१०

[[93]] दशमोऽध्यायः
10 - महोत्सवविधिः ध्वजारोहणान्तम्

मुनयः ।
भगवन्मुनिशार्दूल सर्वज्ञ ! वदतां वर ! ।
नित्यार्चनादिकं सर्वं श्रुतं त्वत्तः सविस्तरम् ॥ 1
महोत्सवाद्युत्सवांस्तु साम्प्रतं वक्तुमर्हसि ।
नारदः अथातः सम्प्रक्ष्यामि महोत्स्वविधिक्रमम् ॥ 2
सव इत्युज्यते दुःखं विद्वद्भिर्मुनिपुङ्गवाः ! ।
उद्धृतः स सवो यस्मात्तस्मादुत्सव उच्यते ॥ 3
नित्यो नैमित्तिकः काम्यस्त्रिविधः स महोत्सवः ।
वत्सरे वत्सरे यस्तु क्रियते स तु नित्यकः ॥ 4
भूमिकम्पे दिशां दाहे महोत्पातेषु सत्सु च ।
दुर्भिक्षे व्याधिते राष्ट्रे तथा वै शत्रुसङ्कटे ॥ 5
अनावृष्टौ च सर्वत्र नक्षत्रपतने च खात् ।
हसने भगवन्मूर्तेरङ्गानां चलने सति ॥ 6
रोदने चासनाद्बिम्बे परिभ्रमति सत्तमाः ! ।
व्यत्सासे शशिसूर्यस्य तथान्येष्वेवमादिषु ॥ 7
शान्त्यर्थं यत्प्रकुर्वित स नैमित्तिक उच्यते ।
चतुर्णां पुरुषार्थानामुद्दिश्यान्यतमं फलम् ॥ 8
उत्सवोऽनुष्ठितः काम्यः सङ्कल्पितफलप्रदः ।
ज्योतिश्शास्त्रेषु कुशलैर्ब्राह्मणैः सह देशिकः ॥ 9
पूर्वं कृत्वा यथाशास्त्रं तीर्थऋक्षविनिर्णयम् ।
तीर्थयात्रानुसारेण ध्वजारोहं प्रकल्पयेत् ॥ 10
मन्त्रमूर्तिप्रतिष्ठानकाल एव मुनीश्वरः ! ।
प्रासादस्य शिखाग्रे तु स्थापितः खगराड्ध्वजः ॥ 11
हेतिराजसमायुक्तो यत्र यत्र सदा द्विजाः ! ।
विना त्वन्यध्वजारोहमुत्सवं परिकल्पयेत् ॥ 12
तत्राप्यन्यध्वजारोहं कुर्याद्वा विभवे सति ।
कुर्यादुत्सवमन्यत्र ध्वजारोहणपूर्वकम् ॥ 13
नवाहं दैविकं प्रोक्तं सप्ताहं मध्यमं भवेत् ।
पञ्चाहमधमं विद्यात् त्रिविधं चोत्सवं स्मृतम् ॥ 14
तत्र तावत्प्रवक्ष्यामि नवाहस्य विधिक्रमम् ।
ध्वजाधिवासपूर्वेधुः देशिको मन्त्रवित्तमम् ।
ध्वजाधिवासपूर्वेद्युः देशिको मन्त्रवित्तमः ॥ 15
स्नायाद्वपनपूर्वं तु भगवद्यागसिद्धये ।
निशामुखे प्रवृत्ते तु आचार्यो मूर्तिपैः सह ॥ 16
स्नानादिनित्यनियमान् कृत्वा चैव यथाविधि ।
भूषणैर्विविधैर्वस्त्रैर्नूतनैश्च विभूषितः ॥ 17
सितोष्णीषोत्तरीयश्च चित्रमाल्यैरलङ्कृतः ।

[[94]] प्रविश्य देवसदनं यजमानसमन्वितः ॥ 18
नित्यार्चनावसाने तु वैष्णवान् द्विजसत्तमान् ।
षट्कर्मनिरतांश्चैव पञ्चकालपरायणान् ॥ 19
समभ्यर्च्य ततस्तेभ्यो ह्यनुज्ञां प्रतिगृह्य च ।
विष्वक्सेनं समभ्यर्च्य यागविघ्नोपशान्तये ॥ 20
पश्चात्स्वदेहशुद्धयर्थं पुण्याहं वाचयेद्गुरुः ।
प्रकल्प्य भूतले शुद्धे धान्यपीठं यथाविधि ॥ 21
विन्यस्य मङ्गळं कुम्भं सम्पूर्णं गन्धवारिणा ।
रत्नहाटककूर्चस्रग्वस्त्रपल्लवसंयुतम् ॥ 22
चन्दनाद्युपलिप्तं च परितश्चार्ध्यचर्चितम् ।
तत्कुम्भस्य चतुर्दिक्षु चतुरो मूर्तिपान्न्यसेत् ॥ 23
अद्भिर्गन्धैस्तथा पुष्पैरक्षतैर्दक्षिणादिभिः ।
तोषायित्वा तु तान् सर्वान् ततः कुम्भे सुदर्शनम् ॥ 24
समावाह्य समभ्यर्च्य ध्यायमानोऽच्युतं हृदि ।
दर्भैः स्पृशंस्तु कलशं ब्राह्मणैः सह देशिकः ॥ 25
ओङ्काराद्यं पविन्त्रान्तं मन्त्राणां प्राक्चतुष्टयम् ।
पाठयेच्च सपुण्याहं गायत्रीत्रितयान्वितम् ॥ 26
ततश्चात्मानुवादं च आत्मव्यूहं तथैव च ।
ततश्च शुद्धिमन्त्रांस्तु पठेदेवं समाहितः ॥ 27
शुद्धयेस्तु परो देवो वासुदेवोस्तु शुद्धये ।
सङ्कर्षणः शुद्धयेस्तु प्रद्युम्नश्चास्तु शुद्धये ॥ 28
शुद्धयेस्त्वनिरुद्धोपि केशवश्चास्तु शुद्धये ।
नारायणोस्तु विश्वेशः शुद्धये सर्वकर्मसु ॥ 29
शुद्धये माधवश्चास्तु सर्वलोकहिते रतः ।
गोविन्दः शुद्धये चास्तु परमात्मा सनातनः ॥ 30
शुद्धये विष्णुरस्त्वाद्यः शुद्धये मधुसूदनः ।
सर्वलोकहितो देवः शुद्धयेऽस्तु त्रिविक्रमः ॥ 31
वामनः शुद्धये चास्तु श्रीधरोऽद्यास्तु शुद्धये ।
शुद्धयेऽस्तु हृषीकेशः पद्मनाभोऽस्तु शुद्धये ॥ 32
सदा दामोदरो देवः शुद्धयेऽस्तु जगत्पतिः ।
शुद्धये पद्मनाभोऽस्तु शुद्धयेऽस्तु सदा ध्रुवः ॥ 33
अनन्तः शुद्धये चास्तु शक्त्यात्मा चास्तु शुद्धये ।
सर्वकर्मसु चैवास्तु शुद्धये मधुसूदनः ॥ 34
सदा विद्याधिदेवोऽस्तु शुद्धये कपिलस्तथा ।
शुद्धये विश्वरूपोऽस्तु शुद्धयेऽस्तु विहङ्गमः ॥ 35
क्रोडात्मा शुद्धये चास्तु शुद्धये बडवाननः ।
शुद्धयेऽस्तु सदा धर्मश्चास्तु वागीश्वरस्तथा ॥ 36
देव एकार्णवशयः शुद्धयेऽस्तु निरन्तरम् ।
शुद्धयेऽस्तु सदा देवः कूर्मः पाताळधारकः ॥ 37
वराहः शुद्धये चास्तु नारसिंहोऽस्तु शुद्धये ।
अमृताहरणश्चास्तु शुद्धये सर्वकर्मणाम् ॥ 38
श्रीपतिः शुद्धये चास्तु शान्तात्मा चास्तु शुद्धये ।

[[95]] शुद्धये राहुजिच्चास्तु कालनेमिघ्न एव च ॥ 39
पारिजातहरश्चास्तु लोकनाथोऽस्तु शुद्धये ।
सर्वत्र शुद्धये चास्तु दत्तात्रेयो महाप्रभुः ॥ 40
न्यग्रोधशायी भगवान् शुद्धये चास्तु सर्वदा ।
एकशृङ्गतनुश्चास्तु वामनश्चापि शुद्धये ॥ 41
त्रिविक्रमः शुद्धयेऽस्तु शुद्धयेऽस्तु नरः सदा ।
नारायणः शुद्धयेऽस्तु हरिः कृष्णश्च शुद्धते ॥ 42
ज्वलत्परशुधृग्रामः शुद्धयेऽस्तु धनुर्धरः ।
रामश्च शुद्धये चास्तु वेदविद्भगवांस्ततः ॥ 43
शुद्धयेऽस्तु सदा कल्की सर्वदोषक्षयङ्करः ।
शुद्धयेऽस्तु सदा देवः पाताळशयनः प्रभुः ॥ 44
शद्धये सन्तु सर्वेषां सर्वे सर्वत्र सर्वदा ।
एते सर्वे सदा देवाः शान्तये सन्तु पूजिताः ॥ 45
ऋद्धये पुष्टये सन्तु सिद्धये भक्तयेऽपि च ।
शिवाय मुक्तये सन्तु वृद्धये सर्वकर्मणाम् ॥ 46
मन्त्राणां देशिकानां च स्थानानामपि सर्वदा ।
पुत्रमित्रकळत्राणां दासीदासगवामपि ॥ 47
वेदशास्त्रागमादीनां व्रतानामिष्टसम्पदाम् ।
मनोरथानां सर्वेषां हितानां सन्तु सर्वदा ॥ 48
आयुष्यारोग्यमेधानां धनधान्यादिसम्पदाम् ।
पुण्यानामणिमादीनां गुणानां श्रेयसामपि ॥ 49
राज्ञो जनपदस्यापि यजमानस्य मन्त्रिणाम् ।
वैष्णवानां विशेषेण परत्र हितमिच्छताम् ॥ 50
पञ्चकालविशुद्धानां सत्वस्थानां शुभात्मनाम् ।
स्वस्त्यस्तु च शिवं चास्तु शुभं चास्तु पुनः पुनः ॥ 51
अविघ्नमनिशं चास्तु दीर्घमायुष्यमस्तुवै ।
समाहितमनश्चास्तु सम्पदश्चोत्तरोत्तरम् ॥ 52
पुण्याहं शुद्धये चास्तु वासुदेवादिमूर्तयः ।
शङ्खचक्रगदापद्मयुक्तः सर्वेश्वरेश्वरः ॥ 53
प्रीयतां भगवान् देवो लाङ्गली प्रियतां सदा ।
प्रद्युम्नः प्रीयतां नित्यमनिरुद्धः सुरेश्वरः ॥ 54
नारायणः सुरेशोपि कर्मणां पूरणाय च ।
न्यूनाधिकानां शान्त्यर्थं प्रीयतां प्रीयतां विभुः ॥ 55
पुण्याहं स्वस्ति ऋद्धिं च संवाच्य सह मूर्तिपैः ।
तदाद्भिः शतधारेण स्थानानीत्यादिकेन च ॥ 56
आत्मानं प्रोक्षयेत्पश्चाद्देशिकः स्वात्मशुद्धये ।
एवं सर्वेषु यागेषु कुर्यात्पुण्याहवाचनम् ॥ 57
गोहिरण्यादिदानैश्च शुद्धिं प्राप्याथ देशिकः ।
देवस्य सान्निधिं गत्वा ह्युपविष्टस्तथासने ॥ 58
सायामां भूतसंशुद्धिं धारणाभ्यां समाचरेत् ।
देहविन्यस्तमन्त्रोऽथ मानसं यागमाचरेत् ॥ 59
मन्त्रासने ततो देवं समभ्यर्च्य यथाविधि ।

[[96]]
स्रानासनं ततो नीत्वा स्नापयेन्नवभिर्घटैः ॥ 60
देवस्य पुरतो भूमिं स्नपनार्थं यथाविधि ।
त्रेधा विभज्य कोष्ठानां नवके द्विजसत्तमाः ! ॥ 61
धान्यपीठादिकं कृत्वा कलशानधिवास्य च ।
पाद्यमर्ध्यं तथाऽऽचामं सर्वौषधिजलं तथा ॥ 62
प्रागाद्युत्तरपर्यन्तं न्यसेत्कोष्टचतुष्टये ।
दधि क्षीरं मधु घृतमाग्नेयादिषु विन्यसेत् ॥ 63
शुद्धाम्भःकलशं मध्ये विन्यस्य तदनन्तरम् ।
हरिद्राचूर्णकुम्भं तु तेषां च पुरतो न्यसेत् ॥ 64
पुण्याहं वाचयित्वा तु प्रोक्षयेत्तज्जलैस्तु तान् ।
प्रागादिदिक्षु विन्यस्तकुम्भेषु प्रभवक्रमात् ॥ 65
चतुरो वासुदेवादीन्
विदिक्स्थकलशेषु तु ।
ईशादिवह्निपर्यन्तं तानेवाप्यययोगतः ॥ 66
मध्ये शुद्धोदकलशे यजेन्नारायणं विभुम् ।
अर्ध्यालभनपुष्पैश्च धूपेन मुनिपुङ्गवाः ! ॥ 67
हरिद्राचूर्णकुम्भे तु श्रियं देवीं समर्चयेत् ।
स्नानासनोदिनैर्भोगैर्मुखलेपान्तिमैः क्रमात् ॥ 68
सम्पूज्य देवदेवेशं कुम्भैः संस्नापयेत्ततः ।
प्रथमं विष्णुगायत्र्या तथेदंविष्णुरित्र्यृचा ॥ 69
ततस्त्रीणिपदाद्येन विष्णोः कर्माणि मन्त्रतः ।
प्रागादिदिक्षु विन्यस्तैः पाद्याद्यैः स्नापयेत्क्रमात् ॥ 70
दधिक्राविण्णमन्त्रेण आप्यायस्वेति मन्त्रतः ।
मधुवातेति मन्त्रेण ततः शुक्रमसीत्यृचा ॥ 71
विदिक्षु न्यस्तकलशैर्दध्याद्यैः स्नापयेद्विभुम् ।
श्रीसूक्तेन ततो देवं हारिद्रेण विलेपयेत् ॥ 72
ततः पुरुषसूक्तं तु पठद्भिर्ब्राह्मणैः सह ।
सहस्रधारया देवं शुद्धोदेनाभिषेचयेत् ॥ 73
प्रतिद्रव्यं तु वस्त्रेण ह्यर्ध्यालभनमाल्यकैः ।
धूपेन च समभ्यर्च्य ततस्तेनाभिषेचयेत् ॥ 74
यद्वार्ध्यपाद्यमाचामं गन्धस्रग्धूपदीपकम् ।
नैवेद्यं चार्पयेत्सर्वं केवलं चार्ध्यमेव च ॥ 75
ततो नीराजनादींश्च कृत्वा देवस्य पूर्ववत् ।
अलङ्कारासनं नीत्वा आसनादिक्रमाद्यजेत् ॥ 76
भोगैः सांस्पर्शिकैः प्राग्वद्विविधैरौपचारिकैः ।
हृदयङ्गमसञ्ज्ञैश्च समभ्यर्च्य यथाविधि ॥ 77
स्तुत्वा स्तोत्रैर्जितन्ताद्यैः प्रणमेद्देशिको विभुम् ।
अथाङ्कुरार्पणं कुर्याद्देशिको मन्त्रवित्तमः ॥ 78
तद्विधानं विस्तरेण श्रृणुध्वं मुनिसत्तमाः ! ।
त्रिविधानि च पात्राणि मङ्गळाङ्कुररोपणे ॥ 79
पालिका घटिकाश्चेति शरावाश्चेति भेदतः ।
पालिकानामथोच्छ्रायः पञ्चविंशाङ्गुलो भवेत्
॥ 80
तदाननस्य विस्तारो भवेद्वै षोडशाङ्गुलः ।

[[97]] अष्टाङ्गुलस्तदुच्छ्रायो ह्यङ्गुळं वलयं ततः ॥ 81
भवत्कण्ठबिलं विप्रास्ततोष्टाङ्गुळविस्तृतम् ।
आरभ्य वक्त्रवलयाद्यावत्कण्ठबिलं द्विजाः ! ॥ 82
ह्रासयेदनुपातेन तन्नाळं द्वादशाङ्गुळम् ।
उच्छ्रायादथ विस्तारान्मध्यतस्तु षड्ङ्गुळम् ॥ 83
अधस्तादङ्गुळानान्तु चतुष्कं विस्तृतं भवेत् ।
ततः कण्ठबिलाचैव ह्रासयेदनुपाततः ॥ 84
पादपीठमधोत्सेधाद्विज्ञेयं चतुरङ्गुळम् ।
दशाङ्गुळस्तद्विस्तारस्तत्सन्धिश्चाङ्गुळो भवेत् ॥ 85
तत्सन्धेश्च भवेन्नाहं सार्धमेकाङ्गुळं द्विजाः ! ।
उन्मत्तकुसुमाकारं वक्त्रं पद्माकृतिर्भवेत् ॥ 86
पालिकोत्सेधतुल्यास्तु घटिकाः समुदाहृताः ।
अङ्गुळत्रयहीना वा तदूर्ध्वं कलशाकृतिः ॥ 87
घटिकाः पञ्चवक्त्राः स्युरेतासां मध्यमं मुखम् ।
षडङ्गुळं च विस्तीर्णं चतुर्दिक्षु चतुष्टयम् ॥ 88
चतुरङ्गुळविस्तारं कलशोदरविस्तृतिः ।
षोडशाङ्गुळमानोत्थाशेषं प्राग्वत्समाचरेत् ॥ 89
यदाङ्गुळत्रयन्यूनास्तदा सप्ताङ्गुळोच्छ्रितम् ।
तदाननं तु तन्नालमर्धोत्तरदशाङ्गुळम् ॥ 90
सार्धत्रयाङ्गुळं पीठं प्राग्वत्सर्वत्र विस्तरः ।
शरावाः पालिकोत्सेधतुल्याः पञ्चभिरङ्गुळैः ॥ 91
हीना वा वक्त्रविस्तारात्समारभ्य मुनीश्वराः ! ।
पादपीठस्य विस्तारं यावत्तावत्क्रमेण तु ॥ 92
पूर्वोक्तात्पादहीना तु भवेत्सर्वत्र विस्तृतिः ।
भवेत् त्रिपादहीना तु पादपीठस्य विस्तृतिः ॥ 93
यदा शरावा हीनाः स्युरङ्गुळैः पञ्चभिस्तदा ।
मुखं षड्ङ्गुळोच्छ्रायं तन्नाळं तु दशाङ्गुळम् ॥ 94
त्र्यङ्गुळं पादपीठं स्यात्प्राग्वत्सर्वत्र विस्तृतिः ।
एतदुत्तममानं तु पात्राणां कथितं द्विजाः ! ॥ 95
एतदेव मुनिश्रेष्ठाः ! पादहीनं तु मध्यमम् ।
अर्धहीनं तु तन्मानमधमं परिकीर्तितम् ॥ 96
अतो न्यूनं न कर्तव्यं कदाचित्सिन्द्धकाङ् क्षिभिः ।
हेमादिलोहजाः सर्वे मृण्मया वा यथावसु ॥ 97
प्रत्येकं पालिकादीनां द्विषट्कं चोत्तमं भवेत् ।
द्विरष्टकं वा षट्त्रिंशाद्विभवे सति कल्पयेत् ॥ 98
प्रत्यष्टकं मध्यमं स्याच्चतुष्कमधमं भवेत् ।
सर्वार्थे पालिकांः प्राग्वत्षोडशाष्टौ यथाबलम् ॥ 99
चतस्रो वा ततस्तासु मङ्गळाङ्कुरकल्पनम् ।
अयुग्मा मानुषे कार्ये दैवे युग्मास्तु पालिकाः ॥ 100
महोत्सवे प्रतिष्ठायां पवित्रारोपणे तथा ।
जीर्णोद्धारविधौ वापि सहस्रकलशे तथा ॥ 101
त्रिवर्गपालिका यद्वा भवेदुत्तमसङ्ख्यया ।

[[98]] भवेन्मध्यमया वापि नान्यथा द्विजसत्तमाः ॥ 102
कर्मस्वन्येषु सर्वेषु यथावित्तं यथारुचि ।
अङ्कुरावापनस्थानमण्टपं परिकल्पयेत् ॥ 103
प्रथमावरणे वापि द्वितीयावरणेपि वा ।
तृतीयावरणे वापि चतुर्थावरणेपि वा ॥ 104
शुभे विविक्तेऽभिमते देशे वै देशिकोत्तमः ।
चतुर्दिक्षु चतुर्द्वारं चतुर्वन्दनमालिकम् ॥ 105
दर्भमालापरिक्षिप्तं मुक्तादामविराजितम् ।
वितानक्षौमसञ्छन्नं गोमयालिप्तभूतलम् ॥ 106
प्रदीपमालाविततमक्षतैश्चापि सर्वतः ।
सुधाचूर्णैश्च धवलैश्चित्रिताभ्यन्तरस्थलम् ॥ 107
मण्टपं कल्पयित्वैवं यद्वा स्नपनमण्टपे ।
यागाख्यमण्टपे वापि कुर्यादङ्कुरारोपणम् ॥ 108
अङ्कुरानर्पयेद्रात्रौ य इच्छेद्राष्ट्रवर्धनम् ।
बीजानामधिपः सोम ओषधीशोऽमृतात्मकः ॥ 109
न प्रीणाति सदा तत्र अङ्कुरार्पणमह्नि चेत् ।
तस्मात्सर्वप्रयत्नेन रात्र्यामेवाङ्कुरार्पणम् ॥ 110
कुर्यात्सम्यग्विधानेन भगवद्भक्तिसंयुतः ।
तस्मिन् जगत्प्रिये प्रीते शीतांशौ प्राणिजीवने ॥ 111
तद्देशे सर्वसस्यानां सम्पत्तिर्महती भवेत् ।
गवां च लोकमातॄणां नृणामपि च सर्वशः ॥ 112
अज्ञानादह्नि कुर्याच्चेदङ्कुराणामथार्पणम् ।
अशोभनं भवेद्राष्ट्रमसमृद्धजनान्वितम् ॥ 113
सद्यःकालीनके विप्राः कर्मणि स्याद्दिवापि वा ।
तद्यत्तत्रोपयोग्यं स्यात्तत्सर्वं च समार्जयेत् ॥ 114
सम्भृत्य सर्वसम्भारानाचार्यो मूर्तिपैः सह ।
तदर्थमर्पयित्वा तु यजमानसमन्वितः ॥ 115
भगवन्तं जगद्योनिं पूजयित्वा विधानतः ।
ततस्त्वभिनवे पात्रे सौवर्णे राजतेऽथ वा ॥ 116
तिलसर्षपनीवारशालिमाषप्रियङ्गवः ।
कुळुत्थमुद्गनिष्पावयवगोधूमवैणवाः ॥ 117
बीजानि द्वादशैतानि पृथक् पात्रेषु वा द्विजाः ।
सम्भृत्य तु मुनिश्रेष्ठाः स्थापयित्वा तु मूर्धनि ॥ 118
दीक्षितस्य तु विप्रस्य पुष्पाक्षतकराञ्जलिः ।
आचार्यः प्रविशेत्सार्धं साधकैर्भगवन्मयैः ॥ 119
प्रासादाभ्यन्तरं विप्रास्तत्राधारोपरि न्यसेत् ।
बीजपात्रं ततोऽर्घ्येण गन्धैः पुष्पैश्च धूपकैः ॥ 120
सम्पूज्य मूलबिम्बस्थं तथा चोत्सवबिम्बगम् ।
बीजपात्रं ततोऽभ्यर्च्य देवाय विनिवेदयेत् ॥ 121
सह शङ्खनिनादैश्च मङ्गलैर्गीतनिस्वनैः ।
तूर्यनादैश्च विविधैः श्रुतिघोषैः समन्ततः ॥ 122
स्थापयित्वा तु तत्पात्रं दीक्षितस्यैव मूर्धनि ।

[[99]] साधकैः सहितो विप्राः बहिर्निर्गत्य देशिकः ॥ 123
धाम प्रदक्षिणीकृत्य न्यसेदङ्कुरमण्टपे ।
विष्वक्सेनन्तु वा तार्क्ष्यं हनुमत्प्रमुखन्तु वा ॥ 124
हेतीशं वापि वस्त्राद्यैरलङ्कृत्य विशेषतः ।
यानादिकं समारोप्य प्रक्षाल्याद्भिः खनित्रकम् ॥ 125
नवेन वाससाऽऽच्छाद्य भूषयित्वा तु माल्यकैः ।
देशिको वाहयेद्विप्रैः शूद्रैर्वा दीक्षितैर्द्विजाः ॥ 126
चित्रध्वजपताकाभिः सार्धमङ्कुरपात्रकैः ।
त्रिविधैः पालिकाद्यैश्च शङ्खतूर्यादिभिः सह ॥ 127
आम्नायोद्घोषणपरैर्भक्तैर्भागवतैर्विभोः ।
गायकैर्गणिकाभिश्च तथान्यैर्मङ्गलैः सह ॥ 128
क्रमात्प्रदक्षिणीकृत्य सर्वेष्वावरणेषु च ।
दिशं प्राचीमुदीचीं वा अथवा प्रागुदग्दिशम् ॥ 129
अदूरं समनुप्राप्य तत्रोद्याने मनोहरे ।
केवले वा शुचौ देशे मृदं शुद्धां समाहरेत् ॥ 130
अस्त्रमन्त्रेण धरणीं सम्प्रोक्ष्य प्रथमं गुरुः ।
महीसूक्तेन संस्पृश्य ध्यायन्नेकाग्रचेतसा ॥ 131
र्मूीन्त देवस्य वाराहीमभ्यर्च्य कुसुमैर्भुवम् ।
अस्त्राम्बुना प्रोक्षितेन पुष्पैरभ्यर्चितेन च ॥ 132
खनित्रेण खनेद्भूमिं प्राम्मुखः क्रोडमन्त्रतः ।
लोहजे भाजने मृत्स्नां वेत्रजे वा यथारुचि ॥ 133
गृहीत्वा मूलमन्त्रेण वेष्टयित्वा च वाससा ।
प्रत्यग्रेण तथा नद्या वालुकां गोमयं तथा ॥ 134
गोकुलात्पूर्ववत्पात्रे गृहीत्वाऽऽच्छाद्य वाससा ।
यानादिके समारोप्य यद्वा दीक्षितमूर्धनि ॥ 135
गत्वा प्रदक्षिणं ग्रामं प्रविशेन्मण्टपं ततः ।
मण्टपं शोधयित्वा तु यथोक्तविधिना द्विजाः ॥ 136
ततो मण्टपमध्ये तु सूत्राण्यास्फालयेत्क्रमात् ।
प्रागायतानि प्रथमं क्रमात्सप्तदश क्षिपेत् ॥ 137
उदगायतसूत्राणि चतुर्दश निपातयेत् ।
सूत्रात्सूत्रादन्तरालं षोडशाङ्गुळसम्मितम् ॥ 138
त्रयाधिकदशैव स्युः पूर्वपश्चिमपङ्क्तयः ।
एवं षोडशसङ्ख्याता दक्षिणोत्तरपङ्क्तयः ॥ 139
बीजपात्रप्रतिष्ठार्थं पूर्वपश्चिमपङ्क्तिषु ।
मध्ये पङ्क्तित्रयं स्थाप्य वीध्यर्थं द्वितये मृजेत् ॥ 140
भूयश्च पङ्क्तित्रितयं स्थापयेत्पार्श्वयोर्द्वयोः ।
दक्षिणोत्तरमध्ये तु स्थाप्य पङ्क्तिचतुष्टयम् ॥ 141
द्वितयं द्वितयं पार्श्वे वीध्यर्थं विमृजेत्पुनः ।
चतुश्चतुश्च पङ्क्तीनां स्थापयेत्क्रमयोगतः ॥ 142
आशास्वष्टासु मध्ये च शरावघटपालिकाः ।
द्वादश द्वादश स्थाप्याः शतमष्टोत्तरं भवेत् ॥ 143
आग्नेये दक्षिणे भागे नैऋतेऽपि च पालिकाः ।

[[100]] घटिका वारुणे ब्राह्मे तथा पौरन्दरेऽपि च ॥ 144
शरावा मारुते सौम्ये ईशाने च यथाविधि ।
प्रत्येकं पालिकादीनां षोडशत्वेन कल्पने ॥ 145
दक्षिणोत्तरगं सूत्रपञ्चकं विनिवेशयेत् ।
प्रागायतानि सूत्राणि पूर्ववद्विनिवेशयेत् ॥ 146
आचरेत् पूर्ववद्विप्राः प्राक्प्रत्यक्पङ्क्तिकल्पनम् ।
तत्र दक्षिणतः पङ्क्तिचतुष्के स्थापयेत्क्रमात् ॥ 147
पालिकाः षोडश पुरो मध्ये पङ्क्तिचतुष्टये ।
घटिकाः षोडश न्यस्त्वा उत्तरे विनिवेशयेत् ॥ 148
शरावानपि तत्सङ्ख्यानथ द्वादशकल्पने ।
दक्षिणोत्तरसूत्राणि चत्वार्यत्र विनिक्षिपेत् ॥ 149
पूर्वापराणि सूत्राणि पूर्ववद्विनिपातयेत् ।
अष्टाधिकानि कोष्ठानि चत्वारिंशद्भवन्ति हि ॥ 150
याम्ये द्वादशकोष्ठानि स्थापयित्वा ततो मृजेत् ।
वीध्यर्थं भागषट्कं तु मध्यतः स्थापयेत्ततः ॥ 151
भागद्वादशकं पश्चाद्भागषट्कं विलोपयेत् ।
भूयश्चोत्तरदिक्स्थाप्यं कोष्टद्वादशकं क्रमात् ॥ 152
न्यसेत्तु पालिकादीनि भागद्वादशकत्रये ।
आग्नेयादीशपर्यन्तं दक्षिणाशादितः क्रमात् ॥ 153
प्रत्येकं पालिकादीनामष्टसङ्ख्याप्रकल्पने ।
दक्षिणोत्तरसूत्राणि त्रीण्येव तु नियोजयेत् ॥ 154
अन्यत्सर्वं भवेत्प्राग्वदथ प्रतिचतुष्टये ।
दक्षिणोत्तरगं सूत्रत्रितयं विनिपातयेत् ॥ 155
पूर्वपश्चिमसूत्राणि एकादश विनिक्षिपेत् ।
सर्वार्थे पालिकानां तु षोडशानां परिग्रहे ॥ 156
पञ्च दक्षिणसूत्राणि प्राक्सूत्राणि तथा क्षिपेत् ।
प्राक्सूत्रात्पञ्च चाष्टानां दक्षसूत्रत्रयं क्षिपेत् ॥ 157
चर्तुींवशतिसङ्ख्यानां पालिकानां परिग्रहे ।
पूर्वदक्षिणसूत्राणां सप्तकं पञ्चकं क्षिपेत् ॥ 158
चतुः परिग्रहे सूत्रं त्रितयं त्रितयं क्षिपेत् ।
पूर्ववत्सूत्रपातः स्यादाद्यसङ्ख्यासु पञ्चसु ॥ 159
एवमास्फाल्य सूत्राणि विभवेच्छानुसारतः ।
पदेषु पालिकादीनां शालिभिर्व्रीहिभिस्तथा ॥ 160
आढकादिमितैः प्राग्वदुत्तमादिव्यपेक्षया ।
वृत्तां वा चतुरश्रां वा कल्पयेत्पीठिकां क्रमात् ॥ 161
पालिकादीनि पात्राणि क्षाळयेन्मूलमन्त्रतः ।
सहदेवीं च दूर्वां च सार्धमश्वत्थपल्लवैः ॥ 162
शिरीषपल्लवैश्चापि निशापत्रैस्तथैव च ।
कण्ठेषु पालिकादीनां बन्धयेत्तदनन्तरम् ॥ 163
कुशकाशतृणैस्तेषां बिलमूलानि पूरयेत् ।
बिलानि प्रथमं मृद्भिर्वालुकाभिरनन्तरम् ॥ 164
करीषचूर्णैरुपरि समृद्धं पूरयेद्विलम् ।

[[101]] यद्वा मृदादिकं विप्राः सर्वं सम्मिश्र्य पूरयेत् ॥ 165
कोष्ठेषु विन्यसेत्तानि पालिकादीन्यनुक्रमात् ।
आग्नेयादीशपर्यन्तं प्रतिस्कन्धं द्विजोत्तमाः ॥ 166
द्वादशानां तु नवकमष्टोत्तरशते न्यसेत् ।
ब्रह्मादीशानपर्यन्तमुदितक्रमयोगतः ॥ 167
तेषां तु पश्चिमे स्थाने धान्यराशौ सलक्षणम् ।
विन्यसेत्सोमकुम्भं तु वेष्टितं नववाससा ॥ 168
गन्धसर्वौषधीरत्नकूर्चपल्लवसंयुतम् ।
एवं सर्वं समापाद्य दीक्षितैः परिचारकैः ॥ 169
तत्तत्सर्वं समापाद्य यद्यत्प्रागनुपार्जितम् ।
समारभेत्ततः कर्म देशिकः प्राम्मुखः पदे ॥ 170
पश्चिमे घटिकास्थानादुपविश्यासने शुभे ।
न्यासमुद्दीप्य विधिना प्रोक्षणार्घ्यं प्रकल्पयेत् ॥ 171
देहविन्यस्तमन्त्राणां कुर्यादर्घ्यादिनार्चनम् ।
द्वारपालार्चनं कृत्वा विभवेच्छानुरूपतः ॥ 172
तोरणानि ध्वजांश्चैव द्वारकुम्भांश्च पूजयेत् ।
पुण्याहं वाचयित्वा तु पूर्वोक्तविधिना गुरुः ॥ 173
यजेदर्घ्यादिभिः पश्चात्पालिकाद्यधिदेवताः ।
अञ्जनाभं परं चैव पद्मनाभं ध्रुवं तथा ॥ 174
पात्रस्कन्धत्रिके विप्राः क्रमेण परिपूजयेत् ।
पालिकानां द्वादशके वह्न्यादीशानपश्चिमम् ॥ 175
अनन्तादि द्वादशकं घटिकाद्वादशे ततः ।
कूर्मादिकं द्वादशकं शरावाणां तु द्वादशे ॥ 176
द्विषट्कमेकशृङ्गाद्यं क्रमेण परिपूजयेत् ।
प्रत्येकं पालिकादीनां कृते षोडशकल्पने ॥ 177
अनन्ताद्यं च षट्त्रिंशत्पातालशयनान्तिमम् ।
लक्ष्म्यादिमतिपर्यन्तं शक्तिद्वादशकं यजेत् ॥ 178
प्रत्येकं पालिकादीनां षट्त्रिंशत्परिकल्पने ।
चतुष्टयं तु मूर्तीनां स्वप्नाख्यपदसंस्थितम् ॥ 179
प्रभवाप्यययोगेन जाग्रद्रूपं तथाऽष्टकम् ।
मूर्त्यन्तरद्वादशकं तच्छक्तीनां चतुस्त्रयम् ॥ 180
अनन्ताद्यं च षट्त्रिंशत्पातालशयनान्तिमम् ।
स्वधादीनां च शक्तीनां चतुस्त्रिंशच्च तत्परम् ॥ 181
चक्रशङ्खौ क्रमाद्भोगैरर्घ्यगन्धादिभिर्यजेत् ।
अष्टके केशवाद्यांश्च तदीयाः शक्तयो यजेत् ॥ 182
चतुष्के केशवाद्यांस्तु केवलान् द्वादशार्चयेत् ।
सर्वार्थं पालिकानां तु क्रमात्षोडशके यजेत् ॥ 183
वासुदेवादि चतुरः केशवादींश्च द्वादश ।
अष्टके वासुदेवादीन् प्रभवाप्यययोगतः ॥ 184
चतुष्के वासुदेवादीन् प्रभवानुक्रमेण तु ।
एवमिष्ट्वा ततः सोमकुम्भपूजां समाचरेत् ॥ 185
कुम्भे सोमात्मकं देवं करके च सुदर्शनम् ।

[[102]] अष्टदिक्षु च विन्यस्तकुम्भेष्विन्द्रादिकान्यजेत् ॥ 186
एवं कुम्भार्चनं कृत्वा बीजक्षालनमाचरेत् ।
गव्येन पयसा सम्यम्मूलमन्त्रेण वै द्विजाः ॥ 187
बीजानां नामधेयैस्तु चतुर्थ्यन्तैः पृथक् पृथक् ।
अर्घ्याद्यैः पूजयित्वा तु वाससा परिवेष्ट्य च ॥ 188
कुण्डे वा स्थण्डिले वाग्निं प्रतिष्ठाप्य यथाविधि ।
कृत्वा सन्तर्पणं चाग्नेस्तस्मिन्मन्त्रासनादिकम् ॥ 189
परिकल्प्य च तन्मध्ये देवमावाह्य पूर्ववत् ।
सन्निधानादिकं सर्वं प्राग्वदेव समाचरेत् ॥ 190
समिद्भिश्चैव नित्याभिः काम्यैश्च जुहुयात्ततः ।
पालिकाद्यधिदेवानां मन्त्रैश्चापि यथाक्रमम् ॥ 191
अष्टौ चतुः सकृद्वापि हुनेदाज्येन वै द्विजाः ।
हुत्वा सोमादिमन्त्रैश्च सम्पाताज्यं समाहरेत् ॥ 192
हुतावशिष्टमाज्यं तु तदन्यं वापि संस्कृतम् ।
आदाय लोहजे पात्रे मृण्मये वा यथारुचि ॥ 193
उभाभ्यां चैव हस्ताभ्यां दूर्वामादाय मूलतः ।
घृते निमज्य चाग्राणि पालिकादिषु सेचयेत् ॥ 194
हस्तव्यत्यासमार्गेण वह्न्यादीशानपश्चिमम् ।
प्रतिस्कन्धं घृतारोपे दूर्वाभेदः प्रकीर्तितः ॥ 195
एवं कृत्वा घृतारोपं भूयः स्कन्धाधिदेवताः ।
प्रपूज्य सर्वबीजानि मन्त्रयेन्मूलमन्त्रतः ॥ 196
आचार्यादीननुज्ञाप्य देशिकेन्द्र उदम्मुखः ।
प्राम्मुखो वा मुहूर्ते तु शोभने पालिकादिषु ॥ 197
अष्टाक्षरेण मन्त्रेण सर्वबीजानि वापयेत् ।
यद्वा जितन्तामन्त्रेण ह्युभयेनाथ वा द्विजाः ॥ 198
आग्नेयादीशपर्यन्तं प्रतिस्कन्धं क्रमेण तु ।
शङ्खदुन्दुभिनिर्घोषजयनादसमन्वितम् ॥ 199
बीजानि द्वादशोक्तानि वपेद्द्वादशसु क्रमात् ।
यद्वा सर्वाणि सम्मिश्र्य वपेदिच्छानुसारतः ॥ 200
बीजानामप्यलाभे तु मुद्गमेकं तु वा वपेत् ।
आचार्यानुगताश्चान्ये देशिकाः साधका अपि ॥ 201
वपेयुर्ध्यानसंयुक्ताः केवलं गुरुरेव वा ।
हरिद्राचूर्णसम्मिश्रैर्जलैः कुसुमवासितैः ॥ 202
बहुभिः सेचयेद्विप्राः देशिकेन्द्रः क्रमेण तु ।
प्रतिस्कन्धोपरिष्टात्तु चन्द्रमण्डलमध्यगम् ॥ 203
तत्कान्तिसन्निभं देवं स्वदेहोत्थैर्निरन्तरैः ।
सिञ्चन्तममृतोघैस्तु बीजान्युप्तानि सर्वतः ॥ 204
ध्यात्वार्चयित्वा पात्राणि नवैस्तु सदृशैः शुभैः ।
आच्छादयित्वा वसनैः प्रतिस्कन्धं क्रमेण तु ॥ 205
वासुदेवं जगद्योनिं सर्वेषामूर्ध्वतो यजेत् ।
भूतक्रूरबलिं दद्यादष्टदिक्षु द्विजोत्तमाः ॥ 206
भूतानां कुमुदादीनां पूर्वादिक्रमयोगतः ।

[[103]] तदा प्रभृति ते सर्वे रक्षन्ति कुमुदादयः ॥ 207
आचार्यान् गुरुपूर्वांश्च साधकान् वैष्णवानपि ।
प्रभूतैस्तु तथोद्दिष्टैस्ताम्बूलैः सुमनःफलैः ॥ 208
गुरुं च तोषयेद्वित्तैर्यजमानः प्रयत्नवान् ।
क्रमादुद्धृत्य तान् सर्वान् सुगुप्ते स्थापयेत्ततः ॥ 209
मण्टपेशानकोणे वा देशेऽन्यत्र यथारुचि ।
तत्रापि पालिकादीनां परितोऽष्टासु दिक्षु च ॥ 210
भूतानां कुमुदादीनामैन्द्रादिक्रमयोगतः ।
बलिं तु मण्टपे दद्याद्भूतक्रूरविधानतः ॥ 211
दीपान् बहूननिर्वाणान् परितः परिदीपयेत् ।
ऊनाधिक्योपशान्त्यर्थं शतमष्टोत्तरं हुनेत् ॥ 212
पूर्णाहुत्यादिकं कृत्वा देशिकेन्द्रो यथाविधि ।
ततः कुण्डगतं देवं विसृज्य हृदयान्तरे ॥ 213
चतुर्द्वाराधिदेवानां मन्त्रैश्चापि यथाक्रमम् ।
हुत्वाज्येन ततो वह्निं विसृजेत्तु यथाविधि ॥ 214
परितः पालिकादीनां प्रतिरात्रं पृथक् पृथक् ।
दद्याद्दिवा रजन्यां वा बलिं कालद्वयेपि वा ॥ 215
प्रातः कर्मदिने दद्याद्बलिं देशिकसत्तमः ।
यदा चोप्तानि बीजानि तदा प्रभृति नित्यशः ॥ 216
न कश्चित्प्रविशेत्तत्र न स्पृशेद्वा कथं च न ।
आचार्य एव प्रविशेत्तच्छिष्यो वा समाहितः ॥ 217
उच्छिष्टादीनि सर्वाणि दूरतः परिवर्जयेत् ।
अदत्वा तु बलिं काञ्चिन्न कुर्यात्पालिकाक्रियाम् ॥ 218
हरिद्रावारिभिः सिञ्चेदङ्कुराण्यभिवृद्धये ।
अङ्कुरान् श्यामळान् रक्तान् कृष्णांस्तिर्यग्गतांस्तथा 21
अप्ररूडान् मुनिश्रेष्ठाः वर्जयेत्तु प्रयत्नतः ।
श्यामेषु द्रव्यनाशः स्याद्रक्तेषु कलहो भवेत् ॥ 220
कृष्णेषु मानसी पीडा रोगी तिर्यग्गतेषु च ।
अप्ररूडेषु मरणं भवेत्तत्र न संशयः ॥ 221
शुभं पीतेषु शुक्लेषु ऋजुषूर्ध्वगतेष्वपि ।
सर्वंसम्पत्समृद्धिश्च कर्तुः कारयितुर्भवेत् ॥ 222
कर्मार्थमङ्कुराण्यादौ यः समारोपयेद्गुरुः ।
स एव कर्म कार्त्स्न्येन कुर्यात्प्राज्ञोपि नेतरः ॥ 223
अनुज्ञया वा तत्पुत्रः शिष्यो वा तत्समाचरेत् ।
एवं सर्वेषु यागेषु अङ्कुरारोपणं भवेत् ॥ 224
देशं कालं तथा वित्तं ज्ञात्वा स्वाधीनतां तथा ।
उक्तं सर्वं समभ्यूह्य कुर्यात्कर्म प्रधानकम् ॥ 225
एवं कृत्वाङ्कुरारोपं गत्वा देवस्य सन्निधिम् ।
देवमर्घ्यादिनाभ्यर्च्य नैवेद्यान्तं यथाविधि ॥ 226
अनिर्वाणं यथादीपं रात्रिशेषं समापयेत् ।
तदन्येद्युः प्रभातायां ध्वजार्थं पटमाहरेत् ॥ 227
यथावित्तानुसारेण क्रीतं वाऽभिनवं शुभम् ।

[[104]] दुकूलपट्टं देवाङ्गं चित्रक्षौममथापि वा ॥ 228
अथ कार्पासकं वापि नीलरोमादिवर्जितम् ।
सुलक्षणं दृढं स्निग्धं पटमानमिहोच्यते ॥ 229
आयतं नवभिर्हस्तैः सप्तभिः पञ्चभिस्तु वा ।
मूलबेरसमायामं द्वारायाममथापि वा ॥ 230
आयामार्धेन विस्तीर्णं पादेन कृतशेखरम् ।
शेखरेण समं पुच्छं तदर्धं कर्णपुच्छकम् ॥ 231
बालाख्यध्वजवस्त्रं तु पटाख्यपरिसम्मितम् ।
विस्तारं पटतुल्यं तु पूर्ववच्छिखरं भवेत् ॥ 232
निर्णेजितं खलीयुक्तं शोषितं लक्षणान्वितम् ।
पटं विचित्रयेद्विद्वान् शिल्पिना कुशलेन वै ॥ 233
छत्रं तु शिखरे कुर्यात्पार्श्वयोः श्वेतचामरे ।
अधोऽनेकदलं पद्मं तदधः पूर्णकुम्भकम् ॥ 234
कुम्भस्य पार्श्वे विलिखेत्साङ्कुरं पालिकागणम् ।
दीपौ सुशोभनौ कुर्यात्पालिकानां तु पार्श्वयोः ॥ 235
ध्वजं तु गरुडाकारमेकमूर्तेस्तु सत्तमाः ।
सत्यः सुपर्णो गरुडस्तार्क्ष्यश्च चतुरात्मनः ॥ 236
पञ्चमूर्तेस्तु चत्वारो विहगेश्वरसंयुताः ।
सुपर्णताळमकरऋश्या वा चतुरात्मनः ॥ 237
ततऊर्ध्वं तु सर्वेषां व्यूहानां गरुडो ध्वजः ।
पटमध्ये तु गरुडं द्विभुजं विधृताञ्जलिम् ॥ 238
पुष्पाञ्जलिपुटं वाऽथ सुवर्णाचलसन्निभम् ।
गगनेगमनारम्भपक्षविक्षेपणान्वितम् ॥ 239
कुञ्चितो वामपादस्तु दक्षिणः पृष्टतः स्थितः ।
किञ्चिदायतवृत्ताक्षं नीलदीर्घाग्रनासिकम् ॥ 240
अतीव शान्तवेषं तु तथा प्रहसिताननम् ।
बालचन्द्रसमाकारं दंष्ट्राद्वयविराजितम् ॥ 241
कुटिलभ्रुकुटीभङ्गं भङ्गुराळकशोभितम् ।
कम्बुग्रीवं बृहद्बाहुं पीरांसं दृढवक्षसम् ॥ 242
पृथूदरं निम्ननाभिं रोमराजिविराजितम् ।
सुवृत्तकनकस्तम्भपीवरोरुद्वयान्वितम् ॥ 243
हेमरम्भासमाकारजङ्घाकान्तपदद्वयम् ।
करण्डमकुटाक्रान्तपुष्पापीडविराजितम् ॥ 244
वृत्ते वैपुल्यमानेन लोचने पद्मपत्रवत् ।
भ्रूयुग्मं नारसिंहोत्थं घ्राणाग्रं शुकतुण्डवत् ॥ 245
सिह्मवन्मध्यदेशस्तु तद्द्वंशं गजपृष्टवत् ।
तदेवं दैवदीर्घेण विस्तृतं हंसपक्षवत् ॥ 246
स्वपक्षमाणादिगुणं तत्पुच्छं शतशाखिनम् ।
सर्वेषामेव सामान्यं विशेषाख्यमथोच्यते ॥ 247
मकुटादिसपादान्तं नानारत्नेन शोभितम् ।
हारकेयूरकटकब्रह्मसूत्रविभूषितम् ॥ 248
प्रलम्बकर्णपाशान्तविश्रान्तशुभकुण्डलम् ।

[[105]] ललाटतिलकोपेतं पुष्पकर्णावतंसकम् ॥ 249
रत्नाङ्गुळीयकोपेतं शिञ्जिनीरञ्जिताङ्घ्रिकम् ।
अन्यैराभरणैर्दिव्यैर्भूषितं सर्वभूषितम् ॥ 250
नीलाम्बरधरं नीलवारवाणविराजितम् ।
फुल्लरक्तोत्पलदलस्रग्भिर्मण्डितकन्धरम् ॥ 251
तथा विचित्रकुसुमस्रग्भिरन्याभिरुज्वलम् ।
अनन्तो वामकटको यज्ञसूत्रं तु वासुकिः ॥ 252
तक्षकः कटिसूत्रं तु हारः कार्कोटकस्तथा ।
पद्मो दक्षिणकर्णे तु महापद्मस्तु वामतः ॥ 253
शङ्खः शिरःप्रदेशे तु गुलिकश्च भुजान्तरे ।
एतैरष्टोरगैराद्यैर्भूषितं भुजगोत्तमैः ॥ 254
अनन्तः शुक्लवर्णाभो रक्तवर्णस्तु वासुकिः ।
तक्षकः पीतवर्णाभो धूम्रः कार्कोटकस्तथा ॥ 255
शङ्खस्तुहिनवर्णाभो गुलिकस्त्वळिसन्निभः ।
पद्मः पद्मसमानाभो महापद्मस्तु पिङ्गळः ॥ 256
पञ्चवर्णैर्लिखेदेवं देवं पञ्चायुधं तथा ।
चक्रं खड्गं शरं चैव शङ्खं शार्ङ्गं गदां तथा ॥ 257
पटोर्ध्वे ह्युभये पार्श्वे विलिखेच्च यथाविधि ।
तदधो दक्षिणे पार्श्वे वह्निमण्डलमालिखेत् ॥ 258
तद्वल्लिखेद्वामभागे स्वस्तिकं लक्षणान्वितम् ।
लेपयेत्पटशेषं तु श्यामलेनासितेन वा ॥ 259
विचित्रपुष्पसंयुक्तपत्रवल्लीसमन्वितम् ।
एवं शिल्पिवरेणैव कारयेद्देशिकोत्तमः ॥ 260
शूद्रेण वा द्विजश्रेष्ठाः दीक्षितेन यथाविधि ।
कुलालेनाऽथवा मन्त्री कारयेत्कुशलेन च ॥ 261
एवं सर्वं समापाद्य देशिकः सुसमाहितः ।
सायङ्काले तु सम्प्राप्ते सहितो मूर्तिधारकैः ॥ 262
कारुशालां प्रविश्याथ तोषयित्वा तु शिल्पिनम् ।
तत्पटं तु समादाय विन्यसेच्छिष्यमूर्धनि ॥ 263
शङ्खदुन्दुभिनिर्घोषैः काहळध्वनिभिस्तथा ।
गीतैश्च विविधैरन्यैः श्रुतिघोषैः पृथग्विधैः ॥ 264
सह ध्वजपटं तस्मादानयेन्मुखमण्टपे ।
प्रविश्याभ्यन्तरं मूलबिम्बस्थं परमेश्वरम् ॥ 265
अभिवाद्यार्घ्यगन्धाद्यैः पूजयेत्पुष्पधूपकैः ।
विसृज्य शिल्पिनं पश्चात्सम्प्रोक्ष्यार्घ्याम्भसा पटम् ॥266
सिद्धार्थकान्वितैः पुष्पैस्ताडयेदस्त्रमन्त्रतः ।
दर्शयेद्देवदेवस्य सम्मुखं साधकोत्तमः ॥ 267
दहनाप्यायने कुर्याद्विधिदृष्टेन कर्मणा ।
भूयोऽर्घ्यगन्धपुष्पाद्यैः प्रपूज्य परमेश्वरम् ॥ 268
गिरोच्चया त्विमं मन्त्रं बद्धाञ्जलिकरः पठेत् ।
भगवन् पुण्डरीकाक्ष सर्वेश्वर जगन्मय ॥ 269
त्वया यथा तु कथितं तथा कर्तुं न शक्यते ।

[[106]] अस्वातन्त्यादसामर्थ्याच्छ्रद्धादीनामभावतः ॥ 270
तस्मान्मानादिसर्वेषामूनाधिक्योपशान्तये ।
समालोकय नेत्राभ्यां शीतळाभ्यां पटस्थितम् ॥ 271
सर्वदोषापहारिभ्यां वैनतेयं प्रसीद ओम् ।
दीक्षितानां ततो विप्राः हस्ते दत्वा तु तं पटम् ॥ 272
चतुः प्रदक्षिणीकृत्य तेन सार्धं तु देशिकाः ।
प्रथमावरणे वाऽपि द्वितीयावरणेऽपि वा ॥ 273
प्रविशेद्यजमानेन प्रासादाग्रस्थमण्टपम् ।
तत्र न्यस्त्वा भद्रपीठं तदूर्ध्वे शालितण्डुलैः ॥ 274
वेदिं कृत्वा तु तत्पृष्ठे भद्राख्यं मण्डलं लिखेत् ।
विभवे सति वस्त्रं तु समास्तीर्य तदूर्ध्वतः ॥ 275
तिलराशिं समुत्कीर्य तन्मध्ये स्वस्तिकं लिखेत् ।
तस्योपरिष्टात्संस्थाप्य प्रासादाभिमुखं पटम् ॥ 276
उपविश्यासने पश्चादाचार्यः सुसमाहितः ।
करशुद्ध्यादि पूर्वोक्तं स्वदेहार्चनपश्चिमम् ॥ 277
सर्वं खगेशमन्त्रेण साङ्गेन तु समाचरेत् ।
द्वार्स्थतोरणकुम्भादियजनं प्राग्वदाचरेत् ॥ 278
ततः पुण्याहघोषं तु कारयेत्पूर्ववद्द्विजाः ।
गरुडस्याग्रतः प्राग्वत्कुम्भं करकसंयुतम् ॥ 279
भारमात्रोपकॢप्ते तु धान्यपीठे तु विन्यसेत् ।
जलद्रोण्यादिकं पात्रं गन्धतोयैः सुपूरितम् ॥ 280
दक्षिणे करकस्याथ विनिवेश्य च तत्र तु ।
सद्यच्छायाधिवसनमाचरेद्गरुडस्य तु ॥ 281
अधमाधममार्गेण स्नपनं तु समाचरेत् ।
अग्रतो वैनतेयस्य वेदिकोपरि संस्थिते ॥ 282
दर्पणे तु ततः पश्चान्मुहूर्ते शोभने गुरुः ।
नयनोन्मीलनं कुर्याद्वक्ष्यमाणविधानतः ॥ 283
सर्वेषामपि सर्पाणां नेत्रोन्मीलनमाचरेत् ।
प्राग्वत्संशुद्धदेहस्तु शिल्पी प्रकटतां नयेत् ॥ 284
सर्वं तु विधिवत्कुर्यान्नेत्रयोः पूरणादिकम् ।
कुम्भे च करके चैव आसनं परिकल्प्य च ॥ 285
कुम्भे गरुडमावाह्य करके मन्त्रमस्त्रपम् ।
पूजयित्वार्घ्यगन्धाद्यैस्ततो दिक्कलशाष्टके ॥ 286
इन्द्रादिलोकपालांस्तु प्रादक्षिण्येन पूज्य च ।
भित्तिसंसेचनं कृत्वा भूयः संस्थाप्य तत्र तु ॥ 287
ततो ध्वजपटे प्राग्वदासनं परिकल्प्य च ।
ततो गरुडमन्त्रं तु सहस्रादित्यभास्वरम् ॥ 288
सर्वरोगप्रशमनं सर्वोपद्रवनाशनम् ।
सर्वसिद्धिप्रदं नॄणां सर्वदारिद्र्यनाशनम् ॥ 289
हृदयाद्रेच्य विप्रेन्द्राः पटस्थगरुडे न्यसेत् ।
सकलीकरणं कृत्वा सन्निधिं च समाचरेत् ॥ 290
सन्निरोधं च साम्मुख्यं मुद्राबन्धं तथैव च ।

[[107]] लययागं भोगयागं यथावद्द्विजसत्तमाः ॥ 291
सर्वं गरुडमन्त्रेण साङ्गेन तु समाचरेत् ।
कुम्भे च करके चैव पटे च क्रमयोगतः ॥ 292
महता विभवेनैव पूजनं च समाचरेत् ।
अलङ्कारासनान्तं च यथोक्तेन क्रमेण तु ॥ 293
कृत्वा सम्पूजनं विप्राः गरुडस्य ततः परम् ।
प्रासादाभ्यन्तरे विप्राः देशिकानुमतेन तु ॥ 294
अन्येन गुरुणा यद्वा साधकेन विशेषवत् ।
पूजनं कारयेत्सम्यम्मूलमूर्तिगतस्य च ॥ 295
यात्रामूर्तिगतस्यापि विभोर्दानान्तमेव च ।
तत्परं वैनतेयस्य भोज्यासनपुरःसरैः ॥ 296
विविधैर्मधुपर्कान्तैर्हृद्यैः सफलमूलकैः ।
अन्यैरतिप्रभूतैश्च तथान्यैर्विविधैरपि ॥ 297
भोगैरिष्ट्वा जपान्तं च पूर्ववत्क्रमयोगतः ।
सम्प्रदानं पृथक्कुर्यात्कारिभ्यस्तु यथाविधि ॥ 298
मन्त्रास्त्रकुम्भयोर्दत्तमाचार्येभ्यो ददेत्ततः ।
पटस्थस्यापि नैवेद्यं किञ्चिदादाय पात्रगम् ॥ 299
देशिकः स्वयमादद्याद्गुर्वादिभ्योपि वै ददेत् ।
मूलबिम्बस्थितस्यापि यात्राबिम्बस्थितस्य च ॥ 300
देवस्य मधुपर्काद्यैर्नैवेद्यं प्रतिपादितम् ।
दापयेद्देशिकादिभ्यस्ततो होमं समाचरेत् ॥ 301
कुण्डं सलक्षणं कृत्वा प्राग्भागे गरुडस्य तु ।
तत्रानलं तु संस्कृत्य आवाह्य विहगेश्वरम् ॥ 302
समिधां सप्तकं हुत्वा शान्त्यर्थं तु तिलैघृतैः ।
आहुत्यष्टोत्तरशतं हुत्वा पूर्णां निवेदयेत् ॥ 303
यद्वा नैमित्तिके कुण्डे होमं कुर्यात्तु देशिकः ।
एवं ध्वजाधिवासं तु कृत्वा गर्भगृहं व्रजेत् ॥ 304
रक्षाबन्धं ततः कुर्याद्यथाविधि मुनीश्वराः ।
मूलमूर्तिगतं देवमर्घ्याद्यैः सम्प्रपूज्य च ॥ 305
तत्पादगौ करौ कृत्वा देवं विज्ञापयेदिदम् ।
भगवन् पुण्डरीकाक्ष करिष्ये कौतुकक्रियाम् ॥ 306
महोत्सवार्थं देवेश तदर्थं त्वं प्रसीद मे ।
इति विज्ञाप्य देवेशमावाह्योत्सवकौतुके ॥ 307
अर्घ्यगन्धादिनाभ्यर्च्य वासोभिर्विविधैः शुभैः ।
भूषणैर्दिव्यगन्धैश्चाप्यलङ्कृत्य विशेषतः ॥ 308
सौवर्णं यानमारोप्य शङ्खभेर्यादिसंयुतम् ।
छत्राद्यैश्च समायुक्तं प्रादक्षिण्यक्रमेण तु ॥ 309
आस्थानमण्टपं नीत्वा सौवर्णे भद्रविष्टरे ।
तत्र मुक्तावितानाद्यैरुपरिष्टाद्विभूषिते ॥ 310
सर्वसाधनसंयुक्ते समारोप्य विधानतः ।
पूजयित्वा जगन्नाथं प्रभूतान्नं निवेद्य च ॥ 311
कृत्वा सन्तर्पणान्तं च प्रासादं सम्प्रवेशयेत् ।

[[108]] ततस्तु हेमजं पात्रं राजतं वा समाहरेत् ॥ 312
शालिभिस्तण्डुलैर्विप्राः भारमात्रैः सुपूरितम् ।
तदर्धैर्वापि तत्पादैः षडंशैर्वाऽष्टमांशकैः ॥ 313
तदूर्ध्वे हेमजं सूत्रं क्षौमं कार्पासमेव वा ।
पट्टजं पञ्चभिः सूत्रैश्चतुर्भिः सप्तभिस्तु वा ॥ 314
कृतं न्यस्य सताम्बूलं तत्पात्रं विन्यसेत्ततः ।
गर्भाग्रमण्टपे पीठे शालिभिः परिकल्पिते ॥ 315
भारमानैस्तदर्धैर्वा एवं शालिविनिर्मिते ।
पीठे पात्रान्तरे न्यसेदापूपिकसमन्वितम् ॥ 316
अर्घ्यादिना समभ्यर्च्य सम्यगाच्छाद्य वाससा ।
पात्रद्वयं दीक्षितयोर्न्यस्त्वा शिरसि देशिकः ॥ 317
यानादिके वा संस्थाप्य विभवानुगुणं द्विजाः ।
सह ताभ्यां तु पात्राभ्यां नृत्तगीतादिसंयुतम् ॥ 318
प्रदक्षिणं परिभ्राम्य सर्वेष्वावरणेष्वपि ।
एकस्मिन्वा चतुः कृत्वा ग्रामादौ वा प्रदक्षिणम् ॥ 319
नीत्वैकधा ततो विप्राः प्रविशेन्मूलमन्दिरम् ।
यद्वा सुदर्शनोपेतं विष्वक्सेनेन वा द्विजाः ॥ 320
खगेशं वा हनूमन्तं विभीषणसमन्वितम् ।
यानादिकं समारोप्य भ्रामयेत्तु यथारुचि ॥ 321
गर्भगेहं प्रविश्याऽथ देवदेवस्य सन्निधौ ।
पात्रद्वयं तु विन्यस्य आधारोपरि पूजयेत् ॥ 322
अष्टाक्षरेण मन्त्रेण अर्घ्यगन्धादिकैस्तथा ।
कृत्वा पुण्याहघोषं तु देवमर्घ्यादिभिर्यजेत् ॥ 323
ततः प्रतिसरं चेष्ट्वा गन्धधूपाधिवासितम् ।
प्रथमं देवदेवस्य मूलमूर्तिगतस्य च ॥ 324
बन्धयेत्कौतुकं सूत्रैर्हेमजैः पट्टजैस्तु वा ।
हेमजं सूत्रमादाय गन्धेनालिप्य बन्धयेत् ॥ 325
देवस्य दक्षिणे हस्ते यात्रामूर्तिगतस्य च ।
जितन्ताख्येनमन्त्रेण शङ्खगीतादिसंयुतम् ॥ 326
स्पृष्ट्वा दक्षिणहस्तेन सूत्रमस्त्रशतं जपेत् ।
श्रियो वामकरे कुर्यात्पट्टसूत्रेण कौतुकम् ॥ 327
श्रीसूक्तमुच्चरन्वाऽपि तन्मन्त्रेण द्विजोत्तमाः ।
पुष्ट्यास्तु वामहस्ते तु क्षौमसूत्रेण बन्धयेत् ॥ 328
कुर्यात्स्नपनबिम्बस्य पट्टसूत्रेण कौतुकम् ।
बलिबिम्बादिकानां च कृत्वैवं कौतुकं ततः ॥ 329
कौतुकं देशिकेन्द्रस्तु कार्पासेन स्वदक्षिणे ।
करे तु मूलमन्त्रेण बन्धयेत्तु ततः परम् ॥ 330
तथैव कर्मकर्तॄणां कौतुकं बन्धयेत्क्रमात् ।
विभवे सति सर्वेषां सूत्रं हेममयं भवेत् ॥ 331
देवमर्घ्यादिनाभ्यर्च्य अपूपादीन्निवेदयेत् ।
ताम्बूलादीन् समर्प्याथ ताम्बूलैस्तोषयेद्द्विजान् ॥ 332
दीक्षितान् वैष्णवांश्चापि देशिकेन्द्रपुरस्सरान् ।

[[109]] आचार्यः स्वयमादद्यात्तदर्थं तण्डुलादिकम् ॥ 333
एवं सर्वेषु यागेषु कार्यं कौतुकबन्धनम् ।
रक्षाबन्धं तु कृत्वैवं रात्रिशेषं समापयेत् ॥ 334
ततः प्रभाते सुस्नातः स्वाचान्तो देशिकोत्तमः ।
नित्याऽर्चनं विभोः कृत्वा विशेषयजनं तथा ॥ 335
वैनतेयं ततोऽभ्यर्च्य कुम्भपूर्वं यथाविधि ।
महाहविर्निवेद्याथ होमं कृत्वा तु पूर्ववत् ॥ 336
ततः कुर्याद् ध्वजस्तम्भस्थापनं देशिकोत्तमः ।
प्रथमावरणे वापि द्वितीयावरणादिके ॥ 337
स्थापयेद्गोपुरस्यान्तर्बहिर्वा स्तम्भमुत्तमम् ।
अथ वा बलिपीठस्य पुरोभागे मुनीश्वराः ॥ 338
पश्चाद्भागेऽपि वा कुर्याद् ध्वजपीठप्रकल्पनम् ।
तयोस्तदनन्तरं कुर्याद्धस्तं वा तालमेव वा ॥ 339
उत्तरे ध्वजपीठस्य पूर्वस्यां दिशि वा द्विजाः ।
शाययेच्च ध्वजस्तम्भं ध्वजयष्टिसमन्वितम् ॥ 340
पूर्वाग्रमुत्तराग्रं वा लक्षणाड्यं सुशोभनम् ।
अन्तस्सारो बहिस्सारो निस्सारस्त्रिविधस्तरुः ॥ 341
अन्तस्सारश्चन्दनादिः प्रशस्तः स्तम्भकल्पने ।
क्रमुकादिर्बहिस्सारः सोऽपि शस्तो मुनीश्वराः ॥ 342
किंशुकाद्यं तु निस्सारं वर्जयेत् स्तम्भकर्मणि ।
आर्द्रं नवमृजुं स्निग्धं वक्त्रस्फोटनवर्जितम् ॥ 343
अयुग्मपर्वकं स्निग्धं सत्वचं सुस्थिरं तथा ।
ग्राहयेत्तु ध्वजस्तम्भं शास्त्रदृष्ट्या परीक्ष्य तु ॥ 344
शततालं तु मुख्यं स्याद्विंशन्यूनमथापि वा ।
षष्ठितालमितं वापि मानाङ्गुलवशेन तु ॥ 345
मात्राङ्गुळवशेनापि प्रमाणं परिकल्पयेत् ।
प्रासादशिखराग्रोच्चं प्रासादोच्चमथापि वा ॥ 346
कर्णोच्चं गोपुरोच्चं वा यथाशक्ति प्रकल्पयेत् ।
चतुर्धा विभजेत् स्तम्भमेकांशेनैव मस्तकम् ॥ 347
तस्य चाधारभूतानां छिद्रितानां त्रिमूलतः ।
त्रयाणामपि पीठानां स्तम्भाग्रे विनिवेशनम् ॥ 348
अग्रे पीठद्वयच्छिद्रे ध्वजयष्टिं तु योजयेत् ।
दर्भमुष्टिं तदूर्ध्वे तु बन्धयेद् घण्टया सह ॥ 349
वेष्टयेद्दर्भमालाभिर्ध्वजदण्डं प्रदक्षिणम् ।
एवं कृत्वा ध्वजस्तम्भं प्रोक्षयेदस्त्रवारिणा ॥ 350
ध्वजपीठस्थिते गर्ते रत्नधान्यानि निक्षिपेत् ।
देशिकस्तार्क्ष्यमन्त्रेण ततो ब्राह्मणसत्तमैः ॥ 351
शूद्रैर्वा दीक्षितैर्विप्राः देवदासैरथापि वा ।
शङ्खभेर्यादिनिर्घोषगीतवादित्रसंयुतम् ॥ 352
स्थापयेत्तु ध्वजस्तम्भं तस्मिन् गर्ते ऋजुस्थितम् ।
प्रासादाभिमुखं स्थाप्य वालुकाभिश्च पूरयेत् ॥ 353
हस्तिपादादिभिः कृत्वा सुदृढं तु यथा भवेत् ।

[[110]] स्तम्भमूलस्थले वेदिं पञ्चहस्तसमुच्छ्रिताम् ॥ 354
त्रिहस्तैरुच्छ्रितां वापि एकहस्तसमुच्छ्रिताम् ।
तावद्भिरेव विस्तीर्णां चतुरश्रां प्रकल्पयेत् ॥ 355
तदूर्ध्वे मध्यदेशे तु पद्ममष्टदलैर्युतम् ।
कर्णिकास्थो यथा स्तम्भस्तथा कुर्याद्विचक्षणः ॥ 356
प्रासादाऽन्तः प्रविश्याथ मूलमूर्तिगतं विभुम् ।
अर्घ्यगन्धादिनाभ्यर्च्य तस्मादुत्सवकौतुके ॥ 357
किञ्चिदावाह्य तं चापि देवीभ्यां सहितं ततः ।
पूजयित्वा जगन्नाथं पादुके विनिवेद्य च ॥ 358
याने प्ररोप्य तदनु सौवर्णप्रभयान्विते ।
एवमेव हि बल्यर्चामिष्ट्वा याने निवेशयेत् ॥ 359
आचार्यो मूर्तिपैः सार्धं गत्वा गरुडसन्निधिम् ।
रथे वा कुञ्जरे याने ध्वजमारोप्य यत्नतः ॥ 360
प्रभया चित्रकुसुमैः कृतया भूषयेद् ध्वजम् ।
वासोभिर्भूषणैः स्रग्भिर्विचित्राभिश्च भूषयेत् ॥ 361
छत्रचामरपूर्वैश्च मायूरव्यजनैस्ततः ।
विचित्रैस्तालवृन्तैश्च आतपत्रैर्मनोहरैः ॥ 362
केतुदण्डैर्विचित्रैश्च दुकूलपटशोभितैः ।
चतुर्वेदमयोद्घोषैः स्तोत्रघोषसमन्वितैः ॥ 363
गीतकैर्विविधैर्वाद्यैः शङ्खकाहळनिःस्वनैः ।
भेरीमृदङ्गपूर्वाणां घोषैरन्यैश्च मङ्गलैः ॥ 364
ब्राह्मणैर्धियमाणैश्च साऽङ्कुरैः पालिकागणैः ।
सुवेषगणिकासङ्घैः सदा भक्तजनैः सह ॥ 365
क्ष्वेळितास्फोटितैर्युक्तं जयशब्दसमन्वितम् ।
बलिबिम्बं पुरस्कृत्य मध्ये ध्वजपटं ततः ॥ 366
यात्रार्मूीन्त च तदनु क्रमेण भ्रामयेत्ततः ।
प्रथमावृतिमारभ्य रथ्यावरणपश्चिमम् ॥ 367
बलिदानपुरस्कं तु कृत्वा ग्रामप्रदक्षिणम् ।
यात्राबिम्बं च तदनु नयेदास्थानमण्टपे ॥ 368
निवेश्य विष्टरे हैमे ध्वजपीठस्य सम्मुखम् ।
आचार्यो मूर्तिपैः सार्धमादाय गरुडध्वजम् ॥ 369
सह शङ्खनिनादाद्यैः प्रादक्षिण्येन योगतः ।
ध्वजपीठं समानीय स्तम्भं प्रक्षाळ्य सज्जलैः ॥ 370
विभवे सति वस्त्रेण संवेष्ठ्या ध्वजदण्डकम् ।
त्रिवृत्कृतैस्तु कार्पाससूत्रैरतिदृढैः कृताम् ॥ 371
रज्जुमादाय तदनु सदृढां देशिकोत्तमः ।
यष्ट्यग्रसंस्थिते यन्त्रे योजयित्वा तया ततः ॥ 372
ध्वजस्य शिखरं विप्राः बन्धयेत्सुदृढं ततः ।
सर्वैः परिजनैः सार्धं कुम्भपार्श्वं समाश्रयेत् ॥ 373
तत्कुम्भं तु समुद्धृत्य विन्यसेच्छिष्यमूर्धनि ।
उपकुम्भाऽष्टकं चैव वाहयेद्ब्राह्मणैः सह ॥ 374
वर्धनीं च समादाय आचार्यः स्वकरेण तु ।

[[111]] अच्छिन्नधारया युक्तं वाद्यघोषपुरस्सरम् ॥ 375
देवागारं परिभ्राम्य स्तम्भमूलं समाश्रयेत् ।
पुण्याहं वाचयित्वा तु सम्प्रोक्ष्यास्त्रेण वै ध्वजम् ॥ 376
गारुडेनैव मन्त्रेण पटस्थं गरुडं यजेत् ।
अर्घ्यं पाद्यं तथाचामं गन्धं माल्यं च धूपकम् ॥ 377
अपूपान् पृथुकांश्चापि पानकं तर्पणं ततः ।
नालिकेरजलैर्युक्तमाचामं तदनन्तरम् ॥ 378
कर्पूरादिसमायुक्तं दत्वा ताम्बूलमुत्तमम् ।
तन्मुद्रां दर्शयित्वा तु ततः पुरुषसूक्ततः ॥ 379
महाकुम्भस्थतोयेन सम्प्रोक्ष्य गरुडं ततः ।
महाकुम्भस्थगरुडं पटस्थं तु निवेश्येत् ॥ 380
उपकुम्भाष्टकेनैव अष्ट नागान् यथाक्रमम् ।
आयुधानां तथैवोक्तं करकास्त्रजलेन तु ॥ 381
एवं क्रमेण सम्प्रोक्ष्य ततो देशिकसत्तमः ।
मन्त्रन्यासादिकं कृत्वा पुष्पाञ्जलिपुरःसरम् ॥ 382
सन्निधिं सन्निरोधं च साम्मुख्यं च समाचरेत् ।
ततस्त्वर्घ्यादिभिः पूज्य उपहारान् बहूनपि ॥ 383
मुद्गान्नादीन्निवेद्याथ ताम्बूलादीन् समर्पयेत् ।
स्तोत्रैः स्तुवीत गरुडं बद्धाञ्जलिपुटो गुरुः ॥ 384
वाहनाय महाविष्णोः तार्क्ष्यायामिततेजसे ।
गरुडाय नमस्तुभ्यं सर्वसर्पेन्द्रमृत्यवे ॥ 385
नमो नमस्ते पक्षीन्द्र स्वाध्यायवपुषे नमः ।
विहगेन्द्र नमस्तेस्तु समुत्पाटितकल्पक ॥ 386
आहृतामृतकुम्भाय जननीदास्यमोचिने ।
सुरासुरेन्द्रजयिने नागेन्द्राभरणाय ते ॥ 387
यदाधारमिदं सर्वं तदाधाराय ते नमः ।
पक्षौ यस्य बृहत्साम रथन्तरमपि द्वयम् ॥ 388
अक्षिणी चापि गायत्री त्रिवृत्साम शिरः स्मृतम् ।
स्तोम आत्मा नमस्तस्मै वामदेव्याङ्गसम्पदे ॥ 389
नमः प्राणादिवायूनामीशानाय गरुत्मते ।
दोषानपनयाखण्डान् गुणानावह सर्वतः ॥ 390
विघ्नानि जहि सर्वाणि आत्मसात्कुरु मामपि ।
श्रुत्वैवं श्रावयेत्तस्य बृहत्साम रथन्तरम् ॥ 391
तत्काले देशिकेन्द्रस्तु ध्यायमानः खगेश्वरम् ।
नैवेद्यं कबलीकृत्य मन्त्रयित्वा तु मन्त्रवित् ॥ 392
पौरुषैर्गारुडैर्मन्त्रैः वन्ध्यानामपि योषिताम् ।
क्षिपेदञ्जलिषु ध्यात्वा गरुडं चाच्युतं हरिम् ॥ 393
भक्षयित्वा स्त्रियः पिण्डान् जनयेयुः सुतान् बहून् ।
ततस्तु गरुडाग्रे तु ताम्बूलैर्गन्धमाल्यकैः ॥ 394
दैवज्ञं पूजयित्वा तु लब्ध्वा लग्नं शुभप्रदम् ।
सुमुहूर्ते सुलग्ने च आशीर्वादपुरस्सरम् ॥ 395
घण्टाशब्दमृदङ्गैश्च सर्ववाद्यरवैः सह ।

[[112]] रज्जूनारोहयेद्धीरं सुपर्णोसीति मन्त्रतः ॥ 396
रज्जुं च बन्धयेत् स्तम्भे प्रादक्षिण्यक्रमेण तु ।
प्रासादाभिमुखं स्तम्भे स्थापयेद्गरुडध्वजम् ॥ 397
पूर्वाह्ने वाथ मध्याह्ने ध्वजस्यारोहणं महत् ।
यात्रार्मूीन्त च तदनु यानमारोप्य देशिकः ॥ 398
ध्वजस्तम्भसमीपं तु नीत्वा च दर्शयेद् ध्वजम् ।
आह्वानार्थमशेषाणां भक्तानां पतगेश्वरम् ॥ 399
नियुज्य देवस्तदनु प्राप्नुयान्मण्टपावनिम् ।
प्रार्थयेत्सन्निधिं चाथ गरुडस्य ध्वजोदरे ॥ 400
अस्माद्दिनात्समारभ्य यावत्तीर्थदिनान्तिमम् ।
सन्निधिं कुरु पक्षीन्द्र राज्ञो जनपदस्य च ॥ 401
ग्रामस्य यजमानस्य वैष्णवानां विशेषतः ।
तुष्टये पुष्टये चैव सर्वशत्रुजयाय च ॥ 402
अपमृत्युजयार्थाय वैनतेय प्रसीद ओम् ।
इति विज्ञाप्य पक्षीन्द्रं विकिरेत्कुसुमाञ्जलिम् ॥ 403
सन्निधौ देवदेवस्य गत्वा पुष्पाञ्जलिं क्षिपेत् ।
ज्ञानतोऽज्ञानतो वापि यथोक्तं न कृतं मया ॥ 404
तत्सर्वं पूर्णमेवास्तु सुतृप्तो भव सर्वदा ।
ओमच्युत जगन्नाथ मन्त्रमूर्ते जनार्दन ॥ 405
रक्ष मां पुण्डरीकाक्ष क्षमस्वाज प्रसीद ओम् ।
इति विज्ञाप्य देवेशं यात्रामूर्तिगतं विभुम् ॥ 406
अन्यत्र मण्टपे नीत्वा विशेषार्चनपूर्वकम् ।
प्रभूतान्नं निवेद्याथ सर्वं हवनपश्चिमम् ॥ 407
कृत्वा यथाक्रमेणैव प्रासादं तु प्रवेशयेत् ।
कल्पयेद् ध्वजपीठोर्ध्वे चतुःस्तम्भान्वितां प्रपाम् ॥ 408
यद्वा स्तम्भाष्टकोपेतां षोडशस्तम्भसंयुताम् ।
चतुस्तोरणसंयुक्तां दर्भमालापरिष्कृताम् ॥ 409
भूषितां तु पताकाद्यैर्बाह्ये यवनिकान्विताम् ।
दीपान् प्रदीपयेत्तत्र अनिर्वाणान् समन्ततः ॥ 410
तद्वासरात्समारभ्य पुष्पयागदिनान्तिमम् ।
त्रिसन्ध्यमर्चनं कुर्यात्सविशेषं जपान्वितम् ॥ 411
बलिकाले बलिं दद्यादस्यापि प्रतिवासरम् ।
एवं ध्वजादिरोहान्तं दिवाकृत्यमुदीरितम् ॥ 412
इति यां महोत्सवध्वजारोहणान्तविधिर्नाम दशमोऽध्यायः