०२

[[5]] द्वितीयोऽध्यायः 2 - मानसयागः नारदः आराधनविधिं वक्ष्ये श्रुणुध्वं मुनिपुङ्गवाः ।
ब्राह्मे मुहूर्तें सम्प्राप्ते मन्त्रज्ञः प्रयतश्शुचिः ॥ 1
नाम्नां सङ्कीर्तनं कुर्याद् उत्थाय शयने स्थितः ।
परिच्युतमलस्स्नातश्शुद्धवासा जितेन्द्रियः ॥ 2
धृतोर्ध्वपुण्ड्रः काल्योक्तकर्माणि विनिवर्त्य च ।
गन्धैःस्रग्भिरलङ्कारैः कटकाद्यैरलङ्कृतः ॥ 3
सपवित्रकरो मौनी आसाद्य भगवद्गृहम् ।
द्वाराद्बाह्ये यथाशास्त्रं शुद्धेन सलिलेन च ॥ 4
आजानु पादौ प्रक्षाल्य हस्तौ चाऽऽमणिबन्धनात् ।
आचम्य च प्रविश्यान्तः प्रणम्य मनुमुच्चरन् ॥ 5
धाम प्रदक्षिणीकृत्य बोधयेत्पुरुषोत्तमम् ।
शङ्खध्वनिसमोपेतं दुन्दुभीपटहस्वनैः ॥ 6
वन्दिबृन्दोत्थितोच्चाभिर्नानावाग्भिर्महामते ।
महाजयजयारावैः पुनःपुनरुदीरितैः ॥ 7
प्रबोधलक्षणैः स्तोत्रैरुत्थाप्य शयनात्ततः ।
द्वारमासाद्य तत्रस्थो दशदिग्बन्धपूर्वकम् ॥ 8
अवकुण्ठ्याऽथ तर्जन्या मन्त्रं कवचमुच्चरन् ।
स्थिते वा कल्पिते तत्र पूजयेद्बलिमण्डले ॥ 9
सर्वं खगेशपूर्वन्तु परिवारं हि साच्युतम् ।
मनसा प्रणवाद्येन विष्णुमादाय कीर्तयेत् ॥ 10
समस्तपरिवाराय अच्युताय नमो नमः ।
वास्तुपूरुषमन्यांश्चा समभ्यर्च्य यथाक्रमम् ॥ 11
मूलमन्त्रेण साङ्गेन निरङ्गेनाऽथ वा पुनः ।
न्यासं कृत्वा त्रिराचार्यो हस्ततालं हृदा ततः ॥ 12
मूलमन्त्रेण चोद्घाट्य कवाटं नेत्रमन्त्रतः ।
नित्यदीपांस्ततो ज्वाल्य हस्तौ प्रक्षाल्य वारिणा ॥
प्रासादान्तःप्रवेशार्थं ततो द्वारन्तु चेतसा ।
त्रिभागीकृत्य तन्मध्यभागमेकं द्विधा पुनः ॥ 14
विभज्य वामदेशेन दक्षिणेनाङ्घ्रिणा ततः ।
शनैःशनैः प्रविश्यान्तस्सास्त्रमन्त्रेण तेन वै ॥ 15
धरणीहननं कृत्वा भगवन्तं प्रणम्य च ।
मनसा गुरुवंशं च तदाज्ञां मानसीमथ ॥ 16
शिरसा धारयेत्स्वेष्ठं फलं सङ्कल्प्य चेतसा ।
देवाय तं निवेद्याथ यागाऽगारस्य मध्यतः ॥ 17
प्रासादं विग्रहं कृत्वा वर्ममन्त्रं सविग्रहम् ।
तज्जीवं भगवन्तं च ध्यात्वा यागगृहं ततः ॥ 18
सशलाकैस्ततो दर्भैस्सहदेवीविमिश्रितैः ।

[[6]]

सम्मार्ज्य बहुतोयेन प्रक्षाल्याऽऽलिप्य गोमयैः ॥
उपलिप्तमथाऽस्त्रेण संविध्य शकलं त्यजेत् ।
पञ्चगव्येन सास्त्रेण वारिणा प्रोक्ष्य चन्दनैः ॥ 20
कुङ्कुमागरुकर्पूरैस्समालिप्य समन्ततः ।
कुशदूर्वाऽक्षतांश्चैसव विकिरेत् स्थानशुद्धये ॥ 21
प्रासादं शोधयेदेवं स्वयमेव तु देशिकः ।
प्रासादोद्देशमखिलं मार्जयेत्प्रोक्षयेत्ततः ॥ 22
परिचारैस्तु कर्तव्यं बलिपीठान्तमेव हि ।
यागोपकारसम्भूतौ भगवन्तमनुस्मरन् ॥ 23
विनीतान् शिष्यपुत्रादीन् स्नातानाज्ञापयेत्ततः ।
पात्रशुद्धिं च तैरेव कारयेद् द्विजसत्तमः ॥ 24
आम्रकल्केन तोयेन हैमं ताम्रं च शोधयेत् ।
राजतं गृहधूमेन शान्ताङ्गारेण वा पुनः ॥ 25
भस्ममिश्रेण तोयेन लोहयुक्तं विशोधयेत् ।
शङ्खशुक्तिमयानां च लवणेन विशोधयेत् ॥ 26
फलपत्रमयानां च मृद्भिरद्भिश्चध शोधयेत् ।
लेपगन्धापनोदेन शुद्धिर्भवति कारयेत् ॥ 27
द्रव्यशुद्धिर्भवत्येवं यथावद्विधिचोदिता ।
पात्राणि शोधयित्वैवं ततो मौनपरो द्विजः ॥ 28
देवेशस्याऽग्रतो वाऽपि दक्षिणं भागमाश्रयेत् ।
ईश्वरप्राग्वशादेव ह्युत्तराभिमुखो द्विजः ॥ 29
अथोपविश्य वै दार्भें काष्टजे वाऽजिनासने ।
आगमार्थं च देवानां गमनार्थं च रक्षसाम् ॥ 30
कुर्याद्घण्टारवं तत्र देवतास्थानलाञ्छनम् ।
शङ्खादिघोषसंयुक्तं गेयवाद्यसमन्वितम् ॥ 31
करशुद्धिं ततः कुर्याद्यथावन्मुनिपुङ्गवाः ।
द्वे तले हस्तपृष्ठे द्वे सर्वाश्चामऽङ्गुलयस्तथा ॥ 32
अस्त्रमन्त्रेण संशोध्य ध्यानमुद्रान्वितेन तु ।
कृत्वैवं करशुद्धिं च स्थानशु द्धिं समाचरेत् ॥ 33
ध्यात्वा देवं ज्वलद्रूपं सहस्रार्कसमप्रभम् ।
ज्वालाकोटिसमाकीर्णं वमन्तं ज्वलनं मुखात् ॥ 34
तेन सम्पूरयेत्सर्वम् आब्रह्मभवनान्तिमम् ।
दिगोघं प्रज्वलन्तं च भावयेन्मन्त्रतेजसा ॥ 35
क्ष्मामण्डलमिदं सर्वं स्मरेत्पक्वं च वह्निना ।
मन्त्रजेन द्विजश्रेष्ठाः मृन्मयं भाजनं यथा ॥ 36
स्थानशुद्धिर्भवत्येवं सुधाकल्लोलसेचनात् ।
सम्भाव्यैवं ततः कुर्याद्दिग्बन्धं हृदयादिकैः ॥ 37
अस्त्रेणैव विदिग्बन्धं नेत्रेण त्वध ऊर्ध्वतः ।
आदित्यायुतदीप्तेन ज्वलत्कञ्चुकरूपिणा ॥ 38
कवचेन तु तर्जन्या रक्षार्थमवकुण्ठयेत् ।
सायामां भूतसंशूद्धिं धारणाभ्यां समाचरेत् ॥ 39

[[7]] केवलेन तु मन्त्रेण भावनासहितेन तु ।
नाभिदेशस्थितं ध्यात्वा देवं सङ्गृह्य कल्मषम् ॥ 40

निस्सृतं वायुमार्गेण द्वादशान्तावधौ क्षिपेत् । निरस्तपापमाकृष्य वातचक्रसमन्वितम् ॥ 41
नासाग्रेण तु मन्त्रेऽमुं देहसम्पूरणाय च ।
तं ध्यायेद्धृदयस्थं च गतिरुद्धेन वायुना ॥ 42
चित्तोपशमनार्थं तु नूनं वायुजयाय च ।
शनैश्शनैरथ बहिः केवलं मारुतं क्षिपेत् ॥ 43
विनाऽन्त्यरेचकेनैवमन्येषामुत्तरोत्तरम् ।
कालाभ्यासं यथाशक्ति नित्यमेवं समाचरेत् ॥ 44
द्वादशान्तेऽथ मन्त्रेशं तप्तहाटकसन्निभम् ।
सहस्ररविसङ्काशवृत्तमण्डलमध्यगम् ॥ 45
स्मृत्वाऽथ मुक्तं तन्मन्त्रैर्निर्दहेद्विग्रहं स्वकम् ।
दक्षिणाङ्घ्रेरथाऽङ्गुष्टप्रान्ते देशे शिखाक्षरम् ॥ 46
ध्यात्वा युगान्तहुतभुग्रूपज्वालासमावृतम् ।
तेन स्वविग्रहं ध्यायेत्प्रज्वलन्तं समन्ततः ॥ 47
देहजां भावयेज्ज्वालां मन्त्रनाथे लयं गताम् ।
दिव्यप्रशान्ताऽगारं तु तमधिष्ठाय चेतसा ॥ 48
स्वमन्त्रादमृतौघेन सेचयेद्विग्रहं स्वकम् ।
ततस्स्वमन्त्रं तद्बिम्बमाकृष्य हृदि विन्यसेत् ॥ 49
एवं स शुद्धदेहोऽथ मन्त्रन्यासं समाचरेत् ।
येन विन्यस्तमात्रेण देवदेवसमो भवेत् ॥ 50
पूजादिसर्वकार्याणामधिकारश्चम जायते ।
हस्तद्वयेऽपि विन्यस्येद्दीप्तमष्ठाक्षरं परम् ॥ 51
मणिबन्धान्नखाग्रान्तमादित्यातपवत्ततः ।
सृष्ठिसंस्थितिसंहारन्यासं कुर्याद्यथाविधि ॥ 52
पर्वदक्षिणतर्जन्याः प्रारभ्याऽङ्गुलिपर्वसु ।
पर्वान्तं वामतर्जन्या न्यासस्सृष्टिरुदाहृतः ॥ 53
व्यत्यासेन तु संहार स्थिती तु करयोर्द्वयोः ।
प्रारभ्य तर्जनीपर्वकनिष्ठापर्वविश्रमः ॥ 54
अङ्गुष्ठाभ्यामङ्गुलीनां मध्यमपर्वसु विन्यसेत् ।
मन्त्राक्षराणि त्वाद्यन्तपर्वसु प्रणवन्न्यसेत् ॥ 55
अङ्गुष्टद्वितयं यावत्कनिष्ठाद्वितयावधि ।
ज्ञानाद्यं वीर्यपर्यन्तं विन्यसेदङ्गपञ्चकम् ॥ 56
मूलवद्व्यापकत्वेन नेत्रमूर्ध्वाङ्गुलीषु च ।
किरीटं दक्षिणे हस्ते श्रीवत्सं वाममध्यतः ॥ 57
कौस्तुभं दक्षिणतले वनमालां तथाऽपरे ।
दक्षिणे मध्यतः पद्मं प्रस्फुरत्किरणोज्ज्वलम् ॥ 58
गदां वामतले न्यस्येज्ज्वलन्तीं स्वेन तेजसा ।
दक्षे महाप्रभं चक्रं शङ्खं वामतले न्यसेत् ॥ 59
श्रियं दक्षिणहस्ते तु पुष्टिं वामतले न्यसेत् ।
अङ्गुष्ठाद्दक्षिणादादौ वामान्तं मूलदेशतः ॥ 60

[[8]] गारुडं विन्यसेन्मन्त्रं दशस्वङ्गुलिषु क्रमात् ।
अनेन विधिना पूर्वं हस्तन्यासं समाचरेत् ॥ 61
आब्रह्मरन्ध्रात्पादान्तं मूलमन्त्रं तु विग्रहे ।
व्यापकत्वेन विन्यस्य पादाद्भूयश्शिरोन्तिमम् ॥ 62
सृष्ठिस्थितिलयन्यासेष्वेकं देहे समाचरेत् ।
मूर्धादिपादपर्यन्तं सृष्टिन्यासः प्रकीर्तितः ॥ 63
पादादिमूर्धपर्यन्तं संहारन्यास इष्यते ।
नाभ्यादिहृदयान्तस्तु स्थितिन्यास उदाहृतः ॥ 64
मूर्ध्नि मध्यमयाऽङ्गुल्या तर्जन्या च तदा दृशोः ।
साङ्गुष्टयाऽनामिकया मुखमध्ये तु विन्यसेत् ॥ 65
साङ्गुष्टतर्जन्यग्रेण हृदये विन्यसेत्ततः ।
तथाङ्गुष्टकनिष्ठाभ्यां नाभौ न्यासं समाचरेत् ॥ 66
व्यङ्गुष्ठाभिश्चातसृभिरुपस्थे जानुनोरपि ।
सर्वाभिरङ्गुलीभिस्तु पादयोर्न्यासमाचरेत् ॥ 67
मन्त्राक्षरं तु सर्वत्र तारसम्पुटितं न्यसेत् ।
एवमष्टाक्षरन्यासं कृत्वाऽङ्गन्यासमाचरेत् ॥ 68
ततस्तु हृदये ज्ञानं यतो व्यज्येत तत्र तत् ।
ऐश्वतर्यं शिरसो देशे यस्मादुपरि तिष्टति ॥ 69
प्राकृतं तात्त्विकं वाऽपि सर्वत्र कमलेक्षणम् ।
हार्दाग्नेरूर्ध्वगायान्तु शिखायां शक्तिमन्त्रराट् ॥ 70
बलं चाऽखिलगात्राणां त्वग्गत वायुना सह ।
मूर्च्छितं सर्वगात्रैर्यत् तद्वीर्यं हस्तयोर्न्यसेत् ॥ 71
अन्तर्बोधस्वरूपं यत् प्राकृतध्वान्तशान्तिकृत् ।
तेजस्तत्तैजसे स्थाने न्यासकाले समस्यते ॥ 72
किरीटं मूर्ध्नि विन्यस्येद् वह्न्यर्कायुतदीधितिम् ।
श्रीवत्सं वक्षसो वामे पूर्णेन्न्दुसदृशद्युति ॥ 73
कौस्तुभं हृदये न्यस्य चण्डदीधितिलक्षणम् ।
नानाऽब्जवनपुष्पोत्थां वनमालां च कण्ठतः ॥ 74
ततः पद्मगदाचक्रशङ्खान् प्राग्वत्तु विन्यसेत् ।
आ चांसाद्दक्षिणे भागे न्यस्याच्छ्रीरुत्तरे तथा ॥ 75
पुष्ठिं गुल्फावसाने च गरुडं चोरुमध्यतः ।
मन्त्रन्यासं तु कृत्वैवं ततः पाणिद्वयेन तु ॥ 76
मुद्रां बध्वा स्मरेद्ध्यानं देवोहमिति भावयेत् ।
कृत्वैवं तु ततः पश्चामन्मानसं यागमारभेत् ॥ 77
पद्मासनादिकं बध्वा नाभौ ब्रह्माऽञ्जलिं दृढम् ।
मनस्युपरतं कुर्यादक्षग्रामं बहिःस्थितम् ॥ 78
चित्तम् बुद्धौ विनिक्षिप्य तां बुद्धिं ज्ञानगोचरे ।
ज्ञानभावनया कर्म कुर्याद्वै पारमार्थिकम् ॥ 79
अथ प्रणवपूर्वेण्ण स्वनाम्नाऽऽनतिना सह ।
शेषपूर्वन्तु वह्न्यन्तमानसं परिकल्पयेत् ॥ 80
तथाऽऽक्रम्याय तस्यैव कार्या स्वहृदि कल्पना ।
चतुश्च्क्रे नवद्वारे देहे देवगृहे पुरा ॥ 81

[[9]] कण्ठकूपधरारूढं हृत्पद्मं यदधोमुखम् ।
तत्कर्णिकावनेर्मध्ये रूढमूर्ध्वमुखं तु यत् ॥ 82
शब्दव्यक्तिस्तदूर्ध्वें तु स्थितार्केन्द्वग्निलक्षणा ।
श्रीदीप्तिभास्वरा नाडी त्वव्यक्तध्वनिविग्रहा ॥ 83
व्यक्तचक्रद्वयस्योर्ध्वें वर्तते या महामते ।
निस्सृता ब्रह्मरन्ध्रेण गता सूर्यपथात्परम् ॥ 84
वायुद्वारेण पातालं भित्वा याता स्वगोचरम् ।
सङ्कल्पविषयस्सर्वस्तद्बन्धः प्रतितिष्टति ॥ 85
सूत्रे मणिगणो यद्वन्मध्यनाडी ह्यतः स्मृता ।
लक्ष्यस्थाने तु पूर्वोक्ते तस्यामभ्यन्तरे तु वै ॥ 86
सम्पुटे शशिसूर्याख्ये निमेषोन्मेषलक्षणे ।
तत्राऽब्जं चाऽर्कमालम्ब्य परावाक्भ्रमरी स्थिता ॥
या सर्वमन्त्रजननी शक्तिस्सर्वात्मनो विभोः ।
नदन्ती वर्णजं नादं शब्दब्रह्मेति यत् स्मृतम् ॥ 88
अकारपूर्वो हान्तश्चश धारासन्तानरूपधृक् ।
नादावसानगगने देवोऽनन्तसमन्वितः ॥ 89
वरदाऽभयदेनैव शङ्खचक्राङ्कितेन तु ।
त्रैलोक्योद्धृतिदक्षेण युक्तः पाणिद्वयेन तु ॥ 90
शान्तस्संवित्स्वरूपस्तु भक्तानुग्रहकाम्यया ।
अनौपम्येन वपुषा ह्यमूर्तो मूर्तितां गतः ॥ 91
विश्व्माप्याययत्कान्त्या पूर्णेन्द्वयुततुल्यया ।
रश्मिभिर्भास्करो यद्वत्समुद्र इव वीचिभिः ॥ 92
स्वमूर्तिभिरमूर्ताभिरच्युतादिभिरन्वितः ।
दीप्तिमद्भिरमूर्तैस्तु सुधाकल्लोलसङ्कुलः ॥ 93
पूर्ण आभरणैस्सर्वैर्निर्विकाराङ्घ्रिविग्रहः ।
तस्माद्देवं समावाह्य हृदये कल्पितासने ॥ 94
मन्त्रन्यासं ततः कुर्यात् हस्तन्यासं विना विभोः ।
ततः स्वाब्जकमध्यात्तु ह्यूर्ध्वस्थात्संस्मरेच् च्युताम् । गङ्गां भगवतो मूर्ध्नि तेनाऽमृतजलेन तु ।
अर्घ्यादखिलभोगानां कार्या वै शुभकल्पना ॥ 96
यं यं सङ्कल्पयेद्भोगं तं तं भाव्यं सुधामयम् ।
पतन्तमम्बराद्वेगादमृतांशुपरिप्लुतम् ॥ 97
साक्षादमृतरूपैस्तु तैस्तैरमृतसम्प्लवैः ।
बृंहितं मुदितं मग्नं स पुनर्मन्त्रराट् स्मरेत् ॥ 98
ततस्तु देवदेवस्य अर्घ्यं दत्वा यथाविधि ।
सन्निधिं सन्निरोधं च साम्मुख्यं च समाचरेत् ॥ 99
हृदयादीनि साङ्गानि किरीटाद्यं तु भूषणम् ।
गदाद्यं लाञ्छनं यत्तु लक्ष्म्याद्याश्शक्तयस्तथा ॥ 100
गरुडो मूर्तयो वाऽन्या देहे देवस्य याः स्थिताः ।
व्यापकस्य तथात्वेन स्वे स्वे स्थाने प्रभात्मकाः ॥ 101
तद्देहसंस्थितास्सर्वें पूजनीयाः क्रमेण तु ।
परिवारं विना मन्त्रैस्स्वैःस्वैरर्घ्यादिभिर्द्विजाः ॥ 102

[[10]] लययागो ह्ययं विप्राः हृदादिष्वनुकीर्तितः ।
मन्त्रराट् कर्णिकामध्ये हृदाद्याः प्राग्दलादिषु ॥ 103
साकाराः केवलास्सर्वें पूज्या भोगाभिधो ह्ययम् ।
केवलेन च यागेन पृथग्भूतेन वै द्विजाः ॥ 104
तेषामभ्यर्चनविधिरधिकाराभिधः स्मृतः ।
एवं कृत्वा लयाख्यं तु यागं भोगाभिधं तथा ॥
ध्यात्वाऽथ भावनाजातैर्भोगैः परमपावनैः ।
अभ्यर्चयेत्स्वहृदये देवं विज्ञापयेदिदम् ॥ 106
स्वागतं देवदेवेश सन्निधिं भज मेऽच्युत ।
गृहाण मानसीं पूजां यथार्थपरिभाविताम् ॥ 107
ज्ञात्वा तु सुप्रसन्नं तं प्रसादाभिमुखं प्रभुम् ।
विस्तरेण द्विजश्रेष्ठो मानसं यागमारभेत् ॥ 108
सङ्कल्पजनितैर्दिव्यैः पवित्रैरक्षतैश्शुभैः ।
सर्वकामप्रदं देवं मन्त्रमूर्तिधरं यजेत् ॥ 109
अभ्यङ्गोद्वर्तने पूर्वं स्नानं चाऽथ विलेपनम् ।
वस्त्रपूर्वाणि माल्यानि सुगन्धानि निवेद्य च ॥ 110
हारकेयूरकटकैर्मकुटैर्भूषितं स्मरेत् ।
चित्रेण कटिसूत्रेण हेमरत्नमयेन च ॥ 111
माणिक्यरचितैश्शुद्धैर्मुक्ताहारैश्च भूषयेत् ।
सम्पूर्णेन्न्दुसमानं च हेमदण्डसमन्वितम् ॥ 112
छत्रं निवेदयेद्विष्णोर्मायूरव्यजनं शुभम् ।
कर्पूरचूर्णसम्मिश्रं सुगन्धि मधुरं बहु ॥ 113
धूपं भगवतो दत्वा दीपमालां घृतेन च ।
मधुसर्पिःप्लुतं चाऽथ मधुपर्कं निवेदयेत् ॥ 114
पशुं च विविधं मूर्तं पावनं शकुनिं तथा ।
ओषधीश्शालिदूर्वाश्चं सत्पलाड्यं वनस्पतिम् ॥
मूर्तं निवेदयेत्पूर्वमिदमन्नं चतुर्विधम् ।
निवेद्य विविधं शुद्धं भक्ष्यभोज्यान्यनेकशः ॥ 116
हृद्यानि फलमूलानि षड्रसप्रभवानि च ।
षड्रसानि विचित्राणि पानान्यथ निवेद्य च ॥ 117
सर्वाण्यात्मोपभोग्यानि भक्तिश्रद्धावशाद् द्विजाः ।
प्रदिक्ष्वप्यविरुद्धानि देवाय विनिवेदयेत् ॥ 118
तन्त्रीवाद्यान्यनेकानि नृत्तगेयान्वितानि च ।
भेरीपटहघोषादिस्तुतिपाठान्वितानि च ॥ 119
चिन्तयेद्देवदेवस्य लोकत्रयगतानि च ।
किङ्किणीजालयुक्तेन चामरेणोपवीज्य च ॥ 120
वितानकं पताकांश्चन ध्वजानि विविधानि च ।
विनिवेद्य विभोर्भक्त्या प्रसन्नेनाऽन्तरात्मना ॥ 121
गजाश्वदधेनुयानानि सुवस्त्रालङ्कृतानि च ।
निवेद्य चाऽन्तरा तानि ग्राहयन्तं स्मरेत्ततः ॥ 122
आत्मानं ससुतं दारान् सर्वस्वेन समायुतान् ।
निवेद्य प्रणतो मूर्ध्ना आनन्दाश्रुसमन्वितः ॥ 123

[[11]] कामधेनुमयीं मुद्रां मनसा मन्त्रसंयुताम् ।
बद्धां सञ्चिन्तयेद्विष्णोस्सर्वकामप्रपूरिणीम् ॥ 124
ततो विशेषयजनं कलयेदच्युतस्य तु ।
सौवर्णपुष्पसम्पूर्णमञ्जलिं सम्प्रसार्य तु ॥ 125
मूलमन्त्रं समुच्चार्य प्रयत्नैः पूरकादिभिः ।
दीर्घघण्टारवप्रख्यं यावत्तत्सम्भवावधि ॥ 126
स्फुरद्रश्मिद्वयाकीर्णं वह्न्यर्केन्दुसमप्रभम् ।
ध्यात्वा नारायणं देवमज्ञतां सन्निरोधयेत् ॥ 127
तमञ्जलिं क्षिपेन्मूर्ध्नि तस्मिन् वै मन्त्रविग्रहे ।
अर्घ्यं निवेदयेद्भूयः पुनः पुष्पाञ्जलिं शुभम् ॥ 128
मुद्रां सन्दर्श्य मूलाख्यां मानसं जपमारभेत् ।
सङ्ख्याहीनं यथाशक्ति घण्टाख्याकरणेन च ॥ 129
भोगस्थानगतानां च हृदादीनां क्रमेण तु ।
मनसा दर्शयेन्मुद्रां जपं कुर्यात्सकृत्सकृत् ॥ 130
स्तोत्रमन्त्रैः पवित्रैश्चस स्तुत्वा सम्यक् प्रसादयेत् ।
जपान्तं चैवमभ्यर्च्याऽप्यवतार्य बहिर्यजेत् ॥ 131

इति श्रीपाञ्चरात्रे ईश्वयरसंहितायां मानसयागविधिर्नाम द्वितीयोऽध्यायः ॥