सुन्दर-भट्ट-मन्त्र-रहस्य-षोडशी

विस्तारः (द्रष्टुं नोद्यम्)

From Vaishnava Ramachandra Das`s 1937 edition.

श्री-मन्त्र-रहस्य-षोडशी

श्री-सुन्दर-भट्ट-कृत-श्री-मन्त्रार्थ-रहस्य-व्याख्योपेता \

श्री-सुन्दर-भट्ट-कृत-श्री-मन्त्रार्थ-रहस्य-व्याख्योपेता

श्री-सर्वेश्वरो जयति ।

श्री-१००८-श्री-भगवन्-निम्बार्क-महामुनीन्द्राय नमः ।


(१)

सारं सर्वस्य शास्त्रस्य कल्याण-गुण-सागरम् ।

अनन्ताचिन्त्य-शक्तिं श्री-कृष्णं सर्वेश्वरं गुरुम् ॥

प्रणम्य चाद्यम् आचार्यम् अज्ञान-तिमिरापहम् ।

ब्रह्म-विद्या-रहस्यस्य व्याख्यां कुर्वे यथा-मति ॥

तत्र तावद् ब्रह्म-विद्यां व्याचिकीर्षुः शिष्य-शिक्षार्थं मङ्गलं निबध्नन् ब्रह्म-विद्यां प्रस्तौति—

श्रीमद्-धंसं प्रणम्याथ कुमारान् नारदं मुनिम् ।
ब्रह्म-विद्यां प्रवक्ष्यामि गुह्याद् गुह्यां सनातनीम् ॥१॥

श्रीर् विद्यते’स्येति श्रीमान् स चासौ हंसश् चेति तथा तम् इति विग्रहः । प्रणम्येति । प्रकर्षेण शरीरेन्द्रियादीनां निर्मायिक-व्यापारेण सर्वोत्कृष्टत्वम् अभ्युपगम्य । तत्र शरीर-व्यापारः सर्वाङ्ग-पातनम् । वाग्-व्यापारस् तद् एव कथनम् । मनो-व्यापारस् तद् एव सङ्कल्पनम् । चित्त-व्यापारस् तद् एव चिन्तनम् । बुद्धि- व्यापारस् तस्यैव निश्चय इत्य् आद्य् ऊह्यम् । एतेषाम् अभेद-विषयकत्वेन तत्-प्रावण्यं कृत्वेति वाक्यार्थः । एतेनार्जव-रूपः शिष्य-वृत्ति-गुणः सूचितो भवति ।

हंसो यथा नीर-क्षीर-विवेचने शक्तस् तथासौ सार्वज्ञ्याद्य्-अनन्त-गुण-शक्त्य्-आदिमत्त्वेन जगज्-जन्मादि-व्यापार-कर्तृत्वाच् चेतनाचेतनयोर् विवेचन-नैपुण्यवान् इति किं वक्तव्यम् ? तस्मात् तत्-प्रणयमनस्यापि तद्-विवेचन-कौशल्यात् संसारान् मुमुक्षुभिः प्रकृति-सम्बन्ध-ध्वंसार्थं, स एव स्मर्तव्य इति भावः । किं च, कामादि-निवृत्तेर् अपि परम्परया मोक्ष-ज्ञान-हेतुत्वात् तज्-जेतृत्वात् ब्रह्म-विद्या-सम्प्रदाय-प्रवर्तकत्वाच् च सनकादयो नैरन्तर्येण प्रणमनीया इति कृत्वा प्रणमति । अथ कुमारान् इति । अथ ज्ञान-भक्त्य्-आदि-प्रदातृत्वेन जगद्-उद्दिधीर्षया परोपकारार्थं बद्ध-परिकरत्वान् नारदं प्रणमति ।

नारदम् इति । नरस्य सम्बन्धि नारम् अज्ञानं द्यतीति नारदः । नारदो नाशयन्न् एति नृणाम् अज्ञानजं तमः इति नारदीय-वचनात् । यद् वा, नरति सङ्गमयतीति नरो हरिः । नरतीति नरः प्रोक्तः परमात्मा सनातनः इति भारतोक्तस् तत्-सम्बन्धि ज्ञानं नारद-शब्द-वाच्यं तद् ददातीति नारद इति । तम् एव विशिनष्टि—मुनिम् इति । मनन-शीलम् इत्य् अर्थः । ब्रह्म-विद्यां प्रवक्ष्यामीत्य् अन्वयः । ब्रह्म-विद्यां ब्रह्म-विषयकां ब्रह्म-स्वरूप-गुण-शक्त्य्-आदि-विषयक-साक्षात्कारानुभवासाधारणोपाय-भूताम् इत्य् अर्थः । स्वरूपादीनाम् अग्रे प्रवक्ष्यमाणत्वान् नात्रोपयोगः । तां विशिनष्टि—गुह्याद् गुह्याम् आत्यन्तिक-श्रेयसो’साधारणोपायत्वेन निरतिशय-रहस्यत्वाद् अनधिकारिभ्यो’धिक-प्रयत्नेन गोपनीयाम् इत्य् अर्थः । अत एव सनातनीम् । अनादि-सम्प्रदाय-परम्परया आपन्नत्वाद् अनाद्याम् इति यावत् ॥१॥

—ओ)०(ओ—

(२)

तत्र सदाचारं प्रमाणयंस् तां स्तौति—

यां प्राप्य साधवः पूर्वे भगवद्-भावम् आगताः ।
तस्मात् सर्वात्म-भावेन धारणीया मुमुक्षुभिः ॥२॥

यां वक्ष्यमाण-परम्परया गुरूपसत्ति-विधि-पूर्वकं सदाचार्योपदिष्टाम् अवधार्य पूर्वे साधवः सत्-सम्प्रदायानुवर्तिनः सद्-आचार-कुशला वैष्णवा भगवद्-भावं भगवद्-भावापत्ति-लक्षणं मोक्षं प्राप्ताः ।

इदं ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः । सर्गे’पि नोपजायन्ते प्रलये न व्यथन्ति च ॥ [गीता १४.२] बहवो ज्ञान-तपसा पूता मद्-भावम् आगताः ॥ [गीता ४.१०] मद्-भक्त एतद् विज्ञाय मद्-भावायोपपद्यते ॥ [गीता १३.१८] इति श्री-मुखोक्तेः ।

यस्माद् एवम् उक्त-लक्षण-श्रेयो’साधारणोपाय-भूतेयं तस्माद् इति । यत्-तच्-छब्दयोर् नित्य-सम्बन्धत्वात् । सर्वात्म-भावेन सर्वे आत्मनो ये भावा सम्बन्धास् तत्-समूहेन सर्वात्म-सम्बन्धत्वेनेति यावत् । यद् वा, सर्वे ये आत्मनो भावा ज्ञान-चिकीर्षा-प्रयत्नादयस् तत्-समुदायेनेति । मुमुक्षुभिर् धारणीयेति । आत्मात्मीय-विषयक-वैराग्यवद्भिर् उक्त-लक्षण-मोक्षेप्सुभिः प्राणवत् । परम-निधिवच् च निरतिशय-प्रियत्वेन धारणीया धारण-योग्या । यथातुरः प्राण-धारणार्थं भेषजं कटु-कषायम् अपि अमृतवन् निरतिशय-प्रीत्या । यथा वा दरिद्रो निधिं लब्ध्वा निरतिशय-प्रेष्ठत्वेन । यथा बुभुक्षुः शुष्क-स्निग्ध-मधुरादि-रसापेक्षां विहाय मम प्राण एवायम् इति कृत्वा गृह्णातीति तद्वद् इत्य् अर्थः । यद् वा, विध्य्-अर्थ-कर्तव्य-स्थाने’नीय-र्-प्रत्ययः । अवश्यं धारयेद् इत्य् अर्थः । एतेनैवास्या अनुबन्धा अपि सूचिताः । तथा हि, उक्त-लक्षणो मुमुक्षुर् अस्या अधिकारी । सार्वज्ञ्यादि-वात्सल्यादि-कल्याण-गुणार्णवो विषयः । तद्-भावापत्ति-लक्षण-श्रेयश् च प्रयोजनम् । प्रतिपाद्य-प्रतिपादक-भावः सम्बन्धश् चेति । अग्रे विशदं व्याख्यास्यते’तो नात्र विस्तरः ॥२॥

—ओ)०(ओ—

(३)

एवं मङ्गलाचरण-पूर्वकं ब्रह्म-विद्यां प्रस्तुत्य ताम् एव प्रवक्ति—

अ-कारार्थो हरिः प्रोक्तो मध्यमार्थो गुरुस् तथा ।
म-कारार्थो जीव-जातो विज्ञेयो वैष्णवोत्तमैः ॥३॥

अ-कारार्थो हरिः प्रोक्त इति श्रुत्य्-आदिभिर् इति शेषः । अ ब्रह्म इति श्रुतेः । अक्षराणाम् अ-कारो’स्मि [गीता १०.३३] इति भगवद्-उक्तेश् च । द्वितीय-पदं विवृणोति—मध्यमार्थ इति । प्रणव-वृत्ति-वर्णेषु मध्ये मध्यमो य उ-कारस् तस्यार्थः । को वेत्य् आशङ्क्याह—गुरुर् इति । उन्नयतीति उर् इत्य् अर्थः । पर-धाम-प्रापकः, नेता गमयिता गुरुर् इति वचनात् । तृतीय-पदं विवृणोति—म-कारार्थ इति । म-कारो’न्त्यो वर्णस् तस्यार्थः । तद् एवाह—जीव-जात इति जीवत्व-सामान्यावच्छिन्नो म-कार-शब्द-वाच्य इत्य् अर्थः । पञ्चविंशो’यं पुरुष इति श्रुतेः । यथा तत्त्वानां मध्ये पञ्चविंशः पुरुषो विज्ञानात्मा तथा वर्णानां मध्ये पञ्चविंशो म-कारः क्षेत्रज्ञ-वाचकस् तद्-वाच्यश् चायं पुरुष इति श्रुत्य्-अर्थः । वैष्णवोत्तमैर् विज्ञेय इति। अत्रोत्तम-पद-प्रयोगेणास्याधिकारिणो’न्तरङ्गतमत्वं सूचितम् । तेनाधिकार्य्-अन्तर-व्यावृत्ति-फलितेत्य् अर्थः । नासंवत्सर-वासिने ब्रूयाद् इति श्रुतेः ॥३॥

—ओ)०(ओ—

(४)

प्रणव-व्याख्यानोक्तं ह्य् अर्थं बीज-मन्त्रे’प्य् अतिदिशति—

तथैव क्ल्-अर्थः कृष्णः स्याद् द्वितीयो गमयिता गुरुः ।
चरमार्थश् च क्षेत्रज्ञ इति शास्त्रानुशासनम् ॥४॥

यथा प्रणव-वृत्त्य्-अ-कारस्यार्थो वाच्यो विष्णुः श्रिउति-प्रतिपाद्यः, तथैवात्र बीज-मन्त्र-वृत्ति-कॢ-शब्दार्थः श्री-कृष्णः पुरुषोत्तमादि-शब्दाभिधेय इति शास्त्रानुशासनम् । शास्त्रे’तिदेशः । कृष्ण-शब्दस्य कृ इति बीजम् । स-वर्णत्वात् तस्य क्ल्-आदेशः । एतेषां चाग्रे व्याख्यास्यमानत्वान् नात्र विस्तारः । एवम् ई-कारस्य द्वितीय-वर्णस्य गुरौ मन्त्रोपदेष्टरि शक्तिर् इत्य् आह—द्वितीयो गमयिता गुरुर् इति । इण् गताव् इत्य् अस्माद् धातोः क्विप्-प्रत्यय-योगे ई-शब्दो व्युत्पन्नः । स च णिज्-अन्तो ज्ञेयस् तथा च ज्ञापको गमयिता प्रापकश् चेत्य् अर्थः ।

ज्ञापयेद् यः परं तत्त्वं प्रापयेच् च परं पदम् । गमयेच् च परं धाम स गुरुः परमेश्वरः ॥

इति लक्षण-वचनात् । चरमार्थः तृतीयस्यान्त्यस्य म-कारस्यार्थ इति, स च पूर्वम् एवोक्तः । उभयत्र प्रणव-बीजयोः प्रयोग-सामान्यात् क्षेत्रज्ञः प्रत्यग्-आत्मेति उपसंहरति । इति शास्त्रानुशासनम् इति । इति पूर्वोक्त-प्रणव-व्याख्यान-प्रकारेण शास्त्रे’तिदेश-विधानम् ॥४॥

—ओ)०(ओ—

(५)

तद् एव शास्त्रम् अर्थतो दर्शयति—

यद्वद् आगम-बीजस्य सामान्या गतिर् ईरिता ।
तथैव बीज-मन्त्रस्य ज्ञातव्या हि मुमुक्षुभिः ॥५॥

यद्वद् यथा आगम-बीजस्य प्रणवाख्य-मन्त्रस्य सामान्या गतिर् ईरितेति सामान्या विशेषार्थस्याग्रे वक्ष्यमाणत्वात् तद् विहिता गतिर् अर्थ-प्रक्रिया पूर्वम् एव कथिता, तथैव बीज-मन्त्रस्येति । तेनैव प्रकारेण बीजाख्यो यो मन्त्रस् तस्य आद्य-वर्णस्य क्लीं-कारस्येति यावत् । केचिच् चात्र मन्त्र-बीजसेत्य् एवं पठन्ति । तस्यापि स एवार्थः । मन्त्रस्य बीजं मन्त्र-बीजं तस्येति यावत् । ज्ञातव्येत्य् अस्य प्राक् गति-शब्दो’न्वेतव्यः । वर्णात्मक-पदार्थ-क्रमो बोध्य इत्य् अर्थः । तथा गोपालोत्तर-तापनीये ह्य् आम्नायते—क्लीम् ओङ्कारस्यैक्यत्वं पठ्यते ब्रह्म-वादिभिः [गो।ता।उ। २.५८] इति । एकत्वं नाम एकार्थत्वं तुल्यार्थ-वाचकत्वम् । यथा प्रणवः सर्व-वेदस्य बीज-भूतः सर्व-वेदार्थ-गर्भकः । प्रणवः सर्व-वेदेषु [गीता ७.८] इति श्री-मुखोक्तेः । तथैव बीज-मन्त्रो’पि तथाभूतस् तथाभूतार्थ-ज्ञापकश् चेति । प्रणव-पर्याय-स्वरूपत्वाद् अस्य वर्णस्येति श्रुति-तात्पर्यार्थः । प्रकृतिवद् विकृतिः इति चोदक-श्रुतेः ॥५॥

—ओ)०(ओ—

(६)

ननु यद्य् अस्य प्रणव-पर्यायत्वं, तर्हि अथ-कृत-पुनर्-उक्ति-दोषो दुर्वारः । न च दृष्टान्त-दार्ष्टान्तिक-भावेन प्रयुक्तत्वान् नोक्त-दोष-प्रसरणावकाश इति वाच्यम् । प्रयोजन-हीनस्य दृष्टान्तस्य प्रयोग-वैयार्थ्यम् एवेति शाङ्कायां समाधानम् आह—

मङ्गलायाप्य् अखण्डार्थः शास्त्रारम्भे प्रकीर्त्यते ।
भगवन्-नाम-धेयत्वात् प्रोच्यते च महर्षिभिः ॥६॥

यद् वा, प्रणवार्थो द्विविधः—व्युत्पन्नो रूढश् चेति । तत्र व्युत्पन्नार्थं विशदीकृत्य अखण्डार्थश् चेदानीम् उच्यते—मङ्गलायेति । अयं प्रणवो’खण्डार्थः सन् शास्त्रारम्भे मङ्गलायापि मङ्गलाचरणार्थम् अपि पठ्यते ।

ओङ्कारश् चाथ शब्दश् च द्वाव् एतौ ब्रह्मणः पुरा । कण्ठं भित्त्वा विनिर्यातौ तस्मान् माङ्गलिकाव् उभौ ॥ इति श्रुतेः ।

ननु मङ्गलार्थकानाम् अपि बाहुल्यत्वात् तेषु सत्स्व् अपि प्रणवस्यैव पाठे को वाग्रह इत्य् आशङ्क्याह—महर्षिभिः स एव प्रोच्यत इति । कुत इत्य् अपेक्षायां हेतुम् आह भगवन्-नाम-धेयत्वाद् इति ॥६॥

—ओ)०(ओ—

(७)

तत्र शास्त्रं प्रमाणयति—

ओं तत् सद् इति निर्देशो ब्रह्मणस् त्रि-विधः स्मृतः ।
ओम् इत्य् एकाक्षरं ब्रह्मेत्य् उक्तिर् अर्जुन-सारथेः ॥७॥

अर्जुन-सारथेर् इति कर्तरि षष्ठी । श्री-भगवता ब्रह्म-नाम-धेयत्वं स्पष्टम् उक्तम् इत्य् अर्थः ॥७॥

—ओ)०(ओ—

(८)

एवम् एतावता ग्रन्थेन मन्त्रस्य पदार्थाः सङ्ग्रहेण व्याख्याता उद्देश-मुखेन । इदानीं तेषाम् अन्वय-प्रकारं प्रदर्शयति वाक्यार्थ-मुक्खेन—

चरमार्थं हविः कृत्वा मध्यमं चार्पणं तथा ।
प्रथमार्थे च ब्रह्माग्नाव् आत्मानं जुहुयाद् बुधः ॥८॥

चरमस्यान्त्यस्य तृतीय-पदस्य म-काराख्यस्यार्थः क्षेत्रज्ञस् तम् आत्मानं हविः-स्थानीयं कृत्वा स्वत्व-त्याग-पूर्वकं भगवदीयापादनं कृत्वेति यावत् । स्वत्वं नाम स्वतन्त्र-सत्ताश्रयत्वं, तदीयत्वं च । तद्-आत्मकत्व-तद्-आत्मीयत्व-तन्-नियम्यत्व-तद्-आध्येतत्व-तद्-अधीन-स्थिति-प्रवृत्त्य्-आदिक इति विवेकः । मध्यमं चेति । मध्यमार्थं मध्यमस्य द्वितीय-पदस्ये-कारस्यार्थस् तं गमयितारं श्री-गुरुश् च । अत्र च-कारः क्रिया-समुच्चयार्थः । तथा-शब्दो दृष्टान्त-द्योतकः । यथा चरमार्थो हविः-स्थानीयस् तथा गुरुश् च मध्यम-पदार्थो’र्पण-स्थानीयः । अर्प्यते’नेनेति करण-व्युत्पत्त्या हवन-क्रिया-साधारण-कारणं स्रुवादिर् ज्ञेयः । श्री-गुरुं स्रुव-स्थानीयं कृत्वेति यावत् । प्रथमार्थे इति । प्रथम-पदस्य कॢ-शब्दस्यार्थे ब्रह्माग्नौ अग्नि-स्थानीये ब्रह्मणि जुहुयाद् इत्य् अन्वयः । आत्म-न्यासं कुर्यात् । स्वतन्त्र-सत्ताम् अनादि-कर्म-प्रयुक्तां ब्रह्मणि त्यजेत् । आत्मानं कर्तृत्व-भोक्तृत्व-ज्ञानाज्ञान-पुण्यापुण्य-कर्मभिर् देहेन्द्रिय-मनो-बुद्ध्य्-आदिभिश् च आत्मात्मीय-वर्गैश् च सह श्री-गुरौ निधाय श्री-भगवति पुरुषोत्तमे प्रथम-पदार्थे समर्पयेद् इत्य् अर्थः ।

बुध इति । स्वकीय-परकीय-कृत्याकृत्यादि-विवेचन-कुशलः । इदं स्वकीयं, इदं परकीयम् इति । परकीये वस्तुनि स्वकीयत्वाधाने दोषं विद्वान्—

यो’न्यथा सन्तम् आत्मानम् अन्यथा प्रतिपद्यते । किं तेन न कृतं पापं चौरेणात्मापहारिणा ॥ इति शास्त्रात् ।

यथा नृगो धर्मात्मापि परकीये स्वत्वं कृत्वा निरय-योनिं गतस् तथाहम् अपि भगवदीय-वस्तुनोश् चेतनाचेतन-वर्गयोर् आत्मात्मीय-पदार्थयोः स्वत्वाभ्युपगमे निरयं गमिष्यामीत्य् अध्यवसायवान् इत्य् अर्थः । एतेन विवेक-लक्षणो गुणः शिष्यस्य सूचितः ।

एतद् उक्तं भवति । यथा हविर्-भागस्याग्नौ पुनर् आदान-शङ्कैव कस्यचिन् नोत्पद्यते, तत्-स्वरूपस्यानुपलम्भमानत्वात्, तद्-भस्मन्य् अपि आदान-भावो नास्ति । प्रत्युत तीर्थादौ निक्षिप्यत एव, तज्-जन्यापूर्वस्य तु यावद् भावि फलं तावद् वृत्तित्वाभ्य्पगमाद् भाव्यत एव, तथात्मात्मीय-वृत्ति-स्वतन्त्र-सत्त्वस्य हविः-स्थानीय-कृतस्य स्वरूपोपलब्धि-भावनाम् अपि त्यक्त्वा तद्-भस्म-स्थानीये’नादि-कर्म-जन्यात्म-निष्ठ-स्वातन्त्र्य-संस्कारे’पि स्वत्व-भावं शनैर् हित्वा तज्-जन्य-भगवद्-आत्मीयत्व-विषयक-ज्ञानं यावद्-आत्म-वृत्तित्वाच् छनैः सततम् अभ्यसेद् इति हविः-शब्द-प्रयोगस्य तात्पर्यार्थः । किं च, यथा हवन-काले हविः प्रथमं हवन-करणे स्रुवे निधाय पश्चाद् अग्नौ निक्षिप्यते, तथात्राप्य् आत्म-निक्षेप-समये प्रथमे तत्-कारण-भूते गुरौ स्वत्वं निधाय पश्चाद् भगवति समर्पणीयम् इति स्रुव-शब्द-प्रयोगस्य तात्पर्यं ज्ञेयम् । अथ च यद्वद् हुतस्य हविषो भस्म-सात्करणे ह्य् अग्नेर् एव शक्तिमत्त्वं, नान्यस्य, जलादेर् विजातीयत्व-भावात्,1 तथात्मात्मीय-वर्ग-हविर्-भाग-स्थानीयस्यामा-सात्कृत्वा तत्-स्वातन्त्र्य-निवर्तने श्री-विष्णोर् एव शक्तिमत्त्वान् नान्यस्य देव-वर्गादेः, जीवत्वाविशेषेण मोक्ष-दातृत्वाभावाद् इति रूपकोक्तिः फलम् ।

ननु यद्य् आत्मात्मीय-वस्तुनः सर्वथा परकीयत्वेन स्वातन्त्र्यं नास्त्य् एव ? तर्हि स्वत्वं विनार्पणासम्भवात् । परकीयस्य स्वत्वेन कृत्वा यद्य् अर्पयेत् तर्हि नृग-गो-न्यायेन निरयायैव भवेत्, तस्माद् असमञ्जसम् एवैतद् इति चेन् न । आत्मात्मीयवर्गस्य सर्वथा परकीयत्वे’पि तत्रानादि-कर्मात्मिका’विद्या-प्रयुक्त-स्वातन्त्र्याभिमानेनैव स्वर्ग-नरकादि-फल-पुण्यापुण्य-कर्म-प्रयुक्त-देव-तिर्यग्-आदि-देह-योगेन भूयो भूयः संसृति-चक्र-भ्रमः । तन्-निवृत्तये च परकीयस्य तदीयत्वाधानेन पुनस् तद्-अर्पणं विधीयते ।

द्व्य्-अक्षरं तु भवेन् मृत्युस् त्र्य्-अक्षरं ब्रह्म शाश्वतम् । ममेति च भवेन् मृत्युर् न ममेति च शाश्वतम् ॥

निर्ममो निरहङ्कारः इति शास्त्र-वचनात् । आत्मात्मीयं च वस्तु ममेति मृत्युः प्रम्पदो बहिर्मुखत्वं संसृतिः । न ममेति । तद् एवात्मात्मीयं चेतनाचेतन-वस्तु-जातं परकीयत्वान् मम न भवति । मम सम्बन्धि यदीयं न भवति । तस्माद् भगवद्-आत्मकत्वाद् भगवत एवेदं, तस्मात् तदीयं तस्मा एवार्पणीयम् इत्य् अध्यवसायेन यदा तस्मै समर्पयेत् तदैव शाश्वतं निःश्रेयो मोक्ष इति सङ्क्षेपार्थः ।

अयं भावः—यथा कस्यचित् पुत्रेण पुत्रवत्सल-स्व-पितृ-स्नेह-विषयेण पितृ-भक्ति-हीनेन पितृ-विषयक-स्नेहानाश्रयेण किञ्चित् पितुर् द्रव्यम् अज्ञानेन हेतुना कस्यचिद् बहिर्मुखस्य सहायेन हेतुना गृहीत्वा चौर्येण भिन्नं कृत्वा निहितं पित्रा ज्ञातम् अपि वात्सल्य-वशान् मदीयं सर्वम् अस्यैव, बाल्य-वशात् ह्य् असत्-सङ्गाच् चानेन गृहीतं चेत् गृह्णातु गृह एव त्यक्ष्यते स्थापयिष्यते चेति निश्चित्योपेक्षितः । भूयः कालान्तरे तद् एव द्रव्यं कुमार्गे त्यक्तं श्रुत्वा मनसि सङ्कल्पयति मत्-पुत्रो’सत्-प्रसङ्गान् मत्तो भिन्नो द्रव्य-स्तेयी कुमार्ग-गतिर् जातः, केनचित् प्रयत्न-विशेषेण कञ्चिद् आप्त-पुरुषं द्वारीकृत्य एतस्यैतैर् दोषैर् विमुच्य सन्-मार्गे प्रवर्तयित्वा श्रेयो मया सम्पादनीयम् इति निश्चिनोति । ततश् च कञ्चित् पुरुषम् आप्ततमं, सर्व-कार्य-कुशलं, पुत्रस्य निरतिशय-प्रीति-विषयं स्व-स्नेह-विषयं च सद्-गुण-सम्पन्नम् उभय-पक्ष-पातिनम् उभय-विश्वास-विषयं च स्व-गृह-कार्याधिकारिणं मध्यस्थं कृत्वा कथयति । असौ मत्-पुत्रत्वान् निरतिशय-वात्सल्य-विषयो भवतो’पि प्रेष्ठतमः, स्वान्तरङ्गतमत्वात् स्व-बुद्धिस्थं रहस्यं ज्ञापयतीति मया गम्यते । स इदानीं असत्-सङ्गेन मदीयं द्रव्यं चौर्येण गृहीत्वा मत्तः पराङ्मुखी भूत्वा मद्-भेद-विषयो’सन्-मार्ग-गामी चाभवत् । त्वयि चोभयस्यापि विश्वास-साम्ब्यात् रहस्यं ज्ञापितम् । तस्मात् त्वया ह्य् एतद् वक्ष्यमाणं मदीयं कार्यम् अनेक-यत्नैः सम्पादनीयम् इति ।

स च श्रुत्वा वदति—किम् एतत् कथनेनाहं भवतो भृत्यो’स्मि । तवोक्तं किं न सम्पादनीयम् इति । तेन प्रतिज्ञाय तद्-अग्रे गत्वा वदति । एष तव पिता सर्व-गुण-शक्ति-विभव-सम्पन्नो निरतिशय वत्सलो जगति विख्यातस् तस्य सर्वस्वं युष्मद्-अर्थकम् एव । भवान् अपि गुणवान्, बुद्धि-सम्पन्नो, जगति पितृ-भक्तः पित्र्-अर्थात्मात्मीयकः । यद्यपि असत्-सङ्गेन किञ्चित् पित्रा भेदो जातो’स्मिन् काले किञ्चित् प्रतीयते, कैश्चिल् लिङ्गैस् तथापि भवतो’न्तर्भेदो नास्त्य् एव । किञ्चिन् मया प्रष्टव्यम् अस्तीति । यदि कथितो’स्माकं भवतो’भ्युपगमो विश्वासास्पदत्वेन श्रोतव्यो’नुष्ठेयश् च स्यात् तर्हि कथयिष्यामीति । यद्य् असौ विश्वस्तो भूत्वा श्रद्धया श्रवणानुष्ठानाय प्रतिज्ञानीयात् तदा सर्वं तस्मै कथनीयम् । पित्रा भवता च भेदो’नुचित उभय-लोक-विरोधित्वाद् अतो यत् किञ्चित् केषाञ्चिद् बहिर्मुखानां युवयोर् विरोध-कारिणा असतां सङ्गेन पित्रा भेदो जातः स त्वया सर्वथा वारणीयो, यत् किञ्चिद् वस्तु अपृष्ट्वागृहाद् गृहीतं तत् सर्वं गृहे स्थापनीयं, गृहास्थं च वस्तु तव पिता त्वद्-अर्थम् एव धारयति । एतेनाल्पेन द्रव्येण किम् ? सर्वस्वं तवैव । त्वय प्रयत्नेन ग्रहणीयम् । को’त्र यत्न इति चेच् छृणु । युवयोर् भेद-कारणं स्व-पर-भेदिनः सङ्ग एव येनेत्थं त्वं स्व-पितुर् बहिर्मुखीकारितो’सि तस्माद् असत्-सङ्गं विहाय पितृ-द्रव्यं मम हस्ते निक्षिप्यास्मन्-मैत्र्या स्व-पितृ-चरणौ गृहीत्वा तद्-द्रव्यं मद्-धस्तेन तस्मै समर्पयित्वा पूर्वापराधं सर्वं क्षमापयित्वा तच्-छरणो भव । तदैव सर्वं तदीयं वस्तु त्वदीयत्वेन कार्ययिष्यामीति ।

मध्यस्थेनोक्तश् चेद् यदि श्रुत्वा तदैवोभय-लोक-नाश-हेतुना भीतः सद्यो’सत्-सङ्गं दूरतस् त्यक्त्वास्तेयं द्रव्यं तस्य हस्ते निधाय तं निरतिशय-प्रीति-विषयं कृत्वा तेनैव स्व-पितृ-समीपं गत्वास्तेयं द्रव्यं तद्-धस्तेनैव पित्रे समर्पयित्वा सर्वापराधं क्षमापयित्वा तच्-चरणौ शिरसि निधाय तद्-एक-शरणो भवेत् । तत्-क्षणम् एव तस्य पितृ-सर्वस्व-दाय-भागित्वं निर्विकल्पकं स्यात् ।

तद्वत् दार्ष्टान्ते’पि, तथा हि—श्री-भगवतः पुरुषोत्तमस्य वात्सल्य-विषयत्वात् पुत्र-स्थानीय-क्षेत्रज्ञादि-शब्दाभिलप्यो जीवात्मा पितृ-भक्ति-हीनः भगवता उपेक्षितः । अज्ञान-स्थानीयो’नादि-कर्म-रूपो बहिर्मुखो’सहायो’त्रानादि-प्रकृति-सम्बन्धः । पितृ-दिव्यं चात्र आत्मात्मीयं वस्तु-जातं, तद्-आत्मकत्वेन तदीयत्वात् । चौर्येण हरणं चात्र स्वत्वेन स्वीकारः । भगवता आप्त-कामत्वेन सर्वस्य तदीय-जीव-निमित्तत्वाद् उपेक्षितः । भूयः केनाप्य् अनिर्वचनीय-हेतुना श्री-भगवति परम-पुरुषे स्वासाधारण-स्वाभाविक-यावद्-आत्म-वृत्ति-वात्सल्य-कारुण्याद्य्-अनन्त-कल्याण-गुण-वशात्, अत्र विषये कापि कृपा जायते ।

एवं संसृति-चक्रस्थे भ्राम्यमाणे स्व-कर्मभिः । जीवे दुःखाकुले विष्णोः कृपा काप्य् उपजायते ॥ इत्य् आदि वचनात् ।

तदा जन्म-समये’वलोकन-मात्रं करोति । तदा च सात्त्विकानां कुले जन्म प्राप्य मोक्षार्थ-चिन्तको भवतीति भारते मोक्ष-धर्मे—

जायमानं हि पुरुषं यं पश्येन् मधुसूदनः । सात्त्विकः स तु विज्ञेयः स वै मोक्षार्थ-चिन्तकः ॥ पश्यत्य् एनं जायमानं ब्रह्मा रुद्रो’थवा पुनः । रजसा तमसा जन्तोर् मानसं समभिप्लुतम् ॥

इत्य् आदि प्रोक्तं । तदा परमेश्वर-कृपा-वशाद् असौ मदीयो मद्-आत्मकत्वात् अनादि-प्रकृति-सम्बन्ध-जन्यानादि-कर्म-वशत्वेन मत्-पराङ्मुखो भूत्वा मन इन्द्रियाद्य्-असत्-सङ्गेन मदीये वस्तुनि आत्मीय-वर्गे स्वीयत्वम् अभ्युपगम्य इन्द्रियादि-विषये संसृति-हेतु-भूते वृथैव नाशयतीति इदानीं पराञ्मुखं त्याजयित्वा सन्-मार्गे च प्रवृत्तिं विधायास्य शेर्यो मया सम्पादनीयम् इति सङ्कल्पयति । तदा मध्य-स्थ-पुरुष-स्थानीयं सद्-गुरु-मुक्त-लक्षण-सम्पन्नं प्रेरयित्वोक्त-दृष्टान्त-रीत्या तेन सम्बन्धं कारयित्वा तद्-द्वारा शास्त्र-मुखेन तस्य हृदि-स्थं संशयादिकं छित्त्वा निरतिशय-प्रीति-विश्वास-श्रद्धा-विषयं कारयित्वात्म-प्राप्ति-प्रतिबन्धक-वारणायात्मात्मीयं सर्वं गुरवे समर्पणं च कारयित्वा तद्-द्वारेण स्वयं गृहीत्वा तम् अनुगृह्णातीति यावत् । तत्राप्त-पुरुष-स्थानीयो गुरुः । उभयोर् निरतिशय-प्रीति-विषय-विश्वासादि-विषयत्वान् मध्यस्थः । पितृ-पुत्र-वचन-प्रतिवचन-स्थानीयं शास्त्रं असत्-सङ्गो’त्रानादि-प्रकृतिं सम्बन्ध-चौर्यं चात्र आत्मात्मीये वस्तु-जाते स्वातन्त्र्येण स्वत्व-बुद्धिः । पराङ्मुखत्वम् उभयत्र साम्यम् एव । भेदश् चस्वतन्त्र-सत्ताश्रयत्वं असन्-मार्गश् च शास्त्र-विपरीताचारः । यत्नश् चात्र शरणापत्ति-माहात्म्य-प्रकार-ज्ञापनम् । पितृ-गुणादि-कथनं, श्री-भगवत्-स्वरूप-स्थिति-प्रवृत्तिकत्व-विषयक-ज्ञानोपदेशः । प्रतिज्ञापयितृत्वं च भगवदीय-शास्त्र-श्रवणानुष्ठानादौ श्रद्धा विश्वासाद्य्-उत्पादयितृत्वं, श्रद्धा-विश्वासादीनाम् उत्तर-भावित्वाद् गुरु-शिष्य-सम्बन्धस्येति भावः । ततश् चोपदेष्टव्यः । पित्रा भवता चेत्य् आदिनोपदेश-प्रकारो विवक्षितः । पितृ-स्थानीयः श्री-हरिस् तेन भेदस् तस्य सर्वात्मत्वात् अन्यत्वाभावः । उभय-लोक-विरोधित्वं च शास्त्र-पराङ्मुखत्वं संसृति-भ्रमणं च विमुखाश् चात्र मन-आदयो बाह्याभ्यन्तः-करण-तद्-विषयाः । अपृष्ट्वा गृहणं च शास्त्र-विचार-शून्यत्वेन अन्यथाभिनिवेशः । सर्वं गृहस्थ-वस्तु-स्थानीयं भगवदीयम् ऐश्वर्यं, तच् च भगवतः आप्त-कामत्वात् जीवात्मार्थम् एव । मुक्त-प्राप्यत्वात् । अल्प-द्रव्य-स्थानीया आत्मात्मीयं सम्बन्ध्य्-अवस्था-भोग्य-शब्दादयः । अमुकस्येत्य् आदि । असत्-सङ्ग-स्थानीयम् अनादि-प्रकृति-सम्बन्धं विहायेति सद्यस् त्यक्तुम् अशक्यत्वात् प्रकृति-सम्बन्ध-तितिक्षां कृत्वेति यावत् । पितृ-द्रव्यं आत्मात्मीयं वस्तु-जातं गुरौ सन्न्यस्य अस्मन्-मैत्र्या गुरुऔ सर्वं सम्बन्धवत्त्वेन श्री-भगवच्-चरणौ गृहीत्वा गुरु-द्वारेण सर्वं तस्मै समर्पयित्वा, सर्वापराधं क्षमापयित्वा, तच्-छरणो भवेद् इति प्रथमोपदेश-प्रकारः तत्-फलं ज्ञापयेत् । तदैव सर्वं भगवदीयम् ऐश्वर्यं जगद्-व्यापार-वर्जं त्वदीयत्वेन कारयिष्यामीति गुरुणोपदिष्टश् चेत् तद् अभ्युपगम्य संसाराद् भीतः । सद्यो’सन्-मार्गं हित्वा स्तेयं द्रव्यम् आत्मीयं वस्तु गुरवे सन्न्यस्य श्री-गुरुं सर्व-सम्बन्ध-विषयत्वेन निरतिशय-प्रीति-विषयं कृत्वा, तेनैव गुरुणा हरौ सर्वस्वं समर्प्य, सर्वापराधं क्षमापयित्वा , तच्-चरणाव् उपायोपेय-सर्व-सम्बन्ध-भावेन शिरसि निधाय, तद्-एक-शरणो भवेत् ॥८॥

—ओ)०(ओ—

(९)

तत्-क्षणम् एव भगवद्-भावापत्ति-लक्षण-मोक्षाधिकारी स्याद् इत्य् आह—

हुत्वात्मानं बुधश् चैवं कृत-कृत्यो’भिजायते ।
भव-बन्ध-विनिर्मुक्तो ब्रह्म-सायुज्यम् आप्नुयात् ॥९॥

बुधः पूर्वोक्त-विवेक-गुण-सम्पन्नो मुमुक्षुर् आत्मानं अनादि-प्रकृति-सम्बन्ध-प्रयुक्तानादि-कर्मात्मकाज्ञान-निरूपितात्म-वृत्ति-स्वत्वम् इति यावत् । च-कारो’त्रात्मीय-समुच्चयार्थः । तथाज्ञान-निरूपितात्मीय-वृत्ति-ममत्वं चेति, एवम् इति पूर्वोक्त-विधानेन हुत्वा, परे ब्रह्मणि निःशेषं समर्प्य कृत-कृत्यो’भिजायत इति । कर्तुं योग्यं कृत्यं कृतं कृत्यं सर्व-साधनं येन स तथा समाप्त-सर्व-साधन-श्रमो भवतीति यावत् । सर्व-साधनानाम् अत्रैवान्तर्भूतत्वेन स्थित-कृत्य-शेषाभावात् । तथा हि, श्री-हरि-गुर्वाज्ञा-पालने कर्म-योगस्यान्तर्भावः । तद्-आत्म-कत्वानुसन्धाने च ज्ञान-योगस्य, तद्-विषयक-निरतिशय-प्रीतौ भक्ति-योगस्य, तद्-रूपे श्री-गुराव् आत्म-न्यासाद् ग्य्र्व्-आज्ञानुवृत्तेश् चान्तर्भावो’नुसन्धेयः ।

ननु अष्टाङ्ग-योगस्यात्म-साक्षात्काराक्षाधारण-साधनस्यावशिष्टत्वात् कथं सर्व-साधन-समाप्तिर् इति चेन्, न, तस्याप्य् अत्रैवान्तर्भावात् । तथा हि तस्यात्मात्मीयेषु निर्वेदो यमः । श्री-हरि-गुरु-विषयक-निरतिशयानुरागो नियमः । चेतनाचेतन-वर्गयोस् तदीयत्वानुसन्धान-तद्-विषयकौदासीन्यं ह्य् आसनम् । सदैव तन्-निष्ठत्वात् जगद्-अनित्यत्वानुसन्धान-पूर्वकं भगवति प्राणादि-वृत्तीनां न्यासः प्राणायामः । अनन्त-स्वरूप-गुण-शक्त्य्-आदिभिर् बृहत्तमे परे ब्रह्मणि श्री-वासुदेवे चित्त-वृत्तीनां न्यासेनान्तर्मुखी-करणं प्रत्याहारः । ब्रह्मात्मकत्वाध्यवसाय-नैश्चल्यं धारणा । ब्रह्मात्मकत्वाधवसाय-सन्ततिर् ध्यानम् । तेनैवान्य-विषयक-विस्मरण-पूर्वकं तथा-भूते सर्वात्मके ब्रह्मणि मनो-वृत्तेः गङ्गादि-प्रवाहवत् सातत्यं समाधिः । स वै ध्रुवा स्मृतिर् इत्य् उच्यते । सत्त्व-शुद्धौ ध्रुव-स्मृतिर् इति श्रुतेः । सर्व-साधनानाम् अत्रान्तर्भावेण साधनान्तरापेक्षाभाव इति सिद्धम् । तथा च शास्त्रम्—

अनेनैव प्रपन्नस्य भगवन्तं सनातनम् । तस्यानुबन्धाः पाप्मानं सर्वे नश्यन्ति तत्-क्षणात् ॥ कृतान्य् अनेन सर्वाणि तपांसि तपतां वर । सर्व-तीर्थाः सर्व-यज्ञाः सर्व-दानानि तत्-क्षणात् ॥ कृतान्य् अनेन मोक्षश् च तस्य हस्ते न संशयः । यद् येन काम-कामेन संसाध्यं साधनान्तरैः ॥ मुमुक्षुणा यत् साङ्ख्येन योगेनापि च भक्तितः । प्राप्यते परमं धाम यतो नावर्तते यतिः ॥ तेन तेनाप्यते तत् तत् न्यासेनैव महामुने । परमात्मा च तेनैव साध्यते पुरुषोत्तमः ॥ या वै साधन-सम्पत्तिः पुरुषार्थ-चतुष्टये । तया विना तद् आप्नोति नरो नारायणाश्रयः ॥ इत्य् आदि ।

अथ फलं दर्शयति—भव-बन्ध-विनिर्मुक्त इति । भवो नाम अनादि-प्रकृति-सम्बन्ध-प्रयुक्तानादिकर्मात्मिकाविद्या तत्-कृताहङ्कार-मम-कारास्पदात्मात्मीय-विषयकाहङ्कार-मम-कार-रूपः ।स एव बन्धस् तस्माद् विनिर्मुक्तो ब्रह्म-सायुज्याख्यं भगवद्-भावापत्ति-लक्षणं मोक्षम् आप्नुयात् सम्पद्यत इत्य् अर्थः ।

अत्रायं क्रमः—श्री-भगवत्-साक्षात्काराद् उक्त-लक्षणो मोक्षः ।

यदा पश्यः पश्यते रुक्म-वर्णं कर्तारम् ईशं पुरुषं ब्रह्म-योनिम् । तदा विद्वान् पुण्य-पापे विधूय निरञ्जनः परमं साम्यम् उपैति ॥ [मु।उ। २.३] भिद्यते हृदय-ग्रन्थिश् छिद्यन्ते सर्व-संशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥ [मु।उ। २.९]

इत्य् आदि श्रुतिभ्यः । स च साक्षात्कारो भगवत्-प्रसाद-जन्यः ।

तम् अक्रतुः पश्यति वीत-शोको धातुः प्रसादान् महिमानम् ईशम् ॥ [श्वे।उ। ३.२०] यम् एवैष वृणुते तेन लभ्यस् तस्यैष आत्मा वृणुते तनुं स्वाम् ॥ [क।उ। १.२.२३] इत्य् आदि श्रुतिभ्यः ।

प्रसादश् च तस्मान् न्यासम् एतेषां तपसाम् अतिरिक्तम् आहुः इति श्रुत्य्-उक्तात्म-न्यास-विद्या-जन्यः तस्मान् न्यास-विद्यैवात्र विधेया ।

यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश् च प्रहिणोति तस्मै । तं ह दैवम् आत्म-बुद्धि-प्रकाशं मुमुक्षुर् वै शरणम् अहं प्रपद्ये ॥ यो ब्रह्माणं विदधाति पूर्वं यो विद्यास् तस्मै गोपायति स्म कृष्णः । तं ह दैवम् आत्म-बुद्धि-प्रकाशं मुमुक्षुर् वै शरणम् व्रजेत ॥ [गो।ता।उ। १.२२] इति मन्त्राभ्याम् । तम् एव शरणं गच्छ सर्व-भावेन भारत । तत्-प्रसादात् परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥ [गीता १८.६२] सर्व-धर्मान् परित्यज्य माम् एकं शरणं व्रज । अहं त्वा सर्व-पापेभ्यो मोक्षयिष्यामि मा शुचः ॥ [गीता १८.६६] इति भगवद्-वचनात् ।

सात्वते च—

दुराचारो’पि सर्वाशी कृतघ्नो नास्तिकः पुरा । समाश्रयेद् आदि-देवं श्रद्धया शरणं हि यः ॥ निर्दोषं विद्धि तं जन्तुं प्रभावात् परमात्मनः ।

वैष्णवे धर्मे च—

अपि पापेष्व् अभिरता मद्-भक्ताः पाण्डु-नन्दन । मुच्यन्ते पातकैः सर्वैः पद्म-पत्रम् इवाम्भसा ॥ इति ।

भीष्मे च—

ये च कृष्णं प्रपद्यन्ते ते न मुह्यन्ति मानवाः । भये महति ये मग्नाः पाति नित्यं जनार्दनः ॥ [म।भा। ६.६३.२०]

द्रौणे च—ये प्रपन्ना हृषीकेशं न ते मुह्यन्ति कर्हिचित् [म।भा। ७.१२४.१४] इति स्मृतिभ्यश् चेति । श्री-भगवत्-प्रसादे’स्या आत्म-न्यास-विद्याया विनियोग इति सिद्धम् । तथा मोक्षो नाम भगवद्-भावापत्तिर् एव ।

बहवो ज्ञान-तपसा पूता मद्-भावम् आगताः ॥ [गीता ४.१०] मद्-भक्त एतद् विज्ञाय मद्-भावायोपपद्यते ॥ [गीता १३.१८]

इति श्री-मुख-गानात् । स च—

द्व्य्-अक्षरं तु भवेन् मृत्युस् त्र्य्-अक्षरं ब्रह्म शाश्वतम् । ममेति च भवेन् मृत्युर् न ममेति च शाश्वतम् ॥

इति शास्त्राद् आत्मात्मीय-विषयकाहङ्कार-मम-कार-ध्वंसाभाव-पूर्वकं स्व-वृत्ति-स्वाभाविक-भगवद्-आत्मीयत्व-लक्षण-सम्बन्ध-साक्षात्कार-प्रकाशित-सुर-सरित्-प्रवाहवद् अविच्छिन्न-श्री-भगवद्-अनुभूत्या स्थिति-लक्षण इति यावत् । आत्मात्मीयौ वस्तुनी विषयौ ययोस् ताव् अहङ्कार-मम-कारौ । तयोर् ध्वंसाभावस् तत्-पूर्वकं यथा स्यात् तथेति । स्वस्मिन्न् आत्मीनि वृत्तिर् यस्य स चासौ स्वाभाविकश् च स्व-वृत्ति-स्वाभाविकः, भगवद्-आत्मकत्वेन स्वतन्त्र-सत्ताकत्वाभावात् । भगवद्-आत्मीयाव् इमाव् अहङ्कार-ममकारास्पदाव् इत्य् एव लक्षणं यस्य स एव सम्बन्धः, स्व-वृत्ति-स्वाभाविकश् चासौ भगवद्-आत्मीय-लक्षण-सम्बन्धश् चेति यावत् तस्य साक्षात्कारेण प्रकाशितासुर-सरित्-प्रवाहवद् अविच्छिन्ना च या भगवद्-विषयिकानुभूतिस् तया स्थितिर् अवस्थानं लक्षणं यस्य स इत्य् अर्थः । तथाह श्री-पराशरः—

निरस्तातिशयाह्लाद-सुख-भावैक-लक्षणा । भेषजं भगवत्-प्राप्तिर् एकान्तात्यन्तिकी मता ॥ [वि।पु। ६.५.५९] इति ।

भगवत्-प्राप्तिर् भेषजं अनादि-प्रकृति-सम्बन्ध-लक्षण-संसार-रोगस्येति शेषः । एवम् उद्देश-मुखेनोक्त्वा तस्या लक्षणम् आह—निरस्तेत्य् आदि । निरस्तो’तिशयाह्लादो यस्मात् तथा भूतेन सुखेन भावो भवनम् अवस्थानम् एवैकं लक्षणं यस्याः सेति । अत एवैकान्तिकी केवल-भगवच्-छब्द-वाच्यैक-विषयिकात एवात्यन्तिकी निरतिशयेति यावत् । एषैव साम्य-सायुज्य-ब्रह्मादि-शब्दैः शास्त्र-मुखेनाभिधीयते । परमं साम्यम् उपैति, ब्रह्मविद् ब्रह्मैव भवति, नारायणे सायुज्यम् आप्नोति इत्य् आदि श्रुतेः । ब्रह्मैव भवतीति बृहज्-ज्ञानादि-धर्मेण बृहत्त्वस्य तत्रापि सत्त्वान् न स्वरूपेणेत्य् अर्थः ।

न च सायुज्य-शब्दस्य स्वरूपैक्य-परत्वम् इति वाच्यम् । तस्य स्वरूपैक्याभिधाने शक्त्य्-अभावात् । किं च, एतासाम् एव देवतानां सायुज्यं सार्ष्टितां समान-लोकताम् आप्नोति इति व्याकोपात् । न हि युगपत् क्रमेण वा ह्य् अनेक-देवताभिर् ऐक्य-सिद्धिः । एकेनैक्यापत्तौ पुनर् अन्यैर् अशक्यत्वात् । ऐक्यापन्नस्य पुनर् भिन्नत्वासम्भवात् । तस्माद् अस्मामञ्जस्यम् एवेति उक्तार्थ एव साधीयान् । भेद-श्रुत्य्-अविरोधाच् चेति भावः । किं च, उक्त-लक्षण-मोक्षस्याश्रय-विषयाभ्यां स्वरूपतश् च केनाप्य् अंशेन क्रियाजन्यत्वाभावान् नानित्यत्व-सम्भावनापीति । तथा हि तस्याश्रयः प्रत्यग्-आत्मा, तस्य चोत्पत्ति-प्राप्ति-संस्कृति-विकृति-क्रियाणाम् अकर्मत्वात् । अजत्व-नित्य-प्राप्तत्वाभ्याम् उत्पत्ति-प्राप्ति-क्रियनार्हः । अजो ह्य् एको जुषमाणो’नुशेते जहात्य् एनां भुक्त-भोगाम् अजो’न्यः [श्वे।उ। ४.५] इति श्रुतेः । स्वरूपत्वेन नित्य-प्राप्तत्वाच् च । नापि विकार्यः षड्-विकारानर्हत्वात् । न जायते म्रियते वा विपश्चित् इति श्रुतेः ।

नापि संस्कार्यः, स च द्विविधः । गुणाधन-दोषापकर्षाभ्याम् । नाद्यः, नित्य-गुणवत्त्वात्। न हि विज्ञातुर् विज्ञातेर् विपरिलोपो विद्यते’विनाशित्वान् [बृ।आ।उ। ४.३.३०], अविनाशी वा अरे’यम् आत्मानुच्छित्ति-धर्मा [बृ।आ।उ। ४.५.१४] इत्य् आदि श्रुतेः । नापि द्वितीयः—स्वयं-ज्योतिष्ट्वेनास्पृष्ट-दोष-गन्धत्वात् । अत्रायं पुरुषः स्वयं-ज्योतिर् भवति इति श्रुतेः ।

ननु प्रत्यग्-आत्मनः सर्वथा दिल्स-गन्ध-स्पर्शाभावे बन्ध-मोक्ष-व्यवस्थाभावः । सम्बन्धे च तद्-अपाकरण-लक्षण-संस्कारस्यावश्यं ह्य् अभ्युपगमः । तथात्वे च संस्कार्यत्वस्याप्य् अवश्यम्भावित्वात् कथम् असंस्कार्यत्वम् इति चेन्, न । तस्य धर्म-भूत-ज्ञानम् एवानादिकर्मात्मकाज्ञानेन सङ्कुचितम् । अज्ञानेनावृतं ज्ञानम् इति भगवद्-उक्तेः । भूयो भगवद्-आचार्य-प्रसादेन तत्-कारणी-भूत-प्रकृति-सम्बन्ध-ध्वंसे सति स्वाभाविक-धर्म-भूत-ज्ञानस्य प्रकाशान् मोक्षो, न स्वरूपतो बन्ध-मोक्षाव् अतो नोक्त-दोष-सम्बन्धावकाशः । नापि विषयस् तथात्वं, विषयश् चास्य पर-ब्रह्म श्री-भगवान् पुरुषोत्तम एव । तस्य चतुर्विध-क्रिया-कर्मत्वाभावे विवादाभावात् । य आत्मापहत-पाप्मा विजरो विमृत्युर् विशोको विजिघत्सो’पिपासः सत्य-कामः सत्य-सङ्कल्पः [छा।उ। ८.१.५] इति श्रुतेः । अत एव न स्वरूपतो’पि तथात्व-शङ्कावकाशः, तस्य स्वाभाविकत्वेन जन्यत्वाद्य्-अनर्हत्वाद् इति सङ्क्षेपः ॥९॥

—ओ)०(ओ—

(१०)

एतावता बीज-मन्त्रो व्याख्यातः । इदानीम् अवशिष्टस्य शास्त्रस्य तद्-विवरण-रूपतां दर्शयन् व्याख्यानम् आरभते सार्ध-श्लोकेन—

एतस्यैव हि मन्त्रस्य
शिष्टं विवरणं स्मृतम् ।
तेषु क्ल्-अर्थश् च व्याख्यातो
द्वाभ्यां पद्भ्यां बुधोत्तमैः ॥१०॥

हि यस्माद् बीज-व्याख्यानेनैव सर्वम् अपि शास्त्रं व्याख्यात-प्रायम् एव । तथापि मन्द-बुद्धीनाम् उपकारार्थं सङ्ग्रहेणोच्यत इति । अवशिष्टो मन्त्रो’स्यैव मन्त्र-बीजस्य व्याख्या-रूपो, न भिन्नार्थक इति यावत् । एतस्यैव बीज-मन्त्रस्यावशिष्टं शास्त्रं तद्-व्याख्या-रूपत्वात् बुधैर् मनीषिभिः श्री-सनकादिभिर् विवरणं स्मृतम् इत्य् अन्वयः ।

बीजं यथा स्थितो वृक्षः शाखा-पल्लव-संयुतः । तथैव सर्व-शास्त्रार्थो मन्त्र-बीजे व्यवस्थितः ॥ इत्य् आदि-वचनात् ।

तद् एव विभज्य विवृणोति—तेष्व् इत्य् आदिना । तेषु अवशिष्टेषु चतुर्षु पदेषु मध्ये द्वाभ्यां पद्भ्यां स-लक्षण-प्रमाणाभ्यां कृत्स्न-स्वरूप-गुण-शक्तिभिः सह क्ल्-अर्थो व्याख्यात इत्य् अग्रिमार्धेन योजना । तत्रैकेन कृष्णायेत्य् अनेन पदेन लक्षणं द्वारीकृत्य स्वरूप-गुण-शक्त्य्-आदिभिर् वर्णनम् ।

द्वितीयेन गोविन्दायेति पदेन प्रमाण-निरूपणम् । तृतीयेन मुमुक्षोर् गुरुणा सह योगः । चरमेणात्म-होम-विधानम् इति विवेकः । तथा हि कृष्ण-शब्दो द्विविधः । स-खण्डार्थो’खण्डार्थश् चेति । स-खण्डार्थो’पि द्विविधः । व्याकरण-व्युत्पन्न ऋषि-व्युत्पन्नश् चेति । तत्र व्याकरण-मुखेन व्युत्पत्तिं दर्शयन् विव्रियते । चतुर्थ्यं तं चतुष्पदम् इदं वाक्यम् । कृ-शब्दस्यात्र तन्त्र-पाठः । कृ कृष् ण अ पदानि तत्र डुकृञ्-करणे, कृष् विलेखने इत्य् अनयोः क्विप्-प्रत्यय-योगे अत्र तुग-भावश् छान्दसः । कृ-कृष् इति द्वितीयस्य च लोपे अदर्शने कृस् इति शब्दो व्युत्पन्नः । स च कर्तृ-संहर्तृ-वाचकः । वस्तु-लाभ-करो णस् तु इति वचनात् । मोक्ष-लाभ-करो ण-शब्दः । अव रक्षणे इत्य् अस्माद् धातोः क्विप्-प्रत्यय-योगेन अ-कारस्यावशेषात् पृषोदरादित्वाद् ऊठ-भावो बोध्यः, छान्दसत्वाद् वा। रक्षकत्व-सिद्धिः । एवं च जगत्-कर्तृत्वं, संहर्तृत्वं, मोक्ष-दातृत्वं, रक्षकत्वं च लक्षणं क्ल्-अर्थस्य कृष्णस्य सिद्धम् । यतो वा इमानि भूतानि जायन्ति, येन जातानि जीवन्ति । यत् प्रयन्त्य् अभिसंविशन्ति, संसार-बन्ध-स्थिति-मोक्ष-हेतुः । अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते इति श्रुति-स्मृतिभ्यश् च ।

आर्ष-व्युत्पत्ति-पक्षे च—

कृषिर् भू-वाचकः शब्दो णश् च निर्वृति-वाचकः । तयोर् ऐक्यं परं ब्रह्म कृष्ण इत्य् अभिधीयते ॥ इति ।

सत्यं ज्ञानम् अनन्तं ब्रह्म इत्य् आदि श्रुत्य्-उक्त-द्वितीय-लक्षण-सिद्धिः । अखण्डार्थत्वे श्रुत्य्-उक्त-सच्-चिद्-आनन्द-रूप-श्री-कृष्ण इति । सच्-चिद्-आनन्द-रूपाय कृष्णायाक्लिष्ट-कारिणे [गो।ता।उ। १.१] इति मन्त्र-वर्णात् ।

एवं जगज्-जन्मादि-कारणत्वं सूत्र-कारोक्त-लक्षणं श्री-कृष्णे समन्वितम् । तेन च स्व-समानाधिकरण-वृत्ति-सार्वज्ञ्यादि-कारुण्य-वात्सल्यादि-गुण-शक्त्य्-आदयो’प्य् आक्षिप्ता अन्यथानुपपत्ति-प्रमाण-सिद्धाः । तथा च, जगज्-जन्मादि-हेतुर् मोक्ष-दाता सच्-चिद्-आनन्द-रूपः सार्वज्ञ्य-वात्सल्याद्य्-अनन्तासङ्ख्येय-स्वाभाविक-यावद्-आत्म-वृत्ति-गुण-शक्त्य्-आदि-पूर्णो भगवान् श्री-कृष्ण-पदार्थाभिन्न-कॢ-पदार्थ इति सङ्क्षेपार्थः । गुणाश् च ज्ञान-शक्ति-बलैश्वर्य-तेजो-वीर्यादयो जगत्-सृष्ट्य्-आद्य्-उपयोगिनः । वात्सल्य-सुअशील्य-स्वामित्व-सत्य-प्रतिज्ञत्व-कृतज्ञत्व-स्थैर्य-पूर्णत्वौदार्य-कारुण्यादयो भगवद्-आश्रयणे प्रपन्न-रक्षणे चोपयोगिनो’नन्ताश् च । तत्र ज्ञानं सर्व-देश-काल-वस्तु-विषयक-निरन्तर-प्रत्यक्षानुभवः । शक्तिः अघट-घटना-पटीयस्त्वाभिन्न-सामर्थ्यम्। बलं विश्व-धारण-शक्तिः । ऐश्वर्यं नियमन-शक्तिः । श्रम-हेतौ विद्यमाने तच्-छून्यत्वं वीर्यम् । तेजः-परैर् अभिभूयमानत्वे सति पराभिभवन-सामर्थ्यम् । वात्सल्यं प्रपन्न-दोषादर्शित्वम् । जात्यादि-महत्त्वम् अनपेक्ष्यातिमन्दैः सहायासंश्लेषत्वं सौशील्यम् । स्वजन-रक्षा-शीलत्वं स्वेतर-समस्त-वस्तुनि स्वकीयत्वाध्यवसायो वा । सत्य-प्रतिज्ञत्वं अमृषा-जल्पता । कृतज्ञत्वं अल्प-कृतं बहु-मन्यता । स्थैर्यं स्थिर-व्रतत्वं, युद्धादाव् अचलत्वं वा । पूर्णत्वं प्रत्युपकाराकाङ्क्षा राहित्यम् । औदार्यं आत्म-पर्यन्त-दातृ-शीलत्वम् । कारुण्यं पर-दोष-क्षपण-स्वभावः । दया निर्हेतुक-पर-दुःख-दुःखित्वे सति तन्-निराचिकीर्षा । अन्ये’पि आर्जव-मार्दव-सौहार्द-शरण्यत्वादयो’नुसन्धेयाः । विवक्षित-गुणोपपत्तेश् च । सर्वोपेता च । स्वाभाविकी ज्ञान-बल-क्रिया च । विष्णोर् नु कं वीर्याणि प्रावोचं यः पार्थिवानि विममे रजांसि न ते विष्णोर् जायमानो न जातो देवस्य महिम्नः परमं तम् आप सहस्रधा महिमानः सहस्रम् ।

ज्ञान-शक्ति-बलैश्वर्य-वीर्य-तेजांस्य् अशेषतः । भगवच्-छब्द-वाच्यानि विना हेयैर् गुणादिभिः ॥ तेजो-बलैश्वर्य-महावबोधः स्व-वीर्य-शक्त्य्-आदि-गुणैक-राशिः । परः पराणां सकला न यत्र क्लेशादयः सन्ति परावरेशे ॥ इत्य् आदि शास्त्रात् ।

तादर्थ्ये चौर्थी-विभक्तिस् तस्यान्वयश् चाग्रे वक्ष्यते इति कृष्ण-पदार्थः ॥१०॥

—ओ)०(ओ—

(११)

स लक्षण-प्रमाणाभ्यां स्वरूप-गुण-शक्तिभिः ।
एकेन चरमार्थस्य गुरुणा योग उच्यते ॥११॥

स-लक्षण-प्रमाणाभ्याम् इत्य् उक्तम् । तत्र लक्षणं निरूपितम् इदानीं प्रमाण-मुखेनाह—गोविन्दायेति । गां वेद-लक्षणां भारतीं स्वस्मिन् प्रमाणतया समन्वितां विन्दते इति गोविन्दः । वेद एवात्र प्रमाणम् इति यावत् । सर्वे वेदा यत् पदम् आमनन्ति [क।उ। १.२.१५] नामानि सर्वाणि यम् आविशन्ति, तं त्व् औपनिषदं पुरुषं पृच्छामि [बृ।आ।उ। ३.९.२६], नमो वेदान्त-वेद्याय [गो।ता।उ। १.१],

वेदे रामायणे चैव पुराणे भारते तथा । आदाव् अन्ते च मध्ये च हरिः सर्वत्र गीयते ॥

वेदैश् च सर्वैर् अहम् एव वेद्यः [गीता १५.१५], शास्त्र-योनित्वात् इत्य् आदि श्रुति-स्मृतिभ्यः । यद् वा, गो-भूमि-वेद-विदित इत्य् आदि-श्रुत्या गवि सूर्ये तत्-प्रकाशकत्वेन तद्-अन्तरामत्वेन वा विदित इति गोविन्दः । य आदित्ये तिष्ठन्न् आदित्यान्तरो यम् आदित्यो न वेद इति श्रुतेः ।

यद् आदित्य-गतं तेजो जगद् भासयते’खिलम् । यच् चन्द्रमसि यच् चाग्नौ तत् तेजो विद्धि मामकम् ॥ [गीता १५.१२]

इति श्री-मुखोक्तेश् च ।

गवि भूमौ तद्-आधार-शक्त्य्-आत्मना विदित इति गोविन्दः । यः पृथिव्यां तिष्ठन्न् इति श्रुतेः । गाम् आविश्य च भूतानि धारयाम्य् अहम् ओजसा [गीता १५.१३] इति गानाच् च । गोषु वेदेषु तत्-प्रतिपाद्यतया विदित इति गोविन्दः । वेदैश् च सर्वैर् अहम् एव वेद्यः [गीता १५.१५] इति गानात् । इत्य् आद्य् अन्या अपि श्रौत-व्युत्पत्तयो’त्रानुसन्धेया । यो’सौ सौर्ये तिष्ठति यो’सौ गोषु तिष्ठति यो’सौ गाः पालयति । यो’सौ गोपेषु तिष्ठति । यो’सौ सर्वेषु वेदेषु तिष्ठति । यो’सौ सर्व-वेदैर् गीयते [गो।ता।उ। २.२२] इत्य् आदि श्रुतिः । ताः श्रुत्य्-आदय एवात्र मानम् इत्य् अर्थः । इति गोविन्द-पदार्थः ।

अथावशिष्टेषु मध्ये तृतीय-पदं व्याचष्टे एकेनेत्य् आदिना । एकेन तृतीयेन गोपी-जनेत्य् आदि पद-समुदायात्मकेन समस्त-पदेनेत्य् अर्थः । चरमार्थस्य गुरुणा योग उच्यत इति । चरमार्थस्य बीज-मन्त्र-पाठे यश् चरमो’न्तिमो वर्णो म-कारस् तस्य ज्ञान-स्वरूपो ज्ञाताणुस् तथा-भूत-परिमाणाश्रय इति चतुर्विधो’र्थः । क्षेत्रज्ञस् तस्य । तथा हि—अत्र तन्त्र-पाठेन मन ज्ञाने । मसी परिणामे इति । आभ्यां धातुभ्यां ड-प्रत्यय-योगेन म-कार-मात्रस्य धात्व्-अवयवस्यावशिष्टत्वात् । तत्र भाव-व्युत्पत्त्या ज्ञान-स्वरूपो’नुरूपः । कर्तृ-व्युत्पत्त्या च ज्ञानाश्रयो’णु-परिमाणाश्रयश् चेति सिद्धम् । तन्त्रत्वं नाम सकृद्-उच्चरितत्वे सति अनेकार्थ-बोधकत्वम् । तथा च श्रुतिः—यथा सैन्धव-घनो’नन्तरो’बाह्यः कृत्स्नो रस-घन एव । एवम् अरे अयम् आत्मानन्तरो बाह्य्ः कृत्स्नः प्रज्ञान-घन एव । विज्ञातारम् अरे केन विजानीयात् जानात्व् एवायम्पुरुषः अणुर् ह्य् एष आत्मा चेतसा वेदितव्य इत्य् आदि । ज्ञो’त एव [वे।सू। २.३.१७], नाणुर् अतच् छ्रुतेर् इति चेन् नेतराधिकारात् [वे।सू। २.३.२१] इत्य् आदि न्यायश् च । उपलक्षणं चैतद् अन्येषां विशेषणानां, तथा चोक्तं श्री-भगवद्-आद्य्-आचार्यैः—

ज्ञान-स्वरूपं च हरेर् अधीनं शरीर-संयोग-वियोग-योग्यम् । अणुं हि जीवं प्रतिदेह-भिन्नं ज्ञातृत्ववन्तं यद् अनन्तम् आहुः ॥ [वे।का।धे। १] इत्य् आदिना ।

तच् चान्यत्र द्रष्टव्यम् । विस्तर-भयाद् उपरम्यते ।

अथ क्षेत्रज्ञास् त्रिविधाः—नित्य-मुक्त-मुक्त-बद्ध-भेदात् । सर्वेषाम् अपि सकारार्थत्वेनोक्त-लक्षणवत्त्वाविशेषात् तत्र बद्धानां मध्ये मुमुक्षोर् गुरुणा सह सामान्य-सम्बन्धं दर्शयन् व्याचष्टे—गुरुणेत्य् आदि । सहादि-योगे तृतीया । योगो’त्र सम्बन्धः ।

गोपीत्य् आदि । गाः इन्द्रियाणि स्व-स्व-विषयेषु स्वीयत्वेन पातीति गोपी प्रकृतिस् तया जन्यन्ते देहादिभिः संयुज्यन्ते इति गोपी-जना जीवात्मानस् तेषु मुमुक्षूणां स्व-प्रपन्नानां वल्लम्, अज्ञान-रूपावरणं तस्माद् भातीति । तथा ल्यप्-लोपे पञ्चमी । तेषां वल्लम् अज्ञानं ब्रह्म-विद्यया पराकृत्य स्व-परत्व-विषयकं ज्ञानं प्रकाशयतीति गोपी-जन-वल्लभो द्वितीय-पदार्थो गमयिता गुरुर् इति यावत् ।

तस्मै स विद्वान् उपसन्नाय सम्यक् प्रशान्त-चित्ताय शमान्विताय । येनाक्षरं परमं वेद-सत्यं प्रोवाच तां तत्त्वतो ब्रह्म-विद्याम् ॥ [मु।उ। २.१२] इति श्रुतेः ॥११॥

—ओ)०(ओ—

(१२)

अथ चरम-पदं व्याचष्टे—

चरमेणात्म-होमस्य विधानं परीकीर्तितम् । अनेनैवास्य शास्त्रस्य ह्य् अनुबन्धाः प्रकीर्तिताः ॥१२॥

चरमेणात्यन्तेन स्वाहेति-पदेन आत्म-होमस्य आत्मात्मीय-वृत्त्य्-अनादि-कर्म-प्रयुक्त-स्वातन्त्र्य-लक्षण-स्वत्त्वस्य न्यास-विधानं त्याग-लक्षणा-क्रियेति यावत् । एतद् उक्तं भवति—आदौ वक्ष्यमाण-प्रकारेण वक्ष्यमाण-लक्षणो मुमुक्षुः स्वात्मात्मीय-वृत्त्य्-उक्त-लक्षणं स्वत्वं त्यक्त्वा शास्त्रोक्त-लक्षण-सम्पन्न-मध्यमार्थ-विवरण-भूत-चतुर्थ-पदार्थाय निर्हेतुक-कारुण्यादि-वशाज् जीवोद्दिधीर्षया मनुज-रूपेण भूम्य्-अवतीर्णाय भगवद्-रूपिणे श्री-गुरवे स्रुव-स्थानीयाय निक्षिप्य, तद्-द्वारेणाग्नि-स्थानीयाय प्रथम-पदार्थ-विवरण-रूप-कृष्ण-पदार्थाभिन्न-गोविन्द-पदार्थाय स्वाहेति समर्पयेद् इति । अहं चात्मीयं चेदं सर्वं प्रथम-पदार्थाभिन्न-कृष्णार्थम् एव न मदीयं मद्-अर्थं वेति पूर्व-पद-निष्ठ-चतुर्थी-विभक्त्य्-अन्वितस्य स्वाहेति पदस्य सङ्क्षेपार्थः । अलं विस्तरेण ।

तम् एव शरणं गच्छ सर्व-भावेन भारत । तत्-प्रसादात् परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥ [गीता १८.६२] सर्व-धर्मान् परित्यज्य माम् एकं शरणं व्रज । अहं त्वा सर्व-पापेभ्यो मोक्षयिष्यामि मा शुचः ॥ [गीता १८.६६] इति भगवद्-वचनात् । यो ब्रह्माणं विदधाति पूर्वं यो विद्यास् तस्मै गोपायति स्म कृष्णः । तं ह दैवम् आत्म-बुद्धि-प्रकाशं मुमुक्षुर् वै शरणम् व्रजेत ॥ [गो।ता।उ। १.२२] यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश् च प्रहिणोति तस्मै । तं ह दैवम् आत्म-बुद्धि-प्रकाशं मुमुक्षुर् वै शरणम् अहं प्रपद्ये ॥ [श्वे।उ। ६.१८] इत्य् आदि श्रुति-स्मृतिभिः ।

एतेन वाक्यार्थो’पि व्याख्यातः । तथा हि तत्-पदार्थः प्रथम-पदार्थो’भिन्नो वासुदेवः, त्वं पदार्थश् च म-कारार्थाभिन्नः क्षेत्रज्ञः । तस्य ब्रह्मात्मकत्वादिना तद्-अभिन्नत्व-निर्देशार्हत्वात् स्वरूपेण भिन्नत्वे’पि तद्-आत्मकत्वादिनाभिन्नः । उभय-पदार्थ-सम्बन्धाभिधायकः । असि-पदार्थाभिन्न-ई-कारार्थ इति भिन्नाभिन्नत्वं सिद्धम् इति भावः । अत एव सर्व-शारीरक-मीमांसा-शास्त्रो’र्थो’प्य् अत्रान्तर्गतः । तथा हि—श्री-भगवतो वासुदेवस्य पर-ब्रह्मणः श्री-कृष्णस्य प्रपत्तव्यस्य जगज्-जन्मादि-कारणत्व-प्रतिपादनात् तत्रैव सर्व-शास्त्रस्य समन्वयात् समन्वयाध्यायार्थो’न्तर्गतः । तत्रैव पर-ब्रह्मणि प्रमाणानां पर्यवसानोक्त्या तद् अन्येषां प्रकृत्यादि-कारण-वादिनां यतस्याप्रामाण्य-द्योतनाद् अविरोधाध्यायार्धो’प्य् आक्षेप-सिद्धः । श्री-भगवत्-प्रपत्तौ सर्व-साधनानाम् अन्तर्-भाव-निरूपणात् साधनाध्यायार्थो’प्य् उक्तः । पर-ब्रह्माभिन्न-भगवच्-छब्द-वाच्य-प्रपतव्य-भावापत्ति-लक्षण-मोक्षाभ्युपगमात् फलाध्यायार्थो’प्य् उक्त एवेति विवेकः । किं च—

उपास्य-रूपं तद्-उपासकस्य च कृपा-फलं भक्ति-रसस् ततः परम् । विरोधिनो रूपम् अथैतद् आप्तेर् ज्ञेया इमे’र्था अपि पञ्च साधुभिः ॥ [वे।का।धे। १०]

इति श्री-भगवद्-आद्य्-आचार्य-निरूपितार्थ-पञ्चको’प्य् अत्रान्तरगतो ज्ञेयः । तथा हि उक्त-लक्षण-प्रमाणको भगवान् श्री-कृष्णः प्रथम-पदार्थः प्रपत्ति-विषयो’त्रोपास्य-पदार्थः । उक्त-लक्षणो म-कारार्थः प्रपत्त्य्-आश्रयो’त्रोपासक-पदार्थः । गुरु-सम्बन्ध-पूर्वक-प्रपत्ति-प्रीणितो भगवान् अत्रोपाय-पदार्थः । प्रपत्तव्य-भूत-भगवद्-भापवाति-रूप-मोक्षश् चात्र फलम् । गोपी-पदार्थो’भिन्नानादि-प्रकृति-सम्बन्ध-प्रयुक्तानादि-कर्मात्मकाज्ञान-तज्-जन्यात्मात्मीय-विषयक-स्वातन्त्र्य-लक्षण-स्वत्वाध्यवसायो’त्र संसरण-हेतुत्वाद् विरोधीति सङ्ग्रहार्थः ।

इदानीम् अस्यानुबन्ध-प्रदर्शनाय प्रतिजानाति श्लोकार्धेन—अनेनैवास्य शास्त्रस्य ह्य् अनुबन्धाः प्रकीर्तिता इति । अनेनेति पञ्च-पद-समुदायात्मक-मन्त्रेणेत्य् अर्थः । प्रकीर्तिताः कथिताः । अस्येत्य् अनेनापि तस्यैव परामर्शो ज्ञेयः । अवधारणो’त्रायोग-व्यवच्छेदार्थको नोक्ता इति न । अपि तु कीर्तिता एवेत्य् अर्थः ॥१२॥

—ओ)०(ओ—

(१३)

तान् एव दर्शयिष्यन् प्रथमं तावद् अधिकारि-स्वरूपं स-विशेषं निरूपयति—

गुर्व्-अर्थं यस्य प्राणादि यौवनं धनम् एव च ।
आत्मात्मीयेषु निर्विण्णो’धिकारी सम्यग् ईर्यते ॥१३॥

यस्येति मुमुक्षु-वाचक-यच्-छब्देन स्वरूप-निर्देशः मुमुक्षोर् इत्य् अर्थः । प्राणादीत्य् आदि-शब्दो देहेन्द्रियादि-सङ्ग्रहार्थः । निर्मायिक-पराभक्ति-लक्षण-निरतिशय-प्रीत्या तद्-वियोगासहिष्णुत्वात् प्राणादि-धारणम् अशक्यम् इति भावः । यद् वा, देहेन्द्रिय-मनः-प्राणान् गुरु-सेवोपकरणार्थम् एव धारयति । तद्-वियोगे च तस्या अभावात् तद्-धारणं व्यर्थम् एवेत्य् अध्यवसायवान् । यौवनं धनम् एव चेति । तत्-तद्-अवस्थोचित-तत्-तत्-सेवोपकरणार्थम् एव, नात्मार्थ-धारणम् । एतौ शब्दौ कैमुत्य-न्याय-सूचकौ । यदि प्राणादयो’पि तदीयत्वेन तद्-अर्थम् एव धारणीयास् तर्हि एतौ तद्-अपेक्षाया बहिरङ्गौ तद्-अर्थकाव् इति किम् उत वक्तव्यम् इति सङ्क्षेपः । विशेषश् चान्यत्र कथितः ।

विशेषान्तरम् आह—आत्मात्मीयेषु निर्विण्ण इति । आत्मा क्षेत्रज्ञादिं वाच्याभिन्नाहम् अर्थ-रूपः । आत्मीयश् च अनादि-प्रकृति-सम्बन्ध-प्रयुक्तानादि-कर्म-जन्य-भोगोपकरण-देहेन्द्रिय-मनो-बुद्धि-प्राणाः । तत्-कृतानि कर्माणि पुण्यापुण्य-रूपाणि तज्-जन्यो भोगः स्वर्ग-नरकादि-सुख-दुःख-रूपस्तज्-जन्यो’नुभवश् चानुकूल-प्रतिकूल-रूपः । तद्-धेतवश् च पुत्र-कलत्र-मित्र-शत्र्व्-आदि-लक्षणा इत्य् अनेक-विधो’चेतन-वर्गस् तेषु निर्विण्णो निर्वेदवान् । एतद् उक्तं भवति—तस्मान् मायी सृजते विश्वम् एतत् तस्मिंश् चान्यो मायया सन्निरुद्धः ।

यो’न्यथा सन्तम् आत्मानम् अन्यथा प्रतिपद्यते । किं तेन न कृतं पापं चौरेणात्मापहारिणा । द्व्य्-अक्षरं तु भवेन् मृत्युस् त्र्य्-अक्षरं ब्रह्म शाश्वतम् ॥

ममेति च भवेन् मृत्युर् न ममेति च शाश्वतम् इति शास्त्र-वचनाज् जात-विवेकः । आत्मात्मीयश् चेतनाचेतन-पदार्थः सर्वो’पि भगवद्-आत्मकत्वेन परतन्त्र-सत्तावत्त्वेन तदीयम् एव । मदीयम् अत्र किञ्चिद् अपि नास्ति, नासीन् न भविष्यति च । तर्हि परकीयेन मया किञ्चित् कियद् अपि स्वीयत्वं कृतं, तत् तु प्रत्युतोक्त-शास्त्र-रीत्या चौर्याद्य्-अपरिमित-पापैर् उभयत्र-दण्ड-पातार्थम् एवेति । तस्मात् तदीयं वस्तु येन केन प्रकारेण तस्मा एव मयार्पणीयम् इति श्रद्धा-विवेक-पूर्वक-निर्वेद-सम्पन्नस् तद्-अर्पण-प्रकार-जिज्ञासुस् तज्-जिज्ञासार्थं गुरुं प्रपित्सुर् मुमुक्षुर् अत्राधिकारीति । परीक्ष्य लोकान् कर्म-जितान् ब्राह्मणो निर्वेदम् आयात्, नास्त्य् अकृतः कृतेन, तद् विज्ञानार्थं स गुरुम् एवाभिगच्छेत् समित्पाणिः । आचार्य-देवो भव ।

यथा सौम्य-पुरुषं गन्धारेभ्यो’भिनद्धाक्षम् आनीय तं ततो विजने विसृजेत् । स यथा तत्र प्राङ् वोवदङ् वा धराङ् वा विसृष्टस् तस्य यथा भिनहनं प्रमुच्य प्रब्रूयाद् एतां दिशं गन्धारा एतां दिशं व्रजेत् स ग्रामाद् ग्रामं पृच्छन् पण्डितो मेधावी गन्धारान् एव सम्पद्येतैवम् इहाचार्यवान् पुरुषो वेद [छा।उ। ६.१४.१-२] इति श्रुतेः ।

न विना गुरु-सम्बन्धं ज्ञानस्याधिगमः कृतः । गुरुः पारयिता तस्य ज्ञानं प्लवम् इहोच्यते ॥

इति मोक्ष-धर्मे शुकं प्रति जनक-वाक्याच् च । किं च श्रोत्रियं ब्रह्म-निष्ठम् ।

त्रिषु वर्णेषु सम्भूतो माम् एव शरणं गतः । नित्य-नैमित्तक-परो मदीयाराधने रतः ॥ आत्मीय-परकीयेषु समो देशिक उच्यते ॥ इति । आचार्यो वेद-सम्पन्नो विष्णु-भक्तो विमत्सरः । मन्त्रज्ञो मन्त्र-भक्तश् च सदा मन्त्राश्रयः शुचिः ॥ गुरु-भक्ति-समायुक्तः पुराण-ज्ञो विशेषतः । एवं लक्षण-सम्पन्नो गुरुर् इत्य् अभिधीयते ॥

इत्य् आदि शास्त्र-लक्षण-सम्पन्नः कारुण्य-वात्सल्य-क्षमार्जव-मार्दवादि-गुणाश्रय एव मुउक्षुणाश्रयणीयो व्यतिरेके दोष-स्मरणात् ।

भिन्न-नावाश्रितः स्तब्धो यथा पारं न गच्छति । ज्ञान-हीनं गुरुं प्राप्य कुतो मोक्षम् अवाप्नुयात् ॥

इत्य् आदिभिः प्रसङ्ग-प्राप्त-गुरु-लक्षणम् उक्तम् । अथ प्रकृतम् अधिकारि-लक्षणम् उच्यते । उपलक्षणं चैतत् श्रद्धा-विवेकार्जवाकिञ्चनानान्य-गतित्वादीनाम् अधिकारि-धर्माणाम् । तत्र श्रद्धा नाम—एवम् एव यथोत्थ त्वम् आत्मानं परमेश्वर त्य् अर्जुनोक्त-रीत्या शास्त्राचार्य-वाक्ये एवम् एवेति निःसंशयेनाध्यवसायः, अन्यथा दोष-स्मरणात् ।

अज्ञश् चाश्रद्दधानश् च संशयात्मा विनश्यति । नायं लोको’स्ति न परो न सुखं संशयात्मनः ॥ [गीता ४.४०] अश्रद्धया हुतं दत्तं तपस् तप्तं कृतं च यत् । असद् इत्य् उच्यते पार्थ न च तत् प्रेत्य नो इह ॥ [गीता १७.२८]

इत्य् आदिना नित्यानित्य-स्वकीय-परकीय-वस्तु-विषयक-ज्ञान-विशेषो विवेकः । मनो-वाक्-कायानाम् अभिन्न-वृत्तित्वम् आर्जवम् । एतौ च पूर्वम् एवोक्तौ । सर्व-साधनानुष्ठान-सामर्थ्यादि-विषयक-कर्तृत्वादि-रूपाभिमानादि-शून्यत्वम् अकिञ्चनत्वम् । हरि-गुरु-व्यतिरिक्त-साधन-फल-सम्बन्ध-रूप-गति-शून्यत्वं, अनन्य-गतित्वम् । अनन्य-गुरु-भक्तिमत्त्वं च । निर्वेदश् चोक्त-लक्षणः । एवं लक्षण-सम्पन्नो’त्राधिक्रियत इत्य् अर्थः। तथा च शास्त्रं श्रद्धया देयं नाश्रद्धया देयम् । श्रद्धयाग्निः समिन्धते । इमं स्तवम् अधीयानः श्रद्धा-भक्ति-समन्वितः इति । यथेह कर्म-जितो लोकः क्षीयते । एवम् एवामुत्र पुण्य-जितो लोकः क्षीयते ।

राज्यं चाहं च रामस्य धर्मं वक्तुम् इहार्हसि । शमो दमस् तपः शौचं क्षान्तिर् आर्जवम् एव च । अहम् अस्म्य् अपराधानाम् आलयो’किञ्चनो’गतिः । त्वम् एवोपाय-भूतो मे इत्य् आदि ।

आचार्य-देवो भव । आचार्योपासनं शौचम् इति । निर्वेदम् आयाद् इत्य् आदि श्रुति-स्मृति-कदम्ब-रूपम् इति सङ्क्षेपः ॥१३॥

—ओ)०(ओ—

(१४)

अथ विषयो निरूप्यते—

विषयः प्रथमार्थः स्यात् तद्-भावापत्ति-लक्षणम् ।
श्रेयः प्रयोजनं ज्ञेयं ज्ञाप्य-ज्ञापक-योगता ॥१४॥

प्रथमस्य कॢ-शब्दस्यार्थः । तथा च जगज्-जन्मादि-हेतुर् मोक्ष-दाता सच्-चिद्-आनन्द-रूपः सार्वज्ञ्य-वात्सल्याद्य्-अनन्तासङ्ख्येय-स्वाभाविकयावद्-आत्म-वृत्ति-सद्-गुण-शक्त्य्-आदि-पूर्णो भगवान् वासुदेवः कृष्ण-पदार्थाभिन्न-कॢ-पदार्थः इति पूर्वम् एवोक्तम् । प्रयोजनं दर्शयति—भगवद्-भावापत्ति-लक्षणं श्रेयः प्रयोजनम् इति । तद् अपि मोक्षो नामेत्य् आरभ्य श्री-भगवद्-अनुभूत्या स्थितिर् इत्य् अन्तेन सन्दर्भेणोक्तम् । सम्बन्धं निरूपयति । ज्ञाप्य-ज्ञापक-योगतेति । योगता नाम सम्बन्ध इत्य् अर्थः । अत्र ज्ञाप्यः प्रथम-पदार्थः । ज्ञापकश् चायं पञ्च-पद-समुदाय इत्य् अर्थः ॥१४॥

—ओ)०(ओ—

(१५)

अथ संस्कारारादि-विधिर् निरूप्यते द्वाभ्याम्—

आदौ गुरौ न्यसेत् प्राणान् आत्मानं धनम् एव च ।
सर्व-सम्बन्ध-विषयं कृत्वा सेवेत नित्यशः ॥१५॥

यदा मुमुक्षुः परिचर्या-यशो-लाभ-लिप्सुः,

कृपा-सिन्धुः सुसम्पूर्णः सर्व-सत्त्वोपकारकः । निःस्पृहः सर्वतः सिद्धः सर्व-विद्या-विशारदः । सर्व-संशय-सञ्छेत्ता नालसो गुरु-राड् अयम् ॥

इति विष्णु-रहस्योक्त-लक्षणादिभिर् गुरुं परीक्ष्य, द्वयोर् योग्यतां निर्णीय, आत्मनि तद्-विषयकौ श्रद्धा-विश्वासौ च परीक्ष्य, तच्-छरणापत्तिम् अभीप्सेत । स गुरुम् एवाभिगच्छेत् समित्-पाणिः श्रोत्रियं ब्रह्म-निष्ठम् ।

त्रायस्व भो जगन्नाथ गुरो संसार-वह्निना । दग्धं मां काल-दष्टं च त्वाम् अहं शरणं गतः ॥ इत्य् आदिना ।

तदा यद्य् उपदेष्टुम् इच्छेत् तर्हि नासंवत्सर-वासिने ब्रूयात् इति श्रुतेः ।

नापरीक्षित-चारित्रे विद्या देया कथञ्चन । यथा हि कनकं शुद्धं ताप-च्छेदन-घर्षणैः ॥ परीक्षेत तथा शिष्यान् ईक्षेत कुल-गुणादिभिः ॥ इति मोक्षधर्मे व्यासोक्तेश् च ।

शिष्यं जाति-गुण-स्वभावादिभिर् अधिकारि-धर्म-विशेषैः स्वात्म-विषयक-श्रद्धा-प्रीति-विश्वासादिभिश् च संवत्सरं वा षण्मासान् वा द्वौ मासौ वैक-मासं वा यथाधिकारं यावद्-अधिकारि-धर्म-सम्पत्ति-निर्णयं तद्-दुष्करम् अध्ययनादि-योगैः परीक्षया तस्याधिकारं निर्णीय तस्मै गुरु-परं परोपदेश-पूर्वकं संस्कृत्य ब्रह्म-विद्याम् उपदिशेत् । तत्-प्रकारश् च नित्य-क्रियां विधाय, उक्त-लक्षणो मुमुक्षुर् उक्त-लक्षणम् एव गुरुम् उपव्रज्य, तद्-अग्रे दण्डवद् भूमौ शरीरं पातयित्वा । त्रायवेत्य् आदि-श्लोक-पठन-पूर्वकं, भो भगवन् त्रि-विध-तापैः, षड्भिर् विकारैः, पञ्च-क्लेशैः, त्रिभिर् गुण-कर्मभिः, शब्दादिभिश् च विषयैः, सदैव सर्वतो ग्रस्तो’हम्, अनन्तासङ्ख्येय-सर्व-प्रकारक-पातकोपपातक-महा-पातकादिभिश् च नितरां पीडितो’हम्, आत्मनि स्वतन्त्र-कर्तृत्व-भोक्तृत्वादिभिः स्वतन्त्र-सत्ताश्रयत्व-रूप-स्वत्वाभिमानेन देहेन्द्रिय-मनो-बुद्ध्य्-आदिषु स्व-भोग्यताभिमानेन तत्-तत्-सम्बन्धाभिमानेन च तत्र तत्र सम्बन्धस् तत्-तत्-सम्बन्धाभिनिवेश-जन्य-क्लेशाज् जात-वेपथुस् तेषु निर्विण्णस् तेभ्यो मुमुक्षुर् दावाग्नि-पीडितो गङ्गोदकम् इव त्वां शरणं गतो’स्मि । भृत्यो भूत्वा स्वामिनं त्वां वृणोमि । पुत्रो भूत्वा पितरं त्वां वृणोमि । आत्मीयो भूत्वा सर्व-सम्बन्धावच्छिन्नम् आत्मानं त्वां वृणोमि । सर्व-साधन-शून्यम् अकिञ्चनं सर्व-पाप-युक्तम् अगतिं चापि मां केवल-स्वासाधरण-कारुण्यादि-गुण-वशात् सर्वात्म-भावेन मया निवेदितम् आत्मानं, आत्मीय-वर्गं चात्म-सात्-कृत्वा, सर्व-सम्बन्धेन मम गोप्ता भूत्वा माम् अनुगृहाणेति प्रार्थयेद् इति गोप्तृत्व-वरण-विधिः ।

अथ गुरुस् तत्-परिदेवनं श्रुत्वा समीपे स्थापयित्वा, स्व-हस्तेन तद्-धस्तं गृहीत्वा, स्व-चरणे निधाय, यदि संसार-भीतस् त्वं मम भृत्यो’सि इति पृष्ट्वा, भवामीति तिर्ः-कृत्वस् तन्-मुखेन वाचयित्वा, यदि भृत्यो’सि तर्हि तत्त्वेन त्वाम् आत्म-सात्करोमीति वदेत् । अथ भूयो भूय एवम् एव सर्व-सम्बन्धानुसारेण त्वं पृष्ट्वा तेन वाचयित्वात्म-सत्करोमीति वदेत् । इत्य् आत्म-सात्कृत्य, तव गोप्ता भवामि मा भीर् इति वदेत् । इत्य् आत्म-सात्करण-विधिः ।

अथ तन्-मस्तकादौ तत्-तन्-मन्त्रैः स्व-हस्तेन तिलकं कुर्यात् । ततश् च तम् अङ्ग्के निधाय तस्य दक्षिण-हस्तं स्व-कण्ठे कृत्वा परम्पराम् उपदिशेत् । स आचार्य-वंशो ज्ञेयो भवति, आचार्याणाम् असाव् असौ इति श्रुतेः ।

अथ स्वाराज्याभिषेकं, स्वराड् भवतीति मन्त्रेण स्वाराज्यम् । तत्र गुरोर् अङ्कम् एव तव सिंहासनं । गुरु-दक्षिण-हस्त एव तव छत्रम् । तद्-वाम-हस्त एव चामरम् । तद्-दत्ता स-परिकरा विद्यैव तव सेना । श्री-भगवत्-सम्बन्ध एव तव राजधानी । श्री-भगवद्-भावापत्तिर् एव जय-श्रीः । कामादि-निवृत्ति-पूर्वकं प्रकृति-सम्बन्ध-ध्वंस एव दिग्-विजय इत्य् अशिषं कृत्वा ।

शिष्य पुत्र महाभाग समाहित-मना भव । अभिषेकं ते ह्य् अकरवं ब्रह्म-स्वाराज्य-सिद्धये । संसार-भयम् उत्सृज्य ममाङ्कारोहणं कुरु । आत्मानं तत्र निःक्षिप्य निर्भयो भव । सुव्रत ब्रह्म-विद्यां प्रदास्यामि यज् ज्ञात्वामृतम् अश्नुते ।

यया सर्वाणि भूतानि पश्यस्य् आत्मन्य् अथो हरौ । यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः । यस्मिन् स्थितो न दुःखेन गुरुणापि विचाल्यते । तं विद्याद् दुःख-संयोग-वियोगं योगम् आत्मनः । लभ्यते परमं धाम यतो नावर्तते बुधः ॥

इति पाठेन ततः शान्ति-पाठ-पूर्वकं तस्य दक्षिण-कर्णे मन्त्रं जप्त्वा रहस्य-षोडशीं श्रावयेत् । ततो मुमुक्षुर् अङ्काद् अवरुह्य दण्डवत् प्रणमेत् । ततो गुरुस् तद्-धस्ते जलं निधाय, स्व-हस्ते श्री-मूर्ति-शालग्रामं स्थापयित्वा, तन्-मुखेनात्मात्मीयार्पण-रूपं सङ्कल्पं पठित्वा, तन्-मुखेन पाठियत्वात्माभिन्नाय श्री-भगवते समर्पणं कारयित्वा, तस्य दक्षिण-हस्ते गृहीत्वा,

श्री-कृष्ण रुक्मिणी-कान्त गोपी-जन-मनोहर । स्वानुग्रहेण भगवन्न् आत्म-सात्कुरु केशव ॥ संसार-ताप-मग्नो’यम् आगतः शरणं तव । स्व-वात्सल्य-गुणेनैनं ह्य् आत्म-सात्कुरु माधव ॥

इत्य् आदि मन्त्रैस् तद्-धस्तं ग्राहयित्वात्म-सात्कारयेत् । ततः स्व-पाद-तीर्थं प्रसादं च दत्त्वालिङ्गनं कृत्वा मया त्वं सर्व-भावेनात्म-सात्कृतः सर्व-सम्बन्धानुसारेण तत्-तद्-अवस्थोचिता परिचर्या भृत्य-पुत्रादिवत् कर्तव्येति आदिश्य, भगवन्न् एवम् एवेति त्रिः-कृत्वो वाचयेद् इति । ततस् तेन सह निर्मायिको भूत्वा सर्व-सम्बन्धानुसारिणीं निरतिशयां प्रीतिं कृत्वा, तत्-तद्-बुद्ध्य्-अनुसारेण देश-कालानुसारेण चोपदेशं कुर्यात् इति सङ्क्षेपः ।

अथ श्री-भगवद्-अर्चार्थं श्री-विग्रहं यथा-मति उपचारैः पूजयित्वा, तच् छिरसि निधाय, एष तव स्वामी सर्व-सम्बन्ध-विषय आत्मा यस्मै त्वया आत्मीयं सर्वं समर्पितं, ममापि तथैव । अस्मिंश् चात्म-बुद्ध्या सर्व-सम्बन्धानुसारिणीं निरतिशयां प्रीतिं कृत्वा तत्-तद्-अवस्थोचिता परिचर्या नित्यशः कार्येत्य् उक्त्वा श्री-भगवन्तं पूर्ववत् सम्यक् भूयशः प्रार्थयित्वा, तं दद्याद् इति । एतद् अभिप्रायं बुद्धौ निधाय आदाव् इति, प्राणादि-शब्दो’त्रोपलक्षणार्थः । देहेन्द्रिय-मनः-प्राणादिकं सर्वम् आत्मीय-वर्गम् इत्य् अर्थः । आत्मानं कर्तृत्व-भोक्तृत्वाद्य्-आश्रयाभिन्नं म-कारार्थाभिन्नास्मद्-अर्थम् इति यावत् । अहम् अपि सवतन्त्र-सत्ताको न भवामि, देहादि-वर्गो’पि मदीयं न भवति, किन्तु तौ तदीयाव् एवेति कृत्वा उभयोः स्वत्वं गुरौ न्यसेत् । तदीयत्वेन तदायत्तं कुर्यात् । तत्-प्रकारश् च पूर्वम् एवोक्तः । सर्व-सम्बन्ध-विषयं सर्व-सम्बन्धानुसारि-प्रीति-विषयं कृत्वा नित्यशः सेवेद् इति योजना ।

गुरुर् एव परं ब्रह्म गुरुर् एव परायणम् । गुरुर् एव परा विद्या गुरुर् एव परा गतिः ॥ अर्चनीयश् च वन्द्यश् च कीर्तनीयश् च सर्वदा । ध्यायेज् जपेन् नमेद् भक्त्या भजेद् अभ्यर्थयेन् मुदा ॥ उपायोपेय-भावेन तम् एव शरणं व्रजेत् । शरीरं चासु विज्ञानं वासः कर्म-गुणान् वसून् ॥ गुर्व्-अर्थं धारयेद् यस् तु स शिष्यो नेतरः स्मृतः ॥ इति जयदाख्यान-संहितायाम् । गुरुर् एव परं ब्रह्म गुरुर् एव परा गतिः । स हि विद्यां जनयति तच् छ्रेष्ठं जन्म । तस्मै न द्रुह्येत् कदाचन । इत्य् आदि श्रुतेः ।

सर्व-सम्बन्धवत्त्वं च श्रूयते, माता पिता तथा भ्राता निवासः शरणं सुहृन् नारायण इत्य् आदिना ।

पितासि लोकस्य चराचरस्य त्वम् अस्य पूज्यश् च गुरुर् गरीयान् । न त्वत्-समो’स्त्य् अभ्यधिकः कुतो’न्यो लोक-त्रये’प्य् अप्रतिम-प्रभाव ॥ तस्मात् प्रणम्य प्रणिधाय कायं प्रसादये त्वाम् अहम् ईशम् ईड्यम् । पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियायार्हसि देव सोढुम् ॥ [गीता ११.४३-४४] अहं तावन् महाराज पितृव्यं नोपलक्षये । भ्राता भर्ता च बन्धुश् च पिता च मम राघव ॥ इति । त्वम् एव माता च पिता त्वम् एव त्वम् एव बन्धुश् च सखा त्वम् एव । त्वम् एव विद्या द्रविणं त्वम् एव त्वम् एव सर्वं मम देवदेव ॥ इत्य् आदिना स्मर्यते च ।

ननु प्रयुक्त-शास्त्रस्येश्वर-सम्बन्ध-परत्वेन भिन्न-विषयत्वात् कथम् अत्र प्रमाणम् इति चेन्, न । तयोर् अभिन्नत्वात् । तथा हि—

यस्य देवे परा भक्तिः यथा देवे तथा गुरौ । तस्यैते कथिता ह्य् अर्थाः प्रकाशन्ते महात्मनः ॥ इत्य् आदि श्रुतेः ॥१५॥

—ओ)०(ओ—

(१६)

तद् एव दर्शयति—

देहेन्द्रिय-मनः-प्राणैर् मायां हित्वा समाहितः ।
भृत्यवत् पुत्रवत् सेवेत् प्रियावन् मित्रवत् तथा ॥१६॥

देहेन्द्रियादि-निष्ठां मायां तेषु स्वकीयत्वाभिमान-लक्षणां हित्वातदीयत्वाध्यवसायेनैतैर् एव देहादिभिर् भृत्यादिवत् सेवेद् इत्य् अन्वयः । उत्तरोत्तर-निर्मायकत्वे निरतिशय-प्रेष्ठत्वे च दृष्टान्ता बोध्याः । भृत्यात् पुत्रस्य तस्माच् च प्रियाआस् ततो’पि मित्रस्य न्रिमायिक-प्रीत्याधिक्यं लोके प्रसिद्धतरम् इति भावः । तथा शब्दश् चकारार्थो ज्ञेयः । यद् वा, दृष्टान्त-समन्वयः । यथा भृत्य-पुत्रादयः स्व-प्रतियोगिनः स्वामि-पित्रादीन् सेवन्ते तद्वद् इत्य् अर्थः ॥१६॥

—ओ)०(ओ—

(१७)

अथ गुरु-शिष्ययोः कृत्य-शेषं मन्त्र-वृत्ति-पदार्थ-कथन-प्रयोजनं च व्यञ्जयन् निरूप्यते—

या देया गुरुणा विद्या भव-सम्बन्ध-ध्वंसिनी ।
तां तद्-उक्तेन मार्गेण धारयेद् वैष्णवोत्तमः ॥१७॥

साङ्गास-परिकरेति शेषः । या स्वासाधारणैर् अङ्गैः प्रकारैः परिकरेण च सम्पन्नेत्य् अर्थः । तत्राङ्गानि मुद्रा-न्यास-र्षि-च्छन्दो-दैवतानि, प्रकाराश् च स-नियमा जप-ध्यानानुष्ठानादि-विषयाः । अर्थ-मीमांसा-प्रकारश् च ।

साङ्गः स-मुद्रः स-न्यासः सर्षि-च्छन्दस् तथैव च । स-दैव-तत्-प्रकारश् च मन्त्रो देयो मनीषिभिः ॥ इति श्री-श्रीनिवासोक्तेः । साङ्गं स-मुद्र-स-न्यासं स-र्षि-च्छन्दः-स-दैवतम् । स-दीक्षा-विधि-साध्यानाम् इत्य् आरभ्य, प्रजपन् वैष्णवान् मन्त्रान् यं यं पश्यति चक्षुषा । पदाव् आसंस्पृश्येत् सद्यो मुच्यते’सौ महा-भयात् ॥ दीयते ऐश्वरं ज्ञानं क्षीयते पाप-पञ्जरः । प्राप्यते वैष्णवं धाम तस्माद् दीक्षोच्यते बुधैः ॥ अशुचिर् वा शयानो वा तिष्ठन् गच्छन् सदापि वा । मन्त्रैक-शरणो विद्वान् मनसैव सदा जपन् ॥ चौर-दुष्ट-मृग-व्याल-सङ्कुले’पि वने चरन् । असाधितं साधितं वा जपन् मन्त्रं न बाध्यते ॥ इत्य् अन्ते पद्म-पुराणोक्तेश् च ।

तत्र समुद्रा-न्यासादीनां सदाचार-विषयत्वात् तत्रैव द्रष्टव्याः । अत्रार्थ-निरूपण-प्रकरणत्वाद् अर्थ-मीमांसा-प्रकारश् च निरूप्यते । तथा हि—आधिभौतिकादि-तापेष्व् आपन्नेषु तिरस्कारादिषु म-कारार्थानुसन्धान-पूर्वकं क्ल्-अर्थ-मीमाषा कर्तव्या । तत्-प्रकारश् च म-कारार्थो मुक्तो वा प्रकृति-सम्बद्धो वा सदैव क्ल्-अर्थाभिन्न-श्री-पुरुषोत्तमायत्त-स्वरूप-स्थिति-प्रवृत्तिकत्वात् । तन्-नियमनम् ऋते तृण-मात्र-चालने’प्य् अनीशस् तस्माद् अस्मादादीनां केषाञ्चिद् अपि सुख-दुःखादि-हेतुर् भवितुं नार्हति । अपि तु मदीयानादि-कर्मानुसारेणैवैतान् द्वारीकृत्य स एव प्रधान-हेतुस् तन्-निरासकश् चेति ।

बुद्धिर् ज्ञानम् असम्मोहः क्षमा सत्यं दमः शमः । सुखं दुःखं भवो’भावो भयं चाभयम् एव च ॥ अहिंसा समता तुष्टिस् तपो दानं यशो’यशः । भवन्ति भावा भूतानां मत्त एव पृथग्-विधाः ॥ [गीता १०.४-५] इत्य् आदि-शास्त्रात् ।

एतेषु सुख-दुःखादि-हेत्व्-आभासेषु तत्त्व-बुद्धिम् आरोप्य राग-द्वेषादिनात्म-नाशो न कार्यः । तन्-निवृत्तये देवान्तर-साधनान्तर-मतान्तराद्य्-अपेक्षां विहाय स एव पूर्वोक्त-कारुण्य-वात्सल्यादि-गुणार्णवः समाश्रयणीयः ।

तम् एव शरणं गच्छ सर्व-भावेन भारत । तत्-प्रसादात् अवाप्नोषि शाश्वतं पदम् अव्ययम् ॥ [गीता १८.६२]2 इत्य् आदि-शास्त्रात् ।

तद्-आश्रयणे’पि न स्वातन्त्र्यम् अपि तु तत्-कारयितृत्वम् एव भाव्यम् । किं च, शारीरेषु मानसेषु शिरो’क्षिरोगादि-काम-क्रोध-लोभ-भय-मोहासूयेर्ष्यादिषु आध्यात्मिकेषु तापेषु प्राप्तेषु म-कारार्थान्तर्गतस्य स्वस्य सर्वावस्थासु सर्व-ज्ञान-क्रियादिषु च परायत्तत्त्वं निश्चिन्वानः कर्मणो’पि तन्-निमित्ततया प्रसिद्धस्य जडत्व-परतन्त्रत्वाभ्यां निमित्ताभास-मात्रत्वम् एव विज्ञाय प्रधान-कारण-भूत-प्रयोजक-कर्तारं तम् एवोक्त-प्रकारेण स्मृत्वा पश्चात्-तापादीन् अपि विहाय येन प्रयोजकेन सर्वात्मना नियन्त्रा प्रेरितो’हं स्व-कर्मणा ईदृग्-अवस्थां प्राप्तो’हं, स एव निवारयिष्यतीति । अहं त्वा सर्व-पापेभ्यः, अभयं सर्व-भूतेभ्य इति तत्-प्रतिज्ञां स्मृत्वा यदि किञ्चित् कालम् उपेक्षितो’स्मि क्षत्य्-अभावाद् अत्रापि किञ्चित् सौकार्यं, तेन मत-सखत्वान् निश्चितम् एव । तस्य निरतिशयानन्त-स्वाभाविक-कारुण्य-सौहार्दादि-गुणार्णवत्वात् । सर्वस्य शरणं सुहृत् इति श्रुतेः । तस्माद् यावत्-कालं तद्-इच्छया प्राप्तं क्लेशादि मयावश्यं भोग्यम् एवेति निश्चितस्य तम् एव प्रथम-पदार्थाभिन्नं श्री-कृष्णं संश्रयेद् इति ।

एष एव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषते । एष एवासाधु कर्म कारयति तं यमेभ्यो लोकेभ्यो’धो निनीषते । इति श्रुतेः ।

किं च, ईश्वर-विषयक-विश्वासादौ ह्य् असम्भावनादि जातायां सत्यां द्वित्यार्थाभिन्नं श्री-गुरुं गमयितारं स्मृत्वा, तद् उक्तं सम्यग् विचार्य तं सम्यक् प्रार्थ्य तेन निराकारयेत्। हरौ रुष्टे गुरुस् त्राता इति शास्त्रात् । आत्मनि स्वातन्त्र्य-विष्यक-मतौ जातायां स्वाहा-पदार्थः सञ्चिन्तनीयः, दत्तापहारि-दोष-ज्ञानवता मुमुक्षुणेति । यो’न्यथा सन्तम् आत्मानम् इत्य् आदि शास्त्रात् । इति-पदार्थ-निर्णय-प्रयोजनम् । अस्याः परिकरश् च विवेक-वैराग्यादिः । स च पूर्वम् एवोक्तः । एतैर् अङ्गैः सहिता विद्या गुरुणा शिष्याय प्रदेयेति भावः ।

विद्यां समाहितो भूत्वा ग्राहयेद् उपधिं विना । तथौपनिषदां विश्वास-ज्ञान-वर्धिनीम् । अन्याम् आध्यात्मिकीं विद्यां शिष्यावस्थानुसारतः ॥ इत्य् आदि शास्त्रात् ।

अथ शिष्य-कृत्य-शेषम् आह—तां भव-सम्बन्ध-ध्वंसिनीं तद्-उक्तेन तद्-उपदिष्ट-मार्गेण वैष्णवोत्तमो धारयेद् इति योजना । भव-सम्बन्ध-ध्वंसत्वाद् एव तस्या अवश्यानुष्ठानं विधीयते । भव-सम्बन्ध-ध्वंसिनीम् इति । अनादि-प्रकृति-सम्बन्ध एव भवः, तन्-मूल-कारणत्वात् । तद्-ध्वंसस्यासाधारण-हेतुर् उक्त-लक्षण-श्रेयः प्राप्त्य्-असाधारणोपायम् इत्य् अर्थः । सम्बन्ध-शब्दो’त्र मायावादि-मते’तिप्रसङ्ग-वारणार्थः, तैः स्वरूप-नाशाभ्युपगमात् । सिद्धान्ते सम्बन्धस्यैव ध्वंसाभावाभ्युपगम इति विवेकः, भूयश् चान्ते विश्व-माया निवृत्तिः, माम् एव ये प्रपद्यन्ते मायाम् एतां तरन्ति ते इति श्रुति-स्मृतिभ्यां निवृत्ति-तरण-शब्द-प्रयोगात् । सम्बन्ध-ध्वंस एवोक्त इति भावः । मार्गश् च ।

नमस्कृत्य गुरुं दीर्घं प्रणामैस् त्रिभिर् आदृतः । तत्-पादौ गृह्य मूर्ध्नि स्वे निधाय विधिनान्वितम् ॥ गृह्णीयान् मन्त्र-राजं तं निधि-काङ्क्षीव निर्धनः । दत्त्वा तु दक्षिणां तस्मै यथा-शक्ति यथा-विधि ॥ येनैव गुरुणा यस्यान्या विद्या प्रदीयते । तस्य वैकुण्ठ-दुग्धाब्धि-द्वारकाः सर्व एव सः । इत्य् आदि ।

विशेषश् च आदौ गुराव् इति श्लोकेन पूर्वम् एवोक्तः । वैष्णवोत्तम इति । उत्तमत्वं नाम अन्य-देवान्य-साधनान्य-प्रयोजनान्य-सम्बन्ध-शून्यत्वे सति श्री-हरि-गुरु-विषयक-सर्व-सम्बन्धाश्रयत्वं तत्त्वं च गुर्व्-आज्ञानतिक्रान्ति-पूर्वकं तत्रेश्वर-बुद्ध्या तत्-तद्-अभावानुसारेण तत्-तद्-अवस्तोचित-सर्व-विध-परिचर्यानुष्ठानाश्रयत्वम् । तत्त्वं च तद् एवान्तरङ्गतमत्वम् । विशेषो द्वितीय-तन्त्र-रहस्ये वक्ष्यते लक्षण-प्रमाणोदाहरणैः ।

गुरु-सेवा-रतः शिष्यः स्निग्धः सर्व-निवेदकः । गुरुष्व् ईश्वर-भावश् च दण्डवत् प्रणमेद् गुरुम् ॥ अप्रमत्तोद्यमः शश्वद् गुर्व्-आज्ञां शिरसा मुदा । गुरुं परिचरेद् भक्त्या भावज्ञस् तोषयेद् गुरुम् ॥ इत्य् आदि पूर्वाचार्य-वाक्यात्।

किं च, यथा श्री-परमेश्वरः, यथा क्रतुर् अस्मिं लोके इति । ये यथा मां प्रपद्यन्ते इत्य् आदि श्रुति-स्मृतिभ्यां तत्-तद्-भक्तस् तत्-तद्-भावानुसारेण स्व-कारुण्य-वात्सल्यादिना तेषु तेषु तथा तथा निरतिशयां प्रीतिं करोति, सा चार्जुनादिषु गोपालादिषु लोक-वेदयोः प्रसिद्धतमा । उक्तं च श्री-मुखेन वैष्णवे—

दास्यम् ऐश्वर्य-मार्गेण ज्ञातीनां च करोम्य् अहम् । अर्ध-भोक्ता च भोगानां वाग्-दुरुक्तानि च क्षमे । अहं वो बान्धवो जात [वि।पु। ५.१३.१२] इत्य् आदिना ।

न च तस्य निरतिशयानुग्रह-मात्र एव । तथा तादृग् अन्तरङ्गतमे’धिकारिणि गुरुर् अपि केवलं स्व-निरतिशयानुग्रहेणैव तत्-तत्-सम्बन्ध-प्रतियोगितया तत्-तद्-भावानुसारिणीं निरतिशयां प्रीतिं कुर्याद् इत्य् एतद् अभिप्रायेण गुरुष्व् ईश्वर-भावश् चेति विशेषण-सङ्ग्रहः । परम्पराम् उपदिशेद् गुरूणां परमो गुरुः, अनुकाङ्क्षन् सदा शिष्यं गुरुर् औरस-पुत्रवद् इति वचनात् । पुत्रवद् इत्य् उपलक्षणम् अन्येषाम् अपि सम्बन्ध-विशेषाणाम्, तत्-तत्-सम्बन्ध-प्रतियोगित्वाद् इत्य् अर्थः ॥१७॥

—ओ)०(ओ—

(१८)

अथास्य शास्त्रस्य नित्योपासनीयत्वं रहस्यतमत्वान् निरतिशयेन गोपनीयत्वं च व्यञ्जयन् सम्प्रदानासम्प्रदानयोर् विवेकं दर्शयन्न् उक्तार्थं स्मारयति—

इति गुह्यतमं शास्त्रं रहस्यं साधु-सत्तमैः ।
ऋते शिष्यान् न देयं चानुष्ठेयं गुरु-योगतः ॥१८॥

मन्त्र-रहस्यं मन्त्र-निष्ठ-रहस्य-प्रकाशकं शास्त्रं मन्त्र-विषयाभिन्न-श्री-भगवत्-स्वरूप-गुणादि-विषयक-साक्षात्कारानुभवासाधारणम् इति यावत् । भगवद्-वाचकत्वात् तत्-स्वरूपम् एवेति ज्ञेयम् । साधु-सत्तमैर् इति । पूर्वोक्त-लक्षण-सम्पन्नैर् मुमुक्षुभिर् इत्य् अनेनास्याधिकारी स्मारितो भवति । गुरु-योगत इति । गुरूपसत्ति-पूर्वकं पूर्वोक्त-प्रकारेणेति विधान-स्मारणम् । अत्र त्रिविधाराधनं नित्यं करणीयतया विधीयते । मन्त्र-राधनं तद्-उपदेष्टृ-आराधनम्, तद्-विषयाराधनं च त्रयाणाम् अभिन्नत्वात् । तथा च, यत् तत् पदं पञ्च-पदं तद् एव वासुदेवो न यो’तो’न्यद् अस्ति [गो।ता।उ। १.३२] इत्य् आदि श्रुत्या मन्त्र-तद्-वाच्ययोर् अभिन्नत्वोक्तिः । यस्य देवे परा भक्तिर् यथा देवे तथा गुरौ [श्वे।उ। ६.२३] इत्य् आदि श्रुत्या मन्त्र-वाच्यस्य श्री-भगवतो गुरुणाभेदो’भिधीयते । तत्र मन्त्राराधनं नाम स्पष्टाक्षरोच्चारण-पूर्वकं जपः । पूर्वोक्त-रीत्या तत्-तद्-देश-कालानुसारेण नित्यं प्रथमार्थ-मीमांसयार्थावधारणं च । तद्-उपदेष्टा च शास्त्र-लक्षण-सम्पन्नो गुरु-देव एव । तद्-उपासन-प्रकारश् च पूर्वम् एवोक्तः । विषयो’प्य् उक्त-लक्षणः प्रथम-पदार्थाभिन्नो भगवान् श्री-कृष्णस् तद्-उपासनं च गुरूपदिष्ट-प्रकारेणात्मात्मीय-सम्बन्धानुसन्धान-पूर्वकम्, आत्म-कर्तृत्वाद्य्-अभिमान-त्यागेन तत्-प्रयोज्यत्वानुसन्धानेन तत्-तद्-अवस्तोचिताभिगमनोपादानादि-क्रमेण योग-पर्यन्तं ज्ञेयम् । तम् एव विशिनष्टि—तस्य दौर्लभ्यं द्योतयन् गुह्यतमम् इति । निरतिशयेन गोपनीयम् इति ।

सर्व-गुह्यतमं भूयः शृणु मे परमं वचः । इष्टो’सि मे दृढम् इति ततो वक्ष्यामि ते हितम् ॥ [गीता १८.६४] इति भगवद्-उक्तेः ।

अत एव भगवत्-प्रेष्ठाधिकारिकत्वेनान्यास्यानधिकारित्व-सूचनाद् अन्यस्मै न दातव्यम् इति। अधिकारिणि संस्कार-रूपं गुणं विधत्ते । ऋते शिष्यान् न देयं चेति । शिष्यो’प्य् अत्रोक्त-लक्षणो’न्तरङ्गतम एव विवक्षितः, तस्यैव प्रकरणत्वात् । अन्य-शिष्यस्यापि व्यावृत्तिः फलिता बोध्या एतद् उक्तं भवति शिष्य-विवेकस् तावच् चतुर्विधः, शिष्य-मात्रान्तरङ्गान्तरङ्गतरान्तरतम-भेदात् । तेष्व् अन्तरङ्गतम एवाधिकारी । अन्येषां व्यावृत्तिः । शिष्य-शब्द-योगश् चात्र कैमुत्यार्थः । यदि शिष्यस्यात्रासम्प्रदानत्वम्, तर्हि अन्यस्य का वार्तेत्य् अर्थः । किं च, स्व-गुरुणा साक्षात् शिक्षितायापि तद्-आज्ञामृते न दातव्य एव । तत्रायं विवेकः । पूर्वं स्व-गुरु-शिक्षितो’पि चेज् जिज्ञासेत् तदासौ वक्तव्यः । आचार्याद् ध्य् एव हि विद्या विहिता साधिष्ठं प्रापयते इति नियम-श्रुतेः । एव-कारेणान्यस्माद् गृहीता ह्य् अनिष्ट-प्राप्ति-हेतुर् इति । तस्माद् एव त्वया ग्राह्येति । एवं तत्-प्रार्थना-प्रीतेन श्री-गुरुणा स्व-मुखेनैवोपदिष्टश् चेद् इष्टापन्नतमः । तद्-अर्थे’साव् आज्ञप्तश् चेन् न तद्-अधिकार-विशेषं कञ्चिद् अप्य् अनवगम्य तस्मै ह्य् उपदिशेत् । नात्र को’पि दोष-गन्धः । अन्यथा शास्त्राचार्य-नियमोल्लङ्घनाद् आचार्य-वैमुख्यापत्त्या, उभयोर् निष्ठा-भङ्गाद् भ्रंश एव । यदि दातुम् अपेक्षते, पुत्राय शुश्रूषवे दास्यत्य् अन्यस्मै शिष्याय च इति नियम-श्रुतेः ।

अथ श्री-गुरुणान्यत्रावस्थितं लीलयान्तर्हितं वा तच्-छिक्षितस्य कस्यचिद् एतद्-विषयका जिज्ञासा जाता चेत् तर्हि पूर्ववत् तस्य स्व-विषयकं श्रद्धा-विश्वास-प्रीति-गौरवादिकं तद्-अधिकार-विशेषांश् अनिर्णीय, परीक्षा-विशेषाश् च गृहीत्वा ब्रूयात् । अभिजन-विद्या-समुदितं समीहितं संस्कर्तारम् अभीप्सेत् इत्य् आपस्तम्ब-वचनात् । गुरोर् ज्ञानवत्तादिकम् अनुमाय शिष्येणोपसत्तिः कार्येति न्यायाच् च । तत् त्वय मयि गुरुत्वाधिकारं निर्ण्य निःसंशयेन भाव्यम् इति । यदि तेन तथाभ्युपगतस् तर्हि शास्त्र-विधिना तं संस्कृत्य कामम् उपदिशेत् इति सम्प्रदाय-राद्धान्तः3

अपि च क्वचिच् च गुह्यतमं पद-स्थाने तोष-करम् इति पाठः । तथा च तस्य प्राक् भगवच्-छब्दो योजनीयः । भगवत्-तोष-करं भगवदीय-निरतिशय-प्रसाद-साधारण-कारणम् इति । निरतिशय-प्रसाद-फलं चेतना-विनाभावः नित्य-सान्निध्यम् इति भावः । स च द्विविधः । प्रपत्ति-व्याजेन तुष्टस्यास्यासाधारण-कारुण्यादि-सिन्धोः श्री-भगवतः स्वाश्रित-विषयक-नित्याभियोगः आद्यः ।

सन्धिं च योगं च सन्धत्ते ब्रह्मणे दृशो रमते । तस्मिन् नु जीर्णे शयाने नैनं जहात्य् अहःसु पूर्वेषु ॥ इत्य् आदि तैत्तिरीयाम्नायात्। न त्यजेयं कथञ्चन नारायणस् तम् अन्व् आस्ते । वत्सं गौर् इव वत्सला इत्य् आदि वचनाच् च ।

द्वितीयश् च प्रपन्नस्य स्व-कारित-स्व-विषयक-प्रपत्ति-व्याजोद्बुद्ध-निरतिशय-कारुण्यादि-प्रयुक्त-निरतिशय-प्रसाद-जन्य-निरतिशय-प्रीति-कारित-प्रपत्तव्य-विषयक-नित्याभियोग इति।

येन येन धाता गच्छति तेन तेन सह गच्छति इति श्रुतेः । तेषां सतत-युक्तानां भजतां प्रीति-पूर्वकम् । [गीता ९.१०] यन् मयत्वेन गोविन्दे ये नरा न्यस्त-चेतसः । विषय-त्यागिनस् तेषां विज्ञेये च तद्-अन्तिके । इत्य् आदि-स्मृतेश् च ।

इति ओं तत् सद् इति श्री-रहस्य-षोडशी मन्त्रार्थ-रहस्य-टीका सम्पूर्णा ।

—ओ)०(ओ—


  1. सजातीयत्वाभावद् इत्य् अपि पाठः । ↩︎

  2. तत्-प्रसादात् परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् । ↩︎

  3. सिद्धान्तः ? ↩︎