अथ मन्त्र-जपादौ दीक्षितस्यैवाधिकारः तद्-उक्तम् आगमान्तरे -
द्विजानाम् अनुपेतानां स्व-कर्माध्ययनादिषु ।
यथाधिकारो नास्तीह स्याच् चोपनयनाद् अनु ॥
तथात्रादीक्षितानां तु मन्त्रदेवार्चनादिषु ।
नाधिकारो ऽस्त्य् अतः कुर्याद् आत्मानं शिवसंस्तुतम् ॥ इति ।
अतो मन्त्र-जप-प्रधानाङ्ग-भूतां दीक्षां कथयामीत्य् आह-
कथ्यते सपदि मन्त्र-वर्ययोः
साधनं सकल-सिद्धि-साधनम् ।
यद् विधाय मुनयो महीयसां
सिद्धिम् ईयुर् इह नारदादयः ॥ क्र्द्_४।१ ॥
गोविन्द-भट्टाचार्यः
सपदि साम्प्रतं मनु-वर्ययोः दशाक्षराष्टाक्षरयोः साध्यते वाञ्छितम् अनेनेति । साधनं दीक्षणं कथ्यते । कीदृशम् ? सकल-फल-साधनं यत् कृत्वा नारदादयो मुनयः महतीं सिद्धिम् इह जगति प्राप्तवन्तः ॥ क्र्द्च्_४।१ ॥
-ओ)ओ(ओ-
दीक्षाया गुरु-साध्यत्वादौ गुरु-लक्षणम् आह-
विप्रं प्रध्वस्त-काम-प्रभृति-रिपु-घटं निर्मलाङ्गं गरिष्ठां
भक्तिं कृष्णाङ्घ्रि-पङ्केरुह-युगल-रजोरागिणीम् उद्वहन्तम् ।
वेत्तारं वेद-शास्तागम-विमल-पथां सम्मतं सत्सु दान्तं
विद्यां यः संविवित्सुः प्रवण-तनु-मना देशिकं संश्रयेत ॥ क्र्द्_४।२ ॥
गोविन्द-भट्टाचार्यः
यो विद्यां संविवितुर् मन्त्रं सम्यक् ज्ञातुम् इच्छति स एतादृशं देशिकं गुरुं संश्रयेत् सेवेत । कीदृशम् ? विप्रं ब्राह्मण-जातम् उपदेशे क्षत्रियादेर् अनधिकारात् ।
पुनः कीदृशम् ? प्रकर्षेण दूरीभूता कामाद्य्-अरि-षड्-वर्ग-घटा तया पूतं शरीरं यस्य तथा तं काम-क्रोधौ लोभ-मोहौ मद-मत्सरौ एते रिपवः कामादयः लोभाद्य्-उपहत-चित्तस्य निरन्तरं प्रत्यवायोत्पत्त्या सेव्यत्वाभावात् ।
पुनः कीदृशम् ? श्री-कृष्ण-चरण-कमल-युगले यद्-रजस्- तत्र राग-युक्ताम् अतिशायितां भक्तिं धारयन्तम् अभ्यक्तस्य पुरुषार्थानवाप्तेः ।
पुनः कीदृशम् ? वेद-शास्त्रागम-सम्बन्धि-विमल-मार्गाणां ज्ञातारम् अन्यथा आगम-शास्त्र-विचारानुपपत्तेः । पुनः कीदृशम् ? सत्सु जनेषु मध्ये सम्मतं सज्जनत्वेन प्रसिद्धम् अन्यथा खलत्वात् शुश्रूषानर्हत्वात् सच्-छब्दार्थ एव न स्यात् ।
पुनः किम्भूतम् ? दान्तं वशीकृतेन्द्रियम् अवशीकृतेन्द्रियस्य देवता-पराङ्मुखत्वात् । कीदृशः ? प्रणतानम्रा विनीतातनुः कायो मनो हृदयं च यस्य स तथा अत्राधिकं मत्-कृत-शारद-तिलके ऽवगन्तव्यम् ॥ क्र्द्च्_४।२ ॥
सनातनः (ह्ब्व् १।३४) - निर्मलाङ्गं व्याधि-रहितम्, वेद-शास्त्रागमानां ये विमलाः पन्थानो मार्गास् तेषां वेत्तारम् । सत्सु सतां मतं सम्मतम् । विद्यां संसार-दुःख-तरणाद्य्-उपायं मन्त्रम् । प्रवणा नम्रा विनीता देशिकैक-परा वा तनुर् मनश् च यस्य तथाभूतः सन् । देशिकं गुरुम् । एवं प्रवण-तनु-मनस्-त्वादि श्रुत्य्-उक्त-समित्पाणित्वादि च गुरूपसत्तेर् आद्य-प्रकारो ज्ञेयः ॥ क्र्द्च्_४।२ ॥
-ओ)ओ(ओ-
गुरु-सेवा-प्रकारम् आह-
सन्तोषयेद् अकुटिलाद्रेतरान्तरात्मा
तं स्वैर् धनैश् च वपुषाप्य् अनुकूलवाण्या ।
अब्द-त्रयङ्कमलनाभधियाऽतिधीरस्
तुष्टे विवक्षतु गुराव् अथ मन्त्र-दीक्षाम् ॥ क्र्द्_४।३ ॥
गोविन्द-भट्टाचार्यः
अथानन्तरम् उक्त-लक्षणं गुरुं वत्सर-त्रयं पद्मनाभ-बुद्ध्या सन्तोषयेत् । कैः ? स्वीय-द्रव्यैः तथा शरीरेण तथा प्रिय-वचनेन । कीदृशः ? सुधीरः पण्डितः । पुनः कीदृशः ? अवक्रो ऽतिस्निग्धो अन्तरात्मा अन्तःकरणं यस्य स तथा अथानन्तरं तुष्टे गुरौ मन्त्र-दीक्षां विवक्षतु वक्तुम् इच्छतु शिष्य एव यत् त्व् अन्यत्रोक्तम् -
एकाब्देन भवेद् विप्रो भवेद् अब्द-द्वयान् नृपः ।
भवेद् अब्द-त्रयैर् वैश्यः शूद्रो वर्ष-चतुष्टयैः ॥ इति ।
अन्यथा तु -
त्रिषु वर्षेषु विप्रस्य षड्-वर्षेषु नृपस्य च ।
विशो नवसु वर्षेषु परीक्षेतेति शस्यते ।
समास्व् अपि द्वादशसु तेषां ये वृषलादयः ॥ इति बोद्धव्यम् ।
विहित-नक्षत्रादिकं मत्-कृत-शारदा-तिलकोद्योते बोद्धव्यम् ॥ क्र्द्च्_४।३ ॥
-ओ)ओ(ओ-
कलावत्य्-आदि-भेदेन दीक्षाया बहु-विधत्वात् मया पुनर् अत्र प्रपञ्च-सारोक्ता क्रियावती दीक्षैव सङ्क्षेपेण प्रदर्श्यते इत्य् आह-
प्रपञ्च-सार-प्रथिता तु दीक्षा
संस्मार्यते सम्प्रति-सर्व-सिद्ध्यै ।
ऋते यया सन्तत-जापिनो ऽपि
सिद्धिं न वै दास्यति मन्त्र-पूगः ॥ क्र्द्_४।४ ॥
गोविन्द-भट्टाचार्यः
सम्प्रति दीक्षा क्रियावती संस्मार्यते तस्याः स्मरण-मात्रं क्रियते न तु सम्यग् अभिधीयते । अत्र हेतुः यतः प्रपञ्च-सारे विविच्योक्ता । किम् अर्थम् अभिधीयते ? सर्वेषां फलानां प्राप्त्यै यया दीक्षया विना सर्वदा जप-कर्तुः पुरुषस्य मन्त्र-समूहः फलं यस्मान् न ददाति । यद् आहुः -
मन्त्र-वर्गानुसारेण साक्षात्-कृत्येष्ट-देवताम् ।
गुरुश् चेद् बोधयेच् छिष्यं मन्त्र-दीक्षेति सोच्यते ॥ इति ।
-ओ)ओ(ओ-
अथ शोधित-शालादि-स्थाने मण्डप-पूर्व-कृत्यं वास्तु-बलिम् आह-
अथ पुरो विदधीत भुवः स्थलीम्
अधि यथाविधि वास्तु-बलिं बुधः ।
अचल-दोर्-मितम् अत्र तु मण्डपं
मसृण-वेदिकम् आरचयेत् ततः ॥ क्र्द्_४।५ ॥
अथानन्तरं प्रथमं भुवः स्थलीम् अधि पृथिव्याम् उपरि यथाविधि यथोक्त-प्रकारेण वास्तु-बलिं बुधो पुरो दद्यात् । अत्र बलि-दानादि-विधिश् च मत्-कृत-शारद-तिलकोद्द्योते बोद्धव्यः । ततस् तद्-अनन्तरम् अत्र संस्कृत-भूमौ मण्डपं कुर्यात् । कीदृशम् ? अचल-दोर्-मितम् सप्त-हस्त-परिमितम् । तु-शब्दो अनुक्त-समुच्चयार्थः । तेन पञ्च-हस्त-परिमितं नव-हस्त-मितं चेति बोद्धव्यम् । पुनः कीदृशं ? मसृण-वेदिकं चिक्कण-वेदिकम् उक्तृष्ट-वेदिकम् इत्य् अर्थः ॥ क्र्द्च्_४।५ ॥
त्रिगुण-तन्तु-युजा कुश-मालया
परिवृतं प्रकृति-ध्वज-भूषितम् ।
मुख-चतुष्क-पयस्-तरु-तोरणं
सित-वितान-विराजितम् उज्ज्वलम् ॥ क्र्द्_४।६ ॥
गोविन्द-भट्टाचार्यः
पुनः कीदृशं ? कुश-मालया वेष्टितम् । किम्भूतया ? श्वेत-रक्त-श्याम-वर्ण-तन्तु-युक्तया यद् वा त्रिगुणी-कृत-सूत्र-युक्तया । पुनः कीदृशं ? अष्टभिर् ध्वजैर् शोभितं प्रकृतिर् अष्ट-सङ्ख्यया । पुनः कीदृशं ? मुख-चतुष्के द्वार-चतुष्टये पयस्-तरुभिर् क्षीर-वृक्षैः तोरणं बहिर् द्वारं यत्र तादृशम् । क्षीर-वृक्षास् तु अश्वत्थोदुम्बर-प्लक्ष-न्यग्रोधाख्याः । पुनः कीदृशं ? शुभ्र-चन्द्रातपेन शोभितम् । पुनः कीदृशं ? उज्ज्वलं निर्मलम् ॥ क्र्द्च्_४।६ ॥
कुण्ड-विधिम् आह-
वसु-त्रिगुणिताङ्गुल-प्रमित-खात-तारायातं
वसोर् वसुपतेर् अथो ककुभि-धिष्ण्यम् अस्मिन् बुधः ।
करोतु वसु-मेखलं वसु-गणार्ध-कोणं प्रतीच्य्-
अवस्थित-गजा-धर-प्रतिम-योनि-संलक्षितम् ॥ क्र्द्_४।७ ॥
गोविन्द-भट्टाचार्यः
अथानन्तरम् अस्मिन् मण्डपे बुधः वसोर् वह्नेर् धिष्ण्यं कुण्डं करोतु । कीदृशं ? वसुर् अष्ट-सङ्ख्या अष्टौ वसवः इति प्रसिद्धेः । तेषां वसूनां त्रिगुणानि चतुर्विंशाङ्गुलानि, तैः प्रमितं तत्-प्रमाणं खातस्य गर्तस्य उच्चत्वं विस्तारश् च यत्र तादृशम् । कुत्र ? वसुपतेः कुबेरस्य ककुभि दिशि उत्तरस्याम् । पुनः कीदृशं ? वसु-मेखलम् । अत्र वसु-शब्देन अग्निर् उच्यते । स च गार्हपत्याहवनीयेत्य् आदि त्रिविधः । पुनः कीदृशं ? वसु-गणार्ध-कोणं चतुष्कोणम् । पुनः कीदृशं ? पश्चिम-दिश्य् अवस्थितं गजो ऽष्त-सदृश-द्वादशाङ्गुलायामा या योनिस् तया भूषितम् । तद् उक्तम्-द्वादशाङ्गुलि-रूपत्वाद् योनिः स्याद् द्वादशाङ्गुलिः इति । अपरो ऽत्र विशेषः शारदा-तिलकतो ऽवगन्तव्यः
॥ क्र्द्च्_४।७ ॥
अधुना राशि-मण्डल-विधिम्-
ततो मण्डपे गव्य-गन्धाम्बु-सिक्ते
लिखेन् मण्डलं सम्यग् अष्ट-च्छदाब्जम् ।
स-वृत्त-त्रयं राशि-पीठाङ्घ्रि-वीथि-
चतुर्धार-शोभोपशोभास्र-युक्तम् ॥ क्र्द्_४।८ ॥
गोविन्द-भट्टाचार्यः
ततो मण्डपानन्तरम् अस्मिन् मण्डपे सम्यक् यथोक्त-प्रकारेण मण्डलं लिखेत् । कीदृशे ? गव्यैः पञ्च-गव्यैः शारदा-तिलकोक्त-वैष्णव-गन्धाष्टक-जलेन प्रोक्षिते । कीदृशं ? अष्ट-दल-पद्म-सहितम् । पुनः कीदृशं ? वृत्त-त्रय-सहितम् । पुनः राशयो मेषादयः पीठं कलस-स्थापन-स्थानं तस्याङ्घ्रि-पीठ-पात्र-चतुष्टयं चतस्रो वीथयः चत्वारि-द्वाराणि शोभा उपशोभा अस्रं कोणम् एतैर् युक्तम् । अयम् अर्थः-सार्ध-हस्त-द्वय-प्रमाणेन समं चतुर्-अस्रम् भू-भागं परिष्कृत्य तत्र पूर्वापरायतानि सप्तदश-सूत्राणि पालयेत् । एवं सति षट्-पञ्चआशद् उत्तरं द्वि-शतं कोष्ठानां भवति । तत्र कोष्ठ-विभागो मध्ये षोडशभिः कोष्ठैर् वृत्त-त्रयान्वितं पद्मं
लिखेत् । (तत्र च पद्मोपरि-शिष्टे पीठं तद्-अङ्गं च लिखेत् । तद्-बहिर् अष्टाधिक-चत्वारिंशता-द्वादश-राशीन् लिखेत् । तद्-बहिः षट्-त्रिंशता-पीठं पीठाङ्गं च लिखेत् । (तद्-बहिर् अशीतिभिः पदैर् लिखेत् ।) अत्रेदं बोद्धव्यं पद्मस्य दलाग्र-स्थं वृत्तं पीठ-शक्तिश् च एतयोर् मध्ये पूर्व-दक्षिण-पश्चिमोत्तरं सूत्र-चतुष्टयं दद्यात् । अनन्तरं द्वादशाधिकैः शतपदैर् द्वार-शोभोपशोभा-कोणानि विलिखेत् । तत्र सर्वस्यां दिशि द्वारं षट्-पदम् । तत्र प्रकारः बाह्य-पङ्क्ति-गत-मध्य-कोष्ठ-द्वयं तद्-अन्तर्गत-पङ्क्ति-गतमध्य-कोष्ठ-द्वयम् इति द्वारस्यैकस्मिन् भागे कोष्ठ-चतुष्टयेनैका शोभा भवति । तत्र बाह्य-पङ्क्ति-गतम् एक-कोष्ठं तद्-अन्तर्गत-पङ्क्ति-गतं कोष्ठ-त्रयम् इति । एवं
कोष्ठ-चतुष्टयेनैकोपशोभा भवति । अत्र बाह्य-पङ्क्ति-गत-कोष्ठ-त्रय-तद्-अन्तर्गत-पङ्क्ति-गतम् एकं कोष्ठम् इति तथा कोष्ठ-षट्केन कोणम् इति । एवम् अपरस्मिन् भागे ऽपि शोभोपशोभा-कोणानि बोद्धव्यानि । एवं दिक्-चतुष्टये ऽपि मिलित्वा द्वादशाधिकं शतं भवतीति । अत्रानुक्तं शारदा-तिलके बोध्यम् ॥ क्र्द्च्_४।८ ॥
ततो देशिकः स्नान-पूर्वं विधानं
विधायात्म-पूजावसानं विधिज्ञः ।
स्व-वामाग्रतः शङ्खम् अप्य् अर्घ्य-पाद्या-
चमाद्यानि पात्राणि सम्पूरितानि ॥ क्र्द्_४।९ ॥
गोविन्द-भट्टाचार्यः
विधायान्यतः पुष्प-गन्धाक्षताद्यं
कर-क्षालनं पृष्ठतश् चापि पात्रम् ।
प्रदीपावली-दीपिते सर्वम् अन्यत्
स्व-दृग्-गोचरे साधनं चाददीत ॥ क्र्द्_४।१० ॥
तद्-अनन्तरं विधिज्ञः आगमोक्त-प्रकारज्ञः देशिको गुरुः स्नान-पूर्वकं विधानं स्व-गृह्योक्तादि-स्नान-विधिम् आत्म-पूजा-पर्यन्तं समाप्य स्व-वामाग्रे शङ्खार्घ्य-पाद्या-चमानीय-पात्राणि जलादि-स्वच्छ-द्रव्यैः सम्पूरितानि । कृत्वा यथोत्तरं स्थापयित्वान्यतो दक्षिण-भागे पुष्पाणि पूजा-द्रव्याणि निधाय कर-प्रक्षालण-पात्रम् एकं पृष्ठ-देशे निधाय सर्वम् अन्यत् साधनम् उपकरणं स्व-दृग्-गोचरे चक्षुर्-गोचरे प्रदीप-श्रेणि-विराजिते स्थापयेत् । अत्रापरो विशेषः श्री-परमानन्द-भट्टाचार्य-कृते प्रपञ्च-सार-विवरणे द्रष्टव्यः ॥ क्र्द्च्_४।९-१० ॥
वायव्याशादीश-पर्यन्तम् अर्च्य-
पीठस्योदग्-गौरवी पङ्क्तिर् आदौ ।
पूज्यो ऽन्यत्राप्य् आम्बिकेयः कराब्जैः
पाशं दन्तं शृण्य-भीती दधानः ॥ क्र्द्_४।११ ॥
गोविन्द-भट्टाचार्यः
पीठस्य राशि-पीठस्य उदक् उत्तर-भागे वायव्य-कोणाद् ईशान-कोण-पर्यन्तं गुरु-सम्बन्धिनी पङ्क्तिर् आदौ प्रथमतः पूज्या । प्रयोगस् तु ॐ गुरुभ्यो नमः इति । अन्यत्र दक्षिण-भागे आम्बिकेयो गणपतिः पूज्यः । कीदृशं ? हस्त-पद्मैः स्व-दन्तं शृणिम् अङ्कुशम् अभयं दधानः ॥ क्र्द्च्_४।११ ॥
अधुना कलश-स्थापन-प्रकारं दर्शयति यतो देशिक इत्य् आदिना-
आराध्याधार-शक्त्य्-आद्य्-अमर-चरण-पावध्यथो मध्य-भागे
धर्मादीन् वह्निर् अक्षः-पवन-शिव-गतान् दिक्ष्व् अधर्मादिकांश् च ।
मध्ये शेषाब्ज-बिम्ब-त्रितय-गुण-गणात्मादिकं केशराणां
वह्नेर् मध्ये च शक्तीर् नव-समभियजेत् पीठ-मन्त्रेण भूयः ॥ क्र्द्_४।१२ ॥
गोविन्द-भट्टाचार्यः
अथानन्तरं मण्डल-मध्य-भागे आधार-शक्तिम् आरभ्य कल्प-वृक्ष-पर्यन्तम् आराध्य पूजयित्वा पीठ-न्यास-क्रमेण वह्नीति अग्न्य्-आदि-कोण-गतान् धर्मादीन् पूर्वादि-चतुर्दिक्षु अधर्मादीन् तथा मध्ये शेषं पद्मं तथा सूर्य-सोम-वह्नीनां बिम्ब-त्रयं द्वी᳡अदश-षोडश-दश-कला-व्याप्तं मण्डल-त्रयं तथात्मादि-चतुष्टयं पूजयेत् । अथ केशराणां मध्ये कर्णिकायां च्च विमलाद्या नव-शक्तीः पूर्वादि-क्रमेण पूजयेत् । भूयः पुनर् अपि पूर्वोक्तेन पीठ-मन्त्रेण पीठं पूजयेद् इत्य् अर्थः ॥ क्र्द्च्_४।१२ ॥
ततः शालीन् मध्येकमलम् अमलांस् तण्डुल-वरान्
अपि न्यस्येद् दर्भांस् तद् उपरि च कूर्चाक्षत-युतान् ।
न्यसेत् प्रादक्षिण्यात् तद्-उपरि कृशानोर् दश कला-
य-काराद्य्-अर्णाद्या यजतु च सुगन्धादिभिर् इमाः ॥ क्र्द्_४।१३ ॥
गोविन्द-भट्टाचार्यः
तद्-अनन्तरं मध्ये-कमलं कमल-मध्ये शालीन् आढक-परिमितान् तथा शुभ्रान् शाल्य्-अष्ट-भाग-परिमितान् तण्डुलान् श्रेष्ठान् न्यस्येत् स्थापयेत् । यद् उक्तम्-
शालीन् वै कर्णिकायां च निक्षिप्याढक-सम्मितान् ।
तण्डुलांश् च तद्-अष्टांशान् दर्भैः कूर्चैः प्रविन्यसेत् ॥ इति ।
तद्-उपरि तण्डुलोपरि कूर्चाक्षत-युक्तान् दर्भान् विन्यसेत् । कुश-त्रय-घटितो ब्रह्म-ग्रन्थिः कूर्च-शब्देनोच्यते कूर्चः कुश-मुष्टिर् इति त्रिपाठिनः । तद्-उपरि कूर्चोपरि कृशानोर् वह्नेर् दश कला य-कारादयो दश-वर्णा आद्याः प्रथमा यासां ताः प्रादक्षिण्येन न्यसेत् तद्-अनन्तरं इमा दश कला गन्धादिभिः पूजयेत् ।
ताश् च-
धूम्रार्चिर्-ऊष्मा-ज्वलिनी-ज्वालिनी-विस्फुलिङ्गिनी ।
सुश्रीः सुरूपा कपिला हव्य-वहा कव्यवहा ॥ इति ।
प्रयोगस् तु धूम्रार्चिषे नम इति ॥ क्र्द्च्_४।१३ ॥
न्यसेत् कुम्भं तत्र त्रिगुणित-लसत्-तन्तु-कलितं
जपंस् तारं धूपैः सुपरिमलितं जोङ्कटमयैः ।
कभाद्यैः कुम्भे ऽस्मिन् ठ-ड-वसितिभिर् वर्ण-युगलैः
तथान्यस्याभ्यर्च्यास् तद्-अनु ख-मणेर् द्वादश कलाः ॥ क्र्द्_४।१४ ॥
गोविन्द-भट्टाचार्यः
तत्र दश-कला-मये कूर्चे ती᳡अरम् ओङ्कारम् उच्चरन् कुम्भं न्यसेत् । कुम्भस् तु सुवर्णादि-निर्मितः । तद् उक्तम्-
सौवर्णं राजतं वापि मृण्मयं वा यथोदितम् ।
क्षाणयेद् अस्त्र-मन्त्रेण कुम्भं सम्यक् सुरेश्वरि ॥ इति ।
कीदृशम् ? ग्रीवायां त्रिगुणिता लसन्तः शोभमाना ये तन्तवः कन्या-कर्तित-कार्पास-सूत्राणि तैः कलितम् अस्त्र-मन्त्रेण वेष्टितम् । पुनः कीदृशम् ? जोङ्कट-मयैः कृष्णागुरु-प्रधानैर् धूपैः सुधूपितं तद्-अनन्तरं खमणेः सूर्यस्य द्वादश-कला अस्मिन् कुम्भे न्यस्य अनन्तरं पूज्याः । कैः ? वर्ण-युगलैः । कीदृशैः ? कभाद्यैः क-कार-भ-काराद्यैः । पुनः कीदृशैः ? ठ-ड-वसितिभिः ठ-कार-ड-कारावसानैः । अयम् अर्थः-अनुलोम-पठित-क-काराद्य्-एकैकम् अक्षरं प्रतिलोम-पठित-भ-काराद्य्-एकैकम् अक्षरेण सहितं तपिन्य्-आदिषु द्वादश-कलासु संयोज्य न्यासादिकं कार्यम् । ताश् च-
तपनी तापनी धूम्रा भ्रामरी ज्वालिनी रुचिः ।
सुषुम्णा भोगदा विश्वा बोधिनी धारिणी क्षमा ॥ इति ।
प्रयोगस् तु-कं भं तपिन्यै नमः । खं वं ताइन्यै नमः इत्य् आदि कार्यम् ॥१४॥
एवं सङ्कल्प्याग्निम् आधार-रूपं
भानुं तद्वत् कुम्भ-रूपं विधिज्ञैः ।
न्यस्येत् तस्मिन्न् अक्षताद्यैः समेतं
कूर्चं स्वर्णै रत्न-वर्यैः प्रदीप्तम् ॥ क्र्द्_४।१५ ॥
एवम् अनेन प्रकारेणाधार-रूपम् अग्निं सङ्कल्प्य तद्वत् कुम्भ-रूपं भानुं विचिन्त्य तस्मिन् कुम्भे विधिज्ञ आगमोक्त-प्रकाराभिज्ञः मूल-मन्त्रेणाक्षताद्यैः सहितं कूर्चं पूर्वोक्त-लक्षणैः सुवर्ण-रत्न-वर्यैर् नव-रत्नैः शोभितं न्यसेत् । तद् उक्तं भैरवेण-
एतान् नयित्वा तन्-मध्ये शुक्ल-पुष्पं सिताक्षतम् ।
नव-रत्नं च कूर्चं च मूलेनैव विनिक्षिपेत् ॥ इति ॥ क्र्द्च्_४।१५ ॥
अथ क्वाथ-तोयैः क्षकारादि-वर्णैर्
अकारावसानैः समापूरयेत् तम् ।
स्वमन्त्र-त्रिजापावसानं पयोभिर्
गवां पञ्च-गव्यैर् जलैः केवलैर् वा ॥ क्र्द्_४।१६ ॥
गोविन्द-भट्टाचार्यः
अथानन्तरं पीठ-कुम्भयोर् ऐक्यं विचिन्त्य पञ्चाशद्-वर्णैर् ओषधि-तोयैः पलाश-त्वग्-जलैः क्षीर-द्रुम-त्वक्-क्वाथ-जलैर् वा सर्वौषधि-जलैर् वा गवां पयोभिर् वा पञ्च-गव्यैर् वा केवल-जलैः कर्पूरादि-जलैर् वा तीर्थ-जलैर् वा क्ष-कारादि-वर्णैर् अकारावसानैर् विलोम-मातृकाभिः स्व-मन्त्र-त्रिजपावसानं मूल-मन्त्र-वार-त्रय-जपी᳡अन्तं यथा स्याद् एवं पूरयेत् ॥ क्र्द्च्_४।१६ ॥
कलश-जले ऽस्मिन् वसु-युग-सङ्ख्याः
स्वर-गण-पूर्वा न्यसतु तथैव ।
उडुप-कलास् ताः सलिल-सुगन्धा-
क्षत-सुमनोभिस् तद्-अनु यजेत ॥ क्र्द्_४।१७ ॥
गोविन्द-भट्टाचार्यः
तस्मिन् कलश-जले उडुप-कलाश् चन्द्र-कलाः वसु-युग-सङ्ख्याः षोडश-सङ्ख्याः स्वर-गण-पूर्वा अ-कारादि-वर्ण-पूर्वा न्यसतु । तद्-अनु तद्-अनन्तरं ताश् चन्द्र-कलास् तथैव तेनैव क्रमेण पुष्पाञ्जलिभिः पूजयेत् । ताश् चोक्ताः-
अमृता मानदा पूषा तुष्टिः पुष्टी रतिर् धृतिः ।
शशिनी चन्द्रिका कान्तिर् ज्योत्स्ना श्रीः प्रीतिर् अङ्गदा ।
पूर्णा पूर्णामृता च ॥ इति ।
अधुना वैष्णव-गन्धाष्टकम् आह-
उदीच्य-कुष्ट-कुङ्कुमाम्बु-लोह-सज्जटामुरैः ।
सशीतम् इत्य् उदीरितं हरेः प्रियाष्ट-गन्धकम् ॥ क्र्द्_४।१८ ॥
उदीच्यम् उशीरं कुष्टं कुङ्कुमम् अम्बु-बाला नेत्र-बाला लोहः कृष्णागुरुर् जटया सह मुरा जटा मांसी च एतैः सह शीतं चन्दनम् इति हरेः प्रिय-कारि-गन्धाष्टकम् उक्तम् ॥ क्र्द्च्_४।१८ ॥
शङ्ख-पूरणम् आह-
क्वाथ-तोय-परिपूरितोदरे
संविलोड्य विधिनाष्ट-गन्धकम् ।
सोम-सूर्य-शिखिनां पृथक्-कलाः
सेच-कर्म विनियोजयेत् क्रमात् ॥ क्र्द्_४।१९ ॥
गोविन्द-भट्टाचार्यः
उदरे शङ्खे विधिनागमोक्त-प्रकारेण मूल-मन्तेण पूर्वोक्त-क्वाथ-जलेन परिपूरिते गन्धी᳡अष्टकं नमो-मन्त्रेण सविलोड्य दत्त्वा सोम-सूर्य-वह्नीनां कलाः पृथक् समावाह्य सेच-कर्म प्राण-प्रतिष्ठा-कर्म क्रमेण विनियोजयेत् कुर्यात् ॥ क्र्द्च्_४।१९ ॥
तद्वद् आक्षर-भवास् तु कादिभिष्
टादिभिः पुनर् उकारजाः कलाः ।
पादिभिर् मलिपिजास् तु बिन्दुजाः
षादिभिः स्वर-गणेन नाद-जाः ॥ क्र्द्_४।२० ॥
गोविन्द-भट्टाचार्यः
पूर्वोक्त-प्रकारेण आक्षर-भवा अ-काराक्षर-भवा दश कलाः कादिभिः क-कारादिभिर् दशभिर् अक्षरैः सहिताः पुनर् उ-कार-जा उ-काराक्षर-भवा दश कलाः टादिभिर् दशभिर् अक्षरैः सहितास् तथा मलिपि-जा म-काराक्षर-भवा दश कलाः पादिभिर् दशभिर् अक्षरैः सहितास् तथा बिन्दुजा बिन्दु-प्रभवाः चतस्रः कलाः षादिभिश् चतुर्-अक्षरैः सहिताः तथा नादजा नाद-प्रभवाः षोडश्च कलाः स्वर-समूहेन षोडशभिः स्वरैः सहिताः शङ्ख-सलिले न्यस्याः । ताश् च-
सृष्टिर् ऋद्धिः स्मृतिर् मेधा कान्तिर् लक्ष्मीर् धृइत्ः स्थिरा ।
स्थितिः सिद्धिर् अकारोत्थाः कला दश समीरितः ॥
जरा च पालिनी शान्तिर् ऐश्वरी रति-कामिके ।
वरदा ह्लादिनी प्रीतिर् दीर्घा चोकार-जाः कलाः ॥
तीक्ष्णा रौद्रा भया निद्रा तन्तीर् क्षुत् क्रोधनी क्रिया ।
उत्कारी चैव मृत्युश् च मकाराक्षरजाः कलाः ॥
निवृत्तिश् च प्रतिष्ठा च विद्या शान्तिस् तथैव च ।
इन्धिका दीपिका चैव रेचिका मोचिका परा ॥
सूक्ष्मा सूक्ष्मामृता ज्ञानाज्ञाना चाप्य् आयनी तथा ।
व्यापिनी व्योम-रूपा च अनन्ता नाद-सम्भवाः ॥ इति ।
प्रयोगश् च कं सृष्ट्यै नम इत्य् आदि ॥ क्र्द्च्_४।२० ॥
समावाहनान्ते ऽसुसंस्थापनात् प्राक्
ऋचस् तत्र तत्राभिजप्या बुधेन ।
समभ्यर्च्य तास् ताः पृथक् तच् च पाथो
ऽर्पयेन् मूल-मन्त्रेण कुम्भे यथावत् ॥ क्र्द्_४।२१ ॥
गोविन्द-भट्टाचार्यः
समावाहनस्यान्ते ऽसुसंस्थापनात् प्राक् प्राण-प्रतिष्ठायाः पूर्वं तत्र तत्र स्थाने पण्डितेन धार्याश् चाभिजप्याः पठनीयाः । अयम् अर्थः-शङ्ख-जले ऽकार-प्रभव-क-कारादि-कलावाहनानन्तरं प्राण-प्रतिष्ठायाः पूर्वं हंसः शुचिषद् इति ऋचं पठेत् । उ-कार-प्रभव-टदि-कलावाहनानन्तरं प्रतद् विष्णुः इति ऋचं पठेत् । म-कारादि-प्रभव-प-कारादि-कलावाहनानन्तरं तत् सवितुर् इत्य् आदि ऋचं पठेत् । नाद-प्रभव-त-कारादि-कलावाहनानन्तरं विष्णोर् योनिर् इत्य् आदि ऋचं पठेत् । अनन्तरं मूल-मन्त्रं शङ्ख-जले विलोमेन जपेत् । तास् ताः कलाः पृथग् एकैकशः यथावत् यथा-विधि सम्पूज्य तच् च पी᳡अथः तच्-छङ्खोदकं मूल-मन्त्रं पठित्वा कुम्भे विनिक्षिपेत् ॥ क्र्द्च्_४।२१
सहकार-बोधि-पनस-स्तवकैः
शतमन्यु-वल्लिक्-कलितैः कलशम् ।
पिदधातु पुष्प-फल-तण्डुलकैर्
अभिपूर्णयापि शुभ-चक्रिकया ॥ क्र्द्_४।२२ ॥
गोविन्द-भट्टाचार्यः
सहकार आम्रः । बोधिर् अश्वत्थः । पनसः कण्टकि-फल-वृक्षः । एतेषां स्तवकैः पल्लवैः शतमन्यु-वल्लि-कलितैर् इन्दवल्ली-बद्धैः कलशं कलश-मुखं सुरद्रुम-धिया पिदधातु समाच्छादयतु तथा पुष्पादिभिः परिपूर्णया शुभ-चक्रिकया शोभमान-शरावेण तद्-उपरि पिदधात् ॥ क्र्द्च्_४।२२ ॥
अभिवेष्टयेत् तद्-अनु कुम्भ-मुखं
नव-निर्मलांशुक-युगेन बुधः ।
समलङ्कृते ऽत्र कुसुमादिभिर् अप्य्
अभिवाहयेत् परतरं च महः ॥ क्र्द्_४।२३ ॥
गोविन्द-भट्टाचार्यः
तद् अनु तद्-अनन्तरं नूतन-मल-रहित-वस्त्र-द्वयेन परित्ः कुम्भ-मुखम् अभिवेष्टयेत् । अनन्तरं कुम्भे पुष्पादिभिर् अलङ्कृते परमोत्कृष्टं महस् तेजः पूज्य-देवता-स्वरूपम् आवाहयेत् आवाहनादिकं कुर्यात् । यथा श्री-कृष्णेहागच्छेह तिष्ठ इह सन्निधेहि ॥ क्र्द्च्_४।२३ ॥
सकली-विधाय कलश-स्थम् अमुं
हरिम् अर्ण-तत्त्व-मनु-विन्यसनैः ।
परिपूजयेद् गुरुर् अथावहितः
परिवार-युक्तम् उपचार-गणैः ॥ क्र्द्_४।२४ ॥
गोविन्द-भट्टाचार्यः
अमुं कलशस्थं हरिं सकलीकृत्य देवताङ्गे षड्-अङ्गानां न्यासः स्यात् सकलीकृतिर् इति । उत्तमाङ्गं विधाय वर्ण-तत्त्वम् अन्व् इति अक्षर-मय-तत्त्व-मन्त्र-न्यासैः सहेति रुद्रधरः । अर्ण इति सृष्टि-संहार-भेदेन अङ्गुल्यारोपण-भेदेन च मन्त्र-वर्ण-विन्यासो ऽर्ण-न्यासो मनु-न्यासः मनु-पुटित-मातृका-न्यास इत्य् अर्थः । इत्य् आदि-न्यासैस् तत्-तेजो-रूप-धरं सकलं सगुणं शरीरं कुर्याद् इति भैरव-त्रिपाठिनः । विद्याधरो ऽप्य् एवम् आह-पीट्ःअ-न्यास-कर-न्यासौ विनापि प्रथम-द्वितीय-पटल-प्रोक्त-न्यासादि-जातैर् इति । केचित् अष्टादशाक्षरे पक्षे तत्त्व-न्यास-स्थाने मन्त्राक्षर-न्यासो द्रष्टव्यः । अथानन्तरम् अवहितः सावधानो गुरुः स-परिवारं आवरण-समेतम् उपचार-गणैः षोडश-पञ्चोपचारान्यतमोपचारेण
पूजयेत् ॥ क्र्द्च्_४।२४ ॥
पूजा-क्रमम् आह-
दत्त्वासनं स्वागतम् इत्य् उदीयः
तथाध्यपाद्याचमनीयकानि ।
देयानि पूर्वं मधुपर्क-यूञ्जि
नन्दात्मजायाचमनान्तकानि ॥ क्र्द्_४।२५ ॥
गोविन्द-भट्टाचार्यः
स्थानं च वासश् च विभूषणानि
साङ्गाय तस्मै विनियोज्य मन्त्री ।
गात्रे पवित्रैर् अथ गन्ध-पुष्पैः
पूर्वं यजेन् न्यास-विधानतो ऽस्य ॥ क्र्द्_४।२६ ॥
तस्मै साङ्गाय नन्दात्मजाय कृष्णाय आसनं पद्मादि-कुसुम-रूपं दत्त्वा स्वागतम् इत्य् उदीर्य स्वागतम् इति शब्दम् उच्चार्य अनन्तरं पूर्वं प्रथमतो ऽर्घ्य-पाद्याचमनीयकानि मधुपर्क-सहितानि देयानि आचमनान्तकानि मधु-पर्कं दत्त्वा पुनर् आचमनीयं देयं स्नानं गन्ध-जलादिभिः कार्यं वासो वस्त्र-युगलं शरीरे देयं विभूषणानि कुण्डलादीनि यथा-स्थानं विनियोज्यानि । अथानन्तरम् अस्य परमेश्वरस्य गात्रे शरीरे पूर्वं प्रथमतः पवित्रैः शुद्धैर् गन्ध-पुष्पैर् न्यास-प्रकारेण यजेत् पूजयेत् ॥ क्र्द्च्_४।२५-२६ ॥
पूजा-प्रकारम् एवाह-
सृष्टि-स्थिती स्वाङ्ग-युगं च वेणुं
मालाम् अभिज्ञान-वराश्म-मुख्यौ ।
मूलेन चात्मार्चनवत् प्रपूज्य
समर्चयेद् आवरणानि भूयः ॥ क्र्द्_४।२७ ॥
गोविन्द-भट्टाचार्यः
वर्ण-न्यास-मन्त्रैर् यथा-क्रमं पूजयेत् । ॐ गों ॐ नमः इत्य् आदि । सृष्टि-स्थिती पूर्वोक्तं स्वाङ्ग-युगं पञ्चाङ्ग-दशाङ्ग-न्यासौ वेणुं मालां वनमालाम् अभिज्ञान-वरं श्रीवत्सलाञ्छनम् इति अश्म-मुख्यः कौस्तुभः । एतानि सम्पूज्य मूलेन चात्मार्चनवत् यथात्मनि परमेश्वर-पूजा मूल-मन्त्रेण पञ्च-कृत्वः तुलस्यादि-पुष्पाञ्जलिभिः पद-द्वयादिषु कृता तथा कुम्भस्थम् अपि सम्पूज्य भूयः पुनर् अपि आवरणानि वक्ष्यमाणानि पूजयेत् । अष्टादशार्ण-पक्षे सृष्ट्य्-आदि-स्थानेषु वर्ण-न्यास-पद-न्यासानां पूजा कार्येति बोद्धव्यम् ॥ क्र्द्च्_४।२७ ॥
आवरण-पूजा-क्रमम् आह-
दिक्ष्व् अथ दाम-सुदामौ वसुदामः किङ्किणी च सम्पूज्याः ।
तेजो-रूपास् तद्-बहिरङ्गानि च केशरेषु समभियजेत् ॥ क्र्द्_४।२८ ॥
गोविन्द-भट्टाचार्यः
अथानन्तरं कर्णिकायां देवस्य पूर्वादि-चतुर्-दिक्षु दामादयश् चत्वारः पूज्याः । कीदृशाः ? तेजो-रूपा देदीप्यमानाः । प्रयोगस् तु-ॐ दामाय नम इत्य् आदि । द्वितीयावरणम् आह तद्-बहिर् इति । कर्णिका-कोणेषु अङ्गानि समभियजेत् ॥ क्र्द्च्_४।२८ ॥
पूजा-विधानम् आह-
हुतवह-निरृति-समीर-शिव-दिक्षु हृदादि-वर्म-पर्यन्तम् ।
पूर्वादि-दिक्ष्व् अथास्त्रं क्रमेण गन्धादिभिः सुशुद्ध-मनाः ॥ क्र्द्_४।२९ ॥
गोविन्द-भट्टाचार्यः
अग्न्य्-आदि-कोण-चतुष्टयेषु हृदयादि-कवचान्तानि चत्वार्य् अङ्गानि अथानन्तरं पूर्वादि-चतुर्-दिक्षु अस्त्रम् अङ्गं पूजयेत् ॥ क्र्द्च्_४।२९ ॥
अङ्ग-देवता-ध्यानम् आह-
मुक्तेन्दु-कान्त-कुवलय-
हरि-नील-हुताश-सभाः प्रमदाः ।
अभय-वर-स्फुरित-कराः
प्रसन्न-मुख्यो ऽङ्गदेवताः स्मर्याः ॥ क्र्द्_४।३० ॥
गोविन्द-भट्टाचार्यः
अङ्ग-देवता ध्येयाः । किम्भूताः ? प्रमदाः स्त्री-स्वभावाः । पुनः किम्भूताः ? मुक्ताः इन्दुकान्तश् चन्द्रकान्त-मणिः कुवलयं नील-पद्मं हरिनीलः इन्द्रनील-मणिः हुताशो वह्निश् च एतेषां समानाभा प्रभा वर्णो यासान्तास् तथा । किम्भूताः ? अभयेन वरेण च शोभिताः करा यासां ताः । किम्भूताः ? प्रसन्न-वदनाः ॥ क्र्द्च्_४।३० ॥
तृतीयम् आवरणम् आह-
रुक्मिण्य्-आद्या महिषीर्
अष्टौ सम्पूजयेद् दलेषु ततः ।
दक्षिण-कर-धृत-कमला
वसु-भरित-सुपात्र-मुद्रितान्य-कराः ॥ क्र्द्_४।३१ ॥
गोविन्द-भट्टाचार्यः
ततस् तद्-अनन्तरं दलेषु पूर्वादि-पत्रेषु रुक्मिण्य्-आद्याः अष्टौ महिषीर् मुख्या महा-देवीः सम्पूजयेत् । किम्भूताः ? दक्षिण-करैर् धृतानि कमलानि याभिस् तास् तथा । पुनः किम्भूताः ? वसु-पूरित-पात्रैर् मुद्रिताः पूरिता अन्ये वाम-करा यासां तास् तथा ॥ क्र्द्च्_४।३१ ॥
अष्टौ वर्णयति-
रुक्मिण्य्-आख्या सत्या स-नाग्निजित्य्-आह्वया सुनन्दा च ।
भूयश् च मित्रविन्दा सुलक्ष्मणा ऋक्षजा सुशीला च ॥ क्र्द्_४।३२ ॥
गोविन्द-भट्टाचार्यः
ऋक्षजा जाम्बवती ॥ क्र्द्च्_४।३२ ॥
तासां रूपाणि दर्शयति-
तपनीय-मरकताभाः सुसित-
विचित्राम्बरा द्विशस् त्व् एताः ।
पृथु-कुच-भरालसाङ्ग्या विविध-
मणि-प्रकर-विलसिताभरणाः ॥ क्र्द्_४।३३ ॥
गोविन्द-भट्टाचार्यः
एता रुक्मिण्य्-आद्या द्विशः युग्मशः क्रमेण काञ्चन-मरकतयोर् इवाभा दीप्तिर् यासां तास् तथा । पुनः किम्भूताः ? शोभमानानि शुक्लानि नाना-प्रकाराणि वस्त्राणि यासां तास् तथा । पुनः किम्भूताः ? अचला ये कुचास् तेषां गौरवेण अलसानि निष्क्रियाणि अङ्गानि यासां तास् तथा । पुनः किम्भूताः ? नाना-प्रकारो मणि-प्रकर इन्द्रनीलादि-समूहस् तेषु विशेषेण शोभितानि आभरणानि यासाम् ॥ क्र्द्च्_४।३३ ॥
चतुर्थावरणम् आह-
ततो यजेद् दलाग्रेषु वसुदेवं च देवकीम् ।
नन्द-गोपं यशोदां च बलभद्रं सुभद्रिकाम् ।
गोपान् गोपीश् च गोविन्द-विलीन-मति-लोचनान् ॥ क्र्द्_४।३४ ॥
गोविन्द-भट्टाचार्यः
ततस् तद्-अनन्तरं दलाग्रेषु पूर्वादि-क्रमेण वसुदेवादीन् सम्पूजयेत् । कीदृशाः ? गोविन्दे विलीना सम्बद्धा मतिर् लोचनं येषां ते तथा ॥ क्र्द्च्_४।३४ ॥
एतेषाम् आयुधा निदर्शयति-
ज्ञान-मुद्राभय-करौ पितरौ पीत-पाण्डरौ ।
दिव्य-माल्याम्बरालेप-भूषणे मातरौ पुनः ॥ क्र्द्_४।३५ ॥
गोविन्द-भट्टाचार्यः
ज्ञान-मुद्रा अभयं च करेषु ययोस् तौ पितरौ वसुदेव-नन्द-गोपौ । कीदृशौ ? हरिद्राभ-श्वेतौ मातरौ देवकी-यशोदे । कीदृश्यौ ? दिव्यानि देवार्हाणि माल्याम्बर-भूषणानि ययोस् तादृश्यौ ॥ क्र्द्च्_४।३५ ॥
धारयन्त्यौ च वरदं पायसापूर्ण-पात्रकम् ।
अरुणाश्यामले हार-मणि-कुण्डल-मण्डिते ॥ क्र्द्_४।३६ ॥
गोविन्द-भट्टाचार्यः
वरदं वर-दानं मुद्रा-विशेषं पायसा-पूर्ण-पात्रं च धारयन्त्यौ । पुनः किम्भूते ? अरुणा-श्यामले । पुनः कीदृश्यौ ? हार-कुण्डलाभ्यां शोभिते ॥ क्र्द्च्_४।३६ ॥
बलः शङ्खेन्दु-धवलो मुसलं लाङ्गलं दधत् ।
हालालोलो नील-वासा हेलावान् एक-कुण्डलः ॥ क्र्द्_४।३७ ॥
गोविन्द-भट्टाचार्यः
बलो बलभद्रः शङ्खेन्दु-धवलः श्वेतः लाङ्गलं मुसलं बिभ्राणः । पुनः कीदृशः ? हाला माध्वी तस्याः पाने लोलः चञ्चलः अमृष्य-कारी । पुनः कीदृशः ? नील-वासाः । पुनः कीदृशः ? हेलावान् लीलावान् । पुनः कीदृशः ? एक-कुण्डल-धारी ॥ क्र्द्च्_४।३७ ॥
कलाय-श्यामला भद्रा सुभद्रा भद्र-भूषणा ।
वराभय-युता पीत-वसना रूढ-यौवना ॥ क्र्द्_४।३८ ॥
गोविन्द-भट्टाचार्यः
सुभद्रा कलाय-श्यामला भद्रा समीचीना भद्र-भूषणा शोभमानाभरणा । पुनः किम्भूता ? वराभय-युता । पुनः किम्भूता ? पीत-वसना । पुनः किम्भूता ? प्रौढ-यौवना ॥ क्र्द्च्_४।३८ ॥
वेणु-वीणा-वेत्र-यष्टि-शङ्ख-शृङ्गादि-पाणयः ।
गोपा गोप्यश् च विविध-प्रभृतात्त-कराम्बुजाः ।
मन्दारादींश् च तद्-बाह्ये पूजयेत् कल्प-पादपान् ॥ क्र्द्_४।३९ ॥
गोविन्द-भट्टाचार्यः
वेणुर् वंशी । वीना तन्त्री । वेत्रं यष्टिः शङ्खः शृङ्गादि नाना-वस्तु पाणौ करे येषाम् एवं विशिष्टा गोपाः गोप्यः पुनर् नाना-प्रकारं यत्-प्राभृतम् उपढौकनं तेनात्तम् आयत्तं वशीकृतं कराब्जं यासां ताः ।
पञ्चमावरणम् आह-मन्दारादीन् इति । तद्-बाह्ये तद्-अनन्तरं मन्दारादीन् अग्रे वक्ष्यमाणान् कल्प-वृक्षान् पूजयेत् ॥ क्र्द्च्_४।३९ ॥
मन्दार-सन्तानक-पारिजात-
कल्प-द्रुमाख्यान् करिचन्दनं च ।
मध्ये चतुर्दिक्ष्व् अपि वाञ्छितार्थ-
दानैक-दक्षान् फल-नम्र-शाखान् ॥ क्र्द्_४।४० ॥
गोविन्द-भट्टाचार्यः
तान् एवाह मन्दारेति । कुत्र कः पूजनीयः तत्राह मध्ये इति । मध्ये कर्णिकायां प्रथम-परित्यागे मानाभावात् प्रथम-निर्दिष्टवत् पूजा चतुर्दिक्षु पूर्वादि-चतुर्-दिक्षु एतादृशान् वाञ्छिता आकाङ्क्षिता ये अर्थास् तेषां दाने एकं अद्वितीया दक्षाः तान् तथा फलैः नम्राः शाखा येषु तान् । यद् वा, आकाङ्क्षित-दाने अद्वितीय-समर्थान् तथा फलैः नम्राः शाखा येषु तान् ॥ क्र्द्च्_४।४० ॥
षष्ठावरणम् आह-
हरि-हव्य-वाट्-तरणिज-क्षपाचराप्य्
अतिवायुसोम-शिव-शेष-पद्मजान् ।
प्रयजेत् स्वदिक्ष्व् अमल-धीः स्वजात्य् अधी-
श्वरहेति-पत्र-परिवार-संयुतान् ॥ क्र्द्_४।४१ ॥
गोविन्द-भट्टाचार्यः
हरिर् इन्द्रः हव्य-वाड्-अग्निः तरणिजो यमः क्षपाचरो निशाचरो निरृतिः अप्पतिर् वरुणः वायुः सोमः ईशः शेषो ऽनन्तः पद्मजो ब्रह्मा एतान् स्व-दिक्षु पूर्वादि-दिक्षु निर्मल-मतिः पूजयेत् । अत्र निरृति-वरुणयोर् मध्ये ऽनन्तं सोमेशानयोर् मध्ये ब्रह्माणं स्वादिक्ष्व् अतिकथनात् अन्यत्र कल्पित-पूर्वादि-दिक्षु पूजावगम्यते । तद् उक्तम् आगमान्तरे-
देवाग्रे स्वस्य वाप्य् अग्रे प्राची प्रोक्ता च देशिकैः ।
प्राची प्राच्य् एव विज्ञेया मुक्तये देवतार्चनम् ॥ इति ।
कीदृशान् ? स्व-जातिः इन्द्रत्वादिः । अधीश्वरो ऽधिपतिः हेतिः शस्त्रं पत्रं वाहनं परिवारो गणः एतैः संयुक्तान् एतेषां च बीजानि उच्चारयितव्यानि । प्रयोगस् तु लं इन्द्राय सर्व-सुराधिपतये सायुधाय सवाहनाय सपरिवाराय नम एवम् अन्यत्राप्य् ऊहनीयः ॥ क्र्द्च्_४।४१ ॥
इदानीं वर्णम् आह-
कपिश-कपिल-नील-श्यामल-श्वेत-धूम्रा-
मल-सित-शुचि-रक्ता वर्णतो वासवाद्याः ।
कर-कमल-विराजत्-स्वायुधा दिव्य-वेशा
विविध-मणि-गणो ऽस्र-प्रस्फुरद्-भूषणाढ्याः ॥ क्र्द्_४।४२ ॥
गोविन्द-भट्टाचार्यः
कपिशः कनक-वर्णः कपिलस् ताम्र-वर्णाभः श्यामलः कृष्णः श्वेतः शुक्लः धूम्रो ऽसित-भेदः अमल-सितः श्वेतः शुचिर् अपि श्वेत एव रक्तो लोहित एते वासवाद्याः वर्णतो वर्णेन यथा-क्रमं पूर्वोक्त-क्रमतः । पुनः कीदृशः ? हस्त-पद्मे शोभमानानि आयुधानि येषां ते । पुनः उत्कृष्ट-वेशा नाना-प्रकार-मणि-समूहानां पद्म-रागादीनाम् उस्रेण किरणेन प्रस्फुरद्-देदीप्यमानं यद् भूषणं तेनाढ्या उपचिताः शोभमाना इत्य् अर्थः ॥ क्र्द्च्_४।४२ ॥
सप्तमावरणम् आह-
दम्भोलि-शक्त्य्-अभिध-दण्ड-कृपाण-पाश-
चण्डाङ्कुशाह्वय-गदा-त्रिशिखारि-पद्माः ।
अर्च्या बहिर् निज-सुलक्षित-मौलि-युक्ताः
स्व-स्वायुध-भय-समुद्यत-पाणि-पद्मः ॥ क्र्द्_४।४३ ॥
गोविन्द-भट्टाचार्यः
दम्भोलिर् वज्रं शक्त्य्-अभिधं शक्ति-नामकम् अस्त्रं दण्डः कृपाणः खड्गः चण्डाङ्कुशाह्वयः उग्राङ्कुशाख्यः गदा त्रिशिखं त्रिशूलम् अरि चक्रं पद्म्ं च एतानि वह्नि-वासवादितो बहिः सम्पूज्यानि । दम्भोलि-प्रभृतयः कीदृशाः ? निज- सुलक्षित-मौलि-युक्ताः वज्रादि-लाञ्छित-मुकुटाः । पुनः स्व-स्वायुधैर् अस्त्रैर् अभयेन च समुद्यतं सुलक्षितं हस्त-पद्मं येषां ते तथा ॥ क्र्द्च्_४।४३ ॥
वज्रादीनां वर्णम् आह-
कनक-रजत-तोयदाभ्र-चम्पा-
रुणहिम-नील-जवा-प्रवाल-भासः क्रमतः ।
क्रमत इति रुचा तु वज्र-पूर्वा-
रुचिर-विलेपन-वस्त्र-माल्य-भूषाः ॥ क्र्द्_४।४४ ॥
गोविन्द-भट्टाचार्यः
वज्र-पूर्वाः वज्राद्याः रुचा वर्णेन क्रमतो ऽनुक्रमेणैवंरूपा ज्ञेयाः । पुनः कीदृशाः ? काञ्चनं रौप्यं तोयदो मेघः अभ्रं चम्पक-पुष्पम् अरुणो रक्तः हिमं श्वेतः नीलः श्यामलः जवा औण्ड्र-पुष्पं प्रवालो नव-पल्लवः एवम्भूता दीप्तिर् येषां ते तथा । पुनः कीदृशाः ? रुचिरं मनोहरं विलेपनं चन्दनादि वस्त्रं माल्यं भूषणं च येषां ते तथा ॥ क्र्द्च्_४।४४ ॥
पूर्वोक्तम् उपसंहरति-
कथितम् आवृति-सप्तकम् अच्युता-
र्चन-विधाव् इति सर्व-सुखावहम् ।
प्रयताद् अथवाङ्ग-पुरन्दरा-
शनि-मुखैस् त्रितयावरणं त्व् इदम् ॥ क्र्द्_४।४५ ॥
गोविन्द-भट्टाचार्यः
इति पूर्वोक्त-प्रकारेण विष्णु-पूजा-विधौ आवरण-सप्तकं कथितम् । कीदृशं ? सकल-सुखार्थ-दायकम् । अशक्तं प्रत्याह प्रयजताद् इति । पूर्वोक्ताशक्तः त्रितयावरणम् आवरण-त्रय-सहितं प्रयजेत् । कैः ? अङ्गम् इन्द्र-वज्रम् एतन्-मुखैर् एतत् प्रधानैर् इत्य् अर्थः ॥ क्र्द्च्_४।४५ ॥
प्रकृतम् उपसंहरन् पूजान्तरम् आह-
इत्य् अर्चयित्वा जल-गन्ध-पुष्पैः
कृष्णाष्टकेनाप्य् अथ कृष्ण-पूजाम् ।
कुर्याद् बुधस् तानि समाह्वयानि
वक्ष्यामि तादादि-नमो ऽन्तिकानि ॥ क्र्द्_४।४६ ॥
गोविन्द-भट्टाचार्यः
इति पूर्वोक्त-प्रकारेण जल-गन्ध-पुष्पैः पूजयित्वा अथानन्तरं कृष्णाष्टकेन वक्ष्यमाणेन बुधः पण्डितः कृष्ण-पूजां कुर्यात् तानि । समाह्वयानि नामानि प्रणवादि-नमो ऽन्तिकानि वक्ष्यमाणानि ॐ कृष्णाय नम इत्य् आदीनि ॥ क्र्द्च्_४।४६ ॥
तान्य् एव दर्शयति-
श्री-कृष्णो वासुदेवश् च नारायण-समाह्वयः ।
देवकी-नन्दनो यदु-श्रेष्ठो वार्ष्णेय इत्य् अपि ॥ क्र्द्_४।४७ ॥
गोविन्द-भट्टाचार्यः
असुरान्तक-शब्दान्ते भारहारीति सप्तमः ।
धर्म-संस्थापकश् चाष्टौ चतुर्थ्य्-अन्ताः क्रमाद् इमे ॥ क्र्द्_४।४८ ॥
असुरान्तक-शब्दान्ते भार-हारीत्य् अर्थः । इमे कृष्णादयः शब्दाः क्रमाद् एकैकशः प्रणवाद्याश् चतुर्थ्य्-अन्ता नमो ऽन्तकाश् च विज्ञेयाः ॥ क्र्द्च्_४।४७-४८ ॥
अत्यन्ताशक्तं प्रत्याह-
एभिर् एवाथवा पूजा कर्तव्या कंस-वैरिणः ।
संसार-सागरोत्तीर्त्यै सर्व-कामाप्तये बुधैः ॥ क्र्द्_४।४९ ॥
गोविन्द-भट्टाचार्यः
अथवा एभिर् एव कृष्णादिभिः शब्दैः कंसवैरिणः श्री-कृष्णस्य पूजा बुधैः । पण्डितैः कर्तव्या । किम् अर्थम् ? संसार एव सागरः तस्य उत्तीर्त्यै उत्तरणाय । पुनः किम् अर्थम् ? सकल-मनोरथ-प्राप्त्य्-अर्थम् ॥ क्र्द्च्_४।४९ ॥
धूप-दान-विधिं दर्शयति-
साराङ्गारे घृत-विलुलितैर् जर्जरै संविकीर्णैर्
गुग्गुल्वाद्यैर् घन-परिमलैर् धूपम् आपाद्य मन्त्री ।
दद्यान् नीचैर् दनुज-मथनायापरेणाथ दोष्णा
घण्टां गन्धाक्षत-कुसुमकैर् अर्चितां वादयानः ॥ क्र्द्_४।५० ॥
गोविन्द-भट्टाचार्यः
साराङ्गारे दृढ-काष्ठाङ्गारे । खादिराङ्गारे इति त्रिपाठिनः । संविकीर्णैः क्षिप्तैः गुग्गुल्व्-आद्यैः गुग्गुलु-शर्करा-मधु-चन्दनागुरु-शीरैः घृत-विलुलितैर् धृत-प्लुतैः जर्जरैः कुट्टनेन चूर्णितैर् घन-परिमलैर् निविड-सौरभ-शालिभिः धूपम् आपाद्य कृत्वा मन्त्री उपासकः नीचैर् नाभि-प्रदेशे दनुज-मथनाय गोपाल-कृष्णाय दद्यात् । किं कुर्वन् ? अथानन्तरम् अपरेण वामेन दोष्णा हस्तेन गज-ध्वनि-मन्त्र-मातः स्वाहेति घण्टां वादयन् । किम्भूताम् ? गन्धाक्षत-पुष्पैः पूजिताम् ॥ क्र्द्च्_४।५० ॥
दीप-दाने विधिं दर्शयति-
तद्वद् दीपं सुरभि-घृत-संसिक्त-कर्पूर-वर्त्या
दीप्तं दृष्ट्याद्य्-अतिविशदधीः पद्म-पर्यन्तम् उच्चैः ।
दत्त्वा पुष्पाञ्जलिम् अपि च विधायार्पयित्वा च पाद्यं
साचामं कल्पयतु विपुल-स्वर्ण-पात्रे निवेद्य ॥ क्र्द्_४।५१ ॥
गोविन्द-भट्टाचार्यः
तद्वद् आपाद्य दीपं कुर्यात् । कया ? सुरभि सुगन्धि यद् घृतं तेन सिक्ता उक्षिता कर्पूर-सहिता वर्तिस् तया । कीदृशम् ? दृष्ट्या दीप्तम् । दृष्टि-मनोहरम् इति रुद्रधरः । पद्म-पर्यन्तं मस्तक-पर्यन्तम् उच्चैर् उपरि दत्त्वा दृष्ट्यादीति दक्षिणावर्तेन पद्म-पर्यन्तम् । चरण-कमल-पर्यन्तम् इति त्रिपाठिनः । पाद-पर्यन्तम् इति क्वचित् पाठः । अनन्तरं पुष्पाञ्जलिम् अपि शिरसि दत्त्वा पाद्याचमनीये च दत्त्वा विपुल-स्वर्ण-पात्रे बृहत्-कनक-भाजने नैवेद्यं कल्पयतु सम्पादयतु । साचामम् आचमन-सहितं प्रथमं वदनेत्य् आदिभिर् आचमनं दत्त्वा अनन्तरं नैवेद्यं ददात्व् इत्य् अर्थः ॥ क्र्द्च्_४।५१ ॥
नैवेद्य-स्वरूपं दर्शयति-
सुरभितरेण दुग्ध-हविषा सुशृतेन सिता-
समुपदेशकै रुचिर-हृद्य्-अविचित्र-रसैः ।
दधि-नव-नीत-नूतन-सितोपल-पूप-पुलि-
घृत-गुड-नारिकेल-कदली-फल-पुष्प-रसैः ॥ क्र्द्_४।५२ ॥
गोविन्द-भट्टाचार्यः
अतिसुरभिणा दुग्धान्नेन सुशृतेन सुपक्वेन सिता-समुपदेशकैः शर्करा-व्यञ्जनैः सह । शर्करया सह उपदंशकैर् व्यञ्जनैर् इति त्रिपाठिनः । अस्मिन् पक्षे शुचितेन सिता-समुपदंशकैर् इति पाठः । रुचिर इच्छी᳡अकरः हृद्यः सुस्वादः विचित्रो मधुरादि-रसो येषु तैः नूतनं श्रेष्ठं सितोपलं खण्डादि-प्रसिद्धं पुष्प-रसो मधु एतैर् द्रव्यैर् नैवेद्यं कल्पयतु ॥ क्र्द्च्_४।५२ ॥
किं विशिष्टं नैवेद्यं कल्पयतु, तत्राह-
अस्त्रोक्षितं तद्-अरि-मुद्रिकयाभिरक्ष्य
वायव्यतीयपरिशोषितमग्निदोष्णा ।
सन्दह्य वाम-कर-सौधरसाभिपूर्णं
मन्त्रामृतीकृतम् अथाभिमृषन् प्रजप्यात् ॥ क्र्द्_४।५३ ॥
गोविन्द-भट्टाचार्यः
मनुम् अष्टशः सुरभि-मुद्रिकया
परिपूर्णम् अर्चयतु गन्ध-मुखैः ।
हरिम् अर्चयेद् अथ कृत-प्रसवाञ्जलिर्
आस्यतो ऽस्य प्रसरेच् च महः ॥ क्र्द्_४।५४ ॥
मूल-मन्त्रास्त्र-मन्त्रेणास्त्राय फड्-इत्य् अनेन वा उक्षितं सिक्तं चक्र-मुद्रयाभिरक्ष्य वायव्येति वायु-बीज-जप्तोदक-प्रोक्षण-परिशोषित-दोषम् अग्नि-दोष्णा सन्दह्येति रम् इति वह्नि-बीजाभिजप्त-दक्षिण-करेण स्पृष्ट्वा दोषान् दग्ध्वा वाम-कर-सौध-रसाभिपूरणम् इति वाम-हस्तेन पिधाय बं-बीज-जपेनामृत-रसाभिपूर्णं विचिन्त्य मूल-मन्त्रेणामृत-रूपं विचिन्त्याथानन्तरं तद् एतादृशं नैवेद्यम् अभिमृशन् स्पृष्ट्वा मनुं मन्त्रम् अष्टशः अष्ट-वारं प्रजपतु सुरभि-मुद्रिकया धेनु-मुद्रिकया परिपूर्णं नैवेद्यं विचिन्त्य गन्ध-मुखैः चन्दनाद्यैः पूजयतु । दान-प्रकारं दर्शयति-हरिम् इत्य् आदिना । कृत-प्रसवाञ्जलिर् हरिं प्रत्यर्चयेत् नैवेद्य-ग्रहणायास्यतस् तेजो निःसरत्व् इति प्रार्थयेत्
। अथानन्तरम् अस्य हरेर् आस्यतो मुखतस् तेजो निःसरेत् प्रसरत्व् इति चिन्तयेत् । नैवेद्ये संयोजयेद् इति त्रिपाठिनः ॥ क्र्द्च्_४।५३-५४ ॥
वीतिहोत्रदयितान्तम् उच्चरन्
मूल-मन्त्रम् अथ निक्षिपेज् जलम् ।
अर्पयेत् तद् अमृतात्मकं हविर्
दोर्-युजा सुकुसुमं समुद्धरन् ॥ क्र्द्_४।५५ ॥
गोविन्द-भट्टाचार्यः
अथानन्तरं वीति-होत्र-दयितान्तं स्वाहा-कारान्तं मूल-मन्त्रम् उच्चरन् किञ्चिज् जलं तद्-उपरि क्षिपेत् प्रोक्षयेत् । अत्र स्वाहान्ते ऽपि मन्त्रे पुनः स्वाहा-पद-प्रयोगः कार्यः एतद्-बलाद् एव अनन्तर-दोर्-युजा हस्त-द्वयेन स-कुसुमं स-पुष्पं समुद्धरन् उत्तोलयन् तद्-अमृतात्मकं हविः समर्पयेत् ॥ क्र्द्च्_४।५५ ॥
नैवेद्यार्पण-मन्त्रम् आह-
निवेदयामि भगवते जुषाणेदं हविर् हरे ।
निवेद्यार्पणमन्त्रो ऽयं सर्वार्चासु निजाख्यया ॥ क्र्द्_४।५६ ॥
गोविन्द-भट्टाचार्यः
अयं मन्त्रः सर्वासु देवानां पूजासु निजाख्ययेति हरे इत्य् अस्मिन् स्थाने यस्मै देवाय दीयते तन्-नाम-ग्रहणङ्कर्तव्यम् इति निजाख्या-शब्दार्थः । निवेद्याख्ययेति केचित् ॥ क्र्द्च्_४।५६ ॥
भोजनोपयोगि-मुद्रा-विशेषं दर्शयति-
ग्रास-मुद्रां वाम-दोष्णा विकचोत्पल-सन्निभाम् ।
प्रदर्शयेद् दक्षिणेन प्राणादीनां च दर्शयेत् ॥ क्र्द्_४।५७ ॥
गोविन्द-भट्टाचार्यः
वाम-दोष्णा ग्रास-मुद्रां दर्शयेत् । किम्भूताम् ? प्रफुल्लोत्पल-सदृशीम् । अनन्तरं दक्षिण-हस्तेन प्राणादीनां वक्ष्यमाणां मुद्रां दर्शयेद् इति ॥ क्र्द्च्_४।५७ ॥
स्पृशेत् कनिष्ठोपकनिष्ठे द्वे
अङ्गुष्ठ-मूर्ध्ना प्रथमेह मुद्रा ।
तथापरा तर्जनी-मध्यमे स्याद्
अनामिक-मध्यमिके च मध्या ॥ क्र्द्_४।५८ ॥
गोविन्द-भट्टाचार्यः
अनामिक-तर्जनी-मध्यमाः स्यात्
तद्वच् चतुर्थी-स-कनिष्ठिकास् तः ।
स्यात् पञ्चमी तद्वद् इति प्रदिष्टा
प्राणादि-मुद्रा निज-मन्त्र-युक्ताः ॥ क्र्द्_४।५९ ॥
कनिष्ठोपकनिष्ठे कनिष्ठानामिके द्वे स्वाङ्गुष्ठ-मूर्ध्ना स्पृशेत् । इह मुद्रा प्रथमा तथा तर्जनी-मध्यमे स्वाङ्गुष्ठ-मूर्ध्ना स्पृशेत् अनामिक-मध्यमिके च तेन स्पृशेद् एवं व्यान-मुद्रा अनामा-तर्जनी-मध्यमास् तेन स्पृशेत् । चतुर्थी उदानस्य तास् तिस्रः कनिष्ठा-सहिताः । तद्वत् स्वाङ्गुष्ठ-मूर्ध्ना यदि स्पृशेत् तदा समान-मुद्रा इत्य् अनेन प्रकारेण प्राणादि-मुद्राः प्रदिष्टाः कथिताः । किम्भूताः ? यथायोग्य-स्व-मन्त्र-सहिताः मन्त्र-साहित्येन तासां मुद्रात्वं भवति बिल्व-मुद्रावद् इत्य् अर्थः ॥ क्र्द्च्_४।५८-५९ ॥
के ते मन्त्रा इत्य् आकाङ्क्षायां प्राणादीनां मन्त्रान् आह-
प्राणापान-व्यानोदान-समानाः क्रमाच् चतुर्थ्य्-अन्ताः ।
ताराधारा वध्वा चेद्धाः कृष्णाध्वनस् त्व् इमे मनवः ॥ क्र्द्_४।६० ॥
गोविन्द-भट्टाचार्यः
प्राणादयः पञ्च क्रमाच् चतुर्थी-विभक्ति-सहिताः तथा तारा-धाराः ओङ्काराधाराः प्रणवाद्या इत्य् अर्थः । तथा कृष्णाध्वनो ऽग्नेर् वध्वा प्रियया इद्धा उद्दीप्ताः सम्बद्धाः स्वाहा-कारान्ता इत्य् अर्थः । एवं च सति ॐ प्राणाय स्वाहा इत्य् आद्याः पञ्च मन्त्रा भवतीत्य् अर्थः ॥ क्र्द्च्_४।६० ॥
निवेद्य-मुद्रां प्रदर्शयन् मन्त्रं च दर्शयति-
ततो निवेद्य मुद्रिकां प्रधानया कर-द्वये ।
स्पृशन्न् अनामिकां निजं मनुं जपन् प्रदर्शयेत् ॥ क्र्द्_४।६१ ॥
गोविन्द-भट्टाचार्यः
ततस् तद्-अनन्तरं निवेद्य-मुद्रां प्रदर्शयेत् । किं कुर्वन् ? कर-द्वये करयोर् अनामिकां प्रधानयाङ्गुष्ठेन स्पृशन् । पुनः किं कुर्वन् ? निजं स्वीयं मनुं मन्त्रं प्रजपन् ॥ क्र्द्च्_४।६१ ॥
मन्त्रम् उद्धरति-
नन्दजो ऽम्बु-मनु-बिन्दु-युङ् नतिः
पार्श्व-रा-मरुद्-अवात्मने नि च ।
रुद्ध-ङे-युत-निवेद्यम् आत्म-भूर्
मास-पार्श्वम् अनिलस् तथाऽमि-युक् ॥ क्र्द्_४।६२ ॥
गोविन्द-भट्टाचार्यः
नन्दजः ठ-कारः अम्बुः व-कारः मनुः औ-कारः बिन्दुः एतैर् युक्ता नतिर् नमः पार्श्वः प-कारः रा इति स्वरूपं मरुत् य-कारः अवात्मने इति अनि स्वरूपं रुद्धं इति स्वरूपं ङे चतुर्थी अनिरुद्ध-शब्दश् चतुर्थी-युक्त इत्य् अर्थः । निवेद्यम् इति त्रयः आत्म-भूः क-कारः मांसो ल-कारः पार्श्वः प-कारः ल-कार-य-काराभ्यां युक्तो ऽनिलो य-कारः अमीति स्वरूपं तथा ठ्वौं नमः पर्यावात्मने अनिरुद्धाय नैवेद्यं कल्पयामि इति मन्त्रः ॥ क्र्द्च्_४।६२ ॥
मण्डलम् अभितो मन्त्री
बीजाङ्कुर-भाजनानि विन्यस्य ।
पिष्टमयान् अपि दीपान्
घृत-पूर्णान् विन्यसेत् सुदीप्त-शिखान् ॥ क्र्द्_४।६३ ॥
गोविन्द-भट्टाचार्यः
मण्डल-परितो बीजाङ्कुर-पात्राणि संस्थाप्य तथैव पिष्ट-कृतान् घृत-परिपूर्णान् प्रज्वलित-शिखान् प्रदीपान् स्थापयेत् ॥ क्र्द्च्_४।६३ ॥
दीक्षाङ्ग-होम-विधिं दर्शयति-
अथ संस्कृते हुतवहे ऽमल-धीर्
अभिवाह्य सम्यग् अभिपूज्य हरिम् ।
जुहुयात् सिताघृत-युतेन पयः
परिसाधितेन सित-दीधितिना ॥ क्र्द्_४।६४ ॥
गोविन्द-भट्टाचार्यः
अष्टोत्तरं सहस्रं समाप्य
होमं पुनर् बलिं दद्यात् ।
राशिष्व् अधिनाथेभ्यो
नक्षत्रेभ्यस् ततश् च करणेभ्यः ॥ क्र्द्_४।६५ ॥
अथानन्तरं शास्त्रोक्त-संस्कारैः संस्कृते वह्नौ निर्मल-बुद्धिः यथोक्त-रूपं हरिम् आवाह्य गन्धादिभिश् च यथाविधि सम्पूज्याष्टोत्तर-सहस्रं जुहुयात् । केन सित-दीधितिना भक्तेन कीदृशेन पयः-परिसाधितेन दुग्ध-परिपाचितेन परमान्नेनेत्य् अर्थः । पुनः कीदृशेन ? सिता-घृत-युतेन शर्करा-घृत-सहितेन अनन्तरं यथोक्त-होमं समाप्यावशिष्ट-परमान्नेन राशिषु मेषादिषु अधिनाथेभ्यो राशि-देवताभ्यो मङ्गलादिभ्यः नक्षत्रेभ्यो ऽश्विन्यादिभ्यः करणेभ्यो ववादिभ्यो बलिं दद्यात् । प्रयोगस् तु मेष-वृश्चिकाधिपतये मङ्गलाय एष बलिर् नमः एवं वृष-तुलाधिपतये शुक्राय मिथुन-कन्याधिपतये बुधाय कर्कटाधिपतये चन्द्राय सिंहाधिपतये सूर्याय दनुर्-मीनाधिपतये गुरवे मकर-कुम्भाधिपतये
शनये एव बलिर् नमः । एवं अश्वनी-भरणी-कृत्तिकापादीय-मेष-राशये एष बलिर् नम इत्य् आदि । एवं वववालकीलवतैतिल-गर-वणिज-विष्टिभ्यः एष बलिर् नमः ॥ क्र्द्च्_४।६४-६५ ॥
पूजानन्तरं प्रकारम् आह-
सम्पाद्य पानीय-सुधां समर्प्य
दत्त्वाम्भ उदास्य मुखार्चिर् आस्ये
नैवेद्यम् उद्धृत्य निवेद्य विष्वक्
सेनाय पृथ्वीम् उपलिप्य भूयः ॥ क्र्द्_४।६६ ॥
गोविन्द-भट्टाचार्यः
पानीयम् एव धेनु-मुद्रया सुधां कृत्वा पानार्थं कृष्णाय समर्प्याम्भो दत्त्वा जलम् आचमनार्थं दत्त्वा मुखार्चिर्-देव-मुखान् नैवेद्ये ऽवतारितं तेज आस्ये देव-मुखे उद्वास्य निवेश्य नैवेद्यम् उत्तोल्य विश्वक्सेनाय देव-गणाय नैवेद्यं समर्प्य पृथिवीम् उपलिप्य ॥ क्र्द्च्_४।६६ ॥
गण्डूष-दन्त-धवनाचमनास्य-हस्त-
मृज्यानुलेपमुखवासकमाल्य-भूषाः ।
ताम्बूलम् अप्य् अभिसमर्प्य सुवाद्य-नृत्य-
गीतैः सुतृप्तम् अभिपूजयतात् पुनर् एव ॥ क्र्द्_४।६७ ॥
गोविन्द-भट्टाचार्यः
भूयः पुनर् अपि गण्डूषं चुलूकोदकं दन्त-धवनं दन्त-काष्ठम् । दन्त-धवनं दन्त-धावनम् इति त्रिपाठिनः । आचमनं शेषाचमने द्विर्-आचमनम् आस्य-हस्तयोर् मृज्यं मुख-हस्तयोः प्रोञ्छन-वस्त्रम् अनुलेपश् चन्दनादिः मुखं वास्यते सुरभि क्रियते अनेनेति मुख-वासं कर्पूरादि माल्यं पुष्पं भूषालङ्करणं ताम्बूलम् अपि समुच्चये एतानि समर्प्य पुनर् एव यथा-पूर्वं पूजा कृता एवं सुवाद्य-नृत्य-गीतैः सुतृप्तं हरिं नत्वा भिपूजयेत् ॥ क्र्द्च्_४।६७ ॥
गन्धादिभिः सपरिवारम् अथार्घम् अस्मै
दत्त्वा विधाय कुसुमाञ्जलिम् आदरेण ।
स्तुत्वा प्रणम्य शिरसा चुलुकोदकेन
स्वात्मानम् अर्पयतु तच् चरणाब्ज-मूले ॥ क्र्द्_४।६८ ॥
गोविन्द-भट्टाचार्यः
कैः ? गन्धादिभिः सपरिवारं पूर्वोक्तावरण-सहितम् अथानन्तरम् अस्मै हरये अर्घ्यं दत्त्वा आदरेण पुष्पाञ्जलिं दत्त्वा स्तुत्वा शिरसा प्रणम्य सच्-चरणारविन्द-मूले स्वात्मानं चुलुकेन अर्घ-शेष-जलेन समर्पयतु ॥ क्र्द्च्_४।६८ ॥
आत्मनः समर्पण-मन्त्रम् आह इत इत्य् आदिना स्वात्म-समर्पणे इत्य् अन्तेन ग्रन्थेन-
इतः पूर्वं प्राण-बुद्धि-देह-धर्माधिकारतो जाग्रत्-स्वप्न-सुषुप्त्य्-अवस्थासु मनसा वाचा कर्मणा हस्ताभ्यां पद्भ्याम् उदरेण शिश्ना यत् स्मृतं यद् उक्तं यत् कृतं तत् सर्वं ब्रह्मार्पणं भवतु स्वाहा मां मदीयं च सकलं हरये सम्यग् अर्पये ॐ तत् सद् इति च प्रोक्त-मन्त्रः स्वात्म-समर्पणे ॥
एतच् च मन्त्र-त्रयं स्पष्टत्वान् न लिख्यते-
अनुस्मरन् कलशगम् अच्युतं जपेत्
सहस्रकं मनुम् अथ साष्टकं बुधः ।
वपुष्य् अथो दितिजाजितः समावृतीर्
विलाप्य तास् तद् अपि नयेत् सुधात्मताम् ॥ क्र्द्_४।६९ ॥
गोविन्द-भट्टाचार्यः
अथानन्तरं बुधः पण्डितः कलशगं कुम्भादि-निष्ठं हरिं चिन्तयन् साष्टकम् अष्ट-सहितं सहस्रं मनुं मन्त्रं जपेत् । अथानन्तरं दितिज-जितः श्री-कृष्णस्य वपुषि शरीरे ताः पूर्वोक्ताः समावृतीः आवरण-देवता विलाप्य् विलीना इति विचिन्त्य तद् अपि देव-वपुः सुधात्मताम् अमृततां नयेत् ॥ क्र्द्च्_४।६९ ॥
ध्वज-तोरण-दिक्-कलशादि-गताम्
अपि मण्डप-मण्डल-कुण्ड-गताम् ।
अभियोज्य चितिं कलशे कुसुमैः
परिपूज्य जपेत् पुनर् अष्टशतम् ॥ क्र्द्_४।७० ॥
गोविन्द-भट्टाचार्यः
कलशे चितिं मन्त्र-देवतां चैतन्य-रूपम् अभियोज्य कुसुमैः पुष्पैः सम्पूज्य पुनर् अष्ट-सहितं शतं जपेत् । किम्भूताम् ? चितिं ध्वज-तोरण-दिक्-कलशादि-गतां न केवलं ध्वजादि-गताम् अपि तु मण्डले मण्डपे कुण्ड-गताम् ॥ क्र्द्च्_४।७० ॥
अथ शिष्य उपोषितः प्रभाते
कृत-नैत्यः सुसिताम्बरः सुवेशः ।
धरणी-धन-धान्य-गोकुलैर्
धिनुयाद् विप्र-वरान् हरेः प्रसत्त्यैः ॥ क्र्द्_४।७१ ॥
गोविन्द-भट्टाचार्यः
अथानन्तरम् उपोषितः कृतोपवासः शिष्यः प्रभाते प्रातः-काले कृत-नित्य-कृत्यः शुक्ल-वस्त्र-धरः सुवेशः शोभन-भूषणः धरणी पृथिवी धनं सुवर्णादि धान्यं व्रीह्य्-आदि गौर् दोग्ध्री दुकूलं पट्ट-वस्त्रम् एतैर् यथा-योग्यं विप्र-वरान् ब्राह्मण-श्रेष्ठान् धिनुयात् प्रीणयेत् । किम्-अर्थम् ? हरेः श्री-कृष्णस्य प्रसादार्थम् ॥ क्र्द्च्_४।७१ ॥
भूयः प्रतर्प्य प्रणिपत्य देशिकं
तस्मै परस्मै पुरुषाय देहिने ।
तां वित्त-शाठ्यं परिहृत्य दक्षिणां
दत्त्वा तनुं स्वां च समर्पयेत् सुधीः ॥ क्र्द्_४।७२ ॥
गोविन्द-भट्टाचार्यः
भूयः पुनर् अपि प्रतर्प्य ब्राह्मणान् सन्तोष्य पुनः कथनम् अत्यन्त-तर्पणार्थं परीत्येति पाठे प्रदक्षिणी-कृत्येत्य् अर्थः । देशिकं गुरुं प्रणिपत्य नमस्कृत्य तस्मै गुरवे देहिने देह-धारिणे परस्मै पुरुषाय श्री-कृष्णाय धन-शाठ्यं परिहृत्य वैभवानुसारेण तां प्रसिद्धां वित्तार्धं चतुर्थांशं वा दत्त्वा न तु दक्षिणाम् इव मन्त्रादानानन्तरम् एव तत्-प्रसङ्गात् स्वां स्वीयां तनुं सुबुद्धिः समर्पयेत् ॥ क्र्द्च्_४।७२ ॥
अथाभिषेक-मण्डपे सुखोपविष्टम् आसने ।
गुरुर् विशोधयेद् अमुं पुरेव शोषणादिभिः ॥ क्र्द्_४।७३ ॥
गोविन्द-भट्टाचार्यः
अथानन्तरं गुरुर् अमुं शिष्यं पुरेव पूर्ववद् एव शोषणादिभिर् भूत-शुद्ध्य्-आदिभिर् विशोधयेत् । कीदृशम् ? अभिषेक-मण्डपे आसने सुखोपविष्टम् ॥ क्र्द्च्_४।७३ ॥
पीठ-न्यासावसानं वपुषि विमल-धीर् न्यस्य तस्यासिकाया
मन्त्रेणाभ्यर्च्य दूर्वाक्षत-कुसुम-युतां रोचनां के निधाय ।
आशीर्वादैर् द्विजानां विशद-पटु-रवैर् गीत-वादित्र-घोषैर्
माङ्गल्यैर् आनयत्तं कलशम् अभिवृतस् तत्-समीपं प्रतीतः ॥ क्र्द्_४।७४ ॥
गोविन्द-भट्टाचार्यः
तस्य शिष्यस्य वपुषि शरीरे पीठ-न्यासावसानं पीठ-न्यास-पर्यन्तं सकलं न्यासं विन्यस्य आसिकाया आसनस्य मन्त्रेणासनं पूजयित्वा रोचनां मस्तके निधाय तिलकं कारयित्वा । कीदृशीं रोचनाम् ? दूर्वाक्षत-पुष्प-सहिताम् । अनन्तरं द्विजानाम् आशीर्वादैर् गीति-मङ्गलादि-शब्दैः । कीदृशैर् एतैः ? विशद-पटु-रवैः स्पष्टोत्तम-शब्दैः तथा अन्यैर् अपि माङ्गल्यैर् मङ्गलस्योपयुक्तैः सहितं तं कलशम् अभिवृत आचार्यत्वेन वृतः तत्-समीपं शिष्य-समीपम् आनयेत् । कीदृशः ? शिष्यात्मीयतया प्रतीतो विश्वासान्वितो यः कश्चिद् इत्य् अर्थः ॥ क्र्द्च्_४।७४ ॥
तेनाभिलीन-मणि-मन्त्र-महौषधेन
धाम्ना पेरण परमामृत-रूप-भाजा ।
सम्पूरयन् वपुर् अमुष्य ततो वितन्वन्
तत्-सामरस्यमभिषेचयताद् यथावत् ॥ क्र्द्_४।७५ ॥
गोविन्द-भट्टाचार्यः
कुम्भस्य पल्वलान् शिष्य-शिरसि निधाय तेन कलसेनेत्य् अर्थाद् यथावत् यथा-युक्त-प्रकारेणाभिषेचयेत् अभिषेचनं कुर्यात् । तद् उक्तम्-
विधिवत् कुम्भम् उद्धृत्य तन्-मुखस्थान् सुर-द्रुमान् ।
शिशोः शिरसि विन्यस्य मातृकां मनसा जपेत् ॥ इति ।
किम्भूतेन ? अभिलीनः संलीनः मणिर् नव-रत्नानि मन्त्रः ऋक् महौषधं दिव्य-पिप्पली-प्रभृति यत्र तेन । कीदृशेन ? परेण धाम्ना पर-तेजः-स्वरूपेण । पुनः कीदृशेन ? परमामृत-रूप-भाजा परमामृत-रूप-मयेन । किं कुर्वन् ? अमुष्य शिशोर् वपुः शरीरं पूरयन् । किं कुर्वन् ? ततस् तद्-अनन्तरं तत्-सामरस्यं तेन तेन तेजो-रूपेण कलशैक्यं वितन्वन् ॥ क्र्द्च्_४।७५ ॥
अभिषेकम् आह-
क्षाद्यैर् आन्तैर् वर्णैर् अभिपूर्ण-तनुस् त्रिर् उक्त-मन्त्रान्तैः ।
परिहित-सिततर-वमन-द्वितीयो वाचंयमः समाचान्तः ॥ क्र्द्_४।७६ ॥
गोविन्द-भट्टाचार्यः
क्ष-आदिर् येषां तैः आन्तैः अ-कारान्तो येषां तैर् वर्णैर् मातृकाक्षरैर् मूल-मन्त्र-त्रि-जपावसानैर् अभिषिक्त-शरीरः शिष्यः धृत-नवीनातिशुक्ल-वसन-युगलः मौनी कृत-द्विर्-आचमनः ॥ क्र्द्च्_४।७६ ॥
बहुशः प्रणम्य देशिक-नामानं हरिम् अथोपसङ्गम्य ।
तद्-दक्षिणत उपास्ताम् अभिमुखम् एकाग्र-मानसः शिष्यः ॥ क्र्द्_४।७७ ॥
गोविन्द-भट्टाचार्यः
बहु-वारं देशिक-नामानं गुरु-रूपं हरिम् नत्वा अथानन्तरम् उपसङ्गृह्य गुरु-चरणौ व्यत्यस्त-हस्त-द्वयं कृत्वा तद्-दक्षिणतो गुरु-दक्षिणे अभिमुखं गुरु-सम्मुखम् एकाग्र-मानसः एक-चित्तस् तिष्ठेत् उपविशेत् ॥ क्र्द्च्_४।७७ ॥
न्यासैर् यथाविधि तम् अच्युत-साद्विधाय
गद्न्हाक्षतादिभिर् अलङ्कृत-वर्ष्मणो ऽस्य ।
ऋष्य्-आदि-युक्तम् अथ मन्त्र-वरं यथावद्
ब्रूयात् त्रिशो गुरुर् अनर्घ्यम् अवाम-करेण ॥ क्र्द्_४।७८ ॥
गोविन्द-भट्टाचार्यः
अथानन्तरं यथा-विधि यथोक्त-प्रकारेण न्यासैः पञ्चाङ्ग-न्यासादिभिः ते शिष्यम् अच्युत-साद्-विधाय श्री-कृष्ण-रूपं कृत्वा गन्धाक्षत-पुष्पैः विभूषित-शरीरस्यास्य अवाम-कर्णे दक्षिण-कर्णे ऋषि-च्छन्दो-देवता-सहितम् अनर्घ्यम् अमूल्यं मन्त्र-वरं मन्त्र-श्रेष्ठं त्रिशः त्रि-वारं ब्रूयात् यथावत् यथोक्त-प्रकारेण स च प्रकारः प्रथमं दक्षिण-हस्ते गुरुर् जलं ददाति अमुक-मन्त्रं ददामीति अनेन शिष्यो ऽपि ददस्व इति ब्रूयात् ततो मन्त्रं दद्याद् इति अत्रावश्यं वार-त्रयं गुरुणा मन्त्रः पठनीयः दत्ते यावच् छिष्यस्य मन्त्रः स्वायत्तो भवति तावत् पठनीय इति ॥ क्र्द्च्_४।७८ ॥
मन्त्र-ग्रहणानन्तरं शिष्य-कृत्यं दर्शयति-
गुरुणा विधिवत् प्रसादितं
मनुम् अष्टोर्ध्व-शतं प्रजप्य भूयः ।
अभिवाद्य ततः शृणोतु सम्यक्
समयान् भक्ति-भरेण नम्र-मूर्तिः ॥ क्र्द्_४।७९ ॥
गोविन्द-भट्टाचार्यः
यथा-विधि गुरुणा हेतुना प्राप्तं मन्त्रं प्रसाधितम् अनुग्रहेण दत्तम् इति त्रिपाठिनः । अष्टौ ऊर्ध्वं यस्य तस्य तद् अष्टाधिक-शतं प्रजप्य भूयः पुनर् अपि गुरुम् अभिवाद्यं नमस्कृत्य दण्डवत् प्रणम्य ततो गुरुतः समयान् आचारान् सम्यक् कृत्वा शृणोतु यत् तु विद्याम् अष्ट-कृत्वो जपेद् इति तत्-तन्-न्यून-सङ्ख्या-कल-जप-निषेध-परम् । कीदृशः ? भक्त्यातिशयेन नम्र-शरीरः ॥ क्र्द्च्_४।७९ ॥
मन्त्र-दानानन्तरं गुरु-कृत्यम् आह-
दत्त्वा शिष्याय मनुं न्यस्याथ गुरुः कृतात्म-यजन-विधिः ।
अष्टोत्तरं सहस्रं स्व-शक्तिहान्य-नवाप्तये जप्यात् ॥ क्र्द्_४।८० ॥
गोविन्द-भट्टाचार्यः
अथानन्तरं गुरुः शिष्याय मन्त्रं दत्त्वा न्यस्य न्यासादिकं कृत्वा कृतात्म-यजन-विधिः कृताभ्यन्तर-यागः अष्टाधिकं सहस्रं स्व-सामर्थ्य-हान्य्-अनवाप्तये स्व-सामर्थ्य-रक्षार्थं दत्त-मन्त्रं जपेत् ॥ क्र्द्च्_४।८० ॥
शिष्य-कृत्यम् आह-
कुम्भादिकं च सकलं गुरवे समर्प्य
सम्भोजयेद् द्विज-वरान् अपि भोज्य-जातैः ।
कुर्वन्त्य्ः अनेन विधिना य इहाभिषेकं
ते सम्पदां निलयनं हि त एव धन्याः ॥ क्र्द्_४।८१ ॥
गोविन्द-भट्टाचार्यः
कुम्भादिकं सकलं मण्डल-सहितं मण्डपावस्थित-द्रव्यं गुरवे समर्प्य दत्त्वा भोज्य-समूहैर् द्विज-श्रेष्ठान् सन्तोषयेत् एतत्-करणस्य फलम् आह-इह जगति अनेन विधिना अनया परिपाट्या ये अभिषेकं कुर्वन्ति ते सम्पदां सर्व-समृद्धीनां निलयनं स्थानं त एव धन्याः पुरुषार्थ-भागिनः ॥ क्र्द्च्_४।८१ ॥
उक्तम् अर्थम् उपसंहरति-
सङ्क्षिप्य किञ्चिद् उदिता दीक्षा
संस्मरणाय हि विशद-धियाम् ।
एतां प्रविश्य मन्त्री सर्वान्
जपेज् जुहोतु यजेच् च मनून् ॥ क्र्द्_४।८२ ॥
गोविन्द-भट्टाचार्यः
किञ्चित् सङ्क्षिप्य दीक्षा उक्ता कथिता विशद-धियां निर्मल-बुद्धीनां संस्मरणाय एतां दीक्षां प्रविश्य प्राप्य मन्त्री साधकः सर्वान् मन्त्रान् जपेत् यजेज् जुहोतु ॥ क्र्द्च्_४।८२ ॥
इति श्री-केशवाचार्य-विरचितायां क्रम-दीपिकायां
दीक्षा-पूजा-नाम चतुर्थ-पटलः
॥४॥
(५)