सप्तमोऽध्यायः
7 – लक्ष्मी सुदर्शनादि पूजा विधिः
मुनयः
भगवन्मुनिशार्दूल सर्वशास्त्रविशारद ।
पुरा प्रधानमूर्तेवै पूजनात्समनन्तरम् ॥ 1
प्राङ्कणेषु च सर्वेषु प्रासादेष्वाश्रयेषु च ।
प्रतिष्ठितानां बिम्बानां पूजनं समुदीरितम् ॥ 2
तत्र श्रिभ्वादिदेवीनां पूजनं तु विशेषतः ।
देवर्षे श्रोतुमिच्छामो विस्तरेण प्रकाशय ॥ 3
नारदः
शृणुध्वं मुनयस्सर्वे श्रीभूदेव्यर्चनं परम् ।
येन विज्ञातमात्रेण वाञ्छितान्
लभते नरः ॥ 4
भोक्तृशक्तिः स्मृता लक्ष्मीः पुष्टिर्वै कर्तृसञ्ज्ञिता ।
भोगार्थमवतीर्णस्य तस्य लोकानुकम्पया ॥ 5
उदितं सह तेनैव शक्तिद्वितयमव्ययम् ।
नानात्वेन हि वै यस्य परिणामः प्रकाशितः ॥ 6
तत्र श्रियादिदेवीनां रूपत्रयमुदाहृतम् ।
श्रीवत्सगा योगलक्ष्मीर्भोगलक्ष्मीस्तु पार्श्वगा ॥ 7
वीरलक्ष्मीः पृथक्स्थाने स्वातन्त्येण प्रतिष्ठिता ।
एवमन्यासु देवीषु रुपत्रयमुदाहृतम् ॥ 8
योगलक्ष्मीर्भोगलक्ष्म्योर्देवेन सह पूजनम् ।
वीरलक्ष्मीं पृथग्गेहे पूजयेत यथाविधि ॥ 9
यत्र सा पूज्यते देवी तत्र श्रीर्निश्चला भवेत् ।
तद्विधानं प्रवक्ष्यामि श्रृणुध्वं मुनिपुङ्गवाः ॥ 10
प्रथमावरणे वाऽपि द्वितीयावरणेऽपि वा ।
तृतीयावरणादौ वा श्रियः स्थानं प्रकल्पयेत् ॥ 11
[[54]]
तुष्टिं पुष्टिं च सावित्रीं वाग्देवीं च मुनीश्वराः ।
तद्विमानचतुर्दिक्षु दिम्मूर्तीःपरिकल्पयेत् ॥ 12
कोणेषु वैनतेयं वा सिहं वाऽपि यथारुचि ।
तदन्तर्ब्रह्मभागे तु दिव्ये वा स्थापयेत्
श्रियम् ॥ 13
चतुर्भुजामुदाराङ्गीं सर्वलक्षणसंयुताम् ।
पद्मासनेनोपविष्टां पद्मपत्रायतेक्षणाम् ॥ 14
मुख्याभ्याञ्चैव हस्ताभ्याम् अभीतिवरदायिनीम् ।
जघन्याभ्यां तु हस्ताभ्यां दिव्यपङ्कजधारिणीम् ॥ 15
त्रिकालमर्चयेद्देवीं तन्मन्त्रेण द्विजोत्तमाः ।
प्रणवं पूर्वमुद्धृत्य श्रीबीजं तदनन्तरम् ॥ 16
श्रियै नमष्षडर्णो॓ऽयं मन्त्रस्सर्वार्थसिद्धिदः
श्रां श्रीं श्रूं श्रैं श्रौं श्र इति योजयेद्धृदयादिभिः ॥ 17
मन्त्रेणाऽनेन वै पूर्वं स्नात्वा देशिकसत्तमः ।
प्रक्षाल्य पाणिपादौ च त्वाचम्य च यथाविधि ॥ 18
प्रासादं सम्प्रविश्याऽथ कुर्यात्सर्वं यथोचितम् ।
स्वासने सुखमासीनः प्राम्मुखो वाऽप्युदम्मुखः ॥ 19
करशुद्धिं च दिग्बन्धं प्राणायामं समाप्य च ।
धारणाद्वितयेनाऽथ शोधयित्वा निजं वपुः ॥ 20
श्रीमन्त्रं तु ततस्साङ्गं हस्ते देहे च विन्यसेत् ।
किरीटं वनमालां च कमलद्वयमेव च ॥ 21
हस्तादौ पूर्ववन्यस्य बध्वा वै पद्ममुद्रिकाम् ।
तादात्म्यमवलम्ब्याऽथ हृदयाम्भोरुहोदरे ॥ 22
स्वानन्दधामनिष्टस्य देवस्य परमात्मनः ।
श्रीवत्सात्तु श्रियं देवीं सर्वलक्षणसंयुताम् ॥ 23
अवतार्याऽमृतैर्भोगैर्जपान्तं प्राग्वदर्चयेत् ।
ततो बहिर्यजेद्देवीं प्रागुक्तैर्भोगसञ्चयैः ॥ 24
तदर्थं कल्पयेत्प्राग्वदर्ध्याद्यं पात्रपञ्चकम् ।
प्राग्वत्स्वदेहविन्यस्तान्
मन्त्रानभ्यर्च्य मन्त्रवित् ॥ 25
अर्घ्याद्यैर्घूपपर्यन्तैर्द्वारयागमथाऽऽचरेत् ।
वास्त्वीशं क्षेत्रनाथं च द्वारलक्ष्मीं तथैवच ॥ 26
चण्डीं चैव प्रचण्डीं च गर्भद्वारस्य पार्श्वयोः ।
समभ्यर्च्य विमानस्य पूजनं च समाचरेत् ॥ 27
लोकाध्वतत्वविन्यासं प्राग्वदेव समाचरेत् ।
देवतान्यसने त्वेष विशेषः श्रूयतामिह ॥ 28
यजेन्मसूरकाधारे धर्माद्यं यच्चतुष्टयम् ।
मूर्तयो वासुदेवाद्याः केशवाद्याश्च मूर्तयः ॥ 29
पद्मनाभादयश्चापि यत्र पूज्या मुनीश्वराः ।
तत्तच्छक्तीस्तत्र तत्र यजेत्तानेव वा क्रमात् ॥ 30
यद्वा तच्छक्तिभिस्सार्धं पूजयेत्तान्
यथाक्रमम् ।
लक्ष्मीः कीर्तिर्जया माया व्यूहशक्त्तय ईरिताः ॥ 31
श्रीश्च वागीश्वरी कान्तिक्रियाशक्तिविभूतयः ।
इच्छा प्रीती रतिश्चैव माया धीर्महिमेति च ॥ 32
[[55]]
शक्तयः केशवादीनां क्रमेण परिकीर्तिताः ।
धीस्तारा वारुणी शक्तिः पद्मा विद्या तथैव च ॥ 33
साङ्ख्या विश्वा खगा भूर्गौर्लक्ष्मीर्वागीश्वरी तथा ।
अमृता हरिणी छाया नारसिंही तथा सुधा ॥ 34
श्रीकान्तिवीराः कामा च सत्या शान्तिस्सरोरुहा ।
माया पद्मासना खर्वा विक्रान्तिर्नरसम्भवा ॥ 35
नारायणी हरिप्रीतिर्गान्धारी काश्यपी तथा ।
वैदेही वेदविद्या च पद्मिनी नागशायिनी ॥ 36
त्रिंशच्चाऽष्टाविमा देव्यः पद्मनाभादिशक्तयः ।
यत्राऽन्या भगवन्मूर्तिः पुण्या तत्र श्रियं यजेत् ॥ 37
अन्यान्
विमानदेवांस्तु पूर्वेक्तानेव पूजयेत् ।
विमानस्य चतुर्दिक्षु कल्पितां च विशेषतः ॥ 38
तुष्टिं पुष्टिं च सावित्रीं वाग्देवीं च समर्चयेत् ।
अथाऽग्रमण्डपद्वारे दक्षिणे तु बलाकिनी ॥ 39
वनमालिन्युदग्भागे पूजनीये क्रमेण तु ।
कृत्वैवं द्वारयागं तु कल्पयेदासनं ततः ॥ 40
सर्वाधारमयं देवं पीठस्याऽधः फणीश्वरम् ।
तत्कोणेषु च धर्मादींस्तदूर्ध्वे व्याक्तपङ्कजम् ॥ 41
यामत्रयं ततस्तस्मिन्
यजेदर्ध्यादिभिः क्रमात् ।
गणनाथादिकांश्चाऽथ समभ्यर्च्य यथाविधि ॥ 42
ततः श्रियं समावाह्य मन्त्रन्यासादिकं चरेत् ।
सन्निधानादिकं कृत्वा पद्ममुद्रां प्रदर्शयेत् ॥ 43
मन्त्रान्
विग्रहविन्यस्तान्
लयोक्तविधिनाऽर्चयेत् ।
भोगयागश्च कर्तव्यः पद्मपीठतलोपरि ॥ 44
प्रागादिपद्मपत्रेषु हृदयादीनि पूर्ववत् ।
विदिग्दळेषु चैवाऽस्त्रं नेत्रं केसरजालकम् ॥ 45
पीठोपरि दलाद्बाह्ये त्वाग्नेयेशानकोणयोः ।
किरीटं वनमालां च यातुवायव्यकोणयोः ॥ 46
कमलद्वितयं चाऽपि विन्यसेत्तदनन्तरम् ।
ततो ध्यानं प्रवक्ष्यामि शृणुध्वं द्विजसत्तमाः ॥ 47
अभ्यन्तरे विमानस्य दिव्ये सरासिजासने ।
पद्मासनेनोपविष्टां फुल्लपद्मोदरप्रभाम् ॥ 48
सर्वलक्षणसम्पन्नां सर्वालङ्कारभूषिताम् ।
चलद्विरेफपटलसमाक्त्रान्ताऽलकावलिम् ॥ 49
विलसद्रत्नखचितकिरीटपरिशोभिताम् ।
अर्धचन्द्रललाटस्थराजमानललाटिकाम् ॥ 50
प्रबुद्धोत्पलविस्तीर्णलोचनां सुस्मिताननाम् ।
कटाक्षैः करुणापूर्णैर्जगदाप्यायकारिणीम् ॥ 51
दर्पणोदरसङ्काशविलसद्गण्डमण्डलाम् ।
प्रस्फुरन्नासिकावंशमौक्तिकां भ्रूलतोज्वलाम् ॥ 52
मुक्ताफलाभरदनां विलसद्विद्रुमाधराम् ।
रत्नताटङ्कविलसत्कर्णद्वयमनोहराम् ॥ 53
[[56]]
पूर्णचन्द्रप्रतीकाशवदनां कम्बुकन्धराम् ।
रत्नग्रैवैयकोपेतां माङ्गल्यमणिभूषिताम् ॥ 54
चतुर्भुजां पीवरासां मुक्ताहारैश्च भूशिताम् ।
सुकर्कशदृढोत्तुङ्गपीनवृत्तघनस्तनीम् ॥ 55
विचित्रकञ्चुकोनाड्यां नानाभूषाविभूषिताम् ।
मुख्यदक्षिणहस्तेन भीतानामभयप्रदाम् ॥ 56
सव्येन पाणिपद्मेन श्रितानां वरदायिनीम् ।
पश्चाद्दक्षिणहस्तेन पद्मकुट्मलधारिणीम् ॥ 57
तथाविधेन वामेन दधानां फुल्लपङ्कजम् ।
मणिकङ्कणकेयूर नानारत्नाङ्गुलीयकैः ॥ 58
मण्डितां दिव्यवसनां मेखलाद्यैरलङ्कृताम् ।
गम्भीरनाभिं त्रिविलीविभूषिततनूदराम् ॥ 59
विचित्रमणिमञ्जीरविलसत्पादपल्लवाम् ।
दिव्यगन्धानुलिप्ताङ्गीं दिव्यमाल्यविभूषिताम् ॥ 60
पूर्णेन्द्वयुततुल्याभां सौन्दर्यामृतवारिधिम् ।
वीरलक्ष्मीमिमां ध्यायेत्सर्वाभीष्टप्रदायिनीम् ॥ 61
एवं ध्यात्वा श्रियं देवीं हृदयादींश्च पूर्ववत् ।
किरीटं वनमालां च तथैव कमलद्वयम् ॥ 62
ध्यात्वाऽथ पूजनं कुर्यादासनाद्यैर्यथोदितैः ।
चतुष्षष्ट्युपचारैर्वा द्वात्रिंशाद्भिस्तु वा द्विजाः ॥ 63
हविर्निवेदयेद्देव्यै पृथक् देवार्पितं तु वा ।
जपान्तं पूजयेद्देवीं होमान्तं वा यथाविधि ॥ 64
पारतन्त्याद्बलिं तत्र कदाऽपि न समाचरेत् ।
मूलालयार्चया सार्धं तस्या देशिकसत्तमैः ॥ 65
पवित्रारोहणं कार्यमङ्गत्वेनाधिवासितैः ।
तज्जन्मर्क्षादिके कुर्यात्स्नपनञ्चोत्सवादिकम् ॥ 66
पारतन्त्येऽपि वै लक्ष्म्या नवरात्रिषु चोत्सवम् ।
अङ्कुरार्पणपूर्वं तु रक्षाबन्धपुरस्सरम् ॥ 67
चतुःस्थानार्चनयुतं कुर्याद्राष्ट्राभिवृद्धये ।
बलिदानं ध्वजारोहं तीर्थं तत्र विवर्जयेत् ॥ 68
पारतन्त्ये विधिरयं स्वातन्त्ये तूच्यतेधुना ।
ग्रामे वा नगरेवापि पर्वते वा नदीतटे ॥ 69
सप्राकारं श्रियः स्थानं सविमानं प्रकल्पयेत् ।
तत्र श्रियं प्रतिष्ठाप्य तन्मन्त्रेण यथाविधि ॥ 70
श्रीवत्साद्देवदेवस्य श्रियं बिम्बहृदम्बुजे ।
समावाह्य तु मन्त्रेण साङ्गेन सकलीक्रियाम् ॥ 71
कृत्वा सम्पूजयेद्देवीं भोगैस्तु हविरन्तिमैः ।
अथ श्रियं त्वग्निमध्ये प्रीणयेत्समिदादिभिः ॥ 72
संस्कृत्य विधिवत्कुण्डं वह्निमुत्पादितं तथा ।
संस्कृताज्यस्य विप्लुड्भिस्संस्पृशेदिन्धनादिकम् ॥ 73
सन्तर्पणं तथाग्नेश्च तस्मिन्
मन्त्रासनादिकम् ।
तन्मध्ये हृदयाद्देवीं समावाह्य यथाविधि ॥ 74
[[57]]
समिद्भिश्चापि नित्याभिः काम्यैश्च जुहुयात्तथा ।
स्विष्टकृद्धवनं चाथ प्रायश्चित्ताहुतिं त्वपि ॥ 75
पूर्णाहुत्यादिकं कृत्वा ततो लक्ष्मीं हृदम्बुजे ।
विसृज्य परिवाराणां होमं कृत्वा यथाविधि ॥ 76
प्रविश्य तु ततो देव्या मन्दिरं यजनास्पदम् ।
समर्पणं च होमस्य पितॄणां तर्पणं त्वपि ॥ 77
बलिदानं च भूतानामिष्टशिष्टजनस्य च ।
प्रदानं यज्ञ शीलानां कारिणां भावितात्मनाम् ॥ 78
अनुयागं च विधिवन्नैवेद्यप्राशनादिकम् ।
पूर्ववत्सकलं कुर्याद्भोगमोक्षप्रसिद्धये ॥ 79
अत्रैवं बलिदानादौ परिवारार्चनक्रमः ।
प्रथमावरणे पूज्याः प्रागादौ कुमुदादिकाः ॥ 80
विभीषिकां शाङ्करीं च यजेत्तद्द्वारपार्श्वयोः ।
द्वितीयावरणे पश्चादुपेन्द्रादीन्
प्रपूजयेत् ॥ 81
तद्द्वारपार्श्वयोश्चैव शङ्खपद्मनिधी यजेत् ।
तृतीयावरणे पश्चादिन्द्रादीन्
परिपूजयेत् ॥ 82
तद्द्वारपार्श्वयोः पूज्यौ नलकूबरजृम्भलौ ।
चतुर्थावरणे चैव वज्रादीन्
परिपूजयेत् ॥ 83
तद्द्वारदक्षिणे पार्श्वे शिबिकुण्डलमर्चयेत् ।
उत्तरे मणिभद्रं च पञ्चमावरणे ततः ॥ 84
लोहिताक्षादिकानिष्ट्वा ततस्तद्द्वारपार्श्वयोः ।
जयां च विजयां चैव पूजयेत्तु यथाक्रमम् ॥ 85
महापीठे तु विधिवत्कुमुदादीन्
समर्चयेत् ।
सुमुखीं पूजयेद्विष्वक्सेनस्थाने चतुर्भुजाम् ॥ 86
वेत्रहस्तां दक्षिणेन तर्जनीं चापि बिभ्रतीम् ।
पश्चाद्दक्षिणहस्ताभ्यां दधानां पङ्कजद्द्वयम् ॥ 87
एवं सर्वपरीवारान्
बलिदानादिभिर्यजेत् ।
पवित्रारोहणादीनि पृथक्कुर्याद्यथाविधि ॥ 88
गरुडध्वजमारोप्य कुर्याच्चैव महोत्सवम् ।
चतुस्स्थानार्चनादीनि श्रीमन्त्रेण समाचरेत् ॥ 89
एवमुक्तो मुनिश्रेष्ठाः! श्र्यादिदेव्यर्चनक्रमः ।
एवं पुष्ट्यादिदेवीश्च पूजयेत्स्वस्वमन्त्रतः ॥ 90 । मुनयः।
भगवन्
! सर्वशास्त्रज्ञ ! शरणागतवत्सल! ।
श्रुतं श्रियाद्यर्चनं तु त्वत्तोऽस्माभिर्मुनीश्वर! ॥ 91
सुदर्शनार्चनं त्वद्य वक्तुमर्हसि नः प्रभो! । । नारदः ।
शृणुध्वं मुनयस्सर्वे सावधानेन चेतसा ॥ 92
सौदर्शनार्चनविधिमैहिकामुष्मिकप्रदम् ।
सौदर्शनीया मन्त्राश्च मूर्तयश्चाप्यनेकधा ॥ 93
तत्राभिमतमन्त्रेण र्मूीन्त चाभिमतां यजेत् ।
दिव्याद्यायतने चित्रे पाङ्गणादौ तु कुत्रचित् ॥ 94
[[58]]
ग्रामादौ तु नदीतीरे विपिने पर्वतेपिवा ।
प्रासादं मण्डपं वाथ सचित्रं सर्वतोमुखम् ॥ 95
प्राम्मुखं वापि कुर्वीत सगवाक्षकवाटकम् ।
एकादितलसंयुक्तं चक्रलाञ्छनलाञ्छितम् ॥ 96
मुखभद्रसमोपेतमारोहणसमन्वितम् ।
सप्राकारं समासाद्य प्रासादाभ्यन्तरे तथा ॥ 97
बिम्बं सौदर्शनं तत्र प्रतिष्ठाप्य यथाविधि ।
यजेत्त्रिकालं प्रयतो देशिकस्तस्य मन्त्रतः॥ 98
तत्राधिव्यादि दुर्भिक्षभूतवेतालदुर्ग्रहाः ।
न बाधन्ते जनान्
सर्वान्
शुभं भवति नित्यशः ॥ 99
तत्रार्चनविधानं तु शृणुध्वं मन्त्रपूर्वकम् ।
सुगुप्ते भूतले शुद्धे वर्णचक्रं परिस्तरेत् ॥ 100
अकारादि क्षकारान्तं सर्वार्णमयरूपिणम् ।
स्वक्षनाभ्यरनेमीभिः प्रधीभिश्चाप्यलङ्कृतम् ॥ 101
कारणं सर्वमन्त्राणां क्षेत्रे प्रणवमालिखेत् ।
अकाराद्या विसर्गान्ताः स्वरा नाभ्यङ्गमाश्रिताः॥ 102
ककारादी भान्तानि तदराणां त्रिरष्टके ।
मादिहान्तानि नेमौ तु क्षार्णं प्रधिगणे स्थितम् ॥ 103
शब्दब्रह्ममयं चक्रं पुरा वर्णगतं ततः ।
प्रणवाद्यैर्नमोन्तैश्च सञ्ज्ञाभिः क्त्रमशस्ततः ॥ 104
विन्यस्तमातृयन्त्रं स्वं देशिको विधिवद् गुरुः ।
समभ्यर्च्यार्ध्यपुष्पाद्यैर्मातृकामन्त्रविग्रहम् ॥ 105
ततस्समुद्धरेमन्त्रान्
सर्वाभिमतसिद्धिदान् ।
जेतुं शक्त्यात्मना या तु सृष्टिस्थितिलयोन्मुखी ॥ 106
क्रियाशक्तिस्समुद्दिष्टा सुकल्पजननी पुरा ।
कालरूपमधिष्ठाय तयैतद्बृंहितं जगत् ॥ 107
कालचक्रं जगच्चक्रं तस्मात्सौदर्शनं वपुः ।
तमदिष्ठाय सा शक्तिर्जीवभूता व्यवस्थिता ॥ 108
विनाकृतं तया सर्वमसत्कल्पमिदं भवेत् ।
तस्मात्समुद्धरेच्छक्तिमग्निष्टोमसमप्रभाम् ॥ 109
अक्षाधारां तु वै नित्यामनाद्यन्तां च वैष्णवीम् ।
पूर्वं नेभ्यन्तिमद्वन्द्वं तदाद्यं सानलद्वयम् ॥ 110
नाभितुर्यान्तिमद्वाभ्यां पिण्डमेतदलङ्कृतम् ।
सौदर्शनमहाशक्तिः सर्वसिद्धिप्रदायिनी ॥ 111
जीवभूता षडर्णस्य प्रकाशानन्दरूपिणी ।
हृदयाद्यङ्गसिद्ध्यर्थं पिण्डमेतत्स्वरोज्झितैः ॥ 112
दीर्घैराद्यैस्त्रिभिश्चान्त्यैर्भेदयेन्नेत्रपश्चिमम् ।
प्रणवादीनि चैतानि तुर्यान्तैर्हृदयादिभिः ॥ 113
नमस्स्वाहावषड्ढुम्फड्वौषड्भिर्जातिभिस्सह ।
क्रमान्नियोजनीयानि विज्ञानादिगुणैस्सह ॥ 114
शक्तेः प्रकृतिरूपस्य षडर्णस्योद्धृतिस्त्वथ ।
पूर्ववत्समुपाहृत्य चान्तिमद्वयमन्तिमम् ॥ 115
[[59]]
तत्राष्टमंसतृतीयमस्यां यान्त्यन्ततोऽन्तिमम् ।
सपञ्चमस्वरान्तं च कुर्यान्नेम्याद्यभूषितम् ॥ 116
पश्चादेकादशारार्णयुक्तं तद्द्विगुणारगम् ।
अन्त्यार्णमविमुक्तं तु कुर्यात्तत्पञ्चषष्टयोः ॥ 117
अयं सौदर्शनो मन्त्रः षडर्णः समुदीरितः ।
तृतीयः पञ्चमः षष्टः प्रत्येकं त्र्यक्षरः स्मृतः ॥ 118
अन्ये वर्णसमोपेता वर्णाः स्युर्व्द्यक्षतास्त्रयः ।
एष कालात्मनो विष्णोर्विश्वरूपस्य वाचकः ॥ 119
सतारया च शक्त्या च ह्यष्टार्णः परिकीर्तितः ।
क्षेत्रक्षेत्रज्ञयुक्त्या तु यथा प्रकृतिगः पुमान् ॥ 120
स्थूलसूक्ष्मात्मको ध्येयस्तथा सौदर्शनो हरिः ।
दर्शनं परतत्वस्य स्यात्तदाख्यानदर्शनम् ॥ 121
तन्निष्टानामिदं नित्यमज्ञानातिमिरापहम् ।
छिनत्ति संशयं तेषां सदुपायप्रवृत्तये ॥ 122
रूपान्तरमिदं तस्य संशयच्छेदकारणम् ।
नूनं वर्णाश्रमाचारनिष्ठानामाननेषु तु ॥ 123
छिनत्ति दूषकान्
जन्तून्
स्वकविद्याप्रभावतः ।
लाञ्छितानामनेनाशु भक्तानां भावितात्मनाम् ॥ 124
करस्थो विजयस्तु स्यादिह लोके परत्र च ।
किं पुनर्विषये यत्र स्थापिते पूजिते सति ॥ 125
लक्षणं हृदयादीनां मन्त्राणां तूच्यतेऽधुना ।
प्रागेव हृदयादीनां मन्त्रार्णानि यथाक्रमम् ॥ 126
विन्यसेद्बीजभूतानि तारान्ते बिन्दुना ततः ।
अविसूनां क्रमादन्ते टथा सूर्याक्षरद्वयात् ॥ 127
महासुदर्शनज्वालापदयोरन्तिमेऽपि च ।
चक्रायेति पदं षोढा शिरोन्ते योजयेत्क्रमात् ॥ 128
विज्ञानादिगुणोपेतैस्तुर्यान्तैर्हृदयादिभिः ।
नमस्स्वाहादिनेत्रान्तैः प्रागुक्तविधिना लिखेत् ॥ 129
ध्येयान्याकारवर्तीनि भोगस्थानेषु मूलवत् ।
वर्णभूषणवस्त्रास्त्रभुजसंस्थानचेष्टितैः ॥ 130
ज्ञात्वैवं मन्त्रमाहात्म्यं योऽर्चयेद्विधिपूर्वकम् ।
दिग्बन्धवह्निप्राकारगायत्र्यावाहनादिकैः ॥ 131
यागोपकरणैर्मन्त्रैर्भोगदानविवर्जितैः ।
क्त्रमात्सर्वफलावाप्तिर्मन्त्रसिद्धिश्च जायते ॥ 132
दशदिग्बन्धमन्त्राणां वक्ष्यते लक्षणं पुरा ।
ओम्पूर्वं पुरुषायेति स्वाहान्तं तदनन्तरम् ॥ 133
अस्त्रेण बन्धयामीति स्वाहान्तं च षडक्षरम् ।
इति दिग्बन्धमन्त्रोऽयमीरितो दुष्टदोषहृत् ॥ 134
प्रणवं प्राक् समुद्धृत्य मनुन्नाऽग्निजाययोः ।
आयान्तं विन्यसेच्चक्त्रमग्निप्राकारसञ्ज्ञकम् ॥ 135
कीर्तितं चक्रगायत्रीं शृणुध्वं मुनिसत्तमाः ।
जातिपूर्वं पुरस्कृत्य चक्रायेति समुद्धरेत् ॥ 136
[[60]]
द्वितीयं विष्णुगायत्र्या नृसूक्ताद्यक्षरत्रयम् ।
नेत्राभ्यां पदमादाय नेमिपूर्वान्त योजितम् ॥ 137
धीमहीति तदन्ते नो विनिवेश्योऽनिवारितः ।
गायत्र्यन्तं समुद्धार्यं तदन्ते चतुरक्षरम् ॥ 138
सौदर्शनी समुद्दिष्टा गायत्री तारकाक्षरा ।
सतारका पुरा चेयं भवेदेकाक्षराधिका ॥ 139
अथ मन्त्रत्रयं वक्ष्ये सामान्यं सर्वपूजनि ।
तारद्वयं पुरोद्धृत्य परमं पदमुद्धरेत् ॥ 140
धामेत्यवस्थितं चाऽथ नेम्याद्यं द्विनवारकम् ।
द्विदशारं गतं वर्णं नाभिपञ्चममूर्धनि ॥ 141
ततस्तु ग्रहकाम्यायो इति पञ्चार्णमुद्धरेत् ।
युतं नेमिद्वितीयेन द्विनवारं गतं ततः ॥ 142
षोडशारं गतं वर्णं द्वितीयस्वरसंयुतम् ।
नेमिपञ्चमवर्णं च षोडशारं गतं पुनः ॥ 143
तृतीयस्वरसंयुक्तं तृतीयं नेमिमण्डलात् ।
नेम्यन्तमास्वरोपेतमारान्तश्च स्वरान्तरम् ॥ 144
नेम्याद्यं षोडशारस्थं नेम्यष्टममिकारगम् ।
न्यूनविंशारगोर्ध्वं तु द्विनवाक्षरमूर्धनी ॥ 145
स्वरं तृतीयं संयोज्य ततश्च द्विनवारगम् ।
पुनर्मन्त्रशरीरेति प्रणवान्तं ततो नमः ॥ 146
पुनश्च नमसायुक्तो मन्त्रेयम् आवाहनोचितः ।
प्रदाने सर्वभोगानां मन्त्रोयं सम्प्रकाश्यते ॥ 147
प्रणवं पूर्वमुच्चार्य सर्वभोगैककारणम् ।
नेम्यन्तं बिन्दुसंयुक्तं त्रिधेदं पदमप्यथ ॥ 148
गृहाणेति शिरोन्तोयं भोगदानस्य वाचकः ।
आवाहने तथार्चायां विसर्जनविधौ तथा ॥ 149
प्रणवं पूर्वमुद्धृत्य सम्बोध्य भगवन्निति ।
मन्त्रमूर्ते पदं दद्यात्स्वपदं च द्वितीयया ॥ 150
आसादय क्षमस्वेति प्रणवान्तं समुद्धरेत् ।
सुदर्शनार्चनार्थं तु मन्त्रास्त्वेवं मयोदिताः ॥ 151
इहार्चनविधानं तु प्रवक्ष्यामि मुनीश्वराः ।
प्राग्वत्स्नानादिकं कृत्वा प्रविश्य यजनालयम् ॥ 152
प्रक्षाल्य पादावाचम्य सोत्तरीयः स्वलङ्कृतः ।
धृतोर्ध्वपुण्ड्रः कुसुमैर्द्वार्स्थानर्भ्यर्च्य पूर्ववत् ॥ 153
कवाटोद्धाटनं कृत्वा प्रविश्याभ्यन्तरे विभुम् ।
प्रणिपत्य च गायत्र्या पाणिप्रक्षालनादिकम् ॥ 154
अर्चायां विष्टरे यन्त्रे कृत्वा मार्गत्रयं ततः ।
प्रासादं शोधयित्वास्य पुरतः फलकादिके ॥ 155
प्रोक्षिते चास्त्रमन्त्रेण सम्मुखं रुचिरासने ।
समासीनस्स्वपार्श्वस्थयाज्ञीयं चाधिवासनम् ॥ 156
करशुद्धिं स्थानशुद्धिं कृत्वाऽस्त्रेण यथापुरम् ।
पाणिभ्यामुक्तमन्त्रेण संयुक्तेनास्त्रमुद्रया ॥ 157
[[61]]
पूजास्थानगतान्
विघ्नान्
बाह्यतो दृश्यविग्रहान् ।
विरेच्य बन्धनं कुर्याद्दिक्षु चैव विदिक्षु च ॥ 158
कवचेनावकुण्ठ्याथ प्राणानायम्य पूर्ववत् ।
भूतशुद्धिं ततः कृत्वा मन्त्रन्यासमथाचरेत् ॥ 159
अकारादिक्षकारान्तं मातृकां मन्त्रमातरम् ।
विन्यसेत्करयोः पूर्वं विग्रहे चक्रमाप्लवन् ॥ 160
कृत्वैवं व्यापकन्यासमादित्यातपसप्रभम् ।
दक्षेतरक्रमेणैव शाखासु तलयोरपि ॥ 161
अङ्गुष्ठादिकनिष्ठान्तमेकैकस्याश्चतुश्चतुः ।
एवं द्वाविंशकं न्यस्य तलयोर्दशकं ततः ॥ 162
मध्ये च द्विचतुष्के च पञ्चकं पञ्चकं तथा ।
प्रणवद्वयमध्यस्थानेवं न्यस्य करद्वये ॥ 163
व्यापकन्यास पूर्वं तु स्वशरिरोपि विन्यसेत् ।
मूर्ध्नः पादतलं यावत्पाणिभ्यां तपनांशुवत् ॥ 164
व्यापयित्वा ततो न्यासं पृथगेव समाचरेत् ।
केशान्ते वक्त्रवृत्ते च नेत्रयोः श्रवणद्वये ॥ 165
घ्राणरन्द्रद्वये गण्डद्वये दक्षेतरक्रमात् ।
उत्तराधरयोगेन दन्तयोस्तच्छदद्वये ॥ 166
मूर्ध्नि न्यसेत्स्वरानन्यान्
सविसर्गाननन्तरम् ।
कवर्गं दक्षिणे बाहौ सन्धिपञ्चगतं क्रमात् ॥ 167
वामे तथा चवर्गं च पादयोर्दक्षिणादितः ।
सन्धिगौ टतवर्गौ च पूर्ववत्तुन्दपार्श्वयोः ॥ 168
पृष्ठे नाभौ च हृदये पवर्गं धातुसप्तके ।
यादिसान्तानि वर्णानि हकारं हृदयान्तरे ॥ 169
क्षकारं हृदयाकाशे न्यस्यैवं मातृकां पुरा ।
ततः शक्त्या षडर्णं तु न्यसेत्करशरीरगम् ॥ 170
करन्यासं पुरा कूर्यात्तच्छृणुध्वं मुनीश्वराः ।
पुटीकृतेन ताराभ्यां मन्त्रेणैव सशक्तिना ॥ 171
नखान्तं मणिबन्धादि प्राग्वत्पाणिद्वयं मृजेत् ।
आद्यन्ते तारशक्त्याद्यैः शक्तिवर्णैस्सबिन्दुकैः ॥ 172
अङ्गुष्ठादिकनिष्ठान्तं न्यस्य मध्यमपर्वसु ।
विन्यसेत्करजाग्रेषु चरमं वर्णमेव च ॥ 173
एवमर्णानि विन्यस्य हृदयादीनि विन्यसेत् ।
मूलाग्रपर्वस्वङ्गानि वर्णन्यासक्रमेण तु ॥ 174
पाणिभ्यामालभेद्देहमामूर्ध्नश्चरणावधि ।
कृत्वैवं व्यापकन्यासमङ्गन्यासं समाचरेत् ॥ 175
मूर्ध्नि वक्त्रे च हृदये नाभौ गुह्ये च पादयोः ।
पादादिश्च शिरोन्तस्तु संहृतिन्यास उच्यते ॥ 176
हृदि मूर्ध्नि शिखायां तु स्कन्धयोः करमध्यतः ।
नेत्रयोर्न्यसनीयानि स्स्वैर्मन्त्रैरुदितः क्रमात् ॥ 177
हृदयादीनि विन्यस्य पश्चात्पाणितलद्वये ।
किरीटं कौस्तुभं मालां श्रीवत्सं च यथापुरम् ॥ 178
[[62]]
विन्यसेदायुधान्यष्टौ पद्मादीनि यथाक्रमम् ।
दक्षिणोत्तरयोरंसे इच्छाशक्तिं स्वपार्श्वयोः ॥ 179
ऊरुमूले मनस्तत्त्वं न्यस्य मन्त्रमयं स्वकम् ।
भावयेदहमित्यन्तस्सुदर्शनवपुर्हरिः ॥ 180
गायत्र्यावर्तयेद्बाह्ये स्वात्मानं चक्रमुद्रया ।
चक्रज्वालावलिं विप्राः परितो मन्त्रवित्तमः ॥ 181
भावनाजनितं यागमाचरेदादिचोदितम् ।
नियम्य करणग्रामं प्राग्वद्वै ज्ञानगोचरे ॥ 182
आसनं हृदि सङ्कल्प्य त्वनन्ताद्यं तु पूर्ववत् ।
परस्माद्भगवत्तत्त्वाच्चित्स्वरूपं परात्मकम् ॥ 183
मनसा मन्त्रमुच्चार्य विष्टरोर्ध्वेवतार्य च ।
मन्त्रन्यासादिकं कृत्वा लयभोगार्चनं तथा ॥ 184
शिरोर्ध्वे देवदेवस्य भावयेदिन्दुमण्डलम् ।
तत्स्रुतैरमृतौघैश्च कुर्यादर्घ्यादिकल्पनम् ॥ 185
षोडशैरुपचारैर्वा द्वात्रिंशद्भिस्तु वा यजेत् ।
कृत्वैवं मानसं यागं जपान्तं तु यथाविधि ॥ 186
ततो बहिर्यजेद्देवं हेतीशं देशिकोत्तमः ।
मूर्तैरर्घ्यादिभिर्भोगैर्विधिवत्समुपाहृतैः ॥ 187
प्राग्वदर्घ्यादिपात्राणां स्थापनं पूजनं ततः ।
देहविन्यासमन्त्राणां गर्भद्वारस्थपूजनम् ॥ 188
चण्डं चैव प्रचण्डं च गर्भद्वारे प्रपूजयेत् ।
तथाऽग्रमण्टपद्वारे यजेद्धातृविधातृकौ ॥ 189
कृत्वैवं द्वारयागं तु प्रविश्याभ्यन्तरं ततः ।
फणीश्वरं समारभ्य योगपीठं प्रकल्पयेत् ॥ 190
गणनाथादिकांश्चैव समभ्यर्च्य यथाविधि ।
ततः सुदर्शनं देवं समावाह्य तु पूर्ववत् ॥ 191
मन्त्रन्यासं ततः कुर्यात्सृष्टिन्यासादितस्त्रयम् ।
स्थानेषु हृदयादीनि भूषणानि तथैव च ॥ 192
ततश्चास्त्रवराणां तु ह्यष्टकं चापि विन्यसेत् ।
इच्छाशक्तिं मनस्तत्वं विन्यसेच्च स्वदेहवत् ॥ 193
लयभोगौ च कृत्वाथ ध्यायेद्देवं सुदर्शनम् ।
सहस्रारं महाचक्रमयुताग्निचयोत्कटम् ॥ 194
षडध्वमयमुद्भ्रान्तं भगवच्छक्तिजृम्भितम् ।
अक्षस्थं परमात्मानं नारायणमनामयम् ॥ 195
चक्ररूपिणमीशानं दिव्यकुङ्कुमसन्निभम् ।
पिङ्गाक्षं पिङ्गकेशाड्यं रक्ताम्बरधरं विभुम् ॥ 196
महौजसं महाकायं भुजैरष्टभिरन्वितम् ।
दंष्ट्रानिष्ठ्यूतघोराग्निज्वालाकोलाहलाकुलम् ॥ 197
कुटिलभ्रुकुटीभङ्गभङ्गुरालकषट्पदम् ।
ललाटनयनोद्गीर्णज्वालाज्वलितदिम्मुखम् ॥ 198
ऊर्ध्वज्वालागणालीढकिरीटतटाशोभितम् ।
श्रीवत्सकौस्तुभोरस्कं दिव्यमालाविभूषितम् ॥ 199
[[63]]
उद्यज्जानुमनेकास्त्रं स्थितं परमशोभनम् ।
गदाङ्कुशौ च मुसलं चक्रमत्युग्रतेजसम् ॥ 200
शङ्खं च सशरं चापं पाशं कौमोदकीं क्रमात् ।
मुख्यदक्षिणहस्तादि मुख्यवामकरावधि ॥ 201
दधानमतुलं वीरं दिव्याभरणभूषितम् ।
निजाट्टहाससन्त्रस्यद्दैत्यदानवसञ्चयम् ॥ 202
अयुतायुतवह्नीनामास्पदे दीप्ततेजसाम् ।
अध्वषट्कमये चक्रे चक्रिणं चक्रमुत्तमम् ॥ 203
ध्यायेदेवंविधं देवं चिन्तितार्थफलप्रदम् ।
ध्यायेच्च हृदयादीनि किरीटादीनि पूर्ववत् ॥ 204
आयुधानामथ ध्यानं शृणुध्वं द्विजसत्तमाः ।
चक्रशङ्खगदाः पद्मं प्राग्वद्ध्यायेद्गुरूत्तमः ॥ 205
कृशाङ्गं दीर्घबाहुं च पिङ्गलाक्षं तु चाङ्कुशम् ।
विकरालमुखं रौद्रं भिन्नाञ्जनगिरिप्रभम् ॥ 206
कृशोदरं च मुसलमग्निज्वालावलीवृतम् ।
अङ्गारराशिसदृशं प्रलम्बमतिनिष्ठुरम् ॥ 207
नीलोत्पलदलश्याममिष्वस्त्रं बाणविग्रहम् ।
नानारूपं च निशितं दीर्घदिग्बन्धविक्रमम् ॥ 208
कार्मुकं हेमगौरं च किङ्किणीजालमण्डितम् ।
आस्फोटयन्तं स्वकरं महाजलदनिःस्वनम् ॥ 209
पाशं फणिगणाकीर्णं विद्युज्जिह्वं भयानकम् ।
हेमालिपाण्डुराभं च घोरास्यं रक्तलोचनम् ॥ 210
ध्येयाः स्वरुचिरसंयुक्ताः द्विभुजाः पुरुषोत्तमाः ।
एतेस्त्रनायकाः सर्वे विभोराज्ञाप्रतीक्षकाः ॥ 211
प्रोत्थिता विचलन्तश्च सुसमैः स्थानकैः स्थिताः ।
श्रोणीतटार्पितकराश्चामरव्यजनोद्यताः ॥ 212
सपद्मं तु किरीटाद्यं वर्जयित्वा चतुष्टयम् ।
तर्जन्यन्तश्च दुष्टौघमन्येषां दक्षिणं करम् ॥ 213
स्मर्तव्यं ध्यानकाले तु सर्वेषामथ मस्तके ।
ध्येयं स्वकं स्वकं चिह्नं सुप्रसिद्धं निराकृतिः ॥ 214
अधिष्ठातृक्रमस्तेषां कथ्यते मुनिसत्तमाः ।
ज्ञातव्यश्चाङ्कुशः कामो मुसलो नागनायकः ॥ 215
शब्दादयः सायकास्त्रं धनुर्विद्धि समीरणम् ।
पाशो मायेति विज्ञेय एवं ध्यात्वा समर्चयेत् ॥ 216
आसनाद्यैश्च संस्पर्शैर्हृदयङ्गमपश्चिमैः ।
प्रीणयेत्तु विधानेन होमान्तं वा जपान्तिमम् ॥ 217
एवमेव स्वयंव्यक्तं दिव्यं सैद्धमथापि वा ।
स्थापितं मनुजैर्वापि शैलमृल्लोहसम्भवम् ॥ 218
अष्टबाहुं चतुर्बाहुं तथा षोडशबाहुकम् ।
चलस्थिरविभागेन स्थापितं च यथारुचि ॥ 219
त्रिकालमर्चयेद्देवं सर्वानिष्टनिवारकम् ।
नैमित्तिकानि काम्यानि नित्यानि यजनानि च ॥ 220
[[64]]
विशेषेणैव कार्याणि विना स्वापं महोत्सवम् ।
शान्तिके पौष्टिके चैव तथैवाप्ययनादिषु ॥ 221
ध्यानेन पूजितेनैव हुतेन जपितेन च ।
समीहितानि पूर्यन्ते भक्तानां भावितात्मनाम् ॥ 222
इति सम्यक् समाख्यातं परं सौदर्शनार्चनम् ।
इति यां लक्ष्मीसुदर्शनार्चनविधिर्नाम सप्तमोऽध्यायः