अथैवं साधित-मन्त्रयोः प्रयोगादीन् दर्शयति-
विनियोगान् अथो वक्ष्ये मन्त्रयोर् उभयोः समान् ।
तद्-अर्थ-कारिणो ऽनन्त-वीर्यान् मन्त्रांश् च कांश्चन ॥ क्र्द्_६।१ ॥
गोविन्द-भट्टाचार्यः
अथो ऽनन्तरं मन्त्रयोर् दशाष्टादशाक्षरयोः समान् ध्यान-विशेषेण विनियोगान् तथा तद्-अर्थ-कारिणो ऽनन्त-वीर्यान् बहु-फल-दातॄन् कांश्चिन् मन्त्रान् वक्ष्ये ॥ क्र्द्च्_६।१ ॥
प्रयोगार्थं दशाष्टादशाक्षरयोर् ध्यानम् आह-
वन्दे तं देवकी-पुत्रं सद्यो-जातं द्यु-सप्रभम् ।
पीताम्बरं कर-लसच्-छङ्ख-चक्र-गदाम्बुजम् ॥ क्र्द्_६।२ ॥
गोविन्द-भट्टाचार्यः
उक्त-रूपं प्रसिद्धं देवकी-पुत्रं सद्यो-जातं बालकं द्यु-सप्रभम् आकाश-समान-कान्तिं श्यामं पीत-वस्त्रं करे लसन्ति शोभमानानि शङ्ख-चक्र-गदा-पद्मानि यस्य तं वन्दे नमस्करोमि ॥ क्र्द्च्_६।२ ॥
एवं ध्यात्वा जपेल् लक्षं मन्त्रं ब्राह्मे मुहूर्तके ।
स्वादु-प्लुतैश् च कुसुमैः पलाशैर् अयुतं हुनेत् ॥ क्र्द्_६।३ ॥
गोविन्द-भट्टाचार्यः
एवम् अमुना प्रकारेण ब्राह्मे मुहूर्तके उदयात् प्राक् दण्ड-द्वये दण्ड-चतुष्टय इति कश्चित् मन्त्रम् उभयोर् एक-लक्षं जपेत् । अनन्तरं पलाश-पुष्पैः स्वादु-प्लुतैर् घृत-मधु-शर्करा-सहितैर् दश-सहस्रं जुहुयात् ॥ क्र्द्च्_६।३ ॥
फलम् आह–
मन्वोर् अन्यतरेणैवं कुर्याद् यः सुसमाहितः ।
स्मृतिं मेधां मति-बलं लब्ध्वा स कविराड् भवेत् ।
स्यान् मनुस् तत् समजपध्यान-होम-फलो ऽपरः ॥ क्र्द्_६।४ ॥
गोविन्द-भट्टाचार्यः
मन्वोर् दशाष्टा-दशाकरयोर् अन्यतरेण एकेन सुसमाहितः सुसंयतः सन् य एवं कुर्यात् स स्मृतिं स्मरणं मेधां धारणावतीं बुद्धिं मतिं सम्यक् ज्ञानं बलं महा-प्राणत्वम् एतत् सर्वं प्राप्य कविराट् कवि-श्रेष्ठो भवति स्याद् इति अपरो ऽग्रे वक्ष्यमाण-मन्त्रः कथित-मन्त्र-द्वय-समान-जप-ध्यान-होम-फलो भवति ॥ क्र्द्च्_६।४ ॥
मन्त्रम् आह-
श्रीमन्-मुकुन्द-चरणौ सदेति शरणं ततः ।
अहं प्रपद्य इत्य् उक्तो मौकुन्दो ऽष्टादशाक्षरः ॥ क्र्द्_६।५ ॥
गोविन्द-भट्टाचार्यः
श्रीमन्-मुकुन्द-चरणौ सदेति स्वरूपं ततस् तद्-अनन्तरं शरणम् इति स्वरूपम् अहं प्रपद्य इति स्वरूपम् इत्य् अनेन प्रकारेण मौकुन्दो मुकुन्द-सम्बन्धी अष्टाद्शाक्षरो मन्त्रः कथितः ॥ क्र्द्च्_६।५ ॥
मन्त्रोद्धारः: श्री-मुकुन्द-चरणौ सदा शरणम् अहं प्रपद्ये ।
ऋष्य्-आदिकम् आह-
नारदो ऽस्य तु गायत्री मुकुन्दश् चषि-पूर्वकाः ।
प्रातः प्रातः पिबेत् तोयं जप्तं यो ऽष्तोत्तरं शतम् ।
अनेन षड्भिर् मासैः स भवेच् छ्रुतधरो नरः ॥ क्र्द्_६।६ ॥
गोविन्द-भट्टाचार्यः
अस्य मन्त्रस्य नारदो मुनिर् गायत्री-छन्दो मुकुन्दो देवता ऋषि-पूर्वकाः ऋष्य्-आद्याः ऋषि-च्छन्दो देवता इत्य् अर्थः । ते च नारदादयः । प्रयोगम् आह-प्रातः प्रत्यहम् अष्टोत्तरं शतं जप्तं मन्त्र-जप्तं जलं पिबेत् । स नरो अनेन विधानेन षड्भिर् मासैः श्रुत-धरो भवेत् ॥ क्र्द्च्_६।६ ॥
प्रयोगान्तरम् आह-
उपसंहृत-दिव्याङ्गं पुरोवन् मातुर् अङ्कगम् ।
चलद्-दोश् चरणं बालं नीलाभं संस्मरन् जपेत् ॥ क्र्द्_६।७ ॥
गोविन्द-भट्टाचार्यः
उपसंहृत-दिव्याङ्गं त्यक्त-चतुर्बाहु-रूपं धृत-बाहु-द्वयं पुरोवत् यथा-वसुदेव-सद्मनि भीतेन दिव्याङ्गम् उपसंहृतं मातुर् अङ्कगं देवकी-क्रोडे स्थितं चलद्-दोश्-चरणं चञ्चल-हस्त-पादं बालं शिशुं नीलाभं कं संस्मरेत् ॥ क्र्द्च्_६।७ ॥
अयुतं तावद् एवाज्यैर् जुहुयाच् च हुताशने ।
स लभेद् अचलां भक्तिं श्रद्धां शान्तिं च शाश्वतीम् ॥ क्र्द्_६।८ ॥
गोविन्द-भट्टाचार्यः
अयुतं जपेत् तावद् एवाग्नाव् आज्यैर् घृतैर् जुहुयात् यः स स्थिरां परमेश्वर-विषयिणीम् आराध्यत्व-बुद्धिं शुद्धां शास्त्र-बोधिते ऽर्घे ऽवश्यम्भावि-निश्चयात्मिका शान्तिं मोक्ष-रूपां शाश्वतीं नित्यां प्राप्नोति दशाष्टादशाक्षरयोर् विशेष-ध्यानम् इदं प्रयोगार्थम् इति भैरव-त्रिपाठिनः ॥ क्र्द्च्_६।८ ॥
मन्त्रान्तरम् आह-
मनुनैतत्-समस्तान्ते मरुन्-नमित-शब्दितः ।
बाल-लीलात्मने हुं फट् नम इत्य् अमुनाथवा ॥ क्र्द्_६।९ ॥
गोविन्द-भट्टाचार्यः
अथवामुना वक्ष्यमाण-मन्त्रेणैतत्-प्रयोग-जातं साधयेत् । मन्त्रम् आह-समस्तेति । स्वरूपम् अस्यान्ते मरुन्-नमित इति स्वरूपम् । एतस्माच् छब्दात् बाल-लीलात्मने हुं फड् इति स्वरूपं नम इति स्वरूपम् । अयम् अप्य् अष्टादशाक्षरः दशाष्टादशाक्षर-समानः ॥ क्र्द्च्_६।९ ॥
मन्त्रोद्धारः: समस्त-मन्रुन्-नमितः बाल-लीलात्मने हुं फट् स्वाहा ।
ऋष्य्-आदीन् आह-
नलकूवर-गायत्री-बाल-कृष्णा इतीरिताः ।
ऋस्याद्याः सिद्धयः सर्वाः स्युर् जपाद्यैर् इहामुना ॥ क्र्द्_६।१० ॥
गोविन्द-भट्टाचार्यः
अस्य मन्त्रस्य ऋष्य्-आद्याः ऋषिः छन्दो देवता नलकूवर-प्रभृतयः । तत्र नलकूवरो मुनिर् गायत्री छन्दः बाल-कृष्णो देवता इति । इह भुवने जपाद्यैः सर्वाः सिद्धयो भवन्ति ॥ क्र्द्च्_६।१० ॥
लम्बितं बाल-शयने रुदन्तं वल्लवी-जनैः ।
प्रेक्ष्यमाणं दुग्ध-बुद्ध्या तर्पयेत् सो ऽश्नुते ऽशनम् ॥ क्र्द्_६।११ ॥
गोविन्द-भट्टाचार्यः
बाल-शयने आन्दोलिकायां लम्बितं स्थितं रुदन्तं क्रन्दमानं वल्लवी-जनैर् गोपीभिः प्रेक्ष्यमाणं दृश्यमानं प्रेर्यमाणम् इति पाठे चाल्यमानम् इत्य् अर्थः । दुग्ध-बुद्ध्या जलेन तर्पयेत् । अशनं भक्ष्य-वस्तु अश्नुते प्राप्नोति ॥ क्र्द्च्_६।११ ॥
मन्त्रान्तरम् आह-
अमुना वान्न-रूपान्ते रस-रूप-पदं वदेत् ।
तुष्ट-रूप नमो द्वन्द्वम् अन्नाधिपतये मम ।
अन्नं प्रयच्छ स्वाहेति त्रिंशद्-अर्णो ऽन्नदो मनुः ॥ क्र्द्_६।१२ ॥
गोविन्द-भट्टाचार्यः
अमुना मन्त्रेण पूर्वोक्तं कुर्यात् । मन्त्रम् आह-अन्न-रूप इति शब्दान्ते रस-रूप इति स्वरूपं तुष्ट-रूपेति स्वरूपं नमो द्वन्द्वम् इति नमो नम स्वरूपम् आन्नाधिपतये ममान्नं प्रयच्छ स्वाहेति त्रिंशद्-अक्षरो अन्नद-मन्त्रः दशाष्टाडशाक्षर-समानः ॥ क्र्द्च्_६।१२ ॥
मन्त्रोद्धारः: अन्न-रूप रस-रूप तुष्ट-रूप नमो नमः अन्नाधिपतये मनान्नं प्रयच्छ स्वाहा ।
ऋष्य्-आदीन् आह-
नारदानुष्टुब्-अन्नाधिपतयो ऽस्यर्षि-पूर्वकाः ।
भूत-बाल-ग्रहोन्माद-स्मृति-भ्रंशाद्य्-उपद्रवैः ।
पूतना-स्तन-पातारं ग्रस्त-मूर्ध्नि स्मरन् जपेत् ॥ क्र्द्_६।१३ ॥
गोविन्द-भट्टाचार्यः
अस्य मन्त्रस्य नारदो मुनिः, अनुष्टुप्-छन्दः, अन्नाधिपतिर् देवता । प्रयोगम् आह-भूतेति । भूत-पिशाचादिर् बाल-ग्रहो रोग-विशेषः । उन्मादश् चित्त-भ्रमः स्मृति-भ्रंशः सम्मोहः । एतैर् उपद्रवैर् उपतापैर् ग्रस्त-मूर्ध्नि उपतप्त-मस्तके पूतना-स्तन-पायिनं कृष्णं स्मरन् मन्त्रं जपेत् ॥ क्र्द्च्_६।१३ ॥
तां पूतनां रुदतीं क्रन्दमानां भावयेत्-
सासु-चूषण-निर्भिन्न-सर्वाङ्गीं रुदतीं च ताम् ।
आविश्य सर्वे मुक्त्वा तं विद्रवन्ति द्रुतं ग्रहाः ॥ क्र्द्_६।१४ ॥
गोविन्द-भट्टाचार्यः
पुनः कीदृशीम् ? सासु-चूषनं सह प्राणेन यत् चूषणं समाकर्षणं तेन निर्भिन्नम् अनायतं सर्वाङ्गं यस्याः सा । तथा तां किं भूत्वा जपेत् ? आविश्य अहम् एव हरिर् इति भावयित्वा । अनन्तरं तं ग्रस्तं सर्वे ग्रहा उपद्रवा मुक्त्वा परित्यज्य द्रुतं शीघ्रं विद्रवन्ति पलायन्ते । अत्र दशाष्टादशाक्षरयोर् विशेष-ध्यानम् इदं प्रयोगार्थम् इति त्रिपाठिनः ॥ क्र्द्च्_६।१४ ॥
प्रयोगान्तरम् आह-
जुहुयात् खर-मञ्जर्या मञ्जरीभिर् विभावसौ ।
सुस्नातः पञ्च-गव्याद्भिः पूतनाहन्तुर् आनने ॥ क्र्द्_६।१५ ॥
गोविन्द-भट्टाचार्यः
खर-मञ्जर्या अपामार्गस्य मञ्जरीभिर् अग्र-भागैः पञ्च-गव्य-जलैः सिक्तैर् विभावसौ वह्नौ पूजना-हन्तुः कृष्णस्यानन-रूपे जुहुयात् ॥ क्र्द्च्_६।१५ ॥
प्राशयेच् छिष्ट-गव्यं तत्-कलशेनाभिषेचयेत् ।
साध्यं सहस्र-जप्तेन सर्वोपद्रव-शान्तये ॥ क्र्द्_६।१६ ॥
गोविन्द-भट्टाचार्यः
होमावशिष्टं पञ्च-गव्य-साध्यं प्राशयेत् सहस्र-जप्तेन पूर्वोक्त-विधिना साधितेन कलशेन वाभिषेचयेत् सर्वोपद्र-निवृत्त्य्-अर्थम् ॥ क्र्द्च्_६।१६ ॥
मन्त्रान्तरम् आह-
अमुनैतद् द्वादशार्णं हुं फट् स्वाहान्तकेन वा ।
ऋष्य्-आद्या ब्रह्म-गायत्री-ग्रह-घ्न-हरयो ऽस्य तु ॥ क्र्द्_६।१७ ॥
गोविन्द-भट्टाचार्यः
एतत्-पूर्वोक्त-प्रयोग-द्वयं वक्ष्यमाण-मन्त्रेण वा कुर्यात् । मन्त्रम् आह-द्वादशेति-पूर्वोक्त-वासुदेव-द्वादशाक्षरान्ते हुं फट् स्वाहेति षोडशाक्षरो मन्त्रः दशाष्टादशाक्षर-समानः । ऋष्य्-आदिकम् आह-ऋष्याद्या इति । ऋषि-प्रभृतयो ब्रह्मादयः । तत्र ब्रह्मा ऋषिः । गायत्री च्छन्दः । ग्रहघ्न-रूपो हरिर् देवता ॥ क्र्द्च्_६।१७ ॥
मन्त्रोद्धारः: ॐ नमो भगवते वासुदेवाय हुं फट् स्वाहा ।
निज-पादाम्बुजाक्षिप्त-शकटं चिन्तयन् जपेत् ।
अयुतं मन्त्रयोर् एकं सर्व-विघ्नोपशन्तये ॥ क्र्द्_६।१८ ॥
गोविन्द-भट्टाचार्यः
निज-चरण-कमल-निक्षिप्त-शकटं हरिं चिन्तयेत् । मन्त्रयोः पूर्व-मन्त्रापर-मन्त्रयोर् एकम् अयुतं जपेत् । किम्-अर्थम् ? सकल-विघ्नोपशमनार्थं दशाष्टादशाक्षरयोर् एव सर्व-विघ्न-शान्त्य्-अर्थं विशेष-ध्यानम् इति त्रिपाठिनः ॥ क्र्द्च्_६।१८ ॥
अङ्गान्य् अमीषां मन्त्राणाम् आचक्रादिभिर् अर्चना ।
अङ्गैर् इन्द्रादि-वज्राद्यैर् उदिता सम्पदे सदा ॥ क्र्द्_६।१९ ॥
गोविन्द-भट्टाचार्यः
अमीषां कथित-मन्त्राणाम् आचक्रादिभिर् दशाक्षर-कथितैर् अङ्गानि कार्याणि अर्चना पूजास् तु अङ्गैस् तथेन्द्राद्यैस् तद्-आयुधैश् चेति सम्पत्त्य्-अर्थं सदा कथिता ॥ क्र्द्च्_६।१९ ॥
मृत्युञ्जय-विधिं दर्शयति-
बालो नील-तनुर् दोर्भ्यां दध्य्-उत्थं पायसं दधत् ।
हरिर् वो ऽव्याद् द्वीपि-नख-किङ्किणी-जाल-मण्डितः ॥ क्र्द्_६।२० ॥
गोविन्द-भट्टाचार्यः
दशाष्टादशाक्षरयोर् वारोग्यार्थं विशेष-ध्यानम् आह-बाल इत्य् आदिनेति त्रिपाठिनः । हरिर् वो युष्मान् रक्षतु । कीदृशो बालः ? पञ्च-वर्षीयः । पुनः कीदृशः ? नील-तनुः । पुनः कीदृशः ? हस्ताभ्यां दध्य्-उत्थं नवनीतं पायसं परमान्नं च धारयेत् । पुनः कीदृशः ? व्याघ्र-नख-क्षुद्र-घण्टिका-समूहाभ्याम् अलङ्कृतः ॥ क्र्द्च्_६।२० ॥
ध्यात्वैवाग्नौ जुहुयात् शतवीर्याङ्कुर-त्रिकैः ।
पयः-सर्पिः-प्लुतैर् लक्षम् एकं तावज् जपेन् मनुम् ॥ क्र्द्_६।२१ ॥
गोविन्द-भट्टाचार्यः
एवम्भूतं हरिं ध्यात्वा वह्नौ शतवीर्याङ्कुरैर् दुर्वाङ्कुरैस् त्रिभिः । कीदृशैः ? पयो दुग्धं सर्पि-घृतं ताभ्यां प्लुतैः सिक्तैः एकं लक्षं जुहुयात् लक्षम् एकं जपेत् ॥ क्र्द्च्_६।२१ ॥
गुरवे दक्षिणां दत्त्वा भोजयेद् द्विज-पुङ्गवान् ।
स ह्य् अब्दानां शतं जीवेन् न रोगो नात्र संशयः ॥ क्र्द्_६।२२ ॥
गोविन्द-भट्टाचार्यः
अनन्तरं गुरवे दक्षिणां दत्त्वा ब्राह्मणान् भोजयेच् च स वर्षाणां शतं रोग-रहितः सन् जीवेत्-अत्र संशयो नास्ति ॥ क्र्द्च्_६।२२ ॥
मन्त्रान्तरम् आह-
अत्रापरो मनुर् द्वादशार्णान्ते पुरुषोत्तम ।
आयुर् मे देहि सम्भाष्य विष्णवे प्रभविष्णवे ॥ क्र्द्_६।२३ ॥
गोविन्द-भट्टाचार्यः
नमो ऽन्तो द्व्य्-अधिक-त्रिंशद्-अर्णो ऽस्यार्षिस् तु नारदः ।
छन्दो ऽनुष्टुप्-देवता च श्री-कृष्णो ऽङ्गान्य् अतो ब्रुवे ॥ क्र्द्_६।२४ ॥
एतादृशे कार्ये ऽपरो मन्त्रो ऽस्ति । मन्त्रम् आह-द्वादशाक्षर-वासुदेव-मन्त्रान्ते पुरुषोत्तम इति स्वरूपम् आयुर् मे देहीति स्वरूपं विष्णवे प्रभविष्णवे इति स्वरूपम् । नम इत्य् अन्तो द्व्य्-अधिक-त्रिंशद्-अर्णो द्वात्रिंशद्-अक्षरो मन्त्रः कथितस् तु । पुनर् अस्य मन्त्रस्य नारद ऋषिर् अनुष्टुप्-छन्दो देवता श्री-कृष्णः इति अतो ऽनन्तरम् अङ्गानि ब्रुवे वदामि ॥ क्र्द्च्_६।२३-२४ ॥
मन्त्रोद्धारः: ॐ नमो भगवते वासुदेवाय पुरुषोत्तम् आयुर् मे देहि विष्णवे प्रभविष्णवे नमः ।
रवि-भूतेन्द्रिय-वसु-नेत्रार्णैश् चात्मने युतैः ।
महानन्द-पद-ज्योतिर् माया-विद्या-पदैः क्रमात् ॥ क्र्द्_६।२५ ॥
गोविन्द-भट्टाचार्यः
द्वादश-पञ्च-पञ्चाष्ट-द्वि-सङ्ख्यातैर् मन्त्राक्षरैर् आत्मनेपदान्तैर् महानन्दादि-पदैः सह क्रमेण पञ्चाङ्गानि । सहानन्देत्य् अपि क्वचित् पाठः ॥ क्र्द्च्_६।२५ ॥
एतस्य पुरश्चरणादिम् आह-
जप्त्वा लक्षम् इमं मन्त्रम् अयुतं पायसैर् हुनेत् ।
पूर्ववद् दूर्वया जुह्वद् आयुर् दीर्घतरं लभेत् ॥ क्र्द्_६।२६ ॥
गोविन्द-भट्टाचार्यः
इमं मन्त्रं लक्षं जप्त्वा पायसैर् अयुतं हुनेत् जुहुयात् । एवं मन्त्रं संसाध्य पूर्ववद् दूर्वयाङ्कुरकैः दुग्ध-घृत-मिलितैर् लक्षम् एकं जुहुयात् । जपैश् च दीर्घतरम् अतिशयम् आयुः प्राप्नोति ॥ क्र्द्च्_६।२६ ॥
दारयन्तं बकं दोर्भ्यां कृष्णं सङ्गृह्य तुण्डयोः ।
स्मरन् शिशूनाम् आतङ्के स्पृष्ट्वाऽयतरम् अभ्यसेत् ।
तज्-जप्त-तिलजाभ्यङ्गाद् भवेयुः सुखिनश् च ते ॥ क्र्द्_६।२७ ॥
गोविन्द-भट्टाचार्यः
शिशूनां बालानाम् आतङ्के भये समुपस्थिते तान् बालान् स्पृष्ट्वा कृष्णं स्मरन् अन्यतरम् उक्तेष्व् एकं मन्त्रम् अभ्यसेज् जप्यात् । कीदृशं कृष्णम् ? कराभ्यां तुण्डयोः सङ्गृह्य बक-नामानम् असुरं विदारयन्तम् । तन्-मन्त्र-जप्त-तैलाभ्यङ्गात् ते बालाः सुखिनो भवन्ति । स्मरन्न् इति शुशु-नामानं कृष्णं स्मरन्, के शिरसि स्पृष्ट्वा जप्याद् इति बोद्धव्य-मन्त्र-दशाष्टादशाक्षरयोर् विशेष-ध्यानम् इति त्रिपाठिनः ॥ क्र्द्च्_६।२७ ॥
अस्मिन्न् एव बाल-रक्षार्थे ऽन्यो ऽपि मन्त्रो ऽस्तीत्य् आह-
अत्राप्य् अन्यो मनुर् बाल-वपुषे वह्नि-वल्लभा ।
गोरक्षायां क्वणद्-वेणुं चारयन्तं पशूंस् तथा ॥ क्र्द्_६।२८ ॥
गोविन्द-भट्टाचार्यः
बाल-वपुषे इति स्वरूपं वह्नि-वल्लभेति स्वाहा अस्मिन्न् अर्थे गोरक्षायां च विशेष-ध्यानम् आह-क्वणद् इति । वेणु-वादन-परं पशूंश् चारयन्तं कृष्णं स्मरन् जप्यात् ॥ क्र्द्च्_६।२८ ॥
अस्मिन्न् एव बाल-रक्षार्थे गो-रक्षायां च मन्त्रान्तरम् आह-
उक्त्वा गोपालक-पदं पुनर् वेशधराय च ।
वासुदेवाय वर्मास्त्र-शिरांस्य् अष्टादशाक्षर ॥ क्र्द्_६।२९ ॥
गोविन्द-भट्टाचार्यः
गोपालक इत्य् उक्त्वा पुनर् वेशधराय इत्य् उक्त्वा वासुदेवायेति वदेत् वर्म हुम् अस्त्रं फड् इति शिरः स्वाहा एतानि वदेत् । एवं सति अष्टादशाक्षरो भवति ॥ क्र्द्च्_६।२९ ॥
मन्त्रोद्धारः: गोपालक-वेश-धराय वासुदेवाय हुं फट् स्वाहा ।
मनोर् नारद-गायत्री-कृष्ण-र्ष्यादिर् अनेन वा ।
कुर्याद् गोपाल-संरक्षाम् आचक्राद्य्-अङ्गिना बुधः ॥ क्र्द्_६।३० ॥
गोविन्द-भट्टाचार्यः
अस्य पूर्वोक्तस्य च मनोर् नारदो मुनिर् गायत्री-च्छन्दः श्री-कृष्णो देवता अनेन वा मन्त्रेण उक्त-द्रव्यादिना वा गोपाल-रक्षां कुर्यात् । कीदृशेन ? आचक्राद्य्-अङ्ग-युक्तेन ॥ क्र्द्च्_६।३० ॥
विष-हरण-प्रयोगम् आह-
कुम्भी-नसादि-क्ष्वेडार्तौ दष्ट-मूर्ध्नि स्मरन् हरिम् ।
नृत्यन्तं कालिय-फणारङ्गे ऽन्यतरम् अभ्यसेत् ॥ क्र्द्_६।३१ ॥
गोविन्द-भट्टाचार्यः
दृशा पीयूष-वर्षिण्या सिञ्चन्तं तत् तनुं बुधः ।
तर्जयन् वाम-तर्जन्या तं द्राङ् मोचयते विषात् ॥ क्र्द्_६।३२ ॥
कुम्भी-नसादि-क्ष्वेडार्तौ सर्प-विष-पीडायाम् । कुम्भीनसास् तु ते सर्पा ये स्युर् दृष्टि-विषोल्बणाः इति धरणिः । आदि-पदाद् वृश्चिकादि-सङ्ग्रहो दष्ट-मूर्ध्नि आर्त-मस्तके स्पृष्ट्वा कालियो नाग-विशेषस् तस्य फणा सैवअ रङ्ग-भूमिस् तत्र नृत्यन्तं स्मरन् अन्यतम-मन्त्रम् अभ्यसेत् जपेत् । कीदृशं ? हरिं तत् तनुं शरीरम् अमृत-वर्षिण्या दृष्ट्या सिञ्चन्तम् । किं कुर्वन् ? स्मरेत् वाम-तर्जन्यातर्जयन् । एवं सति तं दष्टं मन्त्री द्राक् शीघ्रं विषान् मोचयेत् । अत्र दशाष्टादशाक्षरयोर् विशेष-ध्यानम् इति त्रिपाठिनः ॥ क्र्द्च्_६।३१-३२ ॥
प्रयोगान्तरम् आह-
आपूर्व-कलशं तोयैः स्मृत्वा कालिय-मर्दनम् ।
जप्त्वाष्ट-शतम् आसिञ्चेद् विषिणं स सुखी भवेत् ॥ क्र्द्_६।३३ ॥
गोविन्द-भट्टाचार्यः
कलशं तोयैर् आपूर्यानन्तरं कालिय-मर्दनं देवं स्मृत्वाष्टाधिकं शतं जप्त्वा तेन कलशेन विष-युक्तम् आसिञ्चेत् । अनन्तरं विषात् सुखी भवति ॥ क्र्द्च्_६।३३ ॥
कालिय-मर्दन-मन्त्रम् आह-
काव्य-मध्ये लियस्यान्ते फणामध्येदि-वर्णकान् ।
उक्त्वा पुनर् वदेन् नृत्यं करोति तम् अनन्तरम् ॥ क्र्द्_६।३४ ॥
गोविन्द-भट्टाचार्यः
नमामि देवकी-पुत्र इत्य् उक्त्वा नृत्य-शब्दतः ।
राजानम् अच्युतं ब्रूयाद् इति दन्त-लिपिर् मनुः ॥ क्र्द्_६।३५ ॥
काव्य इत्य् अक्षर-द्वयोर् मध्ये लियस्येति स्वरूपम् एतस्यान्ते फणा-मध्यादि इति स्वरूपम् इत्य् अन्तान् वदेद् अनन्तरं नृत्यं करोति तम् इति । अनन्तरं नमामि देवकी-पुत्रम् इति वदेत् । अनन्तरं नृत्य-शब्दतः नृत्य-शब्दान्ते राजनम् अच्युतम् इति ब्रूयाद् इत्य् अनेन प्रकारेण दन्त-लिपिर् द्वात्रिंशद्-अक्षरो मन्त्रः कथितः ॥ क्र्द्च्_६।३४-३५ ॥
मन्त्रोद्धारः:
कालिय-व्यफणा-मध्ये इति नृत्यं करोति तं ।
देवकी-पुत्रं नमामि नृत्य राजानम् उच्यतम् ॥
अस्य मन्त्रस्य अङ्गादीनि दर्शयति-
अस्याङ्गान्यङ्घ्रिभिर् न्यस्तैः समस्तैर् नारदो मुनिः ।
छन्दो ऽनुष्टुब् देवता च कृष्णः कालिय-मर्दनः ॥ क्र्द्_६।३६ ॥
गोविन्द-भट्टाचार्यः
अस्य मन्त्रस्य व्यस्तैर् एकैकम् अङ्घ्रिभिश् चतुर्भिः पादैः समस्तैर् मन्त्रात्मकैश् चाङ्गानि पञ्चाङ्गानि कथितानि मुनिः नारदः छन्दो ऽनुष्टुप् कालीय-मर्दनः कृष्णो देवता ॥ क्र्द्च्_६।३६ ॥
पुरश्चरणम् आह-
जप्यो लक्षं मनुर् अयं होतव्यं सर्पिषायुतम् ।
अङ्ग-दिक्पाल-वज्राद्यैर् अर्चनास्य समीरिता ॥ क्र्द्_६।३७ ॥
गोविन्द-भट्टाचार्यः
अयं मन्त्रः लक्षं जप्यः सर्पिषा घृतेन पुनर् अयुतं होतव्यम् । अङ्ग-दिक्-पाल-वज्राद्यैस् त्रिभिर् आवरणैर् अर्चना पूजा कथिता ॥
प्रयोगम् आह-
क्रिया सर्वा च कर्तव्या विसघ्नी पूर्वम् ईरिता ।
सदृशो ऽनेन जगति नहि क्ष्वेड-हरो मनुः ॥ क्र्द्_६।३८ ॥
पूर्व-मन्त्र-कथिता विषघ्नी सर्वा क्रिया अमुनैव मन्त्रेण कर्तव्या हि यतः जगति संसारे अनेन मन्त्रेण सदृशः समानः क्ष्वेड-हरः विषहरो नास्ति ॥ क्र्द्च्_६।३८ ॥
विषघ्नं प्रयोगान्तरम् आह-
अङ्गैः शुकतरोः पिष्टैर् गुलिका धेनु-वारिणा ।
आननस्याञ्जनालेपैर् विषघ्नी साधितामुना ॥ क्र्द्_६।३९ ॥
गोविन्द-भट्टाचार्यः
शुकतरोः करञ्ज-वृक्षस्येति भैरव-त्रिपाठिनः । किंशुक-वृक्षस्येति लघु-दीपिका-कारः । अङ्गैस् त्वग्भिर् इति रुद्रधरः । पञ्चाङ्गैर् इति त्रिपाठिनः । धेनु-वारिणा स-वत्सा गो-मूत्रेण पिष्टैः सम्पादिता गुलिका अमुना मन्त्रेण साधिता सती विषघ्नी भवति कैर् आननस्याञ्जनालेप-प्रकारैः ॥ क्र्द्च्_६।३९ ॥
अधुना प्रयोगान्तरं दर्शयति-
उद्दण्ड-वाम-दोर्-दण्ड-धृत-गोवर्धनाचलम् ।
अन्य-हस्ताङ्गुली-व्यक्त-स्वर-वंशार्पिताननम् ॥ क्र्द्_६।४० ॥
गोविन्द-भट्टाचार्यः
ध्यायन् हरिं जपन् मन्वोर् एकं छत्रं विना व्रजेत् ।
वर्ष-वाताशनिभ्यः स्याद् भयं तस्य नहि क्वचित् ॥ क्र्द्_६।४१ ॥
उत्तालितो यो वाम-बाहु-दण्डस् तेन धृतो गोवर्धनाचलो येन तम् अन्य-हस्ताङ्ग्कुलिभिः व्यक्त-स्वरो यस्य वंशस्य तत्रार्पितम् आननं येन तम् एवम्भूतं हरिं चिन्तयन् मन्वोर् दशाष्टादशाक्षरयोर् एकं जपन् छत्रं विना व्रजेत् यस् तस्य वृष्टि-वायु-वज्रादिभ्यो भयं क्वापि न विद्यते ॥ क्र्द्च्_६।४०-४१ ॥
प्रयोगान्तरम् आह-
मोघ-मेघौघ-यत्नापगतेन्द्रं तं स्मरन् हुनेत् ।
लवणैर् अयुत-सङ्ख्यातैर् अनावृष्टिर् न संशयः ॥ क्र्द्_६।४२ ॥
गोविन्द-भट्टाचार्यः
मोघो निष्फलो यो मेघ-समूहस् तस्य यत्नः तेनापगतः इन्दोर् यस्मात् तम् एतादृशं हरिं चिन्तयन् अयुत-सङ्ख्यातैर् लवणैर् जुहुयात् अनन्तरम् अनावृष्टिर् भवति नात्र संशयः ॥ क्र्द्च्_६।४२ ॥
प्रयोगान्तरम् आह-
क्रीडन्तं यमुना-तोये मज्जन-प्लवनादिभिः ।
तच्-छीकर-जलासारैः सिच्यमानं प्रिया-जनैः ॥ क्र्द्_६।४३ ॥
गोविन्द-भट्टाचार्यः
ध्यात्वायुतं पयः-सिक्तैर् हुनेद् वानीर-तर्पणैः ।
वृष्टिर् भवत् काले ऽपि महती नात्र संशयः ॥ क्र्द्_६।४४ ॥
यमुना-जले मज्जनोन्मज्जनैः क्रीडन्तं क्रीडां कुर्वन्तम् । पुनः कीदृशं ? प्रिया-जनै रुक्मिणी-प्रभृतिभिस् तच्-छीकर-जलासारैः यौम्ना-जल-धारा-रूपैः सिच्यमानम् एवम्भूतं कृष्णं ध्यात्वा वानीर-तर्पणैः वेतस-समिद्भिः पयः-सिक्तैर् दुग्धोक्षितैर् अयुतं जुहुयात् । एवं सति अकालो ऽपि महती-वृष्टिर् भवति नात्र संशयः ॥ क्र्द्च्_६।४३-४४ ॥
अनेनैव ध्यानेन प्रयोगान्तरम् आह-
अमुम् एव स्मरन् मूर्ध्नि विष-स्फोट-ज्वरादिभिः ।
स-दाह-मोहैर् आर्तस्य जपेच् छान्तिर् भवेत् क्षणात् ॥ क्र्द्_६।४५ ॥
गोविन्द-भट्टाचार्यः
दाह-मोह-सहितैर् वुष-स्फोट-ज्वरादिभिर् आर्तस्य मूर्ध्नि मस्तके अमुम् एव पूर्वोक्त-रूपं ध्यात्वा जपेत् अनन्तरं तस्य पीडितस्य क्षणाद् शान्तिः स्वास्थ्यं भवति ॥ क्र्द्च्_६।४५ ॥
एतस्याम् एवार्तौ प्रकारान्तरम् आह-
अथवा गरुडारूढं बल-प्रद्युम्न-संयुतम् ।
निज-ज्वर-विनिष्पिष्ट-ज्वराभिष्टुतम् अच्युतम् ॥ क्र्द्_६।४६ ॥
गोविन्द-भट्टाचार्यः
ध्यात्वा ज्वराभिभूत्यस्य मूर्ध्न्य् अन्यतरम् अभ्यसेत् ।
शान्तिं व्रजेद् असाध्यो ऽपि ज्वरः सोपद्रवः क्षणात् ॥ क्र्द्_६।४७ ॥
अथवा ज्वराभिभूत्यस्य मस्तके ऽच्युतम् ध्यात्वा अन्यतरम् द्वयोर् मध्ये एकं मन्त्रम् अभ्यसेत् जपेत् । कीदृशं ? अच्युतं गरुडारूढं । पुनः कीदृशं ? बल-प्रद्युम्नाभ्यां संयुतम् । पुनः कीदृशं ? निज-ज्वरेण वैष्णव-ज्वरेण शीताख्येनायुध-रूपेण विनिष्पिष्टश् चूर्नितो यो रौद्र-ज्वर उष्णाख्यायुध-रूपस् तेन स्टुतम् । अनन्तरं अस्यासाध्यो ऽपि ज्वरः शीघ्रम् एव नाशं गच्छति । कीदृशो ज्वरः ? उपद्रवो गात्र-पीडादि तत्-सहितः ॥ क्र्द्च्_६।४७ ॥
अनेनैव ध्यानेन प्रयोगान्तरम् आह-
ध्यात्वैवम् अग्नाव् अभ्यर्च्य पयोक्तैश् चतुरङ्गुलैः ।
जुहुयाद् अमृताखण्डैर् अयुतं ज्वर-शान्तये ॥ क्र्द्_६।४८ ॥
गोविन्द-भट्टाचार्यः
एवं पूर्वोक्त-रूपं कृष्णं ध्यात्वा वह्नौ सम्पूज्य ज्वर-शान्त्य्-अर्थं चतुर्-अङ्गुल-परिमितैर् दुग्धासिक्तैर् अमृताखण्डैर् गुड्ची-खण्डैर् अयुतं जुहुयात् ॥ क्र्द्च्_६।४८ ॥
प्रयोगान्तरम् आह-
निशात-शर-निर्भिन्न-भीष्मताप-नुदं हरिम् ।
स्मृत्वा स्पृशन् जपेद् आर्तं पाणिभ्यां रोग-शान्तये ॥ क्र्द्_६।४९ ॥
गोविन्द-भट्टाचार्यः
निशातस् तीक्ष्णो यः शरस् तेन निर्भिन्नो बिद्धो यो भीष्मस् तस्य यस् तापस् तं हरति । एवम्भूतं हरिम् ध्यात्वा आर्तं ज्वरादि-पीडितं पाणिभ्यां स्पृष्ट्वा ज्वर-नाशार्थं मन्वोर् एकतरं जपेत् ॥ क्र्द्च्_६।४९ ॥
प्रयोगान्तरम् आह-
अपमृत्यु-विनाशाय सान्दीपनि-सुत-प्रदम् ।
ध्यात्वामृत-लता-खण्डैः क्षीराक्तैर् अयुतं हुनेत् ॥ क्र्द्_६।५० ॥
गोविन्द-भट्टाचार्यः
सान्दीपनिः कृष्ण-गुरुः । तस्य सुत-प्रदं कृष्णं ध्यात्वा अमृत-लता-खण्डैः गुड्ची-खण्डैः क्षीराक्तैर् दुग्ध-सिक्तैर् अयुतं हुनेत् जुहुयात् । कस्मै ? अपमृत्युर् अकाल-मरणं तस्य विनाशाय निवृत्तये ॥ क्र्द्च्_६।५० ॥
प्रयोगान्तरम् आह-
मृत-पुत्राय ददतं सुतान् विप्राय सार्जुनम् ।
ध्यात्वा लक्षं जपेद् एकं मन्वोः सुत-विवृद्धये ॥ क्र्द्_६।५१ ॥
गोविन्द-भट्टाचार्यः
मृत-पुत्राय विप्राय पुत्रान् ददतं सार्जुनम् अर्जुन-सहितं ध्यात्वा मन्वोर् एकं लक्षं जपेत् । किम्-अर्थम् ? सुत-वृद्धि-निमित्तम् ॥ क्र्द्च्_६।५१ ॥
प्रयोगान्तरम् आह-
पुत्र-जीवेन्धन-युते जुहुयाद् अनले ऽयुतम् ।
तत्-फलैर् मधुराक्तैः स्युः पुत्रा दीर्घायुषो ऽस्य तु ॥ क्र्द्_६।५२ ॥
गोविन्द-भट्टाचार्यः
जीवापुत्रेति यस्य प्रसिद्धिः तस्य इन्धनेन युते सम्पादिते वह्नौ तत्-फलैः पुत्र-जीवाफलैर् मधुराक्तैस् त्रि-मध्व्-अक्तैर् मन्वोर् एकेनायुतं जुहुयात् । अनन्तरम् अस्य होम-कर्तुः पुत्ताः दीर्घायुषो भवन्ति ॥ क्र्द्च्_६।५२ ॥
प्रयोगान्तरम् आह-
क्षीर-द्रुक्-क्वाथ-सम्पूर्णम् अभ्यर्च्य कलशं निशि ।
जप्त्वायुतं प्रगे नारीम् अभिषिञ्चेद् द्विषट्-दिनम् ॥ क्र्द्_६।५३ ॥
गोविन्द-भट्टाचार्यः
सा बन्ध्यापि सुतान् दीर्घ-जीविनो गद-वर्जितान् ।
लभते नात्र सन्देहस् तज्-जप्ताज्याशिनी सती ॥ क्र्द्_६।५४ ॥
कलश-पूरण-विधानेन क्षीर-वृक्ष-क्वाथेन सम्पूर्णम् कलशं निशि रात्रौ सम्पूज्यायुतं जप्त्वा प्रगे प्रातः-काले पुत्रार्थिनीं स्त्रियं द्विषट्-दिनम् द्वादश-दिनानि व्याप्याभिषिञ्चेत् । अनन्तरं साभिषिक्ता बन्ध्यापि अपत्य-जनन-समय-योग्या अजनितापत्यो ऽपि पुत्रान् दीर्घायुषो रोग-रहितान् प्राप्नोति । किम्भूता सती ? मन्त्र-जप्ताज्य-भोजिनी सती । अत्रार्थे सन्देहो नास्ति ॥ क्र्द्च्_६।५३-५४ ॥
प्रयोगान्तरम् आह-
प्रातर् वाचं-यमा नारी बोधि-च्छद-पुटे जलम् ।
मन्त्रयित्वाष्टोत्तर-शतं पिबेत् पुत्रीयती ध्रुवम् ॥ क्र्द्_६।५५ ॥
गोविन्द-भट्टाचार्यः
प्रातः-काले वाचं-यमा मौनिनी पुत्रीयती आत्मनः पुत्रम् इच्छन्ती बोधि-च्छद-पुटे पिप्पल-पत्र-पुटे जलं मन्वोर् अन्यतरेणाष्टोत्तर-शतं जप्तं मासं व्याप्य पिबेत् । अनन्तरं पुत्रं प्राप्नोतीति शेषः । जल-पान-मन्त्रम् आह-देवकी-पुत्रेति । अत्र प्रसङ्गात् अस्मिन् ग्रन्थे अनुक्तो ऽपि सन्तान-गोपाल-मन्त्रः कथ्यते । तद् यथा-
देवकी-पुत्र गोविन्द वासुदेव जगद्-गुरो ।
देहि मे तनयं कृष्ण त्वाम् अहं शरणं गतः ॥
अस्य मन्त्रस्य नारदो मुनिर् अनुष्टुप्-छन्दः सन्तान-प्रदो गोपाल-कृष्णो देवता पदैर् व्यस्तैर् वा पञ्चाङ्गानि । ध्यानं यथा-
शङ्ख-चक्र-धरं कृष्णं रथस्थं च चतुर्भुजम् ।
सर्वाभरण-सन्दीप्तं पीतवाससम् अच्युतम् ॥
मयूर-पिच्छ-संयुक्तं विष्णु-तेजोपबृंहितम् ।
समर्पयन्तं विप्राय नष्टान् आनीय बालकान् ।
करुणामृत-सम्पूर्ण-दृष्ट्येक्षन्तं च तं द्विजाम् ॥ इति ॥ क्र्द्च्_६।५५ ॥
प्रयोगान्तरम् आह-
प्रहितां काशि-राजेन कृत्यां छित्वा निजारिणा ।
तत्-तेजसा तन्-नगरीं दहन्तं भावयन् हरिम् ॥ क्र्द्_६।५६ ॥
गोविन्द-भट्टाचार्यः
स्व-स्नेहाक्तैर् हुनेद् रात्रौ सर्षपैः सप्त-वासरम् ।
कृत्या कर्तारम् एवासौ कुपिता नाशयेद् ध्रुवम् ॥ क्र्द्_६।५७ ॥
प्रहितां प्रेषितां काशीश्वरेण कृत्यां घातकर्तीं निजारिणा निज-चक्रेण छित्वा अनन्तरं तत्-तेजसा तस्य काशीश्वर-राजस्य नगरीं दहन्तं कृष्णं भावयन् स्व-स्नेहाक्तैर् सर्षप-तैल-युक्तैः सर्षपैः सप्त-दिनानि व्याप्य रात्रौ मन्वोर् एकतरेण जुहुयात् । अथानन्तरं असौ कृत्या क्रुद्धा सती ध्रुवं निश्चितं कर्तारम् एव नाशयेत् ॥ क्र्द्च्_६।५७ ॥
प्रयोगान्तरम् आह-
आसीनम् आश्रमे दिव्ये बदरी-षण्ड-मण्डिते ।
स्पृशन्तं पाणि-पद्माभ्यां घण्टाकर्ण-कलेवरम् ॥ क्र्द्_६।५८ ॥
गोविन्द-भट्टाचार्यः
ध्यात्वाच्युतं तिलैर् लक्षं हुनेत् त्रि-मधुराप्लुतैः ।
मुक्तये सर्व-पापानां शान्तये कान्तये तनोः ॥ क्र्द्_६।५९ ॥
बदरी-षण्डो बदरी-समूहस् तेन मण्डिते शोभिते दिव्ये उत्कृष्टे आश्रम आसीनम् उपविष्टं तथा हस्त-पङ्कजाभ्यां घण्टाकर्णस्य महादेव-मूर्तेः कस्यचित् महादेव-भक्तस्य वा कलेवरम् शरीरं स्पृशन्तम् अच्युतं ध्यात्वा तिलैस् त्रि-मधुराप्लुतैर् घृत-मधु-शर्करा-मिश्रितैर् मन्वोर् एकेन लक्षं जुहुयात् । किम्-अर्थम् ? मोक्षाय तथा सकल-पापानां विनाशार्थं तथा तनोर् देहस्य कान्तये दीप्त्य्-अर्थम् ॥ क्र्द्च्_६।५८-५९ ॥
प्रयोगान्तरम् आह-
द्वेषयन्तं रुक्मि-बलौ द्यूतासक्तौ स्मरन् हरिम् ।
जुहुयाद् इष्टयोर् द्विष्ट्यै गुलिका गोमयोद्भवाः ॥ क्र्द्_६।६० ॥
गोविन्द-भट्टाचार्यः
द्यूतासक्तौ द्यूत-कर्म कुर्वन्तौ रुक्मि-बलभद्रौ द्वेषयन्तं परस्परं द्वेषम् उत्पादयन्तं हरिं स्मरन् गोमयोत्पन्ना गुलिका मन्वोर् एकेन जुहुयात् । अत्र सहस्र-होमो बोद्धव्यः । अनुक्तायां तु सङ्ख्यायां सहस्रं तत्र निर्दिशेत् इति वचनात् । किम्-अर्थम् ? इष्टयोर् मित्रयोर् द्विष्ट्यै विद्वेषणार्थम् ॥ क्र्द्च्_६।६० ॥
प्रयोगान्तरम् आह-
ज्वलद्-वह्नि-मुखैर् बाणैर् वर्षन्तं गरुडध्वजम् ।
धावमानं रिपु-गणम् अनुधावन्तम् अच्युतम् ॥ क्र्द्_६।६१ ॥
गोविन्द-भट्टाचार्यः
ध्यात्वैवम् अभ्यसेन् मन्वोर् एकं सप्त-सहस्रकम् ।
उच्चाटनं भवेद् एतद्-रिपूणां सप्तभिर् दिनैः ॥ क्र्द्_६।६२ ॥
ज्वलन् देदीप्यमानो यो वह्निस् तद्वन् मुखं येषां तैर् बाणैर् वर्षन्तं ताडयन्तं तथा गरुडारूढं तथा धावमानं शत्रु-समूहम् अनुपश्चाद् धावन्तं हरिं ध्यात्वा मन्वोर् दशाष्टादशाक्षरयोर् एकं सप्त-सहस्रकम् अभ्यसेत् जपेत् । एवं कृते सति एतस्य शत्रूणां सप्तभिर् दिनैर् उच्चाटनं भवति स्व-देशाद् अपयानं भवति ॥ क्र्द्च्_६।६२ ॥
प्रयोगान्तरम् आह-
उत्क्षिप्तवत्सकं ध्यायन् कपित्थ-फल-हारिणम् ।
अयुतं प्रजपेत् साध्यम् उच्चाटयति तत्-क्षणात् ॥ क्र्द्_६।६३ ॥
गोविन्द-भट्टाचार्यः
उत्क्षिप्त ऊर्ध्वं क्षिप्तो वत्सो वत्स-रूपो वत्सकासुरो येन तथा कपित्थस्य फलं हरतीति कृष्णं ध्यात्वा मन्वोर् मध्ये एकं अयुतं जपेत् । अनन्तरं तत्-क्षणात् शीघ्रम् एव साध्यम् उच्चाटनीयम् उच्चाटयति ॥ क्र्द्च्_६।६३ ॥
प्रयोगान्तरम् आह-
आत्मानं कंस-मथनं ध्यात्वा मञ्चान् निपातितम् ।
कंसात्मानम् अरिं कर्षन् गतासुं प्रजपेन् मनुम् ॥ क्र्द्_६।६४ ॥
गोविन्द-भट्टाचार्यः
अयुतं जुहुयाद् वास्य जन्मोडुतरु-तर्पणैः ।
अपि सेवित-पीयूषो मिर्यते ऽरिर् न संशयः ॥ क्र्द्_६।६५ ॥
आत्मानं कंस-मथनं कृष्णं ध्यात्वा कंस-मथनात् मनोर् ऐक्यं विचिन्त्य तथा रिपुं कंस-स्वरूपं अपगत-प्राणं ध्यात्वा रिपु-कंसयोर् अभेदं विचिन्त्येति भावः । मञ्चाद् अधः-कृतं आकर्षयन् आकर्षणं भावयन् मन्वोर् एकम् अयुतं जपेत् । अस्य रिपोः जन्मोडुतरुतर्पणैः समिद्भिर् जुहुयाच् च ।
कारस्करो ऽथ धात्री स्याद् उदुम्बर-तरुः पुनः ।
जम्बू-खदीर-कृष्णाख्या वंश-पिप्पल-सञ्ज्ञकौ ॥
नाग-रोहित-नामानौ पलाश-प्लक्ष-सञ्ज्ञकौ ।
अम्बष्ठ-बिल्वार्जुनाख्यं विकङ्कत-महीरुहः ॥
बहलः सवलः खर्जुर् भण्डिलः पनसार्ककौ ।
शमीक-दम्बाम्र-निम्ब-मधुका ऋक्ष-शाखिनः ॥
इति सप्तविंशति-नक्षत्राणां वृक्षाः । जन्म-नक्षत्र-वृक्ष एवं कृते सेइव्त-पीयूषो ऽपि म्रियते नात्र संशयः ॥ क्र्द्च्_६।६४-६५ ॥
इदं प्रयोजनं प्रकारान्तरेणापि भवतीति दर्शयति-
अथवा निम्ब-तैलाक्तैर् हुनेद् अधोभिर् अक्षजैः ।
अयुतं प्रयतो रात्रौ मरणाय रिपोः क्षणात् ॥ क्र्द्_६।६६ ॥
गोविन्द-भट्टाचार्यः
निम्ब-तैल-सिक्तैर् अक्षजैः विभीतक-समिद्भिः प्रयतः पवित्रः सन् रात्रौ मन्वोर् एकेन अयुतं हुनेत् । किम्-अर्थम् ? शत्रोः शीघ्र-विनाशाय ॥ क्र्द्च्_६।६६ ॥
अस्मिन्न् एवार्थे प्रयोगान्तरम् आह-
दोषारिष्ट-दल-व्योष-कार्पासास्थि-कणैर् निशि ।
हुनेद् एरण्ड-तैलाक्तैः स्मशानस्थो ऽरि-शान्तये ॥ क्र्द्_६।६७ ॥
गोविन्द-भट्टाचार्यः
दोषा हरिद्रा अरिष्ट-दलं विभीतक-पत्रम् इति रुद्रधरः । भल्लातक-पत्रम् इति रुद्रधअः । निम्ब-पत्रम् इति भैरव-त्रिपाठिनः । व्योषं त्रिकटुकं कार्पासास्थि कार्पासा-बीजं कणं पिप्प्लई एतैर् मिलितैर् एरण्ड-तैल-सिक्तैः स्मशानस्थः मृत-संस्कार-स्थानस्थः सन् निशि रात्रौ मन्वोर् एकेन जुहुयात् । किम्-अर्थं ? शत्रु-नाशार्थम् ॥ क्र्द्च्_६।६७ ॥
रागान् मारण-प्रयोगे प्रायश्चित्तम् आह-
न शस्तं मारणं कर्म कुर्याच् चेद् अयुतं जपेत् ।
हुनेद् वा पायसैस् तावत् शान्तये शान्तमासः ॥ क्र्द्_६।६८ ॥
गोविन्द-भट्टाचार्यः
मारणं कर्म शिष्ट-जनस्य न प्रशस्तं तथापि यदि वा रागात् कुर्यात् तदा मन्वोर् मध्ये एकं मन्त्रं अयुतं जपेत् परमान्नेन वा अयुतं जुहुयात् । शान्तये पाप-नाशाय शान्त-मानसो निर्मत्सरः ॥ क्र्द्च्_६।६८ ॥
प्रयोगान्तरम् आह-
जय-कामो जपेल् लक्षं पारिजात-हरं हरिम् ।
स्मरन् पराजयस् तस्य न कुतश्चिद् भविष्यति ॥ क्र्द्_६।६९ ॥
गोविन्द-भट्टाचार्यः
जय-कामः पुमान् बलाद् इन्द्र-सकाशात् स्वर्गस्थ-पारिजातापहारिणं कृष्णं भावयन् मन्वोर् एकं लक्षं जपेत् । एवं कृते तस्य भङ्गः कस्माद् अपि न भविष्यतीति ॥ क्र्द्च्_६।६९ ॥
प्रयोगान्तरम् आह-
पार्थे दिशन्तं गीतार्थं व्याख्या-मुद्राकरं हरिम् ।
रथस्थं भावयन् जप्याद् धर्म-वृद्ध्यै शमाय च ॥ क्र्द्_६।७० ॥
गोविन्द-भट्टाचार्यः
पार्थे ऽर्जुने गीतार्थं दिशन्तं कथयन्तं तथा व्याख्या-मुद्रां करे यस्य तम् उत्तान-तर्जन्य्-अङ्गुष्ठ-युता व्याख्या-मुद्रा तथा रथारूढं हरिं भावयन् मन्वोर् एकं लक्षं जपेत् । किम्-अर्थम् ? धर्मोत्पत्त्य्-अर्थं मोक्षार्थं च ॥ क्र्द्च्_६।७० ॥
प्रयोगान्तरम् आह-
लक्षं पलाश-कुसुमैर् हुनेद् यो मधुराप्लुतैः ।
व्याख्याता सर्व-शास्त्राणां स कविर् वादिराड् भवेत् ॥ क्र्द्_६।७१ ॥
गोविन्द-भट्टाचार्यः
यः पलाश-पुष्पैर् घृत-मधु-शर्करा-मिश्रैर् मन्वोर् एकेन लक्षं जुहुयात् स सकल-शास्त्राणां व्याख्याता कविराट् कवि-श्रेष्ठश् च भवेत् ॥ क्र्द्च्_६।७१ ॥
प्रयोगान्तरम् आह-
विश्वरूप-धरं प्रोद्यद्-भानुकोटि-सम-द्युतिम् ।
द्रुत-चामीकर-निभम् अग्नि-सोमात्मकं हरिम् ॥ क्र्द्_६।७२ ॥
गोविन्द-भट्टाचार्यः
अर्काग्नि-द्योत-दास्याङ्घ्रि-पङ्कजं दिव्य-भूषणम् ।
नानायुध-धरं व्याप्त-विश्वाकाशावकाशकम् ॥ क्र्द्_६।७३ ॥
राष्ट्र-पूर्-ग्राम-वास्तूनां शरीरस्य च रक्षणे ।
प्रजपेन् मन्त्रयोर् एकतरं ध्यात्वैवम् आदरात् ॥ क्र्द्_६।७४ ॥
विश्वरूप-धरम् एतद् व्याचष्टे उद्यद्-आदित्य-कोटि-समान-कान्तिं तथा द्रवीभूत-सुवर्ण-तुल्यं तथा अग्नि-सोम-स्वरूपं । सूर्य-सोमात्मकम् इति त्रिपाठिनः । तथा सूर्याग्निवद् उज्ज्वलं मुखं पाद-पद्मं यस्य । तथा चारु-भूषणं तथा विविध-शस्त्र-धरं तथा व्याप्त-संसाराकाशाभ्यन्तरम्, एतादृशं हरिं ध्यात्वा आदरात् मन्त्रयोर् एकं जपेत् । किम्-अर्थम् ? राष्ट्रौ देशे पूर् नगरं ग्रामो ऽल्प-जन-वास-स्थानं वास्तु एक-गृह-स्वामि-वासः । क्षेत्रम् इति गोविन्द-मिश्राः । वस्त्व् इति पाठे हिरण्यादि । एतेषां शरीरस्य च रक्षणे रक्षा-निमित्तम् ॥ क्र्द्च्_६।७२-७४ ॥
प्रयोगान्तरम् आह-
अथवा व्यस्त-सर्वाङ्घ्रि-रचिताङ्गार्जुन-र्षिकम् ।
त्रिष्टुप्-छन्दसिकं विश्वरुप-विष्ण्व्-अधिदैवतम् ॥ क्र्द्_६।७५ ॥
गोविन्द-भट्टाचार्यः
जपेद् गीता-मनुं स्थाने हृषीकेशाद्यम् आज्यकैः ।
हुनेद् वा सर्व-रक्षायै सर्व-दुःखोपशान्तये ॥ क्र्द्_६।७६ ॥
अथवा स्थाने हृषीकेशाद्यं गीता-मनुं जपेत् । किम्भूतं मनुम् ? व्यस्तम् एकैकं सर्वे समस्ता ये अङ्घ्रयः पाद-चतुष्टयं तैः रचितम् अङ्गं पञ्चाङ्गम् । अर्जुनः ऋषिर् यत्र तं व्यस्त-सर्वाङ्घ्रि-रचिताङ्गश् चार्जुन ऋषिकश् चेति द्वन्द्वः तं त्रिष्टुप्-छन्दो यत्र तं विश्वरूपो विष्णुर् अधिदेवता यस्य तम् । आज्यकैर् घृतैर् हुनेद् वा वाशब्दः समुच्चये हुनेत् । टीकान्तरे उक्त-प्रयोगेषु यत्र जप-होमयोः सङ्ख्या न उक्ता तत्र सन्निधानोक्ता गृह्यते तद्-अभावे ऽष्तोत्तरं सहस्रं शतं वा अष्टौ सहस्राणीत्य् एके । जगन्-मोहनाख्य-तन्त्रे-
लक्षं वाप्य् अयुतं वापि सहस्रं शतम् एव च ।
कार्याणां गौर्वान् मन्त्री तत्-तद्-धोमं समाचरेत् ॥ क्र्द्च्_६।७५-७६ ॥
इति श्री-केशव-भट्टाचार्य-विरचितायां क्रम-दीपिकायां
षष्ठः पटलः ।
॥६॥
(७)