षष्ठोऽध्यायः
6 – पितृसंविभागादि - शयनोत्सवान्त विधिः
मुनयः।
पितॄणां संविभागस्य विधिः कीदृक् फलं च किम् ।
तत्सर्वं मुनिशार्दूल वर्ण्यतां भवताऽधुना ॥
नारदः
आराध्यस्याऽग्रतो विप्राः प्रत्यहं क्रियते तु यत् ।
विज्ञेयं संविभागं तमुत्तमं सर्वकर्मणाम् ॥ 2॥
संविभागात्पितॄणां च भवत्यनृणवान्
नरः।
प्रयान्ति तृप्तिमतुलां तेन कर्मवशादपि ॥ 3॥
संविभागाः पितॄणां च यथाकार्यस्तथोच्यते ।
कुण्डस्य योनिनिकटे दक्षिणाग्रांस्तरे कुशान् ॥ 4॥
भद्रपीठसमीपे तु क्ष्मातले वा तदूर्ध्वतः ।
स्तरोपरि विकीर्याऽथ तिलान्
सरजतोदकान् ॥ 5॥
क्रमेण भावयेतत्र पितॄनथ पितामहान् ।
तृप्यतेह्यथ सर्वेषां देवाय़ विनिवेद्य च ॥ 6॥
प्रोक्षितान्यन्नपात्राणि चत्वारि कबलानि वा ।
स्तरोर्घ्वे तु निधायाऽथ सम्पूज्याऽर्घ्यादिना ततः॥ 7
क्रमेण चातुरात्मीयैर्मन्त्रैरप्यययोगतः ।
ततस्तु नाम्ना गोत्रेण मन्त्रपूर्वं तिलोदकम् ॥ 8॥
सर्वेषामर्घ्यकलशात्
प्रदद्याच्च यथाक्रमम् ।
तादर्थ्येनाऽथ चतुरो विनिवेश्याऽऽसनेषु च ॥ 9॥
लब्धलक्षात्परे तत्वे ब्राह्मणान्
पाञ्चरात्रिकान् ।
प्राम्मुखं द्वितयं चैव द्वितयञ्चाप्युदङ् मुखान् ॥ 10॥
[[48]]
सम्पद्यभावे ऽप्येकं वा विनिवेश्योत्तराननम् ।
अथ तेषां क्रमात्कुर्यादर्चनं चातुरात्म्यवत् ॥ 11॥
अर्घ्यानुलेपनाद्यैस्तु भोगैर्मात्रावसानकैः।
तत्तत्कालोचितैस्सर्वैरनुपादेयवर्जितैः ॥ 12॥
तैश्चापि मौननिष्ठैस्तु भवितव्यं सुयन्त्रितैः।
वाग्यता बद्धलक्षास्त्वप्यन्नमूर्तौ जनार्दने ॥ 13॥
येऽश्नन्ति पितरस्तेन तृप्तिमायान्ति शाश्वतिम् ।
अतस्सव्यभिचारं तु मौनं वर्ज्यं क्रियापरैः॥ 14॥
शुभमव्यभिचारं यत्तत्कार्यं सर्ववस्तुषु ।
यदङ्गसङ्केतमयैरव्यक्तैर्नासिकाक्षरैः ॥ 15॥
कृतमोक्षपुटैर्बद्धैर्मौनं
तत्सिद्धिहानिकृत् ।
स्वयमेव स्वबुद्ध्या यत्सर्ववस्तुषुवर्तते ॥ 16॥
शब्दैरनुपदिष्टैस्तु तन्मौनं विद्धि सर्वदा ।
तस्माद्वै श्राद्धभोक्तॄणां दिव्ये वा पितृकर्मणि ॥ 17॥
दद्यान्नैवेद्यवत्सर्वं मर्यादाऽभ्यन्तरेऽग्रतः ।
येनाऽऽचमनपर्यन्तं कालं तिष्ठन्ति वाग्यताः ॥ 18॥
विधिनाऽनेन वै नित्यमथ यज्ञे तु वैष्णवे ।
सम्विभागःपितॄणां च कार्यस्तद्द्रविणैर्नरैः ॥ 19॥
कृत्वा तिलोदकान्तं वा फलमूलैस्त्वशक्तितः।
तदर्धं ग्रासमात्रं तु दद्याद्गोष्पथभैक्षुके॥ 20॥
यस्माद्दिव्यैर्महामन्त्रैर्दत्तं यत्पूजितेऽच्युते ।
पित्रर्थमल्पं वा भूरि तत्तेषामक्षयं भवेत् ॥ 21॥
तमभ्यर्च्याऽर्घ्यगन्धाद्यैर्मूलमूर्तिगतं विभुम् ।
प्राङ्गणेषु च सर्वेषु प्रासादेष्वाश्रमेषु च ॥ 22॥
प्रतिष्ठितेषु शोभार्थं विभवव्यूहमूर्तिषु ।
तथैव गोपुरद्वारदिङ् मूर्तिषु च मण्टपे ॥ 23॥
सान्निध्यं चैवं यातासु शक्त्या नित्यं समर्चनम् ।
षोडशैरुपचारैर्वा द्वात्रिंशद्भिस्तन्तोऽधिकैः ॥ 24॥
कुर्यात्तन्मूर्तिमन्त्रैश्च तथा नैमित्तिकेष्वपि ।
जपान्तं हवनान्तं वा स्नानाद्यं साधकस्ततः ॥ 25॥
तत्तन्मूर्त्यग्रदेशस्थे कुण्डॆ होमं समाचरेत् ।
न कर्माऽचार्दिकं तत्र स्नपनं चोत्सवादिकम् ॥ 26॥
बलिदानं च सर्वत्र पवित्रारोहणादिषु ।
नाचर्तव्यं विशेषेण परतन्त्रासु मूर्तिषु ॥ 27॥
नित्याभिषेकमात्रं तु तासु तत्र समाचरेत् ।
सितादिवर्णयुक्तासु प्रोक्षणं वा निवेदनम् ॥ 28॥
मूलालयार्चया सार्धं परतन्त्रासु देशिकैः ।
पवित्रारोहणं कार्यमञ्जत्वेनाऽधिवासितैः ॥ 29॥
पूरकेषु च सर्वेषु तथैवाऽऽग्रयणादिके ।
खगेशविष्वक्सेनादि परिवारगतेष्वपि ॥ 30॥
प्रतिष्ठितेषु गेहेषु पूज्यमाश्रयमूर्तिवत् ।
अमूर्तस्य खगेशस्य विष्वक्सेनादिकस्य तु॥ 31॥
[[49]]
कुमुदादिगणेशानां द्वारवरणवासिनाम् ।
अन्येषां परिवाराणां महापीठनिवासिनाम् ॥ 32॥
अग्रे नित्योत्सवार्चायाः दद्यात्कालत्रये बलिम् ।
साकारो वा निराकारो विष्वक्सेनो गणैस्सह ॥ 33॥
यद्वा समर्चनीयश्च बल्यन्ते शिष्ट वस्तुभिः ।
नित्योत्सवं ततः कुर्यात्सर्वालङ्कारसंयुतम् ॥ 34॥
प्राकारद्वारदेवानां बलिदानपुरस्सरम् ।
तद्विधानं प्रवक्ष्यामि श्रुणुध्वं मुनिपुङ्गवाः॥ 35॥
कृतेन येन भक्तानामभीष्टं जायते फलम् ।
नित्योत्सवार्थं बिम्बं तु सौवर्णं राजतं तु वा ॥ 36॥
ताम्रजं पैत्तलं वाऽथ नात्युच्चं तच्चतुर्भुजम् ।
मूलबेराऽनुरूपं च यदेव स्थापितं पुरा ॥ 37॥
वस्त्राऽऽभरणमाल्यैश्च यथाशोभमलङ्कृतम् ।
मूलबिम्बगतं शक्तिं तस्मिन्नारोप्य मन्त्रतः ॥ 38॥
समभ्यर्च्याऽर्ध्यपुष्पाद्यौ र्भोगैर्धूपान्तिमैस्ततः ।
आप्तैराराधिते देवे स्वयंव्यक्ताऽऽलयादिषु ॥ 39॥
साधकं वरयेदन्यं बलिदानदिकर्मणि ।
पुरा गर्भगृहद्वारि तथा चैवाग्रमण्टपे॥ 40॥
घण्टानादसमेतेन दीपेन ज्वलितेन तु ।
द्वार्स्थानर्घ्यादिधूपान्तैस्समभ्यर्च्याऽर्घ्यवारिणा ॥ 41॥
दत्वाऽर्हणं ततश्चाऽन्नं तर्पणाम्भस्ततः परम् ।
ताम्बूलं च क्रमाद्दत्वा तत्तन्मन्त्रैरनुक्रमात् ॥ 42॥
स्वर्णादिनिर्मितं यानं पुरस्तात्प्रथमाऽङ्कणे ।
सुगन्धपुष्पप्रभया क्षौम्यैर्माल्यैस्सितादिभिः ॥ 43॥
यथाशोभामलङ्क्रुत्य तस्मिन्
बल्यर्थकौतुकम् ।
प्राचीमुखं समोरोप्य प्राङ्कणेषु प्रदक्षिणम् ॥ 44॥
आतपत्रैस्सिताद्यैश्च मायूरैः केतुयष्टिभिः ।
पताकाभिश्चामरैश्च तालवृन्तैश्च शोभनैः ॥ 45॥
गणिकादेवदासीभिर्गायकैर्वाद्यसञ्चयैः ।
भेरिपटहघोषैश्च श्रुतिघोषसमन्वितैः ॥ 46॥
एवमाद्यैरलङ्कारैर्गोमयेनोपलेपिते ।
मण्डले हस्तमात्रे तु बलिदानपुरस्सरम् ॥ 47॥
द्वारावरणदेवानां ध्यातॄणां वा स्वदिक्षु च ।
वक्ष्यमाणविधानेन नियतोत्सवमाचरेत् ॥ 48॥
पीठोर्घ्वे विष्णु भूतानां सगणानामथाऽर्चनम् ।
कृत्वा समुत्किरेत्
शेषं तृप्त्यर्थं सोऽदकं बलिम् ॥ 49॥
पीठं प्रदक्षिणं नीत्वा चतुर्धा वा द्विधाऽथ वा ।
सन्तोष्य नृत्तगीताद्यैर्देवमन्तः प्रवेशयेत् ॥ 50 ॥
प्राङ्कणेषु विशालेषु बहिष्ठेषु च सादरम् ।
मण्डितं रथमारोप्य परिभ्रमणमाचरेत् ॥ 51 ॥
यानादेरवरोप्याऽथ पादुके विनिवेद्य च ।
अग्रमण्टपभूमिष्ठे भद्रपिठे निवेश्य च ॥ 52॥
[[50]]
पाद्यार्घ्याचमनाऽम्भोभिश्चन्दनाद्यनुलेपनैः ।
माल्यैर्नानाविधैश्चापि धूपैस्ताम्बूलपश्चिमैः ॥ 53॥
अभ्यर्च्य श्रमशान्त्यर्थं स्वस्थानेसन्निवेशयेत् ।
आदौ निवेशितां शक्तिं तन्मूले विनियोज्य च ॥ 54॥
तमभ्यर्च्याऽर्घ्यगन्धाद्यैः प्रणमेत्
स्तुतिपूर्वकम् ।
त्रिकालं यत्र विधिवत्क्रियते नियतोत्सवः ॥ 55॥
तत्र सर्वसमृद्धिस्स्याद्राज्ञो राष्ट्रस्य चाऽनिशम् ।
अभावे बलिबिम्बस्य हेतुना सन्निधीकृते ॥ 56॥
कूर्चेन वाऽन्नमूर्त्या वा कुर्यान्नित्योत्सवं ततः ।
निश्शेषस्योपसंहारं कृत्वा चाऽर्घ्यादिकस्य च ॥ 57॥
नत्वा स्तुत्वा च देवेशं ततः पाद्यप्रतिग्रहात् ।
पादोदकं समादाय विग्रहं सेचयेत्स्वकम् ॥ 58॥
भुक्तानि पत्रपुष्पाणि विदध्यान्मूर्धनि स्वके ।
पुष्पार्घ्यगन्धपूर्वाणां देवयज्ञे कृते सति ॥ 59॥
विनयादाहृतानां च भक्तानां मन्त्रसेविनाम् ।
मूर्ध्नि सन्धारणाच्छश्वद्दौर्भाग्यं क्षयमेति च ॥ 60॥
कीर्ति कान्ति श्रियारोग्यसिद्धिं समुपयाति च ।
पश्चाच्छरीरयात्रार्थमभ्यर्च्य परमेश्वरम् ॥ 61॥
लब्धानुज्ञास्तु वै कुर्यादनुयागं यथाविधि ।
भोज्यं नैवैद्यपूर्वं तु सर्वमादाय पात्रगम् ॥ 62॥
विनिवेद्य च देवाय पवित्रीकृत्य चाऽम्भसा ।
सत्यरूपा ह्यलक्ष्या चाऽप्यन्नदोषक्षयङ्करी ॥ 63॥
चेतसा चातुरात्मीया भावनीया च भावना ।
तथाऽऽत्माऽध्यक्षसञ्ज्ञोऽन्ने साधुभावे व्यवस्थितः॥ 64॥
प्रद्युम्नो भगवान्
रूपे एतद्वीर्ये तु लाङ्गलि ।
भोक्ताहमात्मा भगवान्
वासुदेवस्स्वयं त्वजः ॥ 65॥
चतुः प्रणवसञ्जप्तं ततोम्भश्चुलकं पिबेत् ।
वक्त्रकुण्डे तु तेनैवाप्यन्नाहुतिचतुष्टयम् ॥ 66॥
हुत्वा चाऽभिमतैर्ग्रासैस्ततोऽश्नीयाद्यथारुचि ।
समाचम्य पुनर्यायात्प्रयतो भगवद्गृहम् ॥ 67॥
मनो बुद्ध्यभिमानेन सह न्यस्य धरातले ।
कूर्मवच्चतुरः पादान्
शिरस्तत्रैव पञ्चमम् ॥ 68॥
प्रदक्षिणसमेतेन त्वेवंरूपेण सर्वदा ।
अष्टाङ्गेन नमस्कुर्यादष्टाक्षरपुरस्सरम् ॥ 69॥
एवमष्टाङ्गयजनमनुयागान्तमीरितम् ।
अन्तः करणयागादि यावदात्मनिवेदनम् ॥ 70॥
तदाद्यमङ्गयागस्य नाम्नाऽभिगमनं महत् ।
पूजनं चाऽर्घ्यपुष्पाद्यैर्भोगैर्यदखिलं मुने ॥ 71॥
बाह्योपचारैस्तद्विद्धि भोगसञ्ज्ञं तु नारद ।
मध्वाज्याक्तेन दध्ना च पूजा च पशुनार्चया ॥ 72॥
तत्तृतीयं हि यागाङ्गं तुर्यमन्नेन पूजनम् ।
निवेदितस्य यद्दानं पूर्वोक्तविधिना मुने ॥ 73॥
[[51]]
सम्प्रदानं तु तन्नाम यागाङ्गं पञ्चमं स्मृतम् ।
वह्निसन्तर्पणं षष्ठं पितृयागस्तु सप्तमम् ॥ 74॥
प्राणाग्निहवनं नाम्ना त्वनुयागस्तदष्टमम् ।
एवमष्टाङ्गसहितं पूजां कुर्याद्यथाविधि ॥ 75॥
यत्र द्वादशकालेज्या कर्तव्या ऽऽभूतिविस्तरात् ।
तत्र प्राभातिकीं कुर्यात्पूजामष्टाङ्गसंयुतम् ॥ 76॥
अङ्गद्वयं तु पाश्चात्यं विना गातां समाप्य च ।
पितॄणां संविभागं च अनुयागं यथोदितम् ॥ 77॥
देशिकस्स्वेच्छया कुर्यान्नित्यं माध्यन्दिनार्चने ।
त्रिकालेष्वेकमष्टाङ्गं षडङ्गं चाचरेद्द्वयम् ॥ 78॥
योगार्थिनां च स्वाध्यायं भोगमध्यात्मसञ्ज्ञितम् ।
तत्तत्कालेषु कुर्वीत स्वाध्यायमधुनोच्यते ॥ 79॥
अष्टाङ्गेन नमस्कृत्य ह्युपविश्याऽग्रतो विभोः ।
आगमाध्ययनं कुर्यात्तद्वाक्यार्थविचारणम् ॥ 80॥
प्राप्तेऽथ सन्ध्यासमये स्नात्वा वा जघनाऽवधि ।
क्षालयित्वा ततः कुर्याद्वाससां परिवर्तनम् ॥ 81॥
सायन्तनार्चनं कुर्यात्
षडङ्गं बलिपश्चिमम् ।
तत्तत्कालेषु कुर्वित यथाशास्त्रोदितेन च ॥ 82॥
जपं कृत्वा यथाशक्ति स्वासाद्य शयनं ततः ।
समाधाय बहिर्देवं
निरालम्बपदे स्थितम् ॥ 83॥
अप्रयत्नेन वै तावदनिरुद्धेन चेतसा ।
सह तेनैव वै निद्रा यावदभ्येति साम्प्रतम् ॥ 84॥
समुत्थायाऽर्धरात्रेऽथ जितनिद्रो जितश्रमः ।
कमण्डलुस्थितेनैव समाचम्य तु वारिणा ॥ 85॥
गुरुं देवं नमस्कृत्य उपविश्याऽजिनासने ।
योगाभ्यासं ततः कुर्याद्यथाविधि मुनीश्वराः ॥ 86॥
समाधायाऽऽत्मनाऽऽत्मानम् एवं त्यक्त्वा जपक्रियाम् ।
ध्यातृध्येयविभागेन यावत्तन्मयतां व्रजेत् ॥ 87॥
सदा संवेद्यनिर्मुक्ते समाधौ लभते स्थितिम् ।
अभ्यासाद्भगवद्योगी ब्रह्म सम्पद्यते तदा ॥ 88॥
तत्र श्रमजयं कुर्यात्त्यक्त्वा ध्यानासने क्रमात् ।
शय्यासनं निवेद्याऽथ मूलमूर्तेरनन्तरम् ॥ 89॥
लक्ष्म्यादिशक्तियुक्तस्य यागमूर्तिगतस्य च ।
तस्मिन्नारोपयेद्देवं सर्वाङ्गपरिशोभिते ॥ 90॥
अर्घ्यं पाद्यं तथाऽऽचामं परिग्रहसमन्वितम् ।
दत्वा समालभेत्पश्चाच्चन्दनाद्यनुलेपनैः ॥ 91॥
सुगन्धपुष्पमाल्यादिदीपधूपे निवेद्य च ।
भक्ष्याण्यपूपपूर्वाणि सक्षीराणि फलानि च ॥ 92॥
तर्पणाम्भश्च ताम्बूलं साङ्गं सद्गन्धभावितम् ।
निवेद्य देवदेवाय विभवानुगुणं ततः ॥ 93॥
सर्वं च विन्यसेत्पश्चात्तस्मिन्
कर्म कृतं च यत् ।
तुष्टं गृहीतं तत्पूर्णां भावयेद्दक्षिणं करम् ॥ 94॥
[[52]]
तन्मध्ये निष्कलं मन्त्रं सर्वं यत्किरणाकुलम् ।
योगोत्थां फलसम्पत्तिं लक्ष्मीरूपां विचिन्तयेत् ॥ 95॥
मूलमन्त्रं समुच्चार्य पाणिमध्ये तथा स्मरेत् ।
भूयश्च निष्कलं मन्त्रं तस्मादुपरि भावयेत् ॥ 96॥
सशीर्षे जानुनि भूमौ कृत्वा विष्णोर्निवेदयेत् ।
प्रसादाऽभिमुखेनाऽथ तेन तच्चाऽऽत्मसात्कृतम् ॥ 97॥
भावनीयं द्विजश्रेष्ठाः परितुष्टेन चादरात् ।
सन्न्यासं सञ्चयं वाऽथ कृत्वा सम्यक्तु तस्य च ॥ 98॥
मन्त्ररूपानुकारिण्या मुद्रणीयं च मुद्रया ।
फलार्थं प्रसवं येन नैति सन्न्यासकारिणाम् ॥ 99॥
फलपर्यावसाने च काममागमनचोदितम् ।
भर्तुर्नो युज्यते येन सिद्धाद्यैस्तु फलार्थिनाम् ॥ 100॥
नित्यं प्रतिष्टितं बिम्बं विना स्थलजलादिकान् ।
विसर्जनं ततः कुर्याद्दत्वाऽर्घ्यं धूपसंयुतम् ॥ 101॥
भोगस्थानगता मन्त्राः पूजिता ये यथाक्रमम् ।
मुख्यमन्त्रशरीरं तु सम्प्रविष्टांश्च संस्मरेत् ॥ 102॥
ज्वाला ज्वालाऽन्तरे यद्वत्समुद्रस्येव निम्नगाः ।
तन्मन्त्रं विग्रहं स्थूलं सर्वमन्त्रास्पदं द्विजाः ॥ 103॥
प्रविष्टं भावयेत्सूक्ष्मे ह्यध्यक्षे ह्युभयाऽऽत्मके ।
परे प्रागुक्तरूपे तु तं सूक्ष्ममुभयात्मकम् ॥ 104॥
तस्मात्परं स्फुरद्रूपं निराधारपदाश्रितम् ।
दर्पणं दर्शयित्वा तु निर्मलं तस्य चाऽग्रतः ॥ 105॥
सन्धिमार्गेण हृत्पद्मं सम्प्रविष्टं तु भावयेत् ।
स्मृत्वा परात्मना तं च स्वसंविद्गगने हृदि ॥ 106॥
विश्रान्तं भावयेद्देवं स्वभावेन समन्वितम् ।
कर्मार्चादिषु बिम्बेषु षट्सु नित्यादिसिद्धये ॥ 107॥
प्रतिष्ठितेषु विधिवन्नित्यं प्रागादिकेऽर्चने ।
तच्छक्त्या योजितां शक्तिं मूलबिम्बाद्यथाविधि ॥ 108॥
समभ्यर्च्याऽर्घ्यपुष्पाद्यैः ताम्बूलाद्यैः पुरोदितैः ।
पुनरारोपयेन्मूले तत्र तत्र नियोजिताम् ॥ 109॥
पूजार्थं कर्मबिम्बादौ नित्यनैमित्तिकादिषु ।
प्राप्ते तु तत्तत्कर्मादौ मूलादावाह्य मन्त्रवित् ॥ 110॥
समाप्य तेषु तत्कर्माण्यारब्धानि यथार्थतः ।
समाप्य मूलबिम्बे तु तेभ्यस्तत्र विसर्जयेत् ॥ 111॥
मन्त्रानर्घ्यादिपात्रस्थान्
विसृज्य प्राक्प्रयोगतः ।
शेषमर्घ्यादिकं सर्वं भुक्तपूर्वेण वै सह ॥ 112 ॥
पाणिना तोयपूतेन विष्वक्सेनाय चार्च्य च ।
न्यासद्वयं च संहृत्य मनसा च स्वविग्रहात् ॥ 113॥
निश्शेषस्योपसंहारं कुर्यादर्घ्यादिकस्य च ।
यागोद्देशात्तथा कुण्डात्
स्तराद्यस्याऽखिलस्य च ॥ 114॥
सहोपलेपनेनैव सर्वमम्भसि निक्षिपेत् ।
कवाटबन्धनं कुर्यान्मन्त्रं कवचमुच्चरन् ॥ 115॥
[[53]]
नियोज्य तत्र रक्षार्थं चक्रं च विहगेश्वरम् ।
स्वापेच्छयात्वगतो मन्त्री प्रातरुत्थाय पूर्ववत् ॥ 116॥
यथोक्तं सकलं कुर्यात्प्रबोध यजनादिकम् ।
सकृत्त्रयहं च सप्ताहं पक्षं मासमथापि वा ॥ 117॥
यो यजेद्विधिनाऽनेन भक्तिश्रद्धासमन्वितः ।
सोऽपि यायात्परं स्थानं किं पुनर्योऽत्र संस्थितः॥ 128॥
यावज्जीवावधिं कालं बद्धकक्ष्यो महामतिः ॥
इति यां पितृसंविभागादि शयनोत्सवान्तविधिर्नाम
षष्टोऽध्यायः