०५

पञ्चमोऽध्यायः 5 – भोज्यासन, अग्निकार्य विधिः नारदः ततो भोज्यासने देवो भोगैराभ्यवहारिकैः ।
पूज्यस्सपादपीठं वै दद्याद्भोज्यासनं विभोः ॥ 1
छन्नन्दुकूलतूलोत्थमसूरकवरेण च ।
आरोपयित्वा प्रागास्यं तत्रस्ते भोजनासने ॥ 2
अर्घ्यं पाद्याचमे दद्यात्प्रतिग्रहसमन्विते ।
तर्पणं सम्प्रतिष्ठाप्य वासितञ्चार्घ्यवारिणा ॥ 3
अथार्हणजलं स्वच्छं सुगन्धं पात्रतः कृतम् ।
मधुपर्कं दधिमधुघृतयुक्तमनन्तरम् ॥ 4
समस्तमेवमेकाङ्गं दधि वाऽपि निवेदयेत् ।
शीतलं तर्पणजलमथ चूर्णं पुरोदितम् ॥ 5
देयं निष्पुंसनार्थं तु पुनराचमनं विभोः ।
स्वलङ्कृतां सुरूपां च स्रग्युक्तां विनिवेद्य गाम् ॥ 6
ओषधीश्शालिपूर्णाश्च स्रक्फलाड्यं वनस्पतिम् ।
मूर्तं निवेदयेत्पूर्वं ततस्संस्थाप्य तर्पणम् ॥ 74
प्रच्छादनाऽम्बरं चैव प्रदद्यादर्हणोदकम् ।

[[34]] षड्रसप्रभवैर्दिव्यैर्नैवेद्यैः पावनैः फलैः ॥ 8
गुल(ड)खण्डाञ्चितैर्भक्ष्यैर्बहुभिर्घृतपाचितैः ।
गुल(ड)मुद्गपयोमिश्रैर्निशाऽऽज्यतिलमिश्रितैः ॥ 9
दधिमिश्रैस्सर्पिमिश्रैर्मधुस्वादुयुतैः फलैः ।
क्रमादन्नैरष्टविदैरपूपान् विनिवेदयेत् ॥ 10
सरसाभी रसालाभिः पयसा सुश्रितेन च ।
पवित्रैश्शीतलैस्स्वाधुरसगन्धैश्च पानकैः ॥ 11
भक्ष्यैर्भोज्यैस्तथा लेह्यैः पेयैरन्यैरनेकशः ।
श्रद्धापूतेन मनसा यजेत्तमजमव्ययम् ॥ 12
एकैकस्मिंस्तु भोगेऽपि प्रोक्षयेदर्घ्यवारिणा ।
छोटिकां मन्त्रसंयुक्तां कृत्वा पाणिद्वयेन तु ॥ 13
अथ पाणिद्वयेनैव अग्नीषोमात्मकेन तु ।
योग्यतापदवीं नीत्वा मुद्रां कामदुघां ततः ॥ 14
बध्वा तदमृतीकुर्याद्भोगजालं यथास्थितम् ।
दत्वाऽर्घ्यं पुष्पमुपरि संस्पृशेद्विष्णुपाणिना ॥ 15
सव्येन पाणिनाऽऽस्पृश्य प्रकोष्ठं दक्षिणस्य तु ।
तेन दक्षिणहस्तेन अग्रसङ्कुचितेन तु ॥ 16
निवेदयेत्ततो विप्राश्शिरसाऽवनतेन तत् ।
असन्निधेःच यो भोगो ह्यङ्गभावमनुस्मरेत् ॥ 17
तत्तद् ध्यात्वा तु मनसा भक्त्या विष्णोर्निवेदयेत् ।
पावनैः पानकैस्स्वच्छैश्शीतलैर्मधुरादिकैः ॥ 18
त्वगेलाद्यन्वितैर्मृष्टधूपकर्पूरवासितैः ।
नालिकेरोदकोपेतैस्तर्पणीयमनन्तरम् ॥ 19
मसूरमाषचूर्णेन रजनीशालिजेन च ।
समुद्धर्ति च सङ्क्षाल्य शीतलैर्बहुवारिभिः ॥ 20
नैवेद्याऽऽचमनार्थं च गन्धोदकमनुत्तमम् ।
वाससा निर्मलं कृत्वा चन्दनेन सितेन च ॥ 21
समालभ्य सुघृष्टेन कर्पूरसहितेन च ।
तिलान्यथ सुरत्नानि सौवर्णे वाऽथ राजते ॥ 22
पात्रे कृत्वाऽथ मात्रार्थं देवाय विनिवेदयेत् ।
लवङ्गतक्कोलैलात्वक्कर्पूरपरिभावितम् ॥ 23
जातीपूगफलोपेतं ससुगन्धच्छदं बहु ।
कर्पूरचूर्णसम्मिश्रं मुक्ताचूर्णविमिश्रितम् ॥ 24
मातलुङ्गफलोपेतं नालिकेरफलान्वितम् ।
प्रदद्यात्प्रणतश्चान्ते ताम्बूलं जगतः पतेः ॥ 25
प्रक्षाल्य गन्धतोयेन अर्घ्यपात्रोद्धृतेन वै ।
पाणियुग्मं यथा वै स्यात् स्वच्छमत्यन्तनिर्मलम् ॥
नैवेद्यधूपपात्राद्यैः पात्रैश्चाऽनिर्मलीकृतम् ।
कृत्वा सद्गन्धदिग्धौ तावर्घ्येणाऽर्च्य परस्परम् ॥ 27
मुद्रां मूलादिमन्त्राणां दर्शयित्वा यथाक्रमम् ।
भूयोऽर्घ्यगन्धपुष्पेण धूपान्तेन समर्च्य च ॥ 28
जपयज्ञविधानेन देवं सन्तर्पयेत्ततः ।

[[35]] स्फटिकेनाऽक्षसूत्रेण स्वकैर्वा करपर्वभिः ॥ 29
पात्रं संस्थापयेत्पश्चादर्घ्यपात्राच्च वारिणा ।
विलिप्यं चन्दनाद्यैस्तु स्थापयेद्भाजने शुभे ॥ 30
सम्पूज्यपुष्पधूपाद्यैर्मन्त्रं तत्र च विन्यसेत् ।
साधारमानसं चैव शक्तिपूर्वैस्समावृतम् ॥ 31
चतुर्भुजं तु विरजो नारायणमिवाऽपरम् ।
वरदाभयहस्तं च बद्धाञ्जलिधरं स्मरेत् ॥ 32
ब्रह्मस्थानस्थितं तं च सूत्रं ध्यायेच्छिखोपमम् ।
सन्निधौ मम देवेश सन्निरुद्धो भवाऽच्च्युत ॥ 33
सूत्राऽऽख्यमणिजालेऽस्मिन् यावच्चन्द्रार्कतारकाः ।
एवं मुने प्रतिष्ठाप्य सूत्रमन्त्रेऽक्षसञ्ज्ञिके ॥ 34
प्रतिष्ठितस्य वै पश्चान्मुद्रां स्वां च प्रदर्शयेत् ।
यथाशक्ति जपं कुर्याच्छतमष्टाधिकं तु वा ॥ 35
तन्निवेद्य विभोः पश्चाद्वाक्कर्म मनसाऽन्वितम् ।
पुण्डरीकाक्ष विश्वात्मन् मन्त्रमूर्ते जनार्दन ॥ 36
गृहाणाऽस्मिन् जपं नाथ मम दीनस्य शाश्वतम् ।
इत्युक्त्वा सोदकं पश्चात्पुष्पं दक्षिणपाणिगम् ॥ 37
अग्रतो निक्षिपेद्विष्णोर्मूलमन्त्रेण नारद ।
भावयेच्च ततस्सम्यक् स्फुरन्तीं तारकावलिम् ॥ 38
प्रविष्टां भगवद्वक्त्रे वक्त्रात्तद्धृद्गतां पुनः ।
हृदयाद् द्विजशार्दूलं संहाराख्यक्रमेण तु ॥ 39
पूर्ववद्ब्रह्मरन्ध्रेण परेण सह योजयेत् ।
एकैकं हृदयादीनां सर्वेषां विहितं त्वथ ॥ 40
क्रियाङ्गत्वान्न दोषोऽस्ति अन्यथा तज्जपं विना ।
धूपं दत्वा प्रणम्याऽथ स्तुत्वा मन्त्रेश्वरं ततः ॥ 41
अज्ञानाज् ज्ञानतो वाऽपि जातमूनाधिकं च यत् ।
दासस्य मम दीनस्यक्षन्तव्यं लोकलोचन ॥ 42
इति विज्ञाप्य देवेशं भक्तितः साधकोत्तमः ।
सम्पूज्य गन्धपुष्पैश्च ततस्तु भगवन्मयात् ॥ 43
यथाक्रमं समभ्यर्च्य नैवेद्यं प्रतिपाद्य च ।
तेषां मन्त्रावसानं च अर्हणाद्यं निवेदयेत् ॥ 44
यद्वैभ्यो देवयज्ञान्ते तन्मात्रान्तं प्रदाय तु ।
अस्मिन् कालेऽर्हणाद्यं तु ताम्बूलान्तं समर्पयेत् ॥
शय्यासनं ततो दद्यादग्नौ सन्तर्पयेत्तः ।
न्यस्याऽऽस्त्रमासने यायादनलाऽऽलयमर्घ्यभृत् ॥
पूर्ववद् द्वारयागं तु कृत्वा सम्प्रविशेत्ततः ।
तत्र पूर्वोक्तविधिना उपस्पृश्य समाहितः ॥ 47
प्रमाणपरिशुद्धं च विभवाऽनुगुणं शुभम् ।
चतुरावरणं कुण्डं कृत्वा ह्योष्टविभूषितम् ॥ 48
त्र्यंशेनाऽर्धेन वांशेन खाताब्द्यासो विधीयते ।
चक्रशङ्खाऽम्बुजाऽऽकारं वृत्तं वा चतुरश्रकम् ॥
गदाद्यैश्चक्रपर्यन्तैर्लाञ्छनैलाञ्छितं तु वा ।

[[36]] अग्निकार्योपयोग्यानि यानि यानि महामते ॥ 50
स्रुक्स्रुवादीनि भाण्डानि त्वङ्कितव्यानि तैरपि ।
यद्वा किरीटश्रीवत्समालाकौस्तुभलक्षणम् ॥ 51
शङ्खचक्रगदापद्मसमस्तव्यस्तलाञ्छितम् ।
भृङ्गारकरकाऽऽकारं कुण्डं कुर्याद्विचक्षणः ॥ 52
कुण्डं चतुर्मेखलं वा त्रिमेखलमथाऽपि वा ।
द्विमेखलं तथा चैकमेखलं वा प्रकल्पयेत् ॥ 53
स्थिरं समेखलं कुर्याज्जङ्गमं तु विमेखलम् ।
देशकालवशाच्चैव कुण्डं न घटते यदि ॥ 54
तं विना हवनच्छेदो न कार्यस्सिद्धिमिच्छता ।
शोधिते ह्युपलिप्ते च स्थलेऽचलमृदान्विते ॥ 55
होमस्तु विहितस्सम्यक् मन्त्रस्याऽमन्त्रितस्य च ।
पिण्डिका चतुरश्रा तु बहिस्सर्वत्र शस्यते ॥ 56
मध्ये पद्मं प्रकुर्वीत श्रीपदं पद्ममध्यगम् ।
एवं कृते शुचौ कुण्डे अग्निकार्यं समाचरेत् ॥ 57
चुल्ल्यां वा मल्लके वाऽपि होमं कुर्याद्यथाविधि ।
एतेष्वेकतमं कुण्डं सम्भवानुगुणं शुभम् ॥ 58
सुधाद्यैर्वर्णकैश्शुद्धैर्भूषयित्वोपलिप्य च ।
सुगन्धैश्चन्दनाद्यैश्च पञ्चगव्यपुरस्सरैः ॥ 59
कुण्डस्यारम्भकाले तु संस्कारा न कृता यदि ।
निष्पन्नस्य च ते सर्वे विधेयाश्च क्रमेण तु ॥ 60
ताडयेदस्त्रमन्त्रेण पुष्पैर्दक्षिणपाणिना ।
खननं तीक्ष्णशस्त्रेण देशिकश्चाऽस्त्रविद्यया ॥ 61
गृहीत्वा चैकदेशात्तु कुण्डमध्यात्तु मृत्कणम् ।
अङ्गुष्ठाऽनामिकाभ्यां तु हृदयेन समुद्धरेत् ॥ 62
अस्त्रेणैव समीकृत्य न स्यान्निम्नोन्नतं यथा ।
सेचयेत्कवचेनैव कुट्टयेत्तदनन्तरम् ॥ 63
लेपयेद्गन्धतोयेन अस्त्रेण परिशोधयेत् ।
अस्त्रजप्तैः कुशाकाण्डैस्तीक्ष्णलाङ्गूलवर्जितैः ॥ 64
अस्त्राऽभिमन्त्रितेनैव दर्भकाण्डद्वयेन तु ।
तन्मध्ये च कुशाग्रेण प्राग्भागमवलम्ब्य च ॥ 65
आरभ्य दक्षिणाऽऽशायां लिखेल्लेखामुदग्गताम् ।
तस्यामुपरि संलिख्य लेखानां त्रितयं स्फुटम् ॥ 66
प्रागग्रं दक्षिणाऽऽशादि ह्युदीच्यन्तं च साऽन्तरम् ।
तत्र प्रागग्ररेखासु मध्यैका पिङ्गालाऽभिदा ॥ 67
दक्षिणोत्तरयोर्द्वे तु सुषुम्नेडाधिदैवते ।
चतुर्धा प्रणवेनाऽथ प्रोक्षयेदर्घ्यवारिणा ॥ 68
तदभ्यर्च्याऽर्घ्यपुष्पाद्यैर्ध्यायेत्तद्भद्रपीठवत् ।
प्रणवैस्तु प्रतिष्ठानं प्राग्वदस्य समाचरेत् ॥ 69
चतुरश्रस्थले कुण्डे दिग्विदिगष्टके बहिः ।
सम्पूर्णपात्रं कुम्भानामष्टकं विनिवेश्य च ॥ 70
ऊर्ध्वाऽधोमेखलानां च चतुर्णां दिक् चतुष्टये ।

[[37]] कौशेयविष्टरस्थांश्च वासुदेवादिकान् यजेत् ॥ 71
विदिक्ष्वप्यथ योगेन ह्यूर्ध्वान्तमधरात्तु वै ।
तद्वदेवाऽर्घ्यपुष्पाद्यैः पूजनीयाः क्रमेण तु ॥ 72
मृदुदर्भसमूहं च नीरसं चाऽश्मकुट्टितम् ।
शुष्कगोमयचूर्णेन युक्तं गन्धाऽऽत्मना सह ॥ 73
कुण्डे द्रोणांशमात्रं तु समारोप्य प्रसार्य च ।
अच्छिन्नाग्रैस्ततो दर्भैरस्त्रमन्त्राऽभिमन्त्रितैः ॥ 74
कुण्डभित्तिगणं सर्वं प्रोत्थितैः परिभूषयेत् ।
वर्मणा चाऽक्षवाटं तु सङ्कल्प्य तदनन्तरम् ॥ 75
समभ्यर्च्य च पुष्पाद्यैर्मध्यतः प्रणवेन तु ।
तेनैव विधिना नाभिं पूजयेच्चन्द्रसन्निभाम् ॥ 76
ततः पवित्रकं दर्भं शिखामन्त्राऽभिमन्त्रितम् ।
प्राक्समालेपनोपेतं चतुष्पथपदे न्यसेत् ॥ 77
हृन्मन्त्रेण ततस्तत्र योगपीठं प्रकल्पयेत् ।
तत्र नारायणाख्यां वै शक्तिं विद्योतलक्षणम् ॥ 78
लक्ष्म्याकृतिपदं प्राप्ताममृताऽमृतरूपिणीम् ।
सर्वाऽतिशयरूपां च सर्वशक्तिसमन्विताम् ॥ 79
सौकुमार्येण रूपेण सर्ववस्त्वन्तरस्थिताम् ।
शाश्वतीं सृष्टिमार्गेण अवतार्य हृदम्बुजे ॥ 80
पुरा ध्यानक्रमेणैव हृन्मन्त्रेण हृदम्बुजात् ।
स्वनामपदयुक्तेन सनमः प्रणवादिना ॥ 81
रेचकेन विनिक्षिप्य कुण्डहृत्पद्ममध्यतः ।
सम्पूज्य गन्धपुष्पाद्यैः पद्ममुद्रां प्रदर्श्य च ॥ 82
ताम्रपात्रेऽथ वाऽन्यस्मिन् समादाय हुताशनम् ।
आरण्यं लौकिकं वाऽथ मणिजं दर्पणोद्भवम् ॥ 83
निधाय कुण्डस्यैशाने संस्कारार्थं च साम्प्रतम् ।
सन्ताड्य चाऽस्त्रमन्त्रेण प्रोक्षयेच्छिखया च तम् ॥ 84
हृदाऽभ्यर्च्यामृतं ध्यानं दत्वाऽऽच्छाद्याऽथ वर्मणा ।
मूलं स्मृत्वा समानीय पूरकेण हृदन्तरे ॥ 85
मन्त्रानिलकराकृष्टं कृत्वा तस्माद्विनिर्गतम् ।
व्यस्तो गुणगणात् षष्टस्तेजो नाम गुणो हि यः ॥ 86
परस्य ब्रह्मणस्सोऽहं सामान्यं सर्वतेजसाम् ।
विरेच्य विन्यसेत्तस्मिन् वह्निपात्रे पुरार्चिते ॥ 87
ततोऽग्निपात्रमादाय निर्धूममतिदीप्तिमत् ।
दक्षिणेन करेणैव पाणिभ्यामथ वा द्विजाः ॥ 88
भ्रामयित्वा चतुर्धा वै ततः कुण्डान्तरे क्षिपेत् ।
ध्यायेदेकत्वमापन्नं ततो मन्त्रार्चिषा सह ॥ 89
याज्ञियैरिन्धनैश्शुष्कैः प्रज्वाल्याऽस्त्राभिमन्त्रितैः ।
हृदा दक्षिणहस्तेन कुर्यात्परिसमूहनम् ॥ 90
प्रदक्षिणक्रमेणैव ह्यार्द्रं पाणितलेन तु ।
तिर्यग्वाऽधोमुखस्थेन नखपृष्टमदर्शयन् ॥ 91
अस्त्राऽभिमन्त्रितेनैव प्रोक्षयेदर्घ्यवारिणा ।

[[38]] ततस्त्वभग्नमूलाग्रैस्समैर्दद्यात्कुशैस्तरम् ॥ 92
दिशि दिश्युत्तराऽऽशान्तं याम्याऽऽशादौ तु सान्तरम् ।
चतुर्गुणैश्चतुर्धा त्वप्यग्रच्छन्नैः परस्परम् ॥ 93
प्राक्प्रान्तैः पूर्वभागाच्च यावदुत्तरगोचरम् ।
होमोपकरणं सर्वं होमभाण्डपुरस्सरम् ॥ 94
अवतार्य तदूर्ध्वे तु दक्षिणस्यां तथाऽऽत्मनः ।
द्वन्द्वद्वन्द्वप्रयोगेण द्रव्यस्थापनमाचरेत् ॥ 95
परिधींश्चेध्मनिचयं मुक्तदर्भैः करण्डिकाम् ।
स्रुक्स्रुवौ च चतुष्कं यदेकत्र विनिवेश्य च ॥ 96
स्रग्धूपमधुपर्कं च बीजान्येकत्र वै ततः ।
कौशेयं धूतकेशं तु विष्टरं च घृतं चरुम् ॥ 97
आज्यस्थालीचतुष्कं च निधाय तदनन्तरम् ।
प्रणीतापात्रयुगलं करकं चार्घ्यभाजनम् ॥ 98
चतुष्कमेतदपरमग्रतो विनिवेश्य च ।
प्रादेशमानः समिधः प्रभूतं शुष्कमिन्धनम् ॥ 99
पक्ष्मकस्वेदहृद्वस्त्रं वामभागे निधाय वै ।
अर्घ्योदकेन साऽस्त्रेण कृत्स्नं पावनतां नयेत् ॥ 100
ततस्तु मूलदेशस्थाः ब्रह्मवृक्षादिकोत्थिताः ।
सपर्णास्सत्वचस्स्पष्टा अधो नेमेस्तु चाऽधिकाः ॥ 101
प्राक्प्रत्यगुत्तराग्रौ च प्रागग्रौ दक्षिणोत्तरौ ।
चतस्रो वै परिधयश्शिखामन्त्रेण पूजयेत् ॥ 102
विष्टराणि ततो दद्यात् हृदा कुम्भाष्टके ततः ।
तेषु क्रमात्पूजयेच्च लोकपालान् स्वदिक्स्थितान् ॥
आदाय सोदकं चाऽथ प्रणीताऽऽख्यं च भाजनम् ।
पवित्रकं तु तन्मध्ये चतुर्दर्भकृतं न्यसेत् ॥ 104
उद्धृत्योद्धृत्य हस्तेन जलं तत्रैव निक्षिपेत् ।
ततस्त्वष्टाक्षरं मन्त्रं जपमानो हि साधकः ॥ 105
भूयस्तदम्भसा सर्वं प्रोक्षयेद्विष्टरेण तु ।
शेषस्य स्रावणं कुर्यात्सर्वदिक्षु स्तरोपरि ॥ 106
पुनरेवाऽम्भसाऽऽपूर्य तन्मध्ये परमेश्वरम् ।
ध्यात्वाऽर्चयित्वा संस्थाप्य त्वग्रतस्तदनन्तरम् ॥
प्रणीते चाऽपरस्मिन् वै पात्रे चाग्रे कृते सति ।
सपवित्रं तु तत्रार्घ्यं दत्वा चक्रं तु विन्यसेत् ॥ 108
मन्त्रनाथं तदूर्ध्वे तु ध्यात्वाऽभ्यर्च्य यथाक्रमम् ।
तत्पात्रमुत्तरस्यां च कृत्वा सम्पूज्य वै पुनः ॥ 109
अथाऽऽज्यं दशसंस्कारैस्संस्कुर्यात्साधकोत्तमः ।
अधिश्रयणमन्त्रादावुपाधिश्रयणं तथा ॥ 110
प्रसादीकरणं चैव हृन्मन्त्रेण समाचरेत् ।
सम्प्लवोत्प्लवने कुर्यात्प्रणवेन तु साधकः ॥ 111
हृदा पवित्रीकरणं दृशा नीराजनं तथा ।
ततः कवचमन्त्रेण कुर्यात्तदवकुण्ठनम् ॥ 112
अवलोकामृतीकारौ क्रमान्नेत्रेण वर्मणा ।

[[39]] भाण्डस्थस्य यदाज्यस्य दर्भैः प्रज्वालितैः पुरा ॥
स्पर्शनं विद्धि संस्कारमधिश्रयणसञ्ज्ञकम् ।
उपाधिश्रयणं नाम यत्तद्द्रावणमुच्यते ॥ 114
आज्यस्थालीमथादाय त्वाज्यं यत्प्राग्द्रवीकृतम् ।
तत्तत्र निक्षिपेदाज्यभाण्डाद्दोषापनुत्तये ॥ 115
प्रसादीकरणं ह्येतदुच्चस्थेन करेण तु ।
पुनरादाय कृत्वाग्रे आधारोपरि यत्ततः ॥ 116
दर्भकाण्डचतुष्कं तु द्वादशाङ्गुलिसम्मितम् ।
तिर्यगुत्तानपाणिभ्यामवष्टभ्य च साऽन्तरम् ॥ 117
अनामाऽङ्गुष्टयुग्मेन यथा मध्यं नतं भवेत् ।
तैराज्यं चतुरो वारानानयेच्चतुरो नयेत् ॥ 118
अन्तराऽन्तरयोगेन ह्यात्मनोऽग्नेऽस्तु सम्मुखम् ।
प्रणवेनोक्तसङ्ख्येन कुण्डमध्येथ निक्षिपेत् ॥ 119
सम्प्लवोत्प्लवने त्वेवं कृत्वा दार्भं पवित्रकम् ।
विनिक्षिपेच्च तन्मध्ये पवित्रीकरणं च तत् ॥ 120
कुण्डादुल्मुखमादाय ज्वलन्तं धूमवर्जितम् ।
तेनाऽऽवर्तं सकृद्विप्र तद्वै नीराजनं स्मृतम् ॥ 121
नीराजीकृत्य तत्पश्चात्कवचोदरगं स्मरेत् ।
अवकुण्ठनमेतद्धि तर्जन्या यत्प्रदक्षिणम् ॥ 122
तेजसा हृदयस्थेन दृग्गतेनाऽवलोकनम् ।
निरीक्षणमिदं विप्र ततस्तत्रोपरि स्मरेत् ॥ 123
चन्द्रमण्डलमध्यस्थं धेनुमुद्रासमन्वितम् ।
मन्त्रं वै सौरभेयं च स्फुरदिन्दुशतप्रभम् ॥ 124
तदन्तरस्थं मन्त्रेशं हिमाचलनिभं स्मरेत् ।
तत्स्रुतैरमृतौघैश्च शशिजैर्धेनुजैरपि ॥ 125
सर्वसंस्कारसंयुक्तं स्मरेदाज्यं च भावितम् ।
अमृतीकरणं नाम इदं ते सम्प्रकाशितम् ॥ 126
स्रुक्स्रुवावथ चाऽऽदाय दर्भपुञ्जलिकेन च ।
रजोऽपनयनं कुर्यात्प्रक्षाल्योष्णेन वारिणा ॥ 127
निर्मलीकृत्य कूर्चेन ज्वालाभिस्सम्प्रतप्य च ।
प्रोक्षयित्वाऽर्घ्यतोयेन ताडयेद्गन्धपुष्पकैः ॥ 128
तदाऽप्रमेयं स्रुचो ज्ञातव्यं कर्मसिद्धये ।
शतपत्रात्मनाऽनन्तो मुष्टिस्तोऽनन्तवक्त्रधृत् ॥ 129
अन्तर्बीजात्मभावेन स्थित्वा चोर्ध्वमुखः पुनः ।
सप्तस्कन्धं यदध्यात्मं भूतप्राणमरुन्महत् ॥ 130
प्रेरितं ब्रह्मरन्ध्रेण तत्तदिच्छावशात्पुनः ।
सप्तपातालनागं च अगमत् क्ष्माऽम्बुजाऽऽत्मनः॥ 131
यदाश्रयत्यध्ववाहे त्वमृतात्मा जलं स्थितः ।
सचक्ररचनाजाले स्थितस्तेजस्त्रिमूर्तिधृक् ॥ 132
शङ्खविग्रहधृग्वायुराज्यकोशं च खं ततः ।
निर्बीजमजमक्षोभ्यमाद्यं यस्याऽधिदैवतम् ॥ 133
अपरस्मिन् स्रुवे ज्ञेयं यथा जायेत तच्छृणु ।

[[40]] साक्षादमृतमूर्तिर्वै वरुणः कलशाऽऽत्मना ॥ 134
नालाऽऽत्मना तदस्त्रं च संस्थितं विघ्नभीतिहृत् ।
जगदाप्यायकृच्चन्द्रः पद्मत्वेनाऽग्रदेशतः ॥ 135
आनन्दाख्यं हि सामर्थ्यं ज्ञेयं तत्पारमेश्वरम् ।
सत्यभूतममेयं च प्रमेयमिदमुच्यते ॥ 136
संस्कारकाले त्वारोप्य नित्यं सन्मन्त्रतर्पणे ।
स्वसञ्ज्ञाप्रणवोपेता नमस्कारपदान्विताः ॥ 137
सर्वेषामर्चने विप्राः आराध्य हृदयेन वा ।
पूजयित्वाऽर्घ्यगन्धाद्यैर्न्यस्तमन्त्रगणं ततः ॥ 138
बहुशाखैरभग्नाग्रैस्समूलैस्सुसमैः कुशैः ।
चतुर्भिर्वामहस्तेन त्वादायाऽथ पवित्रकम् ॥ 139
दक्षिणाऽनामिकायां तु चतुष्काण्डविनिर्मितम् ।
अङ्गुलीयकरूपं च कृत्वा वै तदनन्तरम् ॥ 140
संस्कृताऽऽज्यस्य विफ्लुड्भिस्संस्पृशेदिन्धनादिकम् ।
निश्शेषदोषशान्त्यर्थमथाऽग्नेराहृतस्य च ॥ 141
शतं शतार्धं पादं वा त्वाहुतीनां स्वशक्तितः ।
तिलानां घृतसिक्तानां शुद्धेन हविषा सह ॥ 142
होतव्यं कर्मसिद्ध्यर्थं यथावदवधारय ।
आहुत्यामुद्धृतायां च मूलमन्त्रावसानतः ॥ 143
प्रणवान्तं पदं ब्रूयादग्निं शोधय शोधय ।
यथावस्थितरूपेण ततस्तेनैव बुद्धिमान् ॥ 144
दद्यात्पूर्णाहुतिं पश्चाद्घृतेन च चतुष्फलीम् ।
अग्नेर्होमोऽथ कर्तव्यस्सर्वसंस्कारसिद्धये ॥ 145
हृदाऽनलं पुटीकृत्य कर्मनाम समुच्चरेत् ।
सम्पादयामि स्वाहान्तं सर्वकर्मस्वयं क्रमः ॥ 146
आज्येन सिक्तैः कुसुमैस्सर्पिषा वा धिया द्विज ।
गर्भाऽऽधानादि संस्कारान् कुर्याद्दारावसानकान् ॥ 147
श्रीकुक्षिकुहरे यद्वै बहिष्टस्य प्रवेशनम् ।
गर्भाऽऽधानं तु तद्विद्धि संस्कारं प्रथमं मुने ॥ 148
प्राणयोगाच्च या शक्तिर्वह्निश्रीजठरे स्थिता ।
जडरूपा च या सूक्ष्मा तस्याश्चित्प्रसरो हि यः ॥ 149
भगवच्छक्तिचैतन्यासामर्थ्याच्च शनैश्शनैः ।
स्मृत्वैवं जुहुयादाज्यं तन्मन्त्रेणोदितेन च ॥ 150
भवेत्पुंसवनं चाग्नेश्चिच्छक्तिनयनात्तु वै ।
सीमन्ताख्यं तु संस्कारमग्नौ कुर्यादनन्तरम् ॥ 151
अव्यक्ताश्च तदन्तस्थाश्शिरः पाण्यादयोऽखिलाः ।
स्वां स्वां वै कर्मसीमानां प्रबुद्धास्संश्रयन्ति ये ॥ 152
विभागकलनात्तेषां सीमन्तं तदुदाहृतम् ।
अग्नेर्वै जातकर्मार्थं पूर्ववद्धोमयेत्सकृत् ॥ 153
निस्सृतस्य च वै गर्भाज्जातकं तदुदाहृतम् ।
हिरण्यमधुसर्पिभ्यां स्तनसम्प्राशनं द्विज ॥ 154
कुर्यात्तदनु वै नाम जातस्याग्नेः प्रयत्नतः ।

[[41]] वासुदेवाग्निनाम्ना वै प्रसिद्धेनाऽङ्कयेत्तु तम् ॥ 155
एवं संस्कारशुद्धस्य वैष्णवाग्नेः प्रयत्नतः ।
मन्त्रान्नदानं पूर्वं यत्तदन्नप्राशनं भवेत् ॥ 156
शिखाबन्धं यदग्नेस्तु तच्चौलमिति चोच्यते ।
यदग्नेर्होमयेदाज्यं तच्चोपनयनं स्मृतम् ॥ 157
वेदव्रतं च गोदानं समावर्तविवाहकौ ।
कृत्वाऽनलस्य जिह्वानां भावयेत्सप्तकं पुनः ॥ 158
नवखण्डे समिन्धाने कुण्डेऽग्नावर्चिषोद्धृते ।
प्रभा दीप्तिप्रकाशा च मरीचिस्तापिनी तथा ॥ 159
कराला लेलिहा चैव कुण्डं व्याप्य व्यवस्थिताः ।
ईशपूर्वाग्निदिग्भागे प्रभाद्यं त्रितयं स्मृतम् ॥ 160
रक्षोवारुणवायव्ये मरीच्याद्यं त्रयं तु तत् ।
उदग्दिम्मध्यतो याम्ये स्थितैका लेलिहाऽभिदा ॥ 161
रक्तं श्वेतं तथा नीलं कृष्णं पीतं तथाऽरुणम् ।
सौदामिनीनिभं ध्यायेज्जिह्वानां सप्तकं क्रमात् ॥ 162
स्वस्वबीजैस्स्वसञ्ज्ञैर्वा स्वबीजैर्वा स्वनामभिः ।
एतैर्मन्त्रैर्द्विजश्रेष्ट भावयेच्च यथाक्रमम् ॥ 163
अङ्गाराण्यर्चिषश्चैव शक्तिर्या दहनात्मिका ।
त्रिलक्षणोऽयमाधारः आधेयो हुतभुग्विभुः ॥ 164
आत्मनोऽग्नेस्तु विश्वेशो वासुदेवस्सनातनः ।
एवं ज्ञात्वा पुरा सम्यक् सक्तां वैश्वानरीं पराम् ॥ 165
आधेयोल्लिङ्गिताकारं ध्यात्वा कुण्डगतानलम् ।
तज्जनित्रीं ततः कुण्डज्ज्वालामार्गेण चागताम् ॥ 166
परानन्दप्रकाशाभां नासिक्यां द्वादशाऽवधि ।
ततोऽवतारयोगेन प्रविष्टां भावयेद्धृदि ॥ 167
तस्यसंशुद्धदेहस्य पुनरेवं समाचरेत् ।
सम्बोधजनकं होमं जडभावप्रशान्तिदम् ॥ 168
उच्चार्य मूलमन्त्रं तु प्रणवद्वितयान्वितम् ।
जुहुयादाहुतीनां च सहस्रं शतमेव वा ॥ 169
तद्वदाज्येन सन्तप्य दद्यात्पूर्णाहुतिं तथा ।
संस्कृतस्याऽथ वै देहः पूजां कुर्यात्तु भक्तितः ॥ 170
पुष्पैर्धूपेन दध्ना च तिलैरक्षतमिश्रितैः ।
अन्नैर्भक्ष्यफलोपेतैराज्येन क्रमशो द्विज ॥ 171
सम्पूज्यैवं विधानेन स्वमन्त्रेणाऽनलं ततः ।
तर्पयेत यथाशक्ति तिलाऽऽज्याद्यैरनुक्रमात् ॥ 172
आज्येन वा केवलेन सहस्रशतसङ्ख्यया ।
अग्नेः पूर्णाहुतिं दत्वा वौषडन्तां घृतेन तु ॥ 173
ततः पूजा प्रकर्तव्या देवस्याग्नेस्तु मध्यतः ।
पूर्ववच्च स्मरेद्वह्निं साकारं निष्कलप्रभम् ॥ 174
स्वयोगबलवीर्येण व्यापकं सर्वदिग्गतम् ।
कदम्बकुसुमाकारं स्वप्रभाभिर्विराजितम् ॥ 175
कुण्डमापूरयन् सर्वं सर्वाकृत्या तु सर्वतः ।

[[42]] एवं हि विततो व्यापी निराकारस्सुदीप्तिमान् ॥ 176
अथ ज्वालाजटाधारे वह्नेर्वै कुण्डमध्यतः ।
अनुसन्धीयते बुध्याविष्टरं तु यथोदितम् ॥ 177
तदर्चनमधः कुर्यात्पुष्पैर्धूपैस्सचन्दनैः ।
मुद्राबन्धं ततः कुर्यात्पीठामरगणस्य च ॥ 178
ततोऽवतार्य तन्मध्ये हृदयात्परमेश्वरम् ।
निरौदकात्स्वमन्त्रेण दद्यात्पुष्पाञ्जलिं विभोः ॥ 179
साङ्गं सलाञ्छनं ध्यायेत्सकलं परमेश्वरम् ।
साम्मुख्यं सन्निधानं च सन्निरोधनमाचरेत् ॥ 180
अर्घ्यप्रदानपूर्वं तु सर्वं कुर्यात्तु पूर्ववत् ।
मूलबिम्बे यथा ध्यानमग्निमध्ये तथा भवेत् ॥ 181
यानगे यानगं ध्यायेदग्नौ स्थाने यथास्थितम् ।
आसीने त्वथ चाऽऽसीनं शयाने च तथाविधम् ॥ 182
पद्मरागारुणरुचिं स्मर्तव्यमनलास्पदे ।
मूलादिसर्वमन्त्राणां तत्तन्मुद्राः प्रदर्श्य च ॥ 183
अर्घ्यगन्धादिनाऽऽभ्यर्च्य पूजयेत्सकलं विभोः ।
लयभोगात्मना सम्यक् पूर्वोक्तविधिना सह ॥ 184
समिद्गणं तु पात्रस्थं कृत्वाऽभ्यर्च्य हृदा ततः ।
शिरसाऽवनतेनैव विनिवेद्य ततः प्रभोः ॥ 185
आज्येनोभयतस्सिक्तं ब्रह्मक्षीरद्रुमोद्भवम् ।
इध्माष्टकं समादाय द्विधा कृत्वा द्विजोत्तमः ॥ 186
निधाय दक्षिणस्यां च मध्य आग्नेयदिग्गतम् ।
विश्रान्तं नैरृतपदे उत्तरस्यां तथाऽपरम् ॥ 187
वाय्वीशपदसंरुद्धमाघाराभ्यन्ततः क्षिपेत् ।
इध्ममूलादथाक्रान्तमिध्मेध्मोपरि संस्थितम् ॥ 188? स्रुवमाज्येन सम्पूर्य सूर्यबीजेन चिन्तयेत् ।
सहस्रांशु च तन्मध्ये दद्यात्कुण्डस्य दक्षिणे ॥ 189
अपरस्मिन् स्रुचि ध्यात्वा सोमाख्येनाक्षरेण तु ।
पूर्णं शशाङ्कबिम्बं च प्रदद्यात्तत उत्तरे ॥ 190
सङ्ख्यानुगुणमिध्मानां घृतं च जुहुयात्तु वै ।
सूर्यसोमात्मकं चाऽग्नेर्विद्धि तल्लोचनद्वयम् ॥ 191
एतयोरन्तरं यद्वै तदग्नेर्वदनं स्मृतम् ।
तत्र वै जुहुयात्पूर्वं समिधां सप्तकं क्रमात् ॥ 192
घृतासिक्तां चतुस्सङ्ख्यामेकैकां हि सुपुष्कलाम् ।
प्राक्कुङ्कुमादिना लिप्तां काष्टसञ्ज्ञां तु होमयेत् ॥ 193
स्रग्धूपमधुपर्कं च बीजान्याज्यं यथाक्रमम् ।
तत्रान्नसमिधो दाने विशेषोऽयं विधीयते ॥ 194
सादितं संस्कृताग्नौ प्राक् तं निधायाऽग्रतश्चरुम् ।
समुद्घाट्याऽवलोक्यादौ सम्प्रोक्ष्याऽर्घ्याम्भसा ततः॥ 195
दर्भकाण्डचतुष्केण साग्निना तदनु स्पृशेत् ।
तन्मध्ये स्रुक् चतुष्कं तु मन्त्रेणाज्यस्य निक्षिपेत् ॥ 196
अथादाय स्रुचं तत्र तद्वद्दद्याच्चतुष्टयम् ।

[[43]] चतुरङ्गुलमानेनाऽप्यन्नग्रासमथाऽऽचरेत् ॥ 197
तं निधाय स्रुचागर्भे तदूर्ध्वे पूर्ववद्घृतम् ।
दद्यादग्नौ चतुष्कं तु क्षिपेदन्नाऽऽहुतिं ततः ॥ 198
भूयोऽग्नौ स्रुक् चतुष्कं त्वप्याज्यस्याऽऽपाद्य यत्नतः ।
ततोऽन्नमाज्यसंसिक्तं प्राग्वत्कृत्वाऽऽहुतिं पुनः ॥199
दद्यात्पूर्वप्रयोगेन एवमेव चतुष्टयम् ।
हुत्वाप्यन्नाऽऽहुतीनां च आज्याख्यां जुहुयात्ततः ॥ 200
तिलैर्घृतसमायुक्तैरष्टोत्तरसहस्रकम् ।
शतं शतार्धं पादं वा यथाशक्ति समाचरेत् ॥ 201
आज्याक्तैरक्षतैस्तद्वत्तिलैश्चजुहुयात्ततः ।
अर्धमर्धांशसंयुक्तमधिकं चाऽग्रवर्तिनाम् ॥ 202
जपकाले तथा होमे कर्तव्यं सिद्धिमिच्छता ।
स्विष्टकृद्धवनं कुर्यादन्नग्रासेन वै सकृत् ॥ 203
काम्यैरवश्यफलदैर्देशकालसमुद्भवैः ।
तिलैर्घृतेन पयसा दध्ना वा पायसेन च ॥ 204
सिद्धान्नैस्साधितैर्भक्ष्यैर्बीजैर्लाजैश्च तण्डुलैः ।
मूलैः फलैः पल्लवैश्च सुप्रशस्तैश्च कोमलैः ॥ 205
सुगन्धैस्स्थलपद्माद्यैः पुष्पैश्चैव सितादिकैः ।
गुग्गुलेनाऽऽज्यमिश्रेण सम्यक्छ्रीवेष्टकेन वा ॥ 206
धात्रीफलैश्च सरसैरुत्पलैश्च शुभैस्तथा ।
सुसितासितरक्तैश्च पद्मैर्बिल्वैस्सुशोभनैः ॥ 207
दूर्वाकाण्डैरभग्नाग्रैर्दन्तिसद्दन्त निर्मलैः ।
एधोभिर्ब्रह्मवृक्षोत्थैः क्षीरद्रुममयैस्तथा ॥ 208
अमृताक्षीरसंयुक्ता औदुम्बर्यो मधुप्लुताः ।
अच्छिन्नाग्रा ह्यभग्नाश्च कण्टकैः परिवर्जिताः ॥ 209
सर्वास्त्रिमधुयुक्ताश्च घृतयुक्तास्तु वा पुनः ।
योक्तव्यान्यग्निमध्ये तु समिद्भिस्सह सर्वदा ॥ 210
सर्वाण्यन्नविशेषाणि चन्दनादीनि यान्यपि ।
सदन्तकाष्ठं ताम्बूलमुत्कटक्षारवर्जितम् ॥ 211
दाप्यानि लक्षहोमे तु आसनादीनि यानि च ।
मधुलवणपानांशु कटुतैलोज्झितानि च ॥ 212
आज्ययुक्तैस्तिलैश्शान्ति स्सिद्धयस्सकलास्तथा ।
घृतेन पयसा दध्ना होमस्तृप्तिं प्रयच्छति ॥ 213
पायसेन तु सिद्धान्नैर्भक्ष्यैः पुष्टिस्सदा भवेत् ।
बीजैर्धान्यैस्तण्डुलैश्च तर्पितो मन्त्रराट् द्विज ॥ 214
प्रयच्छति सदा श्रेयः प्रसन्नः परमेश्वरः ।
पल्लवैः फलमूलैश्च होमस्तुष्टिं प्रयच्छति ॥ 215
जहाति चाऽपमृत्युं च रोगांश्चोपशमं नयेत् ।
तर्पितस्थलपद्माद्यैः पुष्पैश्चाऽन्यैस्सितादिकैः ॥ 216
सौभाग्यमतुलं विप्राः अचिरात्सम्प्रयच्छति ।
गुग्गुलाज्यैर्द्विजारोग्यं शुभैर्धात्रीफलैस्तथा ॥ 217
शर्करैः बिल्वफलकैः पञ्चगव्यसमुक्षितैः ।

[[44]] आज्यान्नैः पद्मबीजैश्च लक्ष्मींशीघ्रं प्रयच्छति ॥ 218
उत्पलैर्वश्यकामस्तु भोगकामस्तु होमयेत् ।
दूर्वाङ्कुरैश्च होमेन आयुशो वृद्धिमाप्नुयात् ॥ 219
एधोभिश्च शुभैर्होमो माषैश्शान्तिप्रदः प्रभुः ।
तिलानां शस्यते होमो हरिणाऽऽननमुद्रया ॥ 220
घृतस्य कार्षिको होमः क्षीरस्य च विशेषतः ।
शुक्तिमात्राहुतिर्दध्नः प्रसृतिः पयसस्य वा ॥ 221
ग्रासार्धमानमन्नानां भक्ष्याणां स्वप्रमाणतः ।
सर्वेषामेव बीजानां मुष्टिना होममाचरेत् ॥ 222
अग्राङ्गुलिस्तु लाजानां शालीनां पञ्चकं हुनेत् ।
फलानां स्वप्रमाणं च पल्लवानां तथैव च ॥ 223
कर्कन्धुमात्रा गुलिका होतव्या गुग्गुलोस्तदा ।
धात्रीफलप्रमाणं वा सम्भवे सति होमयेत् ॥ 224
दूर्वाकाण्डानि विप्रेन्द्र चतुरष्टाङ्गुलानि वा ।
समित्प्रादेशमानेन समच्छेदास्त्वगन्विताः ॥ 225
अग्नेर्वर्णाश्च गन्धाश्च शब्दश्चाऽऽकृतयस्तथा ।
विकारा विशिखा चैव संवेद्याः कर्मसिद्धये ॥ 226
पद्मरागद्युतिः श्रेष्ठो लाक्षाऽलक्तकसन्निभः ।
बालार्कवर्णो हुतभुक् जयार्थं शस्यते द्विज ॥ 227
इन्द्रकोपकसङ्काशश्शोणाभो वाऽथ पावकः ।
चक्रचापनिभः श्रेष्ठः कुङ्कुमाभस्तथैव च ॥ 228
रक्तानां पुष्पजातीनां वर्णेनाऽग्निरिहोच्यते ।
सुगन्धो द्रव्यगन्धोऽग्निर्धृतगन्धश्च शोभनः ॥ 229
आयुर्दः पद्मगन्धस्स्याद्बिल्वगन्धश्च सुव्रतः ।
अग्रगन्धोऽभिचारे तु विहितस्सर्वदाऽनलः ॥ 230
जीमूतवल्लकीशङ्खमृदङ्गध्वनितुल्यकः ।
शब्दोऽग्नेस्सिद्धये हेतुरतोऽन्यस्स्यादसिद्धिदः ॥ 231
रक्ताभस्तु यदा वह्निः क्षीणार्चिः परिदृश्यते ।
पद्मरागोपलाभश्च स्फटिकाभस्तथा शुभः ॥ 232
यद्रूपं कथितं पूर्वं यदि तस्य प्रदक्षिणम् ।
अन्योन्यत्वं प्रपद्येत तथा सिद्धिकरोऽनलः ॥ 233
गर्हितेन तु वर्णेन यदि कापोतकादिना ।
परिवर्तं करोत्यग्निस्तथा विप्र विपर्ययः ॥ 234
होमान्ते तन्निमितं वै होमं कुर्याच्छताधिकम् ।
विषमा च शिखा वह्नेरुदयाश्च शुभावहाः ॥ 235
ह्रस्वाऽह्रस्वोन्नता दीर्घा ज्वाला सिद्धिप्रदा स्मृता ।
स्निग्धप्रदक्षिणाऽऽवर्तः श्रुतिप्रच्छादितध्वनिः ॥ 236
स नित्यमेव शुभकृद्यदन्यैर्वर्जितो गुणैः ।
प्रदीप्ते लेलिहानोऽग्नौ निर्धूमे सगुणे तथा ॥ 237
हृद्ये तुष्टिप्रदे चैव होतव्यं श्रियमिच्छता ।
अल्पतेजोऽल्परूपश्च विष्फुलिङ्गसमन्वितः ॥ 238
ज्वालाभ्रमविहीनश्च कृशानुर्नैव सिद्धिदः ।

[[45]] अप्रबुद्धे सुधूमे च जुहुयाद्यो हुताशने ॥ 239
कर्महानिर्भवेत्तस्य त्वाभिचारार्थमश्नुते ।
दुर्गन्धः पीतवर्णश्च अवलीढश्च योऽशुभः ॥ 240
प्रभामूर्तिगतो मन्त्रस्तर्पितो यदि सत्तम ।
विद्यां प्रयच्छत्यचिराद्दीप्तिस्थो भूप्रदः प्रभुः ॥ 241
तापयत्याशु शत्रूणां प्रकाशोपर्यवस्थया ।
शत्रुक्षयं ददत्याशु मरीच्यामूर्ध्वगो विभुः ॥ 242
तापिन्यामूर्ध्वगो मन्त्रस्सर्वशापोपशान्तिदः ।
विपक्षोच्चाटनं कुर्यात्करालासंस्थितो हुतः ॥ 243
लेलिहाऽबस्थितो मन्त्रो यदि सन्तर्प्यते मुने ।
दद्यादभीप्सिते चैव देहान्ते परमं पदम् ॥ 244
स्वाहाकारं सदा होमे पूर्णायां वौषडेन च ।
तमेव शान्तिके कुर्याद्वषडाप्यायने तथा ॥ 245
स्वधा पितृक्रियायां च फट्कारं क्षयकर्मणि ।
विद्विषे हुं वशे स्त्रीणां(ह्रीं) नमो मोक्षप्रसिद्धये ॥ 246
कर्महोमाऽवसाने च घृतेनापूर्य च स्रुचम् ।
अभावाच्च प्रभूतेन होमद्रव्येण पूरयेत् ॥ 247
तत्रोपरि घृतं दद्यात्ततोऽर्घ्यकुसुमादिभिः ।
मूलदेशात्समारभ्य स्रुचं पूज्यस्रुवान्वितम् ॥ 248
घृतयुक्तं तु तद् द्रव्यं स्रुचः पुष्करकुक्षिगम् ।
द्रवच्चन्द्रोपमं ध्यायेत्ततः पूर्णं समुद्धरेत् ॥ 249
स्रुग्दण्डे देहनाभौ तु मूले संरुध्य संस्मरेत् ।
निष्कलं मन्त्रनाथं तु पूर्णशीतांशुविग्रहम् ॥ 250
आमूलाच्च मरुच्छक्त्या प्रोद्धरेच्च स्वविग्रहात् ।
विधाय चेश्वराधारे तस्माद्धाराऽमृतं महत् ॥ 251
नासिकासन्धिमार्गेण स्रुक्पद्मे पतितं स्मरेत् ।
सामृतामाज्यधारां च वसुधारामिव क्षिपेत् ॥ 252
मुखमध्ये तु मन्त्रस्य तद्ब्रह्मविवरेऽथ वा ।
हृत्पद्माऽन्तर्गतां सम्यक् प्रविष्टमनुभावयेत् ॥ 253
तया वै बृंहितं मन्त्रं दारयेद्ब्रह्मधारया ।
तृप्तं पृष्टं च हृष्टं च तुष्टं वै साधकोपरि ॥ 254
मन्त्रोच्चारसमेता वै शरीरेकरणान्विता ।
ध्यानोपेता द्विजश्रेष्ट पूर्णेयं परिकीर्तिता ॥ 255
सर्वसिद्धिकरी शश्वन्मोक्षलक्ष्मीविवर्धनी ।
बहुशुष्केन्धनेऽग्नौ च होतव्यं कर्मसिद्धये ॥ 256
एकाऽनेकप्रयोगाणां न तु कर्मणि कर्मणि ।
ततोऽर्घ्यगन्धपुष्पाद्यैर्मन्त्रनाथं समर्चयेत् ॥ 257
मुद्राः प्रदर्शयेत्सर्वा मूलमन्त्रादितः क्रमात् ।
चतुर्थांशेन चाऽङ्गानां कुर्यान्मूलस्य तर्पणात् ॥ 258
लाञ्छनाभरणानां च लक्ष्म्यादीनां तदर्धतः ।
अथ वा हृदयादीनां ततोऽर्धेनाऽखिलासु च ॥ 259
परमेश्वरकान्तासु तदर्धेन द्विजोत्तम ।

[[46]] लाञ्छनाभरणादीनि सर्वाणि जुहुयात्क्रमात् ॥ 260
हृदयादिसर्वमन्त्राणामेकैकं जुहुयात्तु वा ।
विसर्जनं ततः कुर्याद्दत्वाऽर्घ्यं धूपसंयुतम् ॥ 261
भोगस्थानगता मन्त्राः पूजिता ये यथाक्रमम् ।
मुख्यमन्त्रशरीरं च सम्प्रविष्टांश्च संस्मरेत् ॥ 262
ज्वाला ज्वालान्तरे यद्वत्समुद्रस्यैव निम्नगाः ।
तं मन्त्रविग्रहं स्थूलं सर्वमन्त्रास्पदं द्विज ॥ 263
प्रविष्टं भावयेत्सूक्ष्मे अध्यक्षे हृदयात्मके ।
परे प्रागुक्तरूपं तु तं सूक्ष्ममुभयात्मकम् ॥ 264
तं परं प्रस्फुरद्रूपं निराधारपदाश्रितम् ।
सन्धिमार्गेण हृत्पद्मे सम्प्रविष्टं तु भावयेत् ॥ 265
मन्त्रमुद्रासमेतेन पूरकेण तु सप्तमम् ।
भासितं भावयेद्देहं तेनाऽऽपादाच्छिरोऽवधि ॥ 266
प्रविष्टेन तु मन्त्रेण प्रयत्नेन विना द्विज ।
विग्रहः कम्पते यस्य मन्त्रस्तस्य प्रसीदति ॥ 267
एवं विसृज्य मन्त्रेशं मुद्राबन्धेन वै सह ।
साधारासनमन्त्राणां गणेशस्य द्विजोत्तमाः ॥ 268
गुर्वादीनां तु विहितमर्धं लाञ्छनतर्पणात् ।
एतेषां च लयं विप्र कुर्यात्सृष्टिक्रमेण तु ॥ 269
द्वार्स्थास्त्रिलोकपालानां वप्रस्थहरिसेविनाम् ।
गुरुपूर्वक्रमादित्थमर्धमर्धं यथाक्रमम् ॥ 270
सकृत्सकृत्स्वशक्त्या वा पूर्णां सर्वेष्वथ क्षिपेत् ।
विष्वक्सेनस्ततो भक्त्या तर्पणीयस्तिलाक्षतैः ॥ 271
वौषडन्तेन मन्त्रेण दद्यात्पूर्णाहुतिं द्विज ।
पूजयित्वा यथान्यायं कुर्यात्तस्य विसर्जनम् ॥ 272
अनलं पूजयित्वा तु शक्तितस्तर्पयेत्ततः ।
अच्छिद्रकरणीं पूर्णां पूर्णां मन्त्रेण पातयेत् ॥ 273
सन्दर्शयेत्ततो वह्नेर्मुद्रां मन्त्रसमन्विताम् ।
कुण्डे पुष्पाञ्जलिं क्षिप्त्वा वह्निमन्त्रमनुस्मरन् ॥ 274
क्षान्त्वा चैव नमस्कृत्य यथाविधि विसृज्य तत् ।
समाघ्राय न्यसेत्कोष्ठे ह्यवतारक्रमेण तु ॥ 275
सम्मार्ज्य स्रुक्स्रुवावग्नौ स्रुचं निक्षिप्य चाऽम्भसा ।
अर्घ्यपात्रात्तु चाऽऽपूर्य कुण्डबाह्ये प्रदक्षिणम् ॥ 276
कुर्यादीशानकोणाद्वै अच्छिद्रोदकधारया ।
पवित्रकेणाऽध ऊर्ध्वे विनिक्षिप्य करेण वा ॥ 277
दद्याच्छिरसि वै शेषं स्रुगधो वदनान्यसेत् ।
आत्मनो वामभागे तु विष्टरस्रवसंयुतम् ॥ 278
अपवास्य जलं पात्रद्वितयस्थं तदर्चितम् ।
उपसंहृत्य तु तथा भस्मना तदनन्तरम् ॥ 279
जलनिर्मथितेनैव ह्यूर्ध्वपुण्ड्रचतुष्टयम् ।
हृद्यंसयोर्ललाटे च कुर्याद्दीपशिखाकृतिम् ॥ 280
अथाऽर्घ्यपात्रमादाय गत्वा भगवतो गृहम् ।

[[47]] नमस्कुर्याज्जगन्नाथमष्टाङ्गपतनेन तु ॥ 281
आपूर्य पाणियुगलं पुष्पैस्तत्रोपरिस्थितम् ।
संस्मरेन्निष्कलं मन्त्रममृतेनोपबृंहितम् ॥ 282
प्रभूतदीप्तिच्छुरितं निक्षिपेन्मन्त्रमूर्धनि ।
तर्पितोऽसि विभो भक्त्या होमेनाऽनलमध्यग ॥ 283
होमद्रव्येषु यद्वीर्यं तदिदं चात्मसात्कुरु ।
विनिवेद्यं विभोर्होमं पूजां कृत्वा यथाविधि ॥ 284
गृहीतं भावयेत्तेन प्रसन्नेनान्तरात्मना ।
एवं समाप्यहोमान्तमर्घ्यगन्धादिभिर्विभुम् ॥ 285
समभ्यर्च्य पितॄणां च संविभागमथाऽऽचरेत् ॥
इति यां भोज्यासानाग्निकार्यविधिर्नाम पञ्चमोऽध्यायः