चतुर्थोऽध्यायः
4 – आराधन विधिः (नीराजनान्तः)
नारदः
प्रासादे संस्थितान्
देवानेवमभ्यर्च्य वै द्विजाः ।
द्वारावरणदेवानां पूजनं च यथाक्रमम् ॥ 1
विष्वक्सेनाऽवसानं च कारयेन्मुनिपुङ्गवाः ।
यदङ्गभावमभ्येति द्वार्स्थाद्यं देवतागणम् ॥ 2
विष्वक्सेनाऽवसानं च नराणामल्पमेधसाम् ।
जन्तोरेकान्तिनस्तद्वै चित्तखेदकृदर्चनम् ॥ 3
विघ्नकृत्प्रकृतस्यापि शिष्याणां तदनर्चनम् ।
अतस्तदनुकम्पार्थं देवभृत्यधियाऽर्चनम् ॥ 4
भक्तिश्रद्धोज्झितं चैव विहितं त्वेवमेव हि ।
ते तत्पाणिच्युतं प्रह्वा दत्तमप्यवहेलया ॥ 5
गृह्णन्ति मनसा श्रेयः परं ध्यात्वा धिया हृदि ।
यतस्सर्वेऽच्युतमयास्तच्चित्ताऽर्पितमानसाः ॥ 6
एतावदर्चनात्तेषां गुरोरेकान्तिनस्तु वै ।
स्याद्विरोधनिरासस्तु यतो भृत्यास्तु ते हरेः ॥ 7
कृत्वैवं द्वारयागं तु ततः पुष्पञ्च सम्मुखम् ।
[[22]]
गृहीत्वाऽङ्गुष्टपूर्वेण स्वाङ्गुलित्रितयेन तु ॥ 8
अभिमन्त्य तदस्त्रेण चक्रं तदुपरि स्मरेत् ।
निशिताऽरं ज्वलद्रूपं वर्षन्तमनलाऽशनिम् ॥ 9
क्षयकृद्विघ्नजालानां क्षिपेद्यागगृहान्तरे ।
दक्षिणां तर्जनीं विप्रः कुर्यादूर्ध्वमुखीं ततः ॥ 10
शिखामन्त्रेण संयुक्तां विद्युद्विलसितप्रभाम् ।
स्मृत्वा भ्रामयमाणां तां संविशेद्यागमन्दिरम् ॥ 11
स्वासनं च ततः प्रोक्ष्य अर्घ्यपाद्योदकेन च ।
उपविश्याऽऽसने यागमारभेत समाहितः ॥ 12
समयेवात्र कुर्वीत सर्वभोगनिरीक्षणम् ।
न्यस्य भद्रासनं मूलात्
प्रोक्षणाऽर्घ्यप्लुतेन तु ॥ 13
पाणिनाप्यथ कूर्चेन तज्जलेन तु मार्जयेत् ।
तत्तावदस्त्रपुष्पेण कुर्याद्विघ्नगणोज्झितम् ॥ 14
सर्वलोकमयं तत्र सर्वदेवसमाश्रयम् ।
सर्वाधारमयं ध्यायेदन्तर्लीनं तु चक्रराट् ॥ 15
प्रणवेन स्वनाम्नाऽथ नमोऽन्तेनाऽर्चयेच्च तम् ।
अर्घ्यालभनधूपैस्तु माल्यैर्नानास्रगुद्भवैः ॥ 16
योगपीठाऽर्चनं कुर्यादनुसन्धानपूर्वकम् ।
स्वनाम्ना प्रणवाद्येन नमोऽन्तेन यथाक्रमम् ॥ 17
ततस्तु सर्वमन्त्राणां विन्यासं तत्र चेतसा ।
समाचरेद्यथायोगं पुष्पदानपुरस्सरम् ॥ 18
बिम्बेन सहितं पीठं योगपीठमुदाहृतम् ।
अनुसन्धानयोगे तु योगपीठं प्रकल्पयेत् ॥ 19
तन्मन्त्रासनमित्युक्तं मन्त्रन्यासं तु सर्वतः ।
कुर्यात्तत्स्थस्य देवस्य पीठस्याऽधो मुनीश्वराः ॥
आधारशक्तिं तस्योर्ध्वे कूर्मं कालाग्निसञ्ज्ञकम् ।
अनन्तेशं स्मरेन्मध्ये सर्वाधारमयं प्रभुम् ॥ 21
आग्नेयादौ तु धर्माद्यमैशान्यन्तं चतुष्टयम् ।
प्रागादौ त्वप्यधर्माद्यमुत्तरान्तं न्यसेत्परम् ॥ 22
तदूर्ध्वे कमलं ध्यायेत्स्वनाम्नाऽथ तथोपरि ।
स्मरत्पत्राश्रितं सूर्यं शशाङ्कं केसराऽवनौ ॥ 23
कर्णिकास्थं हुतभुजं ततो गन्धादिना यजेत् ।
सुस्थिरे सन्निरोधश्च मन्त्राणां विहितस्सदा ॥ 24
यत्र यत्राऽनुरूपं तु तत्र तन्न्यासमाचरेत् ।
चलबिम्बस्य पीठेऽपि ह्येवमेवाऽर्चयेत्
क्रमात् ॥ 25
किं तु तात्कालिकं तत्र मन्त्राणां सन्निरोधनम् ।
आहूतोपविशेद्यत्र मन्त्रनाथो हि सम्मुखः ॥ 26
तत्प्रागपेक्षया कुर्याद्धर्मादीनां निवेशनम् ।
साम्मुख्यं भजते यस्मात्साधकं परमेश्वरः ॥ 27
तदासनं हि चिद्रूपं सिद्धमेतस्य वाहनात् ।
एवं चाऽस्याऽचले पीठे शयानस्य विभोस्त्वधः ॥
वह्न्यन्तं क्रमशोऽभ्यर्च्य ततोऽनन्तं समर्चयेत् ।
[[23]]
यानारूढे त्वनन्तस्य स्थाने तार्क्ष्यं समर्चयेत् ॥ 29
लक्ष्म्यादीनां तु देवीनां पीठस्याऽधः फणीश्वरम् ।
तत्कोणेषु च धर्मादींस्तदूर्ध्वे व्यक्तपङ्कजम् ॥ 30
धामत्रयं ततस्तस्मिन्
विन्यसेत्पूर्ववर्त्मना ।
गणेशाद्यर्चनं कुर्यादथ पीठसमीपतः ॥ 31
आत्मनः प्राग्वशाद्वायुकोणादारभ्य पूजयेत् ।
विन्यस्य विष्टरान्
दर्भान्
कुसुमस्तबकानिव ॥ 32
विष्वक्सेनं गणाधीशं गुरू
ंश्च तदनन्तरम् ।
गुरून्
परमसञ्ज्ञांश्च यजेत्सर्वगुरू
ंस्तथा ॥ 33
आदिसिद्धिसमूहं तु भगवद्ध्यानतत्परम् ।
नित्याधिकारिणश्चाऽऽप्तान्
भगवत्तत्त्ववेदिनः ॥ 34
चत्वारो मनवश्चाऽन्ये ऋषयस्सप्त पूर्वकाः ।
अर्घ्यादिना यजेदेतान्
तत्तन्नाम्ना यथाक्रमम् ॥ 35
सर्वेषां क्रमशो ध्यानं शृणुध्वं मुनिपुङ्गवाः ।
अनन्तशशिसङ्काशमनन्तमथ संस्मरेत् ॥ 36
सहस्रफणमालाऽऽड्यं सहस्रभुजभूषितम् ।
स्वपाणिसम्पुटेनैव शोभयन्
स्वाङ्गभूतलम् ॥ 37
सिताऽरविन्दशङ्खाक्षसूत्रचक्रकरान्वितम् ।
पतनाशङ्किबुद्धेर्वै वित्रस्तमनसस्तु च ॥ 38
मा भैरित्यभयं यच्छन्
आब्रह्मभवनस्य च ।
तुहिनाऽच्छोपलस्वच्छमुक्ताफलशशिप्रभः ॥ 39
मृगेन्द्रस्कन्दवदनाः धर्मज्ञानादयश्चतुः ।
पद्मरागप्रवालाऽग्निसुदाडिमफलोज्ज्वलाः ॥ 40
अन्तर्दयोपयुक्ताश्च राजराजेश्वरोपमाः ।
द्विरष्टवर्षवद्विद्धि चत्वारो धर्मपूर्वकाः ॥ 41
सर्वे सद्वस्त्रसत्पुष्पसदलङ्करणाऽन्विताः ।
शङ्खपद्मधरास्सर्वे वराऽभयकरास्तु वै ॥ 42
आधेयपद्मविन्यस्तस्साधकास्स्वात्मसिद्धये ।
समर्पितान्तःकरणाः परस्मिन्
मन्त्रकारणे ॥ 43
चिन्त्यमव्यक्तपद्मं च हिमहेमाग्निभास्वरम् ।
शान्तमष्टभुजं सौम्यं संस्थितं स्वस्तिकेन तु ॥ 44
धामत्रयं तदूर्ध्वे तु संस्मरेत्किरणोज्ज्वलम् ।
संस्मरेद्गणनाथं तु वक्ष्यमाणप्रकारतः ॥ 45
गणनाथं विना चाऽन्ये सुस्थिताश्शान्तविग्रहाः ।
गणित्राभयहस्ताश्च सर्वाऽनुग्रहकारकाः ॥ 46
सर्वे पद्मासना वाऽथ जटामण्डलभूषिताः ।
एवं ध्यात्वा समभ्यर्च्य मुद्रास्संस्पृश्य तत्क्रमात् ॥
अनुज्ञां प्रार्थयेत्तेभ्यो यथाऽनुक्रममेव च ।
गृहीत्वा शिरसा तां च तत आवाहयेत्प्रभुम् ॥ 48
ततस्सर्वगतं देवं मन्त्रमूर्तित्वमागतम् ।
समाहूय सुमन्त्रेण त्वागच्छाऽन्तपदेन तु ॥ 49
यथा सर्वगतो वायुर्व्यजनेन महामते ।
[[24]]
वृत्तिमभ्येति भगवान्
आहूतस्तद्वदेव हि ॥ 50
भावदर्पणसङ्क्रान्तं कृत्वा हृत्कमलात्तु वै ।
सन्निरुध्य बहिर्वेद्यां मन्त्रोच्चाराऽवसानतः ॥ 51
मन्त्रमागच्छमानं तु निर्गतं तु स्वकात्पदात् ।
कालं पाद्याऽर्घ्यदानान्तमुत्थितं भावयेत्सदा ॥ 52
अथोपचर्यमाणं तं भोगैः कालानुकूलतः ।
नानालभनवस्त्रस्रग्दानालङ्करणे तथा ॥ 53
अन्यत्र भोगपूजायां स्मरेत्पद्मासनादिना ।
पुनस्तमेवोपविष्टं सानुकम्पं च सम्मुखम् ॥ 54
बिम्बं विनाऽन्यत्राऽऽधारे भवत्येव महामते ।
बिम्बाकृत्यात्मना बिम्बे समागत्याऽवतिष्टते ॥ 55
करोत्यमूर्तामखिलां भोगशक्तिं तु चाऽऽत्मसात् ।
स्थितमायतने वाऽथ साकारं परमेश्वरम् ॥ 56
शङ्खचक्रधरं विष्णुं सुरसिद्धावतारितम् ।
ऋषिभिर्मनुजैर्वाऽथ भक्तियुक्तैः प्रतिष्ठितम् ॥ 57
तन्मूर्तौ च स्वमन्त्रेण यजेदावाहनं विना ।
तथा प्रबोधयेत्तं तु कृत्वा हस्तौ सुगन्धिनौ ॥ 58
गन्धार्घ्यपुष्पैस्सम्पूर्य मूलमन्त्रं समुच्चरन् ।
पीठोपरि हरेरग्रे मूर्ध्नि पुष्पाञ्जलिं क्षिपेत् ॥ 59
स्वप्रत्यभिमुखं शान्तं सुप्रबुद्धं स्मरेच्च तम् ।
करन्यासं विना तत्र सृष्टिन्यासादितस्त्रयम् ॥ 60
मूलमन्त्रादितार्क्ष्यान्तमन्त्राणां न्यासमेव च ।
कृत्वाऽथ तत्तन्मुद्राश्च तत्तन्मन्त्रैः प्रदर्शयेत् ॥ 61
दीपयेद्बिम्बतोऽन्यत्र तस्मिन्
पुष्पाञ्जलिं हरौ ।
आगच्छ पदमन्त्रेण मूलमन्त्रेण हृत्कजात् ॥ 62
प्रत्यहं कर्मबिम्बानां मूलबिम्बहृदब्जगात् ।
किञ्चिदावाहनं कार्यं तत्र त्वेवं क्रमो द्विजाः ॥ 63
मूलबेरे तु यत्तेजष्षड्
भागैकं तु चोत्सवे ।
षट्त्रिंशदेकभागस्तु बलिकर्माऽर्चनादिषु ॥ 64
एवं तेजोमयं देवं नाडीदक्षिणमार्गतः ।
तन्नासाग्रे चाऽऽवाह्य पीठकुम्भादिषु क्षिपेत् ॥ 65
तत्कदम्बप्रसूनाभे तस्मिन्
मन्त्रात्मगोलके ।
स्थानभेदं विनाऽङ्गानि न्यस्याऽभ्यर्च्येह देहतः ॥
सकलीकृत्य देवेशं ध्यायेत्तद्व्यक्ततां गतम् ।
मूलमन्त्रादितार्क्ष्यान्तमन्त्रांस्तत्र च विन्यसेत् ॥ 67
एवमाहूय देवेशं दत्वाऽर्घ्यं सन्निधित्सया ।
भूयोऽप्यर्घ्यं प्रदायास्मै हृदा मुद्रापुरस्सरम् ॥ 68
सन्निधाप्याऽर्घ्यदानेन मुद्रापूर्वञ्च वर्मणा ।
सन्निरोध्य तु मूलेन तन्मुद्रासहितेन तम् ॥ 69
सम्मुखीकृत्य मूलादिमन्त्रांस्तत्र समुच्चरन् ।
प्रदर्शयंस्तथा मुद्रास्त्वष्टाङ्गेनाऽभिवादयेत् ॥ 70
लययागोक्तविधिना पूजयेत्प्रथमं ततः ।
[[25]]
आमूलात्सर्वमन्त्राणां व्यक्तिस्थानां समर्चनम् ॥
अर्घ्यपुष्पादिना कुर्यात्
स्वेन स्वेन स्वके पदे ।
ततो भगवतो विष्णोर्भासा भास्वरविग्रहान् ॥ 72
हृदादीन्
निस्सृतान्
ध्यायेत्
स्फुलिङ्गनिचयो यथा ।
भोगस्थाने यथायोगमेकैकं विन्यसेत्ततः ॥ 73
सकलीकृत्य चाऽर्घ्याद्यैरर्चयेत्तत्र तु क्रमः ।
अष्टपत्राम्बुजे पीठे हृदयाद्यं चतुष्टयम् ॥ 74
न्यसेत्कमलपत्राणामपूर्वादुत्तरान्तिमम् ।
अग्नीशरक्षोवायव्यदलेष्वस्त्रं यथाक्रमम् ॥ 75
नेत्रं केसरजालस्थं विन्यसेत्तदनन्तरम् ।
पीठोपरि दलाद्बाह्ये देवस्येशानकोणके ॥ 76
किरीटं श्रीवत्सकं च विन्यस्याऽऽग्नेयकोणके ।
कौस्तुभं वनमालां च न्यसेत्पद्मं च तत्र वै ॥ 77
ईशकोणे गदां न्यस्य नैऋते चक्रमुज्ज्वलम् ।
वायव्ये पाञ्चजन्यं च विन्यसेच्च यथाक्रमम् ॥ 78
देवस्य कर्णिकायां तु श्रियं पुष्टिं ततोऽपरे ।
अग्रतः पीठतो बाह्ये न्यसेच्चारात्पतत्त्रिपम् ॥ 79
एवं नत्वा ततो ध्यायेन्मन्त्रव्यूहं यथास्थितम् ।
अभ्यन्तरे विमानस्य गर्भभूमौ तु मध्यतः ॥ 80
सरसीरुहमास्थाय संस्थितं पुरुषोत्तमम् ।
प्रावृड्
जलदसन्दोहविलसद्दिव्यविग्रहम् ॥ 81
सर्वदेवमयं देवं सर्वेषां तेजसां निधिम् ।
सर्वलक्षणसम्पूर्णं सर्वज्ञादिगुणैर्युतम् ॥ 82
वपुषा सुन्दरेणैव दिव्येनाऽऽविष्कृतेन च ।
मुञ्चन्तमनिशं देहादालोकं ज्ञानलक्षणम् ॥ 83
प्रयत्नेन विनाऽज्ञाननाशकृद्ध्यायिनां महत् ।
घनकुञ्चितनीलालिदलिताऽञ्जनसन्निभैः ॥ 84
कर्पूरधूसरैर्दिव्यैः पुष्पसंवलितान्तरैः ।
किरीटमकुटाक्रान्तैश्शोभितं स्वशिरोरुहैः ॥ 85
बालचन्द्रप्रतीकाशफालोद्यत्तिलकोज्ज्वलम् ।
सुभ्रुवं सुनसं शान्तं सविलासस्मिताधरम् ॥ 86
किञ्चिदारक्तगोक्षीरशुद्धनीलाब्जलोचनम् ।
शीतलैर्दृष्टिपातैस्तु जगदाप्यायकारिणम् ॥ 87
विलसद्गण्डफलकं श्रवणोज्ज्वलकुण्डलम् ।
मुखसौन्दर्यनिष्यन्दचुबुकस्थलशोभितम् ॥ 88
विकलङ्कशरच्चन्द्रविलसन्मुखमण्डलम् ।
कम्बुग्रीवं पीवरांसं दीर्घबाहुं महोरसम् ॥ 89
चतुर्भुजमुदाराङ्गं विलसत्पाणिपङ्कजम् ।
पीतकौशेयवसनं निम्ननाभिं तनूदरम् ॥ 90
चारूरुयुगलं चारुजङ्घाद्वितयमुज्ज्वलैः ।
मणिनूपुरभूषाद्यैर्विलसत्पादपङ्कजम् ॥ 91
दिव्यगन्धानुलिप्ताङ्गं दिव्याम्बरधरं तथा ।
[[26]]
दिव्यस्रग्वेष्टनोपेतं दिव्यालङ्कारमण्डितम् ॥ 92
अनेकरत्नखचितकिरीटमकुटोज्ज्वलम् ।
कौस्तुभेनोरसिस्थेन श्रीवत्सेनाऽप्यलङ्कृतम् ॥ 93
रत्नकाञ्चनसन्मुक्तायुक्तया वनमालया ।
सब्रह्मसूत्रया चैव शोभितं परमेश्वरम् ॥ 94
मुख्यदक्षिणहस्तेन भीतानामभयप्रदम् ।
श्रोणीतटनिविष्टेन वामहस्तेन लीलया ॥ 95
ध्रियमानं गदां गुर्वीं निषण्णां धरणीतले ।
पश्चाद्दक्षिणहस्तेन चक्रं कालानलद्युति ॥ 96
प्रणवध्वनिगर्भं तु हिमाऽद्रिशतशोभितम् ।
शङ्खं वामकरेणापि दधानमतुलप्रभम् ॥ 97
स्वदेहतेजस्सम्भूतज्वालामण्डलमध्यगम् ।
करुणापूर्णहृदयं जगदुद्धरणोद्यतम् ॥ 98
अभिन्नपूर्णषाड्गुण्यविभवेनोपबृंहितम् ।
योगिध्येयमजं नित्यं जगज्जन्मादिकारणम् ॥ 99
साक्षाल्लक्ष्मीपतिं देवं ध्यायेन्नारायणं प्रभुम् ।
एवं शयानमासीनं यानारूढमथापि वा ॥ 100
परं व्यूहं वैभवं वा द्विभुजं वा चतुर्भुजम् ।
अष्टबाह्वादिकं वाऽपि नानाभूषणसंयुतम् ॥ 101
नानाऽस्त्रगणसंयुक्तं रूपं भगवतस्तथा ।
लक्ष्म्यादिशक्तिजालं च ध्यायेद्भक्तिसमन्वितः ॥
एवमेव हि ह्यन्मन्त्रं ध्यायेत्
कुमुदपाण्डरम् ।
पद्मरागाचलाकारमारक्तं च शिरः स्मरेत् ॥ 103
अञ्जनाद्रिप्रतीकाशं शिखामन्त्रं तथाकृतिम् ।
परितस्सूर्यसन्तप्तं यथा कनकपर्वतम् ॥ 104
तथा कवचमन्त्रं च ध्यानकाले विचिन्त्य च ।
वृत्तं ज्वालासहस्रैस्तु अयस्कान्तसमद्युति ॥ 105
सर्वास्त्रशक्तिसम्पूर्णमस्त्रमन्त्रं प्रकीर्तितम् ।
निर्धूमाऽङ्गारसदृशं भावयेन्नेत्रमन्त्रराट् ॥ 106
ध्येयास्वरुचिसंयुक्ता द्विभुजाः पुरुषोत्तमाः ।
वीक्षमाणान्
विभोर्वक्त्रं ध्यायेदेतान्
मुनीश्वराः ॥
स्थितानामादिमूर्तीनां स्थितान्
ध्यायेत्सदैव हि ।
आसीनानामथाऽऽसीनान्
वाहनस्थे सवाहनान् ॥
शयितानामथाऽऽसीनान्
उत्थितान्वा स्मरेद्धिया ।
अथ ध्यानं भूषणाऽस्त्रशक्तीनामुच्यते क्रमात् ॥
किरीटस्सौम्यवदनः काञ्चनाभो महातनुः ।
भाभिराकृतियुक्ताभिर्नानारूपाभिरावृतः ॥ 110
स्थितो वैद्याधरीयेन स्थानगेनाऽन्तरिक्षगः ।
स्फटिकाद्रिप्रतीकाशं श्रीवत्समथ भावयेत् ॥ 111
बद्धपद्मासनासीनं हस्तन्यस्तं स्वपार्श्वयोः ।
वहन्तं कूर्ममुद्रां च मुख्यहस्तद्वयेन च ॥ 112
पद्मरागाऽचलाकारं कौस्तुभं रत्ननायकम् ।
[[27]]
दिशो दश द्योतयन्तं संलग्नाङ्घ्रिस्थितं स्मरेत् ॥
वहन्तं वक्षसो मध्ये स्वहस्तकृतसम्पुटम् ।
सन्धारयन्तमपरं तथा वै शिरसोपरि ॥ 114
ध्येया भगवती माला चित्ररूपा मनोहरा ।
सर्वगन्धान्विता सौम्या ईषद्विहसिता नवा ॥ 115
कुन्दावदातं कमलं सौम्यमीषत्स्मिताननम् ।
रवं रवन्तं मधुरं श्रोत्रेन्द्रियसुखावहम् ॥ 116
गदां हेमाद्रिसङ्काशां तन्वीं कुवलयेक्षणाम् ।
द्विरष्टवर्षवत्कान्तां कुमारीं नवयौवनाम् ॥ 117
स्वोत्थेन रश्मिजालेन भासयन्तीं नभस्स्थलम् ।
स्वरश्मिमण्डलान्तस्स्थं वल्गन्तं हेतिपं स्मरेत् ॥
विभोराज्ञां प्रतीक्षन्तं ह्रस्वाङ्गं रक्तलोचनम् ।
तुहुनाऽचलसङ्काशं शङ्खं कमललाञ्छनम् ॥ 119
सदागमादिसामान्तमुद्गिरन्तं स्वकैर्मुखैः ।
ध्येयाः स्वरुचिसंयुक्ता द्विभुजाः पुरुषोपमाः ॥
सास्त्राः किरीटपूर्वा ये गदामालाङ्गनाकृतीः ।
एतेऽस्त्रनायकास्सर्वे विभोराज्ञाप्रतीक्षकाः ॥ 121
प्रोत्थिता विचलन्तश्च सुसमैः स्थानकैः स्थिताः ।
श्रोणीतटार्पितकराश्चामरव्यजनोद्यताः ॥ 122
सपद्मं तु किरीटाद्यं वर्जयित्वा चतुष्टयम् ।
तर्जयन्तं च दुष्टौघमन्येषां दक्षिणं करम् ॥ 123
स्मरेद्वै ध्यानकाले च सर्वेषामथ मस्तके ।
ध्येयं स्वकं स्वकं चिह्नं सुप्रबुद्धं निराकृति ॥ 124
नलिनीतालहस्ता च लक्ष्मी रक्ताम्बुजप्रभा ।
पुष्टा कनकगौरा चाऽमृतकुम्भधरा स्मृता ॥ 125
भोक्तृशक्तिः स्मृता लक्ष्मीः पुष्टिर्वै कर्तृसञ्ज्ञिता ।
भोगार्थमवतीर्णस्य लोकानुग्रहकाम्यया ॥ 126
उदितं सह तेनैव शक्तिद्वितयमव्ययम् ।
रक्ततुण्डं महाप्राणं भीमभ्रुकुटिलोचनम् ॥ 127
दीव्यच्चामीकराकारं पद्ममण्डलमण्डितम् ।
संस्मरेद्
गरुडं विप्राः गृध्रवक्त्रं पृथूदरम् ॥ 128
यथोक्तमूर्तियुक्ताश्च तथा ध्यायेद्यथाक्रमम् ।
किरीटो हुतभुग्वेद्यः कौस्तुभस्तु प्रभाकरः ॥ 129
स्वयं शशाङ्कः श्रीवत्सो मालाष्षण्माधवादयः ।
अपां पतिर्वै कमलं गदा देवी सरस्वती ॥ 130
कालश्चक्राधिपो ज्ञेयः स्वं शङ्खः कथितो द्विजाः ।
प्राणं पतत्रिराड्विद्धि एवं तत्त्वेषु संस्थितान् ॥ 131
अधिष्ठातॄन्
क्रमाच्चैतानर्चयेदर्घ्यपुष्पकैः ।
यजेत्तदनु देवेशं भोगैरर्घ्यादिभिः क्रमात् ॥ 132
विनिवेद्याऽऽसनवरं समाहूतस्य वै विभोः ।
पादपीठं तु सामान्यं मृद्वास्तरणभूषितम् ॥ 133
घण्टाशब्दसमोपेतं दत्वाऽर्घ्यं मन्त्रमूर्धनि ।
[[28]]
पाद्यप्रतिग्रहं हैमं विभोर्दद्यात्सुरत्नकम् ॥ 134
पाद्यं पादोदकाकर्षं शाटकं चाऽनुलेपनम् ।
सप्रतिग्रहमाचामं साऽनुलेपं च मालिकाम् ॥ 135
घृतादिकैर्महादीपैरच्छिन्नैरर्चयेद्धरिम् ।
सुगन्धैर्मधुरैर्धूपैः प्रभूतैरर्चयेद्विभुम् ॥ 136
अर्हणं मधुपर्कं च तर्पणं तदनन्तरम् ।
निष्पुंसनं सपात्रं च आचामं गन्धमेव च ॥ 137
अथ चूर्णितकर्पूरं घृष्टं श्रीगन्धभावितम् ।
सपूगफलमुत्कृष्टं ताम्बूलं विनिवेद्य च ॥ 138
सपुत्रदारमात्मानमष्टाङ्गपतनेन च ।
चेतसा भक्तियुक्तेन निवेद्य तदनन्तरम् ॥ 139
भगवानथ विज्ञाप्यः कृत्वा तत्पादगौ करौ ।
स्फुटीकृतं मया देव त्विदं स्नानवरं त्वयि ॥ 140
सपादपीठमपरं शुभं स्नानासनं महत् ।
आसादयाऽऽशु स्नानार्थं मदनुग्रहकाम्यया ॥ 141
विज्ञाप्यैवं मज्जनार्थं कृत्वा मार्गत्रयं ततः ।
स्नानासनं निवेद्याऽथ देवस्य द्वितयं तु वै ॥ 142
स्नानार्थमवतीर्णस्य पादपीठमनन्तरम् ।
भक्तिनम्रेण शिरसा दद्यादर्घ्यं तु मूर्धनि ॥ 143
विनिवेद्य ततो हैमं सुरत्नं च प्रतिग्रहम् ।
दद्याद्वै पाद्यकलशात्
पाद्यं पादाम्बुजद्वये ॥ 144
शुभे च पादुके चाथ तदन्ते स्नानशाटकम् ।
सुगन्धशालिसम्पूर्णं मात्रार्थं पात्रमुत्तमम् ॥ 145
दर्पणं पूर्णचन्द्राभं गन्धतोयमनन्तरम् ।
पाणीनां क्षालनार्थं तु पादपीठं ततश्शुभम् ॥ 146
दन्तकाष्ठं च तदनु मुखशुद्धिप्रतिग्रहम् ।
जिह्वानिर्लेखनं चैव मुखप्रक्षालनं तु वै ॥ 147
पुनराचमनं चैव अभ्यङ्गार्थमनन्तरम् ।
तैलं बहुसुगन्धं च चूर्णं गोधूमशालिजम् ॥ 148
रजनीचूर्णसम्मिश्रमीषत्पद्मकभावितम् ।
देयमुद्वर्तनार्थं तु चमषीं तदनन्तरम् ॥ 149
स्नानार्थं स्वषसंयुक्तं तोयमुष्णमनन्तरम् ।
चन्दनं मुखलेपार्थं घृष्टं कर्पूरभावितम् ॥ 150
पञ्चविंशतिभिः कुम्भैस्ततस्संस्नापयेद्विभुम् ।
गव्यं प्रभूतं स्नानार्थं क्षीरं दधि घृतं मधु ॥ 151
ऐक्षवं तु रसं हृद्यमभावे शर्करोदकम् ।
धात्रीफलोदकं चैव लोध्रतोयमनन्तरम् ॥ 152
रक्तचन्दनतोयं च रजनीनीरमुत्तमम् ।
ग्रन्थिपल्लववार्येव ततस्तु तगरोदकम् ॥ 153
प्रियङ्गुवारि तदनु मांसीजलमतःपरम् ।
सिद्धार्थकोदकं चाऽथ सर्वौषधिजलं ततः ॥ 154
पत्रपुष्पोदके चैव फलबीजोदके त्वथ ।
[[29]]
गन्धोदकं च तदनु हेमरत्नजलं ततः ॥ 155
पुण्यतीर्थसरित्तोये केवलं तदनन्तरम् ।
स्नानार्थं कल्पितेनैव उदकेन विमश्रितम् ॥ 156
योक्तव्यं क्रमशो ह्येतदर्घ्यपुष्पसमन्वितम् ।
अन्तरान्तरयोगेन स्नानानां च महामते ॥ 157
क्षाळनं चार्घ्यकलशादर्घ्यदानसमन्वितम् ।
यद्वा द्विषट्ककलशैर्नवभिर्वाऽभिषेचयेत् ॥ 158
ततः स्नानीयशेषेण हेमादिद्रव्यनिर्मितम् ।
सम्पूर्णमम्भसा कुम्भं हरिद्राशालितण्डुलैः ॥ 159
सुपिष्टैरुपरिष्टाच्च लिप्तं युक्तं स्रगादिना ।
पाणौ कृत्वा तमेकस्मिन्
अपरस्मिंस्तु मल्लकम् ॥ 160
धूमायमानं सिद्धार्थैर्भ्राम्य मूर्ध्नि बहिःक्षिपेत् ।
सुधौतमहतं चाथ शाटकं विनिवेद्य च ॥ 161
कचोदकापकर्षार्थमपरं देहवारिधृत् ।
अधरोत्तरवस्त्रे द्वे गन्धधूपादिवासिते ॥ 162
स्कन्धप्लोतं निवेद्याथ सुसूक्ष्ममहतं सितम् ।
शिरश्श्यानं ततः कुर्याच्छशिधूपसमन्वितम् ॥ 163
कर्पूरचूर्णसम्मिश्रं कुर्याद्देवस्य मूर्धजम् ।
एवं हि चित्रपूर्वाणामन्येषां कमलासन ॥ 164
सद्रत्नब्रह्मपाषाणवर्जितानां समाचरेत् ।
स्नानार्थं कर्मबिम्बे तु तत्समीपेऽथ दर्पणे ॥ 165
स्नानविज्ञापनं कृत्वा कर्मार्चां तस्य सन्निधौ ।
स्नानासने समारोप्य तस्यां सर्वं समाचरेत् ॥ 166
तदभावे दर्पणे तु स्नानभोगान्
समर्पयेत् ।
चित्रस्थ एवं दद्याच्च भोगानन्यान्
यथाक्रमम् ॥
तदभावे च तान्
सर्वान्
पाणिनाऽऽदाय चेतसा ।
निवेदयेन्मण्डलादिष्वेवं भोगनिवेदनम् ॥ 168
प्रोक्षणं यावता कुर्यादर्घ्याद्यैरवशिष्टकैः ।
प्रणालभागादपरं स्नानं भद्रासनात्तु वै ॥ 169
भूरिनीरघटैश्शुद्धं कृत्वा तत्राऽवतार्य च ।
सपीठं भगवद्बिम्बं तद्विना वाऽर्चितं यदि ॥ 170
खप्लुतं भावयेद्देवं निश्शेषं क्षालयेत्ततः ।
भूयो गन्धोदकेनैव पूर्यं कुम्भचतुष्टयम् ॥ 171
स्नानकुम्भं विनाऽन्येषां प्राग्वत्कार्या हि कल्पना ।
हृन्मन्त्रेण चतुर्णां तु कुर्याद्वै दिव्ययोजनम् ॥ 172
सास्त्रेण मूलमन्त्रेण सर्वं तच्चाऽभिमन्त्य तु ।
मार्गत्रयं क्रमात्कृत्वा विनिवेद्याऽऽसनं ततः ॥
तृतीयं रत्नखचितं तत्रस्थं परमेश्वरम् ।
विभाव्याऽलङ्कृतं भक्त्या भोगैस्स्रक् चन्दनादिभिः ॥
समभ्यर्च्याऽर्घ्यपाद्येन पादुकाभ्यामनन्तरम् ।
देयमाचमनं भूयः पादपीठं तथैव च ॥ 175
समालभ्य सुगन्धेन भक्तितश्चन्दनादिना ।
[[30]]
संवीज्य चन्दनेनैव मायूरेण ततेन च ॥ 176
केशप्रसादकृत्कूर्चं पुष्पताम्बूलकर्तनीम् ।
निवेद्य देवदेवाय दुकूलवसने सिते ॥ 177
उपवीतं सोत्तरीयं मकुटाद्यमनन्तरम् ।
पादनूपुरपर्यन्तमलङ्करणमुत्तमम् ॥ 178
विचित्रं हि शिरोमाल्यं वेष्टनेन समन्वितम् ।
स्रग्दामसूत्रसम्बद्धमाकर्णाच्चरणावधि ॥ 179
रुचिरं कङ्कणं चाऽथ दद्यात्प्रतिसरं ततः ।
धातुभिः कुङ्कुमाद्यैर्वा
विचित्रं सितसूत्रजम् ॥ 180
पूरितं मृदुतूलेन ग्रथितं चाऽन्तराऽन्तरा ।
अञ्जनं सशलाकं च ताम्बूलं गन्धभावितम् ॥ 181
ललाटतिलकं हैमं मुखवासं सरोचनम् ।
कर्णाऽवतंसके पुष्पे मण्डनं दर्पणं महत् ॥ 182
प्रकारं चित्रकुसुमैर्दीप्तरत्नप्रभोज्ज्वलैः ।
प्रभूतैस्तु महाज्वालैस्तिलतैलाऽऽज्यपूरितैः ॥
अभुक्ताऽहतसुश्वेतरचितैर्वर्तिवेष्टितैः ।
ग्रन्थीकृतत्वगेलाऽऽद्यैः पूजयेत्तदनन्तरम् ॥ 184
कर्पूरचूर्णसम्मिश्रं सुगन्धि मधुरं बहु ।
घृष्टधूपसमायुक्तं गुग्गुलं धूपयेच्छुभम् ॥ 185
सहघण्टारवै रम्यैश्चाल्यमानेन बाहुना ।
उपानहौ सितं छत्रं शिबिकां च रथादि यत् ॥ 186
वाहनं गजपर्यन्तं सपताकं खगध्वजम् ।
सिताऽसितौ चामरौ तु मात्रावित्तमनन्तरम् ॥
जानुनी भूगतौ कृत्वा शिरसाऽवनतेन तु ।
आदायोत्तानपाणिभ्यां विनिवेद्य जगत्प्रभोः ॥
औपचारिकभोगानामेतेषां पूरणाय च ।
भेरीमृदङ्गशङ्खाद्यैर्जयशब्दसमन्वितैः ॥ 189
गीतकैर्विविधैर्नृत्तैस्तन्त्रीवाद्यसमन्वितैः ।
वंशैश्शृङ्गैस्तथा हास्यैरन्यैश्श्राव्यैश्च पूजयेत् ॥
स्तोत्रमन्त्रैर्नमस्कारैः प्रणामैश्च प्रदक्षिणैः ।
सङ्कटे सति भूभागे भगवत्यग्रतःस्तिथे ॥ 191
धिया नमस्कृतिं कुर्याद्बध्वा तु करसम्पुटम् ।
हृद्देशे मूर्धकम्पैस्तु स्मरन्
सर्वेश्वरं हरिम् ॥ 192
अन्तर्गर्भगृहे विष्णोर्गर्भद्वाराऽर्धमण्डपे ।
प्रणिपातगणं कुर्यात्प्रदक्षिणगणं विना ॥ 193
सङ्कटे सति तद्देशे बाह्ये तु मुखमण्टपे ।
स्थापयेच्चलबिम्बानि तत्राऽपि सति सङ्कटे ॥ 194
प्रथमाऽऽवरणे वाऽपि द्वितीयावरणेऽपि वा ।
स्थानं सुविस्तृतं कृत्वा प्रासादाग्रं च वर्ज्यदिक् ॥
दिक्त्रयेऽभिमते कुर्याद्विदिक्ष्वभिमतेषु च ।
खलूरिकाप्रदेशे वा सुदेशे सुपरीक्षिते ॥ 196
स्थापयेद्विधिना यात्राबिम्बं देवीसमन्वितम् ।
[[31]]
अन्यानि सर्वबिम्बानि न बहिःस्थापयेत्
क्वचित् ॥
मूलबिम्बं समभ्यर्च्य पुरा नीराजनान्तिमम् ।
पश्चाद्बहिस्स्थितान्
बिम्बान्
पूजयेत्तु यथाविधि ॥
एवं प्रदक्षिणान्तं च देवमभ्यर्च्य वै ततः ।
नीराजयेद्देवदेवं तद्विधानमिहोच्यते ॥ 199
नीराजनं तु त्रिविधं सात्त्विकादिविभेदतः ।
स्नानान्ते भोगयज्ञान्ते द्वितयं सात्त्विकं भवेत् ॥
सायङ्काले प्रतिदिनं कुर्याद्राजससञ्ज्ञितम् ।
पूजायां दीपदानाग्रे नैवेद्यान्तेऽपि तामसम् ॥ 201
कुर्यात्
प्रासाद एकस्मिन्
तेषामेकं न तु त्रयम् ।
स्वयंव्यक्ते तथाऽन्यैश्च विबुधैश्च प्रतिष्ठिते ॥ 202
प्रासादे मुनिमुख्यैश्च सात्त्विकाख्यं समाचरेत् ।
ब्राह्मणैः क्षत्रियैर्वैश्यैः स्थापिते राजसं भवेत् ॥
शूद्रैस्तु स्थापिते स्त्रीभिस्तामसाख्यं समाचरेत् ।
सात्त्विकस्य विधानं तु श्रुणुध्वं मुनिपुङ्गवाः ॥ 204
कर्तव्यं स्नानभोगान्ते यत्तदुक्तं पुरैव तु ।
अलङ्कारासनान्ते यत्कर्तव्यं तदिहोच्यते ॥ 205
कृतं स्वर्णादिभिर्द्रव्यैः कुम्भमापूर्य वारिभिः ।
अर्घ्यपात्रोद्धृतैर्यद्वा केवलैर्गालितैर्पुनः ॥ 206
अन्तस्सिद्धार्थकान्
क्षिप्त्वा कण्ठे कुर्यादलङ्कृतिम् ।
अश्वत्थपल्लवैस्स्रग्भिश्चन्दनेनाऽक्षतैरपि ॥ 207
अन्यत्र रजनीपिष्टैर्लेपयेत्सर्वतो द्विजाः ।
तदास्ये मल्लकं पुष्पं सम्पूर्णं तु नियोजयेत् ॥ 208
संस्कृताऽग्निसमुद्भूतान्
पुरा दीपान्
प्रदीप्य तु ।
विभवेच्छाऽनुरूपेण चर्तुींवशतिकान्
द्विजाः ॥
पाकस्थानात्तु वै दीपादुच्छ्रिताच्चतुरङ्गुलैः ।
प्रदीपं मल्लके कृत्वा सकुम्भं विनिवेशयेत् ॥ 210
अग्रतो देवदेवस्य सदाधारोपरि स्थितम् ।
तमर्घ्यगन्धस्रग्धूपैर्हृन्मन्त्रेण तु पूजयेत् ॥ 211
केवलं साऽर्घ्यपुष्पेण साधकस्तदनन्तरम् ।
दद्यादाचमनान्तेऽर्घ्यं मन्त्रेशस्याऽथ वा द्विजाः ॥
अर्घ्यालभनमाल्यानि धूपं चाऽप्यर्घ्यमेव च ।
दीपकुम्भं तु पाणिभ्यामुद्धृतं परिचारिणा ॥ 213
देवस्य दक्षिणं पादमारभ्येतरपश्चिमम् ।
भ्रामयेत्सर्वतोऽङ्गानि एकधा वा द्विधा त्रिधा ॥
जपन्
वै नेत्रमन्त्रं तु हृन्मन्त्रं वा यथारुचि ।
एवं कुम्भं परिभ्राम्य द्विजेन परिचारिणा ॥ 215
शुद्धया योषिता वाऽपि द्वाराद्बाह्ये विसर्जयेत् ।
ततस्तु देवदेवस्य दद्यादर्घ्यं तु मूर्धनि ॥ 216
पाकस्थानात्तदर्धं तु दीप आनीयते यदा ।
तदानीं तद्विधानं तु शृणुध्वं मुनिपुङ्गवाः ॥ 217
दीक्षितास्सुविनीताश्च सुस्नाताः परिचारिकाः ।
[[32]]
वदनं नासिकारन्ध्रे स्थगयित्वाऽम्बरेण तु ॥ 218
सितोष्णीषधरास्सर्वे सितचन्दनभूषिताः ।
सौवर्णानि च पात्राणि विततानि यथारुचि ॥ 219
राजतान्यथ ताम्राणि आरकूटमयानि च ।
कांस्यानि वाऽपि सम्पाद्य यथावित्ताऽनुसारतः ॥
एकत्रिपञ्चसप्ताऽपि न चैकादश वा तथा ।
द्विषट् षोडश वा यद्वा चर्तुींवशतिसङ्ख्यया ॥ 221
पाकाऽऽलयं समासाद्य तत्राग्नेस्संस्कृतात्पुरा ।
तेषां मध्येवर्तिदीपान्
पात्राणां तु महामते ॥ 222
चतुरङ्गुलिकोत्सेधान्
सघृतान्
दीपयेत्पुनः ।
उद्धृत्य तानि पात्राणि करैस्तु परिचारकाः ॥ 223
वहेयुः पङ्क्तिबन्धेन तदग्रे गणिकाजनाः ।
गच्छेयुर्भगवद्भक्ताः कुर्वन्त्यो नृत्तगीतके ॥ 224
तदग्रे शङ्खभेर्यादिसमुद्घोषणतत्पराः ।
तदग्रे वेत्रिणेऽस्पृश्यजनोत्सारणतत्पराः ॥ 225
गच्छेयुः परितस्तेषां दीपिकाधारिणो जनाः ।
एवं क्रमात्समासाद्य तिष्ठेयुर्देवसन्निधौ ॥ 226
अथाऽन्यो दीक्षितो विप्रः कुम्भमापाद्य पूर्ववत् ।
समल्लकं तदूर्ध्वे तु तेष्वेकस्मात्प्रदीप्य तु ॥ 227
पाकस्स्थानादाहृतेषु प्रदीपं विनिवेश्य च ।
सदाधारस्थितं कुर्यात्ततस्साधकसत्तमः ॥ 228
कुम्भं प्राग्वत्समभ्यर्च्य देवेशं च ततः परम् ।
भ्रामयेत्पूर्ववत्कुम्भं तस्मिन्
काले द्विजोत्तमाः ॥ 229
ऋगाद्यध्ययनं कुर्युर्द्विजाः प्रागादिदिक्स्थिताः ।
सन्निधौ देवदेवस्य नृत्यं तु गणिकास्तदा ॥ 230
मङ्गलानि च गीतानि सर्वे गायन्तु गायकाः ।
स्वरेणोच्चतरेणैव स्तुन्वन्तु स्तोत्रपाठकाः ॥ 231
भेरीमृदङ्गशङ्खादीन्
घोषयेयुस्समन्ततः ।
एवं सर्वत्र वै कुर्यादृगाद्यध्ययनादिकम् ॥ 232
कुम्भमेव परिभ्राम्य दत्वा तत्परिचारिणः ।
हस्तेऽथ दीपपात्राणि दर्शयेदितराणि च ॥ 233
दृष्ट्वा सम्यक्ततो दद्यादर्घ्यं देवस्य मूर्धनि ।
कुम्भपूर्वाणि पात्राणि वहन्तः परिचारकाः ॥ 234
प्रदक्षिणक्रमात्सार्धं पूर्ववद्गणिकादिभिः ।
क्षिपेयुर्द्वारबाह्ये वा बाह्यद्वारस्य बाह्यतः ॥ 235
अथवा विनियुक्तानि तानि सङ्गृह्य योषितः ।
सुस्नाता धौतवसना द्विजातीभावितात्मनः ॥ 236
ललाटतिलकं दत्वा सर्वालङ्कारभूषिताः ।
क्षिपेयुरुदितेनैव वर्त्मना द्विजसत्तमाः ॥ 237
अथवा विनयोगात्तु पूर्वं पाकाऽऽलयादपि ।
योषितो दीपपात्राणि गृहीत्वा प्रोक्तवर्त्मना ॥ 238
आनयेयुर्विभोरग्रे कर्तुरिच्छाऽनुरूपतः ।
[[33]]
एवं नीराजनं कुर्यादलङ्कारासनं ततः ॥ 239
अथ वा भ्रामयेत्कुम्भं दीपाऽष्टकसमन्वितम् ।
यद्वा तत्रापि वै कुम्भं साग्निमल्लकसंयुतम् ॥ 240
धूमायमानं सिद्धार्थैर्भ्रामयेद्दीपवर्जितम् ।
एवं नीराजनं प्रोक्तमेकमूर्तेर्द्विजोत्तमाः ॥ 241
अनेकमूर्तिपूजायां मुख्यमूर्त्यादितः क्रमात् ।
सर्वासामपि मूर्तीनां दत्वाऽर्घ्याद्यं पृथक् पृथक् ॥
एकैकेन तु कुम्भेन प्रत्येकमथ वा द्विजाः ।
सर्वासामपि कुम्भेन प्राग्वन्नीराजनं चरेत् ॥ 243
एवं नीराजनं प्रोक्तं कृतं भगवतो विभोः ।
अनुतिष्टन्ति साहाय्यं तस्मिन्
कर्मणि ये जनाः ॥
रजस्तमोविनिर्मुक्ता भवेयुस्ते न संशयः ।
एवं नीराजनं प्रोक्तं सात्त्विकं नाम नामतः ॥ 245
इति यां नीराजनान्तविधिर्नाम चतुर्थोऽध्यायः॥