०९

नवमोऽध्यायः 9-द्वारावरणादि देवता लक्षणादि कथनम्

मुनयः ।
पुरा नित्योत्सवविधौ द्वारावरणवासिनाम् ।
देवानां पूजनं प्रोक्तं तेषां ध्यानादिकं क्रमात् ॥ 1 ॥
वदस्व मुनिशार्दूल ! सर्वशास्त्रविशारद! ।
नारदः ।
शृणुध्वं मुनयः सर्वे सावधानेन चेतसा ॥ 2 ॥
द्वरावरणदेवानां लक्षणं तु यथाविधि ।
प्रासादद्वारदेवेभ्यः सामारभ्य यथाक्रमम् ॥ 3 ॥
प्रासादद्वारबाह्ये तु ह्यधस्स्थौदुम्बरान्तिमे ।
वास्त्वीशक्षेत्रनाथौ द्वौ स्थितौ दक्षेतरक्रमात् ॥ 4 ॥
शुक्लवक्त्रः कृष्णदेहो द्विभुजो रत्नपात्रधृक् ।
दक्षिणेन करेणैव सर्वामरसमाश्रयः ॥ 5 ॥
पुण्डरीकसामानाभ वस्त्रस्रगनुलेपनः ।
गदोद्यतकरो विप्राः ! ध्यातव्यो वास्तुपूरुषः ॥

[[76]] क्षेत्रेशं द्विभुजं ध्यायेद्धेमाभवसनस्रजम् ।
नीलजीमूतसङ्काशं दण्डहस्तं महातनुम् ॥ 7 ॥
मुष्टिकृद्वामहस्तेन यागक्षेत्रस्य पालकम् ।
कुण्डलाद्यैरलङ्कारैरेतौ शोभितविग्रहौ ॥ 8 ॥
वीक्षमाणौ विभोर्वक्त्रं तेजसातीव निर्भरौ ।
तप्तकाञ्चनवर्णाभां प्रवालसदृशाम्म्बराम् ॥ 9 ॥
हारनूपुरकेयूरकरण्डमकुटादिकैः ।
अलड्कृतामलङ्कारैः पुण्डरीकनिभेक्षणाम् ॥ 10 ॥
अकलङ्कसुसम्पूर्णशरच्चन्द्रनिभाननाम् ।
पद्मकुम्भकरां लक्ष्मीं पद्मोपरि गतां स्मरेत् ॥ 11 ॥
पद्मासनेनोपविष्टां द्वारस्योर्ध्व उदुम्बरे ।
तरुणादित्यसङ्काशो महोरस्कश्चतुर्भुजः ॥ 12 ॥
उन्नतश्चोन्नतांसश्च पूर्णाङ्गो नातिमांसलः ।
तनूदरो निम्ननाभो रोमराजिविराजितः ॥ 13 ॥
दंष्ट्राकराळवदनः पिङ्गश्मश्रुजटाधरः ।
मधुपिङ्गळनेत्रश्च कुटिलभ्रूलतायुतः ॥ 14 ॥
प्रलम्बलोलश्रवणः पृथुघ्राणः स्मिताननः ।
कुण्डलालङ्कृतश्चैव हारकेयूरभूषितः ॥ 15 ॥
बद्धोष्णीषललाटश्च तिलकेनाप्यलङ्कृतः ।
शुक्लाम्बरधरः स्रग्वी भुजयुग्मेऽस्य दक्षिणे ॥ 16 ॥
प्रोद्यतं संस्मरेच्चक्रं प्रज्वलन्तीं गदाम्परे ।
श्रोणीतटनिषण्णां तु विश्रान्तां वसुधातले ॥ 17 ॥
पूर्ववामकरे शङ्खमन्यस्मिंश्चाक्षसूत्रकम् ।
एवं गणाधिपश्चण्डो विक्रमेणापराजितः ॥ 18 ॥
क्त्रुद्धो विघ्नायुतानां तु क्षणात्संहरणक्षमः ।
ध्येयो गर्भगृहद्वारशाखामूले तु दक्षिणे ॥ 19 ॥
तत्रैवापरभागे तु प्रचण्डं त्वीदृशं यजेत् ।
किं तु सव्यापसव्याभ्यां भुजाभ्यां स्याद्विपर्ययः ॥ 20
भुजद्वये यच्चण्डस्य वामे सम्परिकीर्तितम् ।
दक्षिणे तत्प्रचण्डस्य ध्येयं वा परिकल्प्य वा ॥ 21 ॥
ध्यायेद्द्वाराग्रदेशे तु गरुडं काञ्चनप्रभम् ।
कुटिलभ्रूसुवृत्ताक्षं पक्षमण्डलमण्डितम् ॥ 22 ॥
लम्बोदरं सुपीनाङ्गं सर्वभूषणभूषितम् ।
मकुटाद्यैरलङ्कारैर्नूपुराद्यैर्विराजितम् ॥ 23 ॥
नीलं वसानं वसनं नानामाल्योपशोभितम् ।
सम्मुखं देवदेवस्य भूगतं विधृताञ्जलिम् ॥ 24 ॥
द्विभुजं तुहिनाभं तु सत्याख्यं विहगाधिपम् ।
प्राणाधिदैवतं चक्रे बलिमण्डलमध्यगे ॥ 25 ॥
संस्थितं संस्मरेत्सर्वैरङ्गैः पूरुषरूपिणम् ।
प्रलम्बमानजठरं पक्षराजिविराजितम् ॥ 26 ॥
दक्षिणेन करेणैव धारयन्तं गणित्रकम् ।
उत्तानितेतरकरं कुण्डलाद्यैर्विभूषितम् ॥ 27॥

[[77]] नीलकौशेयवसनं नीलमाल्यानुलेपनम् ।
अनाकुलाभ्यां नेत्राभ्यां वीक्षमाणं सदा विभुम् ॥ 28 ॥
अथाग्रमण्टपद्वारशाखायुगळसंस्थित्तौ ।
पद्मगर्भप्रतीकाशावतिभीमपराक्रमौ ॥ 29 ॥
चण्डप्रचण्डसदृशौ भुजलाञ्छनभूषणैः ।
रक्ताम्बरधरौ चैव रक्तस्रगनुलेपनौ ॥ 30 ॥
गणौ धातृविधातारौ ध्यात्वा सम्पूज्य तत्परः ।
कुमुदादिगणेशानान् प्रथमावरणे यजेत् ॥ 31 ॥
पूर्वे च वह्निदिग्भागे पूज्यौ द्वौ गणनायकौ ।
कुमुदः कुमुदाक्षश्च प्रसन्नवदनेक्षणौ ॥ 32 ॥
तुहिनाचलसङ्काशौ प्रथमे वयसि स्थितौ ।
नानाभरणदिग्धाङ्गौ नानाकुण्डलभूषितौ ॥ 33 ॥
नानामाल्याञ्चितौ चैव नानामौलिधरौ द्विजाः ।
नानागन्धविलिप्ताङ्गौ नानावस्त्रविभूषितौ ॥ 34 ॥
कुमुदाख्यगणेशस्य ध्यातव्यो दक्षिणः करः ।
चन्द्ररश्मिप्रतीकाशचामरेण विराजितः ॥ 35 ॥
अभिगच्छदभयं ध्यायेद् द्वितीयं दक्षिणं करम् ।
भवभङ्गात्प्रपन्नानां परेषां गुणशासनम् ॥ 36 ॥
तस्यैवाद्यं वामकरं प्रबुद्धकमलोद्यतम् ।
तूष्णीं भीसूचकं ध्यायेद्वहिःस्थानां परं करम् ॥ 37 ॥
एतद्वै कुमुदाक्षस्य वैपरीत्येन भावयेत् ।
द्वाभ्यां द्वाभ्यां कराभ्यां वै अन्येषामेवमेव हि ॥ 38 ॥
पुण्डरीको वामनश्च द्वावेतौ हुतभुक्प्रभौ ।
गरुडध्वजहस्तौ च शेषमन्यत्पुरोदितम् ॥ 39 ॥
कृत्वा ध्यात्वाथ वा न्यस्य दक्षिणे नैरृतेऽपि च ।
शङ्कुकर्णाभिधानो यः सर्वनेत्राभिसञ्ज्ञितः ॥ 40 ॥
द्वावेतौ चम्पकाभौ तु मायूरव्यजनोद्यतौ ।
महाविभूतेर्देवस्य प्रत्यग्वायुदिगास्थितौ ॥ 41 ॥
सुमुखः सुप्रतिष्टश्च विभोः सोमेशदिक्स्थितौ ।
चिन्त्यौ मुद्गफलश्यामाबातपत्रकरोदितौ ॥ 42 ॥
नोक्तशेषकराणां तु ताद्विद्धि कुमुदोदितम् ।
एते भगवतो विप्रास्त्वन्तरङ्गा मयोदिताः ॥ 43 ॥
कर्मणा मनसा वाचा तद्भागवतमानसाः ।
ज्ञानादिषङ्गणोपेतैराकीर्णाः कोटिशः परैः ॥ 44 ॥
भूतैः सिद्धैरनन्तैश्च प्रार्थयानैः परं पदम् ।
वस्त्रभूषाङ्गरागाद्यैः सर्वे ते कुमुदोपमाः ॥ 45 ॥
श्वेतमृत्कल्पितेनैव ह्यूर्ध्वपुण्ड्रेण भूषिताः ।
ललाटस्थेन सर्वेऽपि कुमुदादिगणाधिपाः ॥ 46 ॥
एवमन्येपि भूताद्याः सर्वे पारिषदा द्विजाः ! ।
एवमावृतिदेवाश्च द्वारस्थाश्च तथैव हि ॥ 47 ॥
एवं तदीया विप्राश्च क्षत्रविट्छूद्रजातयः ।
मृदैव वा चन्दनेन कल्पितैरूर्ध्वपुण्ड्रकैः ॥ 48 ॥

[[78]] द्वादशैश्च चतुर्भिर्वा भूषिताः स्युः सदा द्विजाः ! ।
अथसीकुसुमश्यामौ पीतमाल्याम्बरान्वितौ ॥ 49 ॥
पीतोष्णीषधरौ रौद्रौ प्राग्वद्भुजविभूषितौ ।
गणौ चण्डाकृतिधरौ दुर्दर्शौ दुरतिक्रमौ ॥ 50 ॥
जयं च विजयं नाम्ना यजेत्तद्द्वारपार्श्वयोः ।
तदुद्देशात्समारभ्य बहिर्द्बारावसानकम् ॥ 51 ॥
द्वितीयावरणक्षेत्रं षोढा कृत्वा तु पञ्चमे ।
भागे तु गरुडं विप्राः कृत्वा ध्यात्वाऽथ वा न्यसेत् ॥ 52 ॥
दीप्यच्चामीकराकारं भीमभ्रुकुटिलोचनम् ।
पृथुदंष्ट्रं पृथुघ्राणं पृथुगात्रं पृथूदरम् ॥ 53 ॥
पक्षाङ्कुराञ्चितोरस्कं पक्षमण्डलमण्डितम् ।
हारकेयूरताटङ्कमकुटाद्यैस्तु भूषणैः ॥ 54 ॥
भूषितं नीलवसनं नानामाल्यविभूषितम् ।
नानागन्धविलिप्ताङ्ग नागैकादशभूषितम् ॥ 55 ॥
पुष्पस्तबकसम्पूर्णमञ्जलिं दधतं द्विजाः ! ।
उन्नम्य दक्षिणं जानुमासनीकृत्य चेतरत् ॥ 56 ॥
सुखासने समासीनं विभोराज्ञाप्रतीक्षकम् ।
तपःकर्मात्मतत्वानां दर्शकं सिद्धतां गतम् ॥ 57 ॥
भगवत्तुल्यसामर्थ्य सार्वज्ञ्यादिगुणैर्युतम् ।
वियुक्तं प्राकृताद् दुःखान्नियुक्तं चेश्वरेण तु ॥ 58 ॥
भवसन्तारकत्वेन ह्येतदावृतिके क्रमात् ।
उपेन्द्र्ः पूर्वदिग्भागे संस्थितो द्विजसत्तमाः ! ॥ 59 ॥
वह्नौ तेजोधराख्यस्तु दक्षिणे दुरतिक्रमः ।
नैरृते तु महाकर्मा पश्चिमे तु महाह्रदः ॥ 60 ॥
अग्राह्यो वायुदिग्भागे वसुरेतास्तथोत्तरे ।
पूर्वोत्तरे वर्धमानः साक्षी गगनगोचरः ॥ 61 ॥
आधारनिलयं नाम्ना सर्वस्याधोगतं स्मरेत् ।
एते स्फाटिकवर्णाभाः श्वेतमाल्याम्बरान्विताः ॥ 62 ॥
गणित्रकं रथाङ्ग च शङ्खं चैव गदां तथा ।
दधाना मुख्यदक्षादि मुख्यवामान्तमेव हि ॥ 63 ॥
करैश्चतुर्भिः सुसमा मकुटादिविभूषिताः ।
तेजसा विघ्नजालानि प्रेरयन्तो महौजसः ॥ 64 ॥
स्थानकैः संस्थिताः सर्वे ध्यानोन्मीलितलोचनाः ।
अथ वा द्विभुजा एते वज्राद्यं दशकं क्रमात् ॥ 65 ॥
दक्षिणे लोकपालीयं धारयन्तः करेण तु ।
गणित्रकं तु वामेन वरदाभयदास्तु वा ॥ 66 ॥
तथा वर्णाङ्गरागाद्यैरिन्द्रादिसदृशास्तु वा ।
द्वितीयगोपुरद्वारपार्श्वयोरन्तरस्थयोः ॥ 67 ॥
विन्यसेद्द्वारपालाख्यावेतौ वामादितो गणौ ।
निधीशौ शङ्खपद्मौ तु निधिभाण्डोपरि स्थितौ ॥ 68 ॥
स्थूलदन्तौ च दान्तौ च द्विभुजौ भगवन्मयौ ।
कुटिलभ्रूलतायुक्तौ किञ्चिदुन्नतवक्षसौ ॥ 69 ॥

[[79]] लम्बोदरौ सुपीनाङ्गौ ह्रस्वपाणिपदौ द्विजाः! ।
शङ्खपद्मसमानाभौ नीलशुक्लाम्बरस्रजौ ॥ 70 ॥
मकुटाद्यैस्तु विविधैरलङ्कारैरलङ्कृतौ ।
दक्षिणेन करेणैव धारयन्तौ सरोरुहम् ॥ 71 ॥
इतरेण करेणैव ह्युत्तानेन निधिं स्वकम् ।
अथ वा वामदक्षाभ्यां प्रवेशाभीतिदान्वितौ ॥ 72 ॥
करद्वयेन शङ्खं वा पद्मं वा दधतौ द्विजाः ! ।
वामेन दधतौ पद्मं दक्षं शङ्खं निधीश्वरौ ॥ 73 ॥
शङ्खपद्मधरौ वापि शिरसा मकुटोपरि ।
शङ्खचक्रधरौवापि साधकेच्छावशेन तु ॥ 74 ॥
तद्द्वार शाखानिष्टौ तु संस्मरेद्दक्षिणादितः. क्षीरकुन्दावदातौ च नीलकौशेयवाससौ। 75
नीलनीरजवर्णाभैः पुष्पैर्भूषितविग्रहौ।
पूर्वोक्तगणसादृश्यौ नाम्ना भद्रसुभद्रकौ। 76
तद्द्वारबाह्यतः पश्चात्पार्श्वयोर्गोपुरस्थितौ।
एतौ गणेश्वरौ न्यस्येद् ध्यात्वा वा परिकल्प्य वा ॥ 77
अथ वा द्विभुजावेतौ तदा भद्रस्य दक्षिणम् ।
करं तु तर्जनीयुक्तं वाममीषत्तु कुञ्चितम् ॥ 78 ॥
गदाग्रोपरि विश्रान्तं गदामूलोपरि स्थितम् ।
व्यत्यस्तं दक्षिणं पादं वामं तु भुवि संस्थितम् ॥ 79
भद्रस्य वामयोर्विप्रा यदुक्तं पाणिपादयोः ।
दक्षयोस्तत्सुभद्रस्य दक्षोक्तं वामकं भवेत् ॥ 80 ॥
किं तु तद्वामहस्तं तु युक्तं विस्मयमुद्रया ।
यद्वा भद्रो दक्षकरेऽभीतिमुद्रासमन्वितः ॥ 81 ॥
गदोपरिष्टाद्विश्रान्तवामहस्तो द्विजोत्तमाः ! ।
पश्चात्करद्वयेनापि चक्रशङ्खधरः क्रमात् ॥ 82 ॥
सुभद्रस्तु गदान्यस्तदक्षहस्तस्तथेतरे ।
अभीतिमुद्रासंयुक्तश्वक्त्रशङ्खसमन्वितः ॥ 83 ॥
चण्डादिष्वप्येवमेव द्विभुजत्वादिकं भवेत् ।
चण्डप्रचण्डौ धाता च विधाता च जयस्तथा ॥ 84
विजयश्चापि भद्रश्च सुभद्रश्च गणेश्वरः ।
एते गणेश्वरा ह्यष्टौ प्रभा पुष्पाम्बरैर्विना ॥ 85 ॥
देहवक्त्राकृतैस्तुल्यास्तथैवाभरणायुधैः ।
भक्तानां विघ्नजालस्य सर्वदिक्संस्थितस्य च ॥ 86 ॥
संसारफलदातुर्वै छेदनार्थं समुद्यताः ।
परस्परमुखाः सर्वे स्थानकैः संस्थिताः समैः ॥ 87 ॥
गणेशायुतलक्षैस्तु नानावर्णवपुर्धरैः ।
अच्युताराधनपरैरनेकैः परिवारिताः ॥ 88 ॥
तृतीयावरणे पश्चात्पूर्वादिक्रमयोगतः ।
इन्द्रादिलोकपालानां दशकं विन्यसेद्द्विजाः ! ॥ 89 ॥
शतधामनिभं ध्यायेच्चतुर्वाहुं पुरन्दरम् ।
महितद्विपसंस्थं तु सुतीक्ष्णकुलिषोद्यतम् ॥ 90 ॥

[[80]] अजारूढं स्मरेद्रक्तं शक्तिपाणिं हुताशनम् ।
सहस्रार्चिभिराकीर्णं सहस्रादित्यभासुरम् ॥ 91 ॥
महामहिषसंस्थं तं त्वञ्जनाद्रिसमप्रभम् ।
सभीमदण्डहस्तं च स्मरेद्देवं पित्रीश्वरम् ॥ 92 ॥
दंष्ट्राकराळवदनं कृष्णमेघसमप्रभम् ।
घोरं प्रेतासनं ध्यायेत् खड्गधृग्राक्षसेश्वरम् ॥ 93 ॥
मुक्ताफलद्युतिसमं भीमं पाशकरोद्यतम् ।
नागकन्यासहस्राड्यं मकरस्थमपां पतिम् ॥ 94 ॥
नीलतोयदसङ्काशं महाध्वजपटाङ्कितम् ।
ध्यायेत्समीरणं देवं संस्थितं हरिणोपरि ॥ 95 ॥
सोमं तारागणोपेतं शंस्वगोक्षीरपाण्डुरम् ।
वृहच्छषकपृष्टस्थं शिशिरास्त्रकरं स्मरेत् ॥ 96 ॥
सितभूतिविलिप्ताङ्ग त्रिनेत्रं वृषवाहनम् ।
त्रिशूलायुधहस्तं च त्वीशानं ज्ञानिनं स्मरेत् ॥ 97
पाताळदिग्गतं ध्यायेत् कूर्मारूढं हलायुधम् ।
सितं सहस्रफणभृद्योनन्तो नाम नागराट् ॥ 98 ॥
भचक्रं भ्रामयन्तं तु दण्डहस्तं प्रजापतिम् ।
हंसारूढं खसंस्थं तु ध्यायेद् ध्रुवमजं विभुम् ॥99 ॥
एते चतुर्भुजाः सर्वे अक्षसूत्रविभूषिताः ।
चिन्तयन्तः परं तत्त्वं वराभयकरोद्यताः ॥ 100 ॥
दिव्याभरणदिग्धाङ्गा दिव्यमाल्याम्भरान्विताः ।
दिव्यरूपधराश्चैव दिव्यगन्धवहा द्विजाः ! ॥ 101 ॥
रक्तशुक्लनिशापीतनीलचम्पकसप्रभैः ।
व्योमस्फटिकमार्ताण्डराजोपलनिभैस्तथा ॥ 102 ॥
माल्याङ्गरागवसनैः महार्घैः समलङ्कृताः ।
भूषिता भूषणैश्चित्रैः करण्डमकुटादिभिः ॥ 103 ॥
एभ्यश्चतुर्मुजस्त्वत्र विज्ञेयो वृषभध्वजः ।
द्विभुजास्त्वथ वा चान्ये वरदाभयदास्तु वा ॥ 104 ॥
इति लोकेश्वरेषूक्तं ततो वै द्विजसत्तमाः ! ।
तृतीयावरणद्वारे शाखामूले तु दक्षिणे ॥ 105 ॥
सुदर्शनं चतुर्हस्तं ह्रस्वकायं ज्वलत्प्रभम् ।
क्रोधरक्तेक्षणं दैत्यदानवासृग्विलेपनम् ॥ 106 ॥
नृत्यन्तं मदमत्तं च सहस्रारान्तरस्थितम् ।
दंष्ट्राकराळवदनं कुटिलभ्रूलतायुतम् ॥ 107 ॥
कल्पान्तपावकाकारं स्वरश्मिपरिवेष्टतम् ।
दक्षिणे भुजयुग्मे तु पूर्वेण च सुदर्शनम् ॥ 108 ॥
धारयन्तं ततोऽन्येन विश्रान्तां भूतले गदाम् ।
शङ्खं मुख्येन वामेन ह्यपरेण गणित्रकम् ॥ 109 ॥
हारकेयूरताटङ्कमकुटादिविभूषणैः ।
विभूषितं विचित्रैस्तु श्वेतमाल्याम्बरादिकैः ॥ 110 ॥
विघ्नानुत्पाटयन्तं तु दीप्तेन स्वेन तेजसा ।
संस्मरेत्तु ततोऽन्यस्मिन् शाखामूले ततो द्विजाः ! ॥ 111

[[81]] सुस्थितं गरुडं विप्राः तप्तकाञ्चनसन्निभम् ।
सैम्यवक्त्रं विवृत्ताक्षं रक्ततुण्डंसुभीषणम् ॥ 112 ॥
पृथूदरं दीर्घपुच्छं पक्षमण्डलमण्डितम् ।
रक्ताम्बरधरं चैव रक्तस्रगनुलेपनम् ॥ 113 ॥
दंष्ट्राकराळवदनं भ्रुकुटीकुटिलेक्षणम् ।
विचित्रकञ्चुकधरं भुजगेन्द्रैरलङ्कृम् ॥ 114 ॥
मकुटाद्यैरलङ्कारैर्विविधैस्तु विभूषितम् ।
भुजद्वये यच्चक्त्रस्य वामे सम्परिकीर्तितम् ॥ 115 ॥
दक्षिणे तद्भवेदस्य दक्षोक्तं वामकं भवेत् ।
बज्रं शक्तिस्तथा दण्डः खड्गाः पाशो ध्वजस्तथा ॥116 ॥
शिशिराख्यं त्रिशूलं तु लाङ्गलं मुसलं तथा ।
पूर्वादिक्रमयोगेन चतुर्थावरणे स्थिताः ॥ 117 ॥
एतेषां क्रमशो ध्यानं साम्प्रतं कथ्यते द्विजाः ! ।
वज्रं वज्रोपलाभं तु सितदीर्घनखाङ्कितम् ॥ 118 ॥
दंष्ट्राकराळवदनं ज्वलत्कनकलोचनम् ।
सौदामिनीप्रभां शक्तिं शान्ताग्निवदनेक्षणाम् ॥ 119
धनघर्घरनिर्घोषमुद्गिरन्तीम् मुहुर्मुहुः ।
बद्धमुष्टिं स्मरेद्दण्डं रक्ताङ्गं रक्तलोचनम् ॥ 120 ॥
अक्षसूत्रधरं वाथ प्रपन्नानां प्रवेशकृत् ।
क्रोधमूर्तं स्वदशनैर्दर्शयन्तमधरं स्वकम् ।
स्वरश्मिखचितं ध्यायेन्नृत्यभागं तु नन्दकम् । 121 ।
शरदाकाशसङ्काशं दशन्तं दशनावळिम् ।
पाशं गुणगणाकीर्णं विद्युज्जिह्वं भयानकम् । 122 ।
हेमाळिपाण्डराभं तु घोरास्यं रक्तलोचनम् ।
शरज्जलदसङ्काशं ध्वजं कुटिललोचनम् । 123 ।
स्वतेजसा जगत्सर्वं द्योतयन्तं बलोत्कटम् ।
शिशिरं शीतधामाभं पीनाङ्गं पृथुविग्रहम् । 124 ।
जटाकलापधृत्सौम्यं पुण्डरीकनिभेक्षणम् ।
उदयार्कसहस्राभं त्रिशूलं भीषणाकृतिम् । 125 ।
कल्पान्तपावकाकारं स्वरश्मिपरिवेष्टितम् ।
सन्ध्याजलदसङ्काशं लाङ्गलं भीमलोचनम् । 126 ।
क्षामाङ्गमुन्नतांसं तु वज्रकायं बलोत्कटम् ।
कुन्दावदातं मुसलं सौम्यमीषत्स्मिताननम् । 127 ।
रवं रवन्तं मधुरं श्रोत्रेन्द्रियसुखावहम् ।
नीलरक्तसितापीत पावकाञ्जनसन्निभैः । 128 ।
हेमचन्द्रहिमाकाशसमानाभैः क्रमेण तु ।
माल्याङ्गरागवसनैरुचितैः समलङ्कृताः । 129 ।
दिव्यैराभरणैर्युक्ताः स्वचिह्नाङ्कितमस्तकाः ।
तर्जयन्तश्च दुष्टौघं दक्षिणेनकरेण तु । 130 ।
वामेन कटिमालम्ब्य सुसमे स्थानके स्थिताः ।
चतुर्थावरणद्वार दक्षिणोत्तरशाखयोः । 131 ।
गङ्गां च यमुनां चैव ध्यात्वा सम्पूजयेत्क्रमात् ।

[[82]] भगवत्पादसम्भूतां गङ्गां कुमुदसन्निभाम् । 132 ।
नवयौवनलावण्य सौकुमार्य गणैर्वृताम् ।
नीलाङ्गरागवसनां नीलमाल्यैरलङ्कृताम् । 133 ।
द्विभुजां सौम्यवदनां पुण्डरीकनिभेक्षणाम् ।
हारनूपुरकेयूर कुण्डलाद्युपशोभिताम् । 134 ।
संसारतापसन्तप्तानारुरुक्षान् परम्पदम् ।
वासनाकर्मपङ्कानि क्षाळयन्ती स्वतेजसा । 135 ।
वहन्ती दक्षिणेनैव कलशं वारिपूरितम् ।
वामेनतर्जयन्तीं तु करेण प्राकृतान् जनान् । 136 ।
यमुनां नीलरत्नाभां नीलकुञ्चितमूर्धजाम् ।
सिताङ्गरागवसनां सितमाल्योपशोभिताम् । 137 ।
दक्षिणे तर्जनी मुद्रा वामे तु कलशः स्मृतः ।
अन्यत्सर्वं तु गङ्गोक्तमत्रापि स्यान्मुनीश्वराः । 138 ।
लोहिताक्षा महावीर्यस्त्वप्रमेयः सुशोभनः ।
वीरहा विक्रमो भीमः शतावर्तस्तु चाष्टमः । 139 ।
ऐश्वरी दिक्क्रमेणैव पञ्चमावरणे स्थिताः ।
ध्यायेच्चन्द्रप्रतीकाशं लोहिताक्षं बलोत्कटम् । 140 ।
नीलाम्बरधरं नीलमाल्यं नीलानुलेपनम् ।
महावीर्यं महाकायं पीतवर्णं महाभुजम् । 141 ।
प्रवाळाभाम्बरधरं रक्तस्रगनुलेपनम् ।
संस्मरेदप्रमेयाख्य मप्रमेयबलोत्कटम् । 142 ।
हरिताकृतिमापीत वसनस्रग्विलेपनम् ।
सुशोभनं शोभनाङ्गं मुक्ताफलनिभं स्मरेत् । 143 ।
अतसीपुष्पसङ्काश वासोमाल्यानुलेपनम् ।
वीरघ्नं वीरहाख्यं च ध्यायेच्चम्पकसन्निभम् । 144 ।
बाह्लीकारञ्जितारक्त वसनस्रग्विमण्डितम् ।
विक्रमं विक्रमावासं चाषोदरनिभं स्मरेत् । 145 ।
कुन्देन्दुकान्ति वसनं सितमाल्यानुलेपनम् ।
भीमं भीमाकृतिं ध्यायेत्तप्तकाञ्चन सन्निभम् । 146 ।
पाण्डरारुणकौशेयं तद्वद्गन्धस्रगन्वितम् ।
अतसीकुसुमश्यामं शतावर्तं तु भावयेत् । 147 ।
पीताम्बरधरं पीतमाल्यगन्धविभूषितम् ।
भुजद्वयान्विता ह्येते चान्तर्मुदितमात्मनः । 148 ।
दक्षिणैः पाणिभिः सर्वे ज्वलन्तं परशुं तथा ।
वामैः शङ्खवरं दीप्तं दधानाश्चारुकुण्डलाः । 149 ।
समाः समविभक्ताङ्गाः प्रशान्ताकृतयस्तथा ।
स्थानकैः संस्थिताः सर्वे सप्रभाभिर्विराजिताः । 150 ।
प्रसन्नवदनाः सौम्याः त्रैलोक्योद्धरणक्षमाः ।
हारनूपुरकेयूरपूर्वभूषा विभूषिताः । 151 ।
तदाज्ञाप्रेक्षकाश्चैव दुष्टदोषोपशान्तिदाः ।
बलेन महता क्षिप्तदेवासुरमहोरगाः । 152 ।
एकवीराऽसहायाश्च त्वत्प्रयत्नेन लीलया ।

[[83]] आब्रह्मभवनं शश्वत्परिवर्तयितुं क्षमाः । 153 ।
एतदावरणद्वारचतुष्के द्वारदेवताः ।
न्यस्येद्युग्मप्रयोगेण पूर्वद्वारादितः क्रमात् । 154
वज्रनाभं हरीशं च पूर्वस्यां दक्षिणोत्तरे ।
ध्यायेत्तु वज्रनाभाख्यं शतधामसमप्रभम् । 155 ।
मुख्यदक्षिणहस्तेन निषेधाभिनयान्वितम् ।
वेत्रलतां द्वितीयेन चक्रराजं तृतीयतः । 156 ।
मुख्यवामकरेणैव श्रोणीतटकृतार्पणम् ।
शङ्खराजं द्वितीयेन तथा वज्रं तृतीयतः । 157 ।
धारयन्तं तथा रुक्मभूषणैर्विविधैरपि ।
रक्तमाल्याम्बरधरं रक्तस्रगनुलेपनम् । 158 ।
एवं वामे हरीशं च निषेधाभिनयोज्झितम् ।
प्रवेशाभिनयाख्येन पाणिना किं तु चिह्नितम् । 159 ।
एको ह्यत्र निषेधं च त्वभक्तानां करोति वै ।
भक्तानामपरश्चैव प्रवेशं सम्प्रयच्छति । 160 ।
द्वारे द्वारे प्रतीहारद्वयस्यैवं प्रयोजनम् ।
दक्षोक्तं वज्रनाभस्य तद्वारीशस्य वामगम् । 161 ।
आद्यवामगतं सर्वमन्यदक्षिणपाणिगम् ।
धर्माध्यक्षनियन्त्रीशौ दक्षिणे दक्षिणोत्तरे । 162 ।
कुर्यादन्तक सादृश्यौ पूर्ववद्भुजभूषितौ ।
पीतकौशेयवसनौ पीतमाल्यविलोपनौ । 163 ।
किं तु दण्डगदाहस्तौ वज्रचक्र विवर्जितौ ।
शुद्धाक्षममृतानन्दं प्रतीच्यां दक्षिणादितः । 164 ।
बाणकार्मुकमेकस्मिन् पाणौ पाशमथापरे ।
आद्यं करचतुष्कं यत्तद्व्यग्रं पूर्ववद्भवेत् । 165 ।
आकृतौ जलनाथस्य सदृशौ सर्वदैव हि ।
नीलकौशेयवसनौ नीलस्रगनुलेपनौ । 166
वसुनाथं सुधानन्दमुदग्दिग्दक्षिणोत्तरे ।
खड्गमुद्गर हस्तौ च प्राग्वच्छेषं चतुष्टयम् । 167 ।
कराणामनयोः कार्यं रूपेणोडुपतेः समौ ।
अतसीकुसुमश्याम कौशेयस्रग्विलेपनौ । 168 ।
भूषणैर्भूषिता ह्येते विविधैर्वज्रनाभवत् ।
षष्ठावरणदेवानां तद्वार्स्थानां विशेषतः । 169 ।
शृणुध्वं ध्यानमधुना तत्वत्तो मुनिपुङ्गवाः ! ।
पूर्वादीशानपर्यन्तं षष्टावरणसंस्थिताः । 170 ।
एताश्च देवताविप्रास्तेजोरूपसमन्विताः ।
कालेपि यन्नियन्ता च शास्त्रं नानाङ्गलक्षणम् । 171 ।
विद्याधिपतयश्चैव सरुद्रः सगणः शिवः ।
प्रजापतिसमूहस्तु इन्द्रः सपरिवारकः172 ।
मुख्ये द्वारचतुष्के तु पूर्ववत्संस्थिताः क्रमात् ।
चक्रशङ्खौ पद्मगदे लाङ्गलं मुसलं शराः । 173 ।
शार्ङ्गं चैते क्रमाद्ध्येया विद्युत्तुहिनकुन्दभाः ।

[[84]] पीतनीलसितारक्त सितगोक्षीरसन्निभैः । 174 ।
हरितालारुणाभैस्तु वस्त्रमाल्यानुलेपनैः ।
सर्वरत्नमयैर्युक्तैर्भूषणैरप्यलङ्कृताः । 175 ।
महाबला महावीर्यास्त्वेकवक्त्रा द्विबाहवः ।
एते तु नायकाः सर्वे स्वचिह्नाङ्कितमस्तकाः । 176 ।
दुष्टौघं तर्जयन्तश्च दक्षिणेन करेण तु ।
कटिमालम्ब्य वामेन स्थानकैः सुसमैः स्थिताः । 177
दृढव्रतो बहुशिरा महाकायो महाबलः ।
जितक्रोधो दुराधर्षो महोत्साहस्त्रिविक्रमः । 178 ।
अतुलो दुष्टहार्चिष्मान् सर्वदृग्दुरतिक्रमः ।
विषमो गहनोऽमोघष्षोडशोपप्रवेशदाः । 179 ।
शक्राग्निमध्यमारभ्य शक्रेशानान्तरावधि ।
शुक्लशोणसुवर्णाळि पिङ्गरक्त सितासिताः । 180 ।
रक्तपीतातसीहेम शोणशुभ्रसितासिताः ।
वर्णानुरूपसद्वस्त्र माल्यालेपनभूषणाः । 181 ।
नामानुरूपचारित्राः शङ्खमुद्गरधारिणः ।
सव्येतरक्रमेणैव प्रवेशक निषेधकाः । 182 ।
क्षणादुभुवनसंहारसृष्टिस्थितिकृतक्षमाः ।
उक्तानेतान् क्रमेणैव पूर्ववत्सम्प्रपूजयेत् । 183 ।
मुनयः सप्त पूर्वेन्ये गृहास्तारादिकैर्वृताः ।
जीमूताश्चाखिला नागास्त्वप्सरोगण उत्तमः । 184 ।
औषध्यश्चैव पशवो यज्ञाः साङ्गाखिलास्तु ये ।
सूक्ष्मरूपेण तिष्टन्ति पूर्ववत्सप्तमावृतौ । 185 ।
सम्भवाः प्रभवाश्चैव पूर्णः पुष्कर एव च ।
आनन्दो नन्दनश्चैव वीरसेनः सुषेणकः । 186 ।
तन्मुख्यद्वारशाखास्थौ द्वौ द्वौ दक्षिणवामयोः ।
सम्भवः श्वेतवर्णस्तु प्रभवः कुन्दसन्निभः । 187 ।
पूर्णस्तु रक्तवर्णाभस्त्वतिरिक्तस्तु पुष्करः ।
आनन्दः पीतवर्णस्तु हेमाभो नन्द उच्यते । 188 ।
कृष्णाभो वीरसेनस्तु सुषेणाऽञ्जनसन्निभः ।
मकुटाङ्गदचित्राङ्गा गदाहस्ता द्विबाहवः । 189 ।
चतुर्भुजा वा विप्रेन्द्राः ! शङ्खचक्रगदाधराः ।
पूर्ववत्पाणिनान्येन प्रवेशकनिषेधकाः । 190 ।
दंष्ट्राकराळवदना निग्रहानुग्रहक्षमाः ।
क्षेमकृच्छिवकृत्प्राज्ञः होमकृद्भूतभावनः । 191 ।
युगान्ताग्न्यशनश्चैव संवर्तो भीषणस्तथा ।
सङ्क्रन्दनश्चानिमिषः शतपर्वा शताननः । 192 ।
औदुम्बरः प्रकृतिको विरामांश्चांशुमाल्यपि ।
औपदौवारिकं त्वेतद्गणषोडशकं क्रमात् । 193 ।
दृडव्रतादिसदृशं वर्णतः षड्भुजान्वितम् ।
वामदक्षिणयोगेन पृष्टतः पूर्वपश्चिमम् । 194
शङ्खमुद्गरपद्माक्षवराभयसमन्वितम् ।

[[85]] नानावर्णस्रगुष्णीष वस्त्रालेपन भूषणम् । 195 ।
प्रागुक्तगुणशौर्याड्यं सर्वकर्मकृतिक्षमम् ।
तच्छोभाष्टकरक्षार्थं शतगन्युर्विरोचनः । 196 ।
अप्रतर्ख्यस्त्वनुल्लङ्घ्य स्त्वप्रमेयाभिधानकः ।
अमर्षी च महाभूतश्चकोराक्षस्तथाऽष्टमः । 197 ।
इन्द्राग्निमध्योपद्वारपार्श्व शोभास्वनुक्रमात् ।
एकैकशः स्थिताः शूराः प्रवेशकनिषेधकाः । 198 ।
नीलपीतजपाश्यामसितहिङ्गुलकेन्दुभाः ।
महाबला महाविर्याः सुदुर्लङ्घ्यपराक्रमाः । 199 ।
नानाविधाम्बरस्रग्भि र्भूषणैरनुलेपनैः ।
अन्यैरनुपदिष्टैश्च यथाशोभमलङ्कृताः । 200 ।
षाड्गुण्यमहिमायुक्ताश्चतुर्हस्ताः क्रमेण तु ।
पृष्टदक्षिणवामाभ्यां चक्रशङ्खसमन्विताः । 201 ।
गदाग्रोपरिविश्रान्तमुख्यहस्तद्वयान्विताः ।
द्वारोपद्वारशोभेशानेतान् सम्पूजयेत्क्रमात् । 202 ।
विद्या चैवाऽपराविद्या पावकश्चैव मारुतः ।
चन्द्रार्कौ वारिवसुधे ह्येताः संसारदेवताः । 203 ।
सूक्ष्मरूपेण तिष्टन्ति बाह्यावरणभूतले ।
अमरेशो विरूपाक्षः सुधर्मिष्ठो विनायकः । 204 ।
सर्वसत्वाश्रयश्चेति गहनस्तदनन्तरम् ।
महाराजेश्वरश्चापि धनाध्यक्षेश्वरस्तथा । 205 ।
एते गणेश्वरास्त्वष्टौ तन्मुख्यद्वारपालकाः ।
ध्येयाश्चतुर्भुजाः सर्वे मुख्यपाणिद्वयेन तु । 206 ।
अमरेश विरूपाक्षौ वज्रवेत्रलताकरौ ।
पृष्ठाभ्यां तु पाणिभ्यां चक्रशङ्खसमुज्वलौ । 207
कुङ्कुमाञ्जनसङ्काशौ दंष्ट्रया विकृताननौ ।
दक्षिणोत्तरयोगेन लाञ्छनव्यत्ययान्वितौ । 208 ।
द्वारदक्षिणवामस्थौ प्रवेशकनिषेधकौ ।
सुधर्मिष्ठो नियन्ता च वज्रायुधविवर्जितौ । 209 ।
सुभीमदण्डहस्तौ च वज्रायुधविवर्जितौ ।
यथाक्रमोदितानन्यान् धारयन्तौ यथाविधि । 210 ।
सर्वसत्वाश्रयश्चातिगहनः श्यामलः सितः ।
किं तु पाशकरोवेतौ पूर्ववद्भुजभूषितौ । 211 ।
महाराजेश्वरो रक्तो धनाध्यक्षेश्वरोऽसितः ।
शिशिरायुधसंयुक्तौ त्रिकमन्यद्यथा पुरा । 212 ।
महाबला महावीर्या दुष्टदोषक्षयङ्कराः ।
दुर्निरीक्षाश्च दुर्धर्षा दैत्यदानव हिंसकाः । 213 ।
नाना महार्घवासोभिः भूषालेपैरलङ्कृताः ।
महर्षभं प्रभूतं च गम्भीरं प्राणगोचरम् । 214 ।
योगाङ्गं योगनिलयं सनातनमशृङ्खलम् ।
तारकान्तरितं तारं विरामं विषमं तथा । 215 ।
दुरतिक्रमं दुर्ग्रहं च सुधूम्रमनिलाशनम् ।

[[86]] तत्सालकोपद्वारेषु विन्यसेत्त्पूर्ववर्त्मना । 216
उक्तोपद्वारपालानां वर्णतः सममुज्वलम् ।
गणषोडशकं त्वेतच्चतुष्पाणिसमन्वितम् । 217
गौणवामकराद्यं तु मुख्यवामकरावधि ।
शङ्खपट्टसहस्तं च निषेधाभिनयाङ्कितम् । 218 ।
प्रवेशाभिनयाङ्कं च नानावर्णाम्बरस्रजम् ।
नानास्थानकसंयुक्तं नानाभूषणभूषितम् । 219 ।
अक्षसूत्रधरं वाथ प्रपन्नानां प्रवेशकृत् ।
निषेधकृत्तथान्येषां न्यस्तव्यं मुनिसत्तमाः ! ॥ 220 ॥
देवव्रतं निरातङ्कं भीष्मं च पुरुषं तथा ।
उग्रं वीरेश्वरं रम्यमरिष्ठं मुनिसत्तमाः ! ॥ 221 ॥
निर्विषण्णं युगान्तांशं शतानन्दं शताननम् ।
तेजोधरं विशालाक्षं युगांशं देवनन्दनम् ॥ 222 ॥
एतद्विरष्टशोभासु गणमेकैकशो न्यसेत् ।
उपद्वारेशसदृशं बर्णतो लाञ्छनैर्विना ॥ 223 ॥
चतुर्भिः पाणिभिश्चैव पृष्टदक्षिणपूर्वकम् ।
मुख्यदक्षिणहस्तान्तं शङ्खचक्रगदाधरम् ॥ 224 ॥
निषेधकृच्च पापानामपापानां प्रवेशकृत् ।
नानास्त्रगम्बरोष्णीषभूषालेषाद्यलङ्कृताः ॥ 225 ॥
अनन्ताचिन्त्यविभवाः सर्वभूतसमाश्रयाः ।
नानाशस्त्रास्त्रकुशलाः नानाज्ञानसमन्विताः ॥ 226 ॥
निरस्तानेकदैत्येशाः साधूनां पालनोद्यताः ।
द्वारद्वयान्विते साले मुख्यद्वारगतावुभौ ॥ 227 ॥
तिष्टतः सूक्ष्मरूपेण तदन्यद्वारपार्श्वयोः ।
प्राकारसर्वकोणेषु वाह्निकोणादितो न्यसेत् ॥ 228 ॥
प्रभवाप्ययरूपाणां मूर्तिनां चतुरात्मनाम् ।
तथा मूर्त्यन्तराणां च तत्कान्तानामनुक्रमात् ॥ 229
मन्त्राणामस्त्रसङ्घादि तेषां रूपमनुस्मरन् ।
चतुर्णामपि कोणानामव्यक्तं भवनाद्बहिः ॥ 230 ॥
संयजेद्भवनाम्ना वै यस्मान्नान्यो भवः स्मृतः ।
तेषां बहिः स्वमन्त्रेण दिक् क्रमेण तु हेतिराट् ॥231
स्वमरीचिगणेनैव भासयन्तं निवेश्य च ।
न्यस्यैवमर्चनं कुर्यान्मन्त्रमुद्रान्वितेन तु ॥ 232 ॥
निरीक्षणादिशुद्धेन अर्ध्यस्रक् चन्दनादिना ।
वासुदेवाभिधानस्तु देवः षाड्गुण्यविग्रहः ॥ 233 ॥
कर्मिणामुपकारार्थं प्रासादं स्थूलविग्रहम् ।
सर्वज्ञानक्रियाड्यं च सर्वतत्वसमाश्रयम् ॥ 234 ॥
समासाद्यानुगृह्नाति सदार्चान्तर्गतः पुभुः ।
तस्मात्तदङ्गभूतेषु प्राकारेष्वष्टसु क्रमात् ॥ 235 ॥
पृथ्व्यादिवुद्धिनिष्टन्तु बाह्यतत्वाष्टकं न्यसेत् ।
प्रासादश्चाङ्गसंयुक्तः प्रकृतिस्त्रिगुणात्मिका ॥ 236 ॥
तद्गता प्रतिमा जीवस्तद्ग्तः परमः पुमान् ।

[[87]] अतोऽधिदैवतान्यत्र तत्वान्येतान्यनुक्रमात् ॥ 237 ॥
सर्वत्र व्यापकत्वेन ध्यात्वा सम्पूजयेत्ततः ।
सर्वाधारमयेणैव सर्वसत्वाश्रयेण च ॥ 238 ॥
सर्वदोषविषघ्नेन कालचक्राम्बुजेन तु ।
सम्पुटीकृत्य भवनं सप्राकारमथोर्ध्वतः ॥ 239 ॥
सम्पूज्य हार्दयीं मुद्रां चक्रमुद्रासमन्विताम् ।
प्रदर्श्य सर्वतो दिक्षु कवचेनावकुण्ठयेत् ॥ 240 ॥
एकमूर्तिविधाने च तथैकद्वारभूषिते ।
भवनेऽयं विधानस्याद्दिग्व्यूहपरिनिष्ठिते ॥ 241 ॥
चतुर्द्वारान्विते गेहे दिग्द्वाराग्रस्थमण्टपे ।
सर्वतोभद्रसाले च अघनिर्मॊचनेपि च ॥ 242 ॥
सदध्वदेशधर्माख्ये द्वारद्विद्वितयान्विते ।
द्बारपालगणन्यासे विशेषोऽयं प्रकाश्यते ॥ 243 ॥
चण्डाद्याश्च सुभद्रान्ताः प्रासाद्द्वाश्चतुष्टये ।
न्यसनीयाः क्रमेणैव पूर्वबद् द्वन्द्वयोगतः ॥ 244 ॥
द्वारोर्ध्वोदुम्बरद्वन्द्वद्वितयस्था यथाक्रमम् ।
लक्ष्मीः कीर्तिर्जया माया देव्यः प्रागुक्तलक्षणाः ॥ 245
सत्यः सुपर्णो गरुडस्तार्क्ष्यस्त्वग्रेषु संस्थिताः ।
अनिवर्ती महावृत्तिर्दर्पहा सर्वजित् स्थिरः ॥ 246 ॥
जयन्तो भयकृन्मानी त्वष्टमो द्विजसत्तमाः ! ।
दिगग्रमण्डपद्वारशाखापार्श्वं समास्थिताः ॥ 247 ॥
अनिवर्ती महावृत्तिः कृष्णाभः शुकसन्निभः ।
दर्पहा सर्वजिच्चैव पाण्डुरक्तसुवर्णभौ ॥ 248 ॥
स्थिरो जयन्तः सततं श्यामाञ्जनसमद्युती ।
भयकृच्चैव मानी च पिङ्गळः पाण्डुरोज्वलः ॥ 249 ॥
द्विभुजाः सर्व एवैते दक्षिणेन करेण तु ।
नन्दकं शङ्खमन्येन दधानाः क्रूरविक्रमाः ॥ 250 ॥
यदा चतुर्भुजा ध्येयास्तदा चैते गणेश्वराः ।
मुख्यदक्षिणहस्तेन खड्गवेत्र(लता)करान्विताः ॥ 251 तथा वामकरे शङ्खं पृष्टगे दक्षिणादितः ।
पाणिद्वये चक्रपद्मे बिभ्रतो ज्वलनप्रभाः ॥ 252 ॥
नानावस्त्रस्रगुष्णीषभूषणालेपनान्विताः ।
व्यात्यस्तहस्तचरणा लाञ्छनव्यत्ययान्विताः ॥ 253
ऊर्जितश्चामृताङ्गस्तु सर्वाङ्गः सर्वतोमुखः ।
शुभ्राङ्गो वरदश्चैव वागीशः शब्दविक्रमः ॥ 254 ॥
पाञ्चजन्यविशेषा हि द्वौ द्वौ चैव क्त्रमात् स्थितौ ।
सर्वतोभद्रसालस्थ चतुर्द्वारेषु पूर्ववत् ॥ 255 ॥
द्विबाहवस्तु संस्मर्याः दक्षिणेन करेण तु ।
गृहीतमुसलाः सर्वे शङ्खमन्येन पाणिना ॥ 256 ॥
दधानाश्चैव चत्वारः पूर्वे बन्धूकसन्निभाः ।
अन्ये परभृताभास्तु सर्वभूषणभूषिताः ॥ 257 ॥
बलेन महता क्षिप्तदेवासुरमहोरगाः ।
एकवीराऽसहायाश्च अप्रयत्नेन लीलया ॥ 258 ॥

[[88]] आब्रह्मभवनं शश्वत्परिवर्तयितुं क्षमाः ।
विश्वेशो विश्वकृद्विश्वो विश्वात्मा विश्वलोचनः ॥ 259
विश्वपादो विश्वभुजस्तथा वै विश्वकर्मकृत् ।
एते द्वितीयसालस्य दिग्द्वारेषु नियामकाः ॥ 260 ॥
द्विबाहवः परिज्ञेयाः वामदक्षिणयोगतः ।
गदाखङ्गास्त्रसंयुक्ताः करण्डमकुटान्विताः ॥ 261 ॥
शोणपिङ्गसितश्यामा रक्तपीतसितासिताः ।
सर्ववर्णाम्बरालेपस्रग्भूषाभिर्विराजिताः ॥ 262 ॥
एकवीराऽसहायाश्च सर्वदोषनिवारकाः ।
तद्द्वारान्तरभागेषु वामदक्षिणयोगतः ॥ 263 ॥
प्रासादाभिमुखन्न्यस्येन्निधिनाथेश्वरान् क्रमात् ।
शङ्खपद्मौ महापद्मशतधामाभिधौ ततः ॥ 264 ॥
अखण्डितः सन्ततश्चानन्तधार इति श्रुतः ।
सर्वद्वार इति ख्यातः प्रथमौ पूर्वमीरितौ ॥ 265 ॥
अन्येषां वक्ष्यते षण्णां वर्णरूपादिकं क्रमात् ।
रक्तः कृष्णः सुवर्णाभः सितारुणतमालभाः ॥ 266 ॥
शङ्खपद्मनिधीशोक्तसर्वलक्षणलक्षिताः ।
वसुरत्नसुवर्णाष्टलोहधान्यधनाधिपाः ॥ 267 ॥
सर्वोषधीनिधीशानास्तेषामूर्ध्व सुखासनाः ।
सर्वालङ्कारसंयुक्ताः स्वाश्रिताभिमतप्रदाः ॥ 268 ॥
ततः तृतीयावरणद्वरेषु द्वन्द्वयोगतः ।
तद्दक्षिणोत्तराभ्यं तु शाखाभ्यां विन्यसेत्क्रमात् ॥269
पुरतश्चक्रगरुडौ हलतालौ तु दक्षिणे ।
पश्चिमे शार्ङ्गमकरौ सौम्ये नन्दकऋश्यकौ ॥ 270 ॥
चक्त्रपक्षीशसीराणां शङ्खनन्दकयोरपि ।
स्वेषु स्थानेषु पूर्वोक्त वर्णरूपादिकं द्विजाः ॥ 271 ॥
अन्येषां तालपूर्वाणां त्रयाणामथ वक्ष्यते ।
तालो ध्वजः स्याद्भूतादिकालरूपाभिमानकः ॥ 272
झषः सर्वाङ्गानिभृतो जगद्बीज उदाहृतः ।
ससर्वोपद्रवो ऋश्यः संसारश्चपलात्मकः ॥ 273 ॥
एतान् सूक्ष्मस्वरूपेण ध्यात्वा सम्पूजयेत्क्रमात् ।
गङ्गा च यमुना गोदा नदीच महती तथा ॥ 274 ॥
वितस्ता नर्मदा चैव जम्ब्वाख्या च सरस्वती ।
नद्यश्चतुर्थसालस्य दिग्द्वारेषु क्त्रमात् स्थिताः ॥275 ॥
गङ्गायमुनयोरुक्तं वर्णरूपादिकं पुरा ।
ताभ्यामन्याः समानास्तु वर्णशोभां विनैव तु ॥ 276 ॥
सितारुणाः सितस्वर्णसितकुन्दसमप्रभाः ।
प्रमत्तप्रौढवेषाश्च नानाभरणभूषिताः ॥ 277 ॥
सर्वधातुविचित्राङ्गाः सर्वरत्नविराजिताः ।
सुधाकुम्भधरा द्वाभ्यां कराभ्यां पूर्वच्च ताः ॥ 278 ॥
एवं दिग्द्वारभवनद्वार्स्थस्थितिरुदाहृता ।
एकमूर्तेषु दिङ्रमूर्तैः प्राकारेषूर्ध्वगेषु च ॥ 279 ॥

[[89]] द्वारादयस्तदीयाश्च सामान्याः समुदाहृताः ।
सर्वसालप्रतीहारशाखापार्श्वगतावुभौ ॥ 280 ॥
ध्येयौ वा स्थापनीयौ वा बाह्यागारगतौ यदि ।
यथोक्तलक्षणोपेतौ स्थापनीयौ यथाक्रमम् ॥ 281 ॥
एवमावरणेशानान् ध्यात्वा संस्थाप्य वार्चयेत् ।
ध्यानोत्थाः पीठदेशेषु स्वाकारात्मसु सद्मसु ॥ 282 ॥
तदर्थमङ्कणक्षेत्रं त्रिधा वा पञ्चधा भजेत् ।
त्रिभागमेकभागं वा त्यक्त्वा तन्मध्यतो बहिः ॥ 283॥
पीठं वायतनं कुर्यात्सर्वदिक्ष्वन्तरेऽथ वा ।
अधरोत्तरनिष्ठाभ्यां प्रागुक्ते पूर्ववत् स्थिते ॥ 284 ॥
शिलेष्टकादिभिः क्लृप्ताः पीठिका हस्तविस्तृताः ।
तदर्धेनोच्छ्रिताः सर्वाः सर्वालङ्कारशोभिताः ॥ 285 ॥
चतुरश्राः सुवृत्ता वा सम्पूज्या वाथ केवलाः ।
ग्रामादिवास्तुदेवानां स्वदिग्भागगतेषु च ॥ 286 ॥
गोमयादिविलिप्तेषु मण्डलेषु बलिं हरेत् ।
विस्तारोच्छ्रायमानाद्वै पीठाः प्रागुक्तलक्षणाः ॥ 287
अर्धमानेन वा कार्या रथयात्राऽविरोधतः ।
एवमावरणेशानाः पीठेषु स्वासु दिक्षु च ॥ 288 ॥
दुष्टदोषनिरासार्थं प्रासादाभिमुखं स्थिताः ।
चतुःस्थानावतीर्णस्य द्वारे च यजनालये ॥ 289 ॥
स्थापनं गणनाथानां शृणुध्वं मुनिपुङ्गवाः ! ।
वास्तुक्षेत्रेशसञ्ज्ञौ द्वौ प्राग्द्वारे पूर्ववत् स्थितौ ॥ 290 ॥
लक्ष्मीः कीर्तिर्जया माया द्वारेषूर्ध्वस्थिताः क्र्मात् ।
वज्रनाभादयो देवा द्वौ द्वौ दिग्द्वारशाखयोः ॥ 291 ॥
प्रागादिद्वारकुम्भेषु सम्भवप्रभवादयः ।
कुमुदाद्यन्तरङ्गं च भूतानामष्टकं परम् ॥ 292 ॥
द्वारान्तर्युग्मयुक्त्या तु भ्रमणीदेशमाश्रितम् ।
सुपर्णश्चक्रसञ्ज्ञश्च सत्यः कौमोदकी द्विजाः ! ॥ 293 ॥
योजनीयाः क्रमेणैव द्वाराणामग्रभूतले ।
हेमदण्डगतः सत्यः किं तु पश्चिमदिग्गतः ॥ 294 ॥
चण्डाद्याश्च सुभद्रान्ताः द्वौ द्वौ प्रागादिषु द्विजाः ।
दक्षिणोत्तरयोगेन तोरणस्तम्भमूलगाः ॥ 295 ॥
चक्रद्वितयमध्यस्थः पक्षीशस्तोरणोपरि ।
तत्पार्श्वयोः स्थितं चक्रं नानावर्णपताकयोः ॥ 296 ॥
सत्यादिकं चतुष्कं तु मध्यवेद्या ध्वजाष्टके।
प्रभवाप्यययोगेन पूज्यं प्रागादियोगतः।
(पक्षीशस्तोरणोपरि।) सुसितासु पताकासु सत्याख्यो विहगाधिपः।
सुपर्णः शोणवर्णासु गरुडः पिङ्गळासु च।
राजपाषाणवर्णासु तार्क्ष्यसञ्ज्ञः प्रतिष्ठितः।
नानावर्णपतसकायां सम्पूज्यो विहगेश्वरः।
इन्द्रादिलोकपालास्ते। )इति पाठान्तरम् ।

[[90]] इन्द्रादिलोकपालास्ते सिद्धसङ्घपुरःसराः ।
वज्रादयस्तदस्त्राश्च स्वासु दिक्षु बहिः स्थिताः ॥ 297 ॥
मुख्यकल्पेऽथ वान्येषु निमित्तेष्वेवमाचरेत् ।
अनुकल्पेऽथ चण्डादीन् वास्तुनाथादिपूर्वकम् ॥ 299
द्वारेषु केवलान्न्यस्य गरुडान्तं प्रपूजयेत् ।
सर्वद्वारेषु वा पूज्यः सहेतीशः पतत्रिपः ॥ 300 ॥
विविधासु प्रतिष्ठासु जीर्णोद्धारविधावपि ।
महोत्सवेषु सर्वेषु ध्वजारोहणकर्मणि ॥ 301 ॥
मङ्गळाङ्कुररोपे च पवित्रारोहणादिषु ।
तथा चानन्तकलशाद्यभिषेकविधावपि ॥ 302 ॥
प्रायश्चित्तेष्वनित्येषु काम्येष्वपि च नित्यशः ।
मख्यकल्पोक्तविधिना कुर्यादन्यत्र चान्यथा ॥ 303 ॥
सिद्धसन्धास्तथेन्द्राद्यास्तदस्त्राश्च यथाक्रमम् ।
लोकदिक्पालकास्त्वेते स्वसेनाभिः समावृताः ॥ 304
प्रसिद्धप्राग्वशेनैव नित्यं स्वं स्थानमाश्रिताः ।
दिक्पालकत्वादासृष्टेर्यतस्तेषां स्थितिः स्थिरा ॥ 305
भगवन्मन्त्रमूर्तीनामनन्तानां मुनीश्वराः ।
स्वस्थानस्था नमस्यन्ति पूजयन्ति जपन्ति च ॥ 306
ध्वजाद्यैरुपचारैश्च सम्यक् परिचरान्ति च ।
कैवल्यसिद्धये शश्वद्बहुभिः स्वानुगैः सह ॥ 307 ॥
पालयन्ति च भक्तानां बलमोजो ददन्ति च ।
ध्वंसयन्ति च विध्नौघमनिशं मन्त्रयाजिनाम् ॥ 308 ॥
संरक्षन्ति फलं मान्त्रं वर्धमानं द्विलक्षणम् ।
अधिकारमनादीयं शक्तिबीजं जगत्प्रभोः ॥ 309 ॥
दिक्सिद्धये दशत्वं तद्व्यक्तयेऽष्टदिशात्मता ।
बाह्यत्रिसालभूमिष्ठाः कालाद्या भवदेवताः ॥ 310 ॥
तत्साधकत्वात्पूर्वोक्तदिग्भागे नियताः सदा ।
वज्रनाभादयो देवाः लोकदिग्द्वारपालकाः ॥ 311 ॥
तथाऽमरेशपूर्वाश्च सम्भवप्रभवादयः ।
प्रसिद्धप्राक्क्रमेणैव दिग्द्वारेषु स्थिताः क्रमात् ॥ 312 ॥
कालाद्यमष्टकं नित्यमिन्द्राद्यं रुद्रपश्चिमम् ।
नियन्ता कालतत्वान्ते तदन्ते सुस्थितं वियत् ॥313
क्रमात्पूर्वोत्तरे कोणे न्यसेद्दक्षिणपश्चिमे ।
विद्याऽविद्याद्वयं यद्वै स्वपदस्थेऽग्निमारुते ॥ 314 ॥
चन्द्रादित्यावुदग्याम्यस्थानयोर्विनिवेश्य च ।
प्रत्यग्भागगतं तोयं प्राग्भागे विन्यसेद्धराम् ॥ 315
कुमुदाद्यावृतीशाना लोहिताक्षादयस्तथा ।
वज्रनाभादिकं मुक्त्वा द्वारपालं त्रिरष्टकम् । 316 ॥
द्वारपालगणास्त्वेते सालकोणगतास्तथा ।
प्रोक्तक्रमेण तिष्टन्ति भगवत्प्रागपेक्षया ॥ 317 ॥
कुमुदादिगणेशानां पुरग्रामादिवास्तुनि ।
पालिकावसथे चैव दिक्पालोक्तवशात्स्थिताः ॥ 318

[[91]] त्रिसन्ध्यमेवं देवानां बलिदानं समाचरेत् ।
सङ्कल्पितेषु सालेषु द्वारावरणवासिनाम् ॥ 319 ॥
असङ्कल्पितसालोक्तदेवानां नाचरेद्बलिम् ।
तत्तन्निर्माणकाले तान् प्रतिष्ठाप्य यथाविधि ॥ 320 ॥
देवयात्रासमेतन्तु बलिदानं समाचरेत् ।
एवं सर्वं समापाद्य महापीठोर्ध्वभूतलम् ॥ 321 ॥
प्रक्षाळितं समारुह्य प्राम्मुखो वाप्युदम्मुखः ।
तदूर्ध्वाम्बुजदिक्पत्रे कुमुदादीनथान्तरे ॥ 322 ॥
सर्वभूतान्पारिषदानाहूय ग्रहसञ्ज्ञितान् ।
सम्पूज्य सादकं तत्र बलिशेषं समुत्किरेत् ॥ 323 ॥
पश्चादाचम्य विधिवत्स्रात्वा वा संविशेद् गृहम् ।
सर्वद्वारावृतीशानां कोणस्थानां समर्चने ॥ 324 ॥
नतिप्रणवसंयुक्तः स्वनामा मन्त्र ईरितः ।
महापीठस्थभूतानां पार्षदानां ग्रहात्मनाम् ॥ 325 ॥
तारान्ते विष्णुशब्दं च नियुञ्ज्यादुदितक्रमात् ।
सर्वकोणगता मन्त्राः फडन्ताः समुदीरिताः ॥ 326 ॥
सर्वे समुदिता मन्त्राः स्वाहान्ता होमकर्मणि ।
ध्यात्वैवमर्च्य तन्मन्त्रैरर्घ्याद्यैरुपचारकैः ॥ 327 ॥
दर्शयेदावृतीशानां मुद्रां तर्जनिसञ्ज्ञिताम् ।
द्वारपालगणानां तु चण्डाद्युक्तमनन्तरम् ॥ 328 ॥
धर्माद्यावरणादूर्ध्वं हेतुना येन केन चित् ।
बलिदानमशक्यं चेत्तत्रत्यानां यथाक्रमम् ॥ 329 ॥
सर्वतोभद्रपूर्वेषु द्विगुणीकृत्य चाचरेत् ।
मुख्यकल्पे तथान्यत्र यथाशक्त्यावृतिक्षितौ ॥ 330 ॥
तद्बाह्यावृतिदेवानामावृत्यावृत्य तर्पयेत् ।
द्वारोपद्वारपालानां तस्मिन् द्वारे समर्पयेत् ॥ 331 ॥
महापीठोदितानां च तद्वाराग्रकमण्डले ।
ध्यानोत्थानां त्वसञ्चारे न दोषः केन हेतुना ॥ 332 ॥
तत्तदावरणद्वारदेशेषूक्तक्रमेण तु ।
द्रव्यमूर्तिगतानां च सञ्चारः स्यादनिष्टकः ॥ 333 ॥
एवमावृतिदेवानां त्रिसन्ध्यं बलिमाचरेत् ।
नित्योत्सवार्थं बिम्बस्य सन्निधौ तत्समाचरेत् ॥ 334
नृत्तगेयादिसंयुक्तं वेदघोषसमन्वितम् ।
द्वारावरणदेवानां ध्यानादीत्थं प्रकाशितम् ॥ 335 ॥
एवं हि बलिदानान्तं यत्र पूजां समाचरेत् ।
तत्र देवस्य सान्निध्यं नैरन्तर्येण सिद्ध्यति ॥ 336 ॥
एवं कालत्रये कुर्यात्पूजनं देशिकोत्तमः ।
न च कालत्रयान्न्यूनं पूजनं विहितं सदा ॥ 337 ॥
प्रासादेषु स्वयंव्यक्तपूर्वेषु द्विजसत्तमाः ! ।
कालत्रयं प्रधानं स्यात्तदूर्ध्वं कर्तुरिच्छया ॥ 338 ॥
विभवापेक्षया चैव वर्धयेत यथाक्रमम् ।
यावद् द्वादशमः कालस्तावद्वै मुनिपुङ्गवाः ! ॥ 339

[[92]] श्रेष्टः प्रभातकालः स्यात् त्रिषु कालेषु वै पुनः ।
यथावन्मन्त्रविन्यासमात्मनः करदेहयोः ॥ 340 ॥
हृद्यागं स्थानसंशुद्धिं सायामां भौतिकीं ततः ।
नित्यं प्रभातिके कुर्यादन्यत्रेच्छानुरूपतः ॥ 341 ॥
स्नपनं बलिदानं च कुर्यात्कालत्रये सदा ।
मूर्तेरासनपूजा तु कार्या कालचतुष्टये ॥ 342 ॥
पञ्चकाले भवेन्न्यासः षट्काले हवनक्रिया ।
अत ऊर्ध्वेषु कालेषु जपान्तं पूजनं भवेत् ॥ 343 ॥
अलङ्कारसनाद्यं च पूर्ववत्क्रमयोगतः ।
विनोक्तेन प्रकारेण ह्यन्यथा न सामाचरेत् ॥ 344 ॥
पूजां क्रमेण वै कुर्यात्तत्तद्धोमावसानिकाम् । 345 ॥
अनुकल्पे तु जप्यान्तं यागानन्तरितेषु च ।
यागेषु हवनान्तेषु नित्यनैमित्तिकादिषु ॥ 346 ॥
तत्तद्द्यागं जपान्तं च क्रमात्कृत्वा ततः परम् ।
तत्तद्धोमं मुनिश्रेष्ठाः ! क्रमात्कुर्याद्यथाविधि ॥ 347 ॥
अनुकल्पेषु यागेषु ह्युपकालोदितेषु वै ।
आसनार्घ्ये ततः पाद्यमाचामं सप्रतिग्रहम् ॥ 348 ॥
गन्धं माल्यं तथा दीपं धूपं मात्रां क्रमेण तु ।
दत्वा भोज्यावसानं तु क्रमाद्दद्याद्विधानतः ॥ 349 ॥
इत्येवमर्चनविधिः साङ्गोपाङ्गः प्रदर्शितः ।
इतोन्यच्छ्रोतुमिच्छा चेत्कथ्यतां मुनिपुङ्गवाः !॥ 350
इति यां द्वारावरणदेवतालक्षणादिविधिर्नाम नवमोऽध्यायः