार्यः प्राम्मुखः स्थित्वा कुर्यादावाहनादिकम् ।
यात्वादित्रितये कुर्यात्
पूर्वोदितमुदम्मुखः ॥ 76
सोमेशदिग्द्वये ग्राममध्येऽपि प्राम्मुखो भवेत् ।
समतालस्तथा बद्धतालो वै शृङ्गिणी तथा ॥ 77
मल्लतालो मङ्गलश्च जयतालश्च भद्रकः ।
ढक्करीसञ्ज्ञितस्तालो ब्रह्मतालस्तथैव च ॥ 78
अनन्तताल इत्येते दश तालाः प्रकीर्तिताः ।
कुमुदादि गणेशानां दशानां क्रमशो द्विजाः ॥ 79
षड्जर्षभस्तुगान्धारो मध्यमः पञ्चमस्तथा ।
धैवतश्चैव निषादो धैवतो मध्यमस्तथा ॥ 80
पञ्चमश्च क्रमेणैव कथिताः स्युर्दश स्वराः ।
गान्धाररागः कौलाख्यः (कौ)कैशोको नटभाषिकः॥ श्रीः
कामदश्च तत्के(क्के)शी दक्षरागस्तथैव च ।
चौलापाण्याभिधो रागो मेघरागश्च पञ्चमः ॥ 82
इत्येते कुमुदादीनां दशरागाः प्रकीर्तिताः ।
विलासं सर्वतोभद्रं खेटकं चक्रमण्डलम् ॥ 83
कान्तारकुट्टिमं पृष्टकुट्टिमं कटिबन्धनम् ।
वामजानूर्ध्वनृत्तं तु आदिमं च द्वयं पुनः ॥ 84
[[117]]
एते नृत्त्विशेषाश्च कुमुदादेः क्रमात्
स्मृताः ।
एते ह्यावृतिदेवानां क्रमात्तालादयः स्मृताः ॥ 85
अन्येषां सर्वदेवानां तालो भद्रः प्रशस्यते ।
भवेद्गरुडतालस्तु पक्षीशस्य तु मध्यमः ॥ 86
स्वरो रागस्तु गौडः स्यान्नृत्तं वै विष्णुक्रान्तकम् ।
विघ्नारेर्जयतालं स्यान्नृत्तं स्वस्तिकमुच्यते ॥ 87
ऋषभस्तु स्वरः प्रोक्तो वराटीराग एव च ।
भेरीताडनपूर्वं तु देवतावाहनं चरेत् ॥ 88
घोषयेद्गारुडं तालमन्तराले तु वै दिशाम् ।
तत्काले देशिकेन्द्रेण स्वयं संस्कृतगाथया ॥ 89
अन्ये चतुर्मुखमुखा आहूतव्या मरुद्गणाः ।
देवस्योत्सवसेवार्थं तथान्ये भगवद्गणाः ॥ 90
तथान्ये भगवद्भक्ताः जनास्तत्पादसेविनः ।
यद्वा गुरोरनुमतैर्भगवद्भक्तिबृंहितैः ॥ 91
आहूतव्यास्तु तैर्विप्रैर्दिव्यया गाथया द्विजाः ।
एवं ग्रामं परिभ्राम्य प्रासादं सम्प्रविश्य तु ॥ 92
गरुडस्थानमासाद्य तोषयित्वा खगध्वजम् ।
तालादिकैस्ततस्त्वेनं विष्वक्सेनं तु तोषयेत् ॥ 93
ततस्तु चौत्सवं बिम्बं यागशालां प्रवेशयेत् ।
वक्ष्यमाणप्रकारेण सर्वलक्षणसंयुताम् ॥ 94
प्रथमावरणे वापि द्वितीयावरणेपि वा ।
तृतीयीवरणादौ वा यथाभिमतदिग्गताम् ॥ 95
तथा प्रागाननां यद्वा यथाभिमुखदिम्मुखाम् ।
एकद्वारां चतुर्द्वारां यद्वा द्वारद्वयान्विताम् ॥ 96
भित्तियुक्तामयुक्तां वा कोणभित्तिसमन्विताम् ।
क्षिप्रकर्मप्रसिद्ध्यर्थं केवलं वा प्रपाकृतिम् ॥ 97
धूमनिर्गमनोपेतां मध्ये वेदिसमन्विताम् ।
तदूर्ध्वे होमकुण्डं तु सचतुर्मेखलं भवेत् ॥ 98
मेखलात्रययुक्तं वा द्विमेखलमथापि वा ।
तथैकमेखलं वापि चतुरश्रं सलक्षणम् ॥ 99
तत्पूर्वे मण्डलोपेतां वह्नौ दीपघटान्विताम् ।
पश्चिमे बिम्बसंयुक्तामुत्तरे चाङ्कुरैर्युताम् ॥ 100
ईशाने कुम्भसंयुक्तां सर्वोपकरणैर्युताम् ।
अलङ्कृतां वितानाद्यैस्तोरणध्वजशोभिताम् ॥ 101
एवंविधां यागशालां प्रविश्य गुरुसत्तमः ।
प्राग्दिक्प्रत्यम्मुखा योज्याः ऋम्मयाः स्वासनेषु च ॥ 102
दक्षिणे च उदङ्वक्त्रान्यजुर्वेदांश्च योजयेत् ।
प्राम्मुखान्
पश्चिमे भागे सामगान्विनिवेशयेत् ॥ 103
सह चैकायनैर्विप्रैर्मूर्तिसञ्ज्ञोपलक्षितैः ।
दिश्युत्तरस्यां च ततो नित्यकर्मपरायणान् ॥ 104
निवेश्याथर्ववेदज्ञान्
सर्वान्
द्विद्विकसङ्ख्यया ।
प्रवर्तिते वेदघोषे वाद्यघोषे च बाह्यतः ॥ 105
[[118]]
प्रविश्य कलशस्थानं समीपे तु वरासने ।
प्राम्मुखः संस्मरेन्मन्त्रं पूर्ववद्व्याप्तिभाविते ॥ 106
उपविश्य यथान्यायमन्तर्यागान्तमाचरेत् ।
करादिशुद्धिपूर्वं तु पश्चादर्घ्यादिकल्पनम् ॥ 107
प्राग्वत्कृत्वा ततोऽभ्यर्च्य मन्त्रसङ्घं तु देहगम् ।
पुण्याहं वाचयित्वा तु प्रोक्षयेत्सर्वसाधनम् ॥ 108
द्वौ द्वौ तु पूर्वङ्कलशौ सौवर्णै राजतौ तु वा ।
ताम्रजौ मृण्मयौ वाथ सापिधानौ सपल्लवौ ॥ 109
फलरत्नादिकैर्युक्तौ सूत्रेण परिवेष्टितौ ।
शालिपीठोपरि स्थाप्य प्रतिद्वारे तु पार्श्वयोः ॥ 110
द्वारयागं ततः कुर्यात्पूर्वाद्युत्तरपश्चिमम् ।
अर्घ्यालेपनमाल्यैश्च धूपैर्गुग्गुलमिश्रितैः ॥ 111
अथादाय दृढं शुभ्रमेकरूपं च निर्व्रणम् ।
कुम्भं च मृण्मयं रम्यं सौवर्णं वाथ राजतम् ॥ 112
रत्नहाटकस्रग्गन्धफलसर्वौषधीयुतम् ।
शुभपादपशाखाड्यं पट्टस्रग्गन्धभूषितम् ॥ 113
गालितोदकसम्पूर्णं वारिधारान्वितं नवम् ।
चन्दनाद्यनुलिप्तं च परितश्चाक्षतार्चितम् ॥ 114
वेष्टितं परितस्सूत्रैर्विकीर्योपरि तं न्यसेत् ।
तद्देवताशरीरं तु पश्येदमलवर्चसम् ॥ 115
सास्त्रेण चास्त्रमन्त्रेण मन्त्रयेदथ वर्धनीम् ।
पूर्वोक्तद्रव्यसंयुक्तां परितः सूत्रवेष्टिताम् ॥ 116
आवाह्य मन्त्रनाथस्य दक्षिणे कलशोत्तरे ।
विन्यस्य परितस्तत्र स्थापयेत्कलशाष्टकम् ॥ 117
सपल्लवं सापिधानं सूत्रेण परिवेष्टितम् ।
कुम्भमध्ये विभोः पश्चादासनं परिकल्प्य च ॥ 118
तन्मध्ये पुण्डरीकाक्षं समावाह्य विधानतः ।
सन्निधिं सन्निरोधादि भोगयागावसानकम् ॥ 119
पूर्ववत्सकलं कृत्वा तस्य दक्षिणदिग्गतम् ।
अस्त्रविग्रहरूपं च ध्यात्वाभ्यर्च्य यथाविधि ॥ 120
ध्वंसयन्तं च विघ्नानां जालं कर्मावसानकम् ।
अष्टासु तत्र कुम्भेषु परितः स्थापितेषु च ॥ 121
वासुदेवादयः पूज्याः प्रभवाप्यययोगतः ।
इदमभ्यर्थयेद्देवं सास्त्रं बद्धाञ्जलिः स्थितः ॥ 122
यागालयं हि विश्वेश गृहाण रचितं मया ।
आसामप्तिं भज विभो क्रियाङ्गानां च सन्निधिम् ॥ 123
ततोऽस्त्रोदकधारां चाप्यविच्छिन्नां भित्तिकां नयेत् ।
प्रदक्षिणेन प्राग्भावात्तत्पादान्तं च तत्
स्मरेत् ॥ 124
अथवेशानदिग्भागात्तत्पादान्तं द्विजोत्तमाः ।
पृष्टतः कलशं भ्राम्य तुल्यकालं तु वा पृथक् ॥ 125
कलशं वर्धनीयुक्तं विन्यस्य विकिरोर्ध्वगम् ।
अर्घ्यदानं
तयोः कृत्वा पुष्पाद्यैः पूरयेत्पुनः ॥ 126
[[119]]
अस्त्रेण वस्त्रयुग्मं तु अहतं चाभिमन्त्य वै ।
धूपाधिवासितं कृत्वा तावुभौ परिवेष्ट्य च ॥ 127
अथ वा भद्रपीठं तु विन्यसेद्विकिरोर्ध्वगम् ।
सास्त्रं हि मन्त्रकलशं तत्राधारगतं न्यसेत् ॥ 128
चतुस्त्रिद्व्यैकभारैर्वा शालिभिर्विष्टरे कृते ।
तावन्मानांस्तदर्धान्वा तदूर्ध्वे तण्डुलान्न्यसेत् ॥ 129
तत्पादांस्तत्समान्वापि तदूर्ध्वे विन्यसेत्तिलान् ।
तदूर्ध्वे चाहतं वस्त्रयुग्ममास्तीर्य वै शुभम् ॥ 130
कलशं वर्धनीयुक्तं तदूर्ध्वे वापि विन्यसेत् ।
प्राग्वत्सास्त्रं तु देवेशमासनादिक्रमाद्यजेत् ॥ 131
व्यापारमाचरेद्दिव्यं कुम्भके च स्मरन्विभुम् ।
नानिशं युज्यते यस्मात्तस्मादेषा प्रतिक्रिया ॥ 132
विभाव्य मन्त्रिणा कौम्भी अस्त्रं रक्षार्थमेव हि ।
ततो मण्डलवेदिं तु समासाद्य च देशिकः ॥ 133
उपलिप्याथ भूभागं साम्भसा गोमयेन तु ।
तत्र मण्डलमालेख्यं सूत्रयित्वा यथाविधि ॥ 134
तद्विधानं विशेषेण शृणुध्वं मुनिपुङ्गवाः ।
संसाध्य यष्टियोगेन सूत्रात्पूर्वापरे पुरा ॥ 135
तद्दिग्द्वयान्तरे दद्यात्पार्श्वे सूत्रचतुष्टायम् ।
समांशेन द्विधा कृत्वा स्फुटं मध्यात्तदन्त्य च ॥ 136
साधितेनार्धमानेन प्राक्प्रत्यक्स्थेन तन्तुना ।
दक्षिणोत्तरभागाभ्यां समुत्पात्य चतुष्पथौ ॥ 137
सूत्रं पूर्वापरसमं कृत्वा तदुपरि क्षिपेत् ।
पुनरर्धसमं दिक्षु दत्वा कोणचतुष्टयम् ॥ 138
चतुष्पथचतुष्केण नयेद्व्यक्तिं प्रसार्य वै ।
समं सूत्रचतुष्कं च चतुरश्राश्रसिद्धये ॥ 139
तद्विभज्याष्टदशभिश्चतुर्दिक्षु पदैः समैः ।
क्षिपेत्सूत्रगणं तत्र घटिकारेणुरञ्जितम् ॥ 140
मध्ये पद्मावनीं कुर्याद्भागपङ्क्तित्रये क्रमात् ।
तद्बहिः पदपङ्क्त्या तु पीठमष्टदिगन्वितम् ॥ 141
तस्य भागचतुष्काड्यं दिक्चतुष्कं प्रकल्प्य च ।
विदिक्चतुष्कं त्रिपदं पङ्क्त्या पीठप्रदक्षिणम् ॥ 142
प्रदक्षिणक्षितेर्बाह्याच्चतुष्कं दिक्चतुष्टयात् ।
चतुर्णां तु चतुर्णां तु बाह्यद्वारं द्वयं द्वयम् ॥ 143
शोधयित्वा तु तद्बाह्याच्चतुष्कं द्वारसिद्धये ।
चतुष्टयं क्रमेणैव भूयो दिक्षु पदं पदम् ॥ 144
सबाह्याभ्यन्तरगतं शोधनीयं प्रयत्नतः ।
पुनः सर्वपदाभ्यां तु षट्कं षट्कं तु चान्तरात् ॥ 145
सम्मार्ज्य पूर्णशोभार्थं तत्र रत्नोत्पलाष्टकम् ।
यथा दिक्षु स्थितं कुर्यात्पूजनाय दिवौकसाम् ॥ 146
बाह्यस्थपदपद्मात्तु त्रीणि त्रीणि तु लोपयेत् ।
त्रयाणामन्तरस्थं यत्पदमेकात्मतां नयेत् ॥ 147
[[120]]
उपशोभं तु तं विद्धि कुर्यान्नीलाब्जभूषितम् ।
पञ्चकं पञ्चकं कोणाद्वीधौ नीत्वा लयं पुरा ॥ 148
शेषैः कोणं तु निर्वर्त्य सान्तरं च ततो बहिः ।
दद्यात्सूत्रत्रयं चैव मध्येऽथ कमलं लिखेत् ॥ 149
सचक्रमष्टपत्रं तु तस्य लक्षणमुच्यते ।
षट्त्रिंशत्कोष्टमध्ये तु शङ्खं संस्थाप्य यत्नतः ॥ 150
सूत्रभ्रमैस्तु सुसमं कुर्यान्मण्डलपञ्चकम् ।
तेष्वाद्यं मण्डलं मध्ये भवेद्वै कर्णिकास्पदम् ॥ 151
द्वितीयं मण्डलं त्रेधा भङ्क्त्वा सूत्रभ्रमैः पुनः ।
तेष्वाद्यं केसरस्थानं द्वितीयं दलमण्डलम् ॥ 152
तृतीयं तत्पुनस्त्रेधा भक्तं नाभित्रयं चरेत् ।
नाभेर्बहिर्मण्डलयोः द्वादशाराणि कल्पयेत् ॥ 153
तद्बहिर्मण्डलं त्वेकं नेमिस्थानं प्रकल्पयेत् ।
कृत्वैवं वर्णकैः पूतैः पूरणीयं महोज्ज्वलैः ॥ 154
उच्चाग्रविततां पीतां सबीजां विद्धि कर्णिकाम् ।
रेखान्वितानि पात्राणि सर्वाणि सुसितानि च ॥ 155
केसरत्रितयं कुर्यात्पत्रे पत्रेऽरुणप्रभम् ।
दलान्तरालमसितं श्वेतं पीतं च पाटलम् ॥ 156
नाभित्रयं क्रमेण स्याद्रक्तवर्णान्यराणि तु ।
नेमेस्तु पूर्वभागः स्यात्कृष्णवर्णः सितोऽन्तिमः ॥ 157
सितानि पीठकोणानि रक्तं तद्दिक्चतुष्टयम् ।
राजोपलप्रभा वीधी पत्रमाल्याद्यलङ्कृता ॥ 158
पश्चिमांशं विना सर्वद्वाराण्यम्बुजपत्रवत् ।
कृष्णानि सर्वशोभानि द्वारोद्देशस्थितानि च ॥ 159
तदर्धाकृतितुल्यानि उपशोभानि गर्भवत् ।
कोणानि केसराभानि सितशङ्खान्वितानि च ॥ 160
शोणहेमादिवर्णं च क्रमाद्रेखागणं बहिः ।
कृत्वैवमनुसन्धाय सर्वात्मत्वेन देहवत् ॥ 161
रजांसि विद्धि भूतानि सितपीतादिकानि च ।
तन्मात्राण्युपशोभानि शोभानि करणानि च ॥ 162
एवं सर्वाणि कोणानि सद्वाराणीन्द्रियाणि च ।
बहिरावरणं यद्वै सत्वाद्यं त्रितयं हि यत् ॥ 163
मनः सुवितता वीधी गर्वः पीठमुदाह्रुतम् ।
धीः पद्मं तदधिष्ठाता बीजात्मा चिन्मयः पुमान् ॥ 164
अमूर्त ईश्वरश्चात्र तिष्टत्यानन्दलक्षणः ।
यस्य सन्दर्शनादेव शश्वद्भावः प्रसीदति ॥ 165
ससङ्गानामसङ्गानां वपुष्पाते कृते सति ।
प्रायशो मुक्तिभाजां च इह जन्मैकशेषिणाम् ॥ 166
देव आस्तेऽज्ञतां हित्वा बहिरन्तश्च कर्मिणाम् ।
अन्यथा दृष्टिमात्राद्वै कथमाह्लादमेति वै ॥ 167
अन्तः संवेदनसममस्तित्वप्रतिपादकम् ।
यद्यत्स्वलक्षणं तत्वं
तत्तत्सर्वत्र सिद्धिगम् ॥ 168
[[121]]
वस्तुत्वेन गृहीत्वैवं मण्डलं पूर्वनिर्मितम् ।
नाम्नाब्जनाभभुवनं सर्वदुःखक्षयङ्करम् ॥ 169
ततस्तस्मिन्
विभोः प्राग्वदासनं परिकल्प्य च ।
तन्मध्ये देवदेवेशं समावाह्य यथाविधि ॥ 170
सन्निधिं सन्निरोधादि भोगयागावसानकम् ।
सर्वं च पूर्ववत्कृत्वा आसनाद्यैः पुरोदितैः ॥ 171
पूजयेज्जपयज्ञान्तं देवेशं मण्डले गुरुः ।
मण्डले कुम्भयागे च प्रोक्षणे स्नानमाचरेत् ॥ 172
ततस्तु मूर्तिपैः सार्धं गत्वा वै बिम्बसन्निधिम् ।
तत्र सम्पूजयेद्देवं महता विभवेन तु ॥ 173
ततः कुण्डसमीपं तु गत्वा देशिकसत्तमः ।
कुण्डं तत्रानलं चापि संस्कृत्य विधिवत्ततः ॥ 174
अग्नौ सन्तर्पणं कुर्याद्यथोक्तविधिना विभोः ।
समिद्भिश्चैव नित्याभिः काम्याभिश्च यथाक्रमम् ॥ 175
पूर्णाहुत्यादिकं सर्वं प्राग्वदेव समाचरेत् ।
नोत्सृजेत्परिधीन्
दर्भान्
देवान्नोद्वासयेत्ततः ॥ 176
प्रत्यहं धारयेदग्निं
यावत्तीर्थादिनान्तिमम् ।
अहोरात्रं प्रतिदिनं जुहुयादुक्तवर्त्मना ॥ 177
ततो बिम्बान्तिकं गत्वा कृत्वा होमनिवेदनम् ।
सर्वं तु सम्प्रदानान्तं क्रमात्कृत्वा ततः परम् ॥ 178
विभवे सति वै कुर्याद्भूयः सम्पूजनं विभोः ।
ततो द्वारबलिं दद्याच्चतुर्दिक्षु यथाविधि ॥ 179
ततश्च यागगेहात्तु देवमन्तः प्रवेशयेत् ।
ततः सम्पूज्य देवेशं रात्रिशेषं समापयेत् ॥ 180
अङ्कुरारोपणदिनात्पुष्पयागदिनान्तिमम् ।
व्रतं कुर्याद्देशिकेन्द्रो दिनद्वादशके क्रमात् ॥ 181
स्नानार्चनादिकं कृत्वा पीत्वा तच्चरणोदकम् ।
कुशोदकसमायुक्तं जपेदष्टाक्षरम्मनुम् ॥ 182
नैवेद्यप्राशनं पूर्वं कुर्यान्नक्ताशनं द्विजाः ।
जपेद्
द्वादशनामानि क्रमाद्वाच्यमनुस्मरन् ॥ 183
द्वितीये दिवसे प्राप्ते देशिको मन्त्रवित्तमः ।
स्नानादिनित्यनियमान्
निर्वर्त्य सह मूर्तिपैः ॥ 184
नित्यार्चनं विभोः कृत्वा विशेषेण यजेत्ततः ।
प्रविश्य यागसदनं पूर्वोक्तविधिना गुरुः ॥ 185
कृत्वा द्वारार्चनान्तं तु गत्वा कुम्भस्य सन्निधिम् ।
कुम्भे च मण्डले चैव यजेद्देवं यथाविधि ॥ 186
कुम्भे च मण्डले चैव पूर्वं यत्रार्चनं कृतम् ।
अन्येद्युरपि तत्रैव पूजनं तु समाचरेत् ॥ 187
न पर्युषितदोषोस्ति तयोर्यस्मान्
मुनीश्वराः ।
स्थले भस्मनिभे पूर्वे पूजनं तु समाचरेत् ॥ 188
योजयित्वा तु कुम्भस्थे वर्तयेन्मण्डलं ततः ।
सिताद्यैः पावनै रागैस्ततः कुम्भे समर्चयेत् ॥ 189
[[122]]
यथावद्देवदेवेशं पूजयेन्मण्डले ततः ।
एवं कुम्भेऽपि दोषाणां सम्भवे मुनिपुङ्गवाः ॥ 190
कुम्भं संशोध्य भूयोऽपि सम्पूज्य विमलोदकैः ।
तत्र स्थितं देवदेवं मण्डले योजयेद्गुरुः ॥ 191
पूर्ववत्समलङ्कृत्य तत्र सम्पूजयेद्विभुम् ।
अथ देवगृहं गत्वा पुण्डरीकाक्षमच्युतम् ॥ 192
अष्टाङ्गेन नमस्कृत्य पूजयेत्पुरुषोत्तमम् ।
अर्घ्यालभनमाल्यैश्च धूपैरङ्गादिसंयुतम् ॥ 193
तत्सर्वं योग्यमाहर्तुं पूजान्तरनिवेदितम् ।
पुष्पपूर्वं समादाय शिरसा चाभिनन्द्य तत् ॥ 194
समर्प्य विष्वक्सेनस्य ह्यस्त्रमन्त्राभिमन्त्रितैः ।
सपीठं भगवद्बिम्बं निर्मलीकृत्य वारिभिः ॥ 195
प्रासादं शोधयित्वा तु देवदेवं समर्चयेत् ।
स्नानैस्तु क्षीरपूर्वैर्वा धात्रीफलपुरस्सरैः ॥ 196
यथाक्रमोपदिष्टैस्तु चान्यभोगैरकृत्रिमैः ।
प्रदक्षिणप्रणामान्तं विशेषोत्सवमाचरेत् ॥ 197
ततो यागगृहं गत्वा वह्नौ सन्तर्पयेद्विभुम् ।
पूर्वोक्तविधिना पश्चात्संस्कृतेनाथ वह्निना ॥ 198
चरुं संश्रापयेच्चुल्यां हृदा क्षीराज्यतण्डुलैः ।
समुद्धृत्याज्यपूतं तु विनिवेद्य यथाक्रमम् ॥ 199
कलशस्थलबिम्बानामेकांशं जुहुयात्ततः ।
यद्वा यागसमारम्भात्पूर्वं संसाध्य वै चरुम् ॥ 200
कलशस्थलबिम्बानां क्रमात्
कृत्वा तु पूजनम् ।
सर्वं द्विजप्रदानान्तं वह्नौ सन्तर्पयेत्ततः ॥ 201
दत्वा पूर्णाहुतिं पश्चात्कुर्याद्द्वारबलिं तथा ।
गत्वा बिम्बसमीपं तु कृत्वा होमनिवेदनम् ॥ 202
बलिबिम्बमथादाय यानमारोप्य वै ततः ।
अलङ्कुर्याद्विशेषेण वस्त्राभरणमाल्यकैः ॥ 203
वहेयुर्ब्रह्मणा यानं ध्यायन्तो विहगेश्वरम् ।
प्रथमावृतिमारभ्य रथ्यावरणपश्चिमम् ॥ 204
प्रदक्षिणक्रमेणैव बलिदानपुरस्सरम् ।
भ्रामयित्वा तु देवेशं ततो ग्रामेऽपि पूर्ववत् ॥ 205
ग्रामस्यैन्द्रादियोगेन दिशासु विदिशासु च ।
मध्ये च कुमुदादीनां सगणानां क्रमेण तु ॥ 206
पीठिकासु बलिं दद्यान्निर्मितासु पुरैव तु ।
भूतले गोमयाद्येन लेपिते वा यथारुचि ॥ 207
दशानां कुमुदादीनां गणेशानां द्विजोत्तमाः ।
प्रणवाद्यैर्नमोन्तैस्तु स्वैः स्वैर्नामाभिरेव च ॥ 208
अर्घ्यं गन्धं तथा माल्यं धूपं गन्धाम्बुपूर्वकम् ।
बलिं भूयो जलं चापि ताम्बूलं क्रमशो ददेत् ॥ 209
नृत्तगीतादिकं सर्वं पूर्ववत्परिकल्पयेत् ।
एवं ग्रामबलिं कृत्वा बलिबिम्बाग्रतो गुरुः ॥ 210
[[123]]
अनुक्तानां च सर्वेषां ग्राममध्ये मुनीश्वराः ।
नमः पारिषदेभ्यश्चेत्युक्त्वा शिष्टबलिं क्षिपेत् ॥ 211
ततस्तु बलिबिम्बं तु प्रवेश्यान्तर्मुनीश्वराः ।
अभ्यर्च्य श्रमशान्त्यर्थं स्वस्थाने सन्निवेशयेत् ॥ 212
एवं कालद्वये कुर्याद्बलिं तीर्थदिनान्तिमम् ।
आरम्भदिवसे रात्रौ समाप्तिदिवसेऽहनि ॥ 213
बलिमेकं क्षिपेन्मध्यदिवसेषु बलिद्वयम् ।
एवं दिवा रजन्यां च नित्यपूजापुरस्सरम् ॥ 214
विशेषयजनं कुर्याद्बल्यन्तं देशिकोत्तमः ।
वाहनारोहणं रात्रौ दिवसे वा यथारुचि ॥ 215
बल्यन्ते देशिकः कुर्यात्तद्विधानमिहोच्यते ।
यात्राबिम्बगतं देवं देवीभ्यां सह वा विना ॥ 216
अलङ्कृत्य विशेषेण विचित्रवसनैस्तथा ।
विविधैर्भूषणैश्चापि माल्यैर्नानाविधैस्तथा ॥ 217
अलङ्कृतं विशेषेण यानं हेमादिनिर्मितम् ।
समानीय तु सम्प्रोक्ष्य ध्यात्वा गरुडरूपिणम् ॥ 218
तन्मन्त्रेण समभ्यर्च्य यानमर्घ्यादिभिस्ततः ।
कृत्वा पुण्याहघोषं च श्रुतिघोषसमन्वितम् ॥ 219
शङ्खतूर्यादिसंयुक्तं प्रादक्षिण्यक्रमेण तु ।
याने तत्र समारोप्य यात्रामूर्तिगतं विभुम् ॥ 220
दृढीकृत्य विशेषेण ह्यलङ्कुर्याज्जगत्प्रभुम् ।
अर्घ्याद्यैरर्चयित्वा तु ताम्बूलादीन्निवेदयेत् ॥ 221
वहेयुर्ब्राह्मणा यानं ध्यायन्तो विहगेश्वरम् ।
अथवा वैष्णवाः शूद्रा वहेयुर्भक्तिसंयुताः ॥ 222
ग्रामे वा नगरे वापि पट्टणे वा मुनीश्वराः ।
प्रदक्षिणक्रमेणैव परिभ्रमणमाचरेत् ॥ 223
ब्राह्मणैर्ध्रियमाणैश्च कञ्चुकोष्णीषधारिभिः ।
मौक्तिकैरातपत्रैश्च मायूरैश्च सुशोभनैः ॥ 224
हेमदण्डसमायुक्तैस्तालवृन्तैस्तथाविधैः ।
पट्टजैर्विविधैश्चापि चामरैश्च सितासितैः ॥ 225
केतुदण्डैश्च विविधैर्वैजयन्तीविभूषितैः ।
केवलै रत्नदण्डैश्च तथान्यैर्माङ्गलीयकैः ॥ 226
वन्दिवृन्दैश्च विविधैर्वीणावेणुस्वनैस्तथा ।
सुवर्णशृङ्गघोषैश्च तथान्यैर्मङ्गलस्वनैः ॥ 227
गणिकादेवदासीभिस्तथा नागरकैर्जनैः ।
विप्रैर्वेत्रलताहस्तैः कञ्चुकोष्णीषभूषितैः ॥ 228
सुमृष्टधूपपात्राणि वहद्भिः पार्श्वतस्तथा ।
अनेकशतसङ्ख्यातैर्दीपैरतिसमुज्ज्वलैः ॥ 229
पादुके रत्नखचिते पात्रे हेमादिनिर्मिते ।
विन्यस्य देवपुरतो वहद्भिः परिचारकैः ॥ 230
ऋग्यजुस्सामवेदांस्तु पठद्भिः पृष्टतः स्थितैः ।
ब्राह्मणैर्दक्षिणे भागे तथा चैकायनीं श्रुतिम् ॥ 231
[[124]]
संहिताः सात्वताद्याश्च पठद्भिर्भक्तिसंयुतैः ।
वासुदेवस्य माहात्म्यं कथयद्भिश्च सन्ततम् ॥ 232
वासुदेवार्चनपरैः सात्विकैः पाञ्चरात्रिकैः ।
वामे तु सेतिहासानि पुराणानि स्तुतीरपि ॥ 233
नानाभाषाविरचिताः विष्णुपारम्यसूचकाः ।
पठद्भिर्ब्राह्मणैर्भक्तैस्त्रय्यन्तार्थविचारिभिः ॥ 234
शाब्दिकैस्तार्किकैश्चैव तथा मौहूर्तिकादिभिः ।
तत्तच्छास्त्रप्रमेयं तु ब्रुवाणैर्विनयादिभिः ॥ 235
गायद्भिरग्रे देवस्य द्रामिडीं श्रुतिमुत्तमाम् ।
तथा भाषाप्रबन्धांश्च गद्यपद्यात्मकानि च ॥ 236
तथा च वैष्णवीम्भक्त्या ब्रुवाणैर्वैष्णवोत्तमैः ।
ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्च भगवत्परैः ॥ 237
भगवद्दर्शनासक्तचित्तैः प्रणतिशालिभिः ।
सेनया सर्वतो दिक्षु चतुरङ्गबलाड्यया ॥ 238
राजोचितैः परिकरैरन्यैश्च विविधैः सह ।
देवं ग्रामादिवीथिषु भ्रामयेत्तु प्रदक्षिणम् ॥ 239
यात्रायां वर्तमानायां देवदेवाय भक्तितः ।
मुखवासं सताम्बूलं बहुशो विनिवेदयेत् ॥ 240
चन्दनं श्रमशान्त्यर्थं कर्पूराद्यैः सुभावितम् ।
प्रदद्याद्देवदेवाय माल्यानि विविधान्यपि ॥ 241
शीतळं तर्पणजलं नाळिकेरजलान्वितम् ।
श्रमशान्तिनिमित्तानि अन्यानपि निवेदयेत् ॥ 242
दिगष्टके च ग्रामादेस्तन्मध्ये च विशेषतः ।
गीतकैर्विविधैर्नृत्तैस्तन्त्रीवाद्यसमन्वितैः ॥ 243
शङ्खभेरीमृदङ्गाद्यैर्देवेशं परितोषयेत् ।
एवं देवं परिभ्राम्य नयेद्बाह्ये तु मण्टपे ॥ 244
समारोप्य च सौवर्णे विष्टरे जगताम्पति ।
अर्घ्यं पाद्यं तथाचामं गन्धमाल्ये च दीपकम् ॥ 245
धूपं नीराजनं चैव समर्प्य च यथाविधि ।
अथार्हणजलं स्वच्छमपूपान्
पृथुकानपि ॥ 246
तर्पणं नालिकेरोत्थरसमाचमनं तथा ।
मुखवाससमोपेतं ताम्बूलं च क्रमेण तु ॥ 247
निवेद्य देवदेवाय उपहारांस्तु दर्शयेत् ।
पूजाकाले तु सर्वत्र भूषामाल्याम्बरार्पणम् ॥ 248
विसर्जनं च तेषां वै तथा चाभ्यवहारिकैः ।
भोगैरभ्यर्चनं चैव इतरालक्ष्यमाचरेत् ॥ 249
तत्सिद्ध्यै देवमभितः स्तरेद्यवनिकापटम् ।
ततस्तु मण्टपात्तस्मान्मन्दिरान्तः प्रवेशयेत् ॥ 250
महापीठस्य पुरतो देवमर्घ्यादिभिर्यजेत् ।
अपूपानुपहारांश्च ताम्वूलादीन्निवेदयेत् ॥ 251
देवाग्रे चतुरो वेदान्
पाठयेत्तदनन्तरम् ।
पाठयेद्द्रामिडीं चापि स्तुतिं वैष्णवसत्तमैः ॥ 252
[[125]]
शङ्खमर्दलनादैश्च नृत्तगीतादिभिः सह ।
भ्रामयेद्देवदेवेशं प्रादक्षिण्येन मन्दिरम् ॥ 253
ततः प्रवेशयेन्मन्दं मन्दं सोपानमार्गतः ।
तदानीं देवदेवाय ताम्बूलादीन्
समर्पयेत् ॥ 254
चामरैस्तालवृन्ताद्यैर्वीजयेच्छ्रमशान्तये ।
स्तोत्रैः स्तुवीत देवेशं संस्कृतैर्द्रामिडैस्तु वा ॥ 255
वीणावेणुमृदङ्गैश्च मङ्गलैस्तालनिस्वनैः ।
द्रामिडस्तुतिगीतानि कुर्वद्भिर्वैष्णवोत्तमैः ॥ 256
तथा मङ्गलगानाभिर्गणिकाभिः पदे पदे ।
उच्चैरुद्घुष्यमाणैश्च वन्दिस्तोत्ररवैः सह ॥ 257
नानाविधोपचारैश्च देवमन्तः प्रवेशयेत् ।
प्रासादद्वारदेशे तु देवदेवस्य भक्तितः ॥ 258
अर्घ्यं पाद्यं तथाचामं गन्धं माल्यं च धूपकम् ।
निवेद्य देवदेवेशं स्वस्थाने सन्निवेशयेत् ॥ 259
वाहनारोहणं त्वेवं कुर्याद्देवस्य नित्यशः ।
प्रथमे शिबिकायानं द्वितीये शेषपीठिका ॥ 260
तृतीये चन्द्रबिम्बं च दिवा चेत्सूर्यमण्डलम् ।
चतुर्थे दिवसे प्राप्ते पुष्पमण्टपवाहनम् ॥ 261
पञ्चमे दिवसे प्राप्ते गरुडारोहणं भवेत् ।
षष्ठे दिने तु सम्प्राप्ते तन्निशायां दिवापि वा ॥ 262
बल्यन्तमर्चनं कृत्वा देवमास्थानमण्टपे ।
भद्रासने समारोप्य पुरतस्तस्य शोधिते ॥ 263
भूतले धान्यपीठे तु चूर्णकुम्भं च विन्यसेत् ।
प्रोक्ष्य पुण्याहतोयेन श्रियं तत्र समर्चयेत् ॥ 264
सदर्भवस्त्रेणाच्छाद्य चक्रं तत्र नियोजयेत् ।
रक्षार्थं च ततो देवमर्घ्याद्यैर्हविरन्तिमैः ॥ 265
समभ्यर्च्य च हारिद्रं चूर्णमादाय देशिकः ।
श्रीसूक्तमुच्चरेद्देवं चूर्णैः समभिषेचयेत् ॥ 266
मण्टपस्यैकदेशे तु शालितण्डुलनिर्मिते ।
विष्टरे तु जलद्रोणीं सौवर्णीं वाथ राजतीम् ॥ 267
ताम्रजां वा यथालाभं चतुस्त्रिर्द्विकरायताम् ।
तदर्धविस्तृतामूर्ध्वे मूले तत्पादविस्तृताम् ॥ 268
वृत्तायतामधोभागे प्रणालेन समन्विताम् ।
उन्मत्तकुसुमाकारसदृशीमथ वा द्विजाः ॥ 269
बिम्बमानानुरूपां तां सर्वलक्षणसंयुताम् ।
निवेश्य तां समापूर्य गालितेन जलेन तु ॥ 270
कुङ्कुमक्षोदयुक्तेन चन्दनेनान्वितेन च ।
कर्पूरचूर्णयुक्तेन कुसुमैर्वासितेन च ॥ 271
तत्पार्श्वे देवमानीय चार्घ्याद्यैः परिपूज्य च ।
भेरीपटहवादित्रशङ्खघोषसमन्वितम् ॥ 272
स्तुतिमङ्गलघोषैस्तु श्रुतिघोषसमन्वितम् ।
सूक्तेन पौरुषेणैव विभोः कृत्वावगाहनम् ॥ 273
[[126]]
याने देवं समारोप्य सह स्नानार्द्रवाससा ।
कुङ्कुमेन समालिप्य आपादान्मस्तकावधि ॥ 274
भ्रामयेत्प्राङ्कणं वीधीं प्रीतये वरुणस्य च ।
जनानामपि सर्वेषां पवित्रीकरणाय च ॥ 275
तत्काले देवदेवेशं भक्त्या पश्यन्ति ये द्विजाः ।
ते सर्वे धूतपाप्मानो भवन्ति निरुपद्रवाः ॥ 276
ततस्तु मण्टपे देवं विष्टरे विनिवेश्य च ।
स्नानवस्त्रादिसकलमाचार्यः स्वयमाहरेत् ॥ 277
ततो देवमलङ्कृत्य कुर्यात्संयग्गजोत्सवम् ।
सप्तमे दिवसे प्राप्ते कृत्वा बल्यन्तमर्चनम् ॥ 278
प्रतिष्ठितं रथं पूर्वं सर्वलक्षणसंयुतम् ।
मुक्ताप्रपावितानैश्च सौवर्णैर्मञ्जरीगणैः ॥ 179
मुक्तादामसमोपेतैर्विचित्रैः पुष्पदामभिः ।
हैमेन च वितानेन प्रभया च विशेषतः ॥ 280
मध्यतो भद्रपीठेन सौवर्णेन तथैव च ।
ध्वजैश्च विविधै रम्यैः पताकाभिश्च सर्वतः ॥ 281
भूषयेद्रथयानं तु तथा गरुडकेतुना ।
सौवर्णकुम्भशिखरैः रथमेवमलङ्कृतम् ॥ 282
सम्प्रोक्ष्य पञ्चगव्येन तथा पुण्याहवारिभिः ।
रथस्य पादादूर्ध्वान्तं स्थितान्
देवान्
समर्चयेत् ॥ 283
प्रथमं पादचक्रेषु वह्न्यादीशानपश्चिमम् ।
सत्यं सुपर्णं गरुडं तार्क्ष्यं चैव यथाक्रमम् ॥ 284
तत्तन्मन्त्रैः समभ्यर्च्य अन्यत्र विहगेश्वरम् ।
चक्रदण्डद्वये मायां चक्रे च शशिभास्करौ ॥ 285
अनन्तं च तदाधारे भाराख्ये दण्डकद्वये ।
विश्वरूपधरो विष्णुः शक्तीशश्चाप्युभाविमौ ॥ 286
परितः पङ्क्तिकाजाले केशवादीननुक्रमात् ।
गात्रेषु गात्रपादेषु धर्माद्यं त्वष्टकं यजेत् ॥ 287
गात्राद्गात्रान्तरे न्यस्येच्चक्राद्यायुधसञ्चयम् ।
रथप्रासादमूर्धान्ते स्थूपिकायां सदाहरिम् ॥ 288
कूटशालासु पूर्वोक्तवासुदेवादिकान्यजेत् ।
एकशृङ्गादिकां न्यस्त्वा परितो वेदिकातले ॥ 289
कूर्मादीन्द्वादश तथा ग्रीवायां परितो यजेत् ।
शिखरे तु यजेत्पश्चादनन्तादीननुक्रमात् ॥ 290
सर्वेषामूर्ध्वतो विप्राः पद्मनाभं ध्रुवं यजेत् ।
अर्घ्यस्स्रग्गन्धधूपैश्च क्रमेणैतान्
प्रपूज्य च ॥ 291
चण्डाद्यं च सुभद्रान्तं द्वौ द्वौ दिक्षु समर्चयेत् ।
कुमुदादिगणेशानान्
लोकपालान्यथाक्रमम् ॥ 292
तत्तत्स्थानेषु सम्पूज्य रथं गरुडरूपिणम् ।
ध्यात्वाभ्यर्च्य ततोऽर्घ्याद्यैर्हविरन्तं ततो गुरुः ॥ 293
चण्डादीनां बलिं दत्वा रथस्य परितस्ततः ।
देवगेहं समासाद्य मूर्तिपैः सह देशिकः ॥ 294
[[127]]
यानमारोप्य देवेशं श्रीपुष्टिभ्यां समन्वितम् ।
आस्थानमण्टपं नीत्वा समारोप्य च विष्टरे ॥ 295
अर्घ्याद्यैर्देवमभ्यर्च्य विविधैरुपचारकैः ।
यात्रानिर्विघ्नसिद्ध्यर्थं बीजानि विविधानि च ॥ 296
फलानि च हिरण्यानि तथा दध्योदनं द्विजाः ।
देवस्य सन्निधौ दत्वा विप्रेभ्यो देशिकोत्तमः ॥ 297
सुमुहूर्ते सुलग्ने च दैवज्ञपरिचोदिते ।
रथस्यारोहणार्थं तु देवमभ्यर्च्य यत्नतः ॥ 298
पादुके विनिवेद्याथ यानमारोप्य पूर्ववत् ।
वेदघोषैस्तथा घण्टाघोषैर्मङ्गलनिस्वनैः ॥ 299
तथा जयजयारावैः काहलैः शङ्खनिस्वनैः ।
भेरीपटहवादित्रनृत्तगीतादिभिः सह ॥ 300
छत्रचामरपूर्यैश्च यात्रोपकरणैः सह ।
प्रथमावृत्तिमारभ्य रथ्यावरणपश्चिमम् ॥ 301
प्रदक्षिणक्रमेणैव परिभ्राम्य च पूर्ववत् ।
रथं प्रदक्षिणीकृत्य सुमुहूर्ते सुलग्नके ॥ 302
रथमारोपयेद्देवं ब्राह्मणैः सुप्रयत्नतः ।
रथस्योर्ध्वतले देवं विष्टरे विनिवेश्य च ॥ 303
यात्रार्थं देवदेवाय अर्घ्यं पाद्यं तथैव च ।
आचामं गन्धमाल्ये च दीपं धूपं तथैव च ॥ 304
अर्हणं मधुपर्कं च नैवेद्यं विविधं तथा ।
पृथुकाद्यं पानकं च तर्पणाचमने तथा ॥ 305
ताम्बूलं विनिवेद्याथ मुखवाससमन्वितम् ।
तत्काले पुत्रकामानां स्त्रीणां चारोग्यमिच्छताम् ॥ 306
नैवेद्यं कबलीकृत्य दद्याद्देवस्य सन्निधौ ।
आचार्यः साधकश्चापि रथस्योर्ध्वतले स्थिताः ॥ 307
तस्याधस्तात्
स्थले स्थाप्याः पश्चिमे छत्रधारकाः ।
तत्र तत्पार्श्वतः स्थाप्यौ मायूरच्छत्रधारिणौ ॥ 308
दक्षिणोत्तरपार्श्वस्थावग्रे चामरधारिणौ ।
सारथिस्तत्स्थले स्थाप्यस्त्वग्रतो मध्यदेशतः ॥ 309
ततस्तद्रथयानं तु भ्रामयेत्सर्ववीथिषु ।
प्रादक्षिण्येन वै ग्रामे नगरे पत्तनेऽपि वा ॥ 310
ततो रथात्तु देवेशमवरोप्य सुयत्नतः ।
यानान्तरे समारोप्य स्वस्थाने सन्निवेशयेत् ॥ 311
अष्टमेऽह्नि तु तद्रात्रौ डोलारोहणपूर्वकम् ।
अश्वारोहं ततः कुर्यान्
मृगयां चापि कारयेत् ॥ 312
भक्तसन्त्राणलीलां च ब्राह्मे नगरशोधनम् ।
प्रणयः कलहश्च स्याद्देव्योर्देवेन वै मिथः ॥ 313
सन्धानमुभयोः कुर्यात्
क्षम्यतामिति चोच्चरेत् ।
नवमेऽवभृतं कुर्यात्तद्रात्रौ शिबिकोत्सवम् ॥ 314
वाहनारोहणस्यैवं क्रमः सम्यन्निरूपितः ।
अपूर्वाभरणैर्माल्यैरपूर्वैश्चाम्बरैस्तथा ॥ 315
[[128]]
अपूर्वोद्यानयानाद्यैर्यथा कौतूहलं भवेत् ।
तथा विशेषः कर्तव्यो यावत्तीर्थदिनावधि ॥ 316
अथावभृधकार्यस्य विधानं तूच्यते द्विजाः ।
आचार्यो मूर्तिपैस्सार्धं प्रविश्य भगवद्गृहम् ॥ 317
देवं प्रपूज्य विधिवद्बल्यन्तं सर्वमाचरेत् ।
आचार्यो यजमानेन साधकैश्च समन्वितः ॥ 318
प्रासादं सम्प्रविश्याथ मूलबिम्बस्य पादयोः ।
प्रणम्य दण्डवत्तत्र तीर्थबिम्बं समानयेत् ॥ 319
तदभावे मुनिश्रेष्ठाः नित्यस्नपनकौतुकम् ।
अभावेप्यस्य बिम्बस्य बलिबिम्बं तु वा द्विजाः ॥ 320
मूलबिम्बस्य पुरतः संस्थाप्यावाह्य पूज्य च ।
तीर्थबिम्बं समुद्धृत्य वाद्यघण्टारवैः सह ॥ 321
ध्वजपीठसमीपं तु समानीय यथाविधि ।
शोधितेऽलङ्कृते तत्र मण्टपे स्नानविष्टरे ॥ 322
निवेश्य स्नानबिम्बं तु मूलबिम्बस्य सम्मुखम् ।
तदग्रतस्तु संस्थाप्य स्नपनं त्वधमाधमम् ॥ 323
पुरतः स्थण्डिलं कृत्वोलूखलं तत्र विन्यसेत् ।
मुसलानि चतुर्दिक्षु विन्यस्योलूखलोपरि ॥ 324
मुसलोलूखले गृह्य दूर्वाकाण्डनि बन्धयेत् ।
नववस्त्रेण संवेष्ट्य तत्र चूर्णं विनिक्षिपेत् ॥ 325
सौवर्णं रजनीचूर्णंसम्मिश्रं गन्धसंयुतम् ।
चतुर्भिर्वैष्णवैर्विप्रैर्वैष्णवीभिस्तु वा द्विजाः ॥ 326
कारयेदवघातं तु गीयमाने तु मङ्गले ।
स्थापितस्नपनाद्विप्राः प्राग्भागे वा तदुत्तरे ॥ 327
तण्डुलैः पीठिकां कृत्वा तत्र कुभं निवेश्य च ।
ससूत्रं तत्र निक्षिप्यं चूर्णं वस्त्रेण वेष्ट्य च ॥ 328
अथ वा पञ्च नव वा कलशान्
चूर्णपूरितान् ।
अर्चयित्वा तु मूलेन ततः संस्नापयेद्विभुम् ॥ 329
तैलेनाभ्यज्य देवेशं समुद्ध्रुत्य च पूर्ववत् ।
ततः संस्नाप्य विधिना पाद्याद्यैः कलशैः क्रमात् ॥ 330
अभ्यर्च्य देवमर्घ्याद्यैर्हेमचूर्णादिपूरितम् ।
आदाय कुम्भं तैश्चूर्णैः श्रीसूक्तेनाभिषेचयेत् ॥ 331
सहस्रधारया स्नानं कृत्वा संशुध्य वारिणा ।
अधरोत्तरवस्त्राभ्यां नवाभ्यां परिधाय च ॥ 332
अलङ्कृत्य विशेषेण समभ्यर्च्य यथाविधि ।
मुद्गान्नपायसान्नादीन्
विनिवेद्य ततः परम् ॥ 333
शिबिकादौ समारोप्य तीर्थबिम्बमलङ्कृतम् ।
तथैव चौत्सवं बिम्बं श्रीपुष्टिभ्यां समन्वितम् ॥ 334
शिबिकादौ समारोप्य ह्यलङ्कृत्य विशेषतः ।
तीर्थबिम्बं पुरस्कृत्य यात्रामूर्तिगतं विभुम् ॥ 335
छत्रचामरशङ्खादिसर्वसाधनसंयुतम् ।
प्रदक्षिणं परिभ्राम्य सर्वेष्वावरणेषु च ॥ 336
[[129]]
तीर्थपार्श्वं समासाद्य तत्तीरे मण्टपेऽथ वा ।
प्रपायां देवदेवेशं विनिवेश्य च विष्टरे ॥ 337
यात्राबिम्बस्य पुरतः स्नानपीठं निधाय वै ।
निवेश्य तत्र तीर्थार्चां पञ्चविंशतिभिर्घटैः ॥ 338
यद्वा द्वादशभिः कुम्भैर्नवभिर्वाभिषेचयेत् ।
चूर्णस्नानं तु विधिवत्कृत्वा देवस्य देशिकः ॥ 339
अर्घ्याद्यैः पूजयित्वाथ बिम्बं तु परिमार्ज्य च ।
भुक्तावशिष्टं यच्चूर्णं भक्तानां मूर्ध्नि दापयेत् ॥ 340
गङ्गास्नानफलं चूर्णं सर्वपापप्रणाशनम् ।
क्रीडया वापि तच्चूर्णं शिरसा धारयेत्तु यः ॥ 341
तस्य देहगतं पापं तत्क्षणादेव नश्यति ।
कृत्वा पुण्याहघोषं तु तीर्थं सम्प्रोक्ष्य देशिकः ॥ 342
तत्तीर्थे सर्वतीर्थानि समावाह्य समर्चयेत् ।
ततश्च देशिकेस्द्रस्तु यात्रामूर्तिगतं विभुम् ॥ 343
समासाद्य तु तत्पादे प्रणम्य तदनुज्ञया ।
मुहूर्ते शोभने प्राप्ते रवौ मध्यन्दिनं गते ॥ 344
तीर्थबिम्बं समादाय घण्टाशङ्खरवैः सह ।
वामहस्ततले कुर्यात्
क्ष्मामण्डलगतः स्वयम् ॥ 345
विधृयान्मध्यभागे तु पाणिना दक्षिणेन तु ।
तीर्थतीरं समासाद्य देशिकेन्द्रः समाहितः ॥ 346
आशीर्वादं पुरा कृत्वा राजराष्ट्रादिकस्य च ।
जलमध्यं समासाद्य नाभिदघ्ने जले स्थितः ॥ 347
जपन्
वै मूलमन्त्रं तु बिम्बेन सह देशिकः ।
निमज्जेद्भक्तिसंयुक्तो ध्यायमानोऽच्युतं हृदि ॥ 348
निमज्जेयुस्तदा सर्वे भक्ता भागवता अपि ।
देवेन सह तत्काले निमज्जन्ति च ये जनाः ॥ 349
विमुक्तकल्मषास्ते वै प्राप्नुयुः परमां गतिम् ।
स्वयं व्यक्तादिके स्थाने मध्याह्ने वापराह्नके ॥ 350
रजन्यां पूर्वभागे वा कुर्यादवभृथं विभोः ।
मुहूर्तातिक्रमप्राप्तदोषस्तत्र न विद्यते ॥ 351
ततस्तीरे समारोप्य तीर्थबिम्बं तु विष्टरे ।
शाटकद्वितयं दत्वा स्नानवस्त्रे विसृज्य च ॥ 352
देशिकः स्वयमादाय ते वस्त्रे मूर्ध्नि धारयेत् ।
अर्घ्याद्यैश्च समभ्यर्च्य अलङ्कृत्य विशेषतः ॥ 353
महाहविर्निवेद्याथ ब्राह्मणान्
भोजयेत्ततः ।
प्रत्यहं भोजयेद्विप्रान्
सहस्रं शतमेव वा ॥ 354
याने देवं समारोप्य ततो गेहं प्रवेशयेत् ।
तीर्थबिम्बगतां शक्तिं मूलबिम्बे विसर्जयेत् ॥ 355
सायङ्काले तु सम्प्राप्ते देवदेवं जगत्पतिम् ।
वस्त्राभरणमाल्याद्यैरलङ्कृत्य विशेषतः ॥ 356
शिबिकायां समारोप्य देवीभ्यां सह देशिकः ।
शङ्खादिमङ्गलरवैः छत्रचामरकेतुभिः ॥ 357
[[130]]
राजचिह्नैः परिकरैर्गणिकादेवदासिभिः ।
सर्वैः परिजनैः सार्धं कृत्वा ग्रामं प्रदक्षिणम् ॥ 358
मन्दिरान्तः प्रवेश्याथ बलिपीठसमीपतः ।
मधुपर्कं निवेद्याथ अपूपादीन्निवेदयेत् ॥ 359
शीतलं तर्पणजलं ताम्बूलादीन्निवेदयेत् ।
देवागारं परिभ्राम्य महामण्टपमाश्रयेत् ॥ 360
निवेद्य विष्टरे तत्र देवमर्घ्यादिभिर्यजेत् ।
कृत्वा नीराजनान्तं तु देशिकेन्द्रः समाहितः ॥ 361
स्थानस्य राज्ञो राष्ट्रस्य यजमानस्य मन्त्रिणाम् ।
प्रजानां परिवाराणां वैष्णवानां विशेषतः ॥ 362
आशीर्वादं ततः कुर्याद्वीक्षमाणो विभोर्मुखम् ।
ओमित्येवं प्रतिब्रूयुः सर्वे देवस्य सन्निधौ ॥ 363
ततस्तु देवदेवेशं यागशालां प्रवेशयेत् ।
तत्र पश्चिमवेद्यां तु देवमारोप्य पूर्ववत् ॥ 364
कुम्भपूर्वं क्रमेणैव चतुःस्थानस्थितं विभुम् ।
यथाविधि समभ्यर्च्य प्रभूतान्नसमन्वितम् ॥ 365
ततो द्वाराधिदेवानां प्रदाप्य विधिना बलिम् ।
कुण्डस्थं मण्डलस्थं च देवं हृदि विसर्ज्य च ॥ 366
विसर्जयेद्यथावच्च तथा द्वाराधिदेवताः ।
वाहयन्नौत्सवं बिम्बं महाकुम्भपुरस्सरम् ॥ 367
करकास्त्रं समादाय आचार्यः स्वकरेण तु ।
अच्छिन्नधारया युक्तं कृत्वा गेहं प्रदक्षिणम् ॥ 368
प्रासादं तु समासाद्य मूलबिम्बस्य सम्मुखम् ।
निवेश्य चौत्सवम्
बिम्बं सम्पूज्यार्घ्यादिभिः सह ॥ 369
प्रोक्षयेत्कुम्भतोयेन मूलमूर्तिगतं विभुम् ।
पुंसूक्तमुच्चरन्पश्चाद्यात्राबिम्बं च सेचयेत् ॥ 370
महाकुम्भगतां शक्तिं मूलबिम्बे समर्पयेत् ।
करकास्त्रगतां शक्तिम्
आयुद्धेषु समर्पयेत् ॥ 371
तथैव वासुदेवादीन्
पीठोर्ध्वे योजयेत्क्रमात् ।
तत्काले तु विशेषेण गुरोः सम्मानमाचरेत् ॥ 372
वसनैश्च दुकूलाद्यैर्देवस्य प्रान्निवेदितैः ।
विविधैः स्रग्वरैश्चापि सुगन्धैश्चन्दनादिकैः ॥ 373
आचार्योपि समादाय दुकूलाद्यमनुत्तमम् ।
बध्वा स्वोष्णीषवत्स्वस्मिन्
शिरसि द्विजसत्तमाः॥
माल्यादींश्च यथायोगं धारयन्
प्रणिपत्य च ।
पुष्पाञ्जलिं ततः कृत्वा प्रणम्य च मुहुर्मुहुः ॥ 375
सर्वं न्यूनातिरिक्तं च मया पूर्वं हि यत्कृतम् ।
तत्सर्वं देवदेवेश क्षन्तुमर्हसि नः प्रभो ॥ 376
इति विज्ञाप्य देवेशं करस्थमथ कौतुकम् ।
विसृज्य हृदयेनैव यात्रामूर्तिगतं विभुम् ॥ 377
स्वस्थाने सन्निवेश्याथ अर्घ्याद्यैः परिपूज्य च ।
अपूपानुपहारांश्च समर्प्य च विभोस्तदा ॥ 378
शय्यासनं समर्प्याथ रात्रिशेषं समापयेत् ।
[[131]]
तदन्येद्युः प्रभातायां कृतस्नानः कृताह्निकः ॥ 379
आचार्यो मूर्तिपैः सार्धं प्रासादं सम्प्रविश्य तु ।
कृत्वा नित्यार्चनान्तं तु देवदेवस्य देशिकः ॥ 380
ततस्तु वक्ष्यमाणं यत्स्नपनं चाधमोत्तमम् ।
तेन संस्नाप्य देवेशं हविरन्तं समर्चयेत् ॥ 381
सायङ्काले च सम्प्राप्ते नित्यपूजावसानतः ।
देवेशस्याग्रतः स्थित्वा विज्ञापनमथाचरेत् ॥ 382
भगवन्
पुण्डरीकाक्ष शरणागतवत्सल ।
अङ्कुरार्पणमारभ्य उत्सवावभृथान्तिमम् ॥ 383
यन्मयानुष्ठितं कर्म तव सम्प्रीतये विभो ।
तथान्यैर्मदनुज्ञातैर्देशिकैश्चापि यत्कृतम् ॥ 384
साधकैश्च तथान्यैश्च विविधैः परिचारकैः ।
तत्तत्सम्पूरणार्थं च न्यूनाधिक्योपशान्तये ॥ 385
त्वामद्य वासरे यष्टुं पुष्पयागविधानतः ।
प्रवृत्तमनुजानीहि मदनुग्रहकाम्यया ॥ 386
इति विज्ञाप्य देवस्य तदनुज्ञामवाप्य च ।
देवमुत्सवबिम्बस्थं देवीभ्यां सह देशिकः ॥ 387
आस्थानमण्टपं नीत्वा सौवर्णे भद्रविष्टरे ।
तत्र देवं समारोप्य अलङ्कृत्य विशेषतः ॥ 388
ततस्तस्य पुरोभागे पुष्पमण्डलमालिखेत् ।
श्वेतैः पीतैस्तथा रक्तैः पाटलैश्च सितासितैः ॥ 389
पञ्चवर्णैस्तु पुष्पाद्यैः श्यामलैस्तुलसीदलैः ।
मण्डले पूरयित्वा तु यथालोचनसुप्रियम् ॥ 390
मण्डलेशानभागे तु महाकुम्भं च विन्यसेत् ।
मण्टपस्य चतुर्दिक्षु द्वारकुम्भाष्टकं न्यसेत् ॥ 391
मण्टपं समलङ्कृत्य वितानध्वजतोरणैः ।
पुष्पाङ्कुरं ततः कुर्याद्यथोक्तविधिना गुरुः ॥ 392
मण्डलस्योत्तरे भागे सूत्राण्यास्फाल्य पूर्ववत् ।
पालिकादीनि पात्राणि शालिपीठोपरि न्यसेत् ॥ 393
विभवेच्छानुसारेण केवलं पालिकास्तु वा ।
प्रक्षाल्य पालिकादीनि अलङ्कृत्य यथाविधि ॥ 394
कुशकाशतृणैस्तेषां बिलमूलानि पूरयेत् ।
बिलानि तण्डुलैरेव पूरयेत्तु यथाविधि ॥ 395
प्रोक्ष्य पुण्याहतोयेन यजेत्पात्राधिदेवताः ।
पूर्वेक्तक्रमयोगेन तेषु पुष्पाणि वापयेत् ॥ 396
सोमकुम्भार्चनं होमं वर्जयेदत्र देशिकः।
रक्षाबन्धं ततः कुर्यान्मूलबिम्बादिषु क्रमात् ॥ 397
औत्सवं बिम्बमादाय मृद्वास्तरणशोभिते ।
पुष्पमण्डलमध्ये तु प्राम्मुखं विनिवेश्य च ॥ 398
तस्य पार्श्वद्वये विप्राः श्रियं पुष्टिं च विन्यसेत् ।
कुम्भपार्श्वं समासाद्य प्राग्वद्देशिकसत्तमः ॥ 399
कृत्वा मानसयागान्तं द्वारयागं समाचरेत् ।
[[132]]
महाकुम्भे मूलबिम्बात्किञ्चिदावाह्य पूजयेत् ॥ 400
करकास्त्राद्यर्चनं तु सर्वं प्राग्वत्समाचरेत् ।
बिम्बेऽथ पूजनं कुर्यात्प्राग्वन्नीराजनान्तिमम् ॥ 401
उपहारान्निवेद्याथ पुनः पूजां समाचरेत् ।
अर्घ्यं पाद्यं तथाचामं गन्धं माल्यं च दीपकम् ॥ 402
धूपं ततोऽर्हणजलमपूपान्
पृथुकानपि ।
तर्पणं नालिकेरोत्थरसमाचमनं तथा ॥ 403
मुखवाससमोपेतं ताम्बूलं च समर्पयेत् ।
एवं द्वादशवारं तु कृत्वापूजां जगत्प्रभोः ॥ 404
महाहविर्निवेद्याथ कुर्यात्पुष्पाधिवासनम् ।
सौवर्णे राजते वापि पात्रे पुष्पाणि पूरयेत् ॥ 405
तत्पात्रं देवपुरतः शालिपीठे निधाय वै ।
प्रोक्ष्य पुण्याहतोयेन पूजयेन्मूलमन्त्रतः ॥ 406
वस्त्रेणाच्छाद्य तत्पात्रं गत्वा यागनिकेतनम् ।
कुण्डमग्निं च संस्कृत्य तन्मध्ये देवमर्चयेत् ॥ 407
समिद्भिश्चैव नित्याभिः काम्याभिश्च यथाविधि ।
पूर्णाहुत्यादिकं कृत्वा देवादींस्तु विसर्जयेत् ॥ 408
सम्पाताज्यमथादाय गत्वा देवस्य सन्निधिम् ।
होमं समर्प्य देवाय देशिको मन्त्रवित्तमः ॥ 409
सम्पाताज्येन पुष्पाणि संसिच्य तदनन्तरम् ।
देवस्य पादयोः पुष्पं पुंसूक्तेन समर्पयेत् ॥ 410
अथाष्टाक्षरबीजानि हृदयादीनि च क्रमात् ।
भूषणानि च दिव्यानि किरीटादीन्यनुक्रमात् ॥ 411
आयुधानि च दिव्यानि श्रियं पुष्टिं खगेश्वरम् ।
तथैव परिवारांश्च समुद्दिश्य यथाक्रमम् ॥ 412
देवस्य पादयोः पुष्पं दद्याद्देशिकसत्तमः ।
ततस्तु देवदेवेशं यानमारोप्य यत्नतः ॥ 413
अलङ्कृत्य विशेषेण वस्त्राभरणमाल्यकैः ।
सर्वमङ्गलसंयुक्तं प्रथमावरणादिषु ॥ 414
परिभ्रम्य च देवेशं तथा वै ग्रामवीधिषु ।
प्रवेश्य देवसदनं ध्वजपीठसमीपके ॥ 415
देवमर्घ्यादिनाभ्यर्च्य निवेद्य च हविस्ततः ।
ध्वजस्थानं समासाद्य पतत्रीशं समाचरेत् ॥ 416
महाहविर्निवेद्याथ ध्वजस्थं विहगेश्वरम् ।
विसर्जयित्वा स्वहृदि ध्वजं समवरोपयेत् ॥ 417
ध्वजदण्डं ध्वजपटं तद्यष्टिं तत्प्रपां तथा ।
आचार्यः स्वयमादद्याद्यागोपकरणान्यपि ॥ 418
ततस्तु देवदेवेशं प्रथमावरणेऽपि वा ।
द्वितीयावरणे वापि मण्टपे भद्रविष्टरे ॥ 419
निवेश्य प्राम्मुखं वापि ह्युत्तराभिमुखं तु वा ।
देवस्योत्सवसेवार्थं ये देवाः पूर्वमागताः ॥ 420
वैकुण्ठवासिनश्चैव कुमुदादिगणेश्वराः ।
[[133]]
ब्रह्मरुद्रादयश्चैव तथा देवर्षिसत्तमाः ॥ 421
तथा वै भगवद्भक्ताः देशान्तरनिवासिनः ।
देवदेवस्य कल्याणमनुसन्धातुमागताः ॥ 422
तेषां स्वदेशयानार्थं देवानुज्ञापुरस्सरम् ।
कृत्वा विसर्जनं पश्चाद्देवमन्तः प्रवेशयेत् ॥ 423
ततस्तु देवं देवीभ्यां मूलबिम्बस्य सम्मुखम् ।
निवेश्य चोभयोर्मध्ये महाकुम्भं तु विन्यसेत् ॥ 424
कुम्भप्रोक्षणपूर्वं तु कौतुकोत्सर्जनान्तिमम् ।
प्राग्वत्कृत्वा यथाशास्त्रं देवमन्तः प्रवेशयेत् ॥ 425
अर्घ्यगन्धादिनाभ्यर्च्य मूलबिम्बे विसर्जयेत् ।
शय्यासनं समर्प्याथ जागरेण नयेन्निशाम् ॥ 426
ब्राह्मे मुहूर्ते सम्प्राप्ते देशिको मन्त्रवित्तमः ।
उद्वासनबलिं दद्यान्मूकैः परिजनैः सह ॥ 427
ग्रामे चावाहितान्
पूर्वं कुमुदादीन्
गणान्वितान् ।
सन्तोष्य बलिदानेन सविशेषं विसर्जयेत् ॥ 428
महातटाके नद्यादौ देशिको मन्त्रवित्तमः ।
ऋत्विग्भिः परिचारैश्च सर्वैः परिजनैः सह ॥ 429
स्नानं कृत्वा तु विधिवद्गत्वा देवगृहं ततः ।
नित्यपूजादिकं सर्वं यथाविधि समाचरेत् ॥ 430
यजमानो गुरुं हेमैर्भूषणैः कटकादिभिः ।
वसनैर्गन्धपुष्पाद्यैरलङ्कृत्याभिपूज्य च ॥ 431
उत्तमां दक्षिणां दद्यात्स्वर्णनिष्कशतान्विताम् ।
ततोधिकां तु वा दद्याद्विभवस्यानुगुण्यतः ॥ 432
तदर्धं मध्यमां वापि तदर्धमधमां तु वा ।
यथावित्तानुरूपं तु यथाश्रद्धं तु वा ददेत् ॥ 433
तदर्धमृत्विजां दद्यात्तदर्धं परिचारिणाम् ।
वेदपाठकपूर्वांश्च तथा गायकसत्तमान् ॥ 434
अन्यांश्चैव यथाशक्ति दक्षिणाभिः प्रतोषयेत् ।
यागस्तु दक्षिणाहीनो निष्फलः स्यान्न संशयः ॥ 435
तस्माद्वित्तानुगुण्येन देया स्वल्पापि दक्षिणा ।
तत्काके यजमानस्तु अलङ्कृत्य तु देशिकम् ॥ 436
वस्त्रस्रक्चन्दनाद्यैश्च समारोप्य च यानके ।
शङ्खकाहळवादित्रभेरीपटहसंयुतम् ॥ 437
छत्रदीपसमायुक्तं गायकादिसमन्वितम् ।
देशिकं देववत्
स्मृत्वा स्वगृहे सम्प्रवेशयेत् ॥ 438
एवं हि देवदेवस्य उत्सवं कारयेत्तु यः ।
इहलोके सुखं प्राप्य परलोके महीयते ॥ 439
एवं निगदितं संयम्महोत्सवविधिर्द्विजाः ॥
इति यां महोत्सवविधिर्नाम एकादशोऽध्यायः ।