अष्टमोऽध्यायः
8 - गरुडादि परिवारार्चन विधिः
मुनयः
भगवन्
मुनिशार्दूल भगवच्छास्त्रकोविद ।
गरुडप्रमुखानां च पूजनं प्रागुदीरितम् ॥ 1
तद्विधानं विशेषेण प्रकाशय कृपानिधे ।
नारदः
श्रुणुध्वं मुनयः सर्वे गरुडस्यार्चनं पुरा ॥ 2
येन विज्ञातमात्रेण वाञ्छितं साधकोऽश्नुते ।
विष्णोः सङ्कर्षणाख्यस्य विज्ञानबलशालिनः ॥ 3
मूर्तिः ज्ञानबलाख्या या सर्वाधारस्वरूपिणी ।
महिमेति जगद्धातुः विज्ञेयो विहगेश्वरः ॥ 4
सर्वरोगभयघ्नश्च क्षेपकः सर्वविद्विषाम् ।
ततः समर्चयेन्नित्यं प्रासादे स्थाप्य मन्त्रवित् ॥ 5
प्राङ्कणे प्रथमे वाथ द्वितीये मूलमन्दिरात् ।
अग्रदेशे प्रकुर्वीत प्रासादं मण्टपाकृतिम् ॥ 6
चतुर्द्वारसमोपेतं वर्गत्रयसमन्वितम् ।
वर्गषट्कान्वितं वाथ सर्वालङ्कारशोभितम् ॥ 7
मूलगेहात्
त्रिभागोच्चमर्धोच्चं वा सविस्तरम् ।
तस्मिन्
ब्राह्मेथ दिव्ये वा दिव्ययुक्तेथ मानुषे ॥ 8
संस्थाप्य लोहजां वाथ शैलीमर्चां यथोदिताम् ।
त्रिकालमर्चयेन्नित्यं मुख्यमूर्त्यर्चनान्तिमे ॥ 9
तद्विधानं विशेषेण मन्त्रपूर्वमिहोच्यते ।
प्रणवं पूर्वमुद्धृत्य पक्षिशब्दमनन्तरम् ॥ 10
पञ्चाक्षरो महामन्त्रः स्वाहान्तः सम्प्रकीर्तितः ।
मन्त्रार्णानि सबिन्दूनि प्रागोङ्कारान्वितानि च ॥ 11
समुच्चार्याथतुर्यान्तैः ज्ञानाद्यैश्च हृदादिभिः ।
अनेत्रैरस्त्रपर्यन्तैरङ्गान्येतानि वै द्विजाः ॥ 12
[[65]]
प्राम्मूलमन्त्रमध्याद्यव्यत्ययाद्विषहा भवेत् ।
सोयं मन्त्रः समाख्यातस्त्रिदशैरपि दुर्लभः ॥ 13
पञ्चाक्षर इति ख्यातो गारुडो मुनिसत्तमाः ।
पञ्चाङ्गानि यथापूर्वमक्षरैः स्युः सबिन्दुकैः ॥ 14
साङ्गेनानेन मन्त्रेण स्थापनीयो विधानतः ।
मूलालयगते बिम्बे सुस्थिते वाथ यानगे ॥ 15
स्थितैव गारुडी मूर्तिर्याने वा गमनोन्मुखी ।
शयने चासने चैव त्वासीना वाथ सुस्थिता ॥ 16
द्वारावरणदेवानां ध्यानाध्याये विशेषतः ।
ध्वजारोहेऽपि सुव्यक्तं लक्षणं चास्य वक्ष्यते ॥ 17
एवं ज्ञात्वा यथा कालं तन्मन्त्रनिरतो द्विजाः ।
स्नात्वा तदीयमन्त्रेण कृतपादावनेजनः ॥ 18
उपस्पृश्य यथान्यायं प्रासादं सम्प्रविश्य च ।
स्वासने सुखमासीनः प्राम्मुखो वाप्युदम्मुखः ॥ 19
करशुद्धिं च दिग्बन्धं प्राणायामं समाप्य च ।
भूतशुद्धिं च विधिवन्मन्त्रविन्यस्तविग्रहः ॥ 20
पक्षीशमुद्रां बध्वाथ हृदयाम्भोरुहोदरे ।
स्वानन्दधामनिष्टस्य देवस्य चतुरात्मनः ॥ 21
सङ्कर्षणांशात्सम्पूर्णविज्ञानबलसङ्कुलात् ।
अवतार्यामृतैर्भोगैः जपान्तं प्राग्वदर्च्य च ॥ 22
ततो मूर्तैर्यजेद्बाह्ये प्रागुक्तैर्भागसञ्चयैः ।
पात्रशिष्टैश्च देवान्नैः साधितैः पृथगेव वा ॥ 23
तदर्थं कल्पयेत्प्राग्वदर्घ्याद्यं पात्रपञ्चकम् ।
द्वितयं चाथ वैकस्मिन्
पाद्यं स्नानीयवारि च ॥ 24
अर्घ्याचामे तदन्यस्मिन्
एकस्मिन्
सकलं तु वा ।
प्राग्वत्स्वदेहविन्यस्तान्
मन्त्रानभ्यर्च्य मन्त्रवित् ॥ 25
अर्घ्याद्यैर्धूपपर्यन्तैस्ततो द्वारचतुष्टये ।
वास्त्वीशं क्षेत्रनाथं च द्वारलक्ष्मीं स्वमन्त्रतः ॥ 26
चण्डाद्यं च गणं प्राग्वदासनं कल्पयेत्ततः ।
शेषपूर्वं च धर्माद्यमष्टकं विन्यसेत्क्रमात् ॥ 27
तदूर्ध्वे व्यक्तपद्मं च यामत्रयसमन्वितम् ।
समभ्यर्च्य च गन्धाद्यैर्गणनाथादिकानपि ॥ 28
हृत्पद्मकर्णिकामध्ये मानसैरर्चितं पुरा ।
स्वविद्यया समावाह्य स्वस्थानाद्बिम्बहृत्कजे ॥ 29
सकलीकृत्य विधिवदङ्गभूषणलाञ्छनैः ।
किरीटं वनमालां च विन्यस्य तदनन्तरम् ॥ 30
अनन्तादींश्च नागेशान्
न्यसेद्वामकरादिषु ।
सत्याख्यया दक्षिणतो बलशक्त्या स्वरूपया ॥ 31
गणित्रकं च मन्दारकुसुमस्तबकं तथा ।
कलशं चामृताधारं फणीन्द्रं दक्षिणादितः ॥ 32
शक्तिः प्रागुदिता तस्य बलधर्मस्वरूपिणी ।
पक्षीशमुद्रां सन्दर्श्य लययागं समाचरेत् ॥ 33
[[66]]
भोगयागश्च कर्तव्यः पद्मपीठतलोपरि ।
प्रागादिपद्मपत्रेषु हृदयादीनि पूर्ववत् ॥ 34
विदिक्पत्रेषु चैवास्त्रमेषां वर्णानि पूर्ववत् ।
रूपलावण्यभूषाद्यैर्मूलमन्त्रशरीरवत् ॥ 35
किरीटं वनमालां च न्यसेद्देशिकसत्तमः ।
पुरस्तात्तिष्टतश्चास्य दक्षिणोत्तरयोः क्रमात् ॥ 36
चतुष्टयक्रमेणैव शेषाद्याः पन्नगेश्वराः ।
अग्नीशरक्षोवायव्यकोणेषु विहगेशितुः ॥ 37
चतुष्टयं गणित्राद्यं विन्यसेत्तु यथाक्रमम् ।
दक्षिणे विहगेशस्य सत्याख्या कर्णिकोपरि ॥ 38
प्राणापानसमानोदानव्यानप्राणरूपिणः ।
मध्यस्थस्य खगेशस्य बहिः प्रागादितः क्रमात् ॥ 39
सत्यः सुपर्णो गरुडस्तार्क्ष्यश्च विहगेश्वरः ।
पञ्चात्मकस्य प्राणस्य विकारस्त्वेष पञ्चधा ॥ 40
सत्याद्या दिक्षु चत्वारः कोणेषु विहगेश्वरः ।
ध्यानमेषां विशेषेण समासात्कथ्यतेऽधुना ॥ 41
आचाङ्घ्रिगोचराः सर्वे यस्य देहास्तु पौरुषः ।
द्विभुजस्तुहिनाभस्तु स सत्यः प्राणदैवतम् ॥ 42
सुपर्णः पद्मरागाभो निर्मलस्वर्णलोचनः ।
गरुडः काञ्चनाभस्तु कुटिलभ्रूरुणेक्षणः ॥ 43
केकराक्षस्तु तार्क्ष्यो वै प्रावृड्
जलदसन्निभः ।
द्रवत्कनकनेत्रस्तु शबलाभश्च पञ्चमः ॥ 44
चतुर्भुजाः सुपर्णाद्याः सौम्यरूपा ह्यनाकुलाः ।
पतत्रिचरणास्सर्वे पक्षमण्डलमण्डिताः ॥ 45
लम्बोदरास्सुपीनाङ्गाः कुण्डलाद्यैर्विभूषिताः ।
कुटिलभ्रूसुवृत्ताक्षा वज्रतुण्डाः सिताननाः ॥ 46
अपानादिसमीराणामाधिपत्येन संस्थिताः ।
महाबला महाकाया रक्ततुण्डोऽत्र पञ्चमः ॥ 47
स्वस्वाङ्गुष्टद्वयप्रोतगणित्रोभयपाणिना ।
पुष्पाञ्जलिधराः सर्वे मुख्येन विहगोत्तमाः ॥ 48
सुपर्णः पश्चिमाभ्यां तु पाणिभ्यां दक्षिणादितः ।
मन्दारपुष्पस्तबकं दधद्विस्मयमुद्रिकाम् ॥ 49
तथाविधाभ्यां गरुडस्ते धत्ते व्यत्ययेन तु ।
तार्क्ष्यः पश्चिमयोर्नित्यं धत्ते दक्षिणवामयोः ॥ 50
कद्रूं तथामृतं कुम्भं पञ्चमो विहगेश्वरः ।
दक्षिणेन सुधाकुम्भं वामेन तु फणीश्वरम् ॥ 51
नित्योदितस्य व्यूहस्य तथा शान्तोदितस्य च ।
प्राणापानादिवायूनां पञ्चानामपि नामभाक् ॥ 52
गरुडः परिवारत्वे ध्वजत्वेपि विशेषतः ।
योजनीयस्तथान्येषु सुषुप्त्यादिपदेषु च ॥ 53
वासुदेवादिमूर्तीनां चतुर्णां क्रमशस्त्वमी ।
सत्याद्यास्तार्क्ष्यपर्यन्ताः तत्तन्मूर्त्यन्तरेषु च ॥ 54
[[67]]
त्रिषु त्रिषु समादेयाः सत्याद्याः केशवादिषु ।
पद्मनाभादिमूर्तीनां पञ्चमो विहगेश्वरः ॥ 55
परात्परपरव्यूहव्यूहान्तरतनोर्विभोः ।
प्रादुर्भावतनोश्चापि जगद्रक्षणकाङ्क्षिणः ॥ 56
खगानां कारणत्वाच्च प्रागुक्तो वा खगेश्वरः ।
इति ते गरुडव्यूहप्रभावः सम्प्रकाशितः ॥ 57
कुमुदाद्यास्ततो बाह्ये शक्राद्यास्तद्बहिः क्रमात् ।
तद्बहिः कुमुदादीनां भूतेशाश्चोत्कटादयः ॥ 58
गणेशः पूजनीयो वा तदग्रे बलिमण्डपे ।
महापीठेऽथ वा पूज्याः गरुडस्यानुयायिनः ॥ 59
पालयन्तश्च तद्भक्तान्
दिव्यान्यायतनान्यपि ।
ध्यात्वैवमर्चनं कुर्यादासनाद्यैः यथोदितैः ॥ 60
चतुष्षष्ट्युपचारैर्वा द्वात्रिंशद्भिस्तु वेतरैः ।
षोडशैरुपचारैर्वा मुख्यमध्याधमक्रमात् ॥ 61
तन्निवेदितमन्नाद्यं नराणां रोगिणां सदा ।
वन्ध्यानां वनितानां च जयेच्छूनां च भूभुजाम् ॥ 62
विषोपहतवेषाणां प्रदद्यात्संविभज्य च ।
आर्द्रायां प्रतिमासं तु विशेषेणैवमर्चयेत् ॥ 63
उत्सवेषु विशेषेण भ्रामयेदुत्सवार्चया ।
इति सम्यक् समाख्यातं गरुडस्यार्चनं परम् ॥ 64
विश्वक्सेनार्चनं त्वद्य पौष्करोक्तं तु कथ्यते ।
श्रृणुध्वं मुनयस्सर्वे सावधानेन चेतसा ॥ 65
पौष्कर उवाच
किमर्थमाह भगवन्
विघ्नोच्छेदकरं प्रभुम् ।
समस्तविघ्ननाथानां परमं कारणं च यः ॥ 66
विष्वक्सेनस्तु यष्टव्यो भोगभूमिगतेऽच्युते ।
कैर्द्रव्यैः केन विधिना किं करोत्यभिपूजितः ॥ 67
श्रीभगवान्
भाविनां भाविनो विघ्नाः सद्धर्मविनिवारकाः ।
न यागयज्ञधर्माद्यैः मन्ये संसारिणां शुभम् ॥ 68
तत्प्रवृत्तौ तु ये विघ्नाः प्रोत्साहविनिवारकाः ।
व्यपारयन्ति च ते सर्वे चक्रज्वालाभयार्दिताः ॥ 69
प्रागार्जितेन केनापि कर्मणा चैव साम्प्रतम् ।
अनुभुङ्क्ते फलं यागाद्विविधं चाग्रतः स्थितम् ॥ 70
तस्य संरक्षणार्थं तु विष्वक्सेनस्तदैव हि ।
काले यागावसानाख्ये द्वितीये वासरेथ वा ॥ 71
कृत्वा निर्व्याकुलं चित्तं यष्टव्यः फलसिद्धये ।
यागनिर्वर्तनोच्छेषैरम्लानैरर्घ्यपूर्वकैः ॥ 72
उपचारमयैर्भोगैः सर्वैराभरणादिकैः ।
नैवेद्यैर्मधुपर्काद्यैः मुख्यमूर्तेर्निवेदितैः ॥ 73
द्विजप्रदानशिष्टैस्तु स्वयम्प्राशनवर्जितैः ।
तथा चर्वन्न्तरस्थैश्च ह्यपरेभ्यो निवेदितैः ॥ 74
[[68]]
संस्कृतैरूष्मलोपेतैर्मधुराज्यपरिप्लुतैः ।
पौष्करः
क एषोऽतुलवीर्यो हि यस्य दूराद्द्रवन्ति च ॥ 75
विघ्ना निमेषमात्रेण त्रैलोक्योन्मूलनक्षमाः ।
श्रीभगवान्
कालवैश्वानराख्या या मूर्तिस्तुर्यात्मनो विभोः ॥ 76
स एव द्विजदेवो हि विष्वक्सेनः प्रकीर्तितः ।
स्थित आहवनीयादिभेदेन मखयाजिनाम् ॥ 77
ऋक्पूतं हुतमादाय तर्पयन्त्यखिलं जगत् ।
एवं मन्त्रमयाद्यागात्सात्त्विकाद्ब्रह्मभावितात् ॥ 78
सम्प्राप्य गुरुमूर्तेर्वै प्रापणं मन्त्रसंस्कृतम् ।
अनाहूतामराणां च सर्वलोकनिवासिनाम् ॥ 79
स्वयं संविभजत्याशु सदनुग्रहकाम्यया ।
ज्ञात्वैवं तस्य माहात्म्यं वृत्तिस्थं फलसिद्धये ॥ 80
त्रिसन्ध्यं नित्यपूजायां बल्यन्ते तं समर्चयेत् ।
वत्सरोत्सवपूर्वेषु तथा वैशेषिकेष्वपि ॥ 81
वृत्त्याद्याधारभूतेषु क्रमात्कृत्वा पुरार्चनम् ।
केवलं वाथ होमान्तं स्वशक्त्या विभवेन वा ॥ 82
विस्तरेणाथ वा शश्वत्ततः कमलसम्भव ।
कृत्वा पर्णपुटे तोयं पात्रे वा कलशेऽव्रणे ॥ 83
तमात्मनोत्तरे भागे ह्यर्चयित्वा निवेद्य च ।
अथापरस्मिन्
भाण्डे तु तदस्त्रपरिमन्त्रिते ॥ 84
नैवेद्याद्भागमादाय तथा चर्वन्तरस्थितात् ।
ओदनादंशमुद्धृत्य दध्याज्यव्यञ्जनैः सह ॥ 85
समालभनपुष्पार्घ्यकुशाम्बुपरिभावितम् ।
तद्धृम्मन्त्रेण बहुशो ह्यभिमन्त्याब्जसम्भव ॥ 86
तन्मूलमन्त्रमुच्चार्य ध्यानभावनयान्वितम् ।
प्राक्सन्निवेशिते भाण्डे समुत्कीर्य पिधाय तत् ॥ 87
प्रणवाष्टकजप्तं वा तन्नाम्ना सह पौष्कर ।
एकं वै सोदकं पात्रं सनैवेद्यं जलाप्लुतम् ॥ 88
सर्वत्र सर्वदा यागे कुर्यात्प्राग्विधिना विना ।
तच्चापि क्ष्मातले कूपे तटाकादौ तु चोत्किरेत् ॥ 89
ज्ञात्वैवं यत्नतो मन्त्री तन्मन्त्रेण समर्चयेत् ।
साङ्गं मन्त्रमथो वक्ष्ये यथावदवधारय ॥ 90
आक्रान्तमनलेनैव प्राणाख्यं बीजनायकम् ।
त्रैलोक्यैश्वर्यदोपेतमूर्जोपरिगतं तु तत् ॥ 91
ततो वराहमादाय भूधरव्योमभूषितम् ।
विष्वक्सेनाय तदनु सनमस्कं पदं न्यसेत् ॥ 92
प्रणवाद्यो ह्ययं मन्त्रो विष्वक्सेनस्य कीर्तितः ।
पूर्वबीजं हि यच्चास्य ऊकारस्वरवर्जितः ॥ 93
आकाराद्यैश्च षड् दीर्घैर्भिन्नमङ्गगणं नयेत् ।
प्रणवेन स्वनाम्नाथ जातिभिः षड्भिरन्वितम् ॥ 94
[[69]]
नमः स्वाहादिभिश्चायं विष्वक्सेनस्य वाचकः ।
साङ्गेनानेन मन्त्रेण प्रतिष्ठाप्य विधानतः ॥ 95
प्रथमावरणे वाऽथ द्वितीयावरणेऽथ वा ।
ईशानसोमदिम्मध्ये प्रासादे दक्षिणामुखे ॥ 96
मूलालयोच्चान्नीचे च कल्पिते गर्भमन्दिरे ।
ब्रह्मस्थानेऽथ वा दिव्ये मूलबेरांशमानतः ॥ 97
कल्पितस्य शिलादारुलोहपूर्वैस्तु वस्तुभिः ।
पूजनं मुख्यकल्पं स्यादनुकल्पोग्रमण्डपे ॥ 98
प्रागुक्तकोणभूभागे मेखलात्रयनिर्मिते ।
पीठेऽवतार्य गगनादमूर्तं मूर्तमेव वा ॥ 99
केवलं बलिदानेन तर्पयेदुदकेन च ।
चतुः स्थानावतीर्णस्य मण्डलादिषु वृत्तिषु ॥ 100
परव्यूहादिरूपस्य देवस्य यजनावधौ ।
प्रासादान्तर्गतस्यापि स्वस्थानस्थस्य मण्डपे ॥ 101
पूजनं विधिवत्कार्यमारम्भदिवसादितः ।
सर्वकर्मावसाने तु मण्डलादिगते विभौ ॥ 102
स्वे स्वे धाम्नि विसृष्टे तु ध्यात्वा मण्डलमध्यतः ।
पूजयेद्विधिवन्मन्त्री द्वितीये वासरेऽपि च ॥ 103
भगवद्यजनार्थं तु प्रासादस्थं विशेषतः ।
यथाविधि समभ्यर्च्य नैवेद्यैस्तन्निवेदितैः ॥ 104
अर्घ्याद्यैरखिलैरन्यैस्ताम्बूलाद्यैश्च नित्यशः ।
जलस्थलादिनिलयांस्तद्भूतांश्चाथ तर्पयेत् ॥ 105
प्रासादस्थस्य तस्याथ देहमानानुसारतः ।
कृत्वा हेमादिभिर्दिव्यैर्विशेषार्चां विधानतः ॥ 106
उग्रां वा शान्तरूपां वा विघ्नविध्वंसनक्षमाम् ।
चतुर्भुजां वा द्विभुजामासीनां वाऽथ सुस्थिताम् ॥ 107
द्विभुजस्य चतुर्हस्तामन्यधा वा प्रकल्पिताम् ।
वैशेषिकेषु प्राप्तेषु पूजयेदुत्सवार्चया ॥ 108
मृगयाद्युत्सवे प्राप्ते यत्र यत्र व्रजेत्प्रभुः ।
तत्र तत्र नयेदेनां निर्विघ्नफलसिद्धये ॥ 109
ध्यानमस्य प्रवक्ष्यामि यथावच्छृणु सत्तम ।
नवदूर्वाङ्कुराभं च त्वीषत्पीतलकान्तिभाक् ॥ 110
चतुर्दंष्ट्रं चतुर्बाहुं चतुष्किष्कुं चतुर्गतिम् ।
पूर्णाङ्गं केसरिस्कन्धम्पृथूरःस्थलराजितम् ॥ 111
दक्षिणावर्तनिम्नेन नाभीरन्ध्रेण शोभितम् ।
आजानुबाहुं श्रीमन्तं पिङ्गलार्चिर्जटाधरम् ॥ 112
द्रवत्कनकपिङ्गाक्षं चिपिटं पृथुनासिकम् ।
सितदीर्घनखश्रेणीशोभितं कुटिलभ्रुवम् ॥ 113
विस्तीर्णगण्डवदनं बालेन्दुकुटिलोपमैः ।
नवकिंश्वरुणाकारैर्लोमभिः पूर्णविग्रहम् ॥ 114
शोभनेन प्रलम्बेन पृथुना प्रोन्नतेन च ।
माणिक्यकुण्डलाड्येन युक्तं श्रोत्रद्वयेन तु ॥ 115
[[70]]
मकुटेनोन्नतेनैव हाराद्यैरुपशोभितम् ।
चित्रकौशेयवसनं विचित्रस्रग्विमण्डितम् ॥ 116
प्रलयद्वादशादित्यसहस्रगुणदीधितिम् ।
ईषदूर्ध्वं तथा तिर्यग्विनिपातितलोचनम् ॥ 117
कुन्देन्दुकान्तिदशनं किञ्चिद्विहसिताननम् ।
स्वभावसौम्यममलं मायाक्रोधोपरञ्जितम् ॥ 118
सविलासचलत्पादन्यासस्थानकसंस्थितम् ।
स्वेनान्तः करणेनैव भावयन्तं परं पदम् ॥ 119
अङ्गुष्ठादिकनिष्ठान्तं वामपाणौ लतात्रयम् ।
नमयित्वोन्नता चैकघ्राणाग्रे विनियोजिता ॥ 120
सद्विघ्नभीतिप्रदया त्वनया मुद्रयान्वितम् ।
रथाङ्गशङ्खहस्तं च लम्बमानगदाधरम् ॥ 121
श्रोणीतटनिविष्टेन सावहेलनपाणिना ।
इत्थं रूपधरं देवमनेकाद्भुतविग्रहम् ॥ 122
उग्ररूपमिमं ध्यायेदाग्नेयमनलप्रभम् ।
दंष्ट्रातर्जननिर्मुक्तं साभयं शान्तलक्षणम् ॥ 123
मुख्यदक्षिणहस्तेन भक्तानामभयप्रदम् ।
तथाविधेन वामेन लम्बमानगदाधरम् ॥ 124
पृष्टदक्षिणवामाभ्यां चक्रशङ्खधरं क्रमात् ।
एवं चतुर्भुजस्योक्तं द्विभुजस्यावधारय ॥ 125
उक्ताभ्यामुग्रशान्ताभ्यां चक्रशङ्खधरं विना ।
प्रागुक्तद्वितयं वाऽथ द्वितीयं चित्ततन्तु वा ॥ 126
गदाविरहितं वाथ वामकट्यवलम्बितम् ।
स्थानकेनासनेवाममूरुदेशे निवेशितम् ॥ 127
गोपनीमुद्रया वाथ कटकाकारमुद्रया ।
उभाभ्यामपि पाणिभ्यां विश्रान्तं पीठपृष्टतः ॥ 128
अवष्टभ्य गदामूर्ध्वे मातङ्गमुसलाकृतिम् ।
प्राक्पद्मदळमाक्रम्य पादाभ्यां कर्णिकासनम् ॥ 129
सुस्थितं कर्णिकायां वा प्राग्वदन्यैरलङ्कृतम् ।
एवं ध्यानविशेषेषु त्वेकं स्थाप्य विधानतः ॥ 130
समर्चयत कालेषु प्रागुक्तेषु स्वमन्त्रतः ।
चतुःस्थानार्चनार्थं तु मण्डलानां तु मध्यतः ॥ 131
पूजितेष्वथ मन्त्रेषु नियुक्तेषु स्वधामनि ।
ईशानसोमदिम्मध्ये चतुरश्रे पुरेऽथवा ॥ 132
द्वारशोभाग्रनिर्मुक्ते रेखात्रितयभूषिते ।
तदन्तरेऽर्धचन्द्रस्थे कमलेऽष्टदळान्विते ॥ 133
साम्राज्येन नियुक्तेऽस्मिन्
विघ्नानामच्युतेन तु ।
पूजिते विधिना शश्वदभीष्टं साधकोऽश्नुते ॥ 134
तस्मान्मन्त्रैस्तदीयैस्तु स्नात्वा पूर्वं विधानतः ।
प्रक्षाल्य पाणिपादौ वा त्वाचम्य न्यासमाचरेत् ॥ 135
तदधिष्ठातृकत्वेन धारणाभिः स्वविग्रहम् ।
शोधयित्वा पुनर्न्यस्य षडङ्गादिं करादितः ॥ 136
[[71]]
प्राग्वदानन्दधामाच्च ह्यवतार्य तथा प्रभुम् ।
इष्ट्वा हृत्पुण्डरीके तु स्वापेक्षां निष्कळात्मकम् ॥ 137
तमेव सकळत्वेन यातं ध्यात्वा बहिर्यजेत् ।
प्राग्वदर्घ्यादिपात्राणि प्रतिष्ठाप्य स्वविग्रहे ॥ 138
विन्यस्त मन्त्रानभ्यर्च्य द्वारदक्षिणसौम्ययोः ।
चण्डप्रचण्डसदृशौ बलप्रबलसञ्ज्ञितौ ॥ 139
वायुवेगं महाघ्राणं द्वाराग्रे गरुडोपमम् ।
समभ्यर्च्य यथापूर्वं प्राग्दत्वा कमलासनम् ॥ 140
धर्माद्यनन्तपर्यन्तं पञ्चकं नवकन्तु वा ।
सत्वेनाच्छादितं पश्चात्केवलेनाम्बुजं स्मरेत् ॥ 141
तस्मिन्नावाह्य तं देवं हृदये ध्यानचोदितम् ।
सन्निधानादिकं कृत्वा मुद्राबन्धपुरस्सरम् ॥ 142
समभ्यर्च्यार्घ्यपुष्पाद्यैः लययागविधानतः ।
कर्णिकामध्यगं तस्य हृदाद्यं मुख्यमन्त्रवित् ॥ 143
पद्मच्छदान्तरस्थाश्च तदाकारद्युतिं विना ।
किं त्वङ्गानां च सर्वत्र ध्यानमुक्तं सितादिकम् ॥ 144
क्रियाख्यां तेजसीं शक्तिं स्वाहापर्यायरूपिणीम् ।
लक्ष्मीरूपधरां प्रीतां सर्वालङ्कारमण्डिताम् ॥ 145
प्रियानुरूपां सततं स्वासीनां वाथ सुस्थिताम् ।
दक्षिणोत्तरयोगेन चामरोभयधारिणीम् ॥ 146
ॐ ह्रीं क्रियायै स्वाहान्तो मन्त्रोऽयं सम्प्रकीर्तितः ।
अनेन स्वामिनो देहात्
तैजसाद्विघ्नसूदनात् ॥ 147
वामपार्श्वेऽवतार्यास्य भोगयागावसानतः ।
गजाननो जयत्सेनो हरिवक्त्रो महाबलः ॥ 148
कालप्रकृतिसञ्ज्ञश्च चतुर्थः कमलोद्भव ।
गणराजेश्वराश्चैते चत्वारश्चण्डविग्रहाः ॥ 149
आज्ञाप्रतीक्षकाश्चास्य सुश्वेतचामरोद्यताः ।
विनायकादयश्चैव विघ्नेशप्रवरास्तु ये ॥ 150
अमीषां गणनाथानां नित्यमाज्ञानुपालिनान् ।
ईशानादिषु कोणेषु पद्मबाह्ये स्थितान्न्यसेत् ॥ 151
वीक्षमाणा विभोर्वक्त्रं तत्तुल्यस्थानके स्थिताः ।
तद्वत्कराङ्किताः सर्वे किं तु मुद्राविवर्जिताः ॥ 152
ध्यानमेषां पृथग्भूतं शारीरमवधारय ।
भीमद्विपेन्द्रवदनं चतुर्दंष्ट्रं त्रिलोचनम् ॥ 153
कम्बुग्रीवं चतुर्बाहुं पूर्णचन्द्रायुतद्युतिम् ।
हारनूपुरकेयूरमेखलादाममण्डितम् ॥ 154
नानास्रग्गन्धवस्त्राड्यमनौपम्यपराक्रमम् ।
ध्यायेद्गजाननमतो जयत्सेनं च संस्मरेत् ॥ 155
महत्तुरङ्गवदनं पद्मरागाचलप्रभम् ।
द्रवच्चामीकराक्षं च त्वनेकाद्भुतविग्रहम् ॥ 156
हरिवक्त्रमतो ध्यायेत्सटाच्छुरितमस्तकम् ।
निष्टप्तकनकप्रख्यं घोरघर्घरनिस्वनम् ॥ 157
[[72]]
मृगराड्
वदनं विप्राः कल्पान्तानलवेगिनम् ।
कालप्रकृतिनामानं भावयेदञ्जनाद्रिवत् ॥ 158
दंष्ट्राकरालवदनं पिङ्गळश्मश्रुलोचनम् ।
झषकुण्डलभृद्रौद्रं मीनवन्निम्ननासिकम् ॥ 159
गणराजेश्वराह्येते महापुरुषलक्षणैः ।
संयुक्ताश्चाखिलैर्विप्राः आपादात्कन्धरावधि ॥ 160
यत्किञ्चिन्मण्डनं वस्तु तदाद्योक्तं स्मरेत्त्रिषु ।
एतेषामर्चनं कुर्यात्स्वनाम्ना प्रणवादिना ॥ 161
नमान्तेनोऽब्जसम्भूत नानासिद्धिफलाप्तये ।
अष्टाष्टकैस्तदर्धैर्वा तस्यार्धैर्वा यथारुचि ॥ 162
क्षिप्रकर्मप्रसिध्यर्थमष्टाभिर्वा समर्चयेत् ।
तन्निवेदितमन्नाद्यमर्घ्यस्रक् चन्दनादिकम् ॥ 163
न देयं कस्यचित्प्राज्ञैरैहिकामुष्मिकाप्तये ।
स्वाश्रितानामनुज्ञातं भूतानाञ्चैव तेन तत् ॥ 164
नित्यं तदूर्ध्वतस्तेषामाशास्थगितचारिणी ।
अत एव हि भोक्तॄणामर्थहानिं ददाति तत् ॥ 165
नूनमाशागणं सर्वं ध्वंसयन्ति सदैव हि ।
तस्माद्ददाति योऽन्येषां स्वयमश्नाति वाऽधमः ॥ 166
मोहादुपेक्षते वाऽपि स याति नरकेऽधमः ।
अतः श्रेयोऽर्थिना कार्यः परिहारः सदैव हि ॥ 167
तच्चापि क्ष्मातले कूपे तटाकादौ तु चोत्क्षिपेत् ।
नोपभागं यथा याति काकादिष्वब्जसम्भव ॥ 168
यस्मात्सन्मन्त्रपूतं तत्प्राधान्येनापि वर्धते ।
अतो निषिद्धः पापानामपापानां विशेषतः ॥ 169
इति सम्यक् समाख्यातं विष्वक्सेनार्चनं परम् ।
पूजनं कुमुदादीनां श्रुणुध्वमथ योगिनः ॥ 170
द्वारावरणदेवानां सुस्थितानां स्वसद्मसु ।
चलानां वाऽथ हेमाद्यैर्निर्मितानां यथाविधि ॥ 171
त्रिकालं वा द्विकालं वा सङ्कटे त्वेककालकम् ।
तत्तन्मन्त्रेण कुर्वीत पूजामष्टोपचारतः ॥ 172
इत्येवं वैनतेयादिपरिवारगणस्य च ।
पूजनं सर्वमाख्यातं सर्वसिद्धिफलप्रदम् ॥ 173
इतोऽन्यच्छ्रोतुमिच्छा चेत्कथ्यतां मुनिसत्तमाः ।
मुनयः
भगवन्
मन्दिरे विष्णोः स्थापिता लोकपूजिताः ॥ 174
विष्णुभक्ताः कथं पूज्यास्तद्विधानं वदस्व नः ।
नारदः
एकान्तिनो महाभागाः शठकोपपुरस्सराः ॥ 175
क्षोण्यां कृतावतारा ये लोकोज्जीवनहेतुना ।
शाण्डिल्याद्याश्च ये चान्ये पाञ्चरात्रप्रवर्तकाः ॥ 176
प्रह्लादश्चैव सुग्रीवो वायुसूनुर्विभीषणः ।
ये चान्ये सनकाद्यश्च पञ्चकालपरायणाः ॥ 177
[[73]]
भक्तोत्तमास्ते विज्ञेयास्तान्
दिव्यायतनादिषु ।
चरस्थिरविभागेन लोहैर्वा शिलयापि वा ॥ 178
स्वस्ववर्णाश्रमाचारसदृशाकृतिचेष्टितान् ।
लाञ्छितान्
चक्रशङ्खाभ्यां भुजयोर्दक्षिणादितः ॥179
पद्मविष्टरमध्ये तु स्वासीनान्
वाथ सुस्थितान् ।
ऋजु स्थितान्यथाशोभं पैशाचस्थानकेऽथवा ॥ 180
निर्माय च विधानेन प्राङ्कणे मण्टपेऽथ वा ।
प्रासादेष्वनुरूपेषु कल्पितेष्वग्रतो विभोः ॥ 181
यथावकाशं वामे वा दक्षिणे वाथ पश्चिमे ।
स्वस्वमन्त्रैः प्रतिष्ठाप्य विधिवच्छ्रद्धयार्चयेत् ॥ 182
श्रुणुध्वमथ तन्मन्त्रान्
स्थापनादिषु कर्मसु ।
प्रधानपुरुषेशाद्यतारकब्रह्मणाथ वा ॥ 183
अहं स तारकेणैव सविसर्गेण चान्तिके ।
आद्येन वा द्वितीयेन युक्तया त्रितयेन वा ॥ 184
सञ्ज्ञया योजनीयास्ते साङ्गयागस्त्वथोच्यते ।
ताराद्ययोर्द्वयोरेकं षोढा कृत्वा तदन्तिमे ॥ 185
ज्ञानादिहृदयादीनि चतुर्थ्यन्तान्युदीरयेत् ।
प्रणवाधारयुक्तानि प्रागेवाङ्गान्यमूनि वै ॥ 186
मन्त्रेणानेन वै भक्तान्
पूजयेत्तु यथाविधि ।
प्राग्वत्स्नानादिकं कृत्वा सोर्ध्वपुण्ड्रः स्वलङ्कृतः॥ 187
पादौ प्रक्षाळ्य चाचम्य प्रविश्य यजनालयम् ।
कवाटोद्घाटनं कुर्याद्द्वार्स्थाभ्यर्चनपूर्वकम् ॥ 188
तन्मन्त्रेण प्रणम्याथ बिम्बशुध्यादिकं तथा ।
प्रासादशोधनादीनि कृत्वा वै तस्य दक्षिणे ॥ 189
पार्श्वे समुपविश्याथ करशुद्धिं समाचरेत् ।
दिग्बन्धं चैव सायामां भूतशुद्धिं समाप्य च ॥ 190
पुटीकृतेन ताराभ्यां भक्तमन्त्रेण मन्त्रवित् ।
नखान्तं मणिबन्धाद्यं प्राग्वत्पाणिद्वयं मृजेत् ॥ 191
अङ्गानि चैव विन्यस्य पूर्वोक्तविधिना ततः ।
तुळसीनळिनाक्षाणां मालिकाद्वितयं तथा ॥ 192
चक्रशङ्खौ पाणितलद्वये न्यस्य यथाक्रमम् ।
कृत्वैवं करविन्यासं ततस्तन्मन्त्रमुच्चरन् ॥ 193
पाणिभ्यामालभेद्देहमामूर्ध्नश्चरणावधि ।
कृत्वैवं व्यापकन्यासं हृदयादीनि विन्यसेत् ॥ 194
ततो मालाद्वयं कण्ठे चक्रशङ्खौ भुजद्वये ।
विन्यस्य हार्दधीमुद्रां बध्वा तादात्म्यमाश्रयेत् ॥ 195
ततः स्वहृदयाम्भोजे देवस्य परमात्मनः ।
पदाधस्ताच्चेतनन्तु विचिन्त्य तदनन्तरम् ॥ 196
तस्माच्चैतन्यमावाह्य यजेद्भोगैस्तु मानसैः ।
ततो बहिर्यजेद्भक्तं प्रागुक्तैर्भोगसञ्चयैः ॥ 197
तदर्थं पञ्चपात्राणि चतुस्त्रिद्व्येकमेव वा ।
कल्पयित्वा ततो देहन्यस्तान्
मन्त्रान्
समर्चयेत् ॥198
[[74]]
द्वारयागं ततः कुर्यादर्घ्याद्यैर्देशिकोत्तमः ।
सावित्रं सवितारं च गर्भद्वारस्य पार्श्वयोः ॥ 199
सम्पूज्य तद्विमाने तु चतुर्दिक्षु यथाक्रमम् ।
भक्तमूर्तीस्समभ्यर्च्य अर्घ्याद्यैर्मुनिसत्तमाः ॥ 200
ततोऽग्रमण्टपद्वारे दुर्गां गणपतिं यजेत् ।
इन्द्रादिलोकपालांस्तु प्रथमावरणादिषु ॥ 201
सम्पूज्यावरणद्वारे त्विन्द्रं चेन्द्रजयं यजेत् ।
यद्वा द्वारेषु सर्वेषु तथैवावरणेषु च ॥ 202
तत्तच्छिष्यगणानेव परिवारान्
प्रकल्पयेत् ।
महापीठे यजेत्सर्वभूतेभ्यो नम इत्यथ ॥ 203
गर्भगेहे सम्प्रविश्य कल्पयेदासनं गुरुः ।
धर्मादीन्
चतुरः पीठकोणेष्वभ्यर्च्य पूर्ववत् ॥ 204
सत्वेनाच्छादितं पश्चात्केवलेनाम्बुजं यजेत् ।
तत्रावतार्य तं भक्तं मन्त्रन्यासं समाचरेत् ॥ 205
यथा देहे तथा बिम्बे लयोक्तविधिना ततः ।
समभ्यर्च्य ततो भोगयागं कुर्याद्यथाविधि ॥ 206
प्रागादिपद्मपत्रेषु हृदयादीनि पूर्ववत् ।
विदिग्दळेषु चैवास्त्रं नेत्रं केसरजालगम् ॥ 207
पीठोपरि दळाद्बाह्ये त्वाग्नेयेशानकोणयोः ।
मालाद्वयं तु पूर्वोक्तं चक्रशङ्खौ च पूजयेत् ॥ 208
ततो ध्यायेद्विष्णुभक्तं सर्वलक्षणसंयुतम् ।
स्वस्ववर्णाश्रमाचारसदृशाकृतिचेष्टितम् ॥ 209
बद्धाञ्जलिपुटं वाथ व्याख्यामुद्रासमन्वितम् ।
पद्मविष्टरमध्ये तु स्वासीनं वाथ सुस्थितम् ॥ 210
ललाटादिषु चाङ्गेषु ह्यूर्ध्वपुण्ड्रैरलङ्कृतम् ।
लाञ्छितं चक्रशङ्खाभ्यां भुजयोर्दक्षिणादितः ॥ 211
तुळसीनळिनाक्षाणां मालाद्वितयभूषितम् ।
एवं ध्यात्वा विष्णुभक्तं हृदयादींश्च पूर्ववत् ॥ 212
ध्यात्वाथ पूजनं कुर्यादासनाद्यैर्यथोदितैः ।
द्वात्रिंशदुपचारैर्वा ह्यष्टभिर्वा द्विरष्टभिः ॥ 213
जपान्तं वाऽपि होमान्तं तत्तन्मन्त्रेण पूर्ववत् ।
अस्वातन्त्याद्बलिं तत्र न कदापि समाचरेत् ॥ 214
तत्तज्जन्मदिने कुर्यात्तेषां वैशेषिकार्चनम् ।
सहैव देवदेवेन सङ्क्रान्त्यामयनादिषु ॥ 215
कालेष्वेतेषु कर्तव्यमुत्सवभ्रमणादिकम् ।
पृथग्व्याप्युत्सवः कार्यो ध्वजारोहणवर्जितः ॥ 216
न होमा न बलिस्तीर्थं पारतन्त्ये विधिस्त्वयम् ।
स्वातन्त्ये चाग्रहारादौ विपिने वा नदीतटे ॥ 217
सप्रकारं समानं तु यथेष्टतलशोभितम् ।
कल्पयित्वा प्रयत्नेन रथ्याभिश्च परिष्कृतम् ॥ 218
देशान्तरगतानां वा भगवल्लोकवासिनाम् ।
दृश्यरूपमदृश्यं वा देवसारूप्यतां गतम् ॥ 219
[[75]]
स्थापयित्वा विधानेन प्रासादे मानुषे पदे ।
दिव्यमानुषयोर्वाथ दिव्ये वा मानुषाश्रिते ॥ 220
विष्णोर्मन्त्रासनाव्यक्तपद्ममध्यस्थचेतनात् ।
भक्तबिम्बहृदम्भोजे चैतन्यमवतार्य च ॥ 221
सकळीकृत्य मन्त्रेण साङ्गेनाभ्यर्चयेत्सदा ।
आवाहने विशेषोऽयं जीवतां वाप्यजीवताम् ॥ 222
सर्वत्राव्यक्तपद्माद्यैरष्टभिर्वा द्विरष्टभिः ।
भोगैः प्रागुदितैः स्फीतैः ताम्बूलान्तैः समर्चयेत् ॥ 223
कृत्वा पद्मध्वजारोहं हंसध्वजमथापि वा ।
समारोप्य यथाशास्त्रं कुर्यात्तत्र महोत्सवम् ॥ 224
बलिदानादिकं तीर्थं सर्वं तत्र समाचरेत् ।
भक्तप्रणीता गाधाश्च श्रुत्यन्तार्थोपबृंहिताः ॥ 225
श्रावयेद्विधिवद्देवं भक्त्या गीतिपुरस्सरम् ।
तन्निवेदितमन्नाद्यं गायकेभ्यः प्रदापयेत् ॥ 226
इति सम्यक् समाख्यातं विषुभक्तार्चनं परम् ।
गोपनीयं प्रयत्नेन नास्तिकानां विशेषतः ॥ 227
प्रकाशनीयं भक्तानां नित्यकर्मरतात्मनाम् ॥
इति यां गरुडादिपरिवारार्चनविधिर्नाम अष्टमोऽध्यायः ॥