०३

[[12]] तृतीयोऽध्यायः 3 - विमानदेवतार्चन विधिः पुराऽनेन विधानेन कृत्वा यागं तु मानसम् ।
कर्मणा भक्तियुक्तेन बहिर्बिम्बे यजेत्ततः ॥ 1
बाह्ययागविधिं सम्यक् श्रृणुध्वं मुनिपुङ्गवाः ।
देवं हृत्कमलाकाशे तेजोरूपतया स्थितम् ॥ 2
तस्मात् स्थानात्समानीय तं कुर्यान्नेत्रमध्यगम् ।
वासुदेवाभिधानं तु प्रागुक्तं च समाश्रयेत् ॥ 3
ततो लोचनयुग्मेन स्तब्धेन मुनिपुङ्गवाः ।
जपन् लोचनमन्त्रं तु पश्येद्यागोपयोगिनम् ॥ 4
सम्भारमखिलं तेन द्रव्यसङ्घो विशुध्यति ।
उपार्जितं पुरा यद्वै यागोपकरणं महत् ॥ 5
तत्सर्वं तत्क्षणे कृत्वा वामे तु करकं न्यसेत् ।
गालितेनाऽम्भसा पूर्णं मध्ये भद्रासनं न्यसेत् ॥ 6
यत्किञ्चित्पत्रपुष्पाद्यं परिदृश्येत पिङ्गलम् ।
पाणिना तत्समाहृत्य शुचिस्थाने निधाय वै ॥ 7
गव्यैर्वा चामरैर्वालैश्शिखिपक्षैः कुशैरथ ।
सम्मार्ज्य भद्रपीठं तु वाससा सुसितेन वा ॥ 8
बहुना वस्त्रपूतेन वारिणा तदनन्तरम् ।
प्रक्षाल्य द्वादशार्णेन्न प्रणवाद्यन्तकेन तु ॥ 9
एवमाराधनाधारं क्षालयित्वा च वारिणा ।
तत्तावदस्त्रपुष्पेण कुर्याद्विघ्नगणोज्झितम् ॥ 10
आराथ्यायामथाऽऽरोप्य तत्र मन्त्रमयीं शुभाम् ।
सर्वोपकरणोपेतां सर्वलक्षणसंयुताम् ॥ 11
प्रतिमां धातुपाषाणनिर्मितामात्मसिद्धये ।
दिव्यार्ध्यपाद्याचमनैर्देंवमभ्यर्च्य वै ततः ॥ 12
भुक्तमर्ध्यादिकं तस्मादपनीयाऽभिवाद्य च ।
समर्प्य विष्वक्सेनस्य संशोध्य मृदुना द्विजाः ॥ 13
उशीरवंशकूर्चेन्न क्षालयेदम्भसा ततः ।
उच्चरन् मूलमन्त्रं वा कुर्यान्मार्गत्रयं विभोः ॥ 14
सधौते देवदेवस्य वाससी परिधापयेत् ।
चित्रस्थाद्भगवद्बिम्बाद्भुक्तपुष्पादिकं हि यत् ॥ 15
अपनीय तु तत्कुर्याद्वाससा रेणुमार्जनम् ।
यद्वा प्राग्यागभवनप्रवेशानन्तरं द्विजाः ॥ 16
न्यस्य भद्रासनाद्यन्तमन्यदन्यत्समाचरेत् ।
यद्वा तदातने काले न्यस्य भद्रासनादिकम् ॥ 17
आद्यं मार्गत्रयं कृत्वा यथोक्तविधिना ततः ।
योगपीठार्चनारम्भे बिम्बोक्तं सर्वमारभेत् ॥ 18
अथाऽर्घ्यादीनि पात्राणि प्रक्षाल्याऽस्त्रेण वारिणा ।
गालितेनाऽम्भसाऽऽपूर्य पात्राणि मुनिसत्तमाः ॥ 19

[[13]] मुख्यामुख्याऽर्ध्यपात्रादिक्रमाद्द्रव्याणि निक्षिपेत् ।
एकस्मिन् चन्दनादीनि दूर्वासिद्धार्थकानि च ॥ 20
साक्षतानि कुशाग्राणि तण्डुलानि तिलांस्तु वै ।
सरत्नानुत्तमान् धातून् सफलान् विनिवेशयेत् ॥ 21
द्वितीये दधिमध्वाज्यक्षीरबिन्दुचतुण्डुलम् ।
कुशाग्रेण सबाह्लीकं सपुष्पतिलतण्डुलम् ॥ 22
दूर्वां च विष्णुक्रान्तां च श्यामाकं शङ्खपुष्पकम् ।
पद्मकं कुन्दरेणुं च पाद्यपात्रे विनिक्षिपेत् ॥ 23
त्वगेलाद्यचयं सर्वं सकर्पूरं च चन्दनम् ।
न्यसेदाचमनीयाख्यपात्रे तु मुनिसत्तमाः ॥ 24
कोष्ठं मांसी हरिद्रे द्वे मुराशैलेयचम्पकान् ।
वचाकच्चोरमुस्ताश्चद स्नानीये तु विनिक्षिपेत् ॥ 25
हृन्मन्त्रेणैव सर्वत्र कुर्याद्वै द्रव्ययोजनम् ।
आधारोपरि पात्राणि स्वपूर्वनियमेन तु ॥ 26
वायव्यादिषु विन्यस्य तत्तत्कल्पनमन्त्रतः ।
“ओम् अर्ध्यं कल्पयामी” ति उक्त्वा वायुपदे न्यसेत् ॥
कलशं तद्वदैशान्यां न्यसेदाचमनार्थतः ।
स्नानार्थमग्निकोणे तु पाद्यार्थं नैऋते तथा ॥ 28
अग्रतो वाऽपि तन्मध्ये न्यसेदर्घ्यं द्वितीयकम् ।
यद्वा प्रागेव पात्राणि न्यस्याधारोपरि द्विजाः ॥ 29
तत्तत्कल्पनमन्त्रैस्तु तानि हस्तेन संस्पृशेत् ।
दक्षिणोत्तरहस्ताभ्यां हृद्बीजेन विचिन्त्य च ॥ 30
सूर्यसोमौ ततः कुर्याद्द्रव्यदाहसमुद्भवौ ।
बध्वा कामदुघां मुद्रां स्रवन्तीं मन्त्रसंयुताम् ॥ 31
गोरूपां हिमशैलाभां निराधारपदे स्थिताम् ।
तया तदमृतीकुर्याद् द्रव्यजालं यथास्थितम् ॥ 32
वर्गेऽंष्टमे तृतीयार्णं वकारोपरि संस्थितम् ।
ईकारानुस्वारयुक्तं नमः प्रणवमध्यगम् ॥ 33
सौरभीयो ह्ययं मन्त्रः स्ववाणीसंयुतो द्विजाः ।
एवं वाणीद्वयेनैव अग्नीषोमात्मकेन तु ॥ 34
योग्यतां पदवीं नीत्वा प्रेषयेद्यद्यदाहृतम् ।
तोयमादाय पात्रेऽथ तत्र हृन्मन्त्रितं क्षिपेत् ॥ 35
पुष्पगन्धसमोपेतं सुसितं शालितण्डुलम् ।
मन्त्रयेत्प्रणवाद्येन बहुशो हृदयेन तु ॥ 36
तदुद्धृतेनाऽम्भसा वै अस्त्रमन्त्रं समुच्चरन् ।
प्रोक्षयेत्स्वासनं स्थानं यागोपकरणं तथा ॥ 37
सास्त्रेण मूलमन्त्रेण अर्घ्यादीनभिमन्त्य तु ।
सषडङ्गेन तेनैव कुर्यात्पुष्पादिनाऽर्चनम् ॥ 38
धूपपात्रं च घण्टां च समभ्यर्च्य यथाविधि ।
घण्टाचालनपूर्वं तु धूपेनाऽर्घ्यादिकान् यजेत् ॥ 39
धूपपात्रस्य घण्टायाः पूजनं चोच्यतेऽधुना ।
पद्मचक्राङ्कितं दिव्यमाधारकजरूपिणम् ॥ 40

[[14]] एकनालं च कर्तव्यं शेषं सप्तफणं विभुम् ।
बद्धाञ्जलिपुटं नित्यं ध्यायन्तं कारणं परम् ॥ 41
चक्रलाङ्गलहस्तं च पद्मासनगतं विभुम् ।
कर्तव्यं धूपधर्तारं किङ्किणीजालशोभितम् ॥ 42
चक्रं तच्चक्रहृदयं पद्मं हृत्कोटरं विदुः ।
चक्रे या या अराख्यास्ता नाड्यो वै द्वादश स्मृताः ॥ 43
किङ्किण्यो याः स्थिता विप्राः ज्ञेयास्तास्सूक्ष्मनाडयः ।
यासां वै मध्यमा शक्तिर्भुजङ्गकुटिलोपमा ॥ 44
धूमधूसरवर्णाभा अण्डं भित्वा विनिर्गता ।
कालाग्निहृदयोत्था सा सत्यान्ते तु लयं गता ॥ 45
तया सञ्चोदितो ह्यात्मा मन्त्रमूर्तीश्वरः प्रभुः ।
सन्निधौ भवति क्षिप्रमप्युच्छिन्नं दहेत्तथा ॥ 46
मन्त्रेणाऽनेन विप्रर्षें तन्मन्त्रमवधारय ।
ओङ्कारं पूर्वमुद्धृत्य परमात्मा ततः पुनः ॥ 47
व्योमानन्देन संयुक्तमनन्ताय पदं ततः ।
कालाग्निरूपाय पदं जगद्धूमपदं तथा ॥ 48
सुगन्धिने पदं कुर्यात्सर्वगन्धवहाय च ।
‘नमस्स्वाहा॒ समायुक्तमेकत्रिंशाक्षरं पदम् ॥ 49
मन्त्रं द्विजसमाख्यातं धूपपात्रस्य नारद ।
मुद्राध्यानसमायुक्तं सर्वसिद्धिकरं परम् ॥ 50
मन्त्रेणाऽनेन सम्पूज्य धूपपात्रमनन्तरम् ।
घण्टासम्पूजनं कुर्यात्तद्विधानमिहोच्यते ॥ 51
आदाय प्रणवं पूर्वमनन्तेशमतः परम् ।
तं चाऽनलेन सम्भिन्नमूर्ध्वाधो मुनिसत्तम ॥ 52
त्रैलोक्यैश्व्र्यदेनाऽथ लाञ्च्छयेत्पञ्चबिन्दुना ।
दद्यादस्याऽवसाने तु ऋगध्वनि पदं ततः ॥ 53
मन्त्रमात्रे पदं चाऽन्यत्स्वाहाऽक्षरसमन्वितम् ।
तदन्ते परमात्मानं प्रज्ञाऽधारोपरि स्थितम् ॥ 54
भूधरेण युतं मूर्ध्ना भूधरोपरि विन्यसेत् ।
विश्वा प्यायकरान्तस्स्थत्रैलोक्यैश्व र्यदं मुने ॥ 55
त्रयोदशाक्षरो मन्त्रो घण्टाख्यस्सर्वसिद्धिकृत् ।
विन्यासकाले यस्या वै प्लुतमुच्चारयेत्ततः ॥ 56
ध्यानयुक्तं द्विजश्रेष्ट तद्ध्यानमवधारय ।
अधोमुखं तु ब्रह्माण्डं ध्यायेज्जनरवाकुलम् ॥ 57
सनालं च तदूर्ध्वें तु पद्ममष्टदलं स्मरेत् ।
प्रकीर्णपत्रं सुसितं केसरालिसुकर्णिकम् ॥ 58
तन्मध्ये चिन्तयेद्देवीं वर्गाष्टकभुजान्विताम् ।
मुख्ये हस्तचतुष्के तु लाञ्छनं कमलादिकम् ॥ 59

स्फाटिकं चाऽक्षसूत्रं च तथा विज्ञानपुस्तकम् ।
अभयं वरदं चैव हस्तद्विद्वितये परे ॥ 60
पद्मासनेनोपविष्टां पद्मपत्रायतेक्षणाम् ।
पद्मगर्भप्रतीकाशां पद्मलाञ्छनभूषिताम् ॥ 61

[[15]] सिताभरणसञ्छन्नां पीतवस्त्रविमण्डिताम् ।
मन्त्रौघमुद्गिरन्तीं च मन्त्रज्वालाप्रभान्विताम् ॥ 62
देवैस्सुस्तूयमानां च ब्रह्माद्यैः ब्रह्मवादिभिः ।
ऋषिभिर्मुनिभिस्सिद्धैर्लोकानुग्रहकारिभिः ॥ 63
नम्यमानां स्मरेत्सम्यक्पूजाकाले सदैव हि ।
योऽनया पूजयेन्मन्त्री तस्य सिद्धिर्न दूरतः ॥ 64
एवं ध्यात्वाऽर्चयेत्संयगर्ध्याद्यैस्तु ततः स्मरेत्त् ।
शब्दब्रह्ममयो यद्यद्धृदब्जाकाशमध्यगम् ॥ 65
नित्योदितमनौपम्यमनभ्यासादगोचरम् ।
उपदेष्टुमतोऽन्येषामभक्तानां न युज्यते ॥ 66
परस्वरूपं मन्त्राणामेतल्लक्षणमब्जज ।
दशप्रकारे यच्छब्दे विसर्गान्तेऽक्षरादिके ॥
नानामन्त्रस्वरूपेण वर्तते वर्णविग्रहे ॥ 67
भोगमोक्षप्रदो मन्त्रो य आप्तस्सद्गुरोर्मुखात् ।
पञ्चस्थानगतो ज्ञेयो भक्तैर्दिव्यक्रियापरैः ॥ 68
बहिस्स्थप्रतिमादौ तु जिह्वाग्रे हृत्कुशेशये ।
धूपधूमशिखायां च घण्टाशब्दे सुलक्षणे ॥ 69
स्वरूपज्योतिरेवान्तर्भावयन् संस्थितं हृदि ।
मध्यमेन स्वरूपेण अप्युच्छिन्नं महामते ॥ 70
धूपधूमाश्रितं विद्धि वैखरीविग्रहं पुनः ।
घण्टायां चाल्यमानायामच्छिन्नमनुभूयते ॥ 71
एवं स्मृत्वा ततस्तां तु स्वमन्त्रन्यस्तविग्रहाम् ।
अर्चितां ध्यानसंयुक्तामर्घ्याद्यैर्धूपसंयुतैः ॥ 72
सञ्चालयेत्ततस्सम्यक् सुशब्दां मन्त्रबोधिनीम् ।
त्रैलोक्यद्राविणीं घण्टां सर्वदुष्टनिबर्हिणीम् ॥ 73
एषा द्रुतिर्हि मन्त्राणां सुप्तानां च प्रबोधिनी ।
चारिणी सर्वविघ्नानां सर्वमन्त्रप्रसादिनी ॥ 74
प्रणवान्ते ध्वनिर्ह्येंषा शब्दशक्तौ लयं गता ।
वर्णदेहाः स्मृता मन्त्राः मन्त्रदेहाश्च देवताः ॥ 75
घण्टास्तनितमूलास्ते प्रबुद्धाः कर्मसिद्धिदाः ।
परशब्दोत्थिता शक्ति र्घण्टा स्तनितरूपिणी ॥ 76
वर्णत्वं समनुप्राप्ता तैर्वर्णैर्मुनिसत्तम ।
मन्त्राणां कल्पिता देहाः नानाकारास्सहस्रशः ॥
स्वेच्छया त्वनया शक्त्या सामर्थ्यात्स्वात्मनस्स्वयम्

अनुग्रहार्थमिह हि भक्तानां भावितात्मनाम् ॥ 78
मननान्मुनिशार्दुल त्राणं कुर्वन्ति वै यतः ।
ददते पदमात्मीयं तस्मान्मन्त्राः प्रकीर्तिताः ॥ 79
अनभिव्यक्तशब्दास्ते निराकारास्तथैव च ।
घण्टायां चाल्यमानायां निर्यान्ति च सहस्रशः ॥
अत एव मुनिश्रेष्ट मन्त्रमाता प्रकीर्तिता ।
एषा घण्टाभिधा शक्तिर्वागीशा च सरस्वती ॥ 81
वाचि मन्त्राः स्थिताः सर्वें वाच्यं मन्त्रे प्रतिष्ठितम् ।

[[16]] मन्त्ररूपात्मकं विश्वं सबाह्याभ्यन्तरं ततः ॥ 82
घण्टाशब्दगतं सर्वं तस्मात्तां चालयेत्पुरा ।
आवाहनार्ध्यें धूपे च दीपे नैवेद्यजोषणे ॥ 83
जपस्तुत्यवसानाभ्यां प्रवृत्ते चाऽग्नितर्पणे ।
पूर्णाहुतिप्रदाने च मन्त्राणां तु विसर्जने ॥ 84
विष्वक्सेनाऽर्चने चैव तत्पूजाप्रतिपादने ।
बलिप्रदानकाले तु देवतानां विशेषतः ॥ 85
नित्यमेव प्रयुञ्जीत सम्यम्मन्त्राऽर्थसिद्धये ।
पूजाकालं विनाऽन्यत्र हितं नाऽस्याः प्रचालनम् ॥
नाऽनया तु विना कार्यं पूजनं सिद्धिमिच्छता ।
धूपं दत्वाऽथ पात्राणां धण्टाशब्दसमन्वितम् ॥ 87
धूपं दद्याद्यथाकाले यद्वाऽर्ध्यादौ सकृत्सकृत् ।
अनुकल्पे तु हृन्मन्त्रं कुर्यादावर्तनं बुधः ॥ 88
आवाहने सन्निधाने सन्निरोधे तथाऽर्चने ।
विसर्जनेऽर्ध्यदानं तु प्राक्पात्रान्नित्यमारभेत् ॥ 89
तदम्भसा चाऽर्हणं तु तथैव परिषेचनम् ।
कुर्यात् प्रणयनादानं प्रीणनं प्रीतिकर्मणि ॥ 90
प्रोक्षणं सर्ववस्तूनामन्यस्मादुदकेन तु ।
आरम्भे सर्वकार्याणां तत्समाप्तौ सदैव हि ॥ 91
न्यूनाधिकानां शान्त्यै तु ज्ञानव्यत्ययशान्तये ।
कार्यं तदर्ध्यदानं च नित्यं मन्त्रात्मनो विभोः ॥ 92
कुम्भोपकुम्भकुण्डानां मन्त्राऽस्रकलशाऽर्चने ।
सम्पूजने च भूतानां गुर्वादीनं महामते ॥ 93
दक्षशिष्यात्मपूजार्थं द्वार्स्थानामर्चनं प्रति ।
प्रासादासनदेवानां गुरूणां सन्ततेस्तथा ॥ 94
लाञ्छनाङ्गपरीवारशक्तिभूषणरूपिणाम् ।
मण्डलावरणस्थानां देवानां चाऽर्चने तथा ॥ 95
मुद्राबन्धे कराभ्युक्षिं तदर्चाक्षालनं तथा ।
पाद्यदानं तृतीयात्तु नित्यं पात्रात्समाचरेत् ॥ 96
चतुर्थात्तु यथाकालं दद्यादाचमनं ततः ।
हस्तप्रक्षालनं चैव गण्डूषं मुखधावनम् ॥ 97
स्नानीयाच्चाऽऽचरेत्स्नानं प्रयोजकविधिस्त्वयम् ।
अर्घ्यपात्राद् द्वितीयात्तु किञ्चिदुद्धृत्य वै जलम् ॥
तेन स्वविग्रहन्यस्तान् मन्त्रानिष्ट्वा यथाक्रमम् ।
गन्धपुष्पप्रधूपैश्चा पृथगेव प्रकल्पितैः ॥ 99
अथाऽर्घ्यादीन् समादाय द्वार्स्थान् देवान् समर्चयेत् ।
निर्गत्य द्वारबाह्ये तु स्थितो वाऽऽसीन एव वा ॥
वास्तुक्षेत्रेशगरुडद्वार्श्रीचण्डप्रचण्डकान् ।
अभ्यर्च्याऽर्घ्यादिभिर्देंवान् प्रासादस्थांश्च पूजयेत् ॥ अनेकभेदभिन्नेषु प्रासादेषु महामते ।
विस्तरेण समस्तेषु वृत्तायतपुरस्सरम् ॥ 102
वक्ष्ये लो(काऽध्व)कोर्ध्वतत्त्वानां देवतानां च संस्थितिं

[[17]] सन्निरुध्य च भूर्लोकं पादक्षितितलेऽखिलम् ॥ 103
एवं प्रासादपीठेषु भुवर्लोकं यथास्थितम् ।
स्मरेज्जङ्घावधिर्यावत् स्वर्लोकं तत्तदूर्ध्वगम् ॥ 104
आरभ्य प्रस्तरोद्देशान्महच्छिखरभूमिगम् ।
जनलोकं च तद्वेद्यां तपस्सञ्ज्ञं तदापगम् ॥ 105
सत्यसञ्ज्ञं च यल्लोकं तच्छिखायां तु संस्मरेत् ।
भावयेच्च पुरा व्याप्तिमेवं वै साप्तलौकिकीम् ॥ 106
ततश्चर्ो्ध्वमयीं व्याप्तिं भावयेत्तु यथाक्रमम् ।
कुम्भाधारोपलान्तस्स्थमध्वषट्कं स्मरन् न्यसेत् ॥
बीजभूतं तदन्तस्स्थमध्वव्याप्तिमनुस्मरेत् ।
बीजतश्चातऽङ्कुरीभूता परस्ताद्व्यक्तिमेति सा ॥
प्रासादपीठपर्यन्तं कुम्भाधारोपलात्तु वै ।
भुवनाद्वा यथाऽवस्थो भावनीयस्तु सर्वतः ॥ 109
गर्भोच्छ्रायावधिर्यावत्पदाऽध्वानं विलोकयेत् ।
मन्त्राऽध्वा शुकनासान्तं तत्वाऽध्वा वेदिकावधि ॥
कलाऽध्वा तु गलान्तं च वर्णाऽध्वा तु तदूर्ध्वतः ।
एवं कृत्वाऽऽध्वकीं (गां)? व्याप्तिन्ततस्तत्त्वानि विन्यसेत् ॥
संयोज्य पार्थिवं तत्वं पादक्षितितले द्विजाः ।
तोयतत्वं न्यसेत्पीठे जङ्घायां तैजसं स्मरेत् ॥ 112
ग्रीवोद्देशावधिर्यावद्वायुतत्वं तदूर्ध्वतः ।
आकाशं शिखरस्थं स्यात्तदुद्देशात्क्रमेण तु ॥ 113
न्यसेच्छब्दादि तन्मात्रां यावत्पादतलान्तिमम् ।
पार्श्वछतो नासिके श्रोत्रे त्वक्सुधा समुदाहृता ॥
गवाक्षे चक्षुषी स्यातां जिह्वा भद्राख्यवेदिका ।
घ्राणन्तु शुकनासा स्यादास्यं द्वारमुदाहृतम् ॥
विज्ञेयाः पाणयःस्तम्भाः पादाः पादशिलाघटाः ।
वायुभ्यां जलनिर्याणमुपस्थं तु तदन्तरम् ॥ 116
मनोऽन्तर्व्योम विज्ञेयं गर्वो ब्रह्मशिलागतः ।
बुद्धिस्तु पिण्डिका ज्ञेया प्रकृतिस्स्यात्तदन्तरे ॥
पञ्चविंशतमो ज्ञेयः प्रतिमापुरुषः परः ।
एवं न्यस्तेषु तत्वेषु न्यस्तव्या देवताः क्रमात् ॥
घटाधारोपलस्याऽधस्त्वनन्तो नाम नागराट् ।
सहस्रसङ्ख्यातफणामण्डलेन सुमण्डितः ॥ 119
तदूर्ध्व संस्थितं चक्रं सहस्रारोपशोभितम् ।
या शिला कलशाधारसञ्ज्ञां तां विद्धिसर्वगाम् ॥
सा मध्यशक्तिस्सामान्या निष्कला पारमेश्वमरी ।
तर्दूर्ध्वसंस्थिताः कुम्भाः नवसङ्ख्यास्तु ये द्विजाः ॥
तेषां मध्यमकुम्भे तु साङ्गं सपरिवारकम् ।
मन्त्रनाथं समभ्यर्च्य मूलमन्त्रेण देशिकः ॥ 122
ततः प्रागादिदिक्स्थेषु वासुदेवादिकान् यजेत् ।
विदिक्स्थेष्वनिरुद्धादीन् यजेदप्यययोगतः॥ 123
तेषां पिधाननवके त्वामध्यादीशगोचरम् ।

[[18]] स्मर्तव्यास्सर्वतो व्याप्ताः क्रमेण द्विजपुङ्गवाः ॥ 124
ज्ञानाभासा निवसति तथाऽऽनन्दबला प्रभा ।
सर्वगा ब्रह्मवदना द्योतकी सत्यविक्रमा ॥ 125
सम्पूर्णा चेति कथिताश्शक्तयो विश्वधारिकाः ।
शिलाष्टके दिग्विदिक्षु तद्बहिस्स्थापिते न्यसेत् ॥
धर्माद्यं चाऽग्निकोणात्त्तु यावदीशपदं पुनः ।
प्रागादावुत्तरान्तं च अधर्माद्यं चतुष्टयम् ॥ 127
शिलानामन्तरे भूमौ षट्कं षट्कं क्रमेण तु ।
न्यस्तव्यं पूर्ववर्णाच्च वर्णानां सावसानकम् ॥ 128
ततः प्राङ्गणभित्त्यर्थं विन्यस्ते च शिलाऽष्टके ।
दिग्विदिक्षु न्यसेत्प्राग्वप्रागुक्तांश्चि दिगीश्व रान् ॥
चक्रं तदन्तभूमीनां भ्रमद्वह्निस्फुलिङ्गवत् ।
क्षार्णेन्न चिन्तयेद्व्याप्तिम्भूभागं चाङ्गणीयकम् ॥
बहिः प्राङ्गणभित्तीनां सास्त्रं सपरिवारकम् ।
प्रागादावीशकोणान्तमिन्द्राद्यं चाऽष्टकं न्यसेत् ॥
तथाविधेषूपलेषू अन्तर्भूमिगतेषू च ।
सर्वाधारमयं चक्रं शाखामूलं समाश्रितम् ॥ 132
ज्ञानक्रियात्मके तत्त्वे शाखयोर्युगले स्थिते ।
पारमेश्विर आद्यस्तु द्वारस्योर्ध्व उदुम्बरे ॥ 133
संस्थितस्सर्वतो व्याप्तस्तत्पृष्ठे मध्यदेशतः ।
चतुष्पात्सकलो धर्मः स्थितस्सत्ववतां वरः ॥ 134
यदा कवाटौ द्वारस्य कल्पितौ द्विजसत्तमाः ।
कालवैश्वा नरो देवो ह्यपां पतिरुभाविमौ ॥ 135
दक्षिणोत्तरयोगेन कवाटोपरि संस्थितौ ।
तद्द्वारपार्श्वनयोर्वा श्रीमण्टपद्वारपार्श्व3योः ॥ 136
निधीशौ शङ्खपद्माख्यौ पूजनीयौ क्रमेण तु ।
ततो जङ्घासमूहे तु तथैवान्तरभूमिषु ॥ 137
भवोपकरणीयानां देवानामर्चनं क्रमात् ।
कालोपि यन्नियन्ता च शास्त्रं नानाङ्गलक्षणम् ॥ विद्याधिपतयश्चैतव सरुद्रस्सगणश्शिवः ।
प्रजापतिसमूहस्तु इन्द्रस्सपरिवारकः ॥ 139
मुनयस्साप्त पूर्वेऽन्न्ये ग्रहास्तारादिकैर्वृताः ।
जीमूतश्चा्खिला नागाः अप्सरोगण उत्तमः ॥
ओषध्यश्चैव पशवो यज्ञास्साङ्गाखिलास्तु ये ।
विद्याचैवाऽपरा विद्या पावकश्चैसव मारूतः ॥
चन्द्राऽर्कौ वारिवसुधे इत्येते देवतागणाः ।
चर्तुींवशतिसङ्ख्याताः भवोपकरणाऽमराः ॥ 142
मूर्तयः केशवाद्यास्तु जङ्घाग्रोपरि संस्थिताः ।
ततस्तु प्रस्तरोद्देशे एते स्थाप्याः क्रमेणा तु ॥ 143
चक्रशङ्खौ गदापद्मे लाङ्गलं मुसलं शरः ।
शार्ङ्ग च खङ्गखेटौ तु दण्डः परशुरीतिहा ॥ 144
पाशाङ्कुशौ मुद्गरं च वज्रं शक्तिसमन्वितम् ।

[[19]] प्रासादे चतुरश्रे तु चतुरश्रायतेऽपि च ॥ 145
गरुडं प्रस्तरस्योर्ध्वें न्यसेत्कोणचतुष्टये ।
तदूर्ध्वं वेदिकायां तु भावनीया मुनीश्वषराः ॥ 146
एते पूर्वादिके योगे नैकश्रृङ्गतनुस्ततः ।
देवो वामनदेहस्तु सर्वव्यापी त्रिविक्रमः ॥ 147
नरो नारायणश्चैतव हरिः कृष्णस्तथैव च ।
ज्वलत्परशुधृग्रामो रामश्चाकऽन्यो धनुर्धरः ॥ 148
वेदविद्भगवान् कल्की पातालशयनः प्रभुः ।
ततो ग्रीवातले ध्येयः कूर्मः पातालधारकः ॥ 149
वराहो नारसिंहश्चा◌ेऽप्यमृताहरणस्तु वै ।
श्रीपतिर्दिव्यदेहोऽथ कान्तात्माऽमृतधारकः ॥ 150
राहुजित्कालनेमिघ्नः पारिजातहरो महान् ।
लोकनाथस्तु शान्तात्मा दत्तात्रेयो महाप्रभुः ॥ 151
न्यग्रोधशायी भगवानित्येते द्विजसत्तमाः ।
ततस्तु शिखरोद्देशं त्रिधाकृत्य यथासमम् ॥ 152
यावत्तु कलशाधारवेदिकाद् द्विजसत्तमाः ।
अधोभागे क्रमाद् ध्येयाः शिष्टा देवास्तु वैभवाः ॥ अनन्तो भगवान् देवश्शक्त्यात्मा मधुसूदनः ।
विद्याधिदेवः कपिलो विश्वूरूपो विहङ्गमः ॥ 154
क्रोडात्मा बडबा वक्त्रो धर्मो वागीश्वरस्तथा ।
देव एकार्णवशय इत्येते द्वादश स्मृताः ॥ 155
ध्रुवुस्तु सर्वतोव्यापी तदूर्ध्वपदसंस्थितः ।
पद्मनाभस्तदूर्ध्वें तु व्यापकः परितिष्टति ॥ 156
शुकनासामुखे पूज्यो वासुदेवस्सनातनः ।
यत्र प्रासाददेशे तु शुकनासा न कल्पिता ॥ 157
तत्राऽग्रतो नासिकायाः वासुदेवं तु संस्मरेत् ।
शिष्टनासात्रये पूज्याः क्रमात्सङ्कर्षणादयः ॥ 158
अथ वा पुरुषस्सत्यो ह्यच्युतोऽनन्त एव च ।
चतुर्दिक्षु क्रमेणैव पूज्या यद्वा क्रमेण तु ॥ 159
वराहो नारसिंहश्चे श्रीधरश्च् हयाननः ।
यद्वा नराद्याश्चेत्वारो धर्ममूर्त्यादयोऽपि वा ॥ 160
यद्वा परशुरामाद्याः स्मर्तव्याः क्रमयोगतः ।
एते तु शक्तिभिस्सर्वें युक्ता वा केवलास्तु वा ॥
द्रुमैः पत्रलतायुक्तैर्बूषितैर्वेन्दिकातले ।
विन्यसेत् षडरं चक्रं ततस्सामलसारके ॥ 162
भगवान् जगदाधारो वासुदेवः परः पुमान् ।
लोकानध्वगणं नित्यं तत्वाद्यमपि देवताः ॥ 163
प्रासादोपरि विन्यस्तास्समाक्रम्य च संस्थिताः ।
तदग्रदेशे हेतीशं यजेद्देवं सुदर्शनम् ॥ 164
प्रासादाङ्गेषु विप्रेन्द्राः क्रमान्निगदितेषु च ।
देवताऽऽधारभूतेषु यद्यदङ्गं न कल्पितम् ॥ 165
यत्र वा तत्तदधिकं तत्रापि च समाचरेत् ।

[[20]] तत्तत्स्थाने तु बुध्यातु देवतान्यासमूहतः ॥ 166
यद्वा ह्यनवक्लृप्ताङ्गे देवतेष्टिं तु वर्जयेत् ।
लोकास्सप्त तथाऽध्वानस्सत्वसङ्घश्चत देवताः ॥
ध्यातव्यास्तु निराकारास्साधकैर्द्विजसत्तमाः ।
विमानोपि तथा सैद्धे विबुधैश्चर प्रतिष्ठिते ॥ 168
किं तु तत्र विमानाङ्गमूर्तीनां लाञ्छनादिकम् ।
तासां स्थानानि विप्रेन्द्राः कल्पितानि यथाविधि ॥
विमानावयवांश्चावपि सन्निरीक्ष्यैव यत्नतः ।
पूजयेत्सावधानेन चेतसा ध्यानपूर्वकम् ॥ 170
लाञ्छनाद्येषु मूर्तीनां प्रासादावयवेष्वपि ।
अनभिव्यक्तिरूपेण लक्षणाद्यपरीक्षणात् ॥ 171
स्वप्नादेश्चापि विप्रेन्द्र देशिकेन्द्रोपदेशतः ।
यथावत्सम्परीक्षेत प्रयत्नेन द्विजोत्तमाः ॥ 172
लक्षणादिषु हीनेषु विपर्यस्तेष्वपि द्विजाः ।
न लक्षणादिषु कुर्यादन्यथा मुनिपुङ्गवाः ॥ 173
लक्षणं न परीक्षेत ह्यन्यथाकरणेच्छया ।
अन्यथाकरणार्थं तु लक्षणाद्ये परीक्षिते ॥ 174
क्षयत्यायुः कृते तस्मिन् लक्षणैर्नरकं व्रजेत् ।
तस्मात्सर्वप्रयत्नेन स्वयंव्यक्तादिकेऽपि च ॥ 175
विमाने संस्थितानां तु मूर्तीनां लक्षणादिकम् ।
स्थानान्यपि च तासां वै विमानावयवानपि ॥ 176
यथास्थितं परीक्ष्यैव कृत्वा मूर्तीविनिर्णयम् ।
स्वेन स्वेन विशेषेण लाञ्छनाद्येन वै स्फुटम् ॥
स्वेन स्वेन तु मन्त्रेण पूजनं च समाचरेत् ।
प्रासादेषु स्वयंव्यक्तं श्रेष्ठं सर्वेंषु च द्विजाः ॥ 178
तद्रूपी भगवान् देवः स्वयमेवाऽवतिष्टते ।
तत्र सन्निहितस्साक्षाद्भगवान् भक्तवत्सलः ॥ 179
जाते जीर्णादिदोषे तु न त्यजन्ति कदाचन ।
स्वं स्वं प्रदेशमेतास्तु मन्त्राणां शक्तयः पराः ॥
प्रासादान्तस्स्थिताश्चापि स्वयंयव्क्तपुरस्सराः ।
आकारास्तु विभोस्सम्यक् ज्ञेयाः पूर्वोक्तयोगतः ॥
अस्त्रैर्मन्त्रैर्ध्वजैर्येंषां व्यक्तिर्व्यक्ता जगत्त्रये ।
तेऽपि लाञ्छनबृन्दं तु धारयन्त्यङ्घ्रिगोचरे ॥ 182
ललाटे चांसपट्टे तु पृष्ठे पाणितलद्वये ।
तनूरुहचये मूर्ध्नि र्कीम्मणां प्रतिपत्तये ॥ 183
तत्तल्लाञ्छनबृन्दं तु परीक्ष्यैवं विशेषतः ।
तत्तदाकारनियतैर्वाचकैस्सम्प्रपूजयेत् ॥ 184
येषां लाञ्छनबृन्दं तु न व्यक्तं चरणादिषु ।
तानर्चयेद्विषट्कार्णपुरोगेण मुनिश्वराः ॥ 185
व्यापकानां तु मन्त्राणामेकेनाऽभिमतेन तु ।
इति ज्ञात्वा यथावच्च यः पूजयति मन्त्रवित् ॥ 186

[[21]] स पूजाफलमाप्नोति ह्यन्यथा विपरीतभाक् ।
एतान्युक्तानि सर्वाणि लोकादीनि क्रमेण तु ॥ 187
समाराधनकालेषु देवस्याऽमिततेजसः ।
द्वार्स्थदेवार्चनं कृत्वा पूजयेत्तदनन्तरम् ॥ 188
नमस्कारपदान्तेन स्वनाम्ना प्रणवादिना ।
अर्ध्यालभनमाल्यैश्चक धूपेन द्विजसत्तमाः ॥ 189
अङ्ग्रतो देवदेवस्य द्वारदेशस्य बाह्यतः ।
अन्तर्मण्डलदेशे तु गत्वा वा पूजयेत्क्रमात् ॥
एवं प्रासादभेदे तु यस्मिन् साधकसत्तमैः ।
एककालं द्विकालं वा त्रिकालं वाऽर्चनं द्विजाः ॥
नित्यशः क्रियते तत्र सदा सन्निहितो विभुः ।
अत एव द्विजश्रेष्ठास्तदर्चनपुरस्सरम् ॥ 192
कुर्यादाराधनं विष्णोस्साधकस्सिद्धिलालसः ।
य एवं कुरुते भक्त्या ह्यनन्यपरया सदा ॥ 193
सोऽचिराल्लभते कामानिह लोके परत्र च ।
मोक्षार्थी कुरुते यस्तु स याति परमं पदम् ॥ 194 ॥ इति यां विमानदेवतार्चनविधिर्नाम तृतीयोऽध्यायः ॥