इदानीं मन्त्र-द्वय-साधारणं देवता-ध्यानम् आह-
अथ प्रकट-सौरभोद्गलित-माध्वीकोत्फुल्लसत्-
प्रसून-नव-पल्लव-प्रकर-नम्र-शाखैर् द्रुमैः ।
प्रफुल्ल-नव-मञ्जरी-ललित-वल्लरी-वेष्टितैः
स्मरेच् छिशिरितं शिवं सित-मतिस् तु वृन्दावनम् ॥ क्र्द्_३।१ ॥
गोविन्द-भट्टाचार्यः
अथानन्तरं सित-मतिः निर्मल-मतिः वृन्दावनं स्मरेच् चिन्तयेत् । किम्भूतम् ? द्रुमैः वृक्षैः शिशिरितं शीतली-कृतम् । द्रुमैः कीदृशैः ? प्रकटेति उद्भट-सौरभम् । अथ च उद्गलितो माध्वीको मधु यस्मिन् तत् । अथ च उत्फुल्लं प्रफुल्लम् । अथ च सद्-देदीप्यमानम् एतादृशं प्रसूनं पुष्पं तथा नव-पल्लवः अनयोर् यः प्रकरः समूहः । तेन नम्राः शाखा येषां ते तथा तैः । प्रकट-सौरभाकुलित-मत्त-भृङ्गोल्लसत्-प्रसूनेति पाठे प्रकट-सौरभेणाकुलितं सर्वतो व्याप्तम् । अथ च मत्त-भृङ्गोल्लसन् मत्त-भ्रमरेण शोभमानम् एतादृशं यत् प्रसूनम् इत्य् अर्थः । पुनः कीदृशैः ? प्रफुल्ला विकसिता या नव-मञ्जरी तया ललिता मनोहरा या वल्लरी लताग्र-शाखा तस्याश् चेष्टितं
चलनं येषु तैः । पुनः कीदृशं ? शिवं कल्याण-प्रदम् ॥ क्र्द्च्_३।१ ॥
सनातनः: इतः-प्रभृति ये ३६-श्लोकाः प्राप्यन्ते ते श्री-हरि-भक्ति-विलासे उद्दृताः श्री-सनातन-गोस्वामि-प्रभुपादानां व्याख्याताश् च । तेषां व्याख्यायास् तु अत्रत्याया नातिविसादृश्यत्वात् सात्र नोद्ध्रियते । तत्रैव ते द्रष्टव्याः ।
पुनः कीदृशम् ?
विकाशि-सुमनो-रसास्वादन-मञ्जुलैः सञ्चरच्-
छिलीमुखोद्गतैर् मुखरितान्तरं झङ्कृतैः ।
कपोत-शुक-शारिकापर-भृतादिभिः पत्रिभिर्
विराणितम् इतस् ततो भुजग-शत्रु-नृत्याकुलम् ॥ क्र्द्_३।२ ॥
गोविन्द-भट्टाचार्यः
वृन्दावनं झङ्कृतैः शब्द-विशेषैर् मुखरितान्तरं शब्दायमानाभ्यन्तरम् । कीदृशैः ? झङ्कृतैः विकाशिन्याः प्रफुल्लायाः सुमनसः पुष्पस्य यो रसः मधु तस्य यद्-आस्वादनम् अवलेहनं तेन मञ्जुलैर् मनोहरैः । पुनः कीदृशैः ? सञ्चरेति सञ्चरन्तो भ्रमन्तो ये शिलीमुखोद्गतैर् भ्रमरास् तेषां मुखेभ्य उद्गतैः समुत्थितैः । पुनः कीदृशम् ? वृन्दावनं कपोतेति पारावत-शुक-शारिका-कोकिल-प्रभृतिभिः पक्षिभिर् इतस् ततो विराणितं शब्दायितम् । पुनः कीदृशम् ? भुजग-शत्रुर् मयूरस् तस्य नृत्येनाकुलं व्याप्तम् ॥२॥
पुनः कीदृशम् ?
कलिन्द-दुहितुश् चलल्-लहरि-विप्रुषां वाहिभिर्
विनिद्र-सरसी-रुहोदर-रजश् चयोद्धूसरैः ।
प्रदीपित-मनोभव-व्रज-विलासिनी-वाससां
विलोलन-परैर् निषेवितम् अनारतं मारुतैः ॥ क्र्द्_३।३ ॥
मारुतैर् वायुभिः अनारतं सर्वदा निषेवितम् । कीदृशैर् मारुतैः ? कलिन्देति कलिन्द-दुहितुर् यमुनायाश् चलन्त्यो या लहर्यः तासां या विप्रुषो जल-बिन्दवः तासां वाहिभिः । एतेन वायोः शैत्यम् उक्तम् । पुनः कीदृशैः ? विनिद्रेति विनिद्रं प्रफुल्लं यत् सरसीरुहं पद्मं तस्य यद् उदरम् अभ्यन्तरं तत्र यो रजश् चयो धूली-समूहः तेन उद्धूसरैः, एतेन सौरभ्यम् उक्तम् । पुनः कीदृशैः ? प्रदीपितेति प्रदीपितो ऽतिशयितो मनोभवः कामो यासां व्रज-विलासिनीनां गोप-सुन्दरीणां तासां यानि वासांसि वस्त्राणि तेषां विलोलन-परैः चालना-शक्तैः । एतेन मान्यम् उक्तम् ॥ क्र्द्च्_३।३ ॥
पुनः कीदृशम् ?
प्रवाल-नव-पल्लवं मरकत-च्छदं वज्र-मौ-
क्तिक-प्रकर-कोरकं कमल-राग-नाना-फलम् ।
स्थविष्ठम् अखिल-र्तुभिः सतत-सेवितं कामदं
तद्-अन्तरम् अपि कल्पकाङ्घ्रिपम् उदञ्चितं चिन्तयेत् ॥ क्र्द्_३।४ ॥
गोविन्द-भट्टाचार्यः
तद्-अन्तर् अपि वृन्दावन-मध्ये कल्पकाङ्घ्रिपम् अपि चिन्तयेत् । कीदृशम् ? उदञ्चितम् उच्छ्रितम् । पुनः कीदृशम् ? स्थविष्ठम् स्थूलतरम् । पुनः कीदृशम् ? प्रवालो विद्रुमः स एव नव-पल्लवः किसलयं यस्य तम् । पुनः कीदृशम् ? मरकतो यो मणि-विशेषः स एव छदं पत्रं यस्य तम् । पुनः कीदृशम् ? वज्रं हीरकं मौक्तिकं मुक्ताः । अनयोर् यः प्रकरः समूहः स एव कोरकः पुष्प-कलिका यत्र तम् । पुनः कीदृशम् ?
कमल-रागः पद्म-राग-मणिः स एव नाना-विधं फलं यत्र तम् । पुनः कीदृशम् ? अखिलैर् ऋतुभिः षड्भिर् अपि ऋतुभिः सततं सेवितं सदा परिगृहीतम् । एतेन सर्व-पुष्पान्वितत्वं दर्शितम् । पुनः कीदृशम् ? कामदम् आकाङ्क्षित-प्रदम् ॥ क्र्द्च्_३।४ ॥
सुहेम-शिखरावलेर् उदित-भानुवद्-भास्वराम्
अधो ऽस्य कनक-स्थलीम् अमृत-शीकरासारिणः ।
प्रदीप्त-मणि-कुट्टिमां कुसुम-रेणु-पुञ्जोज्ज्वलां
स्मरेत् पुनर् अतन्द्रितो विगत-षट्तनङ्गां बुधः ॥ क्र्द्_३।५ ॥
गोविन्द-भट्टाचार्यः
बुधः पण्डितः अतन्द्रितः निरालस्यः आलस्य-रहितः सन् अस्य कल्प-वृक्षस्याधस्तात् । कनक-स्थलीं सुवर्ण-मयीं भूमिम् । पुनः स्मरेत् चिन्तयेत् । किम्भूतां सुहेमेति । शोभमाना सुवर्ण-शृङ्ग-पङ्क्तिर् यस्य । तथा तस्माद् उदयाचलाद् उदित-भानुवत् प्रकटित-सूर्यवत् प्रकटित-सूर्यवत् भास्वरां देदीप्यमानां सुहेम-शिखराचले ऽप्य् उदितेति पाठे शोभनं हेम-शृङ्गं यत्र अचले पर्वते तस्मिन् अपि-शब्दो भिन्न-क्रमः कनक-स्थलीम् इत्य् अस्यानन्तरं द्रष्टव्यम् । अस्य कीदृशस्य अमृतेति ? अमृतस्य यः शीकरः कणस् तस्यासारो यः समूहः पतनं तच्-छालिं यथा स्यात् तथा तस्यामृत-कण-समूह-संवर्षिणः । कीदृशीम् ? प्रदीप्तैः पीप्यमान-मणिभिः पद्म-रागादिभिः बद्ध-भूमिम्
। पुनः कीदृशीम् ? कुसुमेति कुसुम-रेणु-पुञ्जैर् उज्ज्वलाम् । पुनः कीदृशीम् ? विगतेति विगता दूरीभूता षट्-तरङ्गाः काम-क्रोधादयः अशनायापि पासाशोक-मोह-जरा-मृत्यवो वा यस्यास् ताम् ॥ क्र्द्च्_३।५ ॥
तद्-रत्न-कुट्टिम-निविष्ट-महिष्ठ-योग-
पीठे ऽष्ट-पत्रम् अरुणं कमलं विचिन्त्य ।
उद्यद्-विरोचन-सरोचिर् अमुष्य मध्ये
सञ्चिन्तयेत् सुख-निविष्ठम् अथो मुकुन्दम् ॥ क्र्द्_३।६ ॥
गोविन्द-भट्टाचार्यः
तस्याः कनक-स्थल्याः यद्-रत्न-कुट्टिमं रत्न-बद्ध-भू-भागः । तत्र निविष्टं स्थितं महिष्ठं महद् योग-पीठं तत्राष्ट-पत्रम् अष्टौ पत्राणि यत्र तत् तथारुणं लोहितम् । अत एवोद्यतादित्य-सन्निभम् । एवम्भूतं पद्मं विचिन्त्य । अथानन्तरम् अमुष्यारुण-वर्णाष्ट-दल-कमलस्य मध्ये मुकुन्दम्ं कृष्णं चिन्तयेत् । कीदृशम् ? सुख-निविष्ठं सुखासीनम् आदि-कुलकम् अत आरभ्य ॥ क्र्द्च्_३।६ ॥
पुनः कीदृशम् ?
सूत्राम-रत्न-दलिताञ्जन-मेघ-पुञ्ज-
प्रत्यग्र-नील-जलजन्म-समान-भासम् ।
सुस्निग्ध-नील-घन-कुञ्चित-केश-जालं
राजन्-मनोज्ञ-शिति-कण्ठ-शिखण्ड-चूडम् ॥ क्र्द्_३।७ ॥
गोविन्द-भट्टाचार्यः
सूत्राम-रत्नम् इन्द्रनील-मणिः दलिताञ्जनं भिन्नाञ्जनं घृष्ट-कज्जलम् इति मेघ-पुञ्जो मेघ-समूहः प्रत्यग्र-नील-जलजन्म नवीन-नील-पद्मम् एषां समाना भा दीप्तिर् यस्य तम् । पुनः कीदृशम् ? सुस्निग्धेति सुस्निग्धाः सुचिक्कणा नीलाः श्यामा घना निविडाः कुञ्चिताः कुटिलाः ये केशास् तेषां जालं समूहो यत्र तम् । पुनः कीदृशम् ? राजन्न् इति । राजत् शोभमानं मनोज्ञं मनोहरं यच्-छिति-कण्ठ-शिखण्डं मयूर-पिच्छं तद् एव चूडायां यस्य तम् ॥ क्र्द्च्_३।७ ॥
पुनः कीदृशम् ?
रोलम्बलालित-सुर-द्रुम-सूनु-कल्पि-
तोत्तंसम् उत्कच-नवोत्पल-कर्ण-पूरम् ।
लोलालक-स्फुरित-भाल-तल-प्रदीप्त-
गोरोचना-तिलकम् उच्चल-चिल्लि-मालम् ॥ क्र्द्_३।८ ॥
गोविन्द-भट्टाचार्यः
रोलम्बो भ्रमरस् तेन लालितं प्रीत्या सेवितं यत् सुर-द्रुम-प्रसूनं पारिजात-पुष्पं तेन कल्पितः रचित उत्तंसः शिरो-भूषणं येन स तथा तम् । पुनः कीदृशम् ? उत्कचं विकसितम् यन् नवोत्पल-कर्ण-पूरम् । तद् एव कर्णाभरणं यस्य स तथा तम् । पुनः कीदृशम् ? लोलाश् चञ्चला अलकाः केश-विशेषास् तैः स्फुरितं शोभमानं यद्-भाल-तलं ललाट-तलं तत्र प्रदीप्तं गोरोचना-तिलकम् यस्य स तथा तम् । पुनः कीदृशम् ? उच्चल- चिल्लि-मालं चञ्चल-भ्रू-लताकम् ॥ क्र्द्च्_३।८ ॥
पुनः कीदृशम् ?
आपूर्ण-शारद-गताङ्क-शशाङ्क-बिम्ब-
कान्ताननं कमल-पत्र-विशाल-नेत्रम् ।
रत्न-स्फुरन्-मकर-कुण्डल-रश्मि-दीप्त-
गण्ड-स्थली-मुकुरम् उन्नत-चारु-नासम् ॥ क्र्द्_३।९ ॥
गोविन्द-भट्टाचार्यः
आपूर्णः सम्पूर्णः शारदः शरत्-सम्बन्धी गताङ्कः शशाङ्क-बिम्बश् चन्द्र-मण्डलस् तद्वत् कान्तं मनोहरम् आननं मुखं यस्य तथा तम् । पुनः कीदृशम् ? कमल-पत्रवद् विशाले विस्तीर्णे नेत्रे यस्य स तथा तम् । पुनः कीदृशम् ? रत्नेति रत्नैः स्फुरन्च् छोभमानं यन् मकर-कुण्डलं मकराकार-कुण्डलं तस्य ये रश्मयः तैः प्रदीप्ता शोभमाना गण्ड-स्थली स एव मुकुरो दर्पणो यस्य तथा तम् । पुनः कीदृशम् ? उन्नतेति उन्नता मनोहरा नासा यस्य स तथा तम् ॥ क्र्द्च्_३।९ ॥
पुनः कीदृशम् ?
सिन्दूर-सुन्दरतराधरम् इन्दु-कुन्द-
मन्दार-मन्द-हसित-द्युति-दीपिताङ्गम् ।
वन्य-प्रवाल-कुसुम-प्रचयावक्प्त-
ग्रैवेयकोज्ज्वल-मनोहर-कम्बु-कण्ठम् ॥ क्र्द्_३।१० ॥
गोविन्द-भट्टाचार्यः
सिन्दूरवन् मनोहरो अधरो यस्य स तथा तम् । पुनः कीदृशम् ? इन्दु-कुन्देति इन्दुश् च कुन्दं कुन्द-पुष्पं मन्दारः शुक्ल-मन्दारः अर्क-पुष्पं वा तद्वन् मन्द-हसितम् ईषद्-धास्यं तस्य द्युतिर् दीप्तिः तथा दीपिता शोभिता आशा दिशो येन स तथा तम् । पुनः कीदृशम् ? वन्येति वन्यं वन्योद्भवं यत् प्रवाल-कुसुमं नव-पल्लव-पुष्पं तस्य यः समूहस् तेनावक्प्तं सम्पादितं यद् ग्रैवेयकं कण्ठाभरणं तेनोज्ज्वलो देदीप्यमानो मनोहरः कम्बु-कण्ठः त्रिरेखाङ्कितः कण्ठो यस्य स तथा तम् ॥ क्र्द्च्_३।१० ॥
पुनः कीदृशम् ?
मत्त-भ्रमर-जुष्ट-विलम्बमान-
सन्तान-कप्र-सव-दाम-परिष्कृतांसम् ।
हारावली-भगण-राजित-पीवरोरो-
व्योम-स्थली-लसित-कौस्तुभ-भानुमन्तम् ॥ क्र्द्_३।११ ॥
गोविन्द-भट्टाचार्यः
मत्ताः कृत-मधु-पाना भ्रमन्तश् चरन्तौ ये भ्रमरास् तैर् जुष्टं सेवितम् । अथ च विलम्बमानम् एवम्भूतं यत्-सन्तान-कप्र-सव-दाम कल्प-वृक्ष-पुष्प-दाम तेन दाम्ना परिष्कृतः स्वलङ्कृतो अंसो यस्य स तथा तम् । पुनः कीदृशम् ? हारावल्य् एव भगणो नक्षत्र-समूहः । तेन राजितं शोभितं पीवरं मांसलं यद्-उरो हृदयं तद् एव व्योम-स्थल आकाश-भूमिः तया लसितः शोभितः कौस्तुभ एव भानुः सूर्यस् तेन युक्तम् । अत्र रूपकालङ्कार एव नोपमालङ्कारः नक्षत्र-गण-सूर्ययोर् असम्बन्धत्वात् । एवं च सत्य् एक-काले द्वयोः शोभा लभ्यत इति भावः ॥ क्र्द्च्_३।११ ॥
पुनः कीदृशम् ?
श्रीवत्स-लक्षण-सुलक्षितम् उन्नतांसम्
आजानु-पीन-परिवृत्त-सुजात-बाहुम् ।
आबन्धुरोदरम् उदार-गम्भीर-नाभिं
भृङ्गाङ्गना-निकर-मञ्जुल-रोम-राजिम् ॥ क्र्द्_३।१२ ॥
गोविन्द-भट्टाचार्यः
श्रीवत्स-लक्षण-सुलक्षितम् उन्नतांसम् आजानु-पीन-परिवृत्त-सुजात-बाहुम् आबन्धुरोदरम् उदार-गम्भीर-नाभिं भृङ्गाङ्गना-निकर-मञ्जुल-रोम-राजिम् ॥ क्र्द्च्_३।१२ ॥
पुनः कीदृशम् ?
नाना-मणि-प्रघटिताङ्गद-कङ्कणोर्मि-
ग्रैवेय-सार-सन-नूपुर-तुन्द-बन्धम् ।
द्व्याङ्ग-राग-परिपञ्जरिताङ्ग-यष्टिम्
आपीत-वस्त्र-परिवीत-नितम्ब-बिम्बम् ॥ क्र्द्_३।१३ ॥
गोविन्द-भट्टाचार्यः
नाना-मणिभिर् इन्द्रनीलादिभिर् घटिताः सम्बद्धाः । अङ्गदा बाहु-वलयास् तथा कङ्कणा ऊर्मिर् मुद्रिका ग्रैवेयं ग्रीवालङ्कारः रसनया क्षुद्र-घण्टिकया सह आसमन्तात् वर्तते यौ नूपुरौ तुन्द-बन्धः उदर-बन्धनार्थं सुवर्ण-डोरकम् एते अलङ्कारा यस्य स तथा तम् । पुनः कीदृशम् ? दिव्यः परमोत्कृष्टो यो ऽनुरागः सुगन्धि-चूर्णं तेन पिञ्जरिता नाना-वर्णा अङ्ग-यष्टि-रङ्ग-लता यस्य स तथा तम् । पुनः कीदृशम् ? आपीतम् अतिशयेन पीतं यद् वस्त्रं तेन परितो वीतो वेष्टितो नितम्ब-बिम्बो येन स तथा तम् । यद्यपि स्त्री-कट्यां नितम्ब-पद-प्रयोगः कोशे दृश्यते तथापि तद्वन् मनोहरतया पुंस्कट्याम् अपि प्रयोगो न विरुद्धः ॥ क्र्द्च्_३।१३ ॥
पुनः कीदृशम् ?
चारूरु-जानुम् अनुवृत्त-मनोज्ञ-जङ्घ-
कान्तोन्नत-प्रपद-निन्दित-कूर्म-कान्तिम् ।
माणिक्य-दर्पण-लसन्-नखराजि-राजद्-
रक्ताङ्गुलि-च्छदन्-सुन्दर-पाद-पद्मम् ॥ क्र्द्_३।१४ ॥
गोविन्द-भट्टाचार्यः
कान्तौ कमनीयौ उन्नतौ उच्चौ यौ प्रपदौ पादाग्रौ ताभ्यां निन्दिता तिरस्कृता कूर्मस्य कच्छपस्य कान्तिः दीप्तिर् येन स तथा तम् । पुनः कीदृशम् ? माणिक्य-घटितो यो दर्पणस् तद्वल् लसन्ती शोभमाना नख-पङ्क्तिः तथा राजन्त्यः शोभमाना या रक्ताङ्गुलयस् ता एव च्छदनानि पत्राणि तैः सुन्दरं पाद-पद्मं यस्य स तथा तम् ॥ क्र्द्च्_३।१४ ॥
पुनः कीदृशम् ?
मत्स्याङ्कुशार-दर-केतु-यवाब्ज-वज्र-
संलक्षितारुण-कराङ्घ्रि-तलाभिरामम् ।
लावण्य-सार-समुदाय-विनिर्मिताङ्ग-
सौन्दर्य-निर्जित-मनोभव-देह-कान्तिम् ॥ क्र्द्_३।१५ ॥
गोविन्द-भट्टाचार्यः
मत्स्यो मीनः अङ्कुशो अस्त्र-विशेषः अरिश् चक्रो दरः शङ्खः केतुर् ध्वजः यवः प्रसिद्धः अब्जं पद्मं वज्रः कुलिशाकारस् त्रिकोणः एतैः सुलक्षितं सम्यक् विहितं यद् अरुणतराङ्घ्रि-तलं लोहिततर-चरण-तलं तेनाभिरामः सर्व-जन-प्रियस् तम् । पुनः कीदृशम् ? लावण्यस्य सौन्दर्यस्य यः सार-समुदाय उत्कृष्ट-भाग-समुदायः तेन विनिर्मितं घटितं यद् अङ्ग-सौन्दर्यं तेन निन्दिता तिरस्कृता मनोभवस्य कामदेवस्य कान्तिः शरीर-शोभा येन स तथोक्तम् ॥ क्र्द्च्_३।१५ ॥
पुनः कीदृशम् ?
आस्यारविन्द-परिपूरित-वेणु-रन्ध्र-
लोलत्-कराङ्गुलि-समीरित-दिव्य-रागैः ।
शश्वद्-द्रवी-कृत-विकृष्ट-समस्त-जन्तु-
सन्तान-सन्ततिम् अनन्त-सुखाम्बु-राशिम् ॥ क्र्द्_३।१६ ॥
गोविन्द-भट्टाचार्यः
शश्वन् नित्यं द्रवी-कृतानयती-कृता विकृष्टा आकृष्टा समस्त-जन्तोः प्राणिनः सन्तान-सन्ततिः सन्तान-परम्परा येन स तथा तम् । कैः ? आस्यम् एवारविन्दं पद्मं तेन परिपूरितं यद् वेणु-रन्ध्रं वंशी-रन्ध्रम् अत्र लोलन्ती चञ्चला या कराङ्गुलिस् तया समीरिताः समुत्पादिता ये दिव्या उत्कृष्टा रागा ध्वनयः स्वरास् तैर् इत्य् अर्थः । पुनः कीदृशम् ? अनन्तेति । अपरिमितानन्द-समुद्रम् ॥ क्र्द्च्_३।१६ ॥
पुनः कीदृशम् ?
गोभिर् मुखाम्बुज-विलीन-विलोचनाभि-
रूधोभर-स्खलित-मन्थर-मन्दगाभिः ।
दन्ताग्र-दष्ट-परिशिष्ट-तृणाङ्कुराभिर्
आलम्बि-वालधि-लताभिर् अथाभिवीतम् ॥ क्र्द्_३।१७ ॥
गोविन्द-भट्टाचार्यः
अथानन्तरं गोभिर् अभिवीतं सर्वतो-वेष्टितम् । किम्भूताभिः ? मुखाम्बुजे परमेश्वर-मुख-पद्मे विलीने सम्बद्दे लोचने यासां तास् तथा ताभिः । पुनः कीदृशाभिः ? ऊधोभरेति स्तन-गौरव-स्खलन-सालसाल्प-गमन-शीलाभिः । पुनः कीदृशाभिः ? दन्ताग्रेण दष्टः परिशिष्ट-तृणाङ्कुरो भक्षणावशिष्ट-तृणाङ्कुरो याभिस् तास् तथा ताभिः । पुनः कीदृशाभिः ? आलम्बीति आलम्बिनी लम्बमाना वालधि-लता यासां तास् तथा ताभिः ॥ क्र्द्च्_३।१७ ॥
पुनः कीदृशम् ?
स-प्रस्रव-स्तन-विचूषण-पूर्ण-निश्च-
लास्यावट-क्षरित-फेनिल-दुग्ध-मुग्धैः ।
वेणु-प्रवर्तित-मनोहर-मन्द्र-गीत-
दत्तोच्च-कर्ण-युगलैर् अपि तर्णकैश् च ॥ क्र्द्_३।१८ ॥
गोविन्द-भट्टाचार्यः
तर्णकैश् चैक-वार्षिकैश् चाभिवीतम् इति पूर्वेणान्वयः । कीदृशैः ? प्रस्रवेण क्षरद्-दुग्धेन सह वर्तते यत् स्तन-विचूषणं दन्तोष्ठेन स्तनाकर्षणं तेन परिपूर्णो निश्चलः स्थिरश् च य आस्यावटः मुख-विवरं ततः क्षरितं गलितं यत् फेनिलं स-फेनं दुग्धं तेन मुग्धैर् मनोहरैः । पुनः कीदृशैः ? वेण्व् इति । वेणुर् वंशी तेन प्रवर्तिता चालिता मनोहरा आह्लाद-कारिणी मन्द्रानल्पा या गीतिर् गानं तत्र दत्तम् उच्चं कर्ण-युगलं यैस् तथा तैः ॥ क्र्द्च्_३।१८ ॥
पुनः कीदृशम् ?
प्रत्यग्र-शृङ्ग-मृदु-मस्तक-सम्प्रहार-
संरम्भ-वल्गन-विलोल-खुराग्र-पातैः ।
आमेदुरैर् बहुल-सास्न-गलैर् उदग्र-
पुच्छैश् च वत्सतर-वत्सतरी-निकायैः ॥ क्र्द्_३।१९ ॥
गोविन्द-भट्टाचार्यः
वत्सतरः त्रैवार्षिको बलीवर्दः । वत्सतरी त्रैवर्षिकी गौः । एतयोर् निकायैः समूहैः प्रत्यग्रं नवीनं शृङ्गं यस्मिन्न् एवम्भूतं यत् मृदु मस्तकं तत्र यः सम्प्रहारः अभिघातः अन्य-वत्सतरस्य युध्यतः तेन यः संरम्भः क्रोधातिशयस् तेन यद् वल्गनम् इतस् ततो विचलनं तेन विलोलः अनवस्थितः खुराग्र-पातो येषां ते तथा तैः । पुनः कीदृशैः ? आमेदुरैः सुस्निग्धैः पुष्टैर् इति वा । पुनः कीदृशैः ? बहुलातिशयिता सास्ना यत्र स एवम्भूतो गलो येषां ते तथा तैः । सास्ना च गल-कम्बलः । पुनः कीदृशैः ? उदग्र-पुच्छैः ॥ क्र्द्च्_३।१९ ॥
पुनः कीदृशम् ?
हम्बा-रव-क्षुभित-दिग्-वलयैर् महद्भि-
रप्य् उक्षभिः पृथु-ककुद्भर-भार-खिन्नैः ।
उत्तम्भित-श्रुति-पुटी-परिपीत-वंश-
ध्वानामृतोद्धृत-विकाशि-विशाल-घोणैः ॥ क्र्द्_३।२० ॥
गोविन्द-भट्टाचार्यः
महद्भिर् उक्षभिर् बलीवर्दैर् अप्य् अभिवीतम् । कीदृशैः ? हम्बा-रवेण स्वर-विशेषेण क्षुभितः क्षोभं प्रापितो दिग्-वलयो दिक्-समूहो यैस् ते तथा तैः । पुनः कीदृशैः ? पृथुर् अतिशयितो यः ककुद्भरः अपर-गल-भरः स एव भारस् तेन खिन्नैः अलसैः । पुनः कीदृशैः ? उत्तम्भितेति ऊर्ध्वं स्तम्भिता उत्थापिता या श्रुति-पुटी तया परिपीतम् अतिशयेन श्रुतं यद् वंशस्य ध्वानामृतं शब्द-रूपामृतं तेनोद्वृत्ता ऊर्ध्वं प्रापिता विकाशिनी प्रस्फुटा विशाला दीर्घा घोणा नासा येषां ते तथा तैः ॥ क्र्द्च्_३।२० ॥
पुनः कीदृशम् ?
गोपैः समान-गुण-शील-वयो-विलास-
वेशैश् च मूर्च्छित-कल-स्वन-वेणु-वीणैः ।
मन्द्रोच्चतार-पट-गान-परैर् विलोल-
दोर्-वल्लरी-ललित-लास्य-विधान-दक्षैः ॥ क्र्द्_३।२१ ॥
गोविन्द-भट्टाचार्यः
गोपैश् चाभिवीतम् । कीदृशैः ? समानेति गुण उदयादिः शीलं धैर्यादि वयो बाल्यादि विलासः क्रीडनं वेशः संस्थान-विशेषः समानाः तुल्याः गुण-शीलादयो येषां ते तथा तैः । पुनः कीदृशैः ? मूर्च्छां प्रापितः कलो ऽव्यक्त-मधुरः स्वरो रागो यत्र वेणुश् च वीना च । वेणु-वीणैर् मूर्च्छित-कल-स्वरे वेणु-वीणे येषां तैः तथा । तद् उक्तम्-
स्वरः सम्मूर्छितो यत्र रागतां प्रतिपद्यते ।
मूर्छनाम् इति तां प्राहुः कवयो ग्राम-सम्भवाम् ।
सप्त-स्वरास् त्रयो ग्रामा मूर्छनास् त्व् एक-विंशतिः ॥
पुनः कीदृशैः ? मन्द्रोच्चेति मन्द्रं नीचैः उच्चम् अतिशायितं तारो यति-विशेषस् तेन पटु स्पष्टं यद् गानं तत्-परैस् तद्-आसक्तैः । पुनः कीदृशैः ? विलोलेति विलोला या दोर्-वल्लरी बाहु-लता तया यल् ललितं मनोहरं लास्यं नृत्यं तस्य विधानं करणं तत्र दक्षैः कुशलैः ॥ क्र्द्च्_३।२१ ॥
पुनः कीदृशम् ?
जङ्घान्त-पीवर-कटीर-तटी-निबद्ध-
व्यालोल-किङ्किणि-घटारटितैर् अटद्भिः ।
मुग्धैस् तरक्षु-नख-कल्पित-कण्ठ-भूषैर्
अव्यक्त-मञ्जु-वचनैः पृथुकैः परीतम् ॥ क्र्द्_३।२२ ॥
गोविन्द-भट्टाचार्यः
पृथुकैर् बालकैः परीतं वेष्टितम् । कीदृशैः ? जङ्घा-समीपे पीवरा मांसला या कटीर-तटी कटी-स्थली तस्यां निबद्धा व्यालोला चञ्चला या किङ्किणि-घटा काञ्ची-समूहः, तस्य रटितैः शब्दैर् अटद्भिः । पुनः कीदृशैः ? मुग्धैर् मनोहरैः । पुनः किम्भूतैः ? तरक्षु-नखेन व्याघ्र-नखेन कल्पिता सम्पादिता कण्ठ-भूषा कण्ठालङ्कारो यैस् ते तथा तैः । बालकानां रक्षार्थं कण्ठे व्याघ्र-नख-बन्धनं क्रियते यतः । पुनः कीदृशैः ?
अव्यक्तम् अस्पष्टम् अथ च मञ्जुलं मनोहरम् एवम्भूतं वचनं येषां ते तथा तैः ॥ क्र्द्च्_३।२२ ॥
पुनः कीदृशम् ?
अथ सुललित-गोप-सुन्दरीणां
पृथु-निविरीष-नितम्ब-मन्थराणाम् ।
गुरु-कुच-भर-भङ्गुरावलग्न-
त्रिवलि-विजृम्भित-रोम-राजि-भाजाम् ॥ क्र्द्_३।२३ ॥
गोविन्द-भट्टाचार्यः
अथानन्तरं मनोहर-गोप-स्त्रीणाम् आलीभिः पङ्क्तिभिः समन्तात् सर्वतः सततं नित्य-सेवितम् इत्य् अष्टम-श्लोकेनान्वयः । किम्भूतानाम् ? पृथु बृहन् निविरीषो निविडो यो नितम्बः कटि-पश्चाद्-भागः, तेन मन्थराणां गमनाशक्तानाम् । पुनः किम्भूतानाम् ? गुरुर् अतिशयितो यः कुच-भरः स्तन-गौरवं तेन भङ्गुरम् ईषन् नां यद् अवलग्नं मध्य-प्रदेशः तत्र यद्-बलि-त्रयं तत्र विजृम्भिता वितता रोम-पङ्क्तिर् यासां तासाम् ॥ क्र्द्च्_३।२३ ॥
पुनः कीदृशीनाम् ?
तद्-अतिमधुर-चारु-वेणु-वाद्या-
मृत-रस-पल्लविताङ्गजाङ्घ्रि-पानाम् ।
मुकुल-विसर-रम्य-रूढ-रोमोद्-
गम-समलङ्कृत-गात्र-वल्लरीणाम् ॥ क्र्द्_३।२४ ॥
गोविन्द-भट्टाचार्यः
तस्य श्री-कस्यातिमधुरं अतिप्रीति-दायकं चारु मनोहरं यद् वेणु-वाद्यां वंशी-रवः स एवामृत-रसः अमृत-रूप-जलं तेन पल्लवितो वृद्ध्य्-उन्मुखः अङ्गजाङ्घ्रिपः काम-वृक्षो यासां तास् तथा तासाम् । अङ्गजाङ्घ्रिपस्येति पाठः । पुनः किम्भूतानाम् ? मुकुल-विसरः कलिका-समूहः तद्वद् रम्यो मनोहरो यो रूढ उपचितो रोमोद्गमो रोमोत्थानं तेन समलङ्कृता गात्र-वल्लरी देह-लता यासां तास् तथा तासाम् ॥ क्र्द्च्_३।२४ ॥
पुनः किम्भूतानाम् ?
तद्-अतिरुचिर-मन्द-हास-चन्द्रा-
तप-परिजृम्भित-राग-वारिणाशेः ।
तरलतर-तरङ्ग-भङ्ग-विप्रुट्-
प्रकर-सम-श्रम-बिन्दु-सन्ततानाम् ॥ क्र्द्_३।२५ ॥
गोविन्द-भट्टाचार्यः
तस्य कृष्णस्यातिमनोहरो य ईषद्-धासः स एव चन्द्र-रश्मिस् तेन परिजृम्भित उच्छलितो यो राग-समुद्रस् तस्यातिचञ्चलो यस् तरङ्गः कल्लोलः तदीया ये जल-कणाः तेषां यः समूहस् तेन समस् तुल्यो यः श्रम-बिन्दुर् घर्म-जल-बिन्दुः तेन सन्ततानां व्याप्तानाम् ॥ क्र्द्च्_३।२५ ॥
पुनः किम्भूतानाम् ?
तद्-अतिललित-मन्द-चिल्लि-चाप
च्युत-निशितेक्षण-मार-वाण-वृष्ट्या ।
दलित-सकल-मर्म-विह्वलाङ्ग-
प्रविसृत-दुःसह-वेपथु-व्यथानाम् ॥ क्र्द्_३।२६ ॥
गोविन्द-भट्टाचार्यः
तस्य श्री-कृष्णस्यातिमनोहरो मन्दः अनतिदीर्घो यश् चिल्लि-चापो भ्रू-लता सैव धनुस् तस्माद् उद्गतं तीक्ष्णं कटाक्षः स एव काम-बाणस् तस्य वृष्ट्यात्यन्त-पातेन दलितं चूर्णितं यत् सकलं मर्म तेनानायत्तं यद् अङ्गं तत्र प्रसृता व्याप्ता दुःसहा कम्प-वेदना यासां तास् तथा तासाम् ॥ क्र्द्च्_३।२६ ॥
पुनः किम्भूतानाम् ?
तद्-अतिरुचिर-कर्म-रूप-शोभा-
मृत-रस-पान-विधान-लालसाभ्याम् ।
प्रणय-सलिल-पूर-वाहिनीनाम्
अलस-विलोल-विलोचनाम्बुजाभ्याम् ॥ क्र्द्_३।२७ ॥
गोविन्द-भट्टाचार्यः
प्रणयेनैव प्रेम्णैव यो जल-प्रवाहस् तं वहन्ति यास् तथा तासाम् । काभ्याम् ? लज्जादिनार्ध-निमीलित-पद्मलोचनाभ्यां स-विलास-चञ्चलित-नेत्र-पद्माभ्याम् इत्य् अपि पाठः । किम्भूतानाम् ? तस्य परमेश्वरस्यातिरुचिरं यत् कर्म शृङ्गार-चेष्टा-विशेषः रूप-शोभा कामिनी-मनो-रञ्जिका कान्तिः ते एवामृत-रसौ तयोर् यत् पानम् अत्यन्त-चक्षुर्-व्यापारस् तत्-करणे साकाङ्क्षाभ्याम् । सुभग-कम्रेति पाठान्तरम् । सुभगः सुन्दरः कम्रः कमनीयः सुभग-कमनीययोर् एक-पर्याययोर् ग्रहणम् अद्भुतत्वाद् रूपस्येति त्रिपाठिनः ॥ क्र्द्च्_३।२७ ॥
पुनः किम्भूतानाम् ?
विश्रंसत्-कवरी-कलाप-विगलत्-फुल्ल-प्रसून-श्रवन्-
माध्वी-लम्पट-चञ्चरीक-घटया संसेवितानां मुहुः ।
मारोन्माद-मद-स्खलन्-मृदु-गिराम् आलोल-काञ्च्य्-उछ्वसन्-
नीवी-विश्लथमान-चीन-सिचयान्ताविर्नितम्ब-त्विषाम् ॥ क्र्द्_३।२८ ॥
गोविन्द-भट्टाचार्यः
विश्रंसन् स्खलन् यः केश-पाशस् तस्मात् प्रभ्रंश्यद् यद् विकसितं पुष्पं तस्माद् गलन्ती या माध्वी पुष्प-रसः तत्रात्यन्तासक्तो यश् चञ्चरीको भ्रमरस् तस्य समूहेन मुहुर् वारं वारं संसेवितानाम् । पुनः किम्-भूतानां मारेति ।
काम-कृतोन्मादेन या मत्तता तया स्खलन्ती अस्पष्टा मृद्वी कोमला मनोहरा गीर्वाणी यासां तास् तथा तासाम् उन्माद-मदौ शृङ्गार-विशेषौ । तद् उक्तं शृङ्गार-तिलके-
श्वास-प्ररोदनोत्कम्पैर् बहुधालोकनैर् अपि ।
व्यापारो जायते यत्र स उन्मादः स्मृतो यथा ॥
एवं मदस्यापि लक्षणं बोद्धव्यम् इति केचित् । पुनः कीदृशीनाम् ? आलोला चञ्चला या काञ्ची-रसना तथा उच्छ्वसन्ती दृढा भवन्ती या नीवी वस्त्र-ग्रन्थिः । नीवी स्त्री-वसन-ग्रन्थाव् इति कोषात् । तया विश्लथमानं चीन-सिचयं चीन-देशोत्पन्नं सूक्ष्म-वस्त्रं तस्यान्ते मध्ये आविः प्रकटा नितम्ब-त्विट् नितम्ब-कान्तिर् यासां तास् तथा तासाम् ॥ क्र्द्च्_३।२८ ॥
पुनः किम्भूतानाम् ?
स्खलित-ललित-पादाम्भोज-मन्दाभिघात-
क्वणित-मणि-तुलाकोट्याकुलाशा-मुखानाम् ।
चलद्-अधर-दलानां कुड्मलत्-पक्ष्मलाक्षि-
द्वय-सरसि-रुहणाम् उल्लसत्-कुण्डलानाम् ॥ क्र्द्_३।२९ ॥
गोविन्द-भट्टाचार्यः
स्खलितम् अनायत्तं ललितं मनोहरं यत् पाद-पद्मं तस्य यो मन्द ईषद् अभिघातः आभिघात-क्वणित-मणि-तुलाकोट्याकुलाशा-मुखानाम् चलद्-अधर-दलानां कुड्मलत्-पक्ष्मलाक्षि-द्वय-सरसि-रुहणाम् उल्लसत्-कुण्डलानाम् ॥ क्र्द्च्_३।२९ ॥
पुनः किम्भूतानाम् ?
द्राघिष्ठ-श्वसन-समीरणाभि-ताप-
प्रम्लानी-भवद्-अरुणोष्ठ-पल्लवानाम् ।
नानोपायन-विलसत्-कराम्बुजानाम्
आलीभिः सतत-निषेवितं समन्तात् ॥ क्र्द्_३।३० ॥
गोविन्द-भट्टाचार्यः
दीर्घो यः श्वास-वायुस् तेन यो ऽभितापः तेन प्रम्लानी-भवन् रक्तौष्ठ-पल्लवो यासां तास् तथा तासाम् । पुनः किम्भूतानाम् ? विविधोपायनेन शोभमानानि हस्त-कमलानि यासां तास् तथा तासाम् ॥ क्र्द्च्_३।३० ॥
पुनः कीदृशम् ?
तासाम् आयत-लोल-नील-नयन-व्याकोश-नीलाम्बुज-
स्रग्भिः सम्परिपूजिताखिल-तनुं नाना-विलासास्पदम् ।
तन्-मुग्धानन-पङ्कज-प्रविगलन्-माध्वी-रसास्वादनीं
बिभ्राणं प्रणयोन्मदाक्षि-मधुकृन्-मालां मनोहारिणीम् ॥ क्र्द्_३।३१ ॥
गोविन्द-भट्टाचार्यः
मुकुन्दं तासां गोप-सुन्दरीणाम् आयतं दीर्घं लोलं चञ्चलं नीलं श्यामं यन् नयनं तद् एव व्याकोशं नीलोत्पलं प्रफुल्लं नीलाम्बुजं तेषां स्रग्भिर् मालाभिः सम्परिपूजिता अधिकतरम् अर्चिता सकला तनुर् यस्य स तथा तम् । पुनः कीदृशम् ? विविध-विलास-स्थानम् । पुनः कीदृशम् ? तन्-मुग्धाननेति तासां यन् मनोहरं मुखं तद् एव पद्म-समूहस् तस्मात् विगलन् स्रवन् यो माध्वी-रसो मकरन्दः तम् आस्वादयितुं शीलं यस्याः ताम् प्रणयेन प्रीत्या उद्गत-मदं यद् अक्षि-युगलं सैव भ्रमर-माला पङ्क्तिस् तां मनोहारिणीं बिभ्राणम् ॥ क्र्द्च्_३।३१ ॥
अधुना परमेश्वर-ध्यानानन्तरम् उपासकामर-प्रभृतीनां ध्यानम् आह-
गोपी-गोप-पशूनां बहिः
स्मरेद् अग्रतो ऽस्य गीर्वाण-घटां ।
वित्तार्थिनीं विरिञ्चि-त्रिनयन-
शतमन्यु-पूर्विकां स्तोत्र-पराम् ॥ क्र्द्_३।३२ ॥
गोविन्द-भट्टाचार्यः
अस्य परमेश्वरस्याग्रतो गोपी-गो-पशूनां बहिर् गीर्-वाण-घट-देव-समूहं स्मरेत् यद्यपि बहिः-शब्द-योगे पञ्चमी ज्ञापिता तथापि ज्ञापक-सिद्धं न सर्वत्रेति षष्ठी-प्रयोगे ऽपि न दोषः । किम्-भूताम् ? वित्तार्थिनीं ज्ञानार्थिनीं वा धनार्थिनीं यद् वा परमेश्वर-चित्तापहरण-परां यद् वा धर्म-काम-मोक्षार्थिनीम् । पुनः किम्-भूताम् ? विरञ्चिर् ब्रह्मा ईशः शक्रः तत्-प्रमुखाम् । पुनः किम्-भूताम् ? स्तवन-पराम् ॥ क्र्द्च्_३।३२ ॥
तद्-दक्षिणतो मुनि-निकरं
दृढ-धर्म-वाञ्छम् आम्नाय-परम् ।
योगीन्द्रान् अथ पृष्ठे मुमुक्ष-
माणान् समाधिना सनकाद्यान् ॥ क्र्द्_३।३३ ॥
गोविन्द-भट्टाचार्यः
तस्य परमेश्वरतो दक्षिणतो दक्षिण-विभागे तद्वद् इति पाठे तेनैव प्रकारेण मुनि-निकरं मुनि-समूहं स्मरेत् । कीदृशम् ? आम्नाय-परं वेदाध्ययन-परम् । पुनः कीदृशम् ? निश्चला धर्म-वाञ्छा यस्य तं यत् तु मननात् मुनिर् इत्य् अभिधानात् एषां धर्म-वाञ्छा न युक्ता तेन मुनि-शब्दो ऽत्र ऋष्य्-उपलक्षक इति तन् न, धर्म-शब्देनात्रात्म-ज्ञानाभिधानात् । तद् उक्तं याज्ञवल्क्येन-अयं तु परमो धर्मओ यद् योगेनात्म-दर्शनम् इति ।
अथानन्तरं परमेश्वरस्य पश्चाद्-भागे सनकाद्यान् योगेश्वरान् स्मरेत् । किम्-भूतान् ? मोक्षैक-परान् । पुनः किम्-भूतान् ? समाधिनोपविष्टान् ॥ क्र्द्च्_३।३३ ॥
सव्ये सकान्तान् अथ यक्ष-सिद्ध-
गन्धर्व-विद्याधर-चारणांश् च ।
सकिन्नरान् अप्सरसश् च मुख्याः
कामार्थिनो नर्तन-गीत-वाद्यैः ॥ क्र्द्_३।३४ ॥
गोविन्द-भट्टाचार्यः
अथानन्तरं देव-वाम-भागे स-स्त्रीकान् यक्षादीन् स्मरेत् । किम्-भूतान् ? किन्नर-सहितान् । पुनः किम्-भूतान् ? सर्व-नर्तन-गीत-वाद्यैः करण-भूतैर् वाञ्छितार्थिनः । तथा प्रधान-भूता अप्सरसः उर्वशी-मुख्याः स्मरेत् ॥ क्र्द्च्_३।३४ ॥
शङ्खेन्दु-कुन्द-धवलं सकलागमज्ञं
सौदामनी-तति-पिशङ्ग-जटा-कलापम् ।
तत्-पाद-पङ्कज-गताम् अचलाञ्च भक्तिं
वाञ्छन्तम् उज्झिततरान्य-समस्त-सङ्गम् ॥ क्र्द्_३।३५ ॥
गोविन्द-भट्टाचार्यः
नभसि आकाशे धातृ-सुतं ब्रह्म-पुत्रं स्मरेत् । कथम्-भूतम् ? शङ्खादिवत् श्वेतं निर्मलम् । पुनः कीदृशम् ? सम्पूर्णागम-वेत्तारम् । पुनः कीदृशम् ? सौदामनी विद्युत् तस्यास् ततिः दीप्तिस् तद्वत् पिशङ्गा कपिला या जटा तस्याः कलापः समुदायो यत्र तम् । पुनः कीदृशम् ? भक्तिम् इच्छन्तम् । किम्-भूताम् ? स्थिराम् । पुनः कीदृशम् ? अत्यन्त-परित्यक्त-परमेश्वर-भिन्न-सकल-सम्बन्धम् ॥ क्र्द्च्_३।३५ ॥
पुनः कीदृशम् ?
नाना-विध-श्रुति-गणान्वित-सप्त-राग-
ग्राम-त्रयी-गत-मनोहर-मूर्छनाभिः ।
सम्प्रीणयन्तम् उदिताभिर् अमुं महत्या
सञ्चिन्तयेन् नभसि धातृ-सुतं मुनीन्द्रम् ॥ क्र्द्_३।३६ ॥
गोविन्द-भट्टाचार्यः
अमुं नाना-प्रकारः षट्-त्रिंशद्-भेदात्मको यः श्रुति-गणः नाद-समूहस् तेनान्विता ये सप्त रागाः निषाद-र्षभ-गान्धार-षड्ज-मध्यम-धैवत-पञ्चमाख्याः स्वराः तत्र त्रयाणां ग्रामाणां समाहारो ग्राम-त्रयी तत्र ग्राम-त्रय्यां गताः प्राप्ताः या मूर्छना मनोहरा एकत्रिंशति-प्रकारास् ताभिः सम्प्रीणयन्तम् ।
सप्त-स्वरास् त्रयो ग्रामा मूर्छनास् त्व् एकविंशतिः ।
सम्मूर्छितः स्वरो यत्र रागतां प्रतिपद्यते ।
मूर्छनाम् इति तां प्राहुः कवयो ग्राम-सम्भवाम् ॥
किम्भूताभिः ? महत्या सप्त-तन्त्री-युक्तया नारद-वीणया उदिताभिर् उद्गताभिः ॥ क्र्द्च्_३।३६ ॥
अधुना प्रकृतम् उपसंहरन् आत्म-पूजा-क्रमम् आह-
इति ध्यात्वात्मानं पटु-विशद-धीर् नन्द-तनयं
पुरो बुद्ध्यैवार्घ्य-प्रभृतिभिर् अनिन्द्योपहृतिभिः ।
यजेद् भूयो भक्त्या स्व-वपुषि बहिष्ठैश् च विभवैर्
विधानं तद् ब्रूमो वयम् अतुल-सान्निध्य-कृद् अथ ॥ क्र्द्_३।३७ ॥
गोविन्द-भट्टाचार्यः
इति पूर्वोक्त-ध्यान-प्रकारेण पटु-विशद-धीः समर्था विचार-क्षमा अथ च निर्मला एवम्भूता बुद्धिर् यस्य स तथा आत्मानं नन्द-तनयं गोपाल-कृष्ण-रूपं ध्यात्वा आत्म-नन्द-तनययोर् अभेदं चिन्तयित्वा पुरः प्रथमतो बुद्ध्यैव मनसैवार्घ्य-प्रभृतिभिर् अनिन्द्योपहृतिभिः अर्घ्य-पाद्यादिभिर् उपहृतिभिर् अनिन्दितोपचारैः यथोपदेशं पूजयेत् । त्रिपाठिनस् तु अभिनन्द्येति पाठे धृत्वा पूजयेद् इत्य् अर्थम् आहुः । भूयः पुनर् अपि स्व-शरीरे साक्षाद् बाह्योपचारैर् अर्घ्यादिभिः पूजयेत् । अथानन्तरं तद्-विधानं बहिष्ठ-विभवार्चन-प्रकारं वयं ब्रुमः । कीदृशम् ? परमेश्वरात्यन्त-सान्निध्य-दातारम् ॥ क्र्द्च्_३।३७ ॥
शङ्ख-पूरण-विधिं दर्शयति-
आरचय्य भुवि गोमयाम्भसा
स्थण्डिलं निजम् अमुत्र विष्टरम् ।
न्यस्य तत्र विहितास्पदो ऽम्भसा
शङ्खम् अस्त्र-मनुना विशोधयेत् ॥ क्र्द्_३।३८ ॥
गोविन्द-भट्टाचार्यः
भुवि पृथिव्यां स्थण्डिलं पूजा-स्थलं गोमय-सहितेन जलेनारचय्य उपलिप्य अमुत्र स्थण्डिले निजं स्वीयं विष्टरम् आसनं वस्त्र-कम्बलादिकं न्यस्य संस्थाप्य तत्र विष्टरे विहितास्पदः कृतासनो जलेन शङ्खम् अस्त्र-मनुना मूलमन्त्रास्त्र-मन्त्रेण अस्त्राय फड् इति मन्त्रेण वा प्रलेपयेत् ॥ क्र्द्च्_३।३८ ॥
तत्र गन्ध-सुमनोक्षतान् अथो
निक्षिपेद् धृदय-मन्त्रम् उच्चरन् ।
पूरयेद् विमल-पाथसा सुधीर्
अक्षरैः प्रतिगतैः शिरो ऽन्तकैः ॥ क्र्द्_३।३९ ॥
गोविन्द-भट्टाचार्यः
वाम-भाग-कृत-वह्नि-मण्डलाधारके शङ्खे सुधीः सुबुद्धि-साधकः हृदय-मन्त्रं मूल-मन्त्रम् एव हृदय-मन्त्रम् केवलं हृदयाय नम इति वा उच्चार्य गन्ध-पुष्प-यव-तण्डुलान् निक्षिपेत् । तथा विमल-पाथसा निर्मल-जलेन पूरयेत् । मन्त्रम् आह-प्रतिगतैर् इति । प्रतिलोम-गतैः प्रतिलोम-पठितैर् मातृकाक्षरैः क्ष-काराद्यैर् अकारान्तैः शिरो ऽन्तकैः स-बिन्दुकैः । बिन्द्व्-अन्तकैर् इति लघु-दीपिकाकारः । स्वाहान्तैर् इति विद्याधराचार्यः विक्राय स्वाहेय्त् अन्तैर् इति त्रिपाठिनः ॥ क्र्द्च्_३।३९ ॥
पीठेति-
पीठ-शङ्ख-सलिलेषु मन्त्र-विद्
वह्नि-वासर-निशा-कृतां क्रमात् ।
मण्डलानि विषकश्रवोक्षरैर्
अर्चयेद् वदन-पूर्व-दीपितैः ॥ क्र्द्_३।४० ॥
गोविन्द-भट्टाचार्यः
पीठे शङ्खे सलिले च यथा-क्रमं वह्नि-सूर्य-चन्द्राणां मण्डलानि विषं म-कारः कं शिरस् तत्र न्यस्यमानो ऽकारः श्रवः श्रोत्रं तत्र न्यस्यमानो-कार एभिर् अक्षरैर् मन्त्र-विद् उपासकः क्रमेण पूजयेत् । कीदृशैः ? वदन-पूर्व-दीपितैः वदन-पूर्वे शिरसि न्यस्यमानम् अं बिन्दुर् इति यावत् तेन दीपितैः सानुस्वारैर् इत्य् अर्थः । प्रयोगस् तु-मं वह्नि-मण्डलाय दश-कलात्मने नमः । अं अर्क-मण्डलाय द्वादश-कलात्मने नमः । उं सोम-मण्डलाय षोडश-कलात्मने नमः ॥ क्र्द्च्_३।४० ॥
तत्र तीर्थ-मनुनभिवाहयेत्
तीर्थम् उष्ण-रुचि-मण्डलात् ततः ।
स्वीय-हृत्-कमलतो हरिं तथा
गालिनीं च शिखया प्रदर्शयेत् ॥ क्र्द्_३।४१ ॥
गोविन्द-भट्टाचार्यः
तत्र शङ्ख-जले वक्ष्यमाण-तीर्थ-मन्त्रेण सूर्य-मण्डल-तीर्थम् आवाहयेत् तथा ततः स्वीय-हृत्-पद्मात् कृष्णम् आवाहयेत् । अनन्तरं शिखा-मन्त्रेण वक्ष्यमाणां गालिनीं मुद्रां प्रदर्शयेत् च-कारात् धेनु-मुद्रां च । वाम-हस्त-तले दक्षिण-तर्जन्या ताडनं प्रबोधनम् ॥ क्र्द्च्_३।४१ ॥
तज्-जलं नयन-मन्त्र-वीक्षितं
वर्मणा समवगुण्ठ्य दोर्-युजा ।
मूल-मन्त्र-सकलीकृतं न्यसेद्
अङ्गकैश् च कलयोद्दिशो ऽस्त्रतः ॥ क्र्द्_३।४२ ॥
गोविन्द-भट्टाचार्यः
तज्-जलं शङ्ख-जलं वौषड् इति नयन-मन्त्रेण वीक्षितं यत्र नयन-मन्त्रः सम्भवति तत्रैव नयन-मन्त्रेण वीक्षणम् इति त्रिपाठिनः । वर्मणा हुम् इति कवच-मन्त्रेणागुण्ठ्य मूल-मन्त्र-सकलीकृतं मूल-मन्त्राङ्ग-सम्बन्धम् । एतस्यैव विवरणं न्यसेद् इति । देवताङ्गे षड्-अङ्गानां न्यासः स्यात् सकली-कृतिर् इति रुद्रधरः । यद् वा, मूल-मन्त्र-ध्यानेन सदैवतम् इति त्रिपाठिनः । अङ्गकैश् च न्यसेद् इति मूल-मन्त्रस्य षड्-अङ्ग-न्यासं कुर्याद् इत्य् अर्थः । अनन्तरं शङ्खस्य दश दिशः अस्त्र-मन्त्रेण छोटिकया बध्नीयात् ॥ क्र्द्च्_३।४२ ॥
अक्षतादि-युतम् अच्युतीकृतं
संस्पृशन् जपतु मन्त्रम् अष्टशः ।
किं च निक्षिपतु वर्धनी-जले
प्रोक्षयेन् निज-तनुं ततो ऽम्बुना ॥ क्र्द्_३।४३ ॥
गोविन्द-भट्टाचार्यः
तज्-जलम् अभग्न-तण्डुल-चन्दन्-पुष्प-सहितं विष्णु-स्वरूपतां नीतं स्पृशन् मूल-मन्त्रम् अष्ट-कृत्वो जपेत् । अनन्तरम् अर्ध-जलस्य किञ्चित् स्व-दक्षिण-भाग-स्थापित-वर्धनी-जले प्रोक्षणीय-पात्र-जले निक्षिपेत् । तद् उक्तम्-
दक्षिणे प्रोक्षणी-पात्रम् आदायाद्भिः प्रपूजयेत् ।
किञ्चिद् अर्घ्याम्बु सङ्गृह्य प्रोक्षण्य् अम्भसि योजयेत् ॥ इति ।
तद्-अनन्तरम् अर्ग्ध-पात्र-जलेन वार-त्रयं निज-शरीरं प्रोक्षयेत् । वर्धनी-घट-जलेनेति विद्याधराचार्याः ॥ क्र्द्च्_३।४३ ॥
त्रिः करेण मनुनाखिलं तथा
साधनं कुसुम-चन्दनादिकम् ।
शङ्ख-पूरण-विधिः समीरितो
गुप्त एष यजनाग्रणीर् इह ॥ क्र्द्_३।४४ ॥
गोविन्द-भट्टाचार्यः
तथा मूल-मन्त्रेण दक्ष-हस्तेन पुष्प-चन्दनादिकं पूजोपकरण-द्रव्यं वार-त्रयं प्रोक्षयेत् । उपसंहरति शङ्खेति । एष शङ्ख-पूरण-प्रकारः समीरितः उक्तः । कीदृशः ? इह आगम-शास्त्रे यजनाग्रणीः प्रथम-विधाने यः श्रेष्ठतरः ॥ क्र्द्च्_३।४४ ॥
अधुना तीर्थ-मन्त्रं दर्शयति-
गङ्गे च यमुने चैव गोदावरि सरस्वति ।
नर्मदे सिन्धु-कावेरि जले ऽस्मिन् सन्निधिं कुरु ॥ क्र्द्_३।४५ ॥
गोविन्द-भट्टाचार्यः
एष तीर्थम् अनुप्रोक्तो दुरितौघ-निवारणः ।
कनिष्ठाङ्गुष्ठकौ सक्तौ करयोर् इतरेतरम् ॥ क्र्द्_३।४६ ॥
तर्जनी-मध्यमानामाः संहता भुग्न-सञ्जिताः ।
मुद्रैषा गालिनी प्रोक्ता शङ्खस्योपरि चालिता ॥ क्र्द्_३।४७ ॥
एष तीर्थावाहन-मन्त्रः कथितः दुरितेति पाप-समूह-विनाशकः । अधुना गालिनी मुद्राया लक्षणम् आह-कनिष्ठेत्य् आदिना । हस्तयोर् अन्योन्य-कनिष्ठाङ्गुष्ठकौ सम्बन्धौ तथा तर्जनी-मध्यमानामिकाः संहताः कृत्वा भुग्नाः किञ्चिद् आकुञ्चिताः परस्पर-संसक्ताः कार्या इत्य् अर्थः । एवं च सति एषा गालिनी मुद्रा प्रोक्ता । शङ्खस्योपरि चालिता सती देवता-प्रीतिं सम्पादयतीत्य् अर्थः ॥ क्र्द्च्_३।४५-४७ ॥
अधुना स्व-देहे पीठ-पूजा-क्रमम् आह-
अथ मूर्धनि मूल-चक्र-मध्ये
निज-नाथान् गण-नायकं समर्च्य ।
न्यसन-क्रमतश् च पीठ-मन्त्रैर्
जल-गन्धाक्षत-पुष्प-धूप-दीपैः ॥ क्र्द्_३।४८ ॥
गोविन्द-भट्टाचार्यः
अथानन्तरं मूर्धनि स्वकीय-शिरसि मूल-चक्र-मध्ये मूलाधार-चक्रे यथा-क्रमं स्व-नाथान् स्व-गुरून् गणपतिं च पूजयित्वा पूर्वोक्त-न्यास-क्रमेण पीठ-मन्त्रैर् आधार-शक्तिम् आरभ्य पीठ-मन्त्रान्तं तत्-तन्-मन्त्रैर् जल-गन्धाक्षत-पुष्प-धूप-दीपैः स्व-शरीरे पीठ-पूजनं कुर्यात् ॥ क्र्द्च्_३।४८ ॥
प्रयजेद् अथ मूल-मन्त्र-तेजो
निज-मूले हृदये भ्रुवोश् च मध्ये ।
त्रितयं स्मरतः स्मरेत् तद्-एकी-
कृतम् आनन्द-घनं तडिल्-लताभम् ॥ क्र्द्_३।४९ ॥
गोविन्द-भट्टाचार्यः
अथानन्तरं तन्-मूलाधार-हृदय-भ्रू-मध्य-गत-तेजस्-त्रितयं मूल-मन्त्रात्मकं परं ज्योतिः स्मरतः काम-बीजेन क्लीम् इत्य् अनेनैकीभूतं चिन्तयेत् । कीदृशं ? आनन्द-घनं चिद्-आनन्दम् । पुनः कीदृशं ? विद्युत्-प्रभम् ॥ क्र्द्च्_३।४९ ॥
तत्-तेजो ऽङ्गैः सावयवी-कृत्य विभूत्याद्य्-
अङ्गान्तं विन्यस्य यजेद् आसन-पूर्वैः ।
भूषान्तैर् भूयो जल-गन्धादिभिर् अर्चां
कुर्याद् भूत्य्-आद्य्-अङ्ग-विधानावधि मन्त्री ॥ क्र्द्_३।५० ॥
गोविन्द-भट्टाचार्यः
तद् एकीकृतं तेजः पञ्चाङ्गैः सावयवी-कृत्य शरीर-युक्तं सम्पाद्य तत्र विभूत्याद्य्-अङ्गान्तं विभूति-पञ्जरम् आरभ्याङ्ग-न्यास-पर्यन्तं स्व-शरीरे विन्यस्य आसनादि-भूषान्तैर् उपचारैर् देवं पूजयेत् । भूयः पुनर् अपि जल-गन्धादिभिर् विभूति-पञ्जर-मूर्ति-पञ्जर-करस्थ-सृष्टि-स्थिति-दश-पञ्चाङ्ग-न्यास-स्थानेषु न्यास-क्रमेणैव तन्-मन्त्रैर् एव पूजयेत् ॥ क्र्द्च्_३।५० ॥
भूयो वेणुं वदन-स्थं वक्षो-देशे वन-मालाम् ।
वक्षोजो ऽर्धं प्रयजेच् च श्रीवत्सं कौस्तुभ-रत्नम् ॥ क्र्द्_३।५१ ॥
गोविन्द-भट्टाचार्यः
भूयः पुनर् अपि मुख-स्थं वेणुं पूजयेत् हृदये च वनमालां कण्ठम् आरभ्य पाद-द्वयम् अवलम्बिनीं पत्र-पुष्प-मयीं मालाम् । तद् उक्तम्-
कण्ठम् आरभ्य या तिष्ठेत् पाद-द्वय-विलम्बिनी ।
पत्र-पुष्प-मयी माला वन-माला प्रकीर्तितेति ।
स्तनस्योपरि श्रीवत्सं कौस्तुभं च प्रपूजयेत् ॥ क्र्द्च्_३।५१ ॥
श्रीखण्ड-निःस्यन्द-विचर्चिताङ्गो
मूलेन भालादिषु चित्रकाणि ।
लिख्याद् अथो पञ्जर-मूर्ति-मन्त्र-
रनामया दीप-शिखाकृतीनि ॥ क्र्द्_३।५२ ॥
गोविन्द-भट्टाचार्यः
अथानन्तरं मूल-मन्त्रेण चन्दन-पङ्क-लिप्ताङ्गः पूजक एव ललाटादिषु मूर्ति-पञ्जर-न्यास-स्थानेषु चित्रकाणि तिलकानि दीप-शिखाकाराणि अनामिकया मूर्ति-पञ्जर-मन्त्रैः अं ॐ केशव-धातृभ्यां नम इत्य् आदिना द्वादश-मूर्तिभिर् लिख्यात् कुर्याद् इत्य् अर्थः ॥ क्र्द्च्_३।५२ ॥
अधुना पुष्पाञ्जलि-विधिं दर्शयति-
पुष्पाञ्जलिं वितनुयाद् अथ पञ्च-कृत्वो
मूलेन पाद-युगले तुलसी-द्वयेन ।
मध्ये हयारि-युगलेन च मूर्ध्नि पद्म-
द्वन्द्वेन षड्भिर् अपि सर्व-तनौ च सर्वैः ॥ क्र्द्_३।५३ ॥
गोविन्द-भट्टाचार्यः
अथानन्तरं पञ्च-कृत्वः पञ्च-वारान् मूल-मन्त्रेण पुष्पाञ्जलिं वितनुयात् । तुलसी-द्वयेन श्वेत-कृष्ण-तुलसी-द्वयेन पाद-युगले क्रमेण दक्षिण-वाम-पादयोर् इत्य् अञ्जलि-द्वयं मध्ये हृदि हयारि-युगलेन श्वेत-रक्त-कर-वीराभ्याम् इत्य् एको ऽञ्जलिः मूर्ध्नि पद्म-द्वयेन श्वेत-रक्त-पद्माभ्यां इत्य् अपरो ऽञ्जलिः सर्वतनौ सर्वैश् च षड्भिर् अपि तुलसी-द्वय-करवीर-द्वय-पद्म-द्वयैश् चाञ्जलिं तनुयाद् इति पञ्चमो ऽञ्जलिः ॥ क्र्द्च्_३।५३ ॥
अधुना श्वेत-कृष्ण-तुलस्य्-आदीनां प्रदान-विभागं दर्शयति-
श्वेतानि दक्ष-भागे सित-चन्दन-पङ्किलानि कुसुमानि ।
रक्तानि वाम-भागे ऽरुण-चन्दन-पङ्क-सिक्तानि ॥ क्र्द्_३।५४ ॥
गोविन्द-भट्टाचार्यः
श्वेतानि तुलस्य्-आदीनि पुष्पाणि श्वेत-चन्दन-पङ्क-युक्तानि दक्षिण-विभागे देयानि रक्तानि तुलस्य्-आदीनि रक्त-चन्दन-पङ्क-युक्तानि वाम-विभागे देयानि ॥ क्र्द्च्_३।५४ ॥
उपचारं दर्शयति-
तद्वच् च धूप-दीपौ समर्प्य धिनुयात् सुधा-रसैः कृष्णम् ।
मुख-वासाद्यं दत्त्वा समर्चयेत् साधु-गन्धाद्यैः ॥ क्र्द्_३।५५ ॥
गोविन्द-भट्टाचार्यः
धूप-दीपौ समर्प्य सुधा-रसैर् ब्रह्म-रन्ध्र-स्थित-शशाङ्क-बिम्ब-गलितामृत-द्रवैर् धिनुयात् प्रीणयेत् । सुधा-रसैर् मन्त्र-कृत-जलैर् इति रुद्रधरः । श्री-कृष्णम् प्रीणयेत् । अनन्तरं मुख-वासाद्यं गन्ध-वटिकां दत्त्वा गन्ध-पुष्पैः पूजयेत् ॥ क्र्द्च्_३।५५ ॥
ताम्बूल-गीत-नर्तन-वाद्यैः
सन्तोष्य चुलुक-सलिलेन ।
ब्रह्मार्पणाख्य-मनुना
कुर्यात् स्वात्मार्पणं मन्त्री ॥ क्र्द्_३।५६ ॥
गोविन्द-भट्टाचार्यः
ततस् तद्-अनन्तरं मन्त्री साधकः उपासकः ताम्बूल-गीतादिभिः श्री-कृष्णं परितोष्य चुलुकोदकेन ब्रह्मार्पण-मन्त्रेण वक्ष्यमाण-स्वात्म-समर्पणं कुर्याद् इत्य् अर्थः ॥ क्र्द्च्_३।५६ ॥
विमर्शः : ब्रह्मार्पण-मन्त्रो, यथा-
ब्रह्मार्पणं ब्रह्म-हविर् ब्रह्माग्नौ ब्रह्मणा हुतम् ।
ब्रह्मैव तेन गन्तव्यं ब्रह्म-कर्म समाधिना ॥ इति ॥
अथाशक्तं प्रत्य् आह-
अथवा सङ्कुचित-धियाम् अयं विधिर् मूर्ति-पञ्जरारब्धः ।
यद्य् अष्टादश-लिपिना सार्ण-पदाङ्गैश् च वेणु-पूर्वैः प्रोक्तः ॥ क्र्द्_३।५७ ॥
गोविन्द-भट्टाचार्यः
अथवा मन्दमतीनां पूजकानां पूजा-प्रकारो मूर्ति-पञ्जरादिभिर् उक्त इयं दशाक्षरेण पूजा अष्टादशाक्षर-पूजाम् आह । यद्य् अष्टादशाक्षर-मन्त्रेण पूजा तदा कच-भुवि ललाटादि-स्थानेषु मन्त्राक्षर-न्यास-पद-पञ्चाङ्ग-न्यासैर् वेण्व्-आदिभिश् च प्रोक्तः ॥ क्र्द्च्_३।५७ ॥
जप-विधिं दर्शयति-
सुप्रसन्नम् अथ नन्द-तनूजं
भावयन् जपतु मन्त्रम् अनन्यः ।
सार्थ-संस्मृति-यथाविधि-सङ्ख्या-
पूरणे ऽसुयमनं विधधीत ॥ क्र्द्_३।५८ ॥
गोविन्द-भट्टाचार्यः
अथानन्तरं मन्त्रार्थ-स्मरण-पूर्वकं मूल-मन्त्रं जपतु । किं कुर्वन् ? सुप्रसन्नं पूर्वोक्त-रूपम् आत्म-भिन्नं कृष्णं हृदि भावयन् । पुनः किम्भूतः ? अनन्यस् तत्-परः यथोक्त-जप-सङ्ख्या-पूरणे सति असुयमनं प्राणायामं कुर्यात् जपारम्भे चात्र विद्याधराचार्यः बाह्य-पूजा-शक्तौ आत्म-पूजानन्तरं जपं कुर्यात् शक्तौ तु पूजानन्तरम् इत्य् आह ॥ क्र्द्च्_३।५८ ॥
प्रयोग-पूर्व-कृत्यम् आह-
प्रणव-पुटितं बीजं जप्त्वा शतं सहिताष्टकं
निज-गुरु-मुखाद् आत्तान् योगान् युनक्तु महामतिः ।
सद्-अमृत-चिद्-आनन्दात्माथो जपं च समापयेद्
इति जप-विधिः सम्यक् प्रोक्तो मनु-द्वितयाश्रितः ॥ क्र्द्_३।५९ ॥
गोविन्द-भट्टाचार्यः
काम-बीजं प्रणव-पुटितं सहिताष्टकं शतम् अष्टोत्तर-शतं जप्त्वा निज-गुरु-मुखात् प्राप्तान् योगान् आत्म-पर-देवता-समावेश-लक्षणान् अष्टम-पटले वक्ष्यमाणान् महामतिर् युनक्तु करोतु । प्रकृतम् उपसंहरति-अनन्तरं सद्-अमृत-चिद्-आनन्दात्मामुं जपं समापयेत् इत्य् अनेन प्रकारेण मनु-द्वितीयाश्रितः दशाक्षराष्टादशाक्षराश्रितः पूजा-प्रकारः सम्यक् प्रकारेणोक्तः ॥ क्र्द्च्_३।५९ ॥
य इमं भजते विधिं नरो
भवितासौ दयितः शरीरिणाम् ।
अपि वाक्-कमलैक-मन्दिरं
परमं ते समुपैति तन्-महः ॥ क्र्द्_३।६० ॥
गोविन्द-भट्टाचार्यः
यो नरो मनुष्य इमं पूजा-प्रकारं सेवते ऽसौ शरीरिणाम् वल्लभो भविष्यति । तदा सरस्वती-लक्ष्म्योर् आवासो भविता अन्ते देह-पातानन्तरं तेजः समुपैति तद्-रूपो भवतीत्य् अर्थः ॥ क्र्द्च्_३।६० ॥
सनातनः : विधिं विधानं पुरश्चरण-लक्षणम् । अचिरात् शीघ्रं कमलायाः सर्व-सम्पत्तेर् एकं मुख्यं मन्दिरं च भाजनं भवति । अपि वाक्-कमलैक-मन्दिरम् इति पाठान्तरे वाचः सरस्वत्याः कमलायाश् चैक-मन्दिरम् अपि भवति ॥ क्र्द्च्_३।६० ॥ (ह्ब्व् १७।१५)
इति श्री-केशवाचार्य-विरचितायां क्रम-दीपिकायां
चतुर्थ-पटलः
॥३॥
(४)