०८

अथान्तरं वश्यकरः प्रयोगः कथ्यते-

अथोच्यते वश्य-विधिः पुरोक्त-
दशार्णतो ऽष्टादश-वर्णतश् च ।
स्मृत्यैव यौ सर्व-जगत् प्रियत्वं
मनू मनुज्ञस्य सदा विधत्तः ॥ क्र्द्_८।१ ॥

गोविन्द-भट्टाचार्यः

पूर्वोक्त-दशाक्षरस्याष्टदशाक्षरस्य च यौ मन्त्रौ स्मरण-मात्रेण साधकस्य सर्व-जन-वल्लभत्वं सर्वदा कुरुतः ॥ क्र्द्च्_८।१ ॥


फुल्लैर् वन्य-पसूनैर् अमुम् अरुणतरैर् अर्चयित्वा दिनादौ
नित्यं नित्य-क्रियायां रतमथदिनमध्योक्त-क्प्त्या मुकुन्दम् ।
अष्टोपेतं सहस्रं दश-लिपिम् अनुवर्य जपेद् यः स मन्त्री
कुर्याद् वश्यान्य् अवश्यं मुखर-मुख-भुवां मण्डलान् मण्डलानि ॥ क्र्द्_८।२ ॥

गोविन्द-भट्टाचार्यः

पुष्पितैः वनोद्भव-पुष्पैर् अतिलोहितम् अमुं मुकुन्दं नित्यं सर्वदा नित्य-कर्मानुष्ठान-निष्ठं दिनादौ प्रति प्रत्यहः मध्याह्नोक्त-पूजा-प्रकारेण पूजयित्वा यो मन्त्री दशाक्षरं मन्त्र-श्रेष्ठम् अष्टाधिकं सहस्रं जपेत् । मण्डलाद् एव पञ्चाशद्-दिनाद् अर्वाक् मुखर-मुख-भुवां विद्वद्-ब्राह्मणानां मण्डलानि समूहान् अवश्यं वश्यानि कुर्याद् वशयतीत्य् अर्थः ॥ क्र्द्च्_८।२ ॥


क्षत्रिय-वैश्य-शूद्रस्यापि प्रयोग-त्रयं दर्शयति-

जाती-प्रसूनैर् वर-गोप-वेषं
क्रीडा-रतं रक्त-हयारि-पुष्पैः ।
नीलोत्पलैर् गीति-रतं पुरोवद्
इष्ट्वा नृपादीन् वशयेत् क्रमेण ॥ क्र्द्_८।३ ॥

गोविन्द-भट्टाचार्यः

वर-गोप-वेषं श्रेष्ठ-गोप-रूप-धरं श्री-कृष्णं विचिन्त्य जाती-पुष्पैः पूर्वोक्त-प्रकारेण पूजयित्वा दशाक्षर-मन्त्रम् अष्टोत्तर-सहस्रं जप्त्वा क्षत्रियं वशयेत् क्रीडासक्तं ध्यात्वा रक्त-करवीर-पुष्पैः पूर्वोक्त-प्रकारेण पूजयित्वा दशाक्षर-मन्त्रम् अष्टोत्तरं सहस्रं जप्त्वा वैश्यं वशयेत् गीति-रतं गीतासक्तं ध्यात्वा नीलोत्पलैः पूर्वोक्त-प्रकारेण पूजयित्वा दशाक्षर-मन्त्रम् अष्टोत्तर-सहस्रं जप्त्वा शूद्रं वशयेत् इत्य् अनेन प्रकारेण नृपादीन् वशयेद् इत्य् अर्थः ॥ क्र्द्च्_८।३ ॥


प्रयोगान्तरम् आह-

सित-कुसुम-समेतैस् तण्डुलैर् आज्य-सिक्तैर्
दश-शतम् अथ हुत्वा नित्यशः सप्त-रात्रम् ।
कच-भुवि च ललाटे भस्म तद् धारयन्ना
वशयति मनुजस् त्रीं सापि नॄंस् तद्वद् एव ॥ क्र्द्_८।४ ॥

गोविन्द-भट्टाचार्यः

श्वेत-पुष्प-सहितैः श्वेत-तण्डुलैर् घृत-मिश्रित-दशाक्षर-मन्त्रेण दश-शतं हुत्वा नित्यशः सप्त-दिन-पर्यन्तं तद् अनु तद् धोम भस्म कच भुवि शिरसि ललाटे च धारयन् ना पुरुषः मनुज-स्त्रीं मनुष्य-नारीम् इति रुद्र-धरः । तरुणीं स्त्रियं वशयतीति त्रिपाठितः । सापि स्त्री अनेन प्रयोगेण नॄन् वशयेद् इत्य् अर्थः ॥ क्र्द्च्_८।४ ॥


प्रयोगान्तरम् आह-

ताम्बूल-वस्त्र-कुसुमाञ्जन-चन्दनाद्यं
जप्तं सहस्र-त्रयम् अन्यतरेण मन्वोः ।
यस्मै ददाति मनु-वित् सजनो ऽस्य मङ्क्षु
स्यात् किङ्करा न खलु तत्र विचारणीयम् ॥ क्र्द्_८।५ ॥

गोविन्द-भट्टाचार्यः

ताम्बूलं वस्त्रं पुष्पं कज्जलं चन्दनं च एतद् यद् अन्यद् वस्तु मन्वोर् दशाष्टादशाक्षरयोर् अन्यतरेणैकेन सहस्र-त्रयं सञ्जप्तं यस्मै जनाय ददाति साधकः स नरो ऽस्य साधकस्य मङ्क्षु शीघ्रं वश्यो भवति । नात्र संशय इत्य् अर्थः ॥ क्र्द्च्_८।५ ॥


प्रयोगान्तरम् आह-
राज-द्वारे व्यवहारे सभाया
द्यूते वादे चाष्ट-युक्तं शतं च ।
जप्त्वा वाचं प्रथमाम् ईरयेद् यो
वर्तेतासौ तत्र तत्रोपविष्टान् ॥ क्र्द्_८।६ ॥

गोविन्द-भट्टाचार्यः

राज-समीपे क्रय-विक्रये सदसि अक्ष-क्रीडादौ वादे च यो मन्वोर् एकम् अष्टोत्तर-शतं जप्त्वा प्रथमत एव यां वाचं वदति तयैव वाचा तत्र वादादौ उपविष्टान् असौ वर्तेत तज्-जयी भवतीत्य् अर्थः ॥ क्र्द्च्_८।६ ॥


प्रयोगान्तरम् आह-
आसीनं मुरमथनं कदम्ब-मूले
गायन्तं मधुरतरं व्रजाङ्गनाभिः ।
स्मृत्वाग्नौ मधु-मिलितैर् मयूरकेध्मैर्
हुत्वासौ वशयति मन्त्रवित् त्रिलोकीम् ॥ क्र्द्_८।७ ॥

गोविन्द-भट्टाचार्यः

कदम्ब-मूले उपविष्टं मुरमथनं कृष्णं गोपीभिर् मधुरतरं गायन्तं ध्यात्वा वह्नौ मधु-स्नुतैर् मयूर-केध्मैर् अपामार्ग-समिद्भिर् हुत्वा असौ साधको लोक-त्रयं वशयति ॥ क्र्द्च्_८।७ ॥


प्रयोगान्तरम् आह-
रास-मध्य-गतम् अच्युतं स्मरन्
यो जपेद् दश-शतं दशाक्षरम् ।
नित्यशो झटिति मासतो नरो
वाञ्छिताम् अभिवहेत् स कन्यकाम् ॥ क्र्द्_८।८ ॥

गोविन्द-भट्टाचार्यः

यो नरः पूर्वोक्त-रास-मध्य-गतं कृष्णं ध्यायन् दशाक्षरं मन्त्रं प्रत्यहं दश-शतं जपेत् स मासैकेन शीघ्रम् एव वाञ्छितां कन्यां प्राप्नोति ॥८॥
-ओ)ओ(-

प्रयोगान्तरम् आह-

तुङ्ग-कुन्दम् अधिरूढम् अच्युतं
वा विचिन्त्य दिनशः सहस्रकम् ।
साष्टकं जपति सा हि मण्डलाद्
वाञ्छितं वरम् उपैति कन्यका ॥ क्र्द्_८।९ ॥

उच्च-कदम्ब-वृक्ष-स्थं विचिन्त्य प्रत्यहम् अष्टोत्तर-सहस्रं दशाक्षरं या कन्यका जपति सा हि निश्चयेन मण्डलाद् एकोन-पञ्चाशद् दिनाद् अर्वाक् वाञ्छित-वरं प्राप्नोति ॥ क्र्द्च्_८।९ ॥

______________________________

समान-फलं प्रयोगान्तरम् आह-

नृत्यन्तं व्रज-सुन्दरी-जन-कराम्भोजानि सङ्गृह्य तं
ध्यात्वाष्टादश-वर्णकं मनु-वरं लक्षं जपन् मन्त्रवित् ।
लाजानम् अथवा मधु-प्लुततरैर् हुत्वायुतं चूर्णकैर्
उद्धोढुं प्रजपेच् च तावद् अचिराद् आकाङ्क्षितां कन्यकाम् ॥ क्र्द्_८।१० ॥

गोविन्द-भट्टाचार्यः

अचिरात् शीघ्रं वाञ्छितां कन्यां परिणेतुं मन्त्रवित् साधकः गोप-युवती-हस्त-पद्मानि सङ्गृह्य धृत्वा नृत्यन्तं तं प्रसिद्धं श्री-कृष्णं ध्यात्वा लक्ष-मात्र-परिमितम् अष्टादशाक्षरं मन्त्र-श्रेष्ठं जपेत् । अथवा लाजानां चूर्णैर् मधु-द्रुततरैर् घृत-मधु-शर्करा-प्रचुरान्वितैः मधुना द्रवीभूतैर् इति रुद्रधरः । दश-सहस्रं हुत्वा तावद् एव सङ्ख्यं जपेद् इत्य् अर्थः ॥ क्र्द्च्_८।१० ॥


प्रयोगान्तरम् आह-

अष्टादशाक्षरेण द्विज-तरुजैस् त्रिमध्वक्तैर् अयुतम् ।
कुशैस् तिलैर् वा स-तण्डुलैर् वशयितुं द्विजान् जुहुयात् ॥ क्र्द्_८।११ ॥

गोविन्द-भट्टाचार्यः

द्विजान् ब्राह्मणान् वशयितुम् अष्टादशाक्षर-मन्त्रेण द्विज-तरुजैः पलाश-वृक्ष-समुद्भवैः समिद्भिस् त्रि-मधुराक्तैः घृत-मधु-शर्करा-मिश्रितैर् अयुतं दश-सहस्रं जुहुयात् अथवा त्रि-मध्व्-अक्तैः कुशैस् तिलैः तण्डुलैर् वा जुहुयात् ॥ क्र्द्च्_८।११ ॥


प्रयोगान्तरम् आह-

कृतमाल-भवैर् वशयेन् नृपतीन्
मुकुलैश् च कुरुण्टकजैश् च तथा ।
विशाम् इक्षुर् अकैर् अपि पाटलजैर्
इतरान् अपि तद्वद् अथो वशयेत् ॥ क्र्द्_८।१२ ॥

गोविन्द-भट्टाचार्यः

कृत-माल-भवैः राज-वृक्ष-समुद्भवैः मुकुलैः कलिकाभिः हुत्वा नृपतीन् क्षत्रियान् वशयेन् । कुरुण्टकजैश् च झिण्टी-समुद्भवैः मुकुलैर् हुत्वा वेश्याण् वशयेत् । इक्षु-रसैः इक्षुरकैर् इति पाठे कोकिलाक्षोमथीन् अथ इत्य् अर्थः । पाटल-समुद्भवैः मुकुलैर् वा हुत्वा इतरान् शूद्रान् वशयेत् । अनुक्त-सङ्ख्या होमस्य बोद्धव्या तस्या एव प्रकरणत्वाद् इति ॥ क्र्द्च्_८।१२ ॥


प्रयोगान्तरम् आह-

अभिनवैः कमलैर् अरुणोत्पलैः
समधुरैर् अपि चम्पक-पाटलैः ।
प्रतिहुनेद् अयुतं क्रमशो ऽचिराद्
वशयितुं मुखजादिवराङ्गनाः ॥ क्र्द्_८।१३ ॥

गोविन्द-भट्टाचार्यः

शीघ्रं मुखजादि-वराङ्गना ब्राह्मणादि-स्त्रियो वशयितुं चतुर्भिर् द्रव्यैः समधुरैर् मधुर-त्रय-मिलितैः क्रमशः प्रत्येकं सार्ध-सहस्र-द्वयं कृत्वा दश-सहस्रं प्रतिहुनेत् जुहुयात् । द्रव्याण्य् आह-नूतनैः श्वेत-पद्मैः रक्तोत्पलैश् चम्पक-पुष्पैः पाटल-पुष्पैः ॥ क्र्द्च्_८।१३ ॥


प्रयोगान्तरम् आह-

हयारि-कुसुमैर् नवैस् त्रिमधुराप्लुतैर् नित्यशः
सहस्रम् ऋषि-वासरं प्रतिहुनेन् निशीथे बुधः ।
सुगर्वित-धियं हठात् झटिति वारयोषाम् असौ
करोति निज-किङ्करीं स्मर-शिली-मुखैर् अर्दिताम् ॥ क्र्द्_८।१४ ॥

गोविन्द-भट्टाचार्यः

हयारि-कुसुमैः करवीर-कुसुमैः नूतनैः त्रि-मधुर-मिश्रितैः प्रत्यहं सहस्रं ऋषि-वासरं सप्त-वासरं बुधः साधको निशीथे रात्रौ प्रत्यहं प्रतिदिनं जुहुयात् असौ अहङ्कारवतीं वारयोषां वेश्याकाम-वाणैः पीडितां हठात् बलात् झटिति शीघ्रं निज-दासीं करोति ॥ क्र्द्च्_८।१४ ॥


प्रयोगान्तरम् आह-

पटु-संयुतैस् त्रिमधुरार्द्रतरैर्
अपि सर्षपैर् दश-शतं त्रितयम् ।
निशि जुह्वतो ऽस्य हि शची-दयितो ऽप्य्
अवशो वशी भवति किं न्व् अपरे ॥ क्र्द्_८।१५ ॥

गोविन्द-भट्टाचार्यः

लवण-संयुतैः कटु-संयुतैर् इति पाठे कटुक-संयुतैर् इत्य् अर्थः । मधुरार्द्रतरैर् घृत-मधु-शर्करा-स्निग्धैः । अपिः समुच्चये सर्षपैर् दश-शतं त्रितयं त्रि-सहस्रं निशि रात्रौ जुह्वतः पुरुषस्य शची-दयितः इन्द्रो ऽपि अवशो वशी भवति किं पुनर् अन्ये ॥ क्र्द्च्_८।१५ ॥


प्रयोगान्तरम् आह-

अथ बिल्वजैः फल-समित् प्रसवच्-
छदनैर् मधु-द्रुततरैर् हवनात् ।
कमलैः सिताक्षत-युतैश् च पृथक्
कमलां चिराय वशयेद् अचिरात् ॥ क्र्द्_८।१६ ॥

गोविन्द-भट्टाचार्यः

बिल्व-वृक्षोद्भवैः फल-समित्-पुष्प-पत्रैः श्वेत-पद्मैर् अत्यन्त-मधुराप्लुतैः सिताक्षत-युतैः शर्करा-तण्डुल-मिश्रितैः सिताज्य-सहितैर् इति पाठे सिताशर्करा आज्यं घृतं तत्-सहितैः पृथक् एकैकं वस्तु-त्रि-सहस्र-होमात् चिर-कालम् अचिरात् शीघ्रं कमलां लक्ष्मीं वशयेत् । अत्र सङ्ख्या-समनन्तरोक्ता ॥ क्र्द्च्_८।१६ ॥


प्रयोगान्तरम् आह-

अपहृत्य गोप-वनिताम्बराण्यामा
हृदयैः कदम्बम् अधिरूढम् अच्युतम् ।
प्रजपेत् स्मरन् निशि सहस्रम् आनयेद्
द्रुतम् उर्वशीम् अपि हठाद् दशाहतः ॥ क्र्द्_८।१७ ॥

गोविन्द-भट्टाचार्यः

हृदयैः अमा सह हठात् गोप-युवती-वस्त्राण्य् अपहृत्य गृहीत्वा कदम्ब-वृक्षम् अधिरूढं कृष्णं स्मरन् निशि रात्रौ सहस्रं जपेत् स दशाहतो दश-दिवस-मध्ये हठान् मन्त्रस्य बलात् उर्वशीम् अपि देव-वेश्याम् अपि वशम् आनयेत् निज-निकटम् इति शेषः ॥ क्र्द्च्_८।१७ ॥


मन्त्रयोर् माहात्म्यम् आह-

बहुना किम् अत्र कथितेन मन्त्रयोर्
अनयोः सदृक् न हि परो वशी कृतौ ।
अभिकृष्टि-कर्मणि विदग्ध-योषितां
कुसुमायुधास्त्र-मय-वर्ष्मणोर् इह ॥ क्र्द्_८।१८ ॥

गोविन्द-भट्टाचार्यः

अत्र ग्रन्थे बहुना कथितेन किं प्रयोजनम् ? अनयोर् दशाष्टादशाक्षरयोः सदृक् समः वशीकरणे इह जगति अपरो नास्ति । किम्भूतयोर् नगर-स्त्रीणाम् आकर्षण-कर्मणि कामास्त्र-शरीरयोः ॥ क्र्द्च्_८।१८ ॥


मोक्ष-साधक-प्रयोगान्तरम् आह-

वन्दे कुन्देन्दु-गौरं तरुणम् अरुण-पाथोज-पत्राभ-नेत्रं
चक्रं शङ्खं गदाब्जे निज-भुज-परिघैर् आयतैर् आदधानम् ।
दिव्यैर् भूषाङ्ग-रागैर् नव-नलिन-लसन्-मालया च प्रदीप्तं
प्रोद्यत्-पीताम्बराढ्यं मुनिभिर् अभिवृतं पद्म-संस्थं मुकुन्दम् ॥ क्र्द्_८।१९ ॥

गोविन्द-भट्टाचार्यः

मुकुन्दं वन्दे । कुन्द-पुष्पं चन्द्रश् च तद्वत् शुक्लं तथा युवानं तथा रक्त-पद्म-सदृश-लोचनं तथा दीर्घैर् निज-बाहु-परिघैर् मुद्-गराकार-स्व-बाहुभिः शङ्खं चक्रं गदां पद्मं च धारयन्तं तथा देव-योग्यालङ्काराङ्ग-रागैः नवानि यानि पद्मानि तेषां लसन्ती देदीप्यमाना या माला तया च प्रदीप्तं तथा देदीप्यमान-हरिद्राभ-वस्त्र-युक्तं तथा नारदादिभिर् वेष्टितं तथा पङ्कजासीनम् ॥ क्र्द्च्_८।१९ ॥


एवं ध्यात्वा पुमांसं स्फुट-हृदय-सरोजम् आसीनामाद्यं
सान्द्राभोज-च्छविं वा द्रुत-कनक-निभं वा जपेद् अर्क-लक्षम् ।
मन्वोर् एकं द्वितारान्तरितमथहुनेद् अर्क-साहस्रम् इध्मैः
क्षीर-द्रुत्यैः पयोक्तैः स-मधु-घृत-सितेनाथवा पायसेन ॥ क्र्द्_८।२० ॥

गोविन्द-भट्टाचार्यः

एवं-विधं पूर्वोक्तं मुकुन्दं ध्यात्वा प्रफुल्ल-हृदय-पद्मासनोपविष्टं तथा आद्यं प्रथमं स-जल-जलद-श्यामं सान्द्राभोज-च्छविम् इति पाठे मसृण-पद्म-कान्तिं वा ध्यात्वा दिव्तारान्तरगं प्रणव-द्वय-मध्य-गतं मन्वोर् दशाष्टादशाक्षरयोर् एकम् अर्क-लक्षं द्वादश-लक्षं जपेत् । अथ जपानन्तरम् अर्क-सहस्रं इध्मैः समिद्भिः क्षीर-द्रुत्यैर् अश्वत्थोदुम्बर-प्लक्ष-न्यग्रोधान्यतम-समुद्भवैः पयोक्तैः दुग्ध-प्लुतैः अथवा घृत-मधु-शर्करा-सहितेन परमान्नेन जुहुयात् ॥ क्र्द्च्_८।२० ॥


ततो लोकाध्यक्षं धुर्व-चिति-सद्-आनन्द-वपुषं
निजे हृत्-पाथोजे भव-तिमिर-सम्भेद-मिहिरम् ।
निजैक्येन ध्यायन् मनुम् अमल-चेताः प्रतिदिनं
त्रि-साहस्रं जप्यात् प्रयजतु सायाह्न-विधिना ॥ क्र्द्_८।२१ ॥

गोविन्द-भट्टाचार्यः

ततस् तद्-अनन्तरं लोकाध्यक्षं लोक-स्वामिनम् । अविनाशि-ज्ञानं तत्-सुख-स्वरूप-शरीरं संसारान्धकार-विच्छेद-सूर्यम् अमुं कृष्णं निज-हृदय-पद्मे निजैक्येन स्वाभेदेन भावयन् अमल-चेताः निर्मलान्तःकरणः प्रतिदिनं त्रि-सहस्रं सहस्र-त्रयं जुहुयात् तथा पूर्वोक्त-सायाह्न-पूजा-प्रकारेण पूजयतु होमम् अपि करोतु ॥ क्र्द्च्_८।२१ ॥


विधिं यो ऽमुं भक्त्या भजति नियतं सुस्थिर-मतिर्
भवाम्भोधिं भीमं विषम-विषय-ग्राह-निकरैः ।
तरङ्गैर् उत्तुङ्गैर् जनि-मृति-समाख्याइः प्रविततं
समुत्तीर्यानन्तं व्रजति परमं धाम स हरेः ॥ क्र्द्_८।२२ ॥

गोविन्द-भट्टाचार्यः

स स्थिर-मतिः पुमान् अमुं विधिं प्रकारं नियतं सततं भक्त्या भजति सेवते स भवाम्भोधिं संसार-सागरं समुत्तीर्य हरेः अनन्यं न विद्यते अन्यो यस्मात् सर्व-मयम् उत्कृष्टं धाम प्राप्नोति । कीदृशं ? अम्भोधिर् इव भयङ्करं कैर् विषमा दुर्निवारा ये विषयाः शब्दादयं अथवा स्रक्-चन्दन-वनिताद्याः त एव ग्राह-रूपा मकर-कच्छपाद्यास् तेषां निकरैः समूहैः । तथा जन्म-मरण-नाम-धेयैस् तरङ्गैर् उत्तुङ्गैर् महद्भिर् विस्तीर्णम् ॥ क्र्द्च्_८।२२ ॥


गृणंस् तस्य नामानि शृण्वंस् तदीयाः
कथाः संस्मरंस् तस्य रूपाणि नित्यम् ।
नमंस् तत्-पदाम्भोरुहं भक्ति-नम्रः
स पूज्यो बुधैर् नित्य-युक्तः स एव ॥ क्र्द्_८।२३ ॥

गोविन्द-भट्टाचार्यः

स पुरुषः बुधैः प्राज्ञैः पूज्यः स एव च नित्य-युक्तो नित्य-योग-भाक् । किं कुर्वन् ? अस्य श्री-कृष्णस्य नामानि गृणन् वदन्, तदीयाः कथा आकल्पयन् । तस्य श्री-कृष्णस्य रूपाणि मूर्तीः सर्वदा ध्यायन् । तत्-पदाम्भोरुहं श्री-कृष्ण-पाद-पद्मं भक्ति-नम्रः सेवाऽवनतः अधिक-नम्रत्व-ख्यापनार्थं पौनरुक्त्यम् ॥ क्र्द्च्_८।२३ ॥


इदानीं परम-मन्त्र-द्वयं कथयति-

वक्ष्ये मनु-द्वमथातिरहस्यम् अन्यत्
सङ्क्षेपतो भुवन-मोहन-नाम-धेयम् ।
ब्रह्मेन्द्र-वामनयनेन्दुभिर् आदिमान्यस्
तत्-पूर्वको वियदृषीक-युतेशङे-हृत् ॥ क्र्द्_८।२४ ॥

गोविन्द-भट्टाचार्यः

अथानन्तरम् अन्यत् मन्त्र-द्वयम् अतिगोप्यं जगन्-मोहन-सञ्ज्ञकं स्वल्पोक्त्या वक्ष्ये । ब्रह्म क-कारः । इन्द्रो ल-कारः । वाम-नयनं दीर्घ-ई-कारः । इन्दुर् अनुस्वारः । एतैः संयुक्तः काम-बीज-रूपः प्रथमो मन्त्र उद्धृतः । तत्-पूर्वकः वियत् ह-कारः ऋषीक इति स्वरूपं ताभ्यां युक्त ईश-शब्दः हृषीकेश इति स्वरूपं ङे चतुर्थ्य्-एक-वचनं हृन् नमः । क्लीं हृषीकेशाय नमः इति द्वितीयो मन्त्रः । अत्रायं पुरुषोत्तम-मन्त्र इति भैरव-त्रिपाठिनः ॥ क्र्द्च्_८।२४ ॥


ऋष्य्-आदिकम् आह-

मन्वोस् तु सम्मोहन-नारदो मुनिः
छन्दस् तु गायत्रम् उदीरितं बुधैः ।
त्रैलोक्य-सम्मोहन-विष्णु-रेतयोः
स्याद् देवता वच्म्य् अधुना षड्-अङ्गकम् ॥ क्र्द्_८।२५ ॥

गोविन्द-भट्टाचार्यः

अनयोर् मन्त्रयोः सम्मोहन-नारदो मुनिः । छन्दः पुनर् गायत्रम् । मन्त्रज्ञैः कथितं त्रैलोक्य-सम्मोहन-विष्णुर् देवतेति ॥ क्र्द्च्_८।२५ ॥


अधुना षड्-अङ्गं वदामि-

अक्लीब्-अदीर्घैः स-लवैस् तद् अपि च कलासनारूढैः ।
उक्तं पूर्ववद् आसन-विन्यासान्तं समाचरेद् अथ तु ॥ क्र्द्_८।२६ ॥

गोविन्द-भट्टाचार्यः

ऋ-ॠ—वर्जित-षट्-दीर्घ-स्वरैः बिन्दु-सहितैः कलेत्य् अक्षर-द्वय-सम्बद्धैः क्लां क्लीं क्लूं क्लैं क्लौं क्लः एभिस् तत् षड्-अङ्गम् उक्तम् । अथानन्तरं पूर्ववद् दशाक्षर-कथित-पूजा-पर्यन्तं कार्यम् ॥ क्र्द्च्_८।२६ ॥


करयोः शाखासु तले न्यस्य षड्-अङ्गानि चाङ्गुलीषु शरान् ।
मनु-पुटित-मातृकार्णैर् न्यस्याङ्गे ऽङ्गानि विन्यसेच् च शरान् ॥ क्र्द्_८।२७ ॥

गोविन्द-भट्टाचार्यः

करयोः शाखासु अङ्गुलीषु उभय-कर-तले च षड्-अङ्गानि विन्यस्य पुनर् अङ्गुलीषु च काम-बाणान् विन्यस्य आद्य्-अन्त-स्थित-मन्त्र-मातृकाक्षैर् मातृका-स्थानेषु विन्यस्य दीर्घ-युक्त-काम-बीजैः षड्-अङ्गानि स्व-शरीरे विन्यस्य बाण-न्यासं च कुर्यात् ॥ क्र्द्च्_८।२७ ॥


बाण-न्यास-स्थानान्य् आह-

कास्य-हृदय-लिङ्गाङ्घ्रिषुकर-शाखाभिर् नमो ऽन्तकान् ङे ऽन्तान् ।
शोषण-मोहन-सन्दीपन-तापन-मादनान् क्रमशः ॥ क्र्द्_८।२८ ॥

गोविन्द-भट्टाचार्यः

शिरो-वदन-हृदय-लिङ्ग-पादेषु अङ्गुलीभिः अङ्गुष्ठादिक-निष्ठ-कान्ताभिः एकैकया अङ्गुल्या चतुर्थी नमः-पद-सहितान् वक्ष्यमाणान् पञ्च-बाणान् क्रमेण विन्यसेत् ॥ क्र्द्च्_८।२८ ॥


बाण-नामान्य् आह-

पञ्चैते सम्प्रोक्ता ह्रां-ह्रीं-क्लीं-क्लूं स आदिका बाणाः ।
सम्मोहनम् अथ जगतं ध्यायेत् पुरुषोत्तमं समाहित-धीः ॥ क्र्द्_८।२९ ॥

गोविन्द-भट्टाचार्यः

ह्रां-ह्रीं-क्लीं-क्लूं स एतानि पञ्च-बीजानि एकैकानि आदौ येषां एवं एते पञ्च-बाणाः शोषणादयः प्रोक्ताः । प्रयोगस् तु-ह्रां शोषणाय नमः इत्य् अङ्गुष्ठेन शिरसि ह्रीं मोहनाय नमः इति तर्जन्या मुखे इत्य् आदि अथानन्तरम् । संयत-चित्तः त्रिभुवन-वश्य-करं पुरुषोत्तमं चिन्तयेत् ॥ क्र्द्च्_८।२९ ॥


ध्यानम् आह-

दिव्य-तरूद्यानोद्यद्-रुचिर-महा-कल्प-पादपाधस्तात् ।
मणि-मय-भूतल-विलसद्-भद्र-पयो-जन्म-पीठ-निष्ठस्य ॥ क्र्द्_८।३० ॥

गोविन्द-भट्टाचार्यः

विश्व-प्राणस्योद्यत्-प्रद्योतन-सम-द्युतेः सुपर्णस्य ।
आसीनम् उन्नतांसे विद्रुम-भद्राङ्गम् अङ्गजोन्मथितम् ॥ क्र्द्_८।३१ ॥
चक्र-दराङ्कुश-पाशान् सुमनो-बाणेक्षु-चाप-कमल-गदाः ।
दधतं स्वदोर्भिर् अरुणायत-विपुल-विघूर्णिताक्षि-युग-नलिनम् ॥ क्र्द्_८।३२ ॥
मणिमय-किरीट-कुण्डल-हाराङ्गद-कङ्कणोर्भिर् असनाद्यैः ।
अरुणैर् माल्य-विलेपैर् आदीप्तं पीत-वस्त्र-परिधानम् ॥ क्र्द्_८।३३ ॥
निज-वामोरु-निषण्णां श्लिष्यन्तीं वाम-हस्त-घृत-नलिनाम् ।
किल्द्यद्-योनिं कमलां मदन-मद-व्याकुलोज्ज्वलाङ्गलताम् ॥ क्र्द्_८।३४ ॥
सुरुचिर-भूषण-माल्यानुलेपनांसु-सित-वसन-परिवीताम् ।
निज-मुख-कमल-व्यापृत-चटुलासित-नयन-मधुकरां तरुणीम् ॥ क्र्द्_८।३५ ॥
श्लिष्यन्तं वाम-भुजा-दण्डेन दृढं धृतेक्षु-चापेन ।
तज्-जनित-पर-निर्वृति-निर्भर-हृदयं चराचरैक-गुरुम् ॥ क्र्द्_८।३६ ॥
सुर-दितिज-भुजग-गुह्यक-गन्धर्वाद्य्-अङ्गना-जन-सहस्रैः ।
मद-मन्मथालसाङ्गैर् अभिवीतं दिव्य-भूषणोल्लसितैः ॥ क्र्द्_८।३७ ॥
आत्माभेदतयेत्थं ध्यात्वैकाक्षरम् अथाष्ट-वर्णं वा ।
प्रजपेद् दिन-कर-लक्षं त्रिमधुर-सिक्तैस् तु किंशुक-प्रसवैः ॥ क्र्द्_८।३८ ॥

नव-श्लोकानां कुलकम् । इत्थम् एवं वासुदेवं ध्यात्वा एकाक्षर-काम-बीजम् अथवाष्टाक्षर-मन्त्रं दिनकर-लक्षं द्वादश-लक्षं जपेत् । कीदृशम् ? ध्यात्वा देव-सम्बन्धि-वृक्षोद्याने कल्प-वृक्षोद्याने उद्यन् वृद्धिं गच्छन् मनोहरो यः पारिजात-वृक्षस् तस्य तले गरुडस्योन्नतांसे उपविष्टम् । कीदृशस्य गरुडस्य ? पद्मरागादि-घटित-भू-भाग-शोभमान-श्रेष्ठ-पद्म-पीठोपविष्टस्य तथा सकल-जीव-भूतस्य परमेश्वरस्यांशत्वात् तथा उदित-सूर्य-सम-कान्तेः । कीदृशं वासुदेवम् ? प्रवाल-सुन्दराङ्गम्, काम-व्याकुलितं स्व-दोर्भिः स्व-बाहुभिर् दक्षिण-वाम-क्रमेण चक्र-शङ्खाङ्कुश-पाश-पुष्प-शरेक्षु-चाप-पद्म-गदाः बिभ्राणं तथा रक्तं दीर्घं बृहद्-विघूर्णितं
नेत्र-द्वय-रूपं पद्मं यस्य स तथा तम्, पद्म-रागादि-मणि-घटित-शिरो ऽलङ्कार-कर्ण-भूषणम् उक्ताहार-बाहु-भूषण-कर-मूल-भूषण-मुद्रिका-क्षुद्र-घण्टिका-प्रभृतिभिः रक्त-माल्य-गन्धैश् च देदीप्यमानं तथा पीते वाससी परिधानम् आच्छादनं यस्य स तथा तं तथा धृतेक्षु-चापेन वाम-बाहु-दण्डेन दृढं यथा स्याद् एवं श्रियम् आलिङ्गनम् ।

कीदृशीम् ? स्वीय-वामोरु-देशे उपविष्टाम्, तथा आलिङ्गन्तीम्, तथा वाम-हस्त-गृहीत-पद्माम्, तथा सरसी-भूत-गुह्यां तथा कामेन व्याकुलीकृता अनायत्ती-कृता अङ्ग-लता यस्यास् तां मनोहराणि अलङ्कार-माल-चन्दनानि यस्यास् तां तथा श्वेत-वस्त्र-परिधानां तथा कृष्ण-मुख-पद्मे व्यापृतं सम्यग् व्यापार-युक्तं चटुलं मनोहरं चञ्चलं वा असितं श्यामं यन् नेत्रं स एव मधुकरो भ्रमरः यस्यास् तां तथा तरुई᳡एईं युवतीम् । पुनः कीदृशीम् ? प्रियालिङ्गन-जनित-परम-सुख-पूर्ण-हृदयं तथा जगद्-गुरुं तथा देव-दैत्य-सर्प-देव-योनि-देव-गायन-विद्याधर-स्त्री-सहस्रैर् मदतया कामेन च स्तम्भ-युक्तम् अङ्गं येषां तैर् देवार्हण-भूषण-दीप्तैर् वेष्टितं कया
युक्त्या आत्मैक्येन ध्यात्वा ॥ क्र्द्च्_८।३०-३८ ॥


जुहुआत् तरणि-सहस्रं विमलैः सलिलैश् च तर्पयेत् तावत् ।
विंशत्य्-अर्णे प्रोक्ते यन्त्रे दिनशो ऽमुम् अर्चयेत् भक्त्या ॥ क्र्द्_८।३९ ॥

गोविन्द-भट्टाचार्यः

ध्यान-जपानन्तरं घृत-मधु-शर्करा-सहितैः पलाश-पुष्पैर् द्वादश-सहस्रं जुहुयात् । होमानन्तरं निर्मलैर् जलैर् द्वादश-सहस्रं तर्पणं कुर्यात् । विंशत्य्-अर्णेति । पूर्वोक्त-विंशत्य्-अक्षरोदित-पीठ-विधानेन तन्-मन्त्रोद्धृत-यन्त्रे अमुं कृष्णं भक्त्या प्रतिदिनं पूजयेत् ॥ क्र्द्च्_८।३९ ॥


पूजा-प्रकारम् आह सार्धं चतुःश्लोकेन । गरुड-मन्त्रम् आह-

पीठ-विधौ पक्ष्य्-अन्ते राजाय-शिरो ऽमुनाभि-पूज्याहि-रिपुम् ।
हरिम् आवाह्य स्कन्धे तस्यार्घाद्यैः समर्च्य भूषान्तै ॥ क्र्द्_८।४० ॥

गोविन्द-भट्टाचार्यः

अङ्गानि च बाणांश् च न्यास-क्रमतः किरीटम् अपि शिरसि ।
श्रवसोश् च कुण्डले ऽरि-प्रमुखानि प्रहरणानि पाणिषु च ॥ क्र्द्_८।४१ ॥
श्रीवत्स-कौस्तुभौ च स्तनयोर् ऊर्ध्वे गले च वनमालाम् ।
पीत-वसनं नितम्बे वामाङ्के श्रियम् अपि स्व-बीजेन ॥ क्र्द्_८।४२ ॥
इष्ट्वाथ कर्णिकायाम् अङ्गानि विदिग्दशासु दिक्षु शरान् ।
कोणेषु पञ्चमं पुनर् अग्न्य्-आदि-दलेषु शक्तयः पूज्याः ॥ क्र्द्_८।४३ ॥

पूजा-विधौ पक्षि-शब्दान्ते राजायेति स्वरूपं शिरः स्वाहा अनेन प्रकारेण पीठ-मध्ये अहि-रिपुं गरुडं सम्पूज्य तस्य गरुडस्य पृष्ठे श्री-कृष्णम् आवाह्यावाहनादि यथावत् कृत्वार्घाद्यैर् भूषान्तैर् उपचारैश् च सम्पूज्य अङ्गानि च सम्पूज्य पञ्च-बाणांश् च सम्पूज्य भूषणानि च सम्पूज्य दिग्-दलेषु शक्तयः पूज्या इति अनेनान्वयः ।

एतद् एव स्पष्टयति-न्यास-क्रमत इत्य् आदिना । यत्र परमेश्वराङ्गे यस्य न्यासः । तस्य पूजा बोद्धव्या तत्र शिरसि किरीटं अपि-पाद-पूरणे श्रोत्रयोः कुण्डले अरि-मुखानि चक्रादीनि प्रहरणानि आयुधानि हस्तेषु स्तनयो ऊर्ध्वं हृदि श्रीवत्स-कौस्तुभौ गले वन-मालाम् आपाद-लम्बिनीं पद्म-मालां नितम्बे कट्यां हरिद्राभ-वस्त्रं वामाङ्गे वाम-भागे लक्ष्मीं च स्व-बीजेन श्री-बीजेन इष्ट्वा सम्पूज्य कर्णिकायां दिग्-विदिशासु कोणेषु दिक्षु च अङ्गानि पूर्ववत् सम्पूज्य दिक्षु शरान् अग्न्य्-आदि-कोणेषु च पञ्चमं बाणं पूजयेत् पुनर् अग्न्य्-आदि-दलेषु अष्टौ शक्तयः पूज्याः ॥ क्र्द्च्_८।४०-४३ ॥


शक्ति-वर्णान् आह-
लक्ष्मीः सरस्वती स्वर्णाभे अरुणतरे रति-प्रीत्यौ ।
कीर्तिः कान्तिश् च सिते तुष्टिः पुष्टिश् च मरकत-प्रतिमे ॥ क्र्द्_८।४४ ॥

गोविन्द-भट्टाचार्यः

स्वर्णाभे पीत-वर्णे अरुणतरे अतिरक्ते सिते शुक्ले मरकत-प्रतिमे हरिद्रा-वर्णे ॥ क्र्द्च्_८।४४ ॥


एताः शक्तयः किम्भूताः ?

दिव्याङ्ग-राग-भूषामाल्य-दुकूलैर् अलङ्कृताङ्ग-लताः ।
स्मेराननाः स्मारार्ताधृत-चामर-चारु-कर-तला एताः ॥ क्र्द्_८।४५ ॥

गोविन्द-भट्टाचार्यः

देव-योग्यानुलेपनालङ्कार-ग्रन्थित-पुष्प-सूक्ष्म-वस्त्रैर् भूषित-देहा अङ्ग-लता-शब्दः स्वरूप-वाची तथा ईसद्-धास्य-वदना तथा काम-बाण-पीडिताः तथा गृहीत-चामर-मनोहरास् ताः ॥ क्र्द्च्_८।४५ ॥


लोकेशा बहिर् अर्च्याः कथितेत्य् अर्चा मनु-द्वयोद्भूता ।
प्रायः पुरुषोत्तम-विधिर् एवं हि स नोच्यते ऽत्र बहुलत्वात् ॥ क्र्द्_८।४६ ॥

गोविन्द-भट्टाचार्यः

तद् बहिर् इन्द्रादयः वज्रादयश् च पूज्याः इत्य् एवं पूजा मन्त्र-द्वय-सम्भवा कथिता प्रायो बाहुल्येन पुरुषोत्तम-मन्त्र-कथित-प्रकारो ऽप्य् एवं परं स इह स्पष्टीकृत्य नोच्यते बहु-वक्तव्यत्वात् प्रायः पुरुषोत्तम-विधेर् एवम् इहान्यतो ऽवगन्तव्यम् इति टीकान्तर-सम्मतं पाठान्तरम् ॥ क्र्द्च्_८।४६ ॥


सम्मोहन-गायत्रीम् आह-

त्रैलोक्य-मोहनायेत्य् उक्त्वा विद्मह इति स्मरायेति ।
तत् धीमहीति तन् नो ऽन्ते विष्णुस् तद् अनु प्रचोदयात् ॥ क्र्द्_८।४७ ॥

गोविन्द-भट्टाचार्यः

त्रैलोक्य-मोहनायेति स्वरूपम् उक्त्वा तद्-अनन्तरं विद्मह इति स्मरायेति तद्-अनु धीमहीति तन् नो विष्णुः प्रचोदयाद् इति स्वरूपं वदेत् ॥ क्र्द्च्_८।४७ ॥


प्रभावम् आह-

जप्यैषा हि जपादौ दुरित-हरी श्री-करी जपार्चन-हवनैः ।
प्रोक्षयतु शुद्धि-विधये ऽर्चायाम् अनयात्म-याग-भू-द्रव्याणि ॥ क्र्द्_८।४८ ॥

गोविन्द-भट्टाचार्यः

एषा गायत्री जपात् पूर्वं जपनीया स्व-मन्त्र-जप-पूजा-होमैः पुनः पाप-नाशिनी लक्ष्मी-प्रदा च भवति । अनया गायत्र्या च पूजायां शुद्ध्य्-अर्थम् आत्म-याग-भू-द्रव्याणि आत्मानं याग-भुवं द्रव्याणि च प्रोक्षयतु ॥ क्र्द्च्_८।४८ ॥


मन्त्र-द्वय-साधारण-तर्पणम् आह-

मन्वोर् एकेन शतं तर्पयेन् मोहनी-प्रसून-युतैर् यः ।
तोयैर् दिनशः प्रातः स तु लभते वाञ्छितान् अयत्नतः कामान् ॥ क्र्द्_८।४९ ॥

गोविन्द-भट्टाचार्यः

यः पूर्वोक्त-मन्त्रयोर् एकेन मोहनी-पुष्प-मिश्रितैः शक्रासन-पद्मासन-पुष्प-सहितैर् जलैः प्रति प्रत्यहं शतं तर्पयेत् । स वाञ्छितान् कामान् अनायासेन प्राप्नोति ॥ क्र्द्च्_८।४९ ॥


मन्त्र-द्वय-सम्बन्धि-प्रयोगान्तरम् आह-

हुत्वायुतं हुत-शेष-सम्पाताज्येन तावद् अभिजप्तेन ।
भोजयतु स्वामीकं रमणी-रमणो ऽपि तां स्व-वशतां नेतुम् ॥ क्र्द्_८।५० ॥

गोविन्द-भट्टाचार्यः

घृतेन वह्नाव् अयुतं आहुति-शेष-घृतेन मन्त्र-जप्तेन रमणी स्व-वशतां नेतुं प्रापयितुं आत्मीयं कामुकं भोजयतु कामुकः स्त्रियं भोजयतु ॥ क्र्द्च्_८।५० ॥


अष्टादशार्ण-विहिता विधयः कार्या वश्यत आभ्याम् ।
मन्वोर् अनयोः सदृग्भ्यो वैन मनुस् त्रैलोक्य-वश्य-कर्मणि जगति ॥ क्र्द्_८।५१ ॥

गोविन्द-भट्टाचार्यः

अष्टादशाक्षर-मन्त्र-कथिता वश्य-कारिणः प्रयोगा आभ्यां मन्त्राभ्यां कार्या हि निश्चयेन जगति सकल-जगद्-आयत्तता-कार्ये अनयोः समानो ऽन्योमन्त्रो नास्ति ॥ क्र्द्च्_८।५१ ॥


अत्रैकार्ण-जपादाव् अथवा कृष्णः स-वेणु-गतिर् ध्येयः ।
अरुण-रुचिराङ्ग-वेशः कन्दर्पो वा सपाश-शृणि-चापेषु ॥ क्र्द्_८।५२ ॥

गोविन्द-भट्टाचार्यः

अत्र समनन्तरोक्त-द्वय-मध्ये एकाक्षर-मन्त्रस्य जप-पूजा-होमादौ कृष्णो भावनीयः । कीदृक् ? स-वेणु-गतिर् इति वंशोत्थ-गान-परः । तथा लोहित-मनोहर-शरीराभरणः । अथवा, अत्रैव मन्त्र-जपादौ पाशाङ्कुश-धनुर्-बाण-धरः कामदेवो ध्येयः । मन्त्रस्यादि-देवात्मकत्वाद् इति भावः ॥ क्र्द्च्_८।५२ ॥


प्रकृतम् उपसंहरति-

यस् त्व् एकतरं मनुम् एतयोर् विमल-धीः सदा भजति मन्त्री ।
सो ऽमुत्रापि च सिद्धिं विपुलाम् इहातितराम् एति ॥ क्र्द्_८।५३ ॥

गोविन्द-भट्टाचार्यः

यो मन्त्री अनयोर् मन्त्रयोर् एकं मन्त्र-श्रेष्ठं सदा जपादिभिः सेवते, स इह लोके ऽमुत्र च अत्यर्थं विपुलां सिद्धिं प्राप्नोति ॥ क्र्द्च्_८।५३ ॥


अथ रुक्मिणी-वल्लभ-मन्त्रम् उद्धरति-

अथ सत्य-शौरि च तृतीय-तुर्यकाः
शिखि-वाम-नेत्र-शशि-खण्ड-मण्डिताः ।
जय-कृष्ण-युग्मक-निरन्तरात्म-भू-
शिखि-शक्ति-डास्य-वृत-सक्त-वर्णकाः ॥ क्र्द्_८।५४ ॥

गोविन्द-भट्टाचार्यः

प्रनिमध्यतो मुदित-चेतसे ततस्
त्यपरक्त-दृग्यगुरु-मारुताक्षराः ।
स-चतुर्थि-कृष्ण-पदम् इक्षु-कार्मुको
दश-वर्णकश् च मनुवर्यकस् त्व् असौ ॥ क्र्द्_८।५५ ॥

सलवाधर्राचल-सुतारमाक्षरैः
पुटितः क्रमो क्रम-गतैः समुद्गवत् ।
इति दन्त-सूर्य-वसु-वर्ण उद्धृतः
कवितानुरञ्जन-रमाकरो ऽघ-हृत् ॥ क्र्द्_८।५६ ॥

सत्यो द-कारः । शौरिर् ध-कारश् च । तृतीय-तुर्येति ज-कारः झ-कारश् च । एते चत्वारो वर्णाः प्रत्येकं शिखी रेफः वाम-नेत्रम् ई-कारः शशि-खण्डो बिन्दुः । एतैः शोभनाः सम्बद्धा इत्य् अर्थः । तथा च, द्रीं ध्रीं ज्रीं झ्रीं इति । तद् अनु जय-कृष्णेति त्रिपाठि-गोविन्द-मिश्र-प्रभृतयः । वस्तुतः जय-कृष्णेति पदस्य युग्मं तद्-अनु निरन्तरेति स्वरूपम् आत्म-भूः क-कारः शिखी रेफः शक्तिर् ई-कारः । तथा क्री-स्वरूपम् । तद् अनु ड-स्वरूपं आस्य-वृतम् आ-कारः डा-स्वरूपम् । सक्त इति स्वरूपं प्रनिमध्यतो प्रनीति अक्षरयोर् मध्ये मुदित-चेतसे इति ततो नि-शब्दान्ते त्येति स्वरूपं तद् अनु प-स्वरूपम् । रक्तो रेफः । दृग् इ-कारः प्रथमातिक्रमे कारणाभावात् ह्रस्व-इ-कारो लभ्यते । तथा च,
प्रि इति स्वरूपं ततो य इति स्वरूपं गुरुर् आ-कारः । या इति स्वरूपम् । तद् अनु मारुतो य-कारः । तद्-अनु स-चतुर्थि-कृष्ण-पदम् कृष्णायेति स्वरूपम् । तद्-अनु इक्षु-कार्मुकः काम-बीजं । तद्-अनु पूर्वोक्त-दशाक्षर-मन्त्रः । तद् अनु लवो बिन्दुः तत्-सहिता धरा ऐ-कारः ऐं इति स्वरूपम् । अचलः पर्वतः तत्-सुता पार्वती भुवनेश्वरी-बीजम् इत्य् अर्थः । रमा श्री-बीजम् । एभिस् त्रिभिर् बीजैर् मन्त्रान्ते प्रतिलोम-पठितैः ऐं ह्रीं श्रीं अन्ते श्रीं ह्रीं ऐं इति समुद्गवत् सम्पुटवत् पुटितो ऽयं द्विपञ्चाशद्-वर्णो मन्त्रः सिद्धो भवति ।
मन्त्र-वर्ण-सङ्ख्याम् आह-इतीति । दन्त = ३२, सूर्य = १२, वसु = ८ । एभिर् मिलितैः सङ्ख्या द्विपञ्चाशद्-वर्णात्मको (५२) मन्त्रो भवतीत्य् अर्थः । कीदृशः ? कवितालोकानुराग-लक्ष्मी सम्पादकः तथाघ-हृत् पाप-हर्ता ॥ क्र्द्च्_८।५४-५६ ॥

मन्त्र-स्वरूपम्-ऐं ह्रीं श्रीं द्रीं ज्रीं झ्रीं जय कृष्ण जय कृष्ण निरन्तर-क्रीडासक्त-प्रमुदित-चेतसे नित्य-प्रियाय कृष्णाय क्रीं गोपी-जन-वल्लभाय स्वाहा श्रीं ह्रीं ऐं ॥


अस्य मन्त्रस्य ऋष्य्-आदिकम् इत्य् आह-

मुख-वृत्त-नन्द-युत-नारदो मुनिः
छन्द उक्तम् अमृतादिकं विराट् ।
त्रिजगद् विमोहन-समाह्वयो हरिः
खलु देवतास्य मुनिभिः समीरिता ॥ क्र्द्_८।५७ ॥

गोविन्द-भट्टाचार्यः

मुख-वृत्तम् आ-कारः नन्देति स्वरूपम् आभ्यां युतो नारदः । तथा च आनन्द-नारद-ऋसिः अमृतादिकं विराट् छन्दस् त्रैलोक्य-मोहनो हरिर् देवता नारदादिभिर् मुनिभिः कथिता ॥ क्र्द्च्_८।५७ ॥


अङ्ग-विधिं दर्शयति-

वसु-मित्र-भूधर-गजात्म-दिङ्मयैर्
ममनु-वर्णकैस् त्रिपुट-संस्थितैः पृथक् ।
निज-जाति-युङ्-निगदितं षड्-अङ्गकं
क्रिययैव तत् खलु जनानुरञ्जनम् ॥ क्र्द्_८।५८ ॥

गोविन्द-भट्टाचार्यः

वसुः = ८, मित्रः = १२, भूधरः = ७, गजः = ८, आत्मा = १, दिक् = १० । एतत् सङ्ख्याकैर् मन्त्राक्षरैस् त्रिपुट-संस्थितैः । तथा च ऐं ह्रीं श्रीं द्रीं व्रीं ज्रीं झ्रीं जय-कृष्ण ऐं ह्रीं श्रीं हृदयाय नमः । ऐं ह्रीं श्रीं जय-कृष्ण-निरन्तर-क्रीडासक्त ऐं ह्रीं श्रीं शिरसे स्वाहा - इत्य् आदि क्रिययैव षड्-अङ्ग-क्रिययैव सर्व-जनानुरागं जनयति ॥ क्र्द्च्_८।५८ ॥


न्यासम् आह-

अथ संविशोध्य तनु-मुक्त-मार्गतः
विरचय्य पीठम् अपि च स्व-वर्ष्मणा ।
करयोर् दशाक्षर-विधि-क्रमान् न्यसेत्
स षड्-अङ्ग-सायकम् अनङ्ग-पञ्चकम् ॥ क्र्द्_८।५९ ॥

गोविन्द-भट्टाचार्यः

अथानन्तरं तनुं शरीरम् उक्त-मार्गतः पूर्वोक्त-भूत-शुद्ध्याः प्रकारेण संशोध्यानन्तरं स्व-वर्ष्मणा स्व-शरीरेण पीठम् आरचय्य करयोः कर-युगले दशाक्षरोक्त-प्रकारेण षड्-अङ्ग-षट्कं सायकान् च शोषणादीन् बाणान् अनङ्ग-पञ्चकं काम-बीज-मन्मथ-कन्दर्प-मकर-ध्वज-मनोभूत-सञ्ज्ञकं काम-पञ्चकं न्यसेत् ॥ क्र्द्च्_८।५९ ॥


इमम् एवार्थं विविच्य दर्शयति-

मनुना त्रिशो न्यसतु सर्वतस् तनौ
स्मर-सम्पुटैस् तद् अनु मातृकाक्षरैः ।
दश-तत्त्वकादि-दश-वर्ण-कीर्तितं
त्व् अथ मूर्ति-पञ्जर-वसानम् आचरेत् ॥ क्र्द्_८।६० ॥

गोविन्द-भट्टाचार्यः

मनुना मूल-मन्त्रेण पूर्वं शरीरे त्रि-व्यापकं कुर्यात् । तद्-अनन्तरं प्रतिवर्णं काम-बीज-पुटितैर् मातृकाक्षरैः त्रिशो न्यसतु । दश-वर्ण-कीर्तितं दशाक्षरोक्त-दश-तत्त्वकान् न्यसेत् । तत्त्व-न्यासादि-मूर्ति-पञ्जरान्तं विन्यस्य ॥ क्र्द्च्_८।६० ॥


सृजति स्थिती दश-षड्-अङ्ग-सायकान्
न्यसतात् ततो ऽन्यद् अखिलं पुरोक्तवत् ।
प्रविधाय सर्व-भुवनैक-साक्षिणं
स्मरतान् मुकुन्दम् अनवद्य-धीर-धीः ॥ क्र्द्_८।६१ ॥

गोविन्द-भट्टाचार्यः

सृष्टि-स्थिती समाचरेत् दशाङ्गानि षड्-अङ्गानि बाणांश् च देहे विन्यसेत् । तद्-अनन्तरम् आत्मार्चनाद्य्-अखिलं पूर्ववत् कृत्वा सकल-लोक-द्रष्टारं श्री-कृष्णं स्मरतात् चिन्तयतु, निर्मलास्थिरा बुद्धिर् यस्य स तथा तादृशः साधकः ॥ क्र्द्च्_८।६१ ॥


ध्यानम् आह-

अथ भूधरोदधि-परिष्कृते महो-
न्नत-शाल-गोपुर-विशाल-वीथिके ।
घन-चुम्ब्य्-उदग्रसित-सौध-सङ्कुले
मणि-हर्म्य-विस्तृत-कपाट-वेदिके ॥ क्र्द्_८।६२ ॥

गोविन्द-भट्टाचार्यः

अथानन्तरं स्वके पुरे मणि-मण्डपे सुर-पादपस्य कल्प-वृक्षस्याधो मणि-मय-भूतले परिस्फुरत् पृथु-सिंह-वक्त्र-चरणाम्बुजासने स्थूल-सिंह-मुखाकार-पादान्वित-पीठ-पद्मासने समुपविष्टम् अच्युतम् अभिचिन्तयेत् । कीदृशे पुरे ? भूधराः पर्वताः उदधिः समुद्रः एतैः परिष्कृते वेष्टिते तथा महोन्नतः अत्युच्चः शालः प्रकारो गोपुरं बहिर्-द्वारं च यत्र तस्मिन् तथा विशाला महती वीथिका पन्थाः यत्र तत्र कर्मधारयः तथा मेघ-स्पर्शि अतिशुद्ध-धवल-गृह-व्याप्ते तथा मणि-मय-गृहे विस्तीर्णाः कपाटाः तथा वेदिका परिष्कृत-भूमिर् यत्र तत्र ॥ क्र्द्च्_८।६२ ॥


पुनः कीदृशे पुरे ?

द्विज-भूप-विट्-चरण-जन्मनां गृहैर्
विविधैश् च शिल्पि-जन-वेश्मभिस् तथा ।
इभसप्त्युरभ्रखरधेनुसैर्भच्-
छगलालयैश् च लसितैः सहस्रशः ॥ क्र्द्_८।६३ ॥

गोविन्द-भट्टाचार्यः

सहस्रशो लोकैर् ब्राह्मण-क्षत्रिय-वैश्य-शूद्राणां नाना-प्रकार-गृहैः तथा शिल्पि-जनानां गृहस् तथा हस्त्य् अश्वमेष-गर्दभ-धेनु-महिष-च्छगलानां गृहैः शोभिते ॥ क्र्द्च्_८।६३ ॥


पुनः कीदृशे ?

विवधापणाश्रित-महाजनाहृत-
क्रय-विक्रय-द्रविण-सञ्चयाञ्चिते ।
जनमानसाहृति-विदग्ध-सुन्दरी-
जन-मन्दिरैः सुरुचिरैश् च मण्डिते ॥ क्र्द्_८।६४ ॥

गोविन्द-भट्टाचार्यः

नाना-प्रकार-विपणि-समाश्रिते महा-जनाहृत-क्रय-विक्रय-द्रविण-सञ्चय-व्याप्ते । पुनः कीदृशे ? जनानां चित्तापहरणे चतुराः ये वेश्या-जनास् तेषां गृहैः शोभमानैर् अलङ्कृते ॥ क्र्द्च्_८।६४ ॥


पुनः कीदृशे पुरे ?
पृथु-दीर्घका-विमल-पाथसि स्फुरद्-
विकचारविन्द-मकरन्द-लम्पटैः ।
वर-हंस-सारस्-रथाङ्गनामभिर्
विहगैर् विघुष्ट-ककुभि स्वके पुरे ॥ क्र्द्_८।६५ ॥

गोविन्द-भट्टाचार्यः

स्थूल-सरोवर-निर्मलोदके देदीप्यमान-विकसित-कमल-मकरन्दाख्य-रस-लोलुपैः श्रेष्ठ-हंस-सारस-चक्रवाक-सञ्ज्ञकैः पक्षिभिर् ध्वनिता दिशो यस्मिन् ॥ क्र्द्च्_८।६५ ॥

______________________________

पुनः कीदृशे मणि-मण्डपे ?

सुरपादपैः सुरभि-पुष्प-लोलुप-
भ्रमराकुलैर् विविध-कामदैर् नॄणाम् ।
शिव-मन्द-मारुत-चलच्-छिखैर् वृते
मणि-मण्डपे रवि-सहस्र-प्रभे ॥ क्र्द्_८।६६ ॥

गोविन्द-भट्टाचार्यः

कल्प-वृक्षैः सुगन्धि-पुष्प-लुब्ध-भ्रमर-व्याप्तैर् मनुष्याणां विविध-कामदैः शुभ-मन्द-मारुत-चलद्-अग्र-भागैस् तैर् वेष्टिते । सूर्य-सहस्र-मान-प्रभे ॥ क्र्द्च्_८।६६ ॥


पुनः कीदृशे ?

मणि-दीपिका-निकर-दीपितान्तरे
तनु-चित्र-विस्तृत-वितान-शालिनि ।
ललिते पिकस्वर-विचित्र-दामभिः
सुसुगन्धि गन्ध-सलिलोक्षित-स्थले ॥ क्र्द्_८।६७ ॥

गोविन्द-भट्टाचार्यः

मणिर् एव दीपिका तस्याः समूहे प्रकाशित-मध्य-भागे । पुनः कीदृशे ? सूक्ष्म-विचित्र-विस्तीर्ण-चन्द्रातप-युक्ते । पुनः कीदृशे ? विकसित-नाना-प्रकार-पुष्प-मालाभिः शोभिते अतिसुरभि-सलिल-सिक्त-स्थाने ॥ क्र्द्च्_८।६७ ॥


पुनः कीदृशे ?

प्रमदा-शतैर् मद-विघूर्णितेक्षणैर्
मद-जालसैः कर-विलोल-चामरैः ।
अभिसेविते स्खलित-मञ्जु-भाषितैः
स्तन-भार-भङ्गुर-कृशावलग्नकैः ॥ क्र्द्_८।६८ ॥

गोविन्द-भट्टाचार्यः

स्त्री-शतैर् मद-विघूर्णित-नेत्रैर् मद-जनितालस्य-सहितैः हस्त-स्थित-चञ्चल-चामरैर् ईषत्-स्खलित-मनोहर-वचनैः स्तन-भार-नम्र-सूक्ष्म-मध्य-प्रदेशैः परितः सेविते ॥ क्र्द्च्_८।६८ ॥


कथम्भूतस्य सुरपादपस्य ?

अविराम-धार-मणि-वर्य-वर्षिणः
श्रम-हानिदामृत-रस-च्युतो ऽप्य् अधः ।
सुर-पादपस्य मणि-भूतलोल्लसत्
पृथु-सिंह-वक्त्रचरणाम्बुजासने ॥ क्र्द्_८।६९ ॥

गोविन्द-भट्टाचार्यः

अविश्रान्त-मणि-श्रेष्ठ-धारा-वर्षिणः । पुनः कीदृशस्य ? श्रम-हानिकरामृत-रस-श्राविणः ॥ क्र्द्च्_८।६९ ॥


कीदृशम् अच्युतम् ?

अभिचिन्तयेत् सुख-निविष्टम् अच्युतं
नव-नील-नीर-रुह-कोमल-च्छविम् ।
कुटिलाग्र-कुन्तल-लसत्-किरीटकं
स्मित-पुष्प-रत्न-रचितावतंसकम् ॥ क्र्द्_८।७० ॥

गोविन्द-भट्टाचार्यः

नूतन-नीलोत्पल-रम्य-कान्तिम् । पुनः कीदृशम् ? कुटिलाग्र-केशेषु स्फुरत् किरीटं यस्य तम् । पुनः कीदृशम् ? स्मितम् ईषद् विकसितं पुष्पं रत्नानि च ते रचितो ऽवतंसो येन तम् ॥ क्र्द्च्_८।७० ॥


पुनः कीदृशम् ?
सुललाटम् उन्नसमुदञ्चित-भ्रुवं
विपुलारुणायत-विलोल-लोचनम् ।
मणि-कुण्डलास्र-परिदीप्त-गण्डकं
नव-बन्धु-जीव-कुसुमारुणाधरम् ॥ क्र्द्_८।७१ ॥

गोविन्द-भट्टाचार्यः

तथा शोभमान-ललाटं तथा उच्च-नासिकम् उद्गच्छद्-भ्रू-लताकम्, तथा स्थूलारुण-वर्ण-दीर्घ-चञ्चल-नयनम्, तथा मणि-मय-कुण्डल-किरण-परिशोभित-गण्ड-स्थलं यथा नूतन-बन्धु-जीव-पुष्प-सदृशारुणाधरम् ॥ क्र्द्च्_८।७१ ॥


पुनः कीदृशं परमेश्वरम् ?

स्मित-चन्द्रिकोज्ज्वलित-दिङ्मुखं स्फुरत्
पुलक-श्रमाम्बु-कण-मण्डिताननम् ।
स्फुरद्-अंशु-रत्न-गण-दीप्त-भूषणोत्-
तम-हार-दामभिर् उपस्कृतांसकम् ॥ क्र्द्_८।७२ ॥

गोविन्द-भट्टाचार्यः

हास-चन्द्र-किरण-धवली-कृत-दिङ्-मुखं तथा स्फुरद्-रोमाञ्च-जन्य-प्रस्वेद-बिन्दु-शोभित-वदनम् । पुनः कीदृशम् ? स्फुरद्-देदीप्यमान-किरण-रत्न-समूह-प्रकाशमान-भूषण-श्रेष्ठ-हार-मालाभिः शोभित-स्कन्धम् ॥ क्र्द्च्_८।७२ ॥


पुनः कीदृशम् ?
घन-सार-कुङ्कुम-विलिप्त-विग्रहं
पृथु-दीर्घ-षड्-द्वय-भुजा-विराजितम् ।
तरुणाब्ज-चारु-चरणाब्ज-मङ्गलोन्-
मथिताङ्गम् अङ्कग-कराम्बुज-द्वयम् ॥ क्र्द्_८।७३ ॥

गोविन्द-भट्टाचार्यः

पुनश् चन्दन-कुङ्कुमाभ्यां परिलिप्त-शरीरं पुनः स्थूल-दीर्घ-द्वादश-हस्तैर् विराजितं तथा नूतनारुण-वर्ण-पद्म-सदृश-चरण-पद्मं पुनः काम-पीडित-देहं पुनः स्वाङ्के आरोपित-हस्त-द्वयम् ॥ क्र्द्च्_८।७३ ॥


स्वाङ्क-स्थ-भीष्मक-सुतोरु-युगान्तर-स्थलं
तां तप्त-हेम-रुचिम् आत्म-भुजाम्बुजाभ्याम् ।
श्लिष्यन्तम् आर्द्र-जघनाम् उपगूहमानाम्
आत्मानम् आयत-लसत्-कर-पल्लवाभ्याम् ॥ क्र्द्_८।७४ ॥

गोविन्द-भट्टाचार्यः

पुनः स्वाङ्के स्थिताया रुक्मिण्या ऊरु-द्वयाभ्यन्तरे विद्यमानं । पुनस् तां रुक्मिणीं तप्त-सुवर्ण-कान्तिं स्वीय-हस्त-पद्माभ्याम् आलिङ्गन्तम् । कीदृशीं ताम् ? आर्द्र-जघनाम् पुनर् आत्मानम् श्री-कृष्णं दीर्घ-मनोहर-पाणि-पल्लवाभ्यां आलिङ्गन्तीम् ॥ क्र्द्च्_८।७४ ॥


आनन्दोद्रेक-निघ्नां मुकुलित-नयनेन्दीवरां स्रस्त-गात्रीं
प्रोद्यद्-रोमाञ्च-सान्द्र-श्रम-जल-कणिका-मौक्तिकालङ्कृताङ्गीम् ।
आत्मन्य् आलीन-बाह्यान्तर-करण-गणाम् अङ्गकैर् निस्तरङ्गैर्
मज्जन्तीं लीन-नाना-मतिम् अतुल-महानन्द-सन्दोह-सिन्धौ ॥ क्र्द्_८।७५ ॥

गोविन्द-भट्टाचार्यः

पुनः स्वात्मानन्दोद्रेक-व्याप्तां । पुनः मुद्रित-नयन-नीलोत्पलां । पुनः प्रोद्यत्-तनु-पुलक-जन्य-निविड-प्रस्वेद-बिन्दु-रूप-मौक्तिक-शोभित-देहां । पुनः आत्मनि श्री-कृष्णे सम्यग्-विलीन-बाह्याभ्यन्तरेन्द्रिय-समूहां । पुनर् व्यापार-रहितैः शरीरआवयवैर् अतिशयित-महानन्द-समूह-सागरे निमग्नां । पुनः विगत-चञ्चल-मतिम् ॥ क्र्द्च्_८।७५ ॥


पुनः कीदृशं परमेश्वरम् ?

सत्याजाम्बवतीभ्यां
दिव्य-दुकूलानुलेपनाभरणाभ्याम् ।
मन्मथ-शर-मथिताभ्यां
मुख-कमल-चञ्चल-लोचन-भ्रमराभ्याम् ॥ क्र्द्_८।७६ ॥

गोविन्द-भट्टाचार्यः

सत्यभ्हामा-जाम्बवतीभ्याम् आलिङ्गनम् । कथम्भूताभ्याम् ? उत्कृष्टानि पट्ट-वस्त्रानुलेपनाभरणानि ययोस् ताभ्यां । पुनः काम-शर-पीडिताभ्यां । पुनः कृष्ण-मुख-विषयक-चञ्चल-नेत्र-भ्रमराभ्याम् ॥ क्र्द्च्_८।७६ ॥


भुजग-युगलाश्लिष्टाभ्यां
श्यामारुण-ललित-कोमलाङ्ग-लताभ्याम् ।
आश्लिष्ट्म् आत्म-दक्षिण-
वाम-गताभ्यां करोल्लसत् कमलाभ्याम् ॥ क्र्द्_८।७७ ॥

गोविन्द-भट्टाचार्यः

पुनः परमेश्वरस्य भुज-युगलेनालिङ्गिताभ्याम् । यथा-क्रम-नीलारुण-वर्णे मनोहरे कोमले चाङ्ग-लते ययोस् ताभ्यां । पुनः परमेश्वरस्य दक्षिण-वाम-गताभ्यां । पुनः पाणि-स्फुरित-पद्माभ्याम् ॥ क्र्द्च्_८।७७ ॥


पुनः कीदृशम् ?
पृष्टगया कलिन्द-सुतया कर-कमल-युजा
सम्परिरब्धम् अञ्जन-रुचा मदन-मथितया ।
पद्म-गदा-रथाङ्ग-दर-भृद्-भुज-युगलं
दोर्-द्वय-सक्त-वंश-विलसन्-मुख-सरसि-रुहम् ॥ क्र्द्_८।७८ ॥

गोविन्द-भट्टाचार्यः

परमेश्वर-पृष्ठ-देश-वर्तिन्या यमुनया हस्त-धृत-कमलया समालिङ्गितम् । किम्भूतया श्यामया ? पुनः काम-पीडितया । पुनः कीदृशं परमेश्वरम् ? पद्म-गदा-शङ्ख-चक्र-युक्त-हस्त-चतुष्टयं हस्त-द्वय-धृत-वंश-विलसन्-मुख-कमलम् ॥ क्र्द्च्_८।७८ ॥

______________________________

दिक्षु बहिः सुरर्षि-यतिभिः खेचर-परिवृढैर्
भक्ति-भरावनम्र-तनुभिः स्तुति-मुखर-मुखैः ।
सन्तत-सेव्यमानम् अमनोवचन-विषयकम्
अर्थ-चतुष्टय-प्रदम् अमुं त्रिभुवन-जनकम् ॥ क्र्द्_८।७९ ॥

गोविन्द-भट्टाचार्यः

तृतीय-पटलोक्त-क्रमेणेत्य् अर्थः । पुनः बहिर् दिक्षु देवर्षि-यतिभिः खेचर-मुख्यैर् भक्त्य्-अतिशय-नम्र-देहैः । परिवृढैः प्रधानैः स्तुतिभिः वाचाल-वदनैर् निरन्तरं सेवितं पुनः मनसो वाचाम् अगोचरं पुनर् धर्मार्थ-काम-मोक्ष-फल-चतुष्टय-प्रदं पुनस् त्रैलोक्य-जनकम् ॥ क्र्द्च्_८।७९ ॥

______________________________

सान्द्रानन्द-महाब्धि-मग्नम् अमल-धाम्नि स्वके ऽवस्थितं
ध्यात्वैवं परमं पुमांसम् अनघात् सम्प्राप्य दीक्षां गुरोः ।
लब्ध्वामुं मनुम् आदरेण सित-धीर् लक्षं जपेद् योषितां
वार्ताकर्णन-दर्शनादि-रहितो मन्त्री गुरूणाम् अपि ॥ क्र्द्_८।८० ॥

गोविन्द-भट्टाचार्यः

पुनर् निविडानन्द-महा-समुद्र-मग्नम् । स्वीये निर्मले तेजसि-तद्-रूपेणावस्थितम् एवम् उक्त-रूपं परमेश्वरं विचिन्त्य निष्पापात् गुरोर् दीक्षा-मन्त्रोपदेश-विधिं प्राप्यामुं मन्त्रं लब्ध्वा तीक्ष्ण-बुद्धिः आदरात् लक्षम् एकं जपेत् । कीदृशः साधकः ? स्त्रीणां वृद्धानाम् अपि कथा-श्रवण-निरीक्षण-पराङ्मुखः ॥ क्र्द्च्_८।८० ॥


होमं सेवां चाह-

जुहुयाच् च दशांशकं हुताशे
ससिताक्षौद्र-घृतेन पायसेन ।
प्रथमोदित-पीठ-वर्यके ऽमुं
पर्यजेन् नित्यम् अनित्यता-विमुक्तये ॥ क्र्द्_८।८१ ॥

गोविन्द-भट्टाचार्यः

हुताशे वह्नौ दशांशकं । अयुतम् एकं शर्करा-मधु-घृत-युक्तेन परमान्नेन जुहुयात् । किं च पूर्वोक्त-दशाष्टादशाक्षर-कथिते पीठ-श्रेष्ठे नित्यम् अमुं यजेत् । किम् अर्थम् ? अनित्यः संसारस् तस्य परिहरणाय ॥ क्र्द्च्_८।८१ ॥


आरभ्याथ विभूति-न्यास-क्रमतः शरान्तम् अभ्यर्च्य ।
मूर्त्य्-आद्य्-अङ्गान्तं चात्मानं विंशत्य्-अर्णोदित-यन्त्र-वरे ॥ क्र्द्_८।८२ ॥

गोविन्द-भट्टाचार्यः

मध्य-बीजं परितो वरुणेन्दु-यमेन्द्र-दिक्षु संलिख्य ।
बीज-चतुष्कं तद् अपि चत्वारिंशद्भिर् अक्षरैर् द्व्य्-अधिकैः ॥ क्र्द्_८।८३ ॥
शिष्टैः प्रवेष्ट्य शिव-हरि-वस्व्-आद्य्-अश्रिष्व् अथ क्रमाद् विलिखेत् ।
वाङ्-माया-श्री-मन्त्रास् तद्वद् रक्षो ऽम्बुपानिलाश्रिषु च ॥ क्र्द्_८।८४ ॥
शेषं पूर्वोदितवद् विधाय पीठं यथावद् अभ्यर्च्य ।
सङ्कलय्य मूर्तिम् अत्रावाह्याभ्यर्चयतु मध्य-बीजे तम् ॥ क्र्द्_८।८५ ॥

आरभ्येत्य् आदि विभूति-पञ्जरम् आरभ्य न्यास-क्रमेण बाण-पर्यन्तं पूजयित्वा मूर्ति-न्यासम् आरभ्याङ्ग-न्यास-पर्यन्तं चात्म-रूपं सम्पूज्य पूर्वोक्त-विंशत्य्-अक्षर-मन्त्रोक्तं यन्त्र-श्रेष्ठ-कर्णिका-मध्य-स्थित-वह्नि-पुर-युग-मध्ये मध्यम-बीज-मध्ये बीजम् इति पाठ-स्वरसात् हल्-लेखा-बीजम् इति रुद्रधर-गोविन्द-मिश्र-प्रभृतयः । परस्तह्-मध्यम-बीजम् इति पाठे काम-बीजं विलिख्य तत्-परितश् च पश्चिमोत्तर-पूर्व-दक्षिण-दिक्षु बीज-चतुष्कं द्रीं त्रीं जीं झ्रीं इति बीज-चतुष्टयं विलिख्य तद् अपि बीज-चतुष्टयं द्वि-चत्वारिंशत् जपादि-स्वाहान्तैः शिष्टैर् मन्त्राक्षरैर् उपरि वेष्टयेत् । अनन्तरं शिव ईशानः हरिर् इन्द्रः पूर्वादि दिग् इत्य् अर्थः । वसुर् अग्निः आग्नेयादिक एवं नैरृती-वारुणी-वायवी-दिग्
एतेषु कोणेषु क्रमेण वाग्-भव-भुवनेश्वरी-श्री-बीजानि त्रिर् आवृत्य विलिखेत् ।

अवशिष्टं पीठ-विधानं पूर्ववत् समाप्य पीठं यथावत् पूजयित्वा तत्र पीठे कर्णिका-मध्य-स्थित-काम-बीजे रुक्मिणी-वल्लभ-मूर्तिं सङ्कल्प्य ध्यात्वा तम् आवाह्य पूजयेत् ॥ क्र्द्च्_८।८२-८५ ॥


मुख-दक्ष-सव्य-पृष्ठग-बीजेष्व् अर्च्यास् तु शक्तयः क्रमशः ।
रुक्मिण्य्-आद्याः षट्स्व् अथ कोणेष्व् अङ्गानि केशरेषु शरान् ॥ क्र्द्_८।८६ ॥

गोविन्द-भट्टाचार्यः

अनन्तरं देवस्य सन्-मुख-दक्षिण-वाम-पृष्ठ-प्रदेश-गतेषु बीज-चतुष्टयेषु रुक्मिण्य्-आद्याः शक्तयः पूज्याः षट्-कोणेषु अङ्गानि केशरेषु शरान् पूजयेत् ॥ क्र्द्च्_८।८६ ॥


लक्ष्म्य्-आद्या दल-मध्येष्व् अग्न्य्-आदिषु तद् बहिर् ध्वज-प्रमुखान् ।
अग्रे केतुं श्याम पृष्ठे विपम् अरुणम् अमल-रक्त-रुची ॥ क्र्द्_८।८७ ॥

गोविन्द-भट्टाचार्यः

पार्श्व-द्वये निधीशौ सन्तत-धाराभिवृष्ट-धन-पुञ्जौ ।
हेरम्ब-शास्तृ-दुर्गा-विष्वक्सेनान् विदिक्षु वह्न्य्-आदि ॥ क्र्द्_८।८८ ॥
विद्रुम-मरकत-दूर्वा-स्वर्णाभान् बहिर् अथेन्द्र-वज्राद्यान् ।
यजन-विधानम् इतीरितम् आवृति-सप्तक-युतं मुकुन्दस्य ॥ क्र्द्_८।८९ ॥

अग्न्य्-आदि-पत्र-मध्येषु लक्ष्म्य्-आद्या पूज्याः । तत्र बहिर्-भागे ध्वज-प्रभृतीन् पूजयेत् । अनन्तरं देवस्य सन्-मुखे श्याम-वर्ण-केतु-नामानं गणं पूजयेत् । देव-पृष्ठ-भागे अरुण-वर्णं गरुडं पूजयेत् । देव-पार्श्व-द्वये निर्मल-रक्त-रुचीर् निधीश्वरौ पूज्यौ कीद्र्शौ ? निरन्तर-धाराभिर् वृष्ट-धन-समूहौ ।

वह्न्य्-आदि-विदिक्षु हेरम्बादीन् प्रवालादि-वर्णान् पूजयेत् । अनन्तरं बहिर्-दिक्षु इन्द्रादि-लोक-पालान् तथा वर्जार्द्य्-आयुधानि पूजयेत् । इति पूर्वोक्त-प्रकारेण मुकुन्दस्य श्री-कृष्णस्यावरण-सप्तकं पूजा-विधानं कथितम् इति ॥ क्र्द्च्_८।८७-८९ ॥


इत्य् अर्चयन्न् अच्युतम् आदरेण
यो ऽमुं भजेन् मन्त्रवरं जितात्मा ।
सो ऽभ्यर्च्य दिव्य-जनैर् जनानां
हृन्-नेत्र-पङ्केरुह-तिग्म-भानुः ॥ क्र्द्_८।९० ॥

गोविन्द-भट्टाचार्यः

इति अमुना प्रकारेण यो जितेन्द्रियो अच्युतं कृष्णं भक्त्या पूजयन् अमुं मन्त्र-श्रेष्ठं सेवते स पुरुषः सुरैर् अपि पूज्यते । कीदृशः ? लोकानां हृदय-पद्म-लोचन-पद्मयोः सूर्यः सर्व-जन-वशीकरण-मन्त्रः समर्थ इत्य् अपि पाठः ॥ क्र्द्च्_८।९० ॥


सित-शर्करोत्तर-पयः-प्रतिपत्त्या
परितर्पयेद् दिन-मुखे दिन-शस्तम् ।
सलिलैः शतं शत-मख-श्रियम् एष
स्व-विभूत्य्-उदन्वति करोत्य् उद-बिन्दुम् ॥ क्र्द्_८।९१ ॥

गोविन्द-भट्टाचार्यः

सित-शर्करा-प्रधान-प्रतिपत्त्या दुग्ध-बुद्ध्याः जलैर् एव दिन-मुखे प्रातः-काले प्रतिदिनं शत-कृत्वस् तं तर्पयेत् । अनन्तरं साधकः स्वाधिपत्य-समुद्रे इन्द्रस्य लक्ष्मीं जल-बिन्दुवत् ॥ क्र्द्च्_८।९१ ॥


विदल-हलैः सुमनसः सुमनोभिर्
घनसार-चन्दन-बहु-द्रव-मग्नैः ।
मनुनामुना हवनतो ऽयुत-सङ्ख्यं
त्रिजगत् प्रियः स मनुवित् कविराट् स्यात् ॥ क्र्द्_८।९२ ॥

गोविन्द-भट्टाचार्यः

अनेन मन्त्रेण सुमनसो जाती-मालतीनाम् अधेयस्य सुमनोभिः पुष्पैः विकसि । तैः कर्पूर-युक्त-चन्दनस्य बहु-द्रव-व्याप्तैर् अयुत-सङ्ख्यं हवनतो ऽयुत-होमे न स मन्त्री त्रैलोक्यस्य प्रियः कवि-श्रेष्ठश् च भवति ॥ क्र्द्च्_८।९२ ॥


ध्यानाद् एवास्य सद्यस् त्रिदश-मृग-दृशोर् वश्यतां यान्त्य् अवश्यं
कन्दर्पार्ताजपाद्यैः किम् अथ न सुलभं मन्त्रतो ऽस्मान् नरस्य ।
स्पर्धाम् उद्धूय चित्रं महद् इदम् अपि नैसर्गिकीं शश्वद् एनं
सेवेते मन्त्रि-मुख्यं सरसिज-निलया चापि वाचाम् अधीशा ॥ क्र्द्_८।९३ ॥

गोविन्द-भट्टाचार्यः

अस्य रुक्मिणी-वल्लभस्य ध्यानात् शीघ्रं त्रिदश-मृग-दृशः देवाङ्गना अवश्यं वश्यताम् आयात्ततां प्राप्नुवन्ति । कथम्भूताः ? काम-पीडिता । अथानन्तरं जप-होमादिनास्मात् मन्त्रात् साधकस्य किं न सुलभम् । अपि तु सर्वम् एव सुलभम् इत्य् अर्थः । किं च, इदम् अपि महच् चित्रं यत् सरसिज-निलया लक्ष्मीः वाचाम् अधीशा सरस्वती च स्वाभाविकीम् असूयां त्यक्त्वा नित्यम् एनं साधक-श्रेष्ठं सेवेते ॥ क्र्द्च्_८।९३ ॥


आधि-व्याधि-जरापमृत्यु-दुरितैर् भूतैः समस्तैर् विषैर्
दौभाग्येन दरिद्रतादिभिर् असौ दूरं विमुक्तश् चिरम् ।
सत्-पुत्रैः सुसुतासुमित्रनिवहैर् जुष्टोखिलाभिः सदा
सम्पद्भिः परिजुष्ट ईडित-यशा जीवेद् अनेकाः समाः ॥ क्र्द्_८।९४ ॥

गोविन्द-भट्टाचार्यः

किं च मनो-दुःख-रोग-जरापमृत्यु-शोक-शून्यः सकल-प्राणिभिर् विषैः तथा दुरदृष्टेन तथा दरिद्रतादिभिर् अतिशयेन परित्यक्तो बहु-कालं व्याप्य-विशिष्ट-पुत्र-समेतः सत्-पुत्री-मित्र-समूहेन सेवितः सदा समृद्धः ईदित-यशाः स्तुत-यशाः असौ साधकः अनेकाः समा हायनानि जीवेत् ॥ क्र्द्च्_८।९४ ॥


मन्त्रान्तरेभ्यो ऽस्यातिशयित्वम् आह-

अखिल-मनुषु मन्त्रा वैष्णवा वीर्यवन्तो
महिततर-फलाढ्यास् तेषु गोपाल-मन्त्राः ।
प्रबलतर इहैषो ऽमीषु सम्मोहनाख्यो
मनुर् अनुपम-सम्पत्-कल्पनाकल्प-शाखी ॥ क्र्द्_८।९५ ॥

गोविन्द-भट्टाचार्यः

सर्वेषु मन्त्रेषु वैष्णव-मन्त्रा अतिशयेन सवीर्याः तेष्व् अपि वैष्णव-मन्त्रेषु गोपाल-मन्त्रा अतिपूजित-फल-युक्ताः तेष्व् अपि गोपाल-मन्त्रेषु एष सम्मोहनाख्य-मन्त्रः प्रबलतरः प्रकृष्ट-बल-युक्तः । पुनः निरुपमैश्वर्य-दानैक-कल्प-वृक्षः ॥ क्र्द्च्_८।९५ ॥


मनुम् इमम् अतिहृद्यं यो भजेद् भक्ति-नम्रो
जप-हुत-यजनाद्यैर् ध्यानवान् मन्त्रि-मुख्यः ।
त्रुटित-सकल-कर्म-ग्रन्थिर् उद्बुद्ध-चेताः
व्रजति स तु पदं तन् नित्य-शुद्धं मुरारेः ॥ क्र्द्_८।९६ ॥

गोविन्द-भट्टाचार्यः

यो मन्त्रि-मुख्यः साधक-श्रेष्ठः ध्यान-युक्तः भक्त्या आराध्यत्व-ज्ञानेन इमं मन्त्रं मनोहरं जप-ध्यान-होमादिभिर् भजेत् स मुरारेस् तत्-प्रसिद्धं पदं व्रजति प्राप्नोति मुरा अविद्या तस्या नाशकस्य पदम् । कीदृशं पदम् ? अविनाशि सर्व-कालुष्य-रहितम् । स कीदृशः ? विनाशित-सकल-कर्म-बन्धनः । पुनः कीदृशः ? उद्बुद्ध-चेता वस्तु-ग्रहणोन्मुख-चित्तः ॥ क्र्द्च्_८।९६ ॥


अथ योगम् आह-

अङ्गीकृत्यैकम् एषां मनुम् अथ जप-होमार्चनाद्यैर् मनूनाम्
अष्टाङ्गोत्सारितारिः प्रमुदित-परिशुद्ध-प्रसन्नान्तरात्मा ।
योगी युञ्जीत योगान् समुचित-विहृति-स्वप्न-बोधा हृतिः स्यात्
प्रागास्यश् चासने स्वे सुमृदुनि समुखं मीलिताक्षो निविष्टः ॥ क्र्द्_८।९७ ॥

गोविन्द-भट्टाचार्यः

एषां मनूनां मन्त्राणां मध्ये एकं मनुम् मन्त्र-जप-होमादिभिः स्वीकृत्य वशीकृत्य अष्टाङ्गेन यम-नियम-प्राणायाम-प्रत्याहार-ध्यान-धारणा-समाधि-लक्षणेन उत्सारितास् त्यक्ताः काम-क्रोधादयो ऽरयो येन स तथा हर्षित-निर्मल-प्रसन्न-चित्तो योगी प्राग्-वदनः सन् योगान् चित्त-वृत्ति-निरोधादीन् करोतु । कीदृशो योगी ? यथोचित-विहार-निद्रा-प्रबोधाहारः । पुनः स्वकीये सुकोमले आसने समुपविष्टः । पुनः कीदृशः ? सुखेनानायसेन सम्मीलिते मुद्रिते अक्षिणी येन सः ॥९७॥


विश्वं भूतेन्द्रियान्तःकरण-मयमिनेन्द्व्-अग्नि-रूपं समस्तं
वर्णात्मैतत् प्रधाने कल-नयन-मये बीज-रूपे ध्रुवेण ।
नीत्वा तत्-पुंसि बिन्द्व्-आत्मनि तम् अपि परात्मन्य् अथो काल-तत्त्वे
तं वै शक्तौ चिद्-आत्मन्य् अपि नयतु च तां केवले धाम्नि शान्ते ॥ क्र्द्_८।९८ ॥

एतद्-वर्णात्मकं समस्तं विश्वं भूतेन्द्रियान्तः-करण-रूपं सूर्येन्द्व्-अग्नि-रूपं प्रधाने प्रकृति-रूपे काम-बीजे प्रणवेन नीत्वा तत्र विलीनं विचिन्त्य तत् काम-बीजं बिन्द्व्-आत्मनि प्रसिद्धे ऽनुस्वाराख्ये तम् अपि बिन्द्व्-आत्मानं नादाख्ये काल-तत्त्वे परमात्मनि संहरेत् तम् अपि काल-तत्त्वं चिद्-रूपायां शक्तौ संहरेत् ताम् अपि शक्तिं केवले तेजो-मये स्व-प्रकाशे धाम्नि तेजसि शान्ते सर्वोपद्रव-रहिते नयतु ॥ क्र्द्च्_८।९८ ॥


कीदृशे ?

निर्द्वन्द्वे निर्विशेषे निरतिशय-महानन्द-सान्द्रे ऽवसाना-
पेते ऽर्थे कृष्ण-पूर्वमल-रहित-गिरां शाश्वते स्वात्मनीत्थम् ।
संहृत्याभ्यस्य बीजोत्तमम् अथ शनकैर् लीन-निश्वास-चेताः
प्रक्षीणापुण्य-पुण्यो निरुपम-पर-संवित्-स्वरूपः स भूयात् ॥ क्र्द्_८।९९ ॥

गोविन्द-भट्टाचार्यः

निर्द्वन्द्वे शीतोष्णादि-द्वन्द्व-विशेष-रहिते विशेषो वैधर्म्यं तद्-रहिते अत्यन्तानन्द-घने अनन्ते कृष्ण-गोविन्दादि-निर्मल-शब्दानां प्रतिपाद्ये आत्म-स्वरूपे इत्थम् अमुना प्रकारेण संहृत्य संहारं कृत्वा काम-बीजं जपन् । अथानन्तरं स्वयम् एव निश्चल-श्वास-चित्तो भूत्वा प्रक्षीण-पाप-पुण्यश् च भूत्वा स योगी निरुपमः परम-संविन्-मयो भवति ॥ क्र्द्च्_८।९९ ॥


मूलाधारे त्रि-कोणे तरुणतरणिभाभास्वरे विभ्रमन्तं
कामं बालार्क-कालानल-जठर-कुरङ्गाङ्क-कोटि-प्रभासम् ।
विद्युन्-माला-सहस्र-द्युति-रुचिर-हसद्-बन्धु-जीवाभिरामं
त्रैगुण्याक्रान्त-बिन्दुं जगद्-उदय-लयैकान्त-हेतुं विचिन्त्य ॥ क्र्द्_८।१०० ॥

गोविन्द-भट्टाचार्यः

त्रिकोणात्मके मूलाधारे उद्यद्-आदित्यवत् प्रकाशमाने भ्रममाणं काम-बीजं नूतनादित्य-प्रलय-कालीन-वह्नि-चन्द्र-कोटि-तुल्य-कान्तिं पुनस् तडिन्-माला-सहस्र-कान्तिं पुनः नूतन-पुष्पित-बन्धुकवन् मनोहरं सत्त्वादि-गुण-त्रयेण व्याप्तो ऽनुस्वार-सञ्ज्ञको बिन्दुर् येन तं पुनः विश्वोत्पत्ति-नाशैक-कारणम् ॥ क्र्द्च्_८।१०० ॥


तस्योर्ध्वे विस्फुरन्तीं स्फुट-रुचिर-तडित्-पुञ्ज-भाभास्वराभाम्
उद्गच्छन्तीं सुषुम्णा-सरणिम् अनु-शिखाम् आललाटेन्दु-बिम्बम् ।
चिन्-मात्रां सूक्ष्म-रूपां कलित-सकल-विश्वां कलां नाद-गम्यां
मूलं या सर्व-धाम्नां स्मरतु निरुपमां हुङ्कृतोदञ्चितेरः ॥ क्र्द्_८।१०१ ॥

गोविन्द-भट्टाचार्यः

तस्य काम-बीजस्य उपरि बिद्नु-गत-कुण्डलिनीं शक्तिं दीप्यमानां चिन्तयतु । किम्भूताम् ? प्रव्यक्त-मनोहर-विद्युत्-सहस्रवत् प्रकाशमान-कान्तिम्, पुनः ललाट-चन्द्र-बिम्बान्तं सुषुम्णा-रन्ध्रं यान्तीम्, पुनः अनु अनुगता बीज-गत-बिइम्बात्मके वह्नि-शिखा ज्वाला यस्यां सा तथा ताम् । पुनः किम्भूताम् ? चित्-स्वरूपाम् । पुनः दुर्लक्षां । पुनर् आप्त-सकल-विश्वां । पुनः कला-रूपाम् । पुनः नादानुमेयां । पुनः सर्व-तेजसां मूल-भूताम् । कीदृशो ऽधिकारी ? हुङ्कारेण उदञ्चित ऊर्ध्वम् उत्पाटित इरो वायुर् अपानाख्यो येन स तथा ॥ क्र्द्च्_८।१०१ ॥


नीत्वा ता शनकैर् अधोमुख-सहस्रारारुणाब्जोदर-
द्योतत्-पूर्ण-शशाङ्क-बिम्बम् अमुतः पीयूष-धारा-सृतिम् ।
रक्तां मन्त्रमयीं निपीय च सुधा-निस्यन्द-रूपां विशेद्
भूयो ऽप्य् आत्म-निकेतनं पुनर् अपि प्रोत्थाय पीत्वा विशेत् ॥ क्र्द्_८।१०२ ॥

गोविन्द-भट्टाचार्यः

तां कुण्डलिनीं शक्तिं शनकैर् यथा स्याद् एवम् अधोमुख-सहस्र-दलारुण-कमल-मध्य-द्योतमान-पूर्ण-चन्द्र-मण्डलं नीत्वा अस्माच् चन्द्र-बिम्बाद् अमृत-धारा-वृष्टिं रक्त-वर्णां वर्णात्मिकाम् अमृत-स्रव-रूपां पाययित्वा आत्म-निकेतनं मूलाधारे प्रवेशयेत् । भूयो ऽनन्तरम् अपि तथैव ताम् उत्थाप्य तथा कृत्वा पुनस् तथा निज-स्थानं प्रापयेद् इति ॥ क्र्द्च्_८।१०२ ॥


एतादृशाभ्यासस्य फलम् आह-

यो ऽभ्यस्यत्य् अनुदिनम् एवम् आत्मनो ऽन्तं
बीजेशं दुरित-जरापमृत्यु-रोगान् ।
जित्वासौ स्वयम् इव मूर्तिमान् अनङ्गः
सञ्जीवेच् चिर-मलिनीलकेश-पाशः ॥ क्र्द्_८।१०३ ॥

गोविन्द-भट्टाचार्यः

यः प्रत्यहम् अनेन प्रकारेण शरीर-मध्ये काम-बीजम् अभ्यस्यत्य् आत्मनो ऽन्तं मनो-लयान्तम् इदम् अभ्यस्यतीति क्रिया-विशेषणम् असौ साधकः दुरित-जरापमृत्यु-रोगान् पराभूय स्वयम् एव देह-धारि-कन्दर्पो भूत्वा चिर-कालं जीवति । कीदृशः ? भ्रमर-वर्णवत् श्याम-केश-समूहः ॥ क्र्द्च्_८।१०३ ॥


स्फुट-मधुर-पदार्ण-श्रेणिर् अत्यद्भुतार्था
झटिति-वदन-पद्माद् विस्फुरत्य् अस्य वाणी ।
अपि च सकल-मन्त्रास् तस्य सिध्यन्ति मङ्क्षु
व्युपरम-घन-सौख्यैकास्पदं वर्तते सः ॥ क्र्द्_८।१०४ ॥

गोविन्द-भट्टाचार्यः

अस्य साधकस्य मुख-कमलान् शीघ्रं सरस्वती प्रभवती । किम्भूता ? प्रव्यक्त-मनोहर-पद-वर्ण-समूहात्मिका अत्याश्चर्य-विषया किन्तु अस्य साधकस्य मङ्क्षु अन्ये ऽपि मन्त्राः सिध्यन्ति किं च स साधकः अविश्रान्त-निविड-सुख-मात्र-स्थान्ं भूत्वा तिष्ठति ॥ क्र्द्च्_८।१०४ ॥


भ्राम्यन्-मूर्तिं मूल-चक्राद् अनङ्ग
स्वाभिर् भाभीरक्त-पीयूष-युग्भिः ।
विश्वाकाशं पूरयन्तं विचिन्त्य
प्रत्यावेश्यास् तत्र वश्याय साध्याः ॥ क्र्द्_८।१०५ ॥

गोविन्द-भट्टाचार्यः

नार्यो नरो वा नगरी सभापि वा
प्रवेशितास् तत्र निशात-चेतसा ।
स्युः किङ्करास् तस्य झटित्य् अनारतं
चिराय तन् निघ्न-धियो न संशयः ॥ क्र्द्_८।१०६ ॥

मूल-चक्रान् मूलाधारे अत्र सप्तम्य्-अर्थे पञ्चमी भ्रमण-मूर्तिं काम-बीजं स्वकीयाभिर् दीप्तिभिर् लोहितामृत-युक्ताभिर् ब्रह्माण्ड-मध्य-प्रदेशे पूर्यमाणं ध्यात्वा निशात-चेतसा तीक्ष्ण-मतिना तत्र नारी-प्रभृतयः साध्यावश्यार्थं प्रत्यावेश्याः प्रक्षेप्तव्या । अनन्तरं तत्र प्रवेशिताः प्रवेश-प्रापिताः स्त्री-प्रभृतयस् तन्-निमग्न-धियस् तेन हृत-चित्ताः । तस्य साधकस्य शीघ्रं चिर-कालम् आज्ञा-कारिणो भवन्ति नात्र सन्देहः ॥ क्र्द्च्_८।१०५-१०६ ॥


तरणि-दल-सनाथे शक्र-गोपारुणे यो
रवि-शशि-शिखि-बिम्ब-प्रस्फुरच्-चारु-मध्ये ।
हृदय-सरसिजे ऽमुं श्यामलं कोमलाङ्गं
सुसुखम् उपनिविष्टं तं स्मरेद् वासुदेवम् ॥ क्र्द्_८।१०७ ॥

गोविन्द-भट्टाचार्यः

तद्-द्वादश-दल-युक्ते हृदय-कमले इन्द्र-गोपाख्यो रक्त-कीट-विशेषः तद्वद् अरुणे सूर्य-वह्नि-चन्द्र-मण्डल-शोभित-चारु-मध्य-प्रदेशे अमुं श्याम-वर्णं कोमलाङ्गं सुकुमाराङ्गं सुख-प्रकारेणोपविष्टं वासुदेवं चिन्तयेत् ॥ क्र्द्च्_८।१०७ ॥


पादाम्भोज-द्वये ऽङ्गुल्य्-अमल-किशलयेष्व् आबलौ सन्-नखानां
सत्-कूर्मोदार-कान्तौ प्रपद-युजि लसज्-जङ्घिका-दण्डयोश् च ।
जान्वोर् ऊर्वोः पिशङ्गे नव-वसन-वरे मेखला-दाम्नि नाभौ
रोमावल्याम् उदारोदर-भुवि विपुले वक्षसि प्रौढ-हारे ॥ क्र्द्_८।१०८ ॥

गोविन्द-भट्टाचार्यः

आदि-पुंसः श्री-कृष्णस्य पादाम्भोजम् आरभ्य हसितान्तेषु स्थानेषु वक्ष्यमाणेषु शनैर् यथा स्यात् तथा इति क्रमतः स्थान-क्रमतः स्थान-क्रमेण स्वीयं मनः स्थापयतु । तथा पाद-पद्म-द्वये प्रथमं मनः स्थापयेत् । तद्-अनन्तरं पूर्वं पूर्वं अपोह्यापर-स्थानेषु मनो निदध्याद् अङ्गुल्य एवामल-किशलया निर्मल-पल्लवास् तेषु । तद् अनु नखानां शोभमान-पङ्क्तौ तद्-अनु प्रपद-युजि पाद-द्वये । कीदृशे ? कूर्म-पृष्ठवद् उपरि-भागे उन्नते । तद्-अनु देदीप्यमान-जङ्घा-द्वये । तद्-अनु जानु-द्वये ऊरु-द्वये पीत-वर्णे नूतन-वस्त्रयोः श्रेष्ठे क्षुद्र-घण्टिका-मालायां नाभि-प्रदेशे तन्-निष्ठ-रोम-पङ्क्तौ च विपुलोदर-स्थाने महाहार-युक्ते विस्तीर्णे वक्षसि ॥ क्र्द्च्_८।१०८ ॥


श्रीवत्से कौस्तुभे च स्फुट-कमल-लसद्-बद्ध-हृद्-दाम्नि बाह्वोर्
मूले केयूर-दीप्ते जगद्-अवन-पटौ दोर्-द्वये कङ्कणाढ्ये ।
पाणि-द्वन्द्वाङ्गुलि-स्थे ऽतिमधुर-रव-संलीन-विश्वे च वेणौ
कण्ठे सत्-कुण्डलोस्रस्फुट-रुचिर-कपोल-स्थ-द्वन्द्वके च ॥ क्र्द्_८।१०९ ॥

गोविन्द-भट्टाचार्यः

श्रीवत्से विप्र-पादावघात-तर्जन्योर्ध्व-रोमात्मके कौस्तुभे हृदय-निविष्ट-मणि-विशेषे विकसित-पद्म-मालायां केयूर-शोभित-बाह्वोर् मूले संसार-रक्षण-दक्षे कङ्कण-युक्ते बाहु-द्वये हस्त-द्वयाङ्गुलि-निष्ठे अतिमधुर-शब्देन मग्नं जगत्-त्रयं येन एवम्भूते वेणौ । तद्-अनु कण्ठे रम्य-कुण्डल-किरण-प्रकाशित-मनोहर-कपोल-स्थ-युगले ॥ क्र्द्च्_८।१०९ ॥


कर्ण-द्वन्द्वे च घोणे नयन-नलिनयोर् भ्रू-विलासे ललाटे
केशेष्व् आलोल-बर्हेष्व् अतिसुरभि-मनोज्ञ-प्रसूनोज्ज्वलेषु ।
शोणे विन्यस्त-वेणाव् अधर-किशलये दन्त-पङ्क्त्यां स्मिताख्ये
ज्योत्स्नायाम् आदि-पुंसः क्रम इति च शनैः स्वं मनः सन्निधत्ताम् ॥ क्र्द्_८।११० ॥

गोविन्द-भट्टाचार्यः

कर्ण-द्वये नासा-युगले नेत्र-पद्म-द्वये भ्रू-विक्षेपे ललाटे चञ्चल-मयूर-पुच्छ-युक्तेषु अतिसुगन्धित-मनोहर-पुष्पोज्ज्वलेषु केशेषु शोण-वर्णे आरोपित-वेणौ अधर-पल्लवे दन्त-पङ्क्त्यां स्मितम् आख्या नाम यस्या तस्यां ज्योत्स्नायाम् चन्द्र-कान्तौ ज्योत्स्ना-तुल्ये स्मिते ॥ क्र्द्च्_८।११० ॥


यावन् मनो-विलयम् एति हरेर् उदारे
मन्द-स्मिते ऽभ्यसतु तावद् अनङ्ग-बीजम् ।
अष्टादशार्णम् अथवापि दशार्णकं वा
मन्त्री शनैर् अथ समाहित-मातरिश्वा ॥ क्र्द्_८।१११ ॥

गोविन्द-भट्टाचार्यः

हरेर् उदारे शोभमाने मन्द-स्मिते मनो यावद् विलयम् विशेषतो लयम् एति तावद् अनङ्ग-बीजम् अष्टादशार्णम् दशार्णं वा प्रजपतु । किम्भूतः ? समाहित-मातरिश्वा प्रत्याहरीकृतः प्राण-वायुः ॥ क्र्द्च्_८।१११ ॥


आरोप्यारोप्य मनः पदारविन्दादि-मन्द-हसितान्तम् ।
तत्र विलाप्य क्षीणे चेतसि सुख-चित्-सद्-आत्मको भवति ॥ क्र्द्_८।११२ ॥

गोविन्द-भट्टाचार्यः

मनः पदारविन्दम् आरभ्य ईसद्-हास्य-पर्यन्तं समारोप्यानन्तरम् । तत्र विलाप्य लीनं कृत्वा क्षीणे शुद्धे चित्ते सति सुख-ज्ञान-सद्-आत्मको भवति साधकः ॥ क्र्द्च्_८।११२ ॥


न्यास-जप-होम-पूजा-तर्पण-मन्त्राभिषेक-विनियोगानाम् ।
दीपिकयैव मयोद्भाषितः क्रमः कृत्स्न-मन्त्र-गण-कथितानाम् ॥ क्र्द्_८।११३ ॥

गोविन्द-भट्टाचार्यः

कृष्ण-मन्त्र-समूह-कथितानां न्यास-जपादीनां क्रम-दीपिकयैव क्रमः प्रकाशितः ॥ क्र्द्च्_८।११३ ॥


संशय-तिमिर-च्छिदुरा सैषा क्रम-दीपिका करेण सद्भिः ।
कर-दीपिकेव धार्या सस्नेहम् अहर्निशं समस्त-सुखाप्त्यै ॥ क्र्द्_८।११४ ॥

गोविन्द-भट्टाचार्यः

सैषा क्रम-दीपिका साधु-जनैः स-स्नेहं यथा स्यात् तथा कर-दीपिकेव धार्या । किम्भूता ? संशय-रूपान्धकार-च्छेदयित्री अन्यापि तैलादि-स्नेह-सहितं यथा स्यात् तथा धार्यते अन्धकार-नाशिनी भवति । किम् अर्थं धार्या ? समस्त-सुख-प्राप्त्य्-अर्थम् ॥ क्र्द्च्_८।११४ ॥


जगद् इदम् अनुबिद्धं येन यस्मात् प्रसूते
यद् अनु ततम् अजस्रं पाति चाधिष्ठिता यम् ।
यद् उरु मह उदर्चिर् यं विधत्ते च गोपी
तम् अमृत-सुख-बोध-ज्योतिषं नौमि कृष्णम् ॥ क्र्द्_८।११५ ॥

गोविन्द-भट्टाचार्यः

जगद् इदम् अनुविद्धम् अनुस्यूतं येन ज्योतिषा यस्मात् परमेश्वरात् इमं जन-लोकं संसाराख्यं प्रसूते प्रसूतिं प्रानोतीत्य् अर्थः । यस्मिन्न् इत्य् अपि पाठः । तथा परमेश्वरम् अधिष्ठातारम् आश्रिता सती अनुततं विस्तृतं जगत् अजस्रं सर्वदा पाति रक्षति यस्य परमेश्वरस्य ऊरु विपुलं महः तेजः तत् उदर्चिस् तत्-तेजसा उदित-दीप्तिः सती यं प्रतिबिम्ब-रूपेण धत्ते तम् उक्तानन्दं स्व-प्रकाशं नौमि स्तौमि ॥ क्र्द्च्_८।११५ ॥


यश् चक्रं निज-केलि-साधनम् अधिष्ठान-स्थितो ऽपि प्रभुर्
दत्तं मन्मथ-शत्रुणावन-कृते व्यावृत्त-लोकात्तिकम् ।
धत्ते दीप्त-नवेन शोभनम् अघापेतात्त-मायं ध्रुवं
वन्दे काय-विमर्दनं वध-कृतां भुञ्जद्-द्युकं यादवम् ॥ क्र्द्_८।११६ ॥

गोविन्द-भट्टाचार्यः

यः परमेश्वरः श्री-कृष्णः वक्ष्यमाण-लक्षणं चक्रं धत्ते तं वन्दे इत्य् अन्वयः । कथम्भूतं चक्रम् ? निज-केलि-साधनं निज-युद्ध-क्रीडा-करणम् । कीदृशः परमेश्वरः ? अधिष्ठान-स्थितो ऽपि समाधि-स्थितो ऽपि । यद् वा, बाह्य-स्थितो ऽपि प्रभुः स्वामी । पुनः कीदृशैः ? मन्मथ-शत्रुणा महा-देवेन अवने अवन-कृते सर्व-लोक-रक्षार्थं दत्तम् । पुनर् दूरीकृतातिवृष्ट्य्-अनावृष्ट्य्-आद्य्-अपद्रवम्, पुनः दीप्त-नवेन इव शोभनं देदीप्यमानम् । किं भूतं कृष्णम् ? पाप-रहितं स्वीकृत-मायं पुनर् ध्रुवम् अविनाशिनं पुनर् वध-कृताम् उपद्रव-कारिणां काय-विमर्दनं शरीर-नाशकं पुनः भुञ्जद्-द्युकं भुञ्जत्-स्वर्ग-लोकं पुनर् जात्यायाद् अवम् इत्य् अर्थः
। अत्र पद्ये चक्र-बन्धे ग्रन्थ-कर्ता स्व-नाम प्रक्षिप्तवान् इति बोध्यम् ॥ क्र्द्च्_८।११६ ॥

इति श्रीमन्-महामहोपध्याय-श्री-केशव-काश्मीरि-भट्ट-गोस्वामि-विरचितायां
क्रम-दीपिकायां अष्टमः पटलः ।
॥८॥

समाप्तो ऽयं ग्रन्थः