अधुना दीक्षितस्य मन्त्र-विधिं दर्शयति-
चैत्रे कृत्वैतन् मासि कर्माच्छ-पक्षे
पुण्य-र्क्षे भूयो देशिकात् प्राप्य दीक्षाम् ।
तेनानुज्ञातः पूर्व-सेवां द्वितीये
मासि द्वादश्याम् आरभेतामलायाम् ॥ क्र्द्_५।१ ॥
गोविन्द-भट्टाचार्यः
चैत्रे मासि पुण्य-र्क्षे शुभ-नक्षत्रे अच्छ-पक्षे शुक्ल-पक्षे एतत् कर्म मन्त्र-दीक्षात्मकं कर्म कृत्वा भूयः पुनर् अपि देशिकात् गुरोर् दीक्षां मन्त्रोपदेशं प्राप्यानन्तरं तेन गुरुणानुज्ञातः द्वितीये मासि वैशाखे द्वादश्याम् तिथौ पूर्व-सेवां पुरश्चरणम् आरभेत् । चैत्रे दुःखाय दीक्षा स्यात् इति वचनं गोपाल-मन्त्र-भिन्न-दीक्ष-विषयम् ॥ क्र्द्च्_५।१ ॥
कृत्वा स्नानाद्यं कर्म देहार्चनान्तं
वर्त्माश्रित्य प्राग् ईरितं मन्त्रि-मुख्यः ।
शुद्धो मौनी सन् ब्रह्मचारी निशाशी
जप्याच् छान्तात्मा शुद्ध-पद्माक्ष-दाम्ना ॥ क्र्द्_५।२ ॥
गोविन्द-भट्टाचार्यः
कृत्वेति । मन्त्रि-मुख्यः साधकः स्नानम् आरभ्यात्म-योगान्तं कर्म कृत्वा प्राग् ईरितं वर्त्माश्रित्य पूर्वोक्त-पूजा-प्रकारम् आश्रित्य शुद्धो गायत्री-जपेन निष्पापो ब्राह्मणाद्य्-उक्त-बाह्यान्तर-शौच-युक्तो मौनी वाग्-यतो ब्रह्मचारी अष्ट-विध-मैथुन-त्यागी निशाशी रात्रि-भोजी शान्तात्मा अनुद्धत-चित्तः शुक्ल-पद्म-बीज-मालया जप्यात् ।
अत्रैवम् आगमान्तरोक्तं बोद्धव्यम् । शुभे दिने क्रोशं क्रोश-द्वयं वा क्षेत्रं विहारार्थं परिकल्प्य क्षीर-द्रुम-भव-वितस्ति-परिमिताष्ट-कीलकाः प्रत्येकम् एकदैव वा दश-कृत्वः शत-कृत्वो वा जपित्वा अष्ट-दिग्-देवताः सम्पूज्य मध्ये क्षेत्रे क्षेत्र-पाल-बलिं दत्त्वा पूजां कृत्वा पूर्वाद्य्-अष्ट-दिक्षु तान् निखन्यात् तत्र तत्र तत्-तन्-नाम्ना दिक्-पति-बलिं च दत्त्वा दीपकं च दत्त्वा जप-पूर्व-दिवसे एक-भोजनम् उपवासो वा गुरुं ब्राह्मणांश् च तर्पयेत् ।
तथा च सनत्-कुमार-कल्पे-
विप्रांश् च भोजयेद् अन्न-भोजनाच्छादनादिभिः ।
बहुभिर् वस्त्र-भूषाभिः सम्पूज्य गुरुम् आत्मनः ।
आरभेत जपं पश्चात् तद्-अनुज्ञा-पुरःसरम् ॥ इति ।
ततो ऽग्रिम-दिने स्नानादिकं कृत्वा सङ्कल्पं कुर्यात् ॐ अद्यों नम इत्य् आद्य् उच्चार्यामुक-मन्त्रस्य सिद्धि-काम इयत् सङ्ख्याक-जप-तद्-दशांशामुक-द्रव्य-होम-तद्-दशांशामुक-द्रव्य-तर्पण-तद्-दशांशामुकाभिषेक-तद्-दशांश-ब्राह्मण-सम्प्रदानक-भोज्य-दानात्मक-पुरश्चरण-कर्म करिष्ये इति सङ्कल्पं कुर्यात् । ततो मन्त्र-र्षि-छन्दो-देवतानां काम-स्थाने पुरश्चरण-जपे विनियोग इति । जपे चायं नियमः-
नैरन्तर्य-विधिः प्रोक्तो न दिनं व्यतिलङ्घयेत् ।
शयनं दर्भ-शय्यायां शुचिः प्रयत-मानसः ।
दिवसातिक्रमे दोषः सिद्धि-बाधः प्रजायते ॥
नारदीये-
शनैः शनैर् अविस्पष्टं न द्रुतं न विलम्बितम् ।
न न्यूनं नाधिकं वापि जपं कुर्याद् दिने दिने ॥
तथान्यत्र-
अनन्य-मानसः प्रातः कालान् मध्यन्दिनावधि ।
नारदीये तथैव च-
न वदन् न स्वपन् गच्छन् नान्यत् किम् अपि संस्मरन् ।
न क्षुज्-जृम्भण-हिक्कादि-विकली-कृत-मानसः ॥
मन्त्र-सिद्धिम् अवाप्नोति तस्माद् यत्न-परो भवेत् ।
उष्णीषो कञ्चुकी नग्नो मुक्त-केशः तथैव च ॥
प्रसारित-पाणि-पादो नोच्च-पादासनो भवेत् ॥
तथा वैशम्पायन-संहितायाम्-
स्नानं त्रि-सवनं प्रोक्तम् अशक्तौ द्विः सकृत् तथा ।
अस्नातस्य फलं नास्ति न वा तर्पयतः पितॄन् ॥
नासत्यम् अभिभाषेत नेन्द्रियाणि प्रलोभयेत् ।
शयनं दर्भ-शय्यायां शुचिः प्रयत-मानसः ॥
तद्-वासः क्षालयेन् नित्यम् अन्यथा विघ्नम् आवहेत् ।
नैकवासा जपेन् मन्त्रं बहु-वस्त्री कदाचन ॥
उपर्य्-अधो बहिर् वस्त्रे पुरश्चरण-कृद् भजेत् ॥
तथा नारदीये-
स्त्री-शूद्राभ्यां न सम्भाषेद् रात्रौ जप-परो न च ।
जपेन् न सन्ध्या-कालेषु प्रदोषे नोभयेषु च ।
ब्राह्मणानीत-वस्त्र-शुद्ध-जलेन कर्मकृद् भवेत् ॥ इति ॥ क्र्द्च्_५।२ ॥
अपि तु कृत्यम् आह-
तन्वन् शुश्रूषां गोषु ताभ्यः प्रयच्छन्
ग्रासं भूतेषु प्रोद्वहश् चानुकम्पाम् ।
मन्त्राधिष्ठात्रिं देवतां वन्दमानो
दुर्गां दुबोध-ध्वान्त-भानुं गुरुं च ॥ क्र्द्_५।३ ॥
गोविन्द-भट्टाचार्यः
गोषु शुश्रूषां गो-परिचर्यां धूम-कण्डूयनादि-रूपां सेवां विस्तारयन् । किं कुर्वन् ? ताभ्यो गोभ्यो ग्रास ं प्रयच्छन् गोपाल-मन्त्र एव ग्रासादिकम् अत्रोपादानाद् अन्यत्रानुक्तेश् च । भूतेषु प्राणिषु करुणां धारयन् मन्त्राधिष्ठातृ-देवतां दुर्गाम् अज्ञानान्धकार-सूर्यं गुरुं च वन्दमानः ॥ क्र्द्च्_५।३ ॥
कुर्वन्न् आत्मीयं कर्म वर्णाश्रम-स्थं
मन्त्रं जप्त्वा त्रिः स्नान-काले ऽभिषिञ्चेत् ।
आचामन् पाथस्-तत्त्व-सङ्ख्या-प्रजप्तं
भुञ्जानश् चान्नं सप्त-जप्ताञ्चनादि ॥ क्र्द्_५।४ ॥
गोविन्द-भट्टाचार्यः
स्वीयं वर्णाश्रमोक्तं कर्म कुर्वन् आत्मीयं आत्मनो यो वर्णो ब्राह्मणादिर् यो वाश्रमो ब्रह्मचर्यादिस् तत्र तत्रस्थं कर्म विहितं तत् तत् कुर्वन्न् इत्य् अर्थः । मन्त्र-जप्त-जलेन काले वार-त्रयं स्वात्मानम् अभिषिञ्चेत् तत्त्व-सङ्ख्या-प्रजप्तं द्वात्रिंशत्-सङ्ख्या-प्रजप्तं पञ्च-विंशति-प्रजप्तं वा तथा जलम् आचामन् इत्थम् एवान्नं भुञ्जानः । पुनः कीदृशः ? सप्त-जप्तम् अञ्जनादि-कज्जलादि यस्य स तथा आदि-शब्देन गन्ध-माल्यादीनां परिग्रहः । अञ्जनाद्य इति क्वचित् पाठः ॥ क्र्द्च्_५।४ ॥
जप-स्थानम् आह-
अद्रेः शृङ्गे नद्यास् तटे बिल्व-मूले
तोये हृदघ्ने गोकुल-विष्णु-गेहे ।
अश्वत्थाधस्ताद् अम्बुधेश् चापि तीरे
स्थानेष्व् एतेष्व् आसीन एकैकशस् तु ॥ क्र्द्_५।५ ॥
गोविन्द-भट्टाचार्यः
प्रजपेद् अयुत-चतुष्कं दशाक्षरं मनु-वरं पृथक् क्रमशः ।
अष्टादशाक्षरं चेद् अयुत-द्वयम् इत्य् उदीरिता सङ्ख्या ॥ क्र्द्_५।६ ॥
पर्वत-शृङ्गे नदी-तीरे बिल्व-वृक्ष-समीप-देशे हृदय-प्रमाण-जले गोष्ठे विष्णु-प्रतिमाधिष्ठित-गेहे पिप्पल-वृक्ष-समीप-देशे समुद्रस्य तीरे अष्टसु स्थानेषु आसीन उपविष्टः एकैकशः एकैकस्मिन् स्थाने स्थानेषु क्रमशः क्रमेण पृथक् अयुत-चतुष्कं कृत्वा दशाक्षर-मन्त्रं जपेत् यदाष्टादशाक्षर-मन्त्रः तदायुत-द्वयं कृत्वा इति जप-सङ्ख्योदीरिता अत्र न प्रतिस्थानम् अयुत-चतुष्कायुत-द्वय-जपः किन्तु यथा जप्तव्यं येन सर्वत्र जपेन तावत्य् एव सङ्ख्या भवति अन्यथाष्टसु स्थानेषु जपेनाष्टादशाक्सरे षोडशायुत-जपः स्यात् । प्रपञ्च-सारे ऽपि-अयुत-द्वितयावधि-जपः स्याद् इति । यद्यप्य् अष्टादशाक्षरे इयं सङ्ख्या तथापि तुल्य-न्यायाद् दशाक्षरे ऽपि इयम् एव व्यवस्थेति
रुद्रधरः ॥ क्र्द्च्_५।५-६ ॥
उक्तेषु स्थानेषूउय् क्रमेणाहार-नियमम् आह-
शाकं मूलं फलं गो-स्तन-भव-दधिनी भैक्षम् अन्नं च सक्तुं
दुग्धान्नं चेत्य् अदानः क्षिति-धर-शिखरादौ क्रमात् स्थान-भेदे ।
एकं चैषाम् अशक्तौ गदितम् इह मया पूर्वासेवा-विधानं
निर्वृत्ते ऽस्मिन् पुनश् च प्रजपतु विधिवत् सिद्धये साधकेशः ॥ क्र्द्_५।७ ॥
गोविन्द-भट्टाचार्यः
क्षिति-धर-शिखरादौ पूर्वोक्त-पर्वत-शृङ्गादौ स्थान-विशेषे क्रमाद् एकैकं क्रमेण विहितं शाकं वास्तुकादि मूलं शूरणादि फलं आम्रादि गो-स्तन-भवं दुग्धं दधि च द्वन्द्वः भैक्षं भिक्षात उपलब्धम् अन्नं च प्रशस्तं हैमतिकं सितास्विन्नं सक्तुं भृष्ट-यव-चूर्णं दुग्धान्नं पायसं अदानो भक्षमाणो जपं कुर्यात् मितोदनम् ।
शस्तान्नं च समश्नीयान् मन्त्र-सिद्धि-समीहया ।
तस्मान् नित्यं प्रयत्नेन शस्तान्नाशी भवेन् नरः ॥ इति ।
अशक्तं प्रत्य् आह-एकम् इति । अशक्तौ चैषाम् अद्रि-शृङ्गाद्य्-अष्ट-स्थानानां मध्ये एकं स्थानं समाश्रित्य शाकाद्य्-अष्ट-विधेष्व् एकं भोजनम् आश्रित्य जपं कुर्यात् । तद् उक्तं नारदीये-
मृदु कोष्णं सुपक्वं च कुर्याद् वै लघु-भोजनम् ।
नेन्द्रियाणां यथा वृद्धिस् तथा भुञ्जीत साधकः ॥
यद् वा तद् वा परित्याज्यं दुष्टानां सङ्गमं तथा ॥
इह ग्रन्थे पूर्व-सेवाविधानं मया गदितं कथितम् अस्मिन्न् निवृत्ते सम्पूर्णे पुरश्चरण-जपे पुनश् च प्रजपतु सिद्धये विशिष्ट-फल-सिद्धये विधिवत् यथोक्त-प्रकारेण अत्र केचिद् अस्मिन् पूर्व-सेवारम्भे कर्मणि निर्वृत्ते समाप्ते पुनः पुरश्चरण-जपं करोत्व् इत्य् आहुः ॥ क्र्द्च्_५।७ ॥
देहार्चनान्ते दिनशो दिनादौ
दीक्षोक्त-मार्गान्यतरं विधानम् ।
आश्रित्य कृष्णं प्रयजेद् विविक्ते
गेहे निषण्णो हुत-शिष्ट-भोजी ॥ क्र्द्_५।८ ॥
गोविन्द-भट्टाचार्यः
देहार्चनान्ते देह-पूजावसाने दिनशः प्रतिदिनं दिनादौ प्रातर् दीक्षोक्त-मार्गेषु षोडश-पञ्चोपचारादिषु अन्यतरम् एकं वर्त्माश्रित्य कृष्णं प्रयजेत् पूजयतु आवरण-भेदाद् वर्त्म-भेदः । कीदृशः ? विविक्त एकान्ते गृहे निषण्ण उपविष्टः । पुनः कीदृशः ? हुत-शिष्ट-भोजी प्रात्यहिक-जप-दशांश-होमावशिष्ट-भोजी ॥ क्र्द्च्_५।८ ॥
प्रकारान्तरम् अपि महते फलाय पुरश्चरणम् आह-दश-लक्षम् इति रुद्रधरः । वयं तु पश्यामः । प्रकृत-यथोक्त-पुरश्चरणम् आह-
दश-लक्षम् अक्षय-फल-प्रदं मनुं
प्रतिजप्य शिक्षित-मतिर् दशाक्षरम् ।
जुहुयाद् गुडाज्य-मधु-सम्प्लुतैर् नवैर्
अरुणाम्बुजैर् हुतवहे दशायुतम् ॥ क्र्द्_५।९ ॥
गोविन्द-भट्टाचार्यः
शुद्ध-मतिः साधकः अक्षय-फलदं मोक्ष-फलं दशाक्षरं मनुं दश-लक्षं प्रतिजप्य हुतवहे संस्कृताग्नौ अरुणाम्बुजैर् अरुण-कमलैर् दशा-युतं लक्षम् एकं जुहुयात् । कीदृशैः ? गुडाज्य-मधु-सम्प्लुतैः गुड-घृत-मधु-संयुक्तैः ॥ क्र्द्च्_५।९ ॥
शुषिर-युगल-वर्णं चेन् मनुं पञ्च-लक्षं
प्रजपतु जुहुयाच् च प्रोक्त-क्प्त्यार्ध-लक्षम् ।
अमल-मतिर् अलाभे पायसैर् अम्बुजानां
सहित-घृत-सितैर् एवारभेद् धोम-कर्म ॥ क्र्द्_५।१० ॥
गोविन्द-भट्टाचार्यः
शुषिर-युगल-वर्णं शुषिरं छिद्रं नव-सङ्ख्यात्मकं तस्य युगलं द्वन्द्वं अष्टादशाक्षरं जपेत् तदा पञ्च-लक्षं प्रजपतु प्रोक्त-क्प्त्या पूर्वोक्त-परिपाट्या चार्ध-लक्षम् जुहुयात् यथोक्त-होम-द्रव्यालाभे द्रव्यान्तरम् आह अमल-मतिर् इति शुद्ध-मतिः अम्बुजानां पद्मानाम् अलाभे ऽप्राप्तौ पायसैः परमान्नैर् होमम् आरभेत । कीदृशैः ? सहिते घृत-सिते येषु तैः घृत-शर्करा-सहितैर् इत्य् अर्थः । स्वाहान्तेन होम-पूजेति सर्वत्र बोद्धव्यं होमादेश् चानुष्ठान-प्रकारो मत्-कृत-होमानुष्ठान-पद्धतेर् अवगन्तव्यः । नारदीये, यथा-
जपस्य तु दशांशेन होमः कार्यो दिने दिने ।
अथवा लक्ष-पर्यन्तं होमः कार्यो विपश्चिता ॥ इति ॥ क्र्द्च्_५।१० ॥
होमाशक्तं प्रत्याह-
असक्तानां होमे निगम-रसनागेन्द्र-गुणितो
जपः कार्यश् चेति दिव्ज-नृप-विशाम् आहुर् अपरे ।
सहोमश् चेद् एषां सम इह जपो होम-रहितो
य उक्तो वर्णानां स खलु विहितस् तच्-चल-दृशाम् ॥ क्र्द्_५।११ ॥
गोविन्द-भट्टाचार्यः
तावद् द्रव्याद्य्-असम्पत्त्या होम-कर्मणि असमर्थानां ब्राह्मण-क्षत्रिय-वैश्यानां यथा-साङ्ख्यं निगमा वेदाश् चत्वारः रसाः षट् नागेन्द्रा अष्टौ एतैर् गुणितैर् जप्यो ऽनुष्ठेय इत्य् अपरे आचार्या आहुः । तत्र कृत एव जपः एतैर् गुणित इति रुद्रधरः । वस्तुतस् तु-
होमाशक्तौ जपं कुर्याद् धोम-सङ्ख्या-चतुर्गुणम् ।
षड्-गुणं चाष्ट-गुणितं यथा-सङ्ख्यं द्विजातयः ॥
इति पुरश्चरण-चन्द्रिकोक्तम् एव युक्तं पश्यामः ।
होम-कर्मण्य् अशक्तानां विप्राणां द्विगुणो जपः ।
इतरेषां तु वर्णानां त्रिगुणो हि विधीयते ॥ इति ।
एतेषां मतापेक्षया अपर इत्य् उक्तम् । एतेषां च मते तर्पणादि-व्यतिरेकेण मूल-भूत-जप-द्विगुण-जपेनैव पुरश्चरण-सिद्धिर् भवति तथैव ग्रन्थान्तरे ऽभिधानात् । एषां ब्राह्मणादीनां होम-सहितश् चेज् जपः तदा त्रयाणाम् अपि अयुत-चतुष्टयादि-समानम् एव वर्णानां ब्राह्मणादीनां होम-रहितो य उक्तो जपः । अत्र होम-रहितो यश् चतुर्गुणो जप इति भैरव-त्रिपाठिनः । स एव तच्-चल-दृशां तत्-पत्नीनां विहितः ॥ क्र्द्च्_५।११ ॥
सनातनः : होमे असमर्थानां विप्र-क्षत्रिय-वैश्यानां यथा-सङ्ख्यं निगमादेवाश् चत्वारः, रसाः षट् नागेन्द्रा अष्टौ, एतैर् गुणितो जपः कार्यः । त्व्-अर्थे वा-शब्दः । अपर इति-होम-कर्मण्य् असुगमम् एवेति ॥ (ह्ब्व् १७।२०५ टीका)
शूद्रं प्रत्य् आह-
यं वर्णम् आश्रितो यः शूद्रः स च तन्-नत-भ्रुवाम् ।
विदधीत जपं विधिवच् छ्रद्धावान् भक्ति-भरावनम्र-तनुः ॥ क्र्द्_५।१२ ॥
गोविन्द-भट्टाचार्यः
ब्राह्मणादीनां मध्ये यं वर्णं शूद्रः समाश्रितः स तन्-नत-भ्रुवां तेषाम् एव द्विजात्य्-आदीनां स्त्रीणां विहितं जपं विधिवत् कथित-प्रकारेण विहितं कुर्यात् । कीदृशः ? श्रद्धा-युतः । पुनः कीदृशः ? भक्ति-भरेण भक्त्य्-अतिशयेन नम्रो तनुः शरीरं यस्य स तथा । जपश् चायं होम-रहित इति रुद्रधरः ॥ क्र्द्च्_५।१२ ॥
पुरश्चरणोत्त्तर-कृत्यम् आह-
पुनर् अभिषिक्तो गुरुणा विधिवद् विश्राण्य दक्षिणां तस्मै ।
अभ्यवहार्य च विप्रान् विभवैः सम्प्रीणयेच् च भक्ति-युतः ॥ क्र्द्_५।१३ ॥
गोविन्द-भट्टाचार्यः
गुरुणा पुनर् अपि विधिवत् यथोक्त-विधिना अभिषिक्तः कृताभिषेकः तस्मै गुरवे दक्षिणां विश्राण्य दत्त्वा विप्रान् अभ्यवहार्य भोजयित्वा भक्ति-युतः सन् सम्प्रीणयेत् धन-धान्यादिभिः प्रीतिं कुर्यात् ॥ क्र्द्च्_५।१३ ॥
सिद्ध-मन्त्रस्य कृत्यम् आह-
इति मन्त्र-वर-द्वितयान्यतरं
परिसाध्य जपादिभिर् अच्युत-धीः ।
प्रजपेत् सवन-त्रितये दिनशो
विधिनाथ मुकुन्दम् अमन्द-मतिः ॥ क्र्द्_५।१४ ॥
गोविन्द-भट्टाचार्यः
इत्य् अनेन प्रकारेण मन्त्र-द्वितयान्यतरं मन्त्र-द्वितययोर् मध्ये एकं जपादिभिर् जप-पूजा-होम-तर्पणादिभिः परिसाध्य साधयित्वा अच्युत-धीर् अच्युते श्री-कृष्णे धीर् बुद्धिर् यस्य स तथा । यद् वा, अच्युता न क्षरिता विष्णौ बुद्धिर् यस्य स तथा सवन-त्रितये सन्ध्यादि-त्रये दिनशः प्रतिदिनं विधिना उक्त-प्रकारेण मुकुन्दं कृष्णं प्रयजेत् पूजयतु अमन्द-मतिः शुद्ध-मतिः ॥ क्र्द्च्_५।१४ ॥
पूजायां प्रातः-कालिक-ध्यानम् आह-
अथ श्रीमद्-उद्यान-संवीत-हैम-
स्थलोद्भासि-रत्न-स्फुरन्-मण्डपान्तः ।
लसत्-कल्प-वृक्षाध उद्दीप्त-रत्न-
स्थली-धिष्ठिताम्भोज-पीठाधिरूढम् ॥ क्र्द्_५।१५ ॥
गोविन्द-भट्टाचार्यः
सप्त-श्लोकान्तं कुलकम् । अथानन्तरं भक्ति-नम्रः भक्त्य्-अतिशयेन नम्र-देहः प्रगे प्रातः-काले कथित-रूपं कृष्णम् अनुस्मृत्य ध्यात्वा तद्-अङ्गेन्द्र-वज्रादिभिः तस्य कृष्णस्याङ्गानि पूर्वोक्तानि हृदयादीनि इन्द्रादयो दश दिक्-पालाः वज्रादयस् तद्-आयुधानि च तैः सह पूजयित्वा तं कृष्णं सिता शर्करा मोचा कदली-विशेषः हैयङ्गवीनं सद्यो-जात-घृतम् । एभिस् तथा दध्ना विमिश्रेण दधि-संयुक्तेन दोग्धेन पायसेन च मन्त्री सम्प्रीणयेत् । कीदृशं ? श्रीमत् शोभा-युक्तं यद् उद्यानं क्रीडा-वनं तेन संवीतं वेष्टितं यद्-धैम-स्थलं लसत्-काञ्चन-भूमिस् तत्रोद्भासीनि उद्गत-किरणानि यानि यानि रत्नानि तैः स्फुरत् देदीप्यमानो यो मण्डपस् तस्यान्तर्-मध्ये देदीप्यमानो यः
कल्प-वृक्षस् तस्याधश् छायायाम् उद्गता दीप्तिर् यस्य तादृशं रत्न-मयं यत् स्थानं तद्-अधिष्ठितं तत्रावस्थितं यद् अम्भोजं पद्यं तद् एव पीठं तत्राधिरूढम् उपविष्टम् ॥ क्र्द्च्_५।१५ ॥
महा-नील-नीलाभम् अत्यन्त-बालं
गुड-स्निग्ध-वक्त्रान्त-विस्रस्त-केशम् ।
अलि-व्रात-पर्याकुलोत्फुल्ल-पद्म-
प्रमुग्धाननं श्रीमद् इन्दीवराक्षम् ॥ क्र्द्_५।१६ ॥
गोविन्द-भट्टाचार्यः
पुनः कीदृशं ? महा-नील इन्द्र-नीलः । तद्वन् नीलाभं श्यामम् । पुनर् अत्यन्त-बालं पञ्च-वार्षिकम् । पुनः, गुडाः कुटिलाः स्निग्धाः चिक्कणाः कर्णान्ते कपोले विस्रस्ताः पर्याकुलाः । वक्त्रान्तेति पाठे विस्रस्ता मुखावलम्बिताः केशा यस्य तम् । अलि-व्रातेन भ्रमर-समूहेन पर्याकुलं चञ्चलं व्याप्तं वा यत् फुल्लं विकसितं पद्मं तद्वत् प्रमुग्धं मनोहरं आननं मुखं यस्य तम् । पुनः कीदृशं ? श्रीमत् दोष-रहितं यद् इन्दीवरं नील-पद्मं तत्-सदृशे अक्षिणी यस्य तम् ॥ क्र्द्च्_५।१६ ॥
पुनः कीदृशं ?
चलत्-कुण्डलोल्लासि-सम्फुल्ल-गण्डं
सुघोणं सुशोणाधरं सुस्मितास्यम् ।
अनेकाश्मरश्म्य्-उल्लसत्-कण्ठ-भूषा-
लसन्तं वहन्तं नखं पौण्डरीकम् ॥ क्र्द्_५।१७ ॥
गोविन्द-भट्टाचार्यः
चञ्चले ये कुण्डले ताभ्याम् उन्नतौ उल्लसितौ शोभमानौ सम्फुल्लौ विकाशितौ गण्डौ यस्य तम् । पुनः शोभमाना घोणा नासा यस्य तम् । पुनः सुशोणो लोहितो ऽधरो यस्य तम् । पुनः शोभनं यत् स्मितम् ईषद्-धासस् तद्-युक्तम् आस्यं यस्य तम् । पुनः अनेकानि यान्य् अश्मानि इन्द्रनील-प्रभृतीनि रत्नानि तेषां ये रश्मयः किरणाः तैर् उल्लसन्ती या कण्ठ-भूषा तया लसन्तं शोभमानम् । पुनः पौण्डरीकं व्याघ्र-सम्बन्धि-नखं वहन्तं धारयन्तम् ॥ क्र्द्च्_५।१७ ॥
पुनः कीदृशं ?
समुद्धूसरोरः-स्थलं धेनु-धूल्याः
सुपुष्टाङ्गम् अष्टापदाकल्प-दीप्तम् ।
कटीर-स्थले चारु-जङ्घान्त-युग्मे
पिनद्धं क्वणत्-किङ्किणी-जाल-दाम्ना ॥ क्र्द्_५।१८ ॥
गोविन्द-भट्टाचार्यः
धेनु-धूल्या गो-रजसा समुद्धूसरं धूसरितम् उरः-स्थलं यस्य तं गवाम् अनुगमनात् सुष्ठु पुष्टम् अङ्गं यस्य तम् । कीदृशं ? अष्टापदाकल्प-दीप्तं सुवर्ण-घटितालङ्कारेण शोभमानम् । पुनः कीदृशं ? क्वणत्-किङ्किणी-जाल-दाम्ना शब्दायमान-क्षुद्र-घण्टिका-समूह-मालया कटि-स्थले श्रोणि-तटे चारु-जङ्घान्त-युग्मे मनोहर-गुल्फ-द्वयोर्ध्व-प्रदेशे पिनद्धं बद्धम् ॥ क्र्द्च्_५।१८ ॥
पुनः कीदृशं ?
हसन्तं हसद्-बन्धु-जीव-प्रसून-
प्रभां पाणि-पादाम्बुजोदार-कान्त्या ।
करे दक्षिणे पायसं वाम-हस्ते
दधानं नवं शुद्ध-हैयङ्गवीनम् ॥ क्र्द्_५।१९ ॥
गोविन्द-भट्टाचार्यः
पाणि-पादाम्बुजोदार-कान्त्या हस्त-चरण-पद्म-विपुल-शोभया हसद्-बन्धु-जीव-पुष्प-कान्तिं हसन्तम् उपहसन्तम् । पुनः कीदृशं ? दक्षिणे करे हस्ते पायसं सव्य-हस्ते वाम-करे नवं नूतनं शुद्धं निष्कलुषं हैयङ्गवीनम् नवनीतं ह्यो गो-दोहनोद्भवं घृतं दधानं धारयन्तम् ॥ क्र्द्च्_५।१९ ॥
पुनः कीदृशं ?
महीभार-भूताम् अराराति-यूथान्
अनः-पूतनादीन् निहन्तुं प्रवृत्तम् ।
प्रभुं गोपिका-गोप-गो-वृन्द-वीतं
सुरेन्द्रादिभिर् वन्दितं देव-वृन्दैः ॥ क्र्द्_५।२० ॥
गोविन्द-भट्टाचार्यः
मही-भार-भूताम् अराराति-यूथान् पृथिवी-भार-रूप-दैत्य-समूहान् अनः-पूतनादीन् शकटासुर-प्रभृतीन् निहन्तुं प्रवृत्तम् । पुनः कीदृशं ? प्रभुं समर्थम् ईश्वरम् । पुनः कीदृशं ? गोपिका गोप-स्त्री, गोपः गौः एतेषां समूहेन वीतं वेष्टितम् । पुनः कीदृशं ? इन्द्रादिभिर् देव-समूहैर् नमस्कृतम् ॥ क्र्द्च्_५।२० ॥
प्रगे पूजयित्वेत्त्यनुस्मृत्य कृष्णं
तद्-अङ्गेन्द्र-वज्रादिकैर् भक्ति-नम्रः ।
सिता-मोच-हैयङ्गवीनैश् च दध्ना
विमिश्रेण दौग्धेन सम्प्रीणयेत् तम् ॥ क्र्द्_५।२१ ॥
गोविन्द-भट्टाचार्यः
पूर्व-श्लोके व्याख्यातम् अपि क्रमानुरोधेन व्याख्याते प्रगे प्रातः-काले उक्त-प्रकारेण कृष्णम् अनुस्मृत्य ध्यात्वा उपचारैः सम्पूज्य अङ्गाद्य्-आवरणैः सह सम्पूज्य नैवेद्यं दद्यात् । नैवेद्य-द्रव्यम् आह-सितेति । सिता शर्करा मोचा कदली हैयङ्गवीनं दौग्धेन पायसेन ॥ क्र्द्च्_५।२१ ॥
प्रातः सवन-पूजा-फलम् आह-
इति प्रातर् एवार्चयेद् अच्युतं यो
नरः प्रत्यहं शश्वद् आस्तिक्य-युक्तः ।
लभेताचिरेणैव लक्ष्मीं समग्राम्
इह प्रेत्य शुद्धं परं धाम भूयात् ॥ क्र्द्_५।२२ ॥
गोविन्द-भट्टाचार्यः
इत्य् अनेन प्रकारेण प्रत्यहं शश्वत् सर्वदा आस्तिक्य-युक्तः सन् यो नरः प्रातः-काले अच्युतम् अर्चयेत् तम् एवावश्यं पूजयति स इह लोके अचिरेणैवाल्प-कालेनैव समग्रां सम्पूर्णां लक्ष्मीं सम्पदं लभते प्राप्नोति प्रेत्य देहं परित्यज्य परं शुद्धं ब्रह्माख्यं महः भूयात् प्राप्नोति तत्-सरूपो भवतीत्य् अर्थः ॥ क्र्द्च्_५।२२ ॥
प्रातः पूजायाम् एव नैवेद्यं तर्पणं च दर्शयति-
अहो-मुखे ऽनुदिनम् इत्य् अभिपूज्य शौरिं
दध्नाथ वा गुड-युतेन निवेद्य तोयैः ।
श्रीमन्-मुखे समनुतर्प्य च तद्-धिया तं
जप्यात् सहस्रम् अथ साष्टकम् आदरेण ॥ क्र्द्_५।२३ ॥
गोविन्द-भट्टाचार्यः
अथवा शब्दः पाद-पूरणे इति पूर्वोक्त-प्रकारेण अह्नो-मुखे प्रातः-काले अनुदिनं प्रत्यहं शौरिं कृष्णम् अभिपूज्य गुड-सहितेन दध्ना नैवेद्यं दत्त्वा जलैस् तद्-धिया गुड-सहित-बुद्ध्या श्रीमतः कृष्णस्य मुखे समनुतर्प्य अथानन्तरं तं मन्त्रम् आदरेण साष्टकं सहस्रं अष्टोत्तर-सहस्रं जपेत् ॥ क्र्द्च्_५।२३ ॥
मध्यन्दिन-सवन-ध्यानम् आह-
मध्यं-दिने जप-विधान-विशिष्ट-रूपं
वन्द्यं सुरर्षि-यति-खेचर-मुख्य-वृन्दैः ।
गो-गोप-गोप-वनिता-निकरैः परीतं
सान्द्राम्बुद-च्छवि-सुजात-मनोहराङ्गम् ॥ क्र्द्_५।२४ ॥
गोविन्द-भट्टाचार्यः
चतुर्थ-श्लोक-स्थ-क्रियया योजना एवम् अनेन प्रकारेण मध्यन्दिने मध्याह्ने नन्दजं कृष्णं ध्यात्वा इन्दिरा श्रीस् तस्या आप्त्य्-अर्थं अर्चयतु । कीदृशं ? जप-विधानेन विशिष्टं रूपं यस्य तं जपार्थं यत् ध्यानम् । अथ प्रकट-सौरभेत्य् आदि तृतीय-पटलोक्त-ध्यानं तद् एवात्रापीति त्रिपाठिनः । पुनः कीदृशं ? वन्द्यं श्रेष्ठम् । पुनः कीदृशं ? सुरा इन्द्रादय ऋषयो नारदादयः यतयः सनकादयः खेचराः स्वर्ग-वासिनः एतेषां मुख्याः श्रेष्ठाः तेषां वृन्दैः समूहैः तथा गौः गोपः गोप-स्त्री च एतेषां निकरैः समूहैः परीतं वेष्टितं सान्द्रो निविडो यो अम्बुदो मेघस् तद्वच् छविर् यस्य तत् । अथ च सुजातं दोष-रहितम् । अथ च मनोहरं नेत्रोत्सव-कारकम्
अङ्गं यस्य ॥ क्र्द्च्_५।२४ ॥
पुनः कीदृशं ?
मयूर-पत्र-परिक्प्त-वतंस-रम्य-
धम्मिल्लम् उल्लसित-चिल्लिकम् अम्बुजाक्षम् ।
पूर्णेन्दु-बिन्दु-वदनं मणि-कुण्डल-श्री-
गण्डं सुनासम् अतिसुन्दर-मन्द-हासम् ॥ क्र्द्_५।२५ ॥
गोविन्द-भट्टाचार्यः
मयूरस्येदं मायूरं पत्रं पक्षः मायूरं च तत्-पत्रं चेति मायूर-पत्रं तेन परिक्प्तो यो वतंसः शिरो-भूषणम् । वष्टि-भागुरिरल्लोपम् अवाप्योरुपसर्गयोः इत्य् अकार-लोपः । तेन रम्यो धम्मिल्लः केश-पाशः यस्य तम् । पुनः कीदृशं ? अम्बुजवत् पद्मवत् अक्षिणी यस्य स तथा तम् । पुनः कीदृशं ? सम्पूर्णो य इन्दु-बिम्बश् चन्द्र-मण्डलं तद्वद् वदनं मुखं यस्य स तथा तम् । पुनः कीदृशं ? मणि-मयं यत् कुण्डलं तेन श्री-युक्तौ शोभा-सहितौ गण्डौ यस्य तम् । पुनः कीदृशं ? शोभना नासा यस्य तम् । पुनः कीदृशं ? मनोहरेषद्-हास्य-युक्तम् ॥ क्र्द्च्_५।२५ ॥
पुनः कीदृशं ?
पीताम्बरं रुचिर-नूपुर-हार-काञ्ची-
केयूरकोमिकटकादिभिर् उज्ज्वलाङ्गम् ।
दिव्यानुलेपन-पिशङ्गितमसराजद्-
अम्लान-चित्र-वनमालम् अनङ्ग-दीप्तम् ॥ क्र्द्_५।२६ ॥
गोविन्द-भट्टाचार्यः
पीताम्बरं वस्त्रं यस्य तम् । पुनः कीदृशं ? मनोहर-नूपुरादिभिः शोभितम् अङ्गम् यस्य तं हारो मुक्तावली काञ्ची क्षुद्र-घण्टिका केयूरम् अङ्गदम् ऊर्मिर् मुद्रिका कटकः कङ्कण आदि-पदेन किरीटादीनां परिग्रहः । पुनः कीदृशं ? देव-सम्बन्धिनानुलेपनेन कुङ्कुमादिना पिशाङ्गितं पिञ्जरितम् अंसे स्कन्धे राजन्ती शोभमाना अम्लाना अक्लिष्टा चित्रा नाना-प्रकारिका वनमाला पत्र्-पुष्प-मयी आपाद-लम्बिनी माला यस्य तम् । पुनः कीदृशं ? अनङ्गवत् कामवत् दीप्तम् ॥ क्र्द्च्_५।२६ ॥
पुनः कीदृशं ?
वेणुं धमन्तम् अथवा स्व-करे दधानं
सव्येतरे पशुप-यष्टिम् उदार-वेषम् ।
दक्षे मणि-प्रवरम् ईप्सित-दान-दक्षं
ध्यात्वैवम् अर्चयतु नन्दजम् इन्दिराप्त्यै ॥ क्र्द्_५।२७ ॥
गोविन्द-भट्टाचार्यः
वेणुं धमन्तम् वादयन्तम् । अथवा पक्षान्तरे स्व-करे सव्येतरे वामे गो-रक्षण-दण्डं दधानं तथा दक्षे दक्षिणे ईप्सित-दान-दक्षं मणिं दधानम् । पुनः कीदृशं ? उदार-वेषम् । उद्भट-वेषम् इति रुद्र-धरः । वस्तुतस् तु वेणुं वादयन्तं तद् एव दर्शयति अथेति वाम-करे सव्यं दक्षिण-वामयोर् इत्य् अभिधानात् द्वयोर् एवात्र-तन्त्रेण सङ्ग्रहः तत्र सव्ये द्वितीय-वाम-हस्ते पशुप-यष्टिं परशुरकार्थं यष्टिं दण्डं तथा सव्ये दक्षिणे हस्ते मणि-प्रवरम् मणि-श्रेष्ठं चिन्तामणिं दधानम् । कीदृशं ? मणि-प्रवरम् ईप्सित-दान-दक्षं वाञ्छितार्थ-दान-क्षमम् इत्य् अर्थः ॥ क्र्द्च्_५।२७ ॥
आवरण-नैवेद्य-दान-प्रकारम् आह-
दामादिकाङ्ग-दयितासुहृदङ्घ्रिपेन्द्र-
वज्रादिभिः समभिपूज्य यथा-विधानम् ।
दीक्षा-विधि-प्रकथितं च निवेद्य-जातं
हैमे निवेदयतु पात्र-वरे यथावत् ॥ क्र्द्_५।२८ ॥
गोविन्द-भट्टाचार्यः
दाम आदिर् यस्य । आदि-पदेन सुदामादीनां परिग्रहः । अङ्गानि पूर्वोक्तानि पञ्च दयिता रुक्मिण्य्-आद्याः सुहृदो वसुदेवाद्याः अङ्घ्रिपा मन्दराद्याः पूर्वोक्ता इन्द्रादयो दश दिक्पालाः वज्रादीनि च तेषां आयुधानि पूर्वोक्तानि । एतैर् यथा-विधानं यथोक्त-प्रकारेण कृष्णं सम्पूज्य दीक्षा-विधाने कथितं नैवेद्य-समूहं हैमं सुवर्ण-मये पात्र-श्रेष्ठे यथावत् निवेदयतु ॥ क्र्द्च्_५।२८ ॥
होमादिकम् आह-
अष्टोत्तरं शतम् अथो जुहुयात् पयो ऽन्नैः
सर्पिः-प्लुतैः सुसित-शर्करया विमिश्रैः ।
दद्याद् बलिं च निज-दिक्षु सुरर्षि-योगि-
वर्गोपदैवत-गणेभ्य उदग्र-चेताः ॥ क्र्द्_५।२९ ॥
गोविन्द-भट्टाचार्यः
अनन्तरं पयो ऽन्नैः पायसैः सर्पिः-प्लुतैः सुसित-शर्करया विमिश्रैः अतिशुभ्र-शर्करया मिलितैः अष्टाधिकं शतम् जुहुयात् होमं कुर्यात् । साहचर्यात् कल्पना-लाघवाच् च होमोक्त-द्रव्येणैव निज-दिक्षु स्व-स्व-दिक्षु सुरर्षि-योगि- वर्गोपदैवत-गणेभ्यो बलिं दद्यात् । तत्र सुरा विरञ्चि-प्रभृतयः पूर्व-दिक्-स्थाः ऋषयो नारदादयो दक्षिण-दिक्-स्थाः योगि-वर्गः सनकादिः पश्चिम-दिक्स्थाः उपदेव-गणाः यक्ष-सिद्ध-गन्धर्व-विद्याधराद्याः उत्तर-दिक्-स्था इति त्रिपाठिनः । उपदेव-गणाः दश-दिक्-पाला इति रुद्रधरः । उदग्र-चेता उद्भट-चित्तः सोत्साह इत्य् अर्थः ॥ क्र्द्च्_५।२९ ॥
नवनीत-मिलित-पायस-धियार्चनान्ते जलैर् मुखे तस्य ।
सन्तर्प्य जपतु मन्त्री सहस्रम् अष्टोत्तर-शतं वापि ॥ क्र्द्_५।३० ॥
गोविन्द-भट्टाचार्यः
अर्चनान्ते पूजावसाने तस्य देवस्य मुखे नवनीतेन मिलितं सम्बद्धं यत् पायसं तद्-बुद्ध्या जलैः सन्तर्प्य तर्पणं कृत्वा मन्त्री साधकः अष्टाधिकं सहस्रम् शतं वा जपतु ॥ क्र्द्च्_५।३० ॥
एतत्-फलम् आह-
अह्नो मध्ये वल्लवी-वल्लभं तं
नित्यं भक्त्याभ्यर्चयेत् यो नराग्र्यः ।
देवाः सर्वे तं नमस्यन्ति शश्वत्
वर्तेरन् वै तद्-वशे सर्व-लोकाः ॥ क्र्द्_५।३१ ॥
गोविन्द-भट्टाचार्यः
यो नराग्र्यो नर-श्रेष्ठः अह्नो मध्ये मध्याह्ने तं वल्लवी-वल्लभं गोपी-प्रियं नित्यं सर्वदा भक्त्या सात्त्विकेन भावेनार्चयेत् । तं नर-श्रेष्ठं सर्वे देवाः नमस्यन्ति । तथा शश्वत् सर्वदा सर्वे जना एव तद्-वशे वर्तेरन् तद्-वश्याः स्युर् इत्य् अर्थः ॥ क्र्द्च्_५।३१ ॥
मेधायुः-श्री-कान्ति-सौभाग्य-युक्तः
पुत्रैर् मित्रैर् गोमही-रत्न-धान्यैः ।
भोगैश् चान्यैर् भूरिभिः सन्निहाढ्यो
भूयान् भूयो धाम तच् चाच्युताख्यम् ॥ क्र्द्_५।३२ ॥
गोविन्द-भट्टाचार्यः
तथा इह लोके मेधा धारणावती बुद्धिः आयुः जीवनम्, श्रीः लक्ष्मीः । कान्तिः शरीर-शोभा, सौभाग्यं सर्वजन-प्रियता । एतैः युक्तः सम्बद्धः तथा पुत्रैर् औरसैः मित्रैः सुहृद्भिर् गौः प्र्थिवी रत्नं धान्यं व्रीह्यादिः । एतैश् चतथान्यैर् भूरिभिः प्रचूरैः सुखैर् आढ्यः उपचितः सन् पुनः देहावसाने अच्युताख्यं कृष्ण-नामकं तेजो महो भूयान् तद्-रूपो भवतीत्य् अर्थः ॥ क्र्द्च्_५।३२ ॥
तृतीय-काल-पूजा-व्यवस्थाम् आह-
तृतीय-काल-पूजायाम् अस्ति काल-विकल्पना ।
सायाह्ने निशि वेत्य् अत्र वदन्त्य् एके विपश्चितः ॥ क्र्द्_५।३३ ॥
गोविन्द-भट्टाचार्यः
तृतीय-काल-पूजायाम् कालस्य वेलायां विकल्पना विकल्पो ऽस्ति तम् एवाह-सायाह्ने सन्ध्यायां निशि रात्रौ वेति अत्र एके विपश्चितो वदन्ति ॥ क्र्द्च्_५।३३ ॥
किं तत्राह-
दशाक्षरेण चेद् रात्रौ सायाह्ने ऽष्टादशार्णतः ।
उभयीम् उभयेनैव कुर्याद् इत्य् अपरे जगुः ॥ क्र्द्_५।३४ ॥
गोविन्द-भट्टाचार्यः
चेद् यदि दशाक्षरेण मन्त्रेण पूजादिकं तदा रात्रौ यद् अष्टादशार्णतो अष्टादशाक्षरेण मन्त्रेण तदा सायाह्ने इत्य् एकेषां मतम् । अपरे च पुनः उभयीम् उभय-पूजाम् उभयेनैव दशाक्षरेणाष्टादशाक्षरेण च तत् कुर्याद् इति जगुः कथयन्ति । तथा चैच्छिको विकल्प इति भावः ॥ क्र्द्च्_५।३४ ॥
सायाह्न इत्य् आदि । अत्र नव-श्लोकान्तं कुलकम् ।
सायाह्ने द्वारवत्यां तु चित्रोद्यानोपशोभिते ।
द्व्यष्ट-साहस्र-सङ्ख्यातैर् भवनैर् अभिसंवृते ॥ क्र्द्_५।३५ ॥
गोविन्द-भट्टाचार्यः
हंस-सारस-सङ्कीर्णैः कमलोत्पल-शालिभिः ।
सरोभिर् अमलाम्भोभिः परीते भवनोत्तमे ॥ क्र्द्_५।३६ ॥
उद्यत्-प्रद्योतन-द्योत-सद्युतौ मणि-मण्डपे ।
मृद्वास्तरे सुखासीनं हेमाम्भोजासने हरिम् ॥ क्र्द्_५।३७ ॥
नारदाद्यैः परिवृतम् आत्म-तत्त्व-विनिर्णये ।
तेभ्यो मुनिभ्यः स्वं धाम दिशन्तं परम् अक्षरम् ॥ क्र्द्_५।३८ ॥
सायाह्ने एवम् एतादृश-वेष-धारिणं हरिं ध्यात्वार्चयेत् । कीदृशं ? मृद्वास्तर-कोमलासन-रूपे हेमाम्भोजासने कनक-पद्मासने समासीनम् उपविष्टं कुत्रावस्थितं मणि-मण्डपे । किं विशिष्टे ? उद्गच्छन् यः प्रद्योतनः सूर्यः तस्य द्योतस्य समाना द्युतिर् यस्य तस्मिन् । कुत्र ? भवनोत्तमे गृह-श्रेष्ठे । किं विशिष्टे ? चित्रोद्यानोपशोभिते बहुधोपवन-सेविते । पुनः किं विशिष्टे ? द्वारवत्यां विद्यमाने । पुनः किं विशिष्टे ? भवनैर् गृहैर् अभिसंवृते । कीदृशैः ? द्व्यष्ट-साहस्र-सङ्ख्यातैः ।
पुनः किं विशिष्टे ? सरोभिः सरोवरैः परीते । कीदृशैः ? अमलाम्भोभिर् निर्मल-जलैः । पुनः कीदृशैः ? हंस-सारस-सङ्कीर्णैः हंसादि-पक्षि-गणैर् व्याप्तैः । पुनः कीदृशैः ? कमलोत्पल-शालिभिः पद्मोत्पल-सहितैः ।
हरिं कीदृशं ? नारदाद्यैर् मुनिभिः परिवृतम् वेष्टितम् । किम्-अर्थम् ? आत्म-तत्त्व-विनिर्णये आत्म-तत्त्व-निश्चये निमित्ते । पुनः कीदृशं ? तेभ्यो नारदादिभ्यः स्वं धाम ज्ञान-स्वरूपम् आत्मानं कथयन्तम् । पुनः कीदृशं ? परम-विद्या-तत्-कार्य-रहितम् । पुनः कीदृशं ? अक्षरम् अविनाशि ॥ क्र्द्च्_५।३५-३८ ॥
पुनः कीदृशं ?
इन्दीवर-निभं सौम्यं पद्म-पत्रोरुणेक्षणम् ।
स्निग्ध-कुन्तल-सम्भिन्न-किरीट-मुकुटोज्ज्वलम् ॥ क्र्द्_५।३९ ॥
गोविन्द-भट्टाचार्यः
इन्दीवर-निभं नीलाम्भोज-सदृशं सौम्यं उग्रता-रहितम् । पुनः कीदृशं ? पद्म-पत्रवद् आयते दीर्घे ईक्षणे यस्य तम् । पुनः स्निग्धाः चिक्कणा ये कुन्तलाः केशास् तैः सम्भिन्ने मिलिते किरीट-मुकुटे ताभ्याम् उज्ज्वलं देदीप्यमानम् । तत्र किरीट-शब्देन ललाटाश्रितः त्रि-शृङ्गो ऽलङ्कार-विशेषः कथ्यते । मुकुट-शब्देन च मूर्ध्नि मध्य-भागाश्रितं तच् च दीप-शिखा-कारो ऽलङ्कार-विशेषः कथ्यते ॥ क्र्द्च्_५।३९ ॥
पुनः कीदृशं ?
चारु-प्रसन्न-वदनं स्फुरन्-मकर-कुण्डलम् ।
श्रीवत्स-वक्षसं भ्राज-कौस्तुभं वनमालिनम् ॥ क्र्द्_५।४० ॥
गोविन्द-भट्टाचार्यः
चारु मनोहरं प्रसन्नं फल-दायि वदनं यस्य तम् । पुनः स्फुरती देदीप्यमाने मकराकृती कुण्डले यस्य तम् । पुनः श्रीवत्सो विप्र-पाद-प्रहार-कृत-चिह्न-विशेषो वक्षसि यस्य तम् । पुनः भ्राजन् देदीप्यमानः कौस्तुभो मणि-विशेषो यस्य तम् । पुनः वनमाला-धारिणम् ॥ क्र्द्च्_५।४० ॥
काश्मीर-कपिशोरस्कं पीत-कौशेय-वाससम् ।
हार-केयूर-कटक-रसनाद्यैः परिष्कृतम् ॥ क्र्द्_५।४१ ॥
गोविन्द-भट्टाचार्यः
काश्मीरेण कुङ्कुम-वर्णम् उरो यस्य तम् । पुनः पीत-वस्त्र-धारिणम् । पुनः हारः मुक्ताहारः केयूरम् अङ्गदं बाह्व्-अलङ्कारः । कटकः कङ्कणः । रसना क्षुद्र-घण्टिका आदि-शब्देनाङ्गुलीयकादेः परिग्रहः एतैः परिष्कृतं शोभितम् ॥ क्र्द्च्_५।४१ ॥
पुनः कीदृशं ?
हृत-विश्वम्भराभूरि-भारं मुदित-मानसम् ।
शङ्ख-चक्र-गदा-पद्म-राजद्-भुज-चतुष्टयम् ॥ क्र्द्_५।४२ ॥
गोविन्द-भट्टाचार्यः
हृतो ऽपनीतो विश्वम्भरायाः पृथ्व्या भूरि-भारो बृहद्-भारो ऽसुरादि-लक्षणो येन तम् । पुनः मुदितं हृष्टं मानसं यस्य तम् । पुनः शङ्ख-चक्र-गदा-पद्मैः शोभितं बाहु-चतुष्टयम् यस्य तम् ॥ क्र्द्च्_५।४२ ॥
एवं ध्यात्वार्चयेन् मन्त्री तद्-अङ्गैः प्रथमावृतिम् ।
द्वितीयां महिषीभिस् तु तृतीयायां समर्चयेत् ॥ क्र्द्_५।४३ ॥
गोविन्द-भट्टाचार्यः
नारदं पर्वतं जिष्णुं निशठोद्धव-दारुकान् ।
विश्वक्सेनं च सैनेयं दिक्ष्व् अग्रे विनता-सुतम् ॥ क्र्द्_५।४४ ॥
अत्र पूजायां अङ्गैः पूर्वोक्तैः पञ्चाङ्गैः प्रथमावरणं भवति । द्वितीयावरणं महिषीभिः रुक्मिण्य्-आदिभिः । तृतीयायाम् आवृतौ दिक्षु प्रवादि-दिक्षु वक्ष्यमाणान् नारदादीन् अग्रे च विनता-सुतं गरुडं पूजयेत् । पर्वत-नामा मुनि-विशेषः । जिष्णुर् अर्जुनः । निशठो यादव-विशेषः । उद्धवो ऽपि तथा । दारुकः कृष्ण-सारथिः । विश्वक्सेनः भाण्डागारिकः सैनेयः सात्यकिः ॥ क्र्द्च्_५।४३-४४ ॥
लोकेशैस् तत्-प्रहरणैः पुनर् आवरण-द्वयम् ।
इति सम्पूज्य विधिवत् पायसेन निवेदयेत् ॥ क्र्द्_५।४५ ॥
गोविन्द-भट्टाचार्यः
लोकेशैर् इन्द्रादिभिर् एकम् आवरणम् । तत्-प्रहरणैस् तद्-आयुधैर् वज्रादिभिर् अपरावरणम् । एवं क्रमेणावरण-द्वयम् इत्य् अनेन प्रकारेण पञ्चावरणकेन सम्पूज्य विधिवद् दीक्षा-कथितं पायसं दद्यात् ॥ क्र्द्च्_५।४५ ॥
तर्पण-प्रकारं जप-सङ्ख्यां च दर्शयति-
तर्पयित्वा खण्ड-मिश्रैर् दुग्ध-बुद्ध्या जलैर् हरिम् ।
जपेद् अष्ट-शतं मन्त्री भावयन् पुरुषोत्तमम् ॥ क्र्द्_५।४६ ॥
गोविन्द-भट्टाचार्यः
खण्डेन शर्करया विमिश्रं मिलितं यद् दुग्धं तद्-बुद्ध्या जलैः कृष्णं तर्पयित्वा पुरुषोत्तमं भावयन् ध्यायन् मन्त्री साधकः अष्टाधिक-शतं जपेत् । यद्यपि तर्पणस्य क्त्वा-प्रत्ययेन पूर्व-कालता प्रतीयते तथापि प्रथमं जपः तद् अनु तर्पणं कार्यं तथैवानुक्रमात् सम्प्रदायाच् चेति रुद्रधरः ॥ क्र्द्च्_५।४६ ॥
पूजासु होमं सर्वासु कुर्यान् मध्यन्दिने ऽथवा ।
आसनाद् अर्घ्य-पर्यन्तं कृत्वा स्तुत्वा नमेत् सुधीः ॥ क्र्द्_५।४७ ॥
गोविन्द-भट्टाचार्यः
सर्वासु तिसृष्व् अपि पूजासु होमं कुर्यात् । पक्षान्तरम् आह-अथवेति । मध्यन्दिने मध्याह्न्-पूजायां वा होमं कुर्याद् इत्य् अर्थः । आसनाद् इति । आसन-मन्त्राद् आरभ्यार्घ्य-पर्यन्तं कृत्वा स्तुत्वा स्तवनं कृत्वा नमेत् दण्डवत् प्रणमेत् । अवसानार्घ्यम् अवशेषयित्वा मध्ये होमं कृत्वा ततः पूजाशेषार्घ्यम् अवसानार्घ्य-सञ्ज्ञकं पराङ्मुखार्घ्यापर-पर्यायं दद्याद् इत्य् अर्थः ॥ क्र्द्च्_५।४७ ॥
समर्प्यात्मानम् उद्वास्य तत् स्वे हृत्-सरसीरुहे ।
विन्यस्य तन्-मयो भूत्वा पुनर् आत्मानम् अर्चयेत् ॥ क्र्द्_५।४८ ॥
गोविन्द-भट्टाचार्यः
आत्म-समर्पण-मन्त्रेण स्वात्मानं परमेश्वरे समर्प्य तत् परमेश्वर-तेजः पूजा-स्थानाद् उद्वास्य उद्वृत्त्य स्वकीय-हृदय-पद्मे विन्यस्य तन्-मयो भूत्वा पुनर् आत्मानम् पूजयेत् ॥ क्र्द्च्_५।४८ ॥
सायाह्न-पूजा-फलम् आह-
सायाह्ने वासुदेवं यो नित्यम् एव यजेन् नरः ।
सर्वान् कामान् अवाप्यान्ते स याति परमां गतिम् ॥ क्र्द्_५।४९ ॥
गोविन्द-भट्टाचार्यः
यो नरः सायाह्ने वासुदेवं नित्यं सर्वदा एवं कथित-प्रकारेण यजेत् पूजा-तर्पण-होमादिभिः परितोषयेत् सर्वान् कामान् वाञ्छितान् अर्थान् अवाप्य देहावसाने परां गतिं विष्णु-सायुज्यं प्राप्नोति ॥ क्र्द्च्_५।४९ ॥
रात्रौ चेन् मन्मथाक्रान्त-मानसं देवकी-सुतम् ।
यजेद् रास-परिश्रान्तं गोपी-मण्डल-मध्यगम् ॥ क्र्द्_५।५० ॥
गोविन्द-भट्टाचार्यः
चेद् यदि रात्रौ पूजा क्रियते तदा रासः क्रीडा-विशेषस् तेन परिश्रान्तं देवकी-नन्दनं यजेत् मन्मथेन आक्रान्तं मानसं हृदयं यस्य तम् । पुनः गोपीनां मण्डलं गोष्ठी-विशेषः तस्य मध्ये स्थितम् ॥ क्र्द्च्_५।५० ॥
रास-क्रीडां दर्शयति-
पृथुं सुवृत्तं मसृणं वितस्ति-
मात्रोन्नतं कौ विनिखन्य शङ्कुम् ।
आक्रम्य पद्भ्याम् इतरेतरात्त-
हस्तैर् भ्रमो ऽयं खलु रास-गोष्ठी ॥ क्र्द्_५।५१ ॥
गोविन्द-भट्टाचार्यः
इतरेतरात्त-हस्तैः परस्पर-गृहीत-हस्तैः अयं भ्रमो भ्रमणं रास-गोष्ठी । किं कृत्वा ? कौ पृथिव्यां पृथुं स्थूलं सुवृत्तं वर्तुलाकारं मसृणं स्निग्धं वितस्ति-मात्रोत्थितं द्वादशाङ्गुल-प्रमाणेनोर्ध्वं स्थितं शङ्कु काष्ठ-खण्डं विनिखन्य । पुनः किं कृत्वा ? पद्भ्यां शङ्कुम् आक्रम्य नियन्त्र्य ॥ क्र्द्च्_५।५१ ॥
ध्यानम् आह-
स्थल-नीरज-सून-पराग-भृता
लहरी-कण-जाल-भरेण सता ।
मरुता परितापहृताध्युषिते
विपुले यमुना-पुलिने विमले ॥ क्र्द्_५।५२ ॥
गोविन्द-भट्टाचार्यः
द्वादश-श्लोकान्तं कुलकम् । कल्याण-मय-स्वरूपम् अजं विचिन्त्य प्रथमोदित-पीठ-वरे पूर्वोक्त-दीक्षा-सम्बन्धि-पूजा-पीठ-श्रेष्ठे विधिवत् यथाविधि प्रयत्नेन पूजयेत् । कीदृशं ? यमुना-पुलिने यमुना-तटे इतरेतर-बद्ध-कर-प्रमदा-गण-कल्पित-रास-विहार-विधौ अन्योन्य-बद्ध-हस्त-स्त्री-समूह-परिकल्पित-क्रीडा-विशेष-विधौ मणि-शङ्कुगं मणिमय-शङ्कु-मध्य-गतम् । कीदृशे ? पुलिने वायुनाधुयुषिते आक्रान्ते । कीदृशेन ? स्थल-नीरजं स्थल-कमलं तं पुष्प-पराग-भृता तत्-केशर-सन्निकृष्ट-पुष्प-रजो-युक्तेन अनेन सौगन्ध्यं वर्णितं पुनः लहरी-तरङ्गस् तस्य कण-जालं बिन्दु-समूहः तस्य भरेण प्रकर्षेण सताम् । उत्कृष्टेन युक्तेनेति त्रिपाठिनः । अनेन शैत्यम् उक्तम् । पुनः
परिताप-हृता खेद-विनाशकेन अनेन मान्द्यम् उक्तम् । पुनः कीदृशे पुलिने ? विपुले विस्तीर्णे पुनः विमले शुद्धे ॥ क्र्द्च्_५।५२ ॥
पुनः कीदृशं ?
अशरीर-निशात-शरोन्मथित-
प्रमदा-शत-कोटिभिर् आकुलिते ।
उडुनाथ-करैर् विशदीकृत-दिक्-
प्रसरे विचरद्-भ्रमरी-निकरे ॥ क्र्द्_५।५३ ॥
गोविन्द-भट्टाचार्यः
अशरीरः कामः तस्य यो निशात-शरस् तीक्ष्ण-बाणस् तेन उन्मथिता व्यग्रीकृता याः
प्रमदास् तासां शत-कोटिभिर् आकुलितीकृते इतस् ततो ऽव्याप्तेः । पुनः कीदृशे ? उडुनाथश् चन्द्रस् तस्य करैः किरणैर् विशदीकृतः प्रकाशितो दिक्-
प्रसरो दिग्-अवकाशो यत्र तस्मिन् । पुनः कीदृशे ? विचरन्ती भ्रमन्ती या भ्रमरी तस्या निकरः समूहो यत्र तस्मिन् ॥ क्र्द्च्_५।५३ ॥
पुनः कीदृशं ?
विद्याधर-किन्नर-सिद्ध-सुरैः
गन्धर्व-भुजङ्गम-चारणकैः ।
दारोपहितैः सुविमान-गतैः
स्वस्थैर् अभिवृष्ट-सुपुष्प-चयैः ॥ क्र्द्_५।५४ ॥
गोविन्द-भट्टाचार्यः
विद्याधर-प्रभृतयो यथा प्रसिद्धाः तथा भुजङ्गमः हस्त-पादादि-शरीरान्वितो नाग-लोक-स्थः सर्पः एतैर् दारोपहितैः सस्त्रीकैः शोभन-विमान-गतैः आकाश-निष्ठैः कृत-पुष्प-वृष्टि-समूहैः आकुलिते ॥ क्र्द्च्_५।५४ ॥
पुनः कीदृशं कृष्णम् ?
इतरेतर-बद्ध-कर-प्रमदा-
गण-कल्पित-रास-विहार-विधौ ।
मणि-शङ्कु-गम् अप्य् अमुनावपुषा
बहुधा विहित-स्वक-दिव्य-तनुम् ॥ क्र्द्_५।५५ ॥
गोविन्द-भट्टाचार्यः
अमुना वपुषा अनेन मणि-शङ्कु-गअतेन शरीरेण नाना-प्रकार-कृत-स्वीय-दिव्य-शरीरम् ॥ क्र्द्च्_५।५५ ॥
पुनः कीदृशं ?
सुदृशाम् उभयोः पृथग्-अन्तरगं
दयिता-गण-बद्ध-भुज-द्वितयम् ।
निज-सङ्ग-विजृम्भद्-अनङ्ग-शिखि-
ज्वलिताङ्ग-लसत्-पुलकालि-युजाम् ॥ क्र्द्_५।५६ ॥
गोविन्द-भट्टाचार्यः
सुदृशाम् कामिनीनाम् उभयोर् द्वयोः पृथक् द्वय-द्वय-क्रमेण अन्तरगं मध्य-गतम् । पुनः कीदृशं ? दयिता-गणेन नारी-समूहेन बद्धं स्व-हस्तेनान्यो ऽन्यं ग्रथितं भुज-द्वितयं यस्य तम् एतेनैतद् उक्तं भवति कामिन्योर् मध्ये कामिनीनाम् एव हस्तेन गृहीत-हस्तः परमेश्वर इति अपि समुच्चयेन केवलं शङ्कुगं कामिनीनाम् अपि अन्तरेण युक्तम् इति भावः । कीदृशाम् ? निज-सङ्गेन गोपाल-कृष्ण-सङ्गेन विजृम्भमाणः प्रज्वलितो यो अनङ्ग-शिखी कामाग्निस् तेन ज्वलितं प्रदीप्तं यद् आङ्गं तत्र लसन्ती शोभमाना या पुलकाली रोमाञ्च-पङ्क्तिस् तया युज्यन्ते इति तद्-युजस् तासाम् ॥ क्र्द्च्_५।५६ ॥
पुनः कीदृशं ?
विविध-श्रुति-भिन्न-मनोज्ञतर-
स्वर-सप्तक-मूर्च्छन-ताल-गणैः ।
भ्रममाणम् अमूभिर् उदार-मणि-
स्फुट-मण्डन-शिञ्जित-चारुतरम् ॥ क्र्द्_५।५७ ॥
गोविन्द-भट्टाचार्यः
अमूभिर् गोपीभिः सह भ्रममाणम् भ्रमीकुर्वाणं । कैः ? विविधो नाना-प्रकारः श्रुतिर् नाम-स्वरारम्भकावयवः शब्द-विशेषः तेन भिन्नं सङ्गतं मनोज्ञतरम् अति-हृदय-ग्राहि यत् स्वर-सप्तकं निषादेत्य् आदि तस्य या मूर्च्छना एकविंशति-प्रकारिका भाग-तालाश्वताल-परितालादयः ऊन-पञ्चाशत् एतेषां गणैः समूहैः । पुनः कीदृशं ? उदार उदूढो यो मणिस् तस्य स्फुटं प्रव्यक्तं अतितेजस्वितया यन् मण्डनं तस्य शिञ्जितं शब्दितं तेन चारुतरं हृदयङ्गमम् ॥५७॥
पुनः कीदृशं ?
इति भिन्न-तनुं मणिभिर् मिलितं
तपनीय-मयिर् इव भारकतम् ।
मणि-निर्मित-मध्यग-शङ्कु-लसद्-
विपुलारुण-पङ्कज-मध्य-गतम् ॥ क्र्द्_५।५८ ॥
इति भिन्न-तनुम् । अनेन प्रकारेण गोपीभिर् मिलित-देहं गोपाल-कृष्णं कम् इव तपनीय-मयैः सुवर्ण-मयैः मणिभिर् मिलितं ग्रथितं मरकत-मणिम् इव । पुनः कीदृशं ? मणि-निर्मितो मध्य-गतो यः शङ्कुः तल् लग्नं लसद् देदीप्यमानं यद् विपुलं बृहद्-अरुण-पङ्कजं तस्य मध्य-गतम् ॥ क्र्द्च्_५।५८ ॥
पुनः कीदृशं ?
अतसी-कुसुमाभ-तनुं तरुणं
तरुणारुण-पद्म-पलाश-दृशम् ।
नव-पल्लव-चित्र-सुगुच्छ-लसच्-
छिखि-पिच्छ-पिनद्ध-कच-प्रचयम् ॥ क्र्द्_५।५९ ॥
गोविन्द-भट्टाचार्यः
अतसी-प्रसिद्धा तस्याः कुसुमानीवाभा दीप्तिर् यस्यास् तनोस् तादृशी तनुर् यस्य तम् । पुनः कीदृशं ? तरुणेति नूतनारुण-पद्म-पत्र-सदृश-नेत्रम् । पुनः कीदृशं ? नवेति नूतन-पल्लव-नाना-विध-स्तवक-शोभमान-मयूर-पुच्छ-सम्बद्ध-केश-समूहम् ॥ क्र्द्च्_५।५९ ॥
पुनः कीदृशं ?
चटुल-भ्रुवम् इन्दु-समान-मुखं
मणि-कुण्डल-मण्डित-गण्ड-युगम् ।
शश-रक्त-सदृक्-दशन-च्छदनं
मणि-राजद्-अनेक-विधाभरणम् ॥ क्र्द्_५।६० ॥
गोविन्द-भट्टाचार्यः
चटुल-भ्रुवं चलद्-भ्रू-लताकम् । पुनः कीदृशं ? शुक्ल-पक्षीय-पूर्ण-चन्द्र-सदृशाननम् । पुनः कीदृशं ? मणि-मय-कुण्डल-शोभित-गण्ड-द्वयम् । पुअन्ः कीदृशं ? शश-शोणित-तुल्याधरम् । पुनः कीदृशं ? मणिना शोभमान-नाना-प्रकाराभरणम् ॥ क्र्द्च्_५।६० ॥
पुनः कीदृशं ?
असन-प्रसव-च्छदनोज्ज्वलसद्-
वसनं सुविलास-निवास-भुवम् ।
नव-विद्रुम-भद्र-कराङ्घ्रि-तलं
भ्रमराकुल-दाम-विराजि-तनुम् ॥ क्र्द्_५।६१ ॥
गोविन्द-भट्टाचार्यः
असनो वृक्ष-विशेषः तस्य प्रसवः पुष्पं तस्य छेदनं पत्रं च तद्वद् उज्ज्वलं शोभमानं मनोहरं वस्त्रं यस्य तम् । पुनः कीदृशं ? शोभन-क्रीडा-विचित्र-स्थानम् । पुनः कीदृशं ? नवो नूतनो यो विद्रुमः प्रवालस् तद्वत् भद्रं मनोहरं कराङ्घ्रि-तलं यस्य तम् । पुनः कीदृशं ? भ्रमरैर् आकुलं व्याप्तं यत् पुष्प-दाम-माला तेन विराजितं भुज-द्वयं यस्य तं यद् वा मालया विराजिता तनुर् यस्य तम् ॥ क्र्द्च्_५।६१ ॥
पुनः कीदृशं ?
तरुणी-कुच-युक्-परिरम्भ-मिलद्-
घुसृणारुण-वक्षसम् उक्ष-गतिम् ।
शिव-वेणु-समीरित-गान-परं
स्मर-विह्वलितं भुवनैक-गुरुम् ॥ क्र्द्_५।६२ ॥
गोविन्द-भट्टाचार्यः
युवतीनां स्तन-द्वयालिङ्गन-सम्बद्ध-कुङ्कुमारुणितम् उरः-स्थलं यस्य तम् । पुनः कीदृशं ? उक्ष-गतिं वृषभ-गतिम् । पुनः कीदृशं ? शिवः कल्याण-प्रदो यो वेणुर् वंशस् तेन समीरितं सम्पादितं यद् गानं गीतं तत्-परं तद्-आसक्तम् । पुनः कीदृशं ? स्मरेण कामेन विह्वलितम् अनायत्तम् । पुनः कीदृशं ? भुवन-त्रयस्य एकम् अद्वितीयं गुरुम् ॥ क्र्द्च्_५।६२ ॥
प्रथमोदित-पीठ-वरे विधिवत्
प्रयजेद् इति रूपम् अरूपम् अजम् ।
प्रथमं परिपूज्य तद्-अङ्ग-वृत्तिं
मिथुनानि यजेद् रसगानि ततः ॥ क्र्द्_५।६३ ॥
गोविन्द-भट्टाचार्यः
इति रूपम् अजं प्रथमोदिते पीठ-वरे पूर्व-कथित-देवता-क्ल्प्त-पीठे यजेत् अरूपं निर्गुणम् । आवरणानि दर्शयति-प्रथमम् इति । तद्-अङ्ग-वृत्तिं पूर्वोक्ताङ्गावरणं प्रथमं परिपूज्य ततस् तद्-अनन्तरं मिथुनानि केशव-कीर्त्यादीनि रासगानि रास-क्रीडा-गतानि ॥ क्र्द्च्_५।६३ ॥
दल-षोडशके स्वरम् ऊति-गणं
सह-शक्तिकम् उत्तम-रास-गतम् ।
सरमा-मदनम् स्व-कला-सहित-
मिथुनाह्वम् अथेन्द्र-पवि-प्रमुखान् ॥ क्र्द्_५।६४ ॥
गोविन्द-भट्टाचार्यः
दल-षोडशके षोडश-पत्रे पूजयेत्-मिथुनम् एव कथयति स्वर-मूर्ति-गणम् इति स्वर-भवा अकारादि-वर्ण-भवाः केशवादि-षोडश-मूर्तयः । स्वर-मूर्ति-गणं कीदृशं ? सह-शाक्तिकं कीर्त्यादि-शक्ति-सहितम् । पुनः कीदृशं ? उत्तमो यो रासः तत्र गतम् । क्वचिद् उत्तर-रास-गतम् इति पाठः । तत्र मध्य-रासे परमेश्वर-पूजा उत्तरादि-रासे केशवादिकं पूजयेत् ।
पुनः कीदृशं ? रमा श्री-बीजं मदनः काम-बीजं एताभ्यां सहितम् । पुनः कीदृशं ? स्वकीया याः कलाः षोडश-स्वराः तैः सहितम् । प्रयोगश् च-श्रीं क्लीं अं केशव-कीर्तिभ्यां नमः इत्य् आदि । पुनः कीदृशं ? मिथुनाह्वम् मिथुन-सञ्ज्ञकम् । अथानन्तरम् इन्द्र-पवि-प्रमुखान् इन्द्रादीन् वज्रादींश् च पूजयेद् इत्य् अर्थः ॥ क्र्द्च्_५।६४ ॥
पूर्वोक्तावृति-सङ्ख्या-पूर्वकं नैवेद्यं कथयति-
इति सम्यग् अमुं परिपूज्य हरिं
चतुरावृति-संवृतम् आर्द्र-मतिः ।
रजतारचिते चषके स-सितं
सुशृतं सुपयो ऽस्य निवेदयतु ॥ क्र्द्_५।६५ ॥
गोविन्द-भट्टाचार्यः
अनेन प्रकारेण चतुरावरण-वेष्टितम् अमुं हरिं सम्यक् यथाविधि सम्पूज्य श्रद्धावान् रजता-रचिते रूप्य-निर्मिते चषके पात्रे अस्य हरेः स-सितं स-शर्करं स-घृतं घृत-सहितं पाठान्तरम् । सुशृतम् आवर्तितं पयो दुग्धं निवेदयतु ॥ क्र्द्च्_५।६५ ॥
विभवे सति कांस्यमयेषु पृथक्
चषकेषु तु षोडशसु क्रमशः ।
मिथुनेषु निवेद्य पयः स-सितं
विदधीत पुरोवद् अथो सकलम् ॥ क्र्द्_५।६६ ॥
गोविन्द-भट्टाचार्यः
विभवे सति यदि तादृशम् ऐश्वर्यं भवति तदा कांस्य-घटितेषु पृथक् एकैकं षोडशस-चषकेषु क्रमेण मिथुन-गणेषु स-सितं पयो निवेद्य अथानन्तरं पुरोवत् निवेदयामि भगवते इत्य् आद्य्-उक्त-प्रकारेण सकलं पूजा-विशेषं समापयेत् ॥ क्र्द्च्_५।६६ ॥
रास-पूजा-फलम् आह-
सकल-भुवन-मोह्नं विधिं यो
नियतम् अमुं निशि निश्य् उदार-चेताः ।
भजति स खलु सर्व-लोक-पूज्यः
श्रियम् अतुलां समवाप्य यात्य् अनन्तम् ॥ क्र्द्_५।६७ ॥
गोविन्द-भट्टाचार्यः
अमुं विधिं रास-पूजा-प्रकारं सकल-भुवन-मोह्नं सकल-भुवन-वश्यकरं नियतम् अबाधेन यो निशि निशि प्रति-रजनि उदार-चेताः प्रसन्न-मनाः सन् सम्यक् भजति कुर्यात् स सर्व-लोक-पूज्यः सन् अतुलाम् अतिशयितां श्रियं समृद्धिं समवाप्य अनन्तं विष्णुं याति प्राप्नोति ॥ क्र्द्च्_५।६७ ॥
निशि वा दिनान्त-समये
प्रपूजयेन् नित्यशो ऽच्युतं भक्त्या ।
सम-फलम् उभयं हि ततः
संसाराब्धिं समुत्तितीर्षति यः ॥ क्र्द्_५।६८ ॥
गोविन्द-भट्टाचार्यः
यः पुमान् संसार-सागरं तरितुम् इच्छति सो ऽच्युतं भक्त्या निशि वा दिनान्त-समये वा सन्ध्यायां पूजयेन् नित्यशः प्रत्यहं हि यतः उभय-निशा-सन्ध्या-पूजन-द्वयं सम-फलम् ततस् तस्माद् धेतोः निशि वा दिनान्ते वा पूजयेद् इत्य् अर्थः ॥ क्र्द्च्_५।६८ ॥
उक्तम् उपसंहरति-
इत्य् एवं मनु-विग्रहं मधु-रिपुं यो वा त्रिकालं यजेत्
तस्यैवाखिल-जन्तु-जात-दयितस्याम्भोधिजा-वेश्मनः ।
हस्ते धर्म-सुखार्थ-मोक्ष-तरवः सद्-वर्ग-सम्प्रार्थिताः
सान्द्रानन्द-महा-रस-द्रव-मुचो येषां फल-श्रेणयः ॥ क्र्द्_५।६९ ॥
गोविन्द-भट्टाचार्यः
इत्य् अमुना प्रकारेण यः पुमान् मन्त्र-शरीरं मधुसूदनं त्रि-कालं वा पूजयेत् तस्य नाना-विध-प्राणि-समूह-वल्लभस्य अम्भोधिजा-वेश्मनो लक्ष्मी-निवासस्य धर्मादि-पुरुषार्थ-चतुष्टय-वृक्षा हस्ते भवन्तीति शेषः । कीदृशाः ? सतां वर्गः समूहः तेन प्रार्थिताः । संसर्गीति पाठे ससर्गिभिर् निकटस्थैर् यद्यपि मोक्षस्य फलं नास्ति तथापि मोक्ष-पदेन तद्-धेतु-भूतं तत्त्व-ज्ञानम् उक्तं येषां वृक्षाणां फल-पङ्क्तयः नित्यानन्द-ब्रह्म स्वरूप-महा-रस-द्रवदाः ॥ क्र्द्च्_५।६९ ॥
अथोच्यते पूर्व-समीरितानां
पूजावसाने परम् अस्य पुंसः ।
कल्पस् तु काम्येष्व् अपि तर्पणानां
विनापि पूजां खलु यैः फलं तत् ॥ क्र्द्_५।७० ॥
गोविन्द-भट्टाचार्यः
अथानन्तरं परमस्य पुंसः श्री-गोपाल-कृष्णस्य पूजावसाने पूजानन्तरं पूर्व-समीरितानां शीमन्-मुख-इत्य्-आदि-कथितानां नित्य-तर्पणानां कल्पः प्रकारः काम्येष्व् अपि तर्पणेषु प्रकार उच्यते यैस् तर्पणैः पूजां विनापि तत्-फलं पूजा-फलं प्राप्नोति यथा-पूजा तथैव तर्पणम् ॥ क्र्द्च्_५।७० ॥
सन्तर्प्य पीठ-मन्त्रैः सकृत् प्रथमम् अच्युतं तत्र ।
आवाह्य पूजयेत् तं तोयैर् एवाखिलैः समुपहारैः ॥ क्र्द्_५।७१ ॥
गोविन्द-भट्टाचार्यः
प्रथमं पीठ-मन्त्रैर् आधार-शक्त्यादि-मन्त्रैः पीठाङ्ग-भूत-देवतां सकृत्-सकृद् एकैक-वारं सन्तर्प्य अनन्तरं तत्र तोय-मये पीठे अच्युतम् आवाह्य जलैर् एव गन्धादि-सकलोपचारात्मकैः पूजयेत् ॥ क्र्द्च्_५।७१ ॥
बद्ध्वाथ धेनु-मुद्रां तोयैः सम्पाद्य तर्पण-द्रवम् ।
तद् बुद्ध्याञ्जलिना तं सुवर्ण-चषकी-कृतेन तर्पयतु ॥ क्र्द्_५।७२ ॥
गोविन्द-भट्टाचार्यः
ततो धेनु-मुद्रां बद्ध्वा तोयैस् तर्पणाढ्यं सम्पाद्य तद्-द्रव्य-रूपतया तोयं भावयित्वा तद्-बुद्ध्या तत्-कथित-द्रव्य-तर्पण-द्रव्य-बुद्ध्या तं कृष्णं तर्पयतु केनाञ्जलिना कीदृशेन सुवर्ण-चषकतया विचिन्तितेनेत्य् अर्थः ॥ क्र्द्च्_५।७२ ॥
विंशतिर् अष्टोपेता काल-त्रय-तर्पणेषु सङ्ख्योक्ता ।
भूयः स्वकाल-विहितान् सकऋत् तर्पयेच् च परिवारान् ॥ क्र्द्_५।७३ ॥
गोविन्द-भट्टाचार्यः
काल-त्रय-तर्पणेषु त्रिकाल-तर्पणेषु एकस्मिन् काले ऽष्तोपेता अष्टाविंशतिः तर्पणस्य सङ्ख्योक्ता पुनः स्व-काल-विहितान् स्वस्मिन् प्रातर् मध्याह्नादौ ये ये विहिताः परिवारा आवरण-देवतास् तान् सकृद् एकैक-वारं सन्तर्पयेत् ॥ क्र्द्च्_५।७३ ॥
काल-त्रयस्य तर्पण-द्रव्यम् आह-
प्रातर् दधि-गुड-मिश्रं मध्याह्ने पायसं स-नवनीतम् ।
क्षीरं तृतीय-काले ससितोपलम् इत्य् उदीरितं द्रव्यम् ॥ क्र्द्_५।७४ ॥
गोविन्द-भट्टाचार्यः
गुड-सहितं दधि प्रातः-काले नवनीत-सहितं पायसं मध्याह्ने ससितोपलम् शर्करा-विकार-सहितं क्षीरं तृतीय-काले इत्य् अमुना प्रकारेण द्रव्यं तर्पण-द्रव्यं कथितम् ॥ क्र्द्च्_५।७४ ॥
तर्पण-मन्त्रम् आह-
तर्पयामि-पदं योज्यं मन्त्रान्ते स्वेषु नामसु ।
द्वितीयान्तेषु तु ततः पूजाशेषं समापयेत् ॥ क्र्द्_५।७५ ॥
गोविन्द-भट्टाचार्यः
मन्त्रान्ते मूल-मन्त्रावसाने स्वकीयानि तर्पणीय-देवतानां नामानि तेषु तत्-समीपेषु द्वितीयान्तेषु अमुक-देवताम् इत्य् आदि-रूपेषु तर्पयामीति-पदं योज्यम् अनन्तरं पूजाशेषं समापयेत् ॥ क्र्द्च्_५।७५ ॥
उत्तर-कृत्यम् आह-
अभ्युक्ष्य तत्-प्रसादाद्भिर् आत्मानं प्रतिवेदपः ।
तज् जप्त्वा तम् अथोद्वास्य तन्-मयः प्रजपेन् मनुम् ॥ क्र्द्_५।७६ ॥
गोविन्द-भट्टाचार्यः
तत्-प्रसादाद्भिः परमेश्वर-प्रसाद-तत्-तर्पण-जलैः आत्मानं शरीरं सिक्त्वा तज् जप्त्वा मन्त्रं जप्त्वा अपः प्रपिबेत् । अथानन्तरं तं देवम् उद्वास्य स्व-हृदये संयोज्य तन्-मयः सन्-मन्त्रं जपेत् ॥ क्र्द्च्_५।७६ ॥
स-प्रकारं स-द्रव्यं काम्यं तर्पणम् आह-
अथ द्रव्याणि काम्येषु वक्ष्यन्ते तर्पणेषु तु ।
तानि प्रोक्त-विधानानाम् आश्रित्यान्यतरं भजेत् ॥ क्र्द्_५।७७ ॥
गोविन्द-भट्टाचार्यः
अथानन्तरं काम्येषु तर्पणेषु यानि नारदादिभिः कथितानि द्रव्याणि तानि वक्ष्यन्ते प्रोक्त-विधानानाम् त्रिकालोक्त-विधानानाम् अनन्तरम् एकं विधानम् आश्रित्य काम्य-तर्पण-कर्म भजेत् ॥ क्र्द्च्_५।७७ ॥
द्रव्यैः षोडशभिर् अमुं प्रतर्पयेद् एकशश् चतुर्-वारम् ।
स चतुः-क्षीराद्य्-अन्तैः सकृज्-जलाद्य्-अन्तम् अच्युतं भक्त्या ॥ क्र्द्_५।७८ ॥
गोविन्द-भट्टाचार्यः
षोडशभिर् द्रव्यैर् अमुं श्री-कृष्णम् एकशश् चतुर्-वारम् तद्-द्रव्य-बुद्ध्या जलैर् एव तर्पयेत् । कीदृशैः ? चत्वारि क्षीराणि आद्यं येषां तैः । षोडश-द्रव्याणाम् आदौ दुग्धाञ्जलि-चतुष्टयम् अन्ते च चतुष्टयम् इत्य् अर्थः । सकृज्-जलाद्य्-अन्तम् इति क्रिया-विशेषणम् । तथा च प्रथमम् एक-वारं जलेन ततश् चतुर्वारं ततः चतुर्वारं क्षीरैः ततः सकृज् जलेन इति पर्यवसन्नम् ॥ क्र्द्च्_५।७८ ॥
षोडश-द्रव्याण्य् आह-पायसम् इति ।
पायस-दाधिक-कृसरं गौडान्नपयोदधीनि नवनीतम् ।
आज्यं कदलीमोचारजस्वलाचोचमोदकापूपम् ॥ क्र्द्_५।७९ ॥
गोविन्द-भट्टाचार्यः
पृथुकं लाजोपेतं द्रव्याणां कथितम् इह षोडशकम् ।
लाजान्ते ऽन्त्य-क्षीरात् प्राक् समर्प्य सितोपला-पुञ्जैः ॥ क्र्द्_५।८० ॥
पायसं परमान्नम् । दाधिकं दध्ना परिष्कृतम् अन्नम् । कृसरं मुद्गौदनं गौडान्नं गुडोदक-पक्वम् अन्नम् । पयो दुग्धं दधि प्रसिद्धं नवनीतम् आज्यं घृतं कदली चम्पा-कदली मोचा स्वर्ण-कदली रजस्वला कदली-विशेषः । चोचो ऽपि कदली-विशेषः । मोदको लड्डुकः । अपूपम् पूलिका पृथक् चिपिटकं लाज-समेतं लाज-सहितम् इति द्रव्याणां षोडशकं कथितम् इह ग्रन्थेति लाजेति । लाज-तर्पणानन्तरम् अन्त्य-चतुः-क्षीर-तर्पणात् पूर्वं सितोपला-पुञ्जैः श्वेत-शर्करा-समूहैः भावनया तोय-भावापन्नैः सकृत् सन्तर्पयेत् ॥ क्र्द्च्_५।७९-८० ॥
उक्त-काम्य-तर्पणस्य फलम् आह-
प्रगे चतुः-सप्तति-वारम् इत्य् अमुं
प्रतर्पयेद् यो ऽनुदिनं नरो हरिम् ।
अनन्यधीस् तस्य समस्त-सम्पदः
करे स्थिता मण्डलतो ऽभिवाञ्छिताः ॥ क्र्द्_५।८१ ॥
गोविन्द-भट्टाचार्यः
इत्य् अनेन प्रकारेण प्रगे प्रातः-काले चतुः-सप्तति-वारम् अमुं हरिं कृष्णं यो नरो ऽनुदिनं प्रत्यहम् अनन्य-धीः एकाग्र-चित्तः सन् सन्तर्पयेत् तस्य पुंसः मण्डलतः एकोनपञ्चाशद्-दिवसात् अर्वाग् इति त्रिपाठिनः अष्ट-चत्वारिंशद्-दिवसाभ्यन्तर इति लघु-दीपिका-कारः । पञ्चत्रिंशद्-दिवसाभ्यन्तर इति रुद्रधरः । अभिवाञ्छिता आकाङ्क्षिताः सकल-सिद्धि-समृद्धयः हस्त-स्थिता भवन्ति अत्र सितोपला-पुञ्जस्य गणना न कार्या ॥ क्र्द्च्_५।८१ ॥
काम्य-तर्पणानन्तरम् आह-
धारोष्ण-पक्व-पयसी-दधि-नवनीते घृतं च दौग्धान्नम् ।
मत्स्यण्डी-मध्व्-अमृतं द्वादशशः तर्पयेन् नवभिर् एभिः ॥ क्र्द्_५।८२ ॥
गोविन्द-भट्टाचार्यः
धारोष्णं पयः तदानीन्तनम् एव निष्पादितं दुग्धं तथा पक्वम् पयः साधितं दुग्धं धारोष्ण-पक्वे च पयसी च अमू धारोष्ण-पक्व-पयसी । दधि प्रसिद्धं नवनीतं घृतं दौग्धान्नं पायसं मत्स्यण्डी शर्करा-विशेषः स-शर्करं विनष्ट-दुग्धम् इति त्रिपाठिनः । मधु प्रसिद्धम् अमृतम् एतैर् नवभिर् द्रव्यैर् द्वादशश-वारं तर्पयेत् ॥ क्र्द्च्_५।८२ ॥
एतस्य फलम् आह-
तर्पण-विधिर् अयम् अपरः पूर्वोदित-सम-फलो ऽष्तश-सङ्ख्यः ।
कार्मण-कर्मणि कीर्तौ जन-संवनने विशेषतो विहितः ॥ क्र्द्_५।८३ ॥
गोविन्द-भट्टाचार्यः
अयं तर्पण-प्रकारः पूर्वोक्त-तर्पण-प्रकाराद् भिन्नः । कीदृशः ? पूर्व-कथित-तर्पण-फल-सम-फलः । पुनः कीदृशः ? अष्टोत्तर-शत-प्रमाणकः ततो नवभिर् द्रव्यैर् द्वादश-कृत्वा तर्पणेनाष्टोत्तर-सङ्ख्या भवति । पुनः कीदृशः ? कार्मण-कर्मणि वश्य-करण-कर्मणि तथा कीर्तौ सत्-कथायां जन-संवनने लोक-वशी-करणे लोक-प्रियत्वेन वा विशेषेण विहितः ॥ क्र्द्च्_५।८३ ॥
तर्पणानन्तरम् आह-
सखण्ड-धारोष्ण-धियामुकुन्दं
व्रजन् पुर-ग्रामम् अपि प्रतर्प्य ।
लभेत भोज्यं सरसं स-भृत्यैर्
वासांसि धान्यानि धनानि मन्त्री ॥ क्र्द्_५।८४ ॥
गोविन्द-भट्टाचार्यः
सखण्ड-धारोष्ण-धियामुकुन्दं व्रजन् पुर-ग्रामम् अपि प्रतर्प्य लभेत भोज्यं सरसं स-भृत्यैर् वासांसि धान्यानि धनानि मन्त्री ॥ क्र्द्च्_५।८४ ॥
तर्पणस्याशेष-फल-दातृतां तर्पणोत्तर-कृत्यं च दर्शयति-
यावत् सन्तर्पयेन् मन्त्री तावत्-सङ्ख्यं जपेन् मनुम् ।
तर्पणेनैव कार्याणि साधयेद् अखिलान्य् अपि ॥ क्र्द्_५।८५ ॥
गोविन्द-भट्टाचार्यः
अखिलानि समस्तानि कार्याणि वाञ्छितानि तर्पणेनैव विनापि पूजा-होमं साधयेत् । अत्र यावत्-सङ्ख्यं तर्पणं करोति तावत्-सङ्ख्यं मन्त्रं जपेत् ॥ क्र्द्च्_५।८५ ॥
प्रयोगान्तरम् आह-
द्विजोभिक्षावृत्तिर् य इह दिनशो नन्द-तनयः
स्वयं भूत्वा भिक्षाम् अटति विहरन् गोप-सुदृशाम् ।
अमा चेतोभिः स्व्वैर् ललित-ललितैर् नर्म-विधिभिर्
दधि-क्सीराज्याढ्यां प्रचुरतर-भिक्षां स लभते ॥ क्र्द्_५।८६ ॥
गोविन्द-भट्टाचार्यः
भिक्षा-वृत्तिर् जीवनोपायो यस्य स द्विजो त्रैवर्णिको दिनशः प्रतिदिनं स्वयं नन्द-तनयो भूत्वा तद्-रूपेणात्मानं विचिन्त्य इह भिक्षाम् अटति याचते । किं कुर्वन् ? स्वकीयैर् ललित-ललितैः अतिमनोहरैः नर्म-विधिभिः क्रीडा-कर्मभिर् गोप-सुदृशां गोप-स्त्रीणां चेतोभिः सार्धं विहरन् अमा-शब्दः सहार्थे स-दधि-दुग्ध-घृत-प्रचुरां बहु-भिक्षां प्राप्नोति ॥ क्र्द्च्_५।८६ ॥
मध्ये कोणेषु षट्स्व् अप्य् अनल-पुटस्यालिखेत् कर्णिकायां
कन्दर्पं साध्य-युक्तं विवर-गत-षड्-अर्णं द्विशः केशरेषु
शक्ति-श्री-पूर्वकानि द्वि-नव-लिपि-मनोर् अक्षराणि च्छदानां
मध्ये वर्णान् दशानां दश-लिपि-मनु-वर्यस्य चैकेकशो ऽब्जम् ॥ क्र्द्_५।८७ ॥
गोविन्द-भट्टाचार्यः
दश-दल-पद्मं विलिख्य कर्णिकायां षट्-कोणं वह्नि-गृहं विलिख्य वह्नि-गृह-युग्मस्य मध्ये षट्-कोणेषु विलिखेत् । लेखन-प्रकारम् आह-कर्णिकायां मध्ये साध्य-नाम-सहितम् अमुकस्यामुकं सिध्यत्व् इत्य् अनेन सहितं कन्दर्पं काम-बीजं विलिखेत् । तथा विवर-गतं षड्-अर्णं षट्-कोण-गत-वक्ष्यमाण-षड्-अक्षरं विलिखेत् तथा केशरेषु दश-दल-मूलेषु द्विशः द्वौ द्वौ कृत्वा द्वि-नव-लिपि-मनोर् अष्टादशाक्षर-मन्त्रस्य शक्ति-श्री-पूर्वकानि भुवनेश्वरी-बीज-श्री-बीजाद्यान्य् अक्षराणि विलिखेत् । तथा दशानां पात्राणां मध्ये दश-लिपि-मनु-वर्यस्य दशाक्षर-मन्त्र-श्रेष्ठस्य वर्णान् एकैकशो विलिखेत् ततो ऽब्जं पद्मम् ॥ क्र्द्च्_५।८७ ॥
भू-सद्मनाभिवृतम् अस्रगमन्मथेन
गोरोचनाभिलिखितं तपनीय-सूच्या ।
पट्टे हिरण्य-रचिते गुलिकी-कृतं तद्
गोपाल-यन्त्रम् अखिलार्थदम् एतद् उक्तम् ॥ क्र्द्_५।८८ ॥
गोविन्द-भट्टाचार्यः
भू-बिम्बेन चतुर्-अस्रेण वेष्टितं कुर्यात् । कीदृशेन ? भू-सद्मना अस्रग-मन्मथेन कोण-गत-काम-बीजेन एतद् अखिलार्थदं गोपाल-यन्त्रम् उक्तं कीदृशम् ? सुवर्ण-शलाकया गोरोचनादिना सुवर्ण-रचिते पट्टे लिखितम् । अनन्तरं वर्तुलीकृतम् ॥ क्र्द्च्_५।८८ ॥
सम्पात-सिक्तम् अभिजप्तम् इदं महद्भिर्
धार्यं जगत्-त्रय-वशीकरणैक-दक्षम् ।
रक्षा-यशः-सुत-मही-धन-धान्य-लक्ष्मी
सौभाग्य-लिप्सुभिर् अजस्रम् अनर्घ्य-वीर्यम् ॥ क्र्द्_५।८९ ॥
गोविन्द-भट्टाचार्यः
इदं मन्त्रं सम्पात-सिक्तम् आहूति-दान-शेष-पुरः-स्थित-घृत-सिक्तं तथा मन्त्रेणाभिमन्त्रितम् रक्षा-भय-निवारणं यशः सत्-कथा-प्रकाशः सुतः पुत्रः मही पृथिवी धनं सुवर्णादि लक्ष्मीः सर्व-सम्पत्तिः सौभाग्यं सर्व-जन-प्रियत्वम् एतत् प्राप्तुम् इच्छद्भिर् महद्भिः शौच-युक्तैः सततं धारणीयम् । अयम् अर्थः-यथोक्तं यन्त्रं सम्पाद्य प्राण-प्रतिष्ठां कृत्वा पञ्चामृतादिभिः अभिषिच्य अष्टोत्तर-शतं सहस्रं वा सम्पात-घृत-सिक्तं कृत्वा यथोक्त-सङ्ख्यं जप्त्वा धारयेद् इति कीदृशं ? जगत्-त्रय-वशीकरणैक-कुशलम् । पुनः अनर्घ्य-वीर्यं महा-प्रभावम् ॥ क्र्द्च्_५।८९ ॥
यन्त्रस्य दर्शयति धारणाद् अन्यत्राप्य् उपयोगम्-
भूतोन्मादापस्मृति-विष-मूर्च्छा-विभ्रम-ज्वरार्तानाम् ।
ध्यायन् शिरसि प्रजपेन् मन्त्रम् इमं झटिति शमयितुं विकृतिम् ॥ क्र्द्_५।९० ॥
गोविन्द-भट्टाचार्यः
भूतः शम्शान-देश-वर्ती अदृश्य-रूपो ऽनिष्ट-कारी उन्मादश् चित्त-विभ्रमः अपस्मृतिर् अपस्मारण-योगः विषं मूर्छाकारि-स्थावरं जङ्गमं च मूर्च्छा अचेष्टा विभ्रमः प्रसादः ज्वरो रोग-विशेषः एतैर् आर्तानां पीडितानां शिरसि मस्तकोपरि इदं यन्त्र-रूपं ध्यायन् इमं गोपाल-मन्त्रं जपेत् किं कर्तुम् ? विकृतिं झटिति शीघ्रं शमयितुं नाशयितुम् ॥ क्र्द्च्_५।९० ॥
यन्त्रे षड्-अक्षर-मन्त्रम् उद्धरति-
स्मर-त्रिविक्रमाक्रान्तश् चक्रीष्णाय-हृद् इत्य् असौ ।
षड्-अक्षरो ऽयं सम्प्रोक्तः सर्व-सिद्धि-करो मनुः ॥ क्र्द्_५।९१ ॥
गोविन्द-भट्टाचार्यः
स्मरः काम-बीजं त्रिविक्रमः ऋ-कारः तेन क्रान्तः सम्बद्धः चक्री क-कारः तथा कृ इति ष्णायेति स्वरूपं हृन् नमः इत्य् अनेन प्रकारेणासौ षड्-अक्षरो ऽयं मन्त्रः सम्प्रोक्तः सर्व-सिद्धि-करः अखिल-कामदः ॥ क्र्द्च्_५।९१ ॥
शक्ति-बीजम् उद्धरति-
क्रोडो ऽग्नि-दीप्तो मायावी-लव-लाञ्छित-मस्तकः ।
सैषा शक्तिः परा सूक्ष्मा नित्या संवित्-स्वरूपिणी ॥ क्र्द्_५।९२ ॥
गोविन्द-भट्टाचार्यः
क्रोडो ह-कारः । कीदृशः ? अग्निना रेफेण दीप्तः । पुनः मायावी दीर्घ-ई-कारः तद्-युक्तः । पुनः लवेन बिन्दुना लाञ्छितं मस्तकं यस्य सः । तथा सानुस्वार इत्य् अर्थः । एषा शक्तिः परा उत्कृष्टा सूक्ष्मा मृणाल-तन्तु-सदृशी नित्या जन्म-नाश-रहिता संवित्-स्वरूपिणी स्व-प्रकाश-स्वरूपिणी ॥ क्र्द्च्_५।९२ ॥
श्री-बीजम् उद्धरति-
अस्थ्य्-अग्नि-गोविन्द-लवैर् लक्ष्मी-बीजं समीरितम् ।
आभ्याम् अष्टादश-लिपिः स्याद् विंशत्य् अक्षरो मनुः ॥ क्र्द्_५।९३ ॥
गोविन्द-भट्टाचार्यः
अस्थि श-कारः अग्निः रेफः गोविन्दो दीर्घ-ई-कारः लवो बिन्दुः एतैः संयुक्तैः श्री-बीजं समीरितं कथितम् । आभ्याम् शक्ति-श्री-बीजाभ्यां सहितः पूर्वोक्ताष्टादशाक्षर-मन्त्रः विंशत्य् अक्षरो भवति ॥ क्र्द्च्_५।९३ ॥
परमेश्वर-पूजा-स्थान-नियतिं दर्शयति-
शालग्रामे मणौ यन्त्रे मण्डले प्रतिमासु च ।
नित्यं पूजा हरेः कार्या न तु केवल-भूतले ॥ क्र्द्_५।९४ ॥
गोविन्द-भट्टाचार्यः
शालग्रामे प्रसिद्धे मणौ गोमेद-पद्मरागादौ यन्त्रे ऽस्मिन्न् एव गोपाल-यन्त्रे मण्डले सर्वतो-भद्रादौ सोम-सूर्याग्नि-मण्डले वेति रुद्रधरः । प्रतिमासु सुवर्णादि-गोपाल-प्रतिमायाम् । अत्र हरेर् नित्यं सर्वदा पूजा कार्या न तु केवलायां भूमौ ॥ क्र्द्च्_५।९४ ॥
कथित-प्रकाराणां फलं दर्शयति-
इति जप-हुत-पूजा-तर्पणाद्यैर् मुकुन्दं
य इह भजति मवोर् एकम् आश्रित्य नित्यम् ।
स तु सुचिरम् अयत्नात् प्राप्य भोगान् विशेषान्
पुनर् अमलतरन्तद्धाम विष्णोः प्रयाति ॥ क्र्द्_५।९५ ॥
गोविन्द-भट्टाचार्यः
इति श्री-केशव-भट्टाचार्य-विरचितायां क्रम-दीपिकायां पञ्चमः पटलः ।
इति कथित-प्रकारैर् जप-होम-पूजा-तर्पणैः आदि-पदाद् अभिषेकादिना यो मुकुन्दं नित्यं सेवते । किं कृत्वा ? मन्वोर् दशाष्टादशाक्षरयोर् एकं गृहीत्वा इह लोके अयत्नात् सुचिरं सर्व-कालं सर्वान् भोगान् प्राप्य पुनर् अन्ते प्रसिद्धं निर्मलं तेजः प्राप्नोति तद्-धामाभवतीत्य् अर्थः ॥ क्र्द्च्_५।९५ ॥
इति श्री-विद्याविनोद-गोविन्द-भट्टाचार्य-विरचिते क्रम-दीपिकाया विवरणे
पञ्चमः पटलः
॥५॥
(६)