०७

अनेक-मन्त्र-कथनार्थं सप्तम-पटलम् उपक्रामति-वक्ष्य इत्य् आदिना ।

वक्ष्ये ऽक्षय-धनावाप्त्यै प्रतिपत्तिं श्रियः पतेः ।
सुगुप्तां धन-नाथाद्यैर् धन्यैर् या क्रियते सदा ॥ क्र्द्_७।१ ॥

गोविन्द-भट्टाचार्यः

श्रियः पतेर् गोपालस्य प्रतिपत्तिं ध्यानं मन्त्र-पूजा-ध्यानादि-प्रकारं वा वक्ष्ये । या प्रतिपत्तिर् धन-नाथाद्यैः कुबेर-प्रभृतिभिर् महाधनैः क्रियते । कस्यै ? अक्षयम् अविनाशि यद् धनं तत्-प्राप्त्यै । सुगुप्ता नात्यन्त-प्रकटितां द्विजैर् इत्य् अर्थः ॥ क्र्द्च्_७।१ ॥


द्वारवत्याम् इत्य् आदि सप्त-श्लोकैर् मध्य-कुलकम् ।

द्वारवत्यां सहस्रार्क-भास्वरैर् भवनोत्तमैः ।
अनल्पैः कल्प-वृक्षैश् च परीते मण्डपोत्तमे ॥ क्र्द्_७।२ ॥

गोविन्द-भट्टाचार्यः

अच्युतो ध्येयः कुत्र ? द्वारवत्यां मणि-मण्डपे मणि-सिंहासनाम्बुजे आसीनो द्वारका-नगरी-गत-मणि-मण्डपावस्थित-मणि-मय-सिंहासनोपविष्टः मणि-मण्डपे । कीदृशे ? भवनोत्तमैः गृहोत्तमैः कल्प-वृक्षैश् च परीते वेष्टिते । किम्भूतैः ? सहस्र-सूर्याः तद्वद् भास्वरैर् दीप्तैर् अनल्पैर् विस्तरैः ॥ क्र्द्च्_७।२ ॥


ज्वलद्-रत्न-मय-स्तम्भ-द्वार-तोरण-कुड्यके ।
फुल्ल-स्रग्-उल्लसच्-चित्र-वितानालम्बि-मौक्तिके ॥ क्र्द्_७।३ ॥

गोविन्द-भट्टाचार्यः

पुनः कीदृशे ? ज्वलन्ति दीप्तानि यानि रत्नानि तन्-मयं तत्-प्रधानं स्तम्भः गृहाधार-भूतं द्वार-तोरणं कुड्यं भित्तिर् यत्र तस्मिन् प्रफुल्ला विकासनीया स्रक् पुष्प-माला उल्लसच्-छोबमानं पवित्रं नाना-प्रकारं वितानं तत्रालम्बि मौक्तिकं यत्र तत्र ॥ क्र्द्च्_७।३ ॥


पुनः कीदृशे मणि-मण्डपे ?

पद्म-राग-स्थली-राजद्-रत्न-नद्योश् च मध्यतः ।
अनारत-गलद्-रत्न-सुधस्य स्वस्-तरोर् अधः ॥ क्र्द्_७।४ ॥

गोविन्द-भट्टाचार्यः

पद्म-राग-मयी या स्थली राजद् देदीप्यमान-रत्न-मयी च या नदी तयोर् मध्ये स्वस्-तरोः पारिजातस्याधः । स्वस्-तरोर् किम्भूतस्य ? अनारतं सर्वदा गलन्ती रत्नमयी सुधा अमृतं यस्य तस्य ॥ क्र्द्च्_७।४ ॥


पुनः कीदृशे मणि-मण्डपे ?

रत्न-प्रदीपावलिभिः प्रदीपित-दिग्-अन्तरे ।
उद्यद्-आदित्य-सङ्काशे मणि-सिंहासनाम्बुजे ॥ क्र्द्_७।५ ॥

गोविन्द-भट्टाचार्यः

रत्न-प्रदीपावलिभिर् ज्वलद्-रत्नैः प्रदीपितम् उद्भासितं दिशाम् अन्तरालम् अवकाशो यत्र मणि-सिंहासने । किम्भूते ? उद्यत् प्रादुर्भवन् य आदित्यस् तस्य सङ्काशे सदृशे ॥ क्र्द्च्_७।५ ॥

______________________________

अच्युतः किम्भूतः ?

समासीनो ऽच्युतो ध्येयो द्रुत-हाटक-सन्निभः ।
समानोदित-चन्द्रार्क-तडित्-कोटि-सम-द्युतिः ॥ क्र्द्_७।६ ॥

गोविन्द-भट्टाचार्यः

द्रुत-हाटक-सन्निभः द्रवी-भूत-स्वर्ण-तुल्यः समानोदिता एकदोद्गता या चन्द्रार्कानां कोटिः तडिताम् अपि कोटिः तत्-सम-द्युतिर् यस्य सः ॥ क्र्द्च्_७।६ ॥


पुनः किम्भूतः ?

सर्वाङ्ग-सुन्दरः सौम्यः सर्वाभरण-भूषितः ।
पीत-वासाश् चक्र-शङ्ख-गदा-पद्मोज्ज्वलद्-भुजः ॥ क्र्द्_७।७ ॥

गोविन्द-भट्टाचार्यः

सर्वाङ्गेन मुखादिना सुन्दरो रम्यः सौम्यो ऽनुद्धतः सर्वाभरणेनअ कुण्डलाद्य्-अलङ्कारेण भूषितः । पीत-वासाः पीत-वाससी यस्य सः । चक्र-शङ्ख-गदा-पद्मर् उज्ज्वला दीप्ता भुजा यस्य सः ॥ क्र्द्च्_७।७ ॥


पुनः कीदृशः ?

अनारतोच्छ्लद्-रत्न-धारौध-कलशं स्पृशन् ।
वाम-पादाम्बुजाग्रेण मुष्णता पल्लव-च्छविम् ॥ क्र्द्_७।८ ॥

गोविन्द-भट्टाचार्यः

वाम-पादाम्बुजाग्रेण अनारतं सर्वदा उच्छलन्ती या रत्न-धारा तस्या ओघः प्रवाहो यत्र स चासौ कलसश् चेति कर्मधारयः । तं स्पृशन् वाम-पादाम्बुजाग्रेण । किम्भूतेन ? पल्लव-च्छविम् मुष्णता किशलय-कान्तिं चोरयता ॥ क्र्द्च्_७।८ ॥


अष्ट-महिषी-ध्यानम् आह-

रुक्मिणी-सत्यभामे ऽस्य मूर्ध्नि रत्नौघ-धारया ।
सिञ्चन्त्यौ दक्ष-वाम-स्थे स्व-दोः-स्थ-कलशोत्थया ॥ क्र्द्_७।९ ॥

गोविन्द-भट्टाचार्यः

रुक्मिणी-सत्यभामे ध्येये । किम्भूते ? अस्य हरेर् मूर्ध्नि शिरसि रत्न-प्रवाह-धारया सिञ्चन्त्यौ । कीदृशे ? दक्ष-वाम-स्थे । अत्र रुक्मिणी दक्षिणे सत्या वामे । किम्भूतया धारया ? स्व-हस्त-स्थ-घटोद्भवया ॥ क्र्द्च्_७।९ ॥


नाग्नजिती-सुनन्दे च ध्येये । एते कीदृशे ?

नाग्नजिती सुनन्दा च दिशन्त्या कलशौ तयोः ।
ताभ्यां च दक्ष-वाम-स्थे मित्रविन्दा-सुलक्ष्मणे ॥ क्र्द्_७।१० ॥

गोविन्द-भट्टाचार्यः

तयो रुक्मिणी-सत्यभामयोः स्थाने रत्न-घटौ दिशन्त्यौ ददत्यौ । कीदृशे ? दक्ष-वाम-स्थे । तथा मित्रविन्दा-सुलक्षणे दक्षिण-वाम-स्थे ध्येये । किम्भूते ? ताभ्यां नाग्नजिती-सुनन्दाभ्यां कलशं दिशन्तीभ्यां कलशं ददत्यौ ॥ क्र्द्च्_७।१० ॥


रत्न-नद्या समुद्धृत्य रत्न-पूर्णौ घटौ तयोः ।
जाम्बवती सुशीला च दिशन्त्यौ दक्ष-वाम-गे ॥ क्र्द्_७।११ ॥

गोविन्द-भट्टाचार्यः

तथा दक्ष-वामे जाम्बवती-सुशीले च ध्येये । किम्भूते ? रत्न-नद्या रत्न-पूर्णौ घटौ समुद्धृत्य तयोर् सुलक्ष्मणा-मित्रविन्दयोर् दिशन्त्यौ ॥ क्र्द्च्_७।११ ॥


बहिः षोडश-साहस्र-सङ्ख्याताः परितः स्त्रियः ।
ध्येयाः सकल-रत्नौघ-धारा-युक्-कलशोज्ज्वलाः ॥ क्र्द्_७।१२ ॥

गोविन्द-भट्टाचार्यः

तद्-बहिः षोडश-साहस्र-सङ्ख्याताः प्रिया ध्येयाः । किम्भूताः ? कनकं सुवर्णं रत्नानि पद्मादीनि तेषाम् ओघः समूहः । तस्य धारां युनक्तीति तद्-युक् यः कलशः तेन दीप्ताः ॥ क्र्द्च्_७।१२ ॥


तद्-बहिश् चाष्ट-निधयो ध्येयाः । कीद्र्शाः ?

तद् बहिश् चाष्ट-निधयः पूरयन्तो धनैर् धराम् ।
तद्-बहिर् वृष्णयः सर्वे पुरोवच् च सुरादयः ॥ क्र्द्_७।१३ ॥

गोविन्द-भट्टाचार्यः

धरां पृथ्वीं धनैः पूरयन्तः तद्-बहिर् वृष्णयो यादवा ध्येयाः । अनन्तरं पुरोवत् दिक्षु स्थिताः सुरादयो देवर्षि-सिद्ध-विद्याधर-गन्धर्व-प्रभृतयो रत्नाभिषेकं कुर्वन्तो ध्येयाः ॥ क्र्द्च्_७।१३ ॥


ध्यात्वैवं परमात्मानं विंसत्य्-अर्णं मनुं जपेत् ।
चतुर्-लक्षं हुनेद् आज्यैश् चत्वारिंशत्-सहस्रकम् ॥ क्र्द्_७।१४ ॥

गोविन्द-भट्टाचार्यः

एवं परमात्म-रूपं अशरीरिणं ध्यात्वा विंसत्य्-अक्षरं मन्त्रं चतुर्-लक्षं जपेत् । आज्यैर् घृतैश् चत्वारिंशत्-सहस्रकम् हुनेत् जुहूयात् ॥ क्र्द्च्_७।१४ ॥


विंशत्य्-अक्षर-मन्त्रम् उद्धरति-

शक्ति-श्री-पूर्वको ऽष्टादशार्णो विंशति-वर्णकः ।
मत्रेणानेन सदृशो मनुर् नहि जगत् त्रये ॥ क्र्द्_७।१५ ॥

गोविन्द-भट्टाचार्यः

शक्तिर् भुवनेश्वरी-बीजं श्रीः श्री-बीजं एतद्-बीज-द्वय-पूर्वकः पूर्वोक्ताष्टादशाक्षर-मन्त्र एव विंशत्य्-अक्षरो भवतीत्य् अर्थः । अनेन मन्त्रेण सदृशो मन्त्र जगत्-त्रये नास्ति ॥ क्र्द्च्_७।१५ ॥


ऋष्य्-आदिकं दर्शयति-

ऋषिर् ब्रह्मा च गायत्री-च्छन्दः कृष्णस् तु देवता ।
पूर्वोक्तवद् एवास्य बीज-शक्त्य्-आदि-कल्पना ॥ क्र्द्_७।१६ ॥

गोविन्द-भट्टाचार्यः

अस्य मन्त्रस्य बीज-शक्त्य्-आदि-कल्पना पूर्वोक्तवत् दशाक्षरवत् तथा च दशाक्षरस्य यद् बीजादिकं तद् अस्यापीत्य् अर्थः ॥ क्र्द्च्_७।१६ ॥


पूजा-प्रकारम् आह-

कल्पः सनत्-कुमारोक्तो मन्त्रस्यास्योच्यते ऽधुना ।
पीठ-न्यासादिकं कृत्वा पूर्वोक्त-क्रमतः सुधीः ॥ क्र्द्_७।१७ ॥

गोविन्द-भट्टाचार्यः

अस्य मन्त्रस्य सनत्-कुमार-कथितः पूजा-प्रकारः सम्प्रति मया कथ्यते । पूर्वोक्त-क्रमतः दशाक्षरोक्त-प्रकारेण पीठ-न्यास-प्राणायामादिकं कृत्वा ॥ क्र्द्च्_७।१७ ॥


कर-द्वन्द्वाङ्गुलि-तलेष्व् अङ्ग-षट्कं प्रविन्यसेत् ।
मन्त्रेण व्यापकं कृत्वा मातृकां मनु-सम्पुटाम् ॥ क्र्द्_७।१८ ॥

गोविन्द-भट्टाचार्यः

संहार-सृष्टि-मार्गेण दश-तत्त्वानि विन्यसेत् ।
पुनश् च व्यापकं कृत्वा मन्त्र-वर्णास् तनौ न्यसेत् ॥ क्र्द्_७।१९ ॥

उभय-कराङ्गुलिषु उभय-कर-तलेषु च षड्-अङ्गानि क्रमान् न्यसेत् । मन्त्रेणेति विंशत्य् अक्षर-मन्त्रेण व्यापकं सर्वतनौ न्यासं कृत्वा मातृकां मातृका-न्यासं मनु-सम्पुटां विंशत्य्-अक्षर-पुटित-प्रत्यक्षरां पूर्वोक्त-मातृका-स्थानेषु विन्यसेत् । प्रयोगश् च-ह्रीं अं ह्रीं नम इत्य् आदिः । एवं भ-पर्यन्तं द्विर्-आवृत्तिः । ततो ह्रीं श्रीं ह्रीं श्रीं नमः । क्लीं क्रीं पं क्लीं क्रीं नम इत्य् आदिः । संहार-सृष्टि-मार्गेण दश-तत्त्वानि मही-सलिल-प्रभृतीनि विन्यसेत् । पुनर् अपि विंशत्य्-अक्षर-मन्त्रेण व्यापक-न्यासं कृत्वा विंशति-मन्त्राक्षराणि तनौ स्व-शरीरे न्यसेत् ॥ क्र्द्च्_७।१९ ॥


अक्षर-न्यास-स्थानान्य् आह-

मूर्ध्नि भाले भ्रुवोर् मध्ये नेत्रयोः कर्णयोर् नसोः ।
आनने चिबुके कण्ठे दोर्-मूले हृदि तन्दुके ॥ क्र्द्_७।२० ॥

गोविन्द-भट्टाचार्यः

नाभौ लिङ्गे तथाधारे कट्योर् जान्वोश् च जङ्घयोः ।
गुल्फयोः पादयोर् न्यसेत् सृष्टिर् एषा समीरिता ॥ क्र्द्_७।२१ ॥

मस्तके भाले ललाटे भ्रू-मध्ये इत्य् आदाव् एकैकम् अक्षरं न्यसेत् । आधारे लिङ्गाधस् त्रिकोण-स्थाने एष सृष्टि-न्यास-प्रकार उक्तः ॥ क्र्द्च्_७।२१ ॥


स्थितिर् हृद्-आदिकं सान्ता संहृतिश् चरणादिका ।
विधायैवं पञ्च-कृत्वः स्थित्य्-अन्तं मूर्ति-पञ्जरम् ।
सृष्टि-स्थिती च विन्यस्य षड्-अङ्ग-न्यासम् आचरेत् ॥ क्र्द्_७।२२ ॥

गोविन्द-भट्टाचार्यः

हृद्-आदिकांसां ता स्थितिः हृदयम् आरभ्यांस-पर्यन्त-न्यासः स्थितिः संहृतिश् चरणादिकापादावारभ्यमूर्धान्त-न्यासः विधायेति । एवं पञ्च-वारान् स्थित्य्-अन्तं न्यासं कृत्वा इति गृहस्थाभिप्रायेण तथा पूर्वोक्त-मुर्ति-पञ्जर-न्यासं कृत्वा पुनः सृष्टि-स्थिती विन्यस्य सृष्टि-स्थिति-प्रकारेण मन्त्र-वर्णान् विन्यस्य षड्-अङ्ग-न्यासम् आचरेत् ॥ क्र्द्च्_७।२२ ॥


षड्-अङ्गानि दर्शयति-

गुणाग्नि-वेद-करण-करणाक्ष्य्-अक्षरैर् मनोः ।
मुद्रां बद्ध्वा किरीटाख्यां दिग्-बन्धं पूर्ववच् चरेत् ।
ध्यात्वा जप्त्वार्चयेद् देहे मूर्ति-पञ्जर-पूर्वकम् ॥ क्र्द्_७।२३ ॥

गोविन्द-भट्टाचार्यः

मनोर् मन्त्रस्य गुणास् त्रयः अग्नयस् त्रयः वेदाश् चत्वारः करणम् अन्तः-करण-चतुष्टयं । पुनः करण-चतुष्टयम् अक्षि-द्वयम् एतैर् अक्षरैर् मन्त्र-सम्भवैः षड्-अङ्गानि कार्याणीत्य् अर्थः । मुद्राम् इति किरीटाख्यां किरीटाभिधां बद्ध्वा कृत्वा किरीटाद्याम् इति पाठे कौस्तुभ-श्रीवत्स-मुद्रयोः परिग्रहः पूर्ववद् अस्त्र-मन्त्रेण दिग्-बन्धनं कुर्यात् ।

आत्म-पूजाम् आह-ध्यात्वेति । पूर्वोदितं ध्यानं कृत्वा अष्टोत्तर-शतं च जप्त्वा मूर्ति-पञ्जर-पूर्वकम् देहे पूजयेत् तथाचाभ्यन्तरे प्रथमं परमेश्वरा-राधनं तद् अनु मूर्ति-पञ्जरस्य तद् अनु सृष्टि-स्थिति-न्यासं तद् अनु षड्-अङ्गस्येति ॥२३॥


बाह्य-पूजा-प्रकारम् आह-

अथवा ह्ये ऽर्चयेद् विष्णुं तद्-अर्थं यन्त्रम् उच्यते ।
गोमयेनोपलिप्योर्वीं तत्र पीठं निधापयेत् ॥ क्र्द्_७।२४ ॥

अथात्म-पूजानन्तरं बाह्ये विष्णुं पूजयेत् । तत्-पूजार्थं पूजा-स्थानम् उच्यते । गोमय-जलेन पृथिवीम् उपलिप्य तत्र लिप्त-स्थाने पीठं पूजाधार-प्रियं पात्रं स्थापयेत् ॥ क्र्द्च्_७।२४ ॥


विलिप्य गन्ध-पङ्केन लिखेद् अष्ट-दलाम्बुजम् ।
कर्णिकायां तु षट्-कोणं स-साध्यं तत्र मन्मथम् ॥ क्र्द्_७।२५ ॥

गोविन्द-भट्टाचार्यः

अनन्तरं तत्-पीठं चन्दन-पङ्केन विलिप्य तत्राष्ट-दल-पद्मं विलिख्य कर्णिकायां पद्मं विलिख्य मध्य-स्थाने षट्-कोण-पुटितं वह्नि-पुर-द्वयं लिखेत् । तत्र षट्-कोण-मध्ये स-साध्यं कर्म-सहितं साध्य-नाम-सहितं मन्मथं काम-बीजं लिखेत् । साध्य-ग्रहणात् धारणार्थम् अप्य् एतद् बोद्धव्यम् इति त्रिपाठिनः ॥ क्र्द्च्_७।२५ ॥


शिष्टैस् तं सप्तदशभिर् अक्षरैर् वेष्टयेत् स्मरम् ।
प्राग्-रक्षो ऽनिल-कोणेषु श्रियं शिष्टेषु संविदम् ॥ क्र्द्_७।२६ ॥

गोविन्द-भट्टाचार्यः

शिष्टैः सप्त सप्तदशभिर् अक्षरैस् तं काम-बीजं वेष्टयेत् । षट्-कोणस्य पूर्व-नैरृति-वायव्य-कोणेषु श्रियं श्री-बीज-त्रयं लिखेत् । शिष्टेषु त्रिषु कोणेषु पश्चिमेशानाग्नि-कोणेषु संविदम् भुवनेश्वरी-बीजं विलिखेत् ॥ क्र्द्च्_७।२६ ॥


षड्-अक्षरं सन्धिषु च केशरेषु त्रिशस् त्रिशः ।
विलिखेत् स्मर-गायत्रीं माला-मन्त्रं दलाष्टके ॥ क्र्द्_७।२७ ॥

गोविन्द-भट्टाचार्यः

षड्शः संलिख्य तद्-बाह्ये वेष्टयेन् मातृकाक्षरैः ।
भू-बिम्बं च लिखेद् बाह्ये श्री-माये दिग्-विदिक्ष्व् अपि ॥ क्र्द्_७।२८ ॥

सन्धिषु षट्-कोण-सन्धिषु षड्-अक्षरं काम-बीज-पूर्वक-कृष्णाय नम इति षड्-अक्षरं लिखेत् । केशर-स्थाने काम-गायत्रीं वक्ष्यमाणां त्रिशो ऽक्षर-त्रयं कृत्वा विलिखेत् । पत्राष्टके वक्ष्यमाणां माला-मन्त्रं षड्शः षड्-अक्षराणि कृत्वा विलिख्य पद्म-बाह्ये मातृकाक्षरैर् वेष्टयेत् । मातृकावेष्टन-बाह्य एव वक्ष्यमाण-स्वरूपं भू-बिम्बं च लिखेत् । भू-बिम्ब-दिग्-विदिक्षु श्री-माये दिक्षु श्री-बीजं कोणेषु भुवनेश्वरी-बीजं लिखेद् इत्य् अर्थः ॥ क्र्द्च्_७।२८ ॥


एतद्-यन्त्रं हाटकादि-पट्टेष्व् आलिख्य पूर्ववत् ।
साधितं धारयेद् यो वै सो ऽर्च्येत त्रदशैर् अपि ॥ क्र्द्_७।२९ ॥

गोविन्द-भट्टाचार्यः

एतद् यन्त्रं पूजायाम् अप्य् उपयुक्तं यो धारयेत् स देवैर् अपि पूज्यते । किं कृत्वा ? सुवर्ण-रजत-ताम्रादि-पट्टेषु यथा-कथित-द्रव्येणालिख्य पूर्ववद् यः पूजासु । यद् वा, पूर्व-मन्त्रवत् कृत-प्राण-प्रतिष्ठादि-क्रियम् । कीदृशम् ? साधितं यथा-कथित-प्रकारेण सम्पादित-प्रजप्तं च ॥ क्र्द्च्_७।२९ ॥


काम-गायत्रीम् उद्धरति-

स्याद् गायत्री काम-देव-पुष्प-बाणौ च ङे ऽन्तकौ ।
विद्महे-धीमहि-युतौ तन् नो ऽङ्गः प्रचोदयात् ।
जप्याज् जपादौ गोपाल-मनूनां जन-रञ्जनीम् ॥ क्र्द्_७।३० ॥

गोविन्द-भट्टाचार्यः

काम-देव-पुष्प-बाण-शब्दौ क्रमेण चतुर्थ्य्-अन्तौ । किम्भूतौ ? विद्महे-धीमहि-शब्द-सहितौ । तद्-अनु तन् नो ऽनङ्गः प्रचोदयाद् इति स्वरूपम् । एवं सति काम-गायत्री स्याद् भवति । जप्याद् इति गोपाल-मन्त्राणां जपादौ जपोपक्रमे एतां काम-गायत्रीं जप्यात् । यत इयं जन-रञ्जनीं वश्यकरीम् इत्य् अर्थः ॥ क्र्द्च्_७।३० ॥


माला-मन्त्रम् उद्धरति-नत्य्-अन्त इत्य् आदिना ।

नत्य्-अन्ते काम-देवाय ङे ऽन्तं सर्व-जन-प्रियम् ।
उक्त्वा सर्व-जनान्ते तु सम्मोहन-पदं तथा ॥ क्र्द्_७।३१ ॥

गोविन्द-भट्टाचार्यः

ज्वल ज्वल प्रज्वलेति प्रोक्तो सर्व-जनस्य च ।
हृदयं च मम ब्रूयात् वशं कुरु-युगं शिरः ।
प्रोक्तो मदन-मन्त्रो ऽष्त-चत्वारिंशद्भिर् अक्षरैः ॥ क्र्द्_७।३२ ॥

नमः-शब्दान्ते काम-देवायेति स्वरूपं तद्-अनु चतुर्थ्य्-अन्ते सर्व-जन-प्रिय-शब्दम् उच्चार्य तद्-अनु सर्व-जन-शब्दम् उक्त्वा सम्मोहन-पदं वदेत् । तद्-अनु ज्वल ज्वल प्रज्वलेति स्वरूपम् उक्त्वा सर्व-जनस्य हृदयं ममेति स्वरूपम् उक्त्वा वशम् इति स्वरूपम् उक्त्वा कुरु कुरु इति स्वरूपम् उक्त्वा शिरः स्वाहा इति वदेत् । एवं च सति अष्ट-चत्वारिंशद् अक्षरकैर् मदन-मन्त्रः ॥ क्र्द्च्_७।३१-३२ ॥


विनियोगं दर्शयति-

जपादौ मार-बीजाद्यो जगत्-त्रय-वशीकरः ।
भू-गृहं चतुरस्रं स्यात् कोण-वज्राद्य्-अलङ्कृतम् ॥ क्र्द्_७।३३ ॥

गोविन्द-भट्टाचार्यः

यत्र यथोद्भूत एव जप-पूजा-होमादौ तु यदि काम-बीजाद्यो भवति तदा जगत्-त्रय-वशीकरण-क्षमः यदाय मन्त्रः स्वतन्त्रेण जप्यते तदेति त्रिपाठिनः । भू-गृहम् उद्धरति-भू-गृहम् इति । कोण-संलग्नाष्ट-वज्रालङ्कृत-चतुरस्रं कोण-चतुष्टय-सहितं भू-विलम्बम् इति पाठो वा ॥ क्र्द्च्_७।३३ ॥


यन्त्रे पूजा-प्रकारम् आह-

पीठं पूर्ववद् अभ्यर्च्य मूर्ति-सङ्कल्प्य पौरषीम् ।
तत्रावाह्याच्युतं भक्त्या सकलीकृत्य पूजयेत् ॥ क्र्द्_७।३४ ॥

गोविन्द-भट्टाचार्यः

पूर्ववद् दशाक्षरवत् गुर्वापीठ-पूजान्तम् अभ्यर्च्य तत्र पौरुषीं पुरुषाकृतिं मूर्तिं पारमेश्वरीं विचिन्त्य तत्र मूर्ताव् अच्युतम् आवाह्य सकलीकृत्य भक्त्या पूजयेत् । सुषुम्णा प्रवाह-नाड्या पुष्प-युक्तम् उत्तान-पाणी-हृदय-स्थ-मूर्तेस् तेजः संयोज्य तेजो देवता ब्रह्म-रन्ध्रेण देव-शरीर-गतं विचिन्त्य स्व-स्व-मुद्रया बाह्ये संस्थाप्य सन्निधाप्य सण्निरुद्ध्यावगुण्ठ्य देवताङ्गे षड्-अङ्ग-न्यासं कृत्वा षोडशोपचारैः सम्पूजयेद् इत्य् अर्थः ॥ क्र्द्च्_७।३४ ॥


आसनादि भूषणान्तं पुनर् न्यास-क्रमात् यजेत् ।
सृष्टि-स्थिती षड्-अङ्गं च किरीटं कुण्डल-द्वयम् ॥ क्र्द्_७।३५ ॥

गोविन्द-भट्टाचार्यः

चक्र-शङ्ख-गदा-पद्म-माला-श्रीवत्स-कौस्तुभान् ।
गन्धाक्षत-प्रसूनैश् च मूलेनाभ्यर्च्य पूर्ववत् ॥ क्र्द्_७।३६ ॥

आसनादि विभूषान्तं यथा स्याद् एवं पूजयेत् आसनम् आरभ्य भूषान्तैर् उपचारैः पूजयेद् इत्य् अर्थः । पुनर् न्यास-क्रमात् सृष्ट्य्-आदीन् यजेत् । प्रथमं सृष्ट्य्-आदीनां न्यासं विधाय ततस् तान् पूजयेत् । अथवा न्यास-क्रमाद् यथा तेषां न्यासः कृतस् तेन क्रमेणेत्य् अर्थः ।

गन्धाक्षतेति । अक्षता यवा गन्धाक्षत-पुष्पैश् च पूर्ववत् मूल-मन्त्रेण कृष्णं पूजयित्वा सप्तावृतीः सम्पूजयेद् इत्य् अर्थः ॥ क्र्द्च्_७।३६ ॥


आवरणान्य् आह-

आदौ वह्नि-पुर-द्वन्द्व-कोणेष्व् अङ्गानि पूजयेत् ।
सहृच्-छिरः शिखा-वर्म-नेत्रम् अस्त्रम् इति क्रमात् ॥ क्र्द्_७।३७ ॥

गोविन्द-भट्टाचार्यः

प्रथमं वह्नि-पुर-युगल-सम्बन्धि-षट्-कोणेषु आग्नेय-कोणम् आरभ्य षड्-अङ्गानि पूजयेद् इत्य् अर्थः । अङ्गान्य् आह-सहृद् इति । सह-हृद् आवर्तत इति सहृत् हृदयं शिरः शिखा-वर्म-कवचं नेत्रम् अस्त्रं चेति प्रथमावरणम् ॥ क्र्द्च्_७।३७ ॥


द्वितीयावरणम् आह वासुदेव इति-
वासुदेवः सङ्कर्षणः प्रद्य्म्नश् चानिरुद्धकः ।
अग्न्य्-आदि-दल-मूलेषु शान्तिः श्रीश् च सरस्वती ॥ क्र्द्_७।३८ ॥

गोविन्द-भट्टाचार्यः

रतिश् च दिग्-दलेष्व् अर्च्यास् ततो ऽष्तौ महिषीर् यजेत् ।
रुक्मिण्य्-आद्या दक्ष-सव्ये क्रमात् पत्राग्रकेषु च ॥ क्र्द्_७।३९ ॥

अग्न्य्-आदि-कोण-दल-मूलेषु केशर-स्थानेषु वासुदेवादयः पूज्यास् तथैव पूर्वादि-चतुर्-दिक्षु दल-मूलेषु शान्त्य्-आदयः पूज्या इत्य् अर्थः । तृतीयावरणम् आह-ततो ऽष्टाव् इति । तद्-अनन्तरम् अष्टौ महिष्यः पूज्या इत्य् अर्थः । ता हि रुक्मिण्य्-आद्या इति । पूजा-स्थानम् आह-दक्ष-सव्ये इति । परमेश्वरस्य दक्षिण-भागे चतस्रः वाम-भागे चतस्रः क्रमेण पूज्या इत्य् अर्थः ॥ क्र्द्च्_७।३८-३९ ॥


चतुर्थावरणम् आह-तत इति ।

ततः षोडश-साहस्रं सकृद् एवार्चयेत् प्रियाः ।
इन्द्रनील-मुकुन्दाद्यान् मकरानङ्ग-कच्छपान् ॥ क्र्द्_७।४० ॥

गोविन्द-भट्टाचार्यः

पद्म-शङ्खादिकांश् चापि निधीन् अष्टौ क्रमाद् यजेत् ।
तद् बहिश् चेन्द्र-वज्राद् ये आवृती सम्प्रपूजयेत् ॥ क्र्द्_७।४१ ॥

पूर्वादि-दलाग्रेषु षोडश-सहस्रं प्रियाः देव-पत्नीः सकृद् एव एक-क्रमेणैवार्चयेत् । पञ्चमम् आवरणम् आह-इन्द्रनीलाद्यान् अष्टौ निधीन् पूर्वादि-क्रमेण पूजयेत् । अत्रेन्द्रादि-शब्दानन्तरं प्रत्येकं चतुर्थ्य्-अन्तं निधि-पदं देयम् । प्रयोगश् च-ॐ इन्द्र-निधये नमः इत्य् आदिः । षष्ठ-सप्तमावरण-द्वयम् आह-तद् बहिर् इति । तद्-बाह्ये इन्द्रादिकं वज्रादिकं च पूजयेत् ॥ क्र्द्च्_७।४०-४१ ॥


आवरणानि सन्दर्श्य नैवेद्यं दर्शयति-

इति सप्तावृत्ति-वृतम् अभ्यर्च्याच्युतम् आदरात् ।
प्रीणयेद् दधि-खण्डाज्य-मिश्रेण तु पयो ऽन्धसा ॥ क्र्द्_७।४२ ॥

गोविन्द-भट्टाचार्यः

इत्य् अनेन प्रकारेण सप्तावरण-वेष्टितं कृष्णम् आदर-पूर्वकं सम्पूज्य दधि-शर्करा-घृत-सहितेन पायसेन प्रीणयेद् इत्य् अर्थः ॥ क्र्द्च्_७।४२ ॥


राजोपचारं दत्त्वाथ स्तुत्वा नत्वा च केशवम् ।
उद्वासयेत् स्व-हृदये परिवार-गणैः सह ॥ क्र्द्_७।४३ ॥

गोविन्द-भट्टाचार्यः

छत्र-चामरादीनि दत्त्वा अथानन्तरं स्तवं कृत्वा अष्टाङ्ग-पञ्चाङ्गान्यतरेण प्रणम्य परिवार-गणैः सह केशवं हृदये उद्वासयेत् उत्तोल्य स्थापयेत् ॥ क्र्द्च्_७।४३ ॥


न्यस्त्वात्मानं समभ्यर्च्य तन्-मयः प्रजपेन् मनुम् ।
रत्नाभिषेक-ध्यानेज्या-विंशत्य्-अर्णाश्रितेरिता ॥ क्र्द्_७।४४ ॥

गोविन्द-भट्टाचार्यः

जप-होमार्चनैर् ध्यानैर् यो ऽमुं प्रभजते मनुम् ।
तद् वेश्म पूर्यते रत्नैः स्वर्ण-धान्यैर् अनारतम् ॥ क्र्द्_७।४५ ॥

न्यस्त्वा पूजा पूर्वोक्तं सृष्ट्य्-आदि-न्यासं कृत्वा आत्म-पूजां विधाय तन्-मयः पूज्य-देव-स्वरूपो भूत्वा पूजाङ्ग-मन्त्रं जपेत् । पर्कृतम् उपसंहरति-रत्नेति । ध्यानं च इज्या च पूजा च इत्य् अर्थः । तथा च यस्यां पूजायां कृष्णस्य रत्नाभिषेक-ध्यानं तत्र कृष्णस्य विंशत्य्-अक्षरोक्ता पूजेयम् उक्ता । फलं दर्शयति-जपेति । जपादिभिर् यो अमुं मन्त्रं सेवते तस्य गृहं पद्म-रागादिभिः रत्नैः काञ्चनैर् धान्यैश् चानारतम् अनवरतं पूर्यते ॥ क्र्द्च्_७।४४-४५ ॥


पृथ्वी पृथ्वी करे तस्य सवसस्य् अकुलाकुला ।
पुत्रैर् मित्रैः सुसम्पन्नः प्रयात्य् अन्ते परां गतिम् ॥ क्र्द्_७।४६ ॥

गोविन्द-भट्टाचार्यः

प्रयोगं दर्शयति-

वह्नाव् अभ्यर्च्य गोविन्दं शुक्ल-पुष्पैः स-तण्डुलैः ।
आज्याक्तैर् अयुतं हुत्वा भस्म तन्-मूर्ध्नि धारयेत् ।
तस्यान्नादि-समृद्धिः स्यात् तद्-वशे सर्व-योषितः ॥ क्र्द्_७।४७ ॥

यथोक्त-प्रकारेणाग्निम् आधाय तत्र यथोक्त-प्रकारेण गोविन्दं सम्पूज्य घृताक्तैस् तण्डुल-सहितैः शुक्ल-पुष्पैर् दश-सहस्राणि हुत्वा होमाग्नि-भस्म यः पुमान् मूर्धनि धारयेत् तस्य नाना-समृद्धिः सम्पत्तिर् भवति सर्वाश् च स्त्रियस् तद्-आयत्ता भवन्ति ॥ क्र्द्च्_७।४७ ॥


प्रयोगान्तरम् आह-

आज्यैर् लक्षं हुनेद् रक्त-पद्मैर् वा मधुराप्लुतैः ।
श्रिया तस्यैन्द्रम् ऐश्वर्यं तृणलेशायते ध्रुवम् ॥ क्र्द्_७।४८ ॥

गोविन्द-भट्टाचार्यः

घृतैः केवलैः घृत-मधु-शर्करायुतैः रक्त-पद्मैर् वा यो लक्षं जुहोति तस्य साधकस्य श्रिया लक्ष्म्या कृत्वा इन्द्र-सम्बन्धि ऐश्वर्यं तृण-समानं भवति ध्रुवम् उत्प्रेक्षायाम् ॥ क्र्द्च्_७।४८ ॥


प्रयोगान्तरम् आह-

शुक्लादि-वस्त्र-लाभाय शुक्लादि-कुसुमैर् हुनेत् । त्रिमध्वक्तैर् दश-शतम् आज्याक्तैर् वाष्ट-संयुतम् ॥ क्र्द्_७।४९ ॥

गोविन्द-भट्टाचार्यः

शुक्लादि-वस्त्र-प्राप्त्य्-अर्थं घृत-मधु-शर्करा-सहितैः शुक्ल-पुष्पैः घृआक्तैर् वा अष्टधिक-दश-शतं जुहुयात् ॥ क्र्द्च्_७।४९ ॥


प्रयोगान्तरम् आह-

क्षौद्र-सिक्तैः सितैः पुष्पैर् अष्टोत्तर-सहस्रकम् ।
हुनेन् नित्यं स षड्-मासान् पुरोधा नृपतेर् भवेत् ॥ क्र्द्_७।५० ॥

गोविन्द-भट्टाचार्यः

मधु-मिश्रितैः शुक्ल-पुष्पैर् अष्टाधिक-सहस्रं प्रत्यहं यो जुहुयात् स षट्के अतीते राज्ञः पुरोहितो भवति ॥ क्र्द्च्_७।५० ॥


दशाष्टादश-वर्णोक्तं जप-ध्यान-हुतादिकम् ।
विदध्यात् कर्म चानेन ताभ्याम् अप्य् अत्र कीर्तितम् ॥ क्र्द्_७।५१ ॥

गोविन्द-भट्टाचार्यः

दशाष्टादशाक्षरयोर् उक्तं जप-ध्यान-होमादिकम् अनेन मन्त्रेण कुर्यात् । अत्र मन्त्रे कथितं प्रयोगादिकं ताभ्यां च कुर्यात् ॥ क्र्द्च्_७।५१ ॥


मन्त्रान्तरम् आह-

श्री-शक्ति-स्मर-कृष्णाय गोविन्दाय शिरो मनुः ।
रव्य्-अर्णो ब्रह्म-गायत्री-कृष्ण-र्ष्य्-आदिर् अथास्य तु ॥ क्र्द्_७।५२ ॥

गोविन्द-भट्टाचार्यः

श्री-बीजं शक्ति-बीजं स्मरः काम-बीजं कृष्णाय गोविन्दायेति स्वरूपं शिरः स्वाहेति स्वरूपं रव्यार्णो मन्त्रः ऋषिर् आदौ येषां ते ऋष्य्-आदयो ब्रह्म-गायत्री-कृष्णा ऋष्य्-आदय इत्य् अर्थः । अस्य ब्रह्मा ऋषिः गायत्री-च्छन्दः कृष्णो देवता इत्य् अर्थः । बीज-शक्त्यादि-पूर्ववत् ॥ क्र्द्च्_७।५२ ॥


बीजैस् त्रिवेद-युग्मार्णैर् अङ्ग-षट्कम् इहोदितम् ।
विंशत्य्-अर्णोदित-जप-ध्यान-होमार्चन-क्रियाः ।
मन्त्रो ऽयं सकलैश्वर्य-काङ्क्षिभिः सेव्यताम्बुधैः ॥ क्र्द्_७।५३ ॥

गोविन्द-भट्टाचार्यः

इह मन्त्रे अङ्ग-षट्कं षड्-अङ्गं कथितं कैस् त्रिभिर् बीजैर् अङ्ग-त्रयं तथा त्रिवेद-युग्मार्णैः त्रिभिश् चतुर्भिर् द्वाभ्यां चापराङ्ग-त्रयम् इति । विंशेति । अयं मन्त्रः विंशत्य्-अक्षर-मन्त्रोक्त-जप-ध्यान-होम-पूजा-सहितः सकलैश्वर्य-कामैः पण्डितैर् उपास्यताम् ॥ क्र्द्च्_७।५३ ॥


मन्त्रान्तरम् आह-

श्री-शक्ति-काम-पूर्वो ऽङ्गजन्म-शक्ति-रमान्तकः ।
दशाक्षरः सरावादौ स्याच् चेच् छक्ति-रमा-युतः ।
मन्त्रौ विकृतिर् अव्यर्णावाचक्राद्य्-अङ्गिनाव् इमौ ॥ क्र्द्_७।५४ ॥

गोविन्द-भट्टाचार्यः

श्री-बीजं भुवनेश्वरी-बीजं काम-बीजं च । एते पूर्वे यस्य दशाक्षरस्य तथाङ्ग-जन्म काम-बीजं शक्तिर् भुवनेश्वरी-बीजं रमा-श्री-बीजम्-एते अन्ते यस्य दशाक्षरस्य । एवं भूताद्य्-अन्त-विशिष्टो दशाक्षरो षोडशाक्षर-मन्तोर् भवति तथा स एव दशाक्षरो मन्त्रः आदौ शक्ति-रमा-युतः भुवनेश्वरी-श्री-बीज-सहितश् चेत् तदा द्वादशाक्षर-मन्त्रो भवति । एवं च सति इमौ विकृतिर् अव्यार्णौ षोडशाक्षर-द्वादशाक्षरौ मन्त्रौ आचक्राद्य्-अङ्गिनौ दशाक्षरोक्तानि आचक्राद्य्-अङ्गानि ययोस् तादृशौ ज्ञेयौ ॥ क्र्द्च्_७।५४ ॥


विंशत्य्-अर्णोक्त-यजन-विधौ ध्यायेद् अथाच्युतम् ।
वरदाभय-हस्ताभ्यां श्लिष्यन्तं स्वाङ्कगे प्रिये ।
पद्मोत्पल-करे ताभ्यां श्लिष्टं चक्र-दरोज्ज्वलम् ॥ क्र्द्_७।५५ ॥

गोविन्द-भट्टाचार्यः

विंशत्य्-अक्षर-कथित-पूजा-प्रकाराव् एतौ अथानन्तरम् अच्युतं चिन्तयेत् । कीदृशं ? स्वाङ्कगे स्व-क्रोड-स्थिते प्रिये लक्ष्मी-सरस्वत्यौ । यद् वा, रुक्मिणी-सत्यभामे श्लिष्यन्तम् आलिङ्गन्तम् । काभ्याम् ? वरदाभय-हस्ताभ्यां वरं ददातीति वरदः । न विद्यते भयं यस्मात् स वरदाभयौ च तौ हस्तौ चेति वरदाभय-हस्तौ ताभ्याम् इत्य् अर्थः । प्रिये कीदृशे ? पद्मं सामान्य-पङ्कजम् उत्पलं नील-पद्मं ते करयोर् ययोस् ते तादृग्-विधे । पुनः कीदृशं ? ताभ्यां प्रियाभ्यां श्लिष्टम् आलिङ्गितम् । पुनः कीदृशं ? शङ्ख-चक्राभ्याम् उज्ज्वलम् ॥ क्र्द्च्_७।५५ ॥


पुरश्चरण-जपादिकम् आह-

दश-लक्षं जपेद् आज्यैस् तावत्-सहस्र-होमतः ।
सिद्धाव् इमौ मनू सर्व-सम्पत्-सौभाग्यदौ नृणाम् ॥ क्र्द्_७।५६ ॥

गोविन्द-भट्टाचार्यः

दश-लक्ष-सङ्ख्यं जपेद् आज्यैर् घृतैस् तावत्-सहस्र-होमतो दश-सहस्र-होमतः सिद्धौ इमौ मन्त्रौ मनुष्याणां सर्वैश्वर्य-सर्व-जन-प्रिय-प्रदौ भवतः ॥ क्र्द्च्_७।५६ ॥


इदानीं क्रमेण मन्त्रम् उद्धरति-

मार-शक्ति-रमा-पूर्वः शक्ति-श्री-मार-पूर्वकः ।
श्री-शक्ति-मार-पूर्वश् च दशार्णो मनवस् त्रयः ॥ क्र्द्_७।५७ ॥

गोविन्द-भट्टाचार्यः

अन्नाद्यः काम-भुवनेश्वरी-श्री-बीज-पूर्वा दशाक्षरः भुवनेश्वरी श्रीर् मारः पूर्वो यस्येति द्वितीयः श्री- भुवनेश्वरी-काम-बीज-पूर्वो दशाक्षर इति तृतीयः ॥


एतेषां मनु-वर्याणाम् अङ्ग-र्ष्यादि-दशार्णवत् ।
शङ्ख-चक्र-धनुर्-बाण-पाशाङ्कुश-धरो ऽरुणः ।
वेणुं धमन् धृतं दोर्भ्यां कृष्णो ध्येयो दिवाकरे ॥ क्र्द्_७।५८ ॥
आद्ये मनौ ध्यानम् एवं द्वितीये विंशद्-अर्णवत् ।
दशार्णवत् तृतीये ऽङ्ग-दिक्-पालाद्यैः समर्चना ॥ क्र्द्_७।५९ ॥
पञ्च-लक्षं जपेत् तावद् अयुतं पायसैर् हुनेत् ।
ततः सिध्यन्ति मनवो नृणां सम्पत्ति-कान्ति-दाः ॥ क्र्द्_७।६० ॥

एतेषाम् इत्य् आदि सुगमम् । दिवाकरे सूर्य-मण्डले ॥ क्र्द्च्_७।५८-६० ॥


स्पष्टं मन्त्रान्तरम् उद्धरति-

अष्टादशार्णो भारान्तो मनुः सुत-धन-प्रदः ।
ऋष्य्-आद्य्-अष्टादशार्णोक्तं मारारूढ-स्वरैः क्रमात् ।
अङ्गान्य् अस्य मनोर् अङ्ग दिक्पालाद्यैः समर्चना ॥ क्र्द्_७।६१ ॥

गोविन्द-भट्टाचार्यः

काम-बीजान्तः पूर्वोक्ताष्टादशाक्षर-मन्त्रः सुत-धन-प्रदः मारारूढैर् नपुंसक-रहित-काम-बीज-सहितैः दीर्घ-स्वर-षट्कैः क्रां क्रीम् इत्य् आदि षट्कैः क्रमाद् अस्य मनोः षड्-अङ्गानि ॥ क्र्द्च्_७।६१ ॥


ध्यानम् आह-

पाणौ पायस-पक्वम् आहित-रसं बिभ्रन् मुदा दक्षिणे
सव्ये शारद-चन्द्र-मण्डल-निभं हैयङ्गवीनं दधत् ।
कण्ठे कल्पित-पुण्डरीक-नखरम् उमत्य् उद्दाम-दीप्तिं वहन्
देवो दिव्य-दिगम्बरो दिशतु वः सौख्यं यशोदा-शिशुः ॥ क्र्द्_७।६२ ॥

गोविन्द-भट्टाचार्यः

पाणौ पायस-पक्वं सुपक्वं पायसं सुस्वाद्व् इत्य् अर्थः । अत्युद्दाम-दीप्तिम् अत्युद्भट-कान्ति । दिव्य इति दिव्यश् चासौ दिगम्बरश् चेति समासः । दिव्य-देव-स्वरूप इति ॥ क्र्द्च्_७।६२ ॥


दिनशो ऽभ्यर्च्य गोविन्दं द्वात्रिंशल्-लक्षमानतः ।
जप्त्वा दशांशं जुहुयात् सिताज्येन पयो ऽन्धसा ॥ क्र्द्_७।६३ ॥

गोविन्द-भट्टाचार्यः

सिताज्येन पयो ऽन्धसाशर्करा-घृत-सहितेन परमान्नेन ॥ क्र्द्च्_७।६३ ॥


पद्मस्थं देवम् अभ्यर्च्य तर्पयेत् तन्-मुखाम्बुजे ।
क्षीरेण कदली-पक्वैर् दध्ना हैयङ्गवेन च ॥ क्र्द्_७।६४ ॥

गोविन्द-भट्टाचार्यः

सुतार्थी तर्पयेद् एवं वत्सराल् लभते सुतम् ।
यद् यद् इच्छति तत् सर्वं तर्पणाद् एव सिद्ध्यति ॥ क्र्द्_७।६५ ॥

क्षीरेणेत्य् आदिना तर्पणं यद् उक्तं तज्-जलेनैव क्षीरादि-द्रव्य-बुद्ध्या कार्यम् ॥ क्र्द्च्_७।६४-६५ ॥


मन्त्रान्तरम् उद्धरति-

वाग्-भवं मार-बीजं च कृष्णाय भुवनेश्वरी ।
गोविन्दाय रमा गोपीजनवल्लभ-ङे-शिरः ॥ क्र्द्_७।६६ ॥

गोविन्द-भट्टाचार्यः

वाग्-भवम् ऐम् इति बीजं मार-बीजं क्लीं कृष्णायेति स्वरूपं भुवनेश्वरी-बीजं ह्रीं गोविन्दायेति स्वरूपं रमा-श्री-बीजं गोपी-जन-वल्लभ इति स्वरूपं ङे चतुर्थ्य्-एक-वचनं शिरः स्वाहा शुक्लः श-कारश् चतुर्दश-स्वरूपेणोपेत औ-कार-सहितः शुक्र इति पाठे दन्त्य-स-कारः सं शुक्रात्मने नम इति । न्यास-विधानात् सर्गी विसर्ग-सहितः । तद्-ऊर्ध्वत इति तस्य ऊर्ध्वं तस्य एकविंशत्य्-अक्षरस्य ऊर्ध्वतः प्रथम-बीजम् एतद् इति रुद्रधरः ॥ क्र्द्च्_७।६६ ॥


चतुर्दशस्व् अरोपेतः शुक्लः सर्गी तद्-ऊर्ध्वतः ।
द्वाविंशत्य्-अक्षरो मन्त्रो वाग्-ईशत्वस्य साधकः ॥ क्र्द्_७।६७ ॥

गोविन्द-भट्टाचार्यः

वाग्-भवम् ऐम् इति बीजं मार-बीजं क्लीं कृष्णायेति स्वरूपं भुवनेश्वरी-बीजं ह्रीं गोविन्दायेति स्वरूपं रमा-बीजं गोपी-जन-वल्लभ इति स्वरूपं ङे चतुर्थ्य्-एक-वचनं शिरः स्वाहा शुक्लः श-कारश् चतुर्दश-स्वरेणोपेत औ-कार-सहितः शुक्र इति पाठे दन्त्य-स-कारः सं शुक्रात्मने नम इति । न्यास-विधानात् सर्गी विसर्ग-सहितः तद् ऊर्ध्वत इति तस्य ऊर्ध्वं तस्य एकविंशत्य्-अक्षरस्य ऊर्ध्वतः प्रथम-बीजम् एतद् इति रुद्रधरः ।

तद्-ऊर्ध्वतः-स्वाहा-कारोर्ध्वतः इति लघु-दीपिकाकारः । अनेन बीजेन सह द्वाविंशत्य्-अक्षरो मन्त्रो भवति । कीदृशो ऽयम् ? वचनेश्वरत्व-दाता ॥ क्र्द्च्_७।६६-६७ ॥


अष्टादशार्णवत् सर्वं अङ्ग-र्ष्य्-आदिकम् अस्य तु ।
पूजा च विंशत्य्-अर्णोक्ता प्रतिपत्तिस् तु कथ्यते ॥ क्र्द्_७।६८ ॥

गोविन्द-भट्टाचार्यः

अस्य ऋषि-च्छन्दोधिष्टातृ-देवता-बीज-शक्त्य्-अङ्गानि सर्वाणि अष्टादशार्णवत् यथाष्टादशाक्षर-मन्त्रे तथात्रापीत्य् अर्थः । पूजा पुनः विंशत्य्-अक्षर-कथिता बोद्धव्या प्रतिपत्तिर् ध्यानं कथ्यते पुनः ॥ क्र्द्च्_७।६८ ॥


वामोर्ध्व-हस्ते दधतं विद्या-सर्वस्व-पुस्तकम् ।
अक्षमालां च दक्षोर्ध्वे स्फाटिकीं मातृका-मयीम् ॥ क्र्द्_७।६९ ॥

गोविन्द-भट्टाचार्यः

शब्द-ब्रह्म-मयं वेणुम् अधः-पाणि-द्वयेरितम् ।
गायन्तं पीत-वसनं श्यामलं कोमल-च्छविम् ॥ क्र्द्_७।७० ॥
बर्हि-वर्ह-कृतोत्तंसं सर्वज्ञं सर्व-वेदिभिः ।
उपासितं मुनि-गणैर् उपतिष्ठेद् धरिं सदा ॥ क्र्द्_७।७१ ॥

श्लोक-त्रयेणात्रादि-कुलकम् । हरिम् उपतिष्ठेत् ध्यायेत् । वामोर्ध्व-हस्ते विद्या-सर्वस्व-पुस्तकं वेदान्त-पुस्तकं धारयन्तं दक्षोर्ध्वे पञ्चाशत्-सङ्ख्य-मातृकाक्षर-समितां पञाशत्-स्फटिक-बद्धाम् अक्ष-मालां धारयन्तम् । पुनः कीदृशं ? अधः स्थित-कर-द्वयेन ईरितं वादितं शब्द-ब्रह्म-मयं शब्द-ब्रह्म-स्वरूपं वेणु-रन्ध्रं दधानम् । पुनः कीदृशं ? वेणुनैव गायन्तम् । पुनः कीदृशं ? पीत-वस्त्रे यस्य तं श्याम-वर्णं च । पुनः कीदृशं ? कोमला मनोहरा छविर् यस्य स तथा तम् । पुनः कीदृशं ? बर्ही मयूरस् तस्य बर्हं पिच्छं तेन कृत उत्तंसः शिरोभूषणं येन तम् । पुनः कीदृशं ? सर्व-साक्षिणं । पुनः कीदृशं ? सर्वदा उपासितं
सेवितम् । कैः ? सर्व-वेदिभिः अतीतानागतज्ञैः मुनि-गणैः सनकादिभिः ॥ क्र्द्च्_७।६९-७१ ॥


पुरश्चरणम् आह-

ध्यात्वैवं प्रमदा-वेश-विलासं भुवनेश्वरम् ।
चतुर्लक्षं जपेन् मन्त्रम् इमं मन्त्री सुसंयतः ॥ क्र्द्_७।७२ ॥

गोविन्द-भट्टाचार्यः

एवं पूर्वोक्तं भुवनेश्वरं श्री-कृष्णं प्रमदा स्त्री तस्या वेशः संस्थान-विशेषः । तस्य विलास आह्लादो यस्य तं प्रमदा-रूप-धारिणम् इत्य् अर्थः । यद् वा, स्त्री-रूप-धरं स्त्री-विलासं च ध्यात्वा इमं मन्त्रं लक्ष-चतुष्टयं जपेत् सुसंयतः सन् पूर्वोक्त-पुरश्चरणवान् ॥ क्र्द्च्_७।७२ ॥


होमम् आह-
पलाश-पुष्पैः स्वाद्वक्तैश् चत्वारिंशत् सहस्रकम् ।
जुह्यात् कर्मणानेन मनुः सिद्धो भवेद् ध्रुवम् ॥ क्र्द्_७।७३ ॥

गोविन्द-भट्टाचार्यः

घृत-मधु-शर्करान्वितैः पलाश-पुष्पैश् चत्वारिंशत्-सहस्रकं जुहुयात् । अनेन विधिना अवश्यं मन्त्रः सिध्यति ॥ क्र्द्च्_७।७३ ॥


फलं दर्शयति-

यो ऽस्मिन् निष्णात-धीर् मन्त्री वर्तते वक्त्र-गह्वरम् ।
गद्य-पद्य-मयी वाणी तस्य गङ्गा-प्रवाहवत् ॥ क्र्द्_७।७४ ॥

गोविन्द-भट्टाचार्यः

यो मन्त्री अस्मिन् मन्त्रे निष्णात-धीर् दत्त-मतिर् वर्तते तस्य साधकस्य वक्त्र-गह्वरात् मुख-मध्यतो गद्य-पद्य-मयी वाणी प्रवर्तते गङ्गा-प्रवाहवत् विशुद्धानवर-तत्त्वेन गङ्गा-प्रवाहेणोपमा ॥ क्र्द्च्_७।७४ ॥


सर्व-वेदेषु शास्त्रेषु सङ्गीतेषु च पण्डितः ।
संवित्तिं परमां लब्ध्वा चान्ते भूयात् परं पदम् ॥ क्र्द्_७।७५ ॥

गोविन्द-भट्टाचार्यः

सर्वेषु ऋग्-वेदादिषु शास्त्रेषु वेदान्तेषु पण्डितो विवेक-बुद्धि-युक्तः सन् संवित्तिम् उत्कृष्ट-ज्ञानं प्राप्य अन्ते देहावसाने विष्णु-लोकं प्राप्नोति ॥ क्र्द्च्_७।७५ ॥


मन्त्रान्तरम् आह-

तारं हृद् भगवान् ङे ऽन्तो नन्द-पुत्र-पदं तथा ।
अनन्दान्ते वपुषे ऽस्थ्य्-अग्निम् आयान्ते दश-वर्णकः ॥ क्र्द्_७।७६ ॥

गोविन्द-भट्टाचार्यः

अष्टाविंशत्य् अक्षरो ऽयं ब्रुवे द्वात्रिंशद्-अक्षरम् ।
नन्द-पुत्र-पद ङे ऽन्तं श्यामलाङ्गं पदं तथा ।
ङे ऽन्ता बाल-वपुः कृष्ण-गोविन्दा दश-वर्णकः ॥ क्र्द्_७।७७ ॥

तारं प्रणवः हृत् नमः ङे ऽन्तश् चतुर्थ्य्-अन्तो भगवान् भगवत इति स्वरूपं नन्द-पुत्रं तथा ङे ऽन्तं चतुर्थ्य्-अन्तं नन्द-पुत्रायेति पदान्ते आनन्द इति शब्द-शेषे वपुषे इति स्वरूपम् । अस्थि श-कारः अग्नी रेफः माया दीर्घ-ई-कारः तथा च श्री-बीजम् अस्यान्ते दशार्णकः दशाक्षर-मन्त्रः एतेनायं मन्त्रः अष्टाविंशत्य्-अक्षरो भवति ।
अधुना द्वात्रिंश-मन्त्रम् उद्धरति-नन्देति । नन्द-पुत्र-पदं चतुर्थ्य्-अन्तं श्यामलाङ्गं पदम् अपि चतुर्थ्य्-अन्तं बाल-वपुः कृष्ण-गोविन्द-शब्दाश् च प्रत्येकं चतुर्थ्य्-अन्ताः । अनन्तरं पूर्वोक्त-दशाक्षर-मन्त्रः । एतेन द्वात्रिंशद्-अक्षरो मन्त्रो भवति ॥ क्र्द्च्_७।७६-७७ ॥

विमर्शः-ॐ नमो भगवते नन्द-पुत्राय आनन्द-वपुषे श्रीं गोपी-जन-वल्लभाय स्वाहा ॥ क्र्द्च्_७।७६ ॥

नन्द-पुत्राय श्यामलाङ्गाय बाल-वपुषे कृष्णाय गोविन्दाय गोपीजनवल्लभाय स्वाहा ॥ क्र्द्च्_७।७७ ॥


ऋष्य्-आदिकं दर्शयति ।

अनयोर् नारद ऋषिः छन्दस् त्रिष्टुब्-अनुष्टुभौ ।
आचक्राद्यैर् अङ्गम् अङ्ग-दिक्-पालाद्यैश् च पूजनम् ॥ क्र्द्_७।७८ ॥

गोविन्द-भट्टाचार्यः

अनयोर् नारद ऋषिः । यथा-क्रमं त्रिष्टुब्-अनुष्टुप्-छन्दसी आचक्राद्यैः पूर्वोक्तैर् अङ्ग-पञ्चकम् अङ्ग-दिक्-पाल-वज्राद्यैर् आवरण-पूजनं पीठ-पूजा तु पूर्ववत् ॥ क्र्द्च्_७।७८ ॥


ध्यानं दर्शयति-

दक्षिणे रत्न-चषकं वामे सौवर्ण-वेत्रकम् ।
करे दधानं देवीभ्याम् आश्लिष्टं चिन्तयेद् धरिम् ॥ क्र्द्_७।७९ ॥

गोविन्द-भट्टाचार्यः

हरिं चिन्तयेत् । कीदृशं ? दक्षिण-हस्ते रत्न-पात्रं वाम-हस्ते सुवर्ण-घटित-वेत्रं दधानम् । पुनः कीदृशं ? देवीभ्यां लक्ष्मी-सरस्वतीभ्यां रुक्मिणी-सत्यभामाभ्यां वा आलिङ्गितम् ॥ क्र्द्च्_७।७९ ॥

______________________________

जपेल् लक्षं मनु-वरौ पायसैर् अयुतं हुनेत् ।
एवं सिद्ध-मनुर् मन्त्री त्रैलोक्यैश्वर्य-भाग् भवेत् ॥ क्र्द्_७।८० ॥

गोविन्द-भट्टाचार्यः

मन्त्र-श्रेष्ठौ प्रत्येकं लक्षं जपेत् । अनन्तरं परमान्नेन दश-सहस्रं जुहुयात् अनेन सिद्धौ मन्त्रो यस्य मन्त्री लोक-त्रयिश्वर्य-भाजनं भवति ॥ क्र्द्च्_७।८० ॥


मन्त्रान्तरम् आह-

तार-श्री-शक्ति-बीजाढ्यं नमो भगवते पदम् ।
नन्द-पुत्र-पद-ङे ऽन्तं भूधरो मुख-वृत्त-युक् ।
मासान्ते वपुषे मन्त्र ऊनविंशति-वर्णकः ॥ क्र्द्_७।८१ ॥

गोविन्द-भट्टाचार्यः

तारं प्रणवः श्री-बीजं भुवनेश्वरी-बीजम् एतद्-बीज-त्रयाढ्य नमो भगवते इति स्वरूपं ततश् चतुर्थ्य्-अन्त-नन्द-पुत्र-पदं भूधरो ब-कारः मुख-वृत्तम् आ-कारः तद्-युक्तः मांसो ल-कारस् तद्-अन्ते वपुषे इति स्वरूपम् एतेन ऊनविंशति-वर्णको मन्त्र उद्धृतो भवति ॥ क्र्द्च्_७।८१ ॥

मन्त्रोद्धारः: ॐ श्रीं ह्रीं नमो भगवते नन्द-पुत्राय बाल-वपुषे ॥


ऋषिर् ब्रह्मानुष्टुप्-छन्दस् तथान्यद् उदितं समम् ।
अयं च सर्व-सम्पत्ति-सिद्धये सेव्यताम्बुधैः ॥ क्र्द्_७।८२ ॥

गोविन्द-भट्टाचार्यः

अस्य मन्त्रस्य ब्रह्मा ऋषिश् छन्दो ऽनुष्टुब् अन्यद् उदितम् । अन्यत् सर्वं समानं पूर्वोक्तवद् वेदितव्यम् इत्य् अर्थः ॥ क्र्द्च्_७।८२ ॥


मन्त्रम् उद्धरति-

तारं हृत् भगवान् ङे ऽन्तो रुक्मिणी-वल्लभस् तथा ।
शिरो ऽन्तः षोडशार्णो ऽयं रुक्मिणी-वल्लभाह्वयः ॥ क्र्द्_७।८३ ॥

गोविन्द-भट्टाचार्यः

तारः प्रणवः हृन् नमः चतुर्थ्य्-अन्तो भगवान् तथा चतुर्थ्य्-अन्तो रुक्मिणी-वल्लभ-शब्दः शिरो ऽन्तः स्वाहा-शब्दान्तः एतेन रुक्मिणी-वल्लभाख्यः षोडशाक्षरो मन्त्रः कथितः ॥ क्र्द्च्_७।८३ ॥

विमर्शः : ॐ नमो भगवते रुक्मिणी-वल्लभाय स्वाहा ॥


सर्व-सम्पत्-प्रदो मन्त्रो नारदो ऽस्य मुनिः स्मृतः ।
छन्दो ऽनुष्टिप् देवता च रुक्मिणी-वल्लभो हरिः ।
एक-दृग्-वेद-मुनि-दृग्-वर्णैर् अस्याङ्ग-पञ्चकम् ॥ क्र्द्_७।८४ ॥

गोविन्द-भट्टाचार्यः

अस्य ऋषिर् नारदः अनुष्टुप्-छन्दः रुक्मिणी-वल्लभो हरिर् देवतेति । एकेति । अस्य मन्त्रस्य पञ्चाङ्गानि भवन्ति । कैः ? मन्त्रस्य एक-द्वि-चतुः-सप्त-द्वि-वर्णैः ॥ क्र्द्च्_७।८४ ॥


ध्यानम् आह-

तापिच्छ-च्छवि-रङ्ग-गाम् प्रियतमां सर्वण-प्रभाम् अम्बुज-
प्रोद्यद्-वाम-भुजां स्व-वाम-भुजयाश्लिष्यन् सचिन्ताश्मना ।
श्लिष्यन्तीं स्वयम् अन्य-हस्त-विलसत्-सौवर्ण-वेत्रश् चिरं
पायाद् वो ऽसन-प्रसून-पीत-वसनो नाना-विभूषो हरिः ॥ क्र्द्_७।८५ ॥

गोविन्द-भट्टाचार्यः

तापिच्छ-च्छविस् तमाल-कान्तिर् हरिर् वो युष्मान् पायात् रक्षतु । किं कुर्वन् ? अङ्कस्थां गौराङ्गीं प्रियतमां चिन्तामणि-रत्न-सहितेन हस्तेन आलिङ्गन् । आत्मानं देवं वा दक्षिण-करेण आश्लिष्यन्तीम् आल्लिङ्गन्तीम् । कीदृशो हरिः ? आलिङ्गनान्य-हस्ते काञ्चन-दण्डो यस्य । तथा पुनः कीदृशः ? असन-वृक्ष-पुष्पवत् पीते वस्त्रे यस्य सः । पुनः कीदृशः ? नाना-प्रकारो ऽलङ्कारो यस्य ॥ क्र्द्च्_७।८५ ॥


पुरश्चरणम् आह-

ध्यात्वैवं रुक्मिणी-नाथं जप्याल् लक्षम् इमं मनुम् ।
अयुतं जुहुयात् पद्मैर् अरुणैर् मधुराप्लुतैः ॥ क्र्द्_७।८६ ॥

गोविन्द-भट्टाचार्यः

एवं पूर्वोक्तं रुक्मिणी-वल्लभं रुक्मिणी-नाथं ध्यात्वा इमं मन्त्रं लक्षम् एकं जपतु । घृत-मधु-शर्करासिक्तैः लोहित-पद्मैर् अपि दश-सहस्रं जुहुयात् ॥ क्र्द्च्_७।८६ ॥


पूजां दर्शयति-

अर्चयेन् नित्यम् अङ्गैस् तं नारदाद्यैर् दिशाधिपैः ।
वज्राद्यैर् अपि धर्मार्थ-काम-मोक्षाप्तये नरः ॥ क्र्द्_७।८७ ॥

गोविन्द-भट्टाचार्यः

पीठ-पूजा पूर्ववत् । आवरण-पूजा तु कथ्यते-प्रत्यहं तं हरिं पूजयेत् । कैर् अङ्गैर् आचक्राद्यैः सायाह्न-पूजोक्तैः नारद-प्रभृतिभिश् च दिशाधिपैर् इन्द्राद्यैः तेषाम् आयुधैर् वज्राद्यैः । कीदृशं ? पुरुषार्थ-चतुष्टय-प्रदम् ॥ क्र्द्च्_७।८७ ॥


मन्त्रान्तरम् उद्धरति-

लीला-दण्डावधौ गोपी-जन-संसक्त-दोः पदम् ।
दण्डान्ते बाल-रूपेति मेघ-श्याम-पदं ततः ॥ क्र्द्_७।८८ ॥

गोविन्द-भट्टाचार्यः

भगवान् विष्णुर् इत्य् उक्त्वा वह्नि-जायान्तको मनुः ।
एकोनत्रिंशद्-अर्णो ऽस्य मुनिर् नारद ईरितः ॥ क्र्द्_७।८९ ॥
छन्दो ऽनुष्टुप् देवता च लीला-दण्ड-धरो हरिः ।
मन्व्-अब्धि-करणाग्न्य्-अब्धि-वर्णैर् अङ्ग-क्रिया मता ॥ क्र्द्_७।९० ॥

लीला-दण्डावधौ लीला-दण्ड-शब्दान्ते गोपी-जन-संसक्त-दोः पदम् अनन्तरं दण्ड-शब्दान्ते बाल-रूपेति पदं तद् अनु मेघ-श्यामेति पदं ततः शब्दो ऽपि काकाक्षिवत् सम्बध्यते । तद् अनु भगवान् विष्णुः सम्बोधनान्तम् उक्त्वा स्वाहा-शब्दान्ते एकोनत्रिंशद्-अक्षरो मन्त्र उद्ध्रियताम् इत्य् अर्थः । अस्य मन्त्रस्य नारद ऋषिर् अनुष्टुप् छन्दो लीला-दण्डो हरिर् देवतेति । मन्व्-अब्धीति । अस्य मन्त्रस्याङ्ग-क्रिया मनुश् चतुर्दशः अब्धिश् चतुष्टयं करणं पञ्च अग्निस् त्रयश् चत्वारो ऽब्धिर् एतत्-सङ्ख्याकैर् मन्त्र-वर्णैर् मता सम्मता पञ्चाङ्गानीत्य् अर्थः ॥ क्र्द्च्_७।९० ॥

मन्त्रोद्धारः : लीला-दण्ड-गोपी-जन-संसक्त-दोर्-दण्ड-बाल-रूप-मेघ-श्याम भगवन् विष्णो स्वाहा ।


ध्यानम् आह-

सम्मोहयन् निज-कवामकरस्थ-लीला-
दण्डेन गोप-युवतीः सुर-सुन्दरीश् च ।
दिश्यान् निज-प्रियतमांसग-दक्ष-हस्तो
देवः श्रियं निहत-कम्स उरुक्रमो वः ॥ क्र्द्_७।९१ ॥

गोविन्द-भट्टाचार्यः

सम्मोहयन् निज-कवामकरस्थ-लीला-दण्डेन गोप-युवतीः सुर-सुन्दरीश् च दिश्यान् निज-प्रियतमांसग-दक्ष-हस्तो देवः श्रियं निहत-कम्स उरुक्रमो वः ॥ क्र्द्च्_७।९१ ॥


पुरश्चरणम् आह-

ध्यात्वैवं प्रजपेल् लक्षम् अयुतं तिल-तण्डुलैः ।
त्रि-मध्व्-अक्तैर् हुनेद् अङ्ग-दिक्-पालाद्यैः समर्चयेत् ॥ क्र्द्_७।९२ ॥

गोविन्द-भट्टाचार्यः

एवं पूर्वोक्तं कृष्णं ध्यात्वा लक्षम् एकं जपेत् । तद् अनु घृत-मधु-शर्करा-सहितैस् तिल-तण्डुलैर् दश-सहस्रं जुहुयात् । अङ्गेति । पीठ-पूजा पूर्ववद् आवरण-पूजा-पञ्चाङ्गैर् इन्द्राद्यैश् चेति ॥ क्र्द्च्_७।९२ ॥

______________________________

प्रात्याहिक-पूजा-फलम् आह-

लीला-दण्डं हरिं यो वै भजते नित्यम् आदरात् ।
स पूज्यते सर्व-लोकैस् तं भजेद् इन्दिरा सदा ॥ क्र्द्_७।९३ ॥

गोविन्द-भट्टाचार्यः

यो मनुष्यः प्रत्यहं लीला-दण्ड-धरं हरिं सेवते स सर्व-जनैः पूज्यते । तम् इन्दिरा लक्ष्मीः सर्वदा भजते ॥ क्र्द्च्_७।९३ ॥


मन्त्रान्तरम् उद्धरति-

त्रयोदश-स्वर-युतैः शार्ङ्गी भेदः सकेशवः ।
तथा मांस-युगं भाय शिरः सप्ताक्षरो मनुः ॥ क्र्द्_७।९४ ॥

गोविन्द-भट्टाचार्यः

त्रयोदश-स्वर ओङ्कारस् तेन युतः शार्ङ्गी ग-कारः मेदो व-कारः । कीदृशः ? स केशवः अ-कार-सहितः । तथा मांस-युगं ल-कार-द्वयम् इति भाय शिरः स्वाहा । अनेन सप्ताक्षरो मन्त्र उक्तः ॥ क्र्द्च्_७।९४ ॥

मन्त्र-स्वरूपः : गो-वल्लभाय स्वाहा ॥


ऋष्य्-आदिकम् आह-

आचक्राद्यैर् अङ्ग-क्प्तिर् नारदो ऽस्य मुनिः स्मृतः ।
छन्द उष्णिग्-देवता च गो-वल्लभ उदाहृतः ॥ क्र्द्_७।९५ ॥

गोविन्द-भट्टाचार्यः

आचक्राद्यैः पञ्चाङ्ग-करणम् । अस्य मन्त्रस्य नारद ऋषिः । उष्णिक् छन्दः । गो-वल्लभः कृष्णो देवतेति ॥ क्र्द्च्_७।९५ ॥


ध्यानम् आह-

ध्येयो ऽच्युतः स कपिला-गण-मध्य-संस्थः
ता आह्वयन् दधद् अदक्षिण-दोष्णि वेणुम् ।
पाशं सयष्टिम् अपरत्र पयोदनीलः
पीताम्बरो ऽहि-रिपु-पिच्छ-कृतावतंसः ॥ क्र्द्_७।९६ ॥

गोविन्द-भट्टाचार्यः

अच्युतः कृष्णो ध्येयः । कीदृशः ? कपिला-गणो गो-विशेष-समूहस् तस्याभ्यन्तर-वर्ती । किं कुर्वन् ? ताः कपिला आह्वयन् अभिमुखीकुर्वन् । पुनः कीदृशः ? अदक्षिण-दोष्णि वाम-हस्तेन स-रन्ध्रं वंशं वहन् । अपरत्र दक्षिण-हस्ते दण्ड-सहित-गो-बन्धन-रज्जुं दधत् । पुनः कीदृशः ? पयोद-नीलौ मेघ-श्यामः पीत-वसनः । पुनः कीदृशः ? अहि-रिपुर् मयूरः । तस्य पिच्छं शिखण्डः । तेन कृतो ऽवतंसः कर्णालङ्कारः शिरो-भूषणं वा येन स तथा ॥ क्र्द्च्_७।९६ ॥


पुरश्चरणम् आह-

मुनि-लक्षं जपेद् एतद् धुनेत् सप्त-सहस्रकम् ।
गो-क्षीर-रङ्ग-दिक्-पाल-मध्ये ऽर्च्ये गो-गणाष्टकम् ॥ क्र्द्_७।९७ ॥

गोविन्द-भट्टाचार्यः

इमं मन्त्रं मुनि-लक्षं सप्त-लक्षं जपेत् । गो-दुग्धैः सप्त-सहस्रं जुहुयात् । अङ्ग-पूजानन्त्रं दिक्पाल-पूजायाः प्राक् गो-गणाष्टकं पूजनीयं गो-गणाष्टकं च प्रथमादि यथा स्यात् ।

सुवर्ण-वर्णा कपिला द्वितीया गौर-पिङ्गला ।
तृतीया गौर-पिङ्गाक्षी चतुर्थी गुड-पिङ्गला ॥
पञ्चमी अभ्र-वर्णा स्याद् एताः स्युर् उत्तमा गवाम् ।
चतुर्थी पिङ्गला षष्ठी सप्तमी खुर-पिङ्गला ।
अष्टमी कपिला गोषु विज्ञेयः कपिला-गणः ॥ इत्य् अनेनोक्तम् ॥ क्र्द्च्_७।९७ ॥


प्रयोगान्तरम् आह-

अष्टोत्तर-सहस्रं यः पयोभिर् दिनशो हुनेत् ।
पक्षात् स गो-गणैर् आढ्यो दशार्णेनैष वा विधिः ॥ क्र्द्_७।९८ ॥

गोविन्द-भट्टाचार्यः

गो-दुग्धैः प्रतिदिनं यो ऽष्ताधिकं सहस्रं जुहुयात् स पञ्चदश-दिनाभ्यन्तरे गो-समूहेन सम्पन्नो भवति । एष विधि-प्रयोगो दशाक्षर-मन्त्रेण वा कार्य इत्य् अर्थः ॥ क्र्द्च्_७।९८ ॥

______________________________

मन्त्रान्तरम् आह-

स-लवो वासुदेवो हृत् ङे ऽन्तं च भगवत्-पदम् ।
श्री-गोविन्द-पदं तद्वत् द्वादशार्णो ऽयम् ईरितः ॥ क्र्द्_७।९९ ॥

गोविन्द-भट्टाचार्यः

लवो बिन्दुः । तत्-सहितो वासुदेवः ओङ्कारः अर्थात् प्रणवः । ॐ नमः चतुर्थ्य्-अन्तं भगवत्-पदं तथा श्री-गोविन्द-पदं चतुर्थ्य्-अन्तम् । एतेन द्वादशाक्षरो मन्त्र उद्धृतः ॥ क्र्द्च्_७।९९ ॥

मन्त्र-स्वरूपः : ॐ नमो भगवते श्री-गोविन्दाय ॥


ऋष्य्-आदिकम् आह-

मनुर् नारद-गायत्री-कृष्ण-र्ष्य्-आदिर् अथाङ्गकम् ।
एकाक्षि-वेद-भूतार्णैः समस्तैर् अपि कल्पयेत् ॥ क्र्द्_७।१०० ॥

गोविन्द-भट्टाचार्यः

क्वचिन् मुनिर् इति पाठो न युक्तः । असमन्वयात् पौनरुकुत्याच् च किन्तु मनुर् इत्य् एव पाठः । अयम् इति पाठो युक्त्यालभ्यत इति रुद्रधरः ॥ क्र्द्च्_७।१०० ॥


ध्यानम् आह-

वन्दे कल्प-द्रु-मूलाश्रित-मणि-मय-सिंहासने सन्निविष्टं
नीलाभं पीत-वस्त्रं कर-कमल-लसच्-छङ्ख-वेत्रं मुरारिम् ।
गोभिः स-प्रश्रवाभिर् वृतम् अमर-पति-प्रौढ-हस्त-स्थ-कुम्भ-
प्रच्योतत्-सौध-धारा-स्नपितम् अभिनवाम्भोज-पत्राभ-नेत्रम् ॥ क्र्द्_७।१०१ ॥

गोविन्द-भट्टाचार्यः

मुरारिं वन्दे । कीदृशं ? कल्प-वृक्ष-मूलावस्थिते पद्म-राग-मणि-घटिते सिंहासने उपविष्टम् । पुनः कीदृशं ? नीलाभं श्यामं तथा पीत-वस्त्रं तथा हस्त-पद्मे शोभमानौ शङ्ख-वेत्रौ यस्य । तं तथा स-प्रश्रवाभिः क्षीर-स्तनाभिः गोभिर् वृतं वेष्टितम् । तथा अमर-पतेर् इन्द्रस्य प्रौढो बलिष्ठो यो हस्तस् तद्-अवस्थितो यः कुम्भः घटस् तस्मात् प्रस्रवद् अमृत-धाराभिः स्नपितं तथाभिनवं नूतनं यद् अम्भोजं पद्मं तस्य पत्रवद् आभा कान्तिर् नयनयोर् यस्य तम् ॥ क्र्द्च्_७।१०१ ॥


पुरश्चरणम् आह-

ध्यात्वैवम् अच्युतं जप्त्वा रवि-लक्षं हुनेत् ततः ।
दुग्धैर् द्वादश-साहस्रं दिनशो ऽमुं समर्चयेत् ॥ क्र्द्_७।१०२ ॥

गोविन्द-भट्टाचार्यः

एवं पूर्वोक्तम् अच्युतं ध्यात्वा द्वादश-लक्षं जप्त्वा दुग्धैर् द्वादश-सहस्रं जुहुयात् । प्रत्यहं वा अमुं पूजयेत् ॥ क्र्द्च्_७।१०२ ॥


आयतनादिषु पूजा-विशेषं दर्शयति-

गोष्ठे प्रतिष्ठितं चात्म-गेहे वा प्रतिमादिषु ।
समस्त-परिवारार्चास् ताः पुनर् विष्णु-पार्षदाः ॥ क्र्द्_७।१०३ ॥

गोविन्द-भट्टाचार्यः

द्वाराग्रे बलि-पीठे ऽर्च्याः पक्षीन्द्रश् च तद्-अग्रतः ।
चण्ड-प्रचण्डौ प्राग् धातृ-विधातारौ च दक्षिणे ॥ क्र्द्_७।१०४ ॥
जयः स-विजयः पश्चाद् बलः प्रबल उत्तरे ।
ऊर्ध्वं द्वार-श्रियं चेष्ट्वा द्वास्थेशान् युग्मशो ऽर्चयेत् ॥ क्र्द्_७।१०५ ॥
पूज्यो वास्तु-पुमांस् तत्र तत्र द्वाः-पीथ-मध्य-गः ।
द्वारान्तः-पार्श्वयोर् अर्च्या गङ्गा च यमुना निधी ॥ क्र्द्_७।१०६ ॥
कोणेषु विघ्नं दुर्गां च वाणीं क्षेत्रेशम् अर्चयेत् ।
अर्चयेद् वास्तु-पुरुषं वेश्म-मध्ये समाहितः ।
देवतार्चानुरोधेन नैरृत्यां वा विचक्षणः ॥ क्र्द्_७।१०७ ॥

गोष्ठे गो-स्थाने प्रतिष्ठितं स्थापितं । तथा आत्म-गेहे सुवर्णादि-घटित- प्रतिमादिषु प्रतिष्ठितं विष्णुं पूजयेद् इति पूर्वेणान्वयः । ताः पूर्वोक्ता एव समस्त-परिवार-पूजाः कार्याः । तथा वक्ष्यमाणाश् च विष्णु-पार्षदाः पूर्वादि-चतुर्द्वाराग्र-भागे बलि-दान-पीठे द्विशः पूज्या अत्र त्रिपाठिनः ।

द्वादशाक्षर-गोविन्द-मन्त्रस्य पूजा-प्रसङ्गेन पूर्वोक्त-दीक्षा-पूजायां तथाइकाल-पूजाय्स्व् अपि पूर्वादि-चतुर्-द्वार-पूजा विशेषतः कर्तव्यत्वेन ज्ञातव्या समस्त-परिवारायाच्युताय नमो नमः । विष्णु-पार्षदेभ्यो नमो नमः । अनेन मन्त्र-द्वयेन पूर्वादि-चतुर्द्वाराग्र-भागे बलि-दान-पीठे पूजयेद् इत्य् अर्थः । पक्षीन्द्रो गरुडः । तद्-अग्रतः बलि-दान-पीठाग्रतः पूज्यः ।

विष्णु-पार्षदान् दर्शयति-प्राग् इति । चतुर्-अस्र-चतुर्-द्वारोर्ध्व-भागे द्वार-श्रियं पूजयित्वा चण्डादीन् द्वौ द्वौ कृत्वा पूजयेत् । अनुक्रमेण पूर्व-द्वारम् आरभ्य द्वार-बलि-पीठयोर् मध्ये वास्तु-पुरुषाय नम इति पूजयेत् । द्वारान्त इति चतुर्-द्वार-मध्योभय-फलके गङ्गा-यमुने पूज्ये, तथा शङ्ख-निधि-पद्म-निधी च पूज्यौ । तद् अनु मण्डपे प्रविश्याग्नेयादि-कोणेषु पुनर् वास्तु-पुरुषं संयतः सन् पूजयेत् ॥ क्र्द्च्_७।१०३-१०७ ॥


अस्त्रम् उद्धरति-

तारं शार्ङ्ग-पदं ङे ऽन्तं स-पूर्वं च शरासनम् ।
हुं फट् नतिर् इत्य् उक्त्वास्त्र-मुद्रयाग्रे स्थितो हरेः ॥ क्र्द्_७।१०८ ॥

गोविन्द-भट्टाचार्यः

पुष्पाक्षतं क्षिपेद् दिक्षु समासीनासने ततः ।
विधेयम् एतत् सर्वत्र स्थापितेषु विशेषतः ॥ क्र्द्_७।१०९ ॥

तारं प्रणवः । शार्ङ्ग-पदं ङे ऽन्तं चतुर्थ्य्-अन्तं स-पूर्वं स-शरासन-शब्दं चतुर्थ्य्-अन्तं हुं फट् नमः इत्य् उक्त्वा पुष्पाक्षतं चतुर्-दिक्षु अस्त्र-मुद्रया छोटिकया निक्षिपेत् । कीदृशः ? हरेर् अग्रे स्थितः । ततः आसने स्वोचिते उपविशेत् । एतत् सर्वं सर्व-पूजादौ कर्तव्यं स्थापितेषु प्रतिमादिषु पुनर् विशेषतः कर्तव्यम् एव ॥ क्र्द्च्_७।१०८-१०९ ॥


पीठ-पूजाम् आह-

आत्मार्चनान्तं कृत्वाथ गुरु-पङ्क्ति-पुरोक्तवत् ।
श्री-गुरून् परमाद्यांश् च महास्मत्-सर्व-पूर्वकान् ॥ क्र्द्_७।११० ॥

गोविन्द-भट्टाचार्यः

स्व-देहे पूर्वोक्त-स्वरूपेण पीठम् आरभ्य सम्पूज्य हृदि भगवन्तम् अभ्यर्च्य अनन्तरं बाह्य-पीठे पूर्ववत् पूर्वोक्त-दीक्षा-प्रकरण-कथितोत्तर-दिग्-विभागे इतिवद् गुरु-पङ्क्तिं पूजयेत् । गुरु-पङ्क्तिम् एवाह-श्री-गुरून् इति । श्री-शब्द-पूर्वान् गुरून् परम-गुरून् । प्रयोगश् च-श्री-गुरुभ्यो नमः । श्रीअ-परम-गुरुभ्यो नमः । श्री-महा-गुरुभ्यो नमः । श्री-अस्मद्-गुरुभ्यो नमः । सर्व-गुरुभ्यो नमः ॥ क्र्द्च्_७।११० ॥


तत्-पादुकान् आरदादीन् पूर्व-सिद्धान् अनन्तरम् ।
ततो भागवतांश् चेष्ट्वा विघ्नं दक्षिणतो ऽर्चयेत् ॥ क्र्द्_७।१११ ॥

गोविन्द-भट्टाचार्यः

तत् पादुकाभ्यः नारदादिभ्यः पूर्व-सिद्धेभ्यः भागवतेभ्य इति लघु-दीपिका-कारः । श्री-गुरु-पादुकाभ्यो नमः । श्री-परम-गुरु-पादुका-आदि-गुरु-पादुका-महा-गुरु-पादुका-अस्मद्-गुरु-पादुका-सर्व-गुरु-पादुकाभ्यो नम इति त्रिपाठिनः । एवं गुरु-पङ्क्ति-पीठस्योत्तरे समभ्यर्च्य दक्षिणे गणेशं पूजयेत् ॥ क्र्द्च्_७।१११ ॥


पूर्ववत् पीठम् अभ्यर्च्य श्री-गोविन्दम् अथार्चयेत् ।
रुक्मिणीं सत्यभामां च पार्श्वयोर् इन्द्रम् अग्रतः ॥ क्र्द्_७।११२ ॥

गोविन्द-भट्टाचार्यः

पृष्ठतः सुरभिं चेष्ट्वा केशरेष्व् अङ्ग-देवताः ।
अर्च्या हृदादि-वर्मान्ता दिक्ष्व् अस्त्रं कोणकेषु च ॥ क्र्द्_७।११३ ॥

पूर्वोक्त-प्रकारेणाधार-शक्त्यादि-पीठ-मन्त्रान्तं सम्पूज्य देवम् आवाह्य अघ्यादिभिर् उपचारैः पूजयेत् । आवरण-पूजाम् आह-रुक्मिणीम् इति । गोविन्द-दक्षिण-वामयोः पार्श्वयोः कर्णिकायां रुक्मिणी सत्यभामा च सम्पूज्या देवाग्रे च इन्द्रं सम्पूज्य देव-पृष्ठे तु सुरभिं पूर्वादि-चतुर्दिक्-कोणेषु केशरेषु हृद्-आदि-वर्मान्ता अङ्ग-देवताः पूज्याः । केशरेषु कोणेषु पुनर्-अस्त्रम् अङ्गं पूजयेत् ॥ क्र्द्च्_७।११२-११३ ॥


कालिन्दी-रोहिणी-नाग्नजित्य्-आद्याः षट् च शक्तयः ।
दलेषु पीठ-कोणेषु वह्न्य्-आद्य्-अर्च्याश् च किङ्किणीः ॥ क्र्द्_७।११४ ॥

गोविन्द-भट्टाचार्यः

दामानि यष्टि-वेणुश् च पुरः श्रीवत्स-कौस्तुभौ ।
अग्रतो वनमालां च दिक्ष्व् अष्टासु ततो ऽर्चयेत् ॥ क्र्द्_७।११५ ॥
पाञ्चजन्यं गदां चक्रं वसुदेवं च देवकीम् ।
नन्द-गोपं यशोदां च स-गो-गोपाल-गोपिकाः ॥ क्र्द्_७।११६ ॥

कालिन्द्य्-आद्याः शक्तयो देव-पत्न्यः पत्रेषु पूज्याः । आदि-पदेन सुनन्दा-मित्रविन्दा-सुलक्ष्मणा-परिग्रहः आग्नेयादि-पीठ-कोणेषु किङ्किणि-दामादीन् पूजयेत् । तत्र श्री-कृष्ण-क्षुद्र-घण्टिकाम् अग्नि-कोणे । गो-रक्षणार्थं दामानि नैरृते गो-प्रेरणार्थं लकुटं वायौ वंशम् ईशान-कोणे देवस्याग्रे श्रीवत्स-कौस्तुभौ । श्रीवत्स-कौस्तुभाग्रतः वनमालां तद्-उपरि अष्ट- दिक्षु पाञ्चजन्यादय इति । पाञ्चजन्याय नमः स-गो-गोपाल-गोपिकाभ्यो नम इत्य् अन्ताः पूज्याः आदि-पदेन गदा-चक्र-वसुदेव-देवकीनन्द-यशोदा-परिग्रहः ॥ क्र्द्च्_७।११४-११६ ॥


इन्द्राद्याः कुमुदाद्याश् च विश्वक्सेनं तथोत्तरे ।
कुमुदः कुमुदाक्षश् च पुण्डरीको ऽथ वामनः ।
शङ्कु-कर्णः सर्व-नेत्रः सुमुखः सुप्रतिष्ठितः ॥ क्र्द्_७।११७ ॥

गोविन्द-भट्टाचार्यः

इन्द्राद्याः स्व-स्व-दिक्षु पूज्याः तद्-अस्त्राणि वज्रादीन्य् आदि-शब्द-ग्राह्याणि तथा कुमुदाद्याश् चाष्ट-गजाः तत्-उपरि स्व-स्व-दिक्षु पूज्याः तद्-बहिर्-देवतोत्तरे विष्वक्सेनं पूजयेत् ॥ क्र्द्च्_७।११७ ॥


पूजा-फलम् आह-

एक-कालं द्विकालं वा त्रि-कालं चेति गोष्ठगम् ।
श्री-गोविन्दं यजेन् नित्यं गोभ्यश् च यवस-प्रदः ॥ क्र्द्_७।११८ ॥

गोविन्द-भट्टाचार्यः

दीर्घ-जीवी निरातङ्को धेनु-धान्य-धनादिभिः ।
पुत्रैर् मित्रैर् इहाढो ऽन्ते प्रयाति परं पदम् ॥ क्र्द्_७।११९ ॥

गोष्ठगं व्रज-गं कृष्णं प्रत्यहं एक-कालं द्विकालं त्रि-कालं पूजयेत् । गोभ्यश् च ग्रास-प्रदः सन्निहित-लोके चिरायुर् निर्भयो धेनु-धान्य-सुवर्णादिभिः पुत्र-मित्रादिभिश् च सम्पन्नो भवति देह-पातान्ते च विष्णु-लोकं च गच्छति ॥ क्र्द्च्_७।११८-११९ ॥


मन्त्रान्तरम् आह-

ऊर्ध्वद्-अन्त-युतः शार्ङ्गी चक्री दक्षिण-कर्ण-युक् ।
मांसं नाथाय नत्य्-अन्तो मूल-मन्त्रो ऽष्त-वर्णकः ॥ क्र्द्_७।१२० ॥

गोविन्द-भट्टाचार्यः

ऊर्ध्वद्-अन्तः ओङ्कारः तेन सहितः शार्ङ्गी ग-कारः चक्री क-कारः दक्षिण-कर्ण-युक् उ-कार-सहितः मांसी ल-कारः नाथायेति स्वरूपं नत्य्-अन्तो नमः पदान्तः अयम् अष्टाक्षरो मूल-मन्त्र-सञ्ज्ञकः ॥ क्र्द्च्_७।१२० ॥


ऋष्य्-आदिकम् आह-

ऋषिर् ब्रह्मा च गायत्री-च्छन्दः कृष्णस् तु देवता ।
युग-वर्णैः समस्तेन प्रोक्तं स्याद् अङ्ग-पञ्चकम् ॥ क्र्द्_७।१२१ ॥

गोविन्द-भट्टाचार्यः

अस्य मन्त्रस्य ब्रह्मा ऋषिः गायत्री-च्छन्दः श्री-कृष्णो देवता च शब्दो ऽनुक्त-समुच्चये तेन बीज-शक्त्य्-अधिष्ठातृ-देवता दशाक्षरवत् तथा अस्य मन्त्रस्य मन्त्रोत्थ-वर्णानां चतुर्भिर् युग्म-वर्णैश् चतुरङ्ग-समग्रेण च मन्त्रेणाङ्ग-पञ्चकं ज्ञेयम् ॥ क्र्द्च्_७।१२१ ॥


ध्यानम् आह-

पञ्च-वर्षम् अतिदृप्तम् अङ्गणे
धावमानम् अलकाकुलेक्षणम् ।
किङ्किणी-वलय-हार-नूपुरैर्
अञ्जितं स्मरत गोप-बालकम् ॥ क्र्द्_७।१२२ ॥

गोविन्द-भट्टाचार्यः

गोप-शिशुं नमत । कीदृशं ? पञ्च-वर्ष-वयःस्थं तथा अतिबलिष्ठं तथा प्राङ्गणे धावमानं तथा चातिचञ्चलेक्षणं तथा किङ्किणी क्षुद्र-घण्टिका वलयः कङ्कणः हारो मुक्ताहारः नूपुरस् तुलाकोटिर् एतैर् अञ्जितं भूषितम् ॥ क्र्द्च्_७।१२२ ॥


पुरश्चरणम् आह-

ध्यात्वैवं प्रजपेद् अष्ट-लक्षं तावत् सहस्रकम् ।
जुहुयात् ब्रह्म-वृक्षोत्थ-समिद्भिः पायसेन वा ॥ क्र्द्_७।१२३ ॥

गोविन्द-भट्टाचार्यः

एवं पूर्वोक्तं ध्यात्वा अष्ट-लक्षं मन्त्रं जपेत् । तद् अनु पलाश-वृक्ष-समिद्भिः परमान्नेन वाष्ट-सहस्रं जुहुयात् ॥ क्र्द्च्_७।१२३ ॥


पूजा-प्रकारम् आह-

प्रासादे स्थापितं कृष्णम् अमुना नित्यशो ऽर्चयेत् ।
द्वार-पूजादि पीठार्चनान्तं कृत्वोक्त-मार्गतः ॥ क्र्द्_७।१२४ ॥

गोविन्द-भट्टाचार्यः

धवल-गृहे स्थापितं कृष्णम् अमुना वक्ष्यमाण-प्रकारेण प्रत्यहं पूजयेत् । द्वार-पूजाम् आरभ्य पीठ-पूजा-पर्यन्तं पूर्वोक्त-मन्त्र-वर्त्मना कुर्यात् ॥ क्र्द्च्_७।१२४ ॥


मध्ये ऽर्च-पद् धरिं दिक्षु विदिक्ष्व् अङ्गानि च क्रमात् ।
वासुदेवः सङ्कर्षणः प्रद्युम्नश् चानिरुद्धकः ॥ क्र्द्_७।१२५ ॥

गोविन्द-भट्टाचार्यः

रुक्मिणी सत्यभामा च लक्ष्मणा जाम्बवत्य् अपि ।
दिग्-विदिक्ष्व् अर्चयेद् एतान् इन्द्र-वज्रादिकान् बहिः ॥ क्र्द्_७।१२६ ॥

पद्म-मध्ये हरिं पूजयेत् । पूर्वादि-दिक्-केशरेषु हृद्-आद्य्-अङ्ग-चतुष्टयम् । आग्नेयादि-विदिक्-केशरेषु अस्त्रम् अङ्गम् पूजयेत् । वासुदेव इति । पूर्वादि-दिक्-पत्रेषु वासुदेवादीन् पूजयेत् । आग्नेयादि-विदिक्-पत्रेषु रुक्मिण्य्-आद्याः पूजयेत् । तद्-बाह्ये स्व-स्व-दिक्षु इन्दादीन्, तद् अनु वज्रादीन् पूजयेद् इत्य् अर्थः ॥ क्र्द्च्_७।१२६ ॥


फलम् आह-

यो ऽमुं मन्त्रं जपेन् नित्यं विधिनेत्य् अर्चयेद् धरिम् ।
स सर्व-सम्पत्-सम्पूर्णो नित्यं शुद्धं पदं व्रजेत् ॥ क्र्द्_७।१२७ ॥

गोविन्द-भट्टाचार्यः

यः पुमान् उक्त-विधिना हरिम् अर्चयेत् । अमुं मन्त्रं जपेत् स सर्वैश्वर्यं सम्पन्नः सन् नित्यम् अविनाशि शुद्धम् अविद्या तत्-कार्य-रहितं पदं ब्रह्माख्यं प्राप्नोति ॥ क्र्द्च्_७।१२७ ॥


मन्त्रान्तरम् आह-

तार-श्री-शक्ति-मारान्ते श्री-कृष्णाय-पदं वदेत् ।
श्री-गोविन्दाय तस्योर्ध्वं श्री-गोपी-जन इत्य् अपि ।
वल्लभाय ततस् त्रिः श्री-सिद्धि-गोपालको मनुः ॥ क्र्द्_७।१२८ ॥

गोविन्द-भट्टाचार्यः

तारः प्रणवः श्रीः श्री-बीजं शक्ति-बीजं काम-बीजान्ते श्री-कृष्णायेति स्वरूपं तद् अनु श्री-गोविन्दायेति स्वरूपं तद् अनु श्री-गोपी-जन-वल्लभायेति स्वरूपं श्री-बीज-त्रयम् इति सिद्धि-गोपालको मन्त्र उद्धृतः ।


ध्यानम् आह-

माधवी-मण्डपासीनौ गरुडेनाभिपालितौ ॥ क्र्द्_७।१२९ ॥
दिव्य-क्रीडासु निरतौ राम-कृष्णौ स्मरन् जपेत् ।
चक्री वसु-स्वर-युतः सर्ग्य् एकार्णो मनुर् मतः ॥ क्र्द्_७।१३० ॥

राम-कृष्णौ स्मरन् जपेत् । कीदृशौ ? माधवी-लता-मण्डप-समुपस्थितौ तथा गरुडेन सेवितौ । एकाक्षरादि-गोपाल-मन्त्रान् दर्शयति-चक्रीति । क-कारो वसु-स्वरः अष्टम-स्वरः ऋ-कारस् तेन सहित इति लघु-दीपिका-कारः । मुनिस्वरः सप्त-स्वरस् तेन सहित इति रुद्र-धरः । सर्गी विसर्ग-सहितः इत्य् एकाक्षरो मन्त्रः ॥ क्र्द्च्_७।१२९-१३० ॥


कृष्णेति द्व्य्-अक्षरः काम-पूर्वस् त्र्य्-अर्णः स एव तु ।
स एव चतुर्-अर्णः स्यात् ङे ऽन्तो ऽन्यश् चतुर्-अक्षरः ॥ क्र्द्_७।१३१ ॥

गोविन्द-भट्टाचार्यः

वक्ष्यते पञ्च-वर्णः स्यात् कृष्णाय नम इत्य् अपि ।
कृष्णायेति स्मर-द्वन्द्व-मध्ये पञ्चाक्षरो ऽपरः ॥ क्र्द्_७।१३२ ॥

कृष्णेति स्वरूपं द्व्य्-अक्षरो मन्त्रः । स एव द्व्य्-अक्षरः काम-बीज-पूर्वश् चेत् तदा त्र्य्-अक्षरो मन्त्रो भवति-स एव त्र्य्-अक्षरः चतुर्थी-विभक्त्य्-अन्तश् चेत् तदा चतुर्-अक्षरो मन्त्रः अन्यः कृष्णायेति स्वरूपं स्मर-द्वन्द्व-काम-बीज-द्वयस्य मध्ये यदा भवति तदा अपरः पञ्चाक्षरो मन्त्रो भवति ॥ क्र्द्च्_७।१३१-१३२ ॥


गोपालायाग्नि-जायान्तः षड्-अक्षर उदाहृतः ।
कृष्णाय-काम-बीजाढ्यो वह्निजायान्तको ऽपरः ॥ क्र्द्_७।१३३ ॥

गोविन्द-भट्टाचार्यः

षडक्षरः प्राग्-उदितः कृष्ण-गोविन्दकौ पुनः ।
चतुर्थ्य्-अन्तौ सप्त-वर्णः सप्त-वर्णो ऽन्यः पुरो ऽदितः ॥ क्र्द्_७।१३४ ॥

गोपालायेति स्वरूपं वह्निजाया स्वाहेति पद-द्वयेन षड्-अक्षरः कथितः । काम-बीज-सहित-कृष्णायेति स्वाहेति पद-द्वयेन च षड्-अक्षरो मन्त्र उद्धृतस् तयापरः षड्-अक्षरः प्राग् एव कथितः स च क्लीं कृष्णाय नमः इति । कृष्ण-गोविन्दकौ शब्दौ यदि चतुर्थ्य्-अन्तौ भवतस् तदा सप्ताक्षरो मन्त्रो ऽपरः सप्ताक्षरः प्राग् उदितः स च गो-वल्लभाय स्वाहेति ॥ क्र्द्च्_७।१३३-४ ॥


श्री-शक्ति-मारः कृष्णाय मारः सप्ताक्षरो ऽपरः ।
कृष्ण-गोविन्दकौ ङे ऽन्तौ स्मराढ्याव् अष्ट-वर्णकः ॥ क्र्द्_७।१३५ ॥

गोविन्द-भट्टाचार्यः

श्री-शक्ति-माराः श्री-भुवनेश्वरी-मार-बीजानि कृष्णायेति मारान्तो ऽपरः सप्ताक्षरो मन्त्रः कृष्ण-गोविन्द-शब्दौ ङे ऽन्तौ चतुर्थ्य्-अन्तौ । कीदृशौ ? काम-बीजाढ्यौ इति वसु-वर्णः अष्टाक्षरो मन्त्रः ॥ क्र्द्च्_७।१३५ ॥


दधि-भक्षण-ङे-वह्नि-जायाभिर् अपरो ऽष्तकः ।
सुप्रसन्नात्मने प्रोक्त्वा मम इत्य् अपरो ऽष्तकः ॥ क्र्द्_७।१३६ ॥

गोविन्द-भट्टाचार्यः

चतुर्थ्य्-अन्तो दधि-भक्षण-शब्दः वह्निजाया स्वाहा एतैर् वर्णैर् अपरो ऽष्ताक्षरो मन्त्रः सुप्रसन्नात्मने स्वरूपम् उक्त्वा नम इति वदेत् इत्य् अपरो ऽष्ताक्षरो मन्त्रः ॥ क्र्द्च्_७।१३६ ॥


प्राक् प्रोक्तो मूल-मन्त्रश् च नवार्णः स्मर-संयुतः ।
कृष्ण-गोविन्दकौ ङे ऽन्तौ नमो ऽन्तो ऽन्यो नवार्णकः ॥ क्र्द्_७।१३७ ॥

गोविन्द-भट्टाचार्यः

प्राग्-उक्तश् चाष्टाक्षरो मूल-मन्त्रः स्मर-संयुतः काम-बीज-युक्तः सन् नवाक्षरो भवति । स च क्लीं गोकुल-नाथाय नम इति । कृष्ण-गोविन्दकौ ङे ऽन्तौ चतुर्थ्य्-अन्तौ स्मर-संयुतौ यदि भवतस् तदा नवाक्षरो मन्त्रो भवति । यद्य् एताव् एव नमो ऽन्तकौ नमः शब्दान्तौ भवतस् तदा परो नवाक्षरो मन्त्रः ॥ क्र्द्च्_७।१३७ ॥


क्लीं ग्लौं क्लीं श्यामलाङ्गाय नमस् तु स्याद् दशार्णकः ।
शिरो ऽन्तो बाल-वपुषे क्लीं कृष्णाय स्मृतो बुधैः ॥ क्र्द्_७।१३८ ॥

गोविन्द-भट्टाचार्यः

उक्तं छन्दस् तु गायत्री देवता कृष्ण ईडितः ।
क-ला-षड्ग-दीर्घकैर् अङ्गम् अथामुं चिन्तयेद् धरिम् ॥ क्र्द्_७।१३९ ॥
क्लीं ग्लौं क्लीं श्यामलाङ्गाय नम इति दश-वर्णको मन्त्रः शिरो ऽन्तः स्वाहान्तः बाल-वपुषे इति पदं क्लीं कृष्णायेति एकादशाक्षरो मन्त्रः बुधैः स्मृतः । उक्तानाम् ऋष्य्-आदिकम् आह-एतेषाम् एकाक्षरम् आरभ्यैकादशाक्षर-पर्यन्तानां द्वाविंशति मन्त्राणाम् ऋषिर् नारदः गायत्री-छन्दः श्री-कृष्णो देवता । अङ्गान्य् आह-कलेति । क-कार-ल-काराभ्यां षड्-दीर्घकैर् नपुंसक-रहित-षड्-दीर्घ-स्वरैः क्लां क्लीं क्लूं क्लौं कलः एभिर् इत्य् अर्थः ॥ क्र्द्च्_७।१३९ ॥


ध्यानम् आह-

अव्याद् व्याकोप-नीलाम्बुज-रुचिर् अरुणाम्भोज-नेत्राम्बुजस्थो ।
बालो जङ्घा-कटीर-स्थल-कलित-रणत्-किङ्किणीको मुकुन्दः ।
दोर्भ्यां हैयङ्गवीणं दधद् अतिविमलं पायसं विश्व-वन्द्यो
गो-गोपी-गोप-वीतो रुरुनख-विलसत्-कण्ठ-भूषश् चिरं वः ॥ क्र्द्_७।१४० ॥

गोविन्द-भट्टाचार्यः

अव्याद् व्याकोप-नीलाम्बुज-रुचिर् अरुणाम्भोज-नेत्राम्बुजस्थो बालो जङ्घा-कटीर-स्थल-कलित-रणत्-किङ्किणीको मुकुन्दः दोर्भ्यां हैयङ्गवीणं दधद् अतिविमलं पायसं विश्व-वन्द्यो गो-गोपी-गोप-वीतो रुरुनख-विलसत्-कण्ठ-भूषश् चिरं वः ॥ क्र्द्च्_७।१४० ॥

______________________________

एतेषां पुरश्चरणम् आह-

ध्यात्वैवम् एकम् एतेषां लक्षं जप्यान् मनुं ततः ।
सर्पिः-सितोपलोपेतैः पायसैर् अयुतं हुनेत् ॥ क्र्द्_७।१४१ ॥

गोविन्द-भट्टाचार्यः

यथोक्तं ध्यानं कृत्वा एतेषां मध्ये एकं मन्त्रं लक्षं जपेत् । तद् अनु घृत-खण्ड-सार-युक्तैः परमान्नैर् दश-सहस्रं जुहुयात् ॥ क्र्द्च्_७।१४१ ॥


तर्पयेत् तावद् अन्येषां मनूनां हुत-सङ्ख्यया ।
तर्पणं विहितं नित्यं यो ऽर्चयेत् सुसमाहितः ॥ क्र्द्_७।१४२ ॥

गोविन्द-भट्टाचार्यः

वह्न्य्-आदी-शान्तम् अङ्गानि हृद्-आदि-कवचान्तकम् ।
अर्चयेत् पुरतो नेत्रम् अस्त्रं दिक्षु वह्निः पुनः ॥ क्र्द्_७।१४३ ॥
इन्द्रवज्रादयः पूज्याः सपर्यैषा समीरिता ।
इत्य् एकम् एषां मन्त्राणां भजेद् यो मनु-वित्तमः ॥ क्र्द्_७।१४४ ॥
कर-प्रचेयाः सर्वार्थात् तस्यासौ पूज्यते ऽमरैः ।
सद्यः फल-प्रदं मन्त्रं वक्ष्ये ऽन्यं चतुर्-अक्षरम् ॥ क्र्द्_७।१४५ ॥
स प्रोक्तः मार-युग्मान्तर-स्थ-कृष्ण-पदेन तु ।
ऋष्य्-आद्यम् अङ्ग-षट्कं च प्राग्-उक्तं प्रोक्तम् अस्य तु ॥ क्र्द्_७।१४६ ॥

तद् अनु तावद् दश-सहस्रं तर्पयेत् । एवं प्रकारेणैकस्मिन् मन्त्रे सिद्धे जाते तद् अन्येषां सकृत् पुरश्चरणानाम् एकविंशति मन्त्राणां जप-होम-सङ्ख्यया विनैव हुतायुतेन तर्पणम् एव पुरश्चरणं विहितं करणीयम् । एतेषां मन्त्राणां होम-सङ्ख्यया अयुतेनैव तर्पणं विहितम् ।

पूजाम् आह-नित्यम् इति । नित्यं सर्वदा सुसमाहितः संयतः सन् पूजयेत् । वह्न्य्-आदी-शान्तम् आग्नेय-कोणम् आरभ्य ईशान-कोण-पर्यन्त-हृद्-आदि-कवच-पर्यन्तम् अङ्ग-चतुष्टयं पूजयेत् पुरतो ऽग्रे नेत्रम् अस्त्रं पूजयेत् ।

पूर्वादि-चतुर्दिक्षु इन्द्रादीन् पूजयेत् । तद् अनु-वज्रादीन् इति उपसंहरति । एषां मन्त्राणां सपर्या पूजा कथिता ।

फलम् आह-इत्य् एकम् इति । अमुना प्रकारेण यः साधकोत्तम एषां मन्त्राणां मध्ये एकं मन्त्रं भजेत् उपासीत तस्य सर्वे पुरुषार्था हस्त-प्राप्याः देवैश् चासौ पूज्यते ।

मन्त्रान्तरम् आह-सद्य इति । तात्कालिक-फल-दायकम् अपरं चतुरक्षर-मन्त्रं वक्ष्ये स-चतुर्-अक्षरः काम-बीज-द्वय-मध्यस्थेन कृष्ण-पदेन कथितः ।

ऋष्य्-आदिकम् अस्य ऋषिश् छन्दो दैवतम् अङ्ग-षट्कं च प्राग् उक्तं पूर्व-मन्त्र-समुहे कथितं बोद्धव्यम् ॥ क्र्द्च्_७।१४२-१४६ ॥


ध्यानम् आह-

श्रीमत्-कल्प-द्रु-मूलोद्गत-कमल-लसत्-कर्णिका-संस्थितो यस्
तच्-चाख्यालम्बि-पद्मोदर-विगलद्-असङ्ख्यात-रत्नाभिषिक्तः ।
हेमाभः स्व-प्रभाभिस् त्रि-भुवनम् अखिलं भासयन् वासुदेवः
पायाद् वः पायसादो ऽनवरत-नवनीतामृताशी वशी सः ॥ क्र्द्_७।१४७ ॥

गोविन्द-भट्टाचार्यः

वासुदेवो वो युष्मान् पायात् । कीदृशः ? यः श्री-युक्त-कल्प-वृक्ष-मूलोद्गत-पद्मे शोभमाना या कर्णिका तत्रोपविष्टः । तथा कल्प-द्रुम-शाखालम्बि यत् पद्मं तस्योदरं ततो विगलन्ति प्रसरन्ति यानि असङ्ख्यातानि रत्नानि तैर् अभिषिक्तः । तथा सुवर्ण-गौरः तथाव-कान्तिभिः समस्तं त्रैलोक्यं भासयन् क्षीरान्नाशी तथा स्व-कान्तिभिः समस्तं त्रैलोक्यं भासयन् क्षीरान्नाशी तथा अनवरतम् अनुवेलं नूतनं नवनीतम् एवामृतं तद् अश्नातीति ॥ क्र्द्च्_७।१४७ ॥


पुरश्चरणम् आह-

ध्यत्वैवं प्रजपेल् लक्षं चतुष्कं जुहुयात् ततः ।
त्रिमध्वक्तेर् बिल्व-फलैश् चत्वारिंशत्-सहस्रकम् ॥ क्र्द्_७।१४८ ॥

गोविन्द-भट्टाचार्यः

यथोक्तं ध्यानं कृत्वा लक्ष-चतुष्टयं जपेत् । तद् अनु घृत-मधु-शर्करायुतैर् बिल्व-फलैश् चत्वारिंशत्-सहस्रं जुहुयात् ॥ क्र्द्च्_७।१४८ ॥


पूजाम् आह-
अङ्गैर् निधिभिर् इन्द्राद्यैर् वज्राद्यैर् अर्चनोदिता ।
तर्पयेद् दिनशः कृष्णं स्वादु-त्रय-धिया जलैः ॥ क्र्द्_७।१४९ ॥

गोविन्द-भट्टाचार्यः

षड्-अङ्गैर् निधिभिर् इन्द्राद्य्-अष्ट-निधिभिर् इन्द्राद्यैर् वज्राद्यैश् चानीलार्चना पूजा कथिता । तर्पणम् आह–तर्पयेद् इति । प्रतिदिनं स्वादु-त्रय-धिया घृत-मधु-शर्करा-बुद्ध्या जलैः कृष्णं पूजयेत् ॥ क्र्द्च्_७।१४९ ॥


मन्त्रान्तरम् आह-

मारयोर् अस्य मांसाधोर् रक्तं चेद् अपरो मनुः ।
षड्-अङ्गान्यस्य कल-षट्-दीर्घैर् मन्त्र-शिखामणेः ॥ क्र्द्_७।१५० ॥

गोविन्द-भट्टाचार्यः

अस्य पूर्वोक्त-चतुरक्षर-मन्त्रस्य मारयोर् आद्य्-अन्त-काम-बीजयोर् मांसाधो ल-कारस्याधस्तात् चेद् यदि रक्तं रेफो भवति तदापरश् चतुरक्षरः क्लीं कृष्ण क्लीम् इति मन्त्रः । अस्य मन्त्र-शिखामणे मन्त्र-शिरो रत्नस्य कल-षट्-दीर्घ कला षड्-अङ्गानि कुर्याद् इति शेषः ॥ क्र्द्च्_७।१५० ॥

मन्त्र-स्वरूपम्: क्लीं क्लूं क्लें क्लों क्लौं क्लः ॥


ध्यानम् आह-

आरक्तोद्यान-कल्प-द्रुम-शिखर-लसत्-स्वर्ण-दोलाधिरूढं
गोपाभ्यां प्रेङ्ख्यमानं विकसित-नव-बन्धूक-सिन्दूर-भासम् ।
बालं नीलाल-कान्तं कटि-तट-विलुठत् क्षुद्र-घण्टावटाढ्यं
वन्दे शार्दूल-कामाङ्कुश-ललित-गला-कल्प-दीप्तं मुकुन्दम् ॥ क्र्द्_७।१५१ ॥

गोविन्द-भट्टाचार्यः

मुकुन्दम् वन्दे । कीदृशं ? आरक्तम् अरुणं यद् उद्यानं तत्र यः कल्प-वृक्षस् तस्य शिखरम् अग्रं तत्र लसन्ती या शोभमाना सुवर्ण-मयी दोला तत्रोपविष्टं तथा गोपाङ्गनाभ्यां प्रेङ्ख्यमानं दोलायमानं विकसितं प्रफुल्लं नवीनं यद् बन्धु-जीव-पुष्पं सिन्दूरं तयोर् इव भावं यस्य तं तथा बालं शिशुं तथा कृष्ण-केशं तथा कटि-तटे इतस् ततो गच्छन्ती या क्षुद्र-घण्टिका घण्टा-क्षुद्र-घण्टिका समूहस् तेन सम्बद्धं तथा शार्दूलस्य व्याघ्रस्य कामाङ्कुशेन शोभमानं यत् कण्ठाभरणं तेन शोभमानम् ॥ क्र्द्च्_७।१५१ ॥


एवम्-

ध्यत्वैवं पूर्व-क्प्त्यैनं जप्त्वा रक्तोत्पलैर् नवैः ।
मधुत्त्रय-प्लुतैर् हुत्वाप्य् अर्चयेत् पूर्ववद् धरिम् ॥ क्र्द्_७।१५२ ॥

गोविन्द-भट्टाचार्यः

पूर्वोक्तं मुकुन्दं ध्यात्वा एनं मन्त्रं पूर्वोक्त-सङ्ख्यम् एव जप्त्वा रक्त-पद्मैर् नूतनैर् घृत-मधु-शर्करायुतैः पूर्वोक्त-सङ्ख्यम् एव हुत्वा पूर्वोक्त-प्रकारेण हरिं पूजयेत् ॥ क्र्द्च्_७।१५२ ॥


आराद् उक्तं मन्त्रयोः प्रयोगं दर्शयति-

मधुर-त्रय-संयुक्तामारक्तां शालि-मञ्जरीम् ।
जुहुयान् नित्यशो ऽष्टार्धं शतम् एकेन मन्त्रयोः ॥ क्र्द्_७।१५३ ॥

गोविन्द-भट्टाचार्यः

तस्य मण्डलतः पृथ्वी पृथ्वी-सस्य-कुलाकुला ।
स्याच् छालि-पुञ्ज-पूर्णं च तद्-वेश्माशु प्रजायते ॥ क्र्द्_७।१५४ ॥

घृत-मधु-शर्करामिश्रितां लोहितां हैमन्तिक-धान्य-मञ्जरीम् अष्टोत्तर-शतमतयोर् मन्त्रयोर् मध्ये एकेन मन्त्रेण प्रत्येकं प्रत्यहं यो जुहुयात् तस्य पुंसः मण्डलतः एकोन-पञ्चाशद्-दिनाद् अर्वाक् षड्-विंशति-दिनाद् इति लघु-दीपिका-कारः । पञ्च-चत्वारिंशद्-दिनानन्तरम् इति रुद्रधरः । महती पृथिवी धान्यादि-समूह-व्याप्ता भवति तथा तद्-गृहं शालि-धान्य-समूह-व्याप्तं शीघ्रं भवति ॥ क्र्द्च्_७।१५३-१५४ ॥


फलम् आह-

यस् त्व् एतयोर् नियतम् अन्यतरं भजेत
भव्नोर् जपार्चन-हुताद्रिभिर् आप्त-भक्तिः ।
श्रीमान् स मन्मथ इव प्रमदासु वाग्मी
भूयात् तनोर् विपदि तच् च महोच्युताख्यम् ॥ क्र्द्_७।१५५ ॥

गोविन्द-भट्टाचार्यः

यः पुमान् एतयोर् एकं नियतं नियतो भजेत साधयेत् । कैः ? जप-पूजा-होमादिभिः । कीदृशः ? प्राप्त-भक्तिः स लक्ष्मी-युक्तः स्त्रीषु कामदेववत् उत्कृष्ट-वचन-भाग् भवति । तनोर् विपदि शरीर-पातानन्तरं विष्णु-लोकं च गच्छति ॥ क्र्द्च्_७।१५५ ॥


इति श्री-केशव-भट्टाचार्य-विरचितायां क्रम-दीपिकायां सप्तमः पटलः ।
॥७॥


(८)