०१

श्रीः श्रीरस्तु
श्रियः कान्ताय नमः श्रीमते हयग्रीवाय नमः

प्रथमोऽध्यायः 1- शास्त्रावतरणं

नमस्सकलकल्याणदायिने चक्रपाणये ।
विषयार्णवमग्नानां समुद्धरणहेतवे ॥ 1
नारायणपदाम्भोजसमाराधनलालसाः ।
वेदवेदाङ्गनिपुणा स्तपोनिष्ठा महर्षयः ॥ 2
इतिहासपुराणज्ञा धर्मशास्त्रविशारदाः ।
भगवद्भक्तिनिरता श्शमादिगुणसागराः ॥ 3
नारायणं तपस्यन्तं नरनारायणाश्रमे ।
संसेवन्तस्सदा भक्त्या मोक्षोपायविवित्सवः ॥ 4
संस्थिता मुनय स्सर्वें नारायणपरायणाः ।
कालेन केनचित्स्वर्गान् नारायणदिदृक्षयः ॥ 5
तत्राऽवतीर्य देवर्षिर्नारद स्सकुतूहलः ।
दृष्ट्वा नारायणं देवं नमस्कृत्य कृताञ्जलिः ॥ 6
पुलकाञ्चितसर्वाङ्गः प्रहृष्टवदनो मुनिः ।
स्तुत्वा नानाविधैः स्तोत्रैः प्रणम्य च मुहुर्मुहुः ॥ 7
पूजयामास तं देवं नारायणमनामयम् ।
अथ नारायणो देव स्तमाह मुनिपुङ्गवम् ॥ 8
मुनयो ह्यत्र तिष्टन्ति प्रार्थयाना हरेः पदम् ।
एतेषां सात्वतं शास्त्रमुपदेष्टुं त्वमर्हसि ॥ 9
इत्युक्त्वाऽन्तर्दधे श्रीमन्नारायणमुनिस्तदा ।
तच्छ्रुत्वा भगवद्वाक्यं मुनि र्हृष्टतनूरुहः ॥ 10
तदाज्ञां कर्तुकामोऽथ निर्जगाम मुनिश्वरः ।
अपश्यदाश्रमवरमृषीणामूर्ध्वरेतसाम् ॥ 11
नानापक्षिगणाकीर्णं नानामृगनिषेवितम् ।
तरुपुष्पलताद्याड्यं वापीकूपह्रदान्वितम् ॥ 12
तत्र गत्वा मुनिवर स्तत्रत्यै र्द्विजसत्तमैः ।
पूजितश्चाऽर्ध्यपाद्याद्यैः विष्टरेऽभिनिवेशितः ॥ 13
मुनीनां प्रीतिजनकं वाक्यमेवमुवाच सः ।
नारायणोऽत्र सततं भवद्भि स्सेव्यते यतः ॥ 14
भवंस्तु करुणा तस्य परिपूर्णा हि वर्तते ।
भवद्भि स्सह सम्बन्धात् कृतार्थोऽद्य भवाम्यहम् 15

[[2]] आदिष्टोऽहं भगवता भवदर्थें मुनीश्वराः ।
अधीत्य साम्प्रतं सर्वें रहस्याम्नायमुत्तमम् ॥ 16
अद्य प्रभृति देवेशमाराधयत योगिनः ।
मुनयः मुने चिरप्रपन्नानामस्माकं त्वं परा गतिः ॥ 17
नारायणपदप्राप्तेरुपायं सम्प्रकाशय ।
नारदः श्रृणुध्वं मुनय स्सर्वे वेदमेकायनाभिधम् ॥ 18
मोक्षायनाय वै पन्था एतदन्यो न विद्यते ।
तस्मादेकायनं नाम प्रवदन्ति मनीषिणः ॥ 19
मूलभूतस्तु महतो वेदवृक्षस्य यो महान् ।
सद्व्रह्मवासुदेवाख्यपरतत्वैकसंश्रयम् ॥ 20
दिव्यैर्बलादिकैर्मन्त्रैः साक्षात्तत्प्रतिपादकैः ।
अलङ्कृतमसन्दिग्धमविद्यातिमिरापहम् ॥ 21
इत्युक्त्वाऽध्याप्य योगीन्द्रान् सञ्जगादाऽस्य वैभवम् ।
एष प्रकृतिधर्माख्यो वासुदेवैकगोचरः ॥ 22
प्रवर्त्यते कृतयुगे ततस्त्रेतायुगादिषु ।
विकारवेदा स्सर्वत्र देवतान्तरगोचराः ॥ 23
महतो वेदवृक्षस्य मूलभूतो महानयम् ।
स्कन्धभूता ऋगाद्यास्ते शाखाभूताश्च योगिनः ॥
जगन्मूलस्य वेदस्य वासुदेवस्य मुख्यतः ।
प्रतिपादकता सिद्धा मूलवेदाख्यता द्विजाः ॥ 25
आद्यं भागवतं धर्ममादिभूते कृते युगे ।
मानवा योग्यभूतास्ते अनुतिष्टन्ति नित्यशः ॥ 26
ततस्त्रेतायुगे सर्वें नानाकामसमन्विताः ।
व्यामिश्रयाजिनो भूत्वा त्यजन्त्याद्यं सनातनम् ॥ 27
अन्तर्दधाति सर्वोऽयं वासुदेवसमाहृतः ।
ततो योग्याय भगवान् प्रादुर्भावयति स्वयम् ॥ 28
एवं मया पुराऽधीतश्वेतद्वीपे मुनीश्वराः ।
सनस्सनत्सुजातश्च सनकश्च सनन्दनः ॥ 29
सनत्कुमारः कपिल स्सप्तमश्च सनातनः ।
एते एकान्तिधर्मस्य आचार्याश्च प्रवर्तकाः ॥ 30
मरीचिर त्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः ।
वसिष्टश्च महातेजा एते चित्रशिखण्डिनः ॥ 31
मनुस्स्वायम्भुवश्चापि समाराध्य जगत्पतिम् ।
महता तपसा चैव देवं नारायणं प्रभुम् ॥ 32
दिव्यं वर्षसहस्रन्तु तदन्ते समधीत्य च ।
मूलश्रुतिं यथावच्च ऋषयोऽध्यापितास्तु ते ॥ 33
ततस्ते ऋषयस्त्वष्टौ लोकानां हितकाम्यया ।
श्लोकानां शतसाहस्रैर्मूलवेदं निरीक्ष्य च ॥ 34
तथा दिव्यानि शास्त्राणि सात्वतादीनि चाऽऽदरात् ।
निरीक्ष्याऽन्यत्तु तन्त्राख्यं शास्त्रं विदधिरे द्विजाः ॥ 35

[[3]] एवं मूलश्रुतेरर्थान् ज्ञात्वा मन्वादयोपि च ।
धर्मशास्त्राण्यनेकानि करिष्यन्ति यथातथम् ॥ 36
अन्येषामपि शास्त्राणं योनिरेतद्भविष्यति ।
अस्मिन् धर्मश्च कामश्च अर्थश्चोक्त स्सविस्तरम् ॥ 37
मोक्षश्च सूचितः पश्चात् तस्मात्सारतमो ह्ययम् ।
पुरा तोदाद्रिशिखरे शाण्डिल्योऽपि महामुनिः ॥ 38
समाहितमना भूत्वा तपस्तप्त्वा महत्तरम् ।
अनेकानि सहस्राणि वर्षाणां तपसोऽन्ततः ॥ 39
द्वापरस्ययुगस्याऽन्ते आदौ कलियुगस्य च ।
साक्षात्सङ्कर्षणाल्लब्ध्वा वेदमेकायनाभिधम् ॥ 40
सुमन्तुं जौमिनिं चैव भृगुं चैवौपगायनम् ।
मौञ्ज्यायनं च तं वेदं सम्यगध्यापयत्पुरा ॥ 41
नरनारायणाभ्यां च जगतो हितकाम्यया ।
तथाऽनुष्ठीयते मूलधर्मोऽत्र मुनिपुङ्गवाः ॥ 42
एष एकायनो वेद : प्रख्यात स्सर्वतो भुवि ।
दुर्विज्ञेयो दुष्करश्च प्रतिबुद्धैर्निषेव्यते ॥ 43
भगवन् सर्वशात्रज्ञ शरणागतवत्सल ।
त्वत्प्रसादेन सम्प्राप्तो मूलवेदो महानयम् ॥ 44
तत्प्रभावश्च विदित स्सर्वलोकेषु पूजितः ।
प्रतिबुद्धै र्निषेव्योऽयं मूलवेद स्सनातनः ॥ 45
कथमप्रतिबुद्धैस्तै र्मग्नै र्भवमहाम्बुधौ ।
प्राप्यते भगवन् धर्म एकान्तिभि रनुष्ठितः ॥ 46
नारदः श्रूयतामभिधास्यामि सर्वलोकहितैषिणः ।
पुरैवं भगवानेव समालोच्य हरि स्स्वयम् ॥ 47
परित्यज्य परं धर्मं मिश्रधर्म मुपेयुषाम् ।
भूयस्तत्पदकाङ्क्षाणां श्रद्धाभक्ती उपेयुषाम् ॥ 48
अनुग्रहार्थं वर्णानां योग्यताऽऽपादनाय च ।
तथा जनानां सर्वेंषामभीष्टफलसिद्धये ॥ 49
मूलवेदानुसारेणा छन्दसाऽऽनुष्ठुभेन च ।
सात्वतं पौष्करं चैव जयाख्येत्येवमादिकम् ॥ 50
दिव्यं सच्छास्त्रजालं तदुक्त्वा सङ्कर्षणादिभिः ।
प्रवर्तयामास भुवि सर्वलोकहितैषिभिः ॥ 51
एवं दिव्यानि शास्त्राणि शाण्डिल्योऽपि महामुनिः
सङ्कर्षणाद्भगवतः श्रुत्वा अध्यापयन् मुनीन् ॥ 52
मलयाचलनिष्ठाश्च पुरा रामस्य चाऽऽज्ञया ।
प्रथमं सात्वतं शास्त्रं सम्यगध्यापिता मया ॥ 53
वासुदेवेन यत्प्रोक्तं शास्त्रं भगवता स्वयम् ।
अनुष्टुप्छन्दोबन्धेन समासव्यासभेदतः ॥ 54
तथैव ब्रह्मरुद्रेन्द्रप्रमुखैश्च प्रवर्तितम् ।
लोकेष्वपि च दिव्येषु तद्दिव्यं मुनिसत्तमाः ॥ 55
ब्रह्मरुद्रमुखैर्देंवैः ऋषिभिश्च तपोधनैः ।

[[4]] स्वयं प्रणीतं यच्छास्त्रं तज् ज्ञेयं मुनिभाषितम् ॥ 56
एतत्तु त्रिविधं विद्धि सात्विकादिविभेदतः ।
विज्ञाय पुण्डरीकाक्षः अर्थजालं यथास्थितम् ॥ 57
तद्बोधकं प्रणीतं यत् शास्त्रं तत्सात्विकं स्मृतम् ।
तस्माज् ज्ञातेऽर्थजाते तु किञ्चित्तदवलम्ब्य च ॥ 58
स्वबुद्ध्युन्मेषितस्यैव ह्यर्थजातस्य बोधकम् ।
यत्प्रणीतं द्विजश्रेष्ट तथा विज्ञानतत्त्वतः ॥ 59
ग्रन्थविस्तरसंयुक्तं शास्त्रं सर्वेंश्वरेश्वरात् ।
तत्सङ्क्षेपप्रसादेन स्वविकल्पविजृम्भणैः ॥ 60
ब्रह्मादिभिः प्रणीतं यत् तथा तदृषिभिर्द्विजाः ।
ब्रह्मादिभिः परिश्रुत्य तत्सङ्क्षेपात्मना पुनः ॥ 61
स्वविकल्पात्प्रणीतं यत् तत्सर्वं राजसं स्मृतम् ।
तत्स्याद्द्वेधा पञ्चरात्रवैखानसविभेदतः ॥ 62
केवलंस्वविकल्पोक्तैः कृतं यत्तामसं स्मृतम् ।
केवलं मनुजैर्यत्तु कृतं तत्पौरुषं स्मृतम् ॥ 63
अतो दिव्यात्परतरं नास्ति शास्त्रं मुनीश्वराः ।
सात्वतं पौष्करं चैव जयाख्यं च तथैव च ॥ 64
एवमादीनि दिव्यानि शास्त्राणि हरिणा स्वयम् ।
मूलवेदानुसारेण प्रोक्तानि हितकाम्यया ॥ 65
सात्वताद्यं त्रिकं चैतद् व्यापकं मुनिसत्तमाः ।
यथा चाष्टाक्षरादीनां मन्त्राणां त्रितयं बुधाः ॥ 66
एतत्तन्त्रत्रयोक्तेन विधिना यादवाचले ।
श्रीरङ्गे हस्तिशैले च क्रमात्सम्पूज्यते हरिः ॥ 67
एतेषु दिव्यशास्त्रेषु सात्वतन्तूत्तमोत्तमम् ।
वक्ता साक्षादीश्वरोऽस्य श्रोता सङ्कर्षणः प्रभुः ॥ 68
किं वर्ण्यतेऽस्य माहात्म्यं सात्वतस्य मुनीश्वराः ।
अतस्साक्षादीश्वरोक्तशास्त्राणां द्विजपुङ्गवाः ॥ 69
सारभूतं विशेषेण सात्वतार्थोपपादकम् ।
ईश्वराख्यमिदं तन्त्रं साक्षात्सङ्कर्षणाच्छ्रुतम् ॥ 70
सम्प्रवक्ष्यामि मुनयः शृणुध्वमवधानतः ।
इत्युक्त्वा नारदो योगी नत्वा नारायणं प्रभुम् ॥ 71
सङ्कर्षणं नमस्कृत्य वक्तुं समुपचक्रमे ॥
इति यां शास्त्रावतारोनाम प्रथमोऽध्यायः ॥