०२

करयोर् युगलं विधायेत्य् आदिना सूचितं मन्त्रम् उद्धर्तुम् आदौ गोपाल-मन्त्रेष्व् अपि मौलीभूतौ दशाक्षराष्टादशाक्षरौ प्रथमं संस्तौति-वक्ष्ये मनुम् इति ।

वक्ष्ये मनुं त्रिभुवन-प्रथितात्म-भावम्
अक्षीण-पुण्य-निचयैर् मुनिभिर् विमृग्यम् ।
पक्षीन्द्र-केतु-विषयं वसु-धर्म-काम-
मोक्ष-प्रदं सकल-कर्मणि कर्म-दक्षम् ॥ क्र्द्_२।१ ॥

गोविन्द-भट्टाचार्यः

मन्त्रं वक्ष्ये उद्धरिष्यामि । कीदृशं ? त्रिभुवनेति त्रिभुवने त्रैलोक्ये प्रथितः ख्यातो ऽनुभावः प्रभावो यस्य तथा तम् । पुनः कीदृशं ? मुनिभिर् मुमुक्षुभिर् विमृग्यम् अन्वेषणीयम् । किम्भूतैर् मुनिभिः ? अक्षीणेति अक्षीणः स-पूर्णः पुण्य-निचयः सुकृत-समूहो येषां तथा तैः । पुनः कीदृशम् ? पक्षीति पक्षीन्द्रो गरुडः स एव केतुः चिह्नं यस्य स पक्षीन्द्र-केतुः श्री-कृष्णः तद्-विषयं तत्-प्रतिपादकम् । पुनः कीदृशम् ? वस्त्व् इति वसु धनं तथा च पुरुषार्थ-चतुष्टय-प्रदम् इत्य् अर्थः । पुनः कीदृशम् ? सकलेति अशेष-वश्य-कर्म-कुशलम् ॥ क्र्द्च्_२।१ ॥


अतिगुह्यम् अबोध-तूल-राशि-
ज्वलनं वाग्-आधिपत्य-दं नराणाम् ।
दुरितापहरं विषापमृत्यु-
ग्रह-रोगादि-निवारणैक-हेतुम् ॥ क्र्द्_२।२ ॥

गोविन्द-भट्टाचार्यः

पुनः कीदृशम् ? अतिगुह्यम् । पुनः कीदृशम् ? अबोधेति अबोधो मिथ्या-ज्ञान-रूपः स एव तूल-प्रचयः । तत्र ज्वलनो वह्निर् इव तं समस्ताज्ञान-नाशकम् इत्य् अर्थः ? पुनः कीदृशम् ? नराणां साधकानां वाग्-अधिपत्य-दं वागैश्वर्य-प्रदम् । पुनः कीदृशम् ? दुरितापहरं दुःख-प्रापकानिष्ट-निवारकम् । पुनः कीदृशम् ? विषं स्थावरं जङ्गमं च अपमृत्युर् अकाल-मरणं ग्रहो नव-ग्रह-जनितानिष्टं रोगो वात-पित्तादि-जनित-शरीर-दौस्थ्यम् एवम् आदीनाम् अशुभादीनां निवारणे एको ऽद्वितीयो हेतुः कारणम् ॥ क्र्द्च्_२।२ ॥


जयदं प्रधने ऽभयदं विपिने
सलिल-प्लवने सुख-तारणदम् ।
नर-सप्ति-रथ-द्विप-वृद्धि-करं
सुत-गो-धरणी-धन-धान्य-करम् ॥ क्र्द्_२।३ ॥

गोविन्द-भट्टाचार्यः

पुनः कीदृशम् ? प्रधने सङ्ग्रामे जयदम् । विपिने ऽभयदं भय-हरम् । सलिल-प्लवने तोयम् अन्तरणे सुख-सन्तरण-दातारं सप्तिर् हयः तथा च मनुष्याणाहयरथ-द्विपादीनाम् उपचय-करं तथा सुतादि-प्रदम् ॥ क्र्द्च्_२।३ ॥

______________________________

बल-वीर्य-शौर्य-निचय-प्रतिभा-
स्वर-वर्ण-कान्ति-सुभगत्व-करम् ।
ब्रह्माण्ड-कोटि-मणिम् आदि-गुणा-
ष्टकदं किम् अत्र बहुनाखिल-दम् ॥ क्र्द्_२।४ ॥

गोविन्द-भट्टाचार्यः

बलं शरीर-सामर्थ्यं वीर्यं शुक्रं प्रभावो वा, शौर्यं पराभिभावकं तेजः, एतेषां निचयः समूहः । प्रतिभा बुद्धिः स्फूर्ति-रूपा स्वरो ध्वनिः । वर्णो गौरत्वादिः । कान्तिर् दीप्तिः प्रतिभा-स्वर-वर्ण-कान्तिर् इत्य् एकपदं तथा च प्रतिभा-स्वर-वर्ण-कान्तिर् देदीप्यमान-वर्ण-शोभेति कश्चित् सुभगत्वं समस्त-लोकादरकत्वम् एतेषां कर्तारं दातारम् इत्य् अर्थः । पुनः क्षुभिता समोहिताण्ड-कोटिर् ब्रह्माण्ड-कोटिर् येन तथा तं संसार-मोहकम् इत्य् अर्थः । पुनः अणिमादि-गुणाष्टक-दम् अणिम-लघिम-गरिम-महिमेशित्व-वशित्व-प्राकाम्य-प्राप्त्य्-आख्य-गुणाष्टक-प्रदम् इत्य् अर्थः । पुनः किं बहुना, अत्र जगति अखिलदं समस्ताभीष्ट-प्रदम् इत्य् अर्थः ॥ क्र्द्च्_२।४ ॥


अथ दशाक्षर-मन्त्र-राजम् उद्धरति-शार्ङ्गीत्य् आदिना ।

शार्ङ्गी सो ऽतुर-दन्तः परो रामाक्षि-युक् द्वितीयार्णम् ।
शूली सौरिर् बालो बलानुज-द्वयम् अथाक्षर-चतुष्टयम् ॥ क्र्द्_२।५ ॥

गोविन्द-भट्टाचार्यः

शूर-तुरीयः सानन आवृत्तः स्यात् सुशोभो ऽष्तमो ऽग्नि-सखः ।
तद्-दयिताक्षर-युग्मं तद्-उपरिगस् त्व् एवम् उद्धरेन् मन्त्रम् ॥ क्र्द्_२।६ ॥

शार्ङ्गी ग-कारः कीदृशो ऽयं सोत्तरदन्त उत्तर-दन्त-पङ्क्तौ न्यस्यमानः उत्तर-दन्त ओ-कारस् तेन सहित एतेन प्रथमाक्षरम् उद्धृतः । शूरः प-कारः । कीदृशो ऽयं वामाक्षि-युक् वामाक्षि चतुर्थ-स्वरः तेन सहित एतेन द्वितीयाक्षरम् उद्धृतम् अक्षर-चतुष्कं क्रमेण पुनः कथ्यते शूली ज-कारः बालो ब-कारः बलानुज-द्वयं संयुक्त-ल-कार-द्वयं ल्ल इति स्वरूपम् इत्य् अक्षर-चतुष्कम् उद्धृतम् शूर-तुरीयः शूरस्य प-कारस्य चतुर्थः । कीदृशो ऽयं सानन-वृत्तः आनन-वृत्तेनाकारेण सह वर्तते इति सानन-वृत्तः अयं च सप्तमः स्याद् मन्त्रस्य सप्तमो भवतीत्य् अर्थः । अष्टमो ऽग्नि-सखो वायुः य-कार इति यावत् । तथा च मन्त्रस्याष्टमो वर्णो य इति बोद्धव्यः । तद्-उपरिगं
पूर्वोक्त-वर्णानन्तर्य्-विशिष्टं तद्-दयिताक्षर-युगलं स्वाहेति स्वरूपम् इत्य् अक्षर-द्वयम् उद्धृतम् ॥ क्र्द्च्_२।५-६ ॥


प्रकाशित इति-

प्रकाशितो दशाक्षरो मनुस् त्व् अयं मधु-द्विषः ।
विशेषतः पदारविन्द-युग्मं भक्ति-वर्धनः ॥ क्र्द्_२।७ ॥

गोविन्द-भट्टाचार्यः

मधुद्विषः श्री-गोपाल-कस्यायं दशाक्षरो मन्त्र उद्धृतः । कीदृशो विशेषतो विशेषेण पदारविन्द-युग्म-भक्ति-वर्धनः श्री-गोपाल-कृष्ण-चरणाब्ज-युगले या भक्तिर् आराध्यत्वेन ज्ञानं तत् समृद्धिकारक इत्य् अर्थः ॥ क्र्द्च्_२।७ ॥


मन्त्रस्य ऋष्य्-आदिकं दर्शयति-नारद इति ।

नारदो मुनिर् अमुष्य कीर्तितश्
छन्द उक्तम् ऋषिभिर् विराड् इति ।
देवता-सकल-लोक-मङ्गलो
नन्द-गोप-तनयः समीरितः ॥ क्र्द्_२।८ ॥

गोविन्द-भट्टाचार्यः

अमुष्य पूर्वोक्त-मन्त्रस्य मुनिः ऋषिर् नारदः कीर्तितः कथितः । ऋषिभिर् गौतमादिभिर् विराट्-छन्द उक्तम् । देवता नन-गोप-तनयः श्री-गोपाल-कृष्ण उक्तः । कीदृशः ? सकल-लोक-मङ्गलः सर्व-जन-कल्याण-हेतुः । एतेन ऋष्य्-आदीनां शिरसि रसनायां हृदि क्रमेण न्यासः कार्य इति सूचितं प्रपञ्च-सारे । तथा विधानात् प्रयोगश् च दशाक्षर-गोपाल-मन्त्रस्य नारद-ऋसये नमः शिरसि । विराट्-छन्दसे नमो मुखे । श्री-गोपाल-कृष्णाय देवतायै नमः हृदि इत्य् एवम्भूतः । अस्य मन्त्रस्य नारद-ऋषिः । एवं छन्दो-देवतयोर् अपि योज्यम् इति केचित् ॥ क्र्द्च्_२।८ ॥


अधुनास्य मन्त्रस्य पञ्चाङ्गानि दर्शयति-अङ्गानीत्य् आदिना-

अङ्गानि पञ्च हुत-भुग् दयिता-समेतैश्
चक्रैर् अमुष्य मुख-वृत्त-विषूपपन्नैः ।
त्रैलोक्य-रक्षण-युजाप्य् असुरान्तकाख्य-
पूर्वेण चेह कथितानि विभक्ति-युक्तैः ॥ क्र्द्_२।९ ॥

गोविन्द-भट्टाचार्यः

हृदये नतिः शिरसि पावक-प्रिया
स-वषट्-शिखाहुम् इति वर्मणि स्थितम् ।
स-फड्-अस्त्रम् इत्य् उदितम् अङ्ग-पञ्चकं
स-चतुर्थि-वौषड्-उदितं दृशोर् यदि ॥ क्र्द्_२।१० ॥

अमुष्य इह शास्त्रे अङ्गानि पञ्च कथितानि । कानि तानि ? तत्राह हृदये नतिर् इति । हृदये नतिर् नमः-पदं शिरसि पावक-प्रिया स्वाहेति स-वषट् वषट्-पद-सहिता शिखेत्य् अर्थः । हुम् अपि वर्मणि स्थितं वर्मणि कवचे हुम् अपि पदं स्थितम् इत्य् अर्थः । स-फड् अस्त्रं फट्-पद-सहितम् अस्त्रम् इत्य् अर्थः । इत्य् अनेन प्रकारेण स-चतुर्थि यथा स्यात् तथैवम् अङ्ग-पञ्चकम् उदितं कथितं चतुर्थ्या च हृदयादीनां योगः कार्यः । कैः सह चक्रैश् चक्र-शब्दैः । कीदृशैः ? मुख-वृत्त-विसूपपन्नैर् मुख-वृत्तम् आ-कारः वि इति सु इति स्वरूपम् एतैः प्रत्येकम् उपपन्नैः सम्बद्धईः त्रैलोक्य-रक्षण-युजापि त्रैलोक्य-रक्षणं युनक्तीति तद्-युग् एतादृशेन चक्रेण अपि-शब्दाच् चक्रैर् इति विभिद्यान्वयः कार्यः । तथा च चक्रेणेति असुरान्तकाख्य-पूर्वेण
चक्रेणेत्य् अर्थः । च समुच्चये । पुनः कीदृशैः विभक्ति-युक्तैः ? चतुर्थी-युक्तैस् तस्या एव प्रकृतत्वाद् एतस्यापि पदस्य विभिद्यान्वयः कार्यः दृशोर् यदि इति यदि क्वचिन् मन्त्रे दृशोर् न्यासो ऽस्ति तदा तत्र वौषड् इति उदितं कथितम् ।

अत्र ज्वाला-चक्रायेत्य् अपि योज्यम् इति लघु-दीपिका-कारः । प्रयोगश् च-आचक्राय स्वाहा हृदयाय नमः । वि-चक्राय स्वाहा शिरसे स्वाहा सु-चक्राय स्वाहा शिखायै वषट् । त्रैलोक्य-रक्षण-चक्राय स्वाहा कवचाय हुं । ज्वाला-चक्राय स्वाहा नेत्र-द्वयाय वौषट् असुरान्तक-चक्राय स्वाहा अस्त्राय फड् इति अङ्गुलीष्व् अङ्ग-मन्त्र-न्यासे तु तत्-तद्-अङ्ग-मन्त्रान्ते अङ्गुष्ठाभ्यां नमः तर्जनीभ्यां स्वाहा इत्य् आदि योज्यम् । आगमान्तरे ह्रीं अङ्गुष्ठाभ्यां नमः ह्रीं तर्जनीभ्यां स्वाहा । तत इत्य् आदि-दर्शनात् तेनाङ्गुष्ठादिषु हृदयाय नमः इत्य् आदि-प्रयोगाश् चिन्त्याः । असमवेतार्थकत्वाद् मानाभावाच् चेति केचित् । अन्ये तु यथा-श्रुताङ्ग-मन्त्रस्यैव न्यासैर् अङ्गुलीष्व् अतिदेशान् आहुर् आच्यार्याः ॥ क्र्द्च्_२।९-१०


दशाङ्गानि दर्शयति-

मन्त्रार्णैर् दशभिर् उपेत-चन्द्र-खण्डैर्
अङ्गानां दशकम् उदीरितं नमो ऽन्तम् ।
हृद्-छीर्षं तद्-अनु शिखातनुत्र-मन्त्रं
पार्श्व-द्वन्द्व-सकटि-पृष्ठम्-मूर्ध-युक्तम् ॥ क्र्द्_२।११ ॥

गोविन्द-भट्टाचार्यः

मन्त्रार्णैर् मन्त्राक्षरिर् नमो ऽन्तं यथा स्याद् एवम् अङ्गानां दशकम् उदीरितं कथितं कीदृशैर् उपेत-चन्द्र-खण्डैः सानुस्वारैः स्थानान्य् आहुः-हृदयं शीर्षं मस्तकं तत्-पश्चात् शिखा प्रसिद्धा तनुत्रं कवचं अस्त्रं दश-दिक्षु पार्श्व-युगल-कटि-पृष्ठ-मूर्ध-सहितं पूर्वोक्तम् इत्य् अर्थः । कटिर् नाभेर् अध इति त्रिपाठिनः । प्रयोगस् तु

गों हृदयाय नम इति
पीं शिरसे स्वाहा इत्य् आदि ॥ क्र्द्च्_२।११ ॥


अधुनास्य मन्त्रस्य बीज-शक्त्य्-अधिष्ठातृ-देवता-प्रकृति-विनियोगान् दर्शयति वक्ष्य इत्य् आदिना ।

वक्ष्ये मन्त्रस्यास्य बीजं च शक्ति-
चक्री शक्री वाम-नेत्र-प्रदीप्तः ।
स-प्रद्युम्नो बीजम् एतत्-प्रदिष्टं
मन्त्र-प्राद्युम्नो जगन्-मोहनो ऽयम् ॥ क्र्द्_२।१२ ॥

गोविन्द-भट्टाचार्यः

अस्य मन्त्रस्य पूर्वोक्तस्य स-शक्ति-शक्त्य्-आदि-सहितं बीजं वक्ष्ये बीजम् आह-चक्रीति क-कारः । कीदृशो ऽयं शक्री शक्रो ल-कारः तद्-युक्तः । पुनः कीदृशः ? वाम-नेत्र-प्रदीप्तः वाम-नेत्रं चतुर्थ-स्वरस् तत्-सहितः । पुनः कीदृशः ? स-प्रद्युम्नः प्रद्युम्नो बिन्दुः तत्-सहितः तथा चक्रीम् इति सिद्धं भवति । एतद् अस्य बीजं प्रदिष्टं कथितम् । अयम् एव प्राद्युम्नो मन्त्र इत्य् अर्थः । किम्भूतः ? जगन्-मोहनो विश्व-वश्य-करः ॥ क्र्द्च्_२।१२ ॥


शक्तिम् आह-हम्स इति ।

हंसो मेदो वक्र-वृत्ताभ्युपेतः
पोत्री नेत्राद्य्-अन्वितो ऽसौ युगार्णा ।
प्रोक्ता शक्तिः सर्व-गीर्-वाण-वृन्दैर्
वन्दस्याग्नेर् वल्लभा काम-देयम् ॥ क्र्द्_२।१३ ॥

गोविन्द-भट्टाचार्यः

हंसः स-कारः । किम्भूतः ? मेदो व-कारः वक्त्र-वृत्तम् आ-कारः आभ्याम् उपेतः सम्बद्धः तथा पौत्री ह-कारः । किम्भूतः ? नेत्रादिर् आकारस् तेनान्वितः । तथा च स्वाहेति सिद्धम् असौ युगार्णो वर्ण-द्वयात्मिका शक्तिः प्रोक्ता तथेयं वह्नेर् वल्लभा किम्भूता कामदा आकाङ्क्षित-प्रदा । कथम्भूतस्य वह्नेर् गीर्वाण-वृन्दैर् वन्द्यस्य सर्वदेव-समूहैः पूज्यस्य ॥ क्र्द्च्_२।१३ ॥


विनियोगम् आह-विनियोग इति ।

विन्योगस्य मन्त्रस्य पुरुषार्थ-चतुष्टये ।
कृष्णं प्रकृतिर् इत्य् उक्तो दुर्गाधिष्ठातृ-देवता ॥ क्र्द्_२।१४ ॥

गोविन्द-भट्टाचार्यः

अस्य मन्त्रस्य पुरुषार्थ-चतुष्टय-साधनाय विनियोग इत्य् अर्थः । प्रकृतिर् मूल-कारणं मन्त्रोत्पादकः मन्त्र-स्वरूप इत्य् अर्थः । अधिष्ठातृ-देवताम् आह-दुर्गाधिष्ठातृ-देवतेति ॥ क्र्द्च्_२।१४ ॥


मन्त्रार्थम् आह-गोपायतीत्य् आदिना ।

गोपायेति सकलम् इदं गोपायति परं पुमांसम् इति गोपी ।
प्रकृतेस् तस्या जातं जन इति नदादिकं पृथिव्य्-अन्तम् ॥ क्र्द्_२।१५ ॥

गोविन्द-भट्टाचार्यः

इदं सकलं नाम-रूपाभ्यां व्याकृतं जगद् गोपायति रक्षति तत्-कारणत्वात् स्वार्थे आयः । तथा परं पुमांसं नित्य-शुद्ध-बुद्धम् उक्तानन्दाद्वयात्मकं ब्रह्म-स्वरूपं गोपायति गुप् गोपन-कुत्सनयोः अज्ञातत्वेन विषयीकरोतीति व्युत्पत्त्या महद्-आदि-पृथिव्य्-अन्तं महत्-तत्त्वादि-पृथिवी-पर्यन्तं सकलं कार्य-जातं जन उच्यते ॥ क्र्द्च्_२।१५ ॥


अनयोर् गोपी-जनयोः समीरणाद् आश्रितो व्याप्त्या ।
वल्लभ इत्य् उपदिष्टं सान्द्रानन्दं निरञ्जनं ज्योतिः ॥ क्र्द्_२।१६ ॥

स्वाहेत्य् आत्मानं गमयामीत्य् अतेजसे तस्मै ।
यः कार्य-कारणेशः परमात्मेत्य् अच्युतैकतास्य मनोः ॥ क्र्द्_२।१७ ॥

गोविन्द-भट्टाचार्यः

अनयोः गोपी-जनयोर् अविद्या तत्-कार्ययोः समीरणाद् अन्तर्यामित्वेन स्वस्य कार्ये प्रेरणाद् नियमनादि इति यावद् आश्रयत्वतो अधिष्ठातृत्वेन व्याप्त्या व्यापकत्वेन वल्लभः स्वामीत्य् उपदिष्टं कथितम् । परं ज्योतिर् ब्रह्म-चैतन्यम् । कीदृशं ज्योतिः ? सान्द्रानन्द-निरतिशयानन्दैक-स्वरूपम् । पुनः कीदृशं ? निरञ्जनं माया-कालुष्य-रहितं स्वाहेति तस्मै स्व-तेजसे स्व-प्रकाश-चिद्-रूपाय परमात्मने स्वात्मानं जीवैक-स्वरूपं गमयामि समर्पयामि तद्-आत्मकतां प्रापयामीति स्वाहा-शब्दार्थः । प्रथम इति-शब्दः स्वाहा-शब्दोपस्थापकः । द्वितीयस् तु प्रकार-प्रदर्शकः । तस्मै कस्मै तत्राह-य इति । यः कार्य-कारणयोर् जन-प्रकृत्योर् ईशः स्वामी अधिष्ठाता तथा परमात्मा निरुपाधि-चैतन्यत्वाच् चेत्य्
अनेन प्रकारेणास्योपासकस्याच्युतैकताच्युतेन सहाभिन्नता भवति ॥ क्र्द्च्_२।१६-१७ ॥


प्रकारान्तरेणार्थम् आह-अथवेति ।

अथवा गोपीजन इति समस्त-जगद्-वन-शक्ति-समुदायः ।
तस्य स्वानन्यस्य स्वामी वल्लभ इति ह निर्दिष्टः ॥ क्र्द्_२।१८ ॥

गोविन्द-भट्टाचार्यः

अथवा गोपीजन इति शब्देन सकल-विश्व-रक्षण-शक्ति-समुदायः कथ्यते । तत्र गोपी-पदेन शक्तिर् उच्यते । जन-पदेन तस्याः समूहः । तस्य शक्ति-समूहस्य स्वानन्यस्य स्वाभिन्नस्य शक्ति-शक्तिमतोर् अभेद-विवक्षया स्वामी नियन्ता आश्रयो वल्लभ इति हस्य स्फुटं निर्दिष्ट उदित इत्य् अर्थः । स्वाहा-शब्दार्थस् तु पूर्वोक्त एव बोद्धव्यः । लघु-दीपिका-कारस् तु-अवन-शक्ति-समुदायः अवनं स्थितिः तत्र कारण-भूतानां शक्तीनां समुदायः समूहः जगत्-पालिन्य्-आदि-गणः । उक्तं च महद्भिः जगत्-पालिनीत्य् आद्याः प्रोक्तास् ताः स्थितये कला इति तस्य स्वामी नायक इत्य् अर्थः ॥ क्र्द्च्_२।१८ ॥


प्रकारान्तरेणार्थम् आह-अथवेति ।

अथवा व्रज-युवतीनां दयिताय जुहोमि मां मदीयम्
अपीत्य् अर्पयेत् समस्तं ब्रह्मणि सुगणे समस्त-सम्पत्त्यै ॥ क्र्द्_२।१९ ॥

गोविन्द-भट्टाचार्यः

गोपी-जनो गोपाङ्गना-जनस् तस्य वल्लभो निरतिशय-प्रेम-विषयः तस्मै व्रज-युवतीनां गोप-रमणीनां दयिताय हृदयानन्द-दायिने स्वाहा जुहोमि । किं मां स्वात्मानं मदीयम् अपि आत्मीय-सुहृद्-आदिकम् अपि इत्य् अनेन प्रकारेण स-गुणे ब्रह्मणि संसार-प्रवर्तके परमेश्वरेश्वरे सर्वं समर्पयेत् । किम् अर्थम् ? समस्त-सम्पत्त्यै सर्वैश्वर्याय ॥ क्र्द्च्_२।१९ ॥


अष्टादशाक्षर-मन्त्रोद्धाराय तद्-अन्तर्भूतौ कृष्ण-गोविन्द-शब्दौ प्रथमतो विविच्य दर्शयति-कृष्-शब्द इति ।

कृष्-शब्दः सत्तार्थो
णश् चानन्दात्मकस् ततः कृष्णः ।
भक्ताघ-कर्षणाद् अपि
तद्-वर्णत्वाच् च मन्त्र-मय-वपुषः ॥ क्र्द्_२।२० ॥

गोविन्द-भट्टाचार्यः

गो-शब्द-वाचकत्वाज् ज्ञानं
तेनोपलभ्यते गोविन्दः ।
वेत्तीति शब्द-राशिं गोविन्दो
गो-विचारनाद् अपि च ॥ क्र्द्_२।२१ ॥

कृष्-शब्दः सत्तार्थः । तत्र शक्तः । कृष् सत्तायाम् इत्य् अत्र क्विब्-अन्तः सत्ता-वाचक इति काश्चित् । कृट् णश् च ण-कारश् च आनन्दात्मक आनन्द-वाची । नन्द आनन्द इति धातोर् एक-देश-ग्रहणाद् इति कश्चित् । ततो द्वन्द्वे कृते ऽत्रादर्शं आद्यचि-कृते च कृष्णः सद्-आनन्द इत्य् अर्थः । प्रकारान्तरेण कृष्ण-शब्दं व्युत्पादयति भक्तेति भक्तानाम् अघ-कर्षणात् पाप-परिमार्जनात् कृष्ण इत्य् अर्थः । भक्तादि-कर्षणाद् इति पाठे आदि-शब्देनाभक्त-ग्रहणं भक्तस्य कर्षणं स्व-स्थान-नयनम् अभक्तस्य कर्षणं नरक-नयनम् इत्य् अर्थः । प्रकारान्तरेण व्युत्पत्तिम् आह-तद्-वर्णेति । कृष्ण-वर्ण-शरीरत्वात् कृष्णः मन्त्रमय-शरीरस्य वाच्य-वाचकयोर् अभेदेन विवक्षया । गो इत्य् आदि । गौर् ज्ञानं
गो-शब्दस्य वाचकत्वात् ज्ञान-वाचकत्वात् तेन ज्ञानेनोपलभ्यते प्राप्यते ज्ञायते इति गोविन्दः । विद् लाभे इत्य् अस्य धातोः प्रकारान्तरम् आह-वेत्तीति । गो-शब्दः शब्द-वाची । विद् ज्ञाने धातुः । गां शब्द-राशिं शब्द-समुदायं मातृकां वेत्तीति गोविन्दः । प्रकारान्तरम् आह-गो-विचारणाद् गो-शब्द-विचारणाद् गोविन्दः । अथवा गाव इन्द्रियाणि तेषां विचारणाद् विशेषेषु प्रति-नियत-विषयेषु प्रवर्तनाद् गोविन्दः । अथवा गावः पशु-विशेषा इति । तथा च श्रुतिः-पशवो दिव्-पादश् चतुष्पादश् च इति । तेषां विशेषेषु पुण्य-पापेषु चारणात् प्रवर्तनाद् गोविन्दः । अथवा, गावः पशु-विशेषाः तेषां रक्षनाद् गोविन्दः । अपि-शब्दश् चार्थे ॥ क्र्द्च्_२।२०-२१ ॥


इदानीं मन्त्रम् उद्धरति-

एते ऽभिख्ये ऽनुक्रमतस् तूर्य-विभक्त्या
मन्त्रात् पूर्वं मन्मथ-बीजाद् अथ पश्चात् ।
स्यातां चेद् अष्टादश-वर्णो मनु-वर्यो
गुह्याद् गुह्यो वाञ्छित-चिन्तामणिर् एषः ॥ क्र्द्_२।२२ ॥

गोविन्द-भट्टाचार्यः

एते अभिख्ये नामनी कृष्ण-गोविन्दाख्ये अनुक्रमेण तुर्य-विभक्त्या प्रत्येकं चतुर्थी-विभक्त्या सह मन्त्रात् पूर्वोक्त-दशाक्षर-गोपाल-मन्त्राद् आदौ मन्मथ-बीजात् पश्चात् काम-बीजानन्तरम् अथ चेद् यदि स्यातां भवतः तदा एषो ऽष्टादशार्णो मन्त्र-श्रेष्ठो भवति । एतस्य बलाद् एव दशाक्षरे ऽपि काम-बीज-साहित्यं केचिद् इच्छन्ति । कीदृशः ? गुह्याद् गुह्यः । गुह्याद् अपि गुह्यः । पुनः कीदृशः ? वाञ्छितस्य चिन्ता-मात्रेणाभीष्ट-प्रद इत्य् अर्थः ॥ क्र्द्च्_२।२२ ॥


ऋष्य्-आदिकम् अप्य् आह-पूर्वेति ।

पूर्व-प्रदिष्टे मुनि-देवते ऽस्य छन्दस् तु गायत्रम् उशन्ति सन्तः ।
अङ्गानि मन्त्रार्ण-चतुष्कैर् वर्मावसानानि युगार्णम् अस्त्रम् ॥ क्र्द्_२।२३ ॥

गोविन्द-भट्टाचार्यः

अस्य मन्त्रस्य पूर्व-प्रदिष्टे प्रथम-मन्त्र-सम्बन्धितया कथिते मुनि-देवते बोद्धव्ये । पुनः सन्तो गायत्र-छन्द उशन्ति वदन्ति । अङ्गानीति मन्त्रार्ण-चतुश् चतुष्कैर् मन्त्र-सम्बन्धि-वर्णानां चतुर्भिश् चतुर्भिर् अक्षरैः कृत्वा षोडशाक्षरैर् वर्मावसानानि कवचान्तानि चत्वार्य् अङ्गानि भवन्ति । अवशिष्टं युगार्णम् वर्ण-द्वयम् अस्त्राख्यम् अङ्गं भवति । प्रयोगश् च-क्लीं कृष्णाय हृदयाय नमः गोविन्दाय शिरसे स्वाहा, गोपी-जन-शिखायै वषट्, वल्लभाय कवचाय हुम्, स्वाहा अस्त्राय फट् ॥ क्र्द्च्_२।२३ ॥


बीजादिकम् आह-बीजम् इति ।

बीजं शक्तिः प्रकृतिर् विनियोगश् चापि पूर्ववद् अमुष्य ।
पूर्वतरस्य मनोरथं कथयामि न्यासम् अखिल-सिद्धि-करम् ॥ क्र्द्_२।२४ ॥

गोविन्द-भट्टाचार्यः

अमुष्यास्य मन्त्रस्य बीजं शक्तिः प्रकृतिर् विनियोगः पूर्व-मन्त्रे यानि बीजादीनि कथितानि तान्य् अत्रापि ज्ञातव्यानीत्य् अर्थः । पूर्वतरस्येति अथानन्तरं पूर्वतरस्य मनोर् दशाक्षर-गोपाल-मन्त्रस्याखिल-सिद्धि-करं समस्त-सिद्धि-दायकं न्यासं कथयामीति प्रतिज्ञा ॥ क्र्द्च्_२।२४ ॥


अधुना न्यास-क्रमं दशार्णस्य कथयति-व्यापय्येति ।

व्यापय्यार्थो हस्तयोर् मन्त्रम्
अन्तर् बाह्ये पार्श्वे तार-रुद्धं बुधेन ।
न्यासो वर्णैस् तार-युग्मान्तरस्थैर्
बिन्दूत्तंसैर् हार्द-हृद्यैर् विधेयः ॥ क्र्द्_२।२५ ॥

गोविन्द-भट्टाचार्यः

अथो ऽनन्तरं बुधेन पण्डितेन वर्णैर् मूल-मन्त्राक्षरैर् न्यासो विधेयः कार्यः । किं कृत्वा ? मूल-मन्त्रं हस्तयोर् अन्तर् मध्ये तथा हस्तयोर् एव बाह्ये पृष्ठे तथा हस्तयोर् एव पार्श्वे व्यापय्य व्यापकतया विन्यस्येत्य् अर्थः । कीदृशं मन्त्रम् ? तार-रुद्धं प्रणव-पुटितम् । कीदृशैः वर्णैः तार-युग्मान्तरस्थैः प्रणव-द्वय-मध्य-गतैः । पुनः कीदृशैः ? बिन्दूत्तंसैर् बिन्दुः शिरो ऽलङ्कारो येषां ते तथा सानुस्वारैर् इत्य् अर्थः । पुनः कीदृशैः ? हार्द-हृद्यैर् हार्देन नमः-पदेन हृद्यैर् मनोज्ञैः सहितैर् इत्य् अर्थः । प्रयोगश् च-

ॐ गों ॐ नमः दक्षाङ्गुष्ठ-पर्व-त्रये
ॐ पीं ॐ नमः तर्जन्याम् इत्य् आदि ।
ॐ ल्लं ॐ नमो वाम-कनिष्ठिकायाम् इत्य् आदि ॥ क्र्द्च्_२।२५


उक्त-वर्ण-न्यास-स्थानम् आह-शाखास्व् इत्य् आदिना ।

शाखासु त्रीणि पर्वाण्य् अधि दशसु पृथग्-दक्षिणाङ्गुष्ठ-पूर्वं
वामाङ्गष्ठावसानं न्यसतु विमल-धीः सृष्टिर् उक्ता करस्था ।
अङ्गुष्ठ-द्वन्द्व-पूर्वा स्थितिर् उभय-करे संहृतिर् वाम-पूर्वा
दक्षाङ्गुष्ठान्तिकैतत् त्रयम् अपि सृजति स्थित्य्-उपेतं च कार्यम् ॥ क्र्द्_२।२६ ॥

गोविन्द-भट्टाचार्यः

दशसु शाखासु अङ्गुलीषु पृथक् कृत्वैकं त्रीणि पर्वाणि अधि पर्व-त्रयं व्याप्य, त्रिपाठिनस् तु त्रीणि पर्वाणि इति पर्व-त्रये अधीति उपरि अङ्गुल्य्-अग्रे च पृथग् एकैकशः । तथा च प्रथम-पर्वणि ॐ द्वितीये ॐ तृतीये ॐ अङ्गुल्य्-अग्रे नमः इति एवम् अन्यत्रापीत्य् आहुः । दक्षिणाङ्गुष्ठ-पूर्वं प्रथम-न्यासादौ यथा स्यात् तथा वामाङ्गष्ठावसानं वामाङ्गष्ठो ऽवसाने न्यासान्ते यथा स्याद् एवं विशद-धीर् विमल-बुद्धीर् न्यसतु । एवं च करस्था सृष्टिर् उक्ता करे सृष्टि-न्यास-प्रकार उक्त इत्य् अर्थः । अङ्गुष्ठ-द्वन्द्व-पूर्वा स्थितिर् उभय-करे हस्त-द्वये दक्षिण-करे ऽङ्गुष्ठादिक-निष्ठासु विन्यस्य वाम-करे ऽप्य् अङ्गुष्ठादिक-निष्ठास्व् अङ्गुलिषु न्यसेद् अयं स्थिति-न्यास उक्तः । संहृतिर्
वाम-पूर्वा दक्षेति संहृतिः संहारः वामाङ्गुष्ठ-पूर्वा दक्षिणाङ्गुष्ठावसाना अयं च संहार-न्यास उक्तः । एतत् त्रयम् अपि सृष्टि-स्थिति-संहारात्मकं त्रयम् अपि सृजति स्थित्य्-उपेतं कार्यं च सृष्ट्य्-आदि-न्यास-पञ्चकं कार्यम् इत्य् अर्थः ॥ क्र्द्च्_२।२६ ॥


तत इति ।

ततः स्थिति-क्रमाद् बुधो दशाङ्गकानि विन्यसेत् ।
तद्-अङ्ग-पञ्चकं तथा विधिः समीरितः करे ॥ क्र्द्_२।२७ ॥

गोविन्द-भट्टाचार्यः

ततस् तद्-अनन्तरं स्थिति-क्रमात् स्थिति-न्यास-क्रमेण दशस्व् अङ्गुलीषु बुधः पण्डितः दशाङ्गकानि पूर्वोक्त-मन्त्र-दशाङ्गानि विन्यसेत् । तद्-अङ्ग-पञ्चकं तथेति तथा तेन प्रकारेण स्थिति-क्रमेण तद्-अङ्ग-पञ्चकं पुर्वोक्त-पञ्चकं पूर्वोक्ताङ्ग-पञ्चकं दशसु अङ्गुलीषु विन्यसेत् । कर-न्यास-जातम् उपसंहरति विधिर् इति । एवं चायं विधिः प्रकारः करे हस्त-द्वये समीरितः कथित इत्य् अर्थः ॥ क्र्द्च्_२।२७ ॥


मातृका-न्यास-विशेषं दर्शयन् तत्त्व-न्यासं च क्रमेणाह-पुटितैर् इति ।

पुटितैर् मनुनाथ मातृआर्णैर्
अभिविन्यस्य स-बिन्दुभिः पुरोवत् ।
अणु-संहृति-सृष्टि-मार्ग-भेदाद्
दश-तत्त्व्वानि च मन्त्र-वर्ण-भाञ्जि ॥ क्र्द्_२।२८ ॥

गोविन्द-भट्टाचार्यः

अथान्तर-मनुना दशार्णेन पुटितैर् मातृकाक्षरैः स-बिन्दुभिः सानुस्वारैः पुरोवत् पूर्ववद् यथा पूर्वं ललाटादिषु न्यास एवम् अभिविन्यस्य अनु पश्चान् मातृका-न्यास-विशेष-करणानन्तरं वक्ष्यमाणानि दश-तत्त्वानि विन्यसेत् । कीदृशानि मन्त्र-वर्ण-भाञ्जि मन्त्राक्षर-युक्तानि । कथं दश-तत्त्वानि विन्यसेत् ? तत्राह-संहृति-सृष्टि-मार्ग-भेदात् प्रथमं संहार-क्रमेण तद्-अनन्तरं सृष्टि-क्रमेणेत्य् अर्थः ॥ क्र्द्च्_२।२८ ॥


संहार-सृष्टि-प्रकारं दर्शयति-संहृताव् इति ।

संहृतावन-गतो मनु-वर्यः
सृष्टि-वर्त्मनि भवेत् प्रतियातः ।
उद्धृतिः खलु पुरोक्तवद् एषां
न्यास-कर्म कथयाम्य् अधुनाहम् ॥ क्र्द्_२।२९ ॥

गोविन्द-भट्टाचार्यः

असौ मनु-वर्यः मनु-श्रेष्ठः संहृतौ संहार-न्यासे अनुगतो यथैवास्ति तथैव सृष्टि-मार्गे सृष्टि-कर-न्यासे प्रतियातो भवेत् तद्-विपरीतो भवेत् । उद्धार-प्रकारम् आह-उद्धृतिर् इति । एषां तत्त्वानां खलु निश्चयेन उद्धृतिर् उद्धारः पूर्वोक्तवद् यथा पूर्वम् उक्त-तत्त्व-न्यासे । नत्य्-उपेतं भूयः पराय च तद्-आह्वयम् आत्मने च नत्य्-अन्तम् उद्धरतु तत्त्व-मनून् क्रमेण इति प्रकारेणेत्य् अर्थः । अधुना न्यासं कथयामीति साम्प्रतं न्यास-सम्बन्धि-तत्त्व-नाम-कथनं तत्-स्थान-कथनं च करोमीत्य् अर्थः ॥ क्र्द्च्_२।२९ ॥


तत्त्व-नामान्य् आह-महीति ।

मही-सलिल-पावकानिलवियन्ति गर्वो महान्
पुनः प्रकृति-पुरुषौ पर इमानि तत्त्वान्य् अथ ।
पदान्धु-हृदयास्यकान्य् अधि तु पञ्च मध्ये द्वयं
त्रयं सकल-गं ततो न्यसतु तद्-विपर्यासतः ॥ क्र्द्_२।३० ॥

गोविन्द-भट्टाचार्यः

मही पृथिवी । सलिलं जलं । पावकः तेजः । अनिलो वायुः । वियद् आकाशः । गर्वो ऽहङ्कारः । महान् महत्-तत्त्वम् । प्रकृतिः पुरुषः । परश् च इमानि पृथिव्य्-आदीनि तत्त्वानि तत्त्व-पद-वाच्यानि ।

न्यास-स्थानम् आह-अथेति । अथानन्तरं पञ्च तत्त्वानि पृथिव्य्-आदीनि न्यसतु ।
कुत्र पदान्धु-हृदयास्यकान्य् अधि पादयोः । अन्धौ लिङ्गे । हृदयेआस्ये मुखे । के शिरसि । अधि सप्तम्य्-अर्थे मध्ये हृदये तत्त्व-द्वयं
त्रयं सकल-गं सकलाङ्ग-व्यापकं
ततस् तद्-अनन्तरं तद्-विपर्यासतः उक्त-संहार-विपरीत-रीत्या न्यसतु ।

प्रयोगश् च +++(“गोपीजनवल्लभाय स्वाहा” इति वर्णैः)+++-

ॐ गों नमः पराय पृथिव्य्-आत्मने नमः (इति पाद-द्वये)

इत्य् आरभ्य

ॐ हां नमः पराय परमात्मने नमः

इत्य्-अन्तः संहारः।

ॐ हां नमः पराय परमात्मने नमः इत्य् आरभ्य
ॐ गों नमः पराय पृथिव्य्-आत्मने नमः पाद-द्वये इति सृष्टि-न्यासः ।

सृष्टि-न्यासे त्रयं सर्व-शरीरे, महद्-अहङ्कारौ हृदि आकाशः शिरसि । वाय्व्-अग्नि-सलिल-मह्यः मुख-हृदय-लिङ्ग-पाद-द्वयेषु, ज्ञेयाः । केचित् तु तत्त्व-पदान्तर्-भावेन न्यासम् इच्छन्ति तच् चिन्त्यम् ॥ क्र्द्च्_२।३० ॥


गुप्ततमो ऽयम् इति ।

गुप्ततमो ऽयं न्यासः सम्प्रोक्तस् तत्त्व-दशक-परिक्प्तः ।
कार्यो ऽन्य्ष्व् अपि सद्भिर् गोपाल-मनुषु झटिति फल-सिद्ध्यै ॥ क्र्द्_२।३१ ॥

गोविन्द-भट्टाचार्यः

अयं प्रोक्तः कथितो न्यासः सद्भिः पण्डितैः अन्येष्व् अपि गोपाल-मन्त्रेषु उद्धृत-दशाक्षर-व्यतिरिक्तेष्व् अपि कार्यः । कीदृशः ? गुह्यतमः अतिशयेन गुप्तः । पुनः कीदृशः ? तत्त्व-दशक-परिक्प्तः तत्त्वानां दशकं तत्त्व-दशकं तेन परिक्प्त उद्घाटित इत्य् अर्थः । किम् अर्थम् ? झटिति फल-सिद्ध्यै शीघ्र-फल-प्राप्त्यै ॥ क्र्द्च्_२।३१ ॥


न्यासान्तरम् आह-आकेशाद् इति ।

आकेशाद् आपादं दोर्भ्यां
ध्रुव-पुटितम् अथ मनु-वरं न्यसेद् वपुषि ।
त्रिशो मूर्धन्य् अक्ष्णोः श्रुत्योर् घ्राणे
मुख-हृदय-जठर-शिव-जानुपत्सु तथाक्षराणि ॥ क्र्द्_२।३२ ॥

गोविन्द-भट्टाचार्यः

अथानन्तरं दोर्भ्यां हस्ताभ्यां ध्रुव-पुटितम् प्रणव-पुटितं मनु-वरं मन्त्र-श्रेष्ठं दशाक्षरं गोपाल-मन्त्रम् आकेशाद् आपादं केशादि-पाद-पर्यन्तं त्रिशः स्व-देहे विन्यसेद् इति विद्याधराचार्य-त्रिपाठि-प्रभृतयः । एतेषां मत आकेशाद् आपादद् इति पाठः । अधुना सृष्टि-स्थिति-संहार-क्रमेण मन्त्राक्षर-न्यासम् आह-मूर्धनीत्य् आदि । तथा दशाक्षराणि प्रणव-पुटितानि मूर्धादि-वक्ष्यमाण-स्थानेषु विन्यसेत् । स्थानान्य् आह-मूर्धनीति । मूर्ध्नि चक्षुषोर् उभय-नेत्रे एकम् एवाक्षरं श्रुतयोः कर्णयोः अत्राप्य् -एकम् एव घ्राणे नासा-युग्मे तत्राप्य् एकम् एव मुखं हृदयं जठरं शिवं लिङ्गम् जानु-द्वये एकम्, पाद-द्वये एकम् एतेषु दशसु स्थानेषु दशाक्षराणि
विन्यसेद् इत्य् अर्थः ॥ क्र्द्च्_२।३२ ॥


उक्ता सृष्टिः शिष्टैर् एषा स्थितिर् अपि
मुनिभिर् अभिहिता हृदादि-मुखान्तिका ।
संहारो ऽङ्घ्र्य्-आदि-मूर्धान्तस् त्रितयम् इति
विरचयेच् च सृष्टिम् अनु स्थितिम् ॥ क्र्द्_२।३३ ॥

गोविन्द-भट्टाचार्यः

शिष्टैर् आगम-ज्ञैर् एषा सृष्टिर् उक्तेत्य् अर्थः । स्थितिर् अपि स्थिति-न्यासो ऽपि मुनिभिर् नारदादिभिर् हृदयादि-मुखान्तिका अभिहिता हृदयम् आरभ्य मुख-पर्यन्तं कथिता । तत्र क्रमः हृदय-जठर-लिङ्ग-जानु-पाद-मूर्धाक्षि-श्रवण-घ्राण-मुखानीति संहारो ऽङ्घ्र्य्-आदि-मूर्धान्तः कार्यः । तत्र मन्त्राक्षराणि प्रतिलोमेन देयानीतीदं त्रितयं विरचयतु अनु पश्चाद् एतत् त्रितय-करणानन्तरं पुनः सृष्टिम् स्थितिम् च विरचयतु । तथा च पञ्च न्यासाः कार्या इत्य् अर्थः । प्रयोगस् तु गों नमः पीं नमः इत्य् आदि ॥३३॥


येषाम् आश्रमिणां यद्-अन्तो न्यासस् तद् दर्शयति -न्यास इति ।

न्यासः संहारान्तो मस्करि-वैखानसेषु विहितो ऽयम् ।
स्थित्य्-अन्तो गृहमेधिषु सृष्ट्य्-अन्तो वर्णिनाम् इति प्राहुः ॥ क्र्द्_२।३४ ॥

अयं न्यासः मस्करि-वैखानसेषु संहारान्तो विहितः मस्करी सन्न्यासी वैखानसो वानप्रस्थः, तथा ताभ्यां न्यास-त्रयं कार्यम् इत्य् अर्थः । गृह-मेधिषु गृहस्थेषु अयं न्यासः स्थित्य्-अन्तो विहितः । तथा गृहस्थैः पञ्च न्यासाः कार्या इत्य् अर्थः । वर्णिनां ब्रह्मचारिणाम् अयं न्यासः सृष्ट्य्-अन्तो विहितः । तथा च ब्रह्मचारिभिर् न्यास-चतुष्टयं कार्यम् इत्य् अर्थः । इति पूर्वोक्तम् अर्थ-जातं प्राहुः प्राचीना आगमज्ञा इति शेषः ॥ क्र्द्च्_२।३४ ॥


वैराग्येति ।

वैराग्य-युजि गृहस्थे संहारं केचिद् आहुर् आचार्याः ।
सहजानौ वन-वासिनि स्थितिं च विद्यार्थिनां सृष्टिम् ॥ क्र्द्_२।३५ ॥

गोविन्द-भट्टाचार्यः

केचिद् आचार्याः वैराग्य-युक्त-गृहस्थे संहारान्तं न्यासम् आहुः । किं च सहजानौ वन-वासिनि सपत्नीके स्थितिं स्थित्य्-अन्तं न्यासम् आहुः । तथा ब्रह्मचारि-भिन्नानां विद्यार्थिनाम् अपि सृष्टिम् सृष्ट्य्-अन्तं न्यासम् आहुर् इत्य् अर्थः ॥ क्र्द्च्_२।३५ ॥


उक्ताक्षर-न्यासाङ्गुलि-नियमं दर्शयति-शिरसीत्य् आदिना ।

शिरसि विहिता मध्या सैवाक्ष्णि तर्जनिकान्विता
श्रवसि रहिताङ्गुष्ठा ज्येष्ठान्वितोषकनिष्ठका ।
नसि च वदने सर्वाः सज्यायसी हृदि तर्जनी
प्रथमज-युता मध्या नाभौ श्रवो-विहिता शिवे ॥ क्र्द्_२।३६ ॥

गोविन्द-भट्टाचार्यः

ता एवाङ्गुलयो जान्वोः साङ्गुष्ठास् तु पद-द्वये ।
स्थानार्णयोर् विनिमयो भवेन् नास्त्य् अङ्गुलि-स्थानयोः ॥ क्र्द्_२।३७ ॥

मध्या मध्याङ्गुलिः शिरसि मूर्ध्नि विहिता न्यास-करणत्वेन तथा मध्याङ्गुल्या न्यासः शिरसि कार्य इत्य् अर्थः । सैव मध्या तर्जनिकान्विताक्ष्णि नयन-युगले विहिता । तथा च मध्यमा-तर्जनीभ्याम् अक्ष्णोर् न्यासः कार्यः । श्रवसि श्रोत्र-युगले रहिताङ्गुष्ठा अङ्गुष्ठ-रहिता सर्वाङ्गुलयो विहिताः । नसि नासा-युगले ज्येष्ठान्विता अङ्गुष्ठ-युक्ता उपकनिष्ठका अनामिका विहिता । वदने सर्वाङ्गुलयो विहिताः । हृदि सज्यायसी ज्येष्ठा-सहिता साङ्गुष्ठ-तर्जनी विहिता । नाभौ जठरे नाभि-पदेन जठरम् उपलक्षितम् इति विद्याधरः । नाभि-पदस्य मुख्य एवार्थ इति लघु-दीपिका-प्रभृतयः । प्रथमज-युता अङ्गुष्ठ-युक्ता मध्यमा विहिता । शिवे लिङ्गे तथा विहिता यथा जठरे साङ्गुष्ठा मध्या
तथेत्य् अर्थ इति केचित् । श्रवो विहिता शिव इति पाठे श्रोत्र-युगले या अङ्गुष्ठ-रहितास् ताः शिवे विहिता इत्य् अर्थः । जान्वोस् ता एवाङ्गुलयः अङ्गुष्ठेन रहिताः सर्वाङ्गुलय इत्य् अर्थः । पद-द्वये साङ्गुष्ठाः सर्वाङ्गुलयो विहिताः । स्थानार्णयोर् इत्य् आदिना स्थानआक्षरअयोर् विनिमयो विपर्ययो भवति । यथा-गों सृष्टौ मूर्ध्नि । स्थितौ हृदये । संहृतौ पादयोर् न्यास इति । एवम् अङ्गुली-स्थानयोर् विपर्ययो नास्ति । किन्तु सृष्टौ स्थितौ संहृतौ वा यत्र स्थाने याङ्गुलिर् विहिता तयैवाङ्गुल्या तत्र स्ताने न्यासः कार्य इत्य् अर्थः । ॥ क्र्द्च्_२।३६-३७ ॥


इदानीं विभूति-पञ्जर-न्यासम् आह-वच्मीति ।

वच्म्य् अपरं न्यास-वरं भूत्य्-अभिधं भूतिकरम् ।
मन्त्र-दशावृत्ति-मयं गुप्ततमं मन्त्रि-वरैः ॥ क्र्द्_२।३८ ॥

गोविन्द-भट्टाचार्यः

अपरं भूत्य्-अभिधं भूतिर् इति नाम यस्य तद् भूति-नामकं वच्मि कथयामि । कीदृशम् ? न्यास-वरं न्यास-श्रेष्ठम् इत्य् अर्थः । पुनः भूति-करम् ऐश्वर्य-करम् । पुनः मन्त्र-दशावृत्ति-मयं मन्त्रस्य दशावरण-घटितम् । पुनः साधक-श्रेष्ठैर् गुप्ततमम् अतिगुह्यम् ॥ क्र्द्च्_२।३८ ॥


न्यास-स्थानम् आह-आधारेत्य् आदिना ।

आधार-ध्वज-नाभि-हृद्-गल-मुखांसोरु-द्वये कन्धरा-
नाभ्योः कुक्षि-हृदोरुरोज-युगले पार्श्वापर-श्रोणिषु ।
कास्याक्षि-श्रुतिनः कपोल-कर-पत्-सन्ध्य्-अग्र-शाखासु के
तत्-प्राच्यादि-दिशासु मूर्ध्नि सकले दोष्णोश् च सक्थ्नोस् तथा ॥ क्र्द्_२।३९ ॥

गोविन्द-भट्टाचार्यः

शिरो ऽक्ष्यास्य-कण्ठाख्य-हृत्-तुन्द-कन्दा-
न्धु-जानु-प्रपत्स्वित्थमर्णान्मनूत्थान् ।
न्यसेच् छ्रोत्र-गण्डांस-वक्षोज-पार्श्व-
स्फिग्-ऊरु-स्थली-जानु-जङ्घाङ्घ्रि-युक्षु ॥ क्र्द्_२।४० ॥

आधारो वृषणस्याधस् त्रिकोणं मूलाधार-स्थानम् । ध्वजो लिङ्गम् । नाभिः हृधयं गलः मुखं अंसोरु-द्वयम् । एतेष्व् एकावृत्तिः । कन्धरा घाटा कन्धरा कण्ठ इति लघु-दीपिका-कारः । नाभि-कुक्षि-हृदयम् उरोज-युगलं स्तन-द्वयम् । पार्श्वेति पार्श्व-युगम् । अपरं पृष्ठ-देशः । श्रोणिर् जघन-देशः । श्रोणिः कटिः । अपरं श्रोण्याः अपरभागः इति त्रिपाठिनः । एतेषु द्वितीयावृत्तिः । कं शिरः । आस्यं मुखम् । अक्षिणी नेत्र-युगलम् । श्रुती श्रवण-द्वयम् । न इति नासिका-द्वयं कपोल-द्वयम् एतेषु तृतीया वृत्तिः । कर-पदेति कर-पदयोः प्रत्येकं सन्धि-चतुष्टयं सन्धिष्व् अङ्गुल्य्-अग्रेषु अङ्गुलीषु च । अत्र दक्षिण-करे चतुर्था वृत्तिः । एवं वाम-करे पञ्चमा
वृत्तिः । इति पक्ष-द्वयं च विद्याधरस् तु करयोर् एका वृत्तिः, पादयोर् एका वृत्तिर् इत्य् आह । तच् चिन्त्यम् । मूल-ग्रन्थात् तथाप्रतीतेः । पादयोः सन्धिष्व् अङ्गुल्य्-अग्रेष्व् अङ्गुलीषु च । अत्रापि दक्षिण-पादे षष्ठा वृत्तिः । वाम-पादे सप्तमा वृत्तिः । अत एव हस्त-पादयोर् न्यास-चतुष्टयम् इति त्रिपाठिनः । के मस्तक-मध्ये तत्-प्राच्यादि-दिशासु मस्तक-पूर्वादि-चतुर्दिक्षु सकले मूर्ध्नि सकले मस्तके प्रादक्षिण्येन व्यापकतया दोष्णोश् च बाहु-युगे तथा सक्थ्नोर् ऊरु-मूलस्याधिष्ठानयोर् मध्य-प्रदेशयोर् एतेष्व् अष्टमा वृत्तिः । मस्तकस्य पूर्वादि-दिशास्व् एका वृत्तिः । एका वृत्तिर् मूर्धादिष्व् इति विद्याधराचार्याः । तच् चिन्त्यम् ।

तथा पद-स्वरसात् शिरः-प्रभृतिष्व् एकावृत्ति-प्रतीतेः । शिरो मस्तकम् । अक्षीति नेत्र-युगलम् । आस्यं मुखम् । कण्ठं । हृदयं । तुन्दम् उदरम् । कन्दो मूलाधारः । स्वाधिष्ठानम् इति त्रिपाठिनः । अन्धुं लिङ्गं । जानु । प्रपद् इति पाद-युगलं तेषु, एतेषु नवमावृत्तिः । श्रोत्र-युगले गण्ड-युगले । अंस-युगले । स्तन-युगले । पार्श्व-युगले । स्फिग्-युगले नितम्ब-युगले । एवम् उरु-जानु-जङ्घाङ्घ्रि-युगले । एतेषु दशमावृत्तिः । इत्थम् अनेन प्रकारेण मनूत्थान् मन्त्र-सम्बन्धिनो वर्णान् न्यसेत् । प्रयोगश् च -

गों नमो मूलाधारे,
पीं नमः लिङ्गे,
जं नमः नाभौ इत्य् आदि ॥ क्र्द्च्_२।३९-४० ॥


न्यास-फलम् आह-इतीति ।

इति कथितं विभूति-पञ्जरं
सकल-सुखार्थ-धर्म-मोक्षदम् ।
नर-तरुणी-मनो ऽनुरञ्जनं
हरि-चरणाब्ज-भक्ति-वर्धनम् ॥ क्र्द्_२।४१ ॥

गोविन्द-भट्टाचार्यः

अनेन प्रकारेण विभूति-पञ्जरं कथितम् । कीदृशम् ? सकल-सुखार्थ-धर्म-मोक्षदं पुरुषार्थ-चतुष्टय-प्रदम् । पुनर् नर-तरुणी-मनो-रञ्जनं पुरुष-नारी-चित्ताह्लादकं न केवलं सर्वानुरञ्जनम् । अपि तु हरि-चरणाब्जे भक्ति-वर्धनम् ॥ क्र्द्च्_२।४१ ॥


मूर्ति-पञ्जर-न्यासम् आह-स्फूर्तय इति ।

स्फूर्तये ऽथास्य मन्त्रस्य कीर्त्यते मूर्ति-पञ्जरम् ।
आर्ति-ग्रह-विषारि-घ्नं कीर्ति-श्री-कान्ति-पुष्टिदम् ॥ क्र्द्_२।४२ ॥

गोविन्द-भट्टाचार्यः

अथानन्तरम् अस्य दशाक्षर-मन्त्रस्य स्फूर्तये उद्दीपनाय मूर्ति-पञ्जरं कीर्त्यते । किम्भूतम् ? आर्तिः पीडा । ग्रहो ग्रह-जनितम् अशुभं विषं स्थावरं जङ्गमं च । अरिः शत्रुः । तान् हन्तीत्य् अर्थः । पुनः कीदृशम् ? कीर्त्य्-आदि-दम् । कीर्तिः प्रख्यातिः । श्री-सम्पत्तिः सौन्दर्यं पुष्टिर् बलं प्रददातीति तथा ॥ क्र्द्च्_२।४२ ॥


अधुना न्यासम् उद्धरति-केशवादीति ।

केशवादि-युग-षट्क-मूर्तिभिर्
धातृ-पूर्व-मिहिरान् नमो ऽन्तकान् ।
द्वादशाक्षर-भवाक्षरैः स्वरैः
क्लीब-वर्ण-रहितैः क्रमान् न्यसेत् ॥ क्र्द्_२।४३ ॥

गोविन्द-भट्टाचार्यः

केशवादिभिः पूर्वोक्त-युग-षट्क-मूर्तिभिः सह धातृ-पूर्व-मिहिरास् तान् क्रमेण न्यसतु । कीदृशान् ? नमो ऽन्तकान् नमः-पदान्तान् । पुनः कैः सह ? द्वादशाक्षर-भवाक्षरैर् वक्ष्यमाण-द्वादशाक्षर-मन्त्र-सम्बन्धिभिर् द्वादशाक्षरैः सह । एतद् उक्तं भवति-आदौ स्वराः । ततो नमः-पदम् इति । प्रयोगस् तु ॐ अं ॐ केशव-धातृभ्यां नमः । ॐ अं ॐ केशव-धात्रे नम इति त्रिपाठिनः ॥ क्र्द्च्_२।४३ ॥


अथ मूर्ति-पञ्जर-न्यासे न्यास-स्थानम् आह-भालोदरेति ।

भालोदर-हृद्-गल-कूप-तले
वामेतर-पार्श्व-भुजान्त-गले ।
वाम-त्रय-पृष्ठ-ककुत्सु तथा
मूर्धन्य् अनु षड्-युग-वर्ण-मनुम् ॥ क्र्द्_२।४४ ॥

गोविन्द-भट्टाचार्यः

भाले ललाटे । उदरे । हृदये । गल-कूप-तले कण्ठे । वामेतरे वामाद् इतरद् दक्षिणं दक्षिण-पार्श्वे भुजान्ते गले चेति । वाम-त्रये वाम-पार्श्वे वाम-भुजान्ते गले च । पृष्ठे ककुदि । अथानन्तरं अन्व् इति पाठे ऽप्य् अयम् एव बोद्धव्यः । तथा तेन प्रकारेण मूर्ध्न्य् षड्-युग-वर्ण-मनुं द्वादशाक्षर-मन्त्रं न्यसेद् इत्य् अर्थः ॥ क्र्द्च्_२।४४ ॥


मस्तके सम्पूर्ण-मन्त्र-न्यासस्य प्रयोजनम् आह-चैतन्येति ।

चैतन्यामृत-वपुर् अर्क-कोटि-तेजा
मूर्धस्थो वपुर् अखिलं स वासुदेवः ।
औधस्यं सुविमल-पायसीव सिक्तं
व्याप्नोति प्रकटित-मन्त्र-वर्ण-कीर्णम् ॥ क्र्द्_२।४५ ॥

गोविन्द-भट्टाचार्यः

स प्रसिद्धो वासुदेवो मूर्धस्थो मस्तक-स्थः सन् वपुर् अखिलं समस्तं वपुः शरीरं व्याप्नोति स्व-तेजसेत्य् अर्थः । किम्भूतो वासुदेवः ? चैतन्यामृतं तद् एव वपुर् यस्य स तथा । यद् वा चैतन्यं स्व-प्रकाशम् अमृतं मोक्षस् तद् एव वपुर् यस्य स तथा । पुनः कीदृशः ? अर्क-कोटिर् इव तेजो यस्य स तथा । वपुर् कीदृशम् ? प्रकटित-मन्त्र-वर्ण-कीर्णम् प्रकटिता ये मन्त्र-वर्णा द्वादशाक्षरोद्गतास् तैर् आकीर्णं व्याप्तम् । किम् इव ? सुविमल-पायसि सुनिर्मले जले सिक्तं निक्षिप्तम् औधस्यं दुग्धम् इव ॥ क्र्द्च्_२।४५ ॥


शरीर-न्यास-जातम् उपसंहरति-सृष्टि-स्थितीति ।

सृष्टि-स्थिती दश-पञ्चाङ्ग-युग्मं
मुन्य्-आदिक-त्रितयं कास्य-हृत्सु ।
विन्यस्यतु ग्रथयित्वा च मुद्रा-
भूयो दिशां दशकं बन्धनीयम् ॥ क्र्द्_२।४६ ॥

गोविन्द-भट्टाचार्यः

मूर्ति-पञ्जरस्य पूर्व-कृत्यं दर्शयति सृष्टि-स्थितीत्यादि इति रुद्रधरः । तच् चिन्त्यम् । तत्र प्रमाणाभावात् । मूर्धन्य् अक्ष्णोर् इत्य् आदिना पूर्वम् उक्ते सृष्टि-स्थिती पुनः स्व-देहे विन्यस्य तथा दश-पञ्चाङ्ग-युग्मं दशाङ्गं पञ्चाङ्गं च विन्यस्य । ऋष्य्-आदि-त्रितयं कास्य-हृत्स्य विन्यसेद् इत्य् अर्थः । वक्ष्यमाण-मुद्रां ग्रथयित्वा बद्ध्वा भूयः पुनर् अपि दिशां दशकं बन्धनीयम् । ॐ सुदर्शनायास्त्राय फट् इत्य् अनेन वक्ष्यमाणेन मन्त्रेणेत्य् अर्थः ॥ क्र्द्च्_२।४६ ॥


द्वादशाक्षर-मन्त्रोद्धारम् आह-तारम् इत्य् आदिना ।

तारं हार्दं विश्व-मूर्तिश् च शार्ङ्गी
मांसान्तस् ते वाय-मध्ये सुदेवाः ।
षड्-द्वन्द्वार्णो मन्त्र-वर्यः स उक्तः
साक्षाद् द्वारं मोक्ष-पुर्याः सुगम्यम् ॥ क्र्द्_२।४७ ॥

गोविन्द-भट्टाचार्यः

तारं प्रणवम् । हार्दं हृदयं नमः इति यावत् । विश्व-मूर्तिर् भ-कारः । शार्ङ्गी ग-कारः । मांसान्ते मांसो ल-कारः । तस्यान्तो व-कार इति । ते इति स्वरूपम् । वा इति स्वरूपम् । य इति स्वरूपम् । तयोर् वाययोर् मध्ये सुदेवाः सु-दे-वेत्य्-अक्षर-त्रयम् । तथा च ॐ नमो भगवते वासुदेवायेति प्रसिद्धः षड्-द्वन्द्वार्णो मन्त्र-वर्यो द्वादशाक्षरो मन्त्र-श्रेष्ठ उक्तः कथितः । कीदृशः ? मोक्ष-पुर्याः साक्षाद् अव्यवधानेन सुगम्यं द्वारं सुगम उपाय इत्य् अर्थः ॥ क्र्द्च्_२।४७ ॥


द्वादशाक्षरादित्यान् दर्शयति–धात्र्-अर्यमेत्य् आदिना ।

धात्र्-अर्यम-मित्राख्या वरुणांशुभगा विवस्वद्-इन्द्र-युताः ।
पूषाह्वय-पर्जन्यौ त्वष्टा विष्णुश् च भानवः प्रोक्ताः ॥ क्र्द्_२।४८ ॥

गोविन्द-भट्टाचार्यः

धाता अर्यमा मित्रः वरुणः अंशुः भगः विवस्वान् इन्द्रः पूषाः पर्जन्यः त्वष्टा विष्णुर् एते द्वादश भानवः कथिताः ॥ क्र्द्च्_२।४८ ॥


अधुनाष्टादशाक्षर-मन्त्र-न्यासम् आह-अथ तु युगेत्य् आदि ।

अथ तु युग-रन्ध्रार्णस्याहं मनोर् न्यसनं ब्रुवे
रचयतु कर-द्वन्द्वे पञ्चाङ्गम् अङ्गुलि-पञ्चके ।
तनुम् अनु मनुं व्यापय्याथ त्रिशः प्रणवं सकृन्
मनुजलिपयो न्यास्या भूयः पदानि च सादरम् ॥ क्र्द्_२।४९ ॥

गोविन्द-भट्टाचार्यः

अनन्तरं पुनर् युग-रन्ध्रार्णस्य युग-रन्ध्रे राज-दन्तत्वाद् रन्ध्र-शब्दस्य पर-निपातः । युग-रन्ध्रम् अक्षराणां यत्र स युग-रन्ध्रार्णः तस्य । रन्ध्रं नव । तथा चाष्टादशाक्षरस्य मनोर् मन्त्रस्याहं न्यसनं न्यासं ब्रुवे कथयामीति प्रतिज्ञा । कर-द्वये अङ्गुलि-पञ्चके पञ्चाङ्गं पूर्वोक्तं मन्त्राक्षरैः परिक्प्तं कर-न्यासं कुर्यात् । कनिष्ठायाम् अस्त्र-न्यासो द्रष्टव्यः । अथानन्तरं तनुम् अनु लक्ष्यीकृत्य त्रिशः त्रि-वारं मन्त्रं व्यापय्य व्यापकतया विन्यस्य पुनः प्रणवं सकृद् एक-वारं विन्यस्य अनन्तरं मनुज-लिपयो न्यास्या मन्त्राक्षराणि न्यसतु । भूयो ऽनन्तरं सादरं यथा स्याद् एवं पदानि पञ्च पदानि न्यास्यानि ॥ क्र्द्च्_२।४९ ॥


मन्त्राक्षर-न्यास-स्थानम् आह-कच-भुवीति ।

कच-भुवि ललाटे भ्रू-युग्मान्तरे श्रवणाक्षिणोर्
युगल-वदन-ग्रीवाहृन्-नाभि-कट्य्-उभयान्धुषु ।
न्यसतु शितधीर्जान्वङ्घ्र्योर् अक्षरान् शिरसि ध्रुवं
नयन-मुख-हृद्-गुह्याङ्घ्रिष्व् अर्पयेत् पद-पञ्चकम् ॥ क्र्द्_२।५० ॥

गोविन्द-भट्टाचार्यः

कचस्य केशस्य भूर्-उत्पत्ति-स्थानं शिरः तत्र । ललाटे भ्रू-युग्मान्तरे भ्रू-मध्ये श्रवणाक्ष्णोर् युगले नो नासिका-युगले च । वदने ग्रीवायां हृदि नाभौ कट्य्-उभये वाम-कटिर् दक्षिण-कटिश् च । अन्धौ लिङ्गे । एतेषु तथा जाव्य्-अङ्घ्र्योश् च शितधिर् निर्मल-मतिः
अक्षराणि मन्त्र-सम्बन्धीनि न्यसतु । अत्र जान्वोर् एकम् अक्षरं न्यसेत् । अङ्घ्र्योर् एकम् अक्षरं न्यसेत् । तथा शिरसि मस्तके ध्रुवं न्यसेत् । पद-पञ्चक-न्यास-स्थानान्य् आह-नयनेति । नयन-युगलं मुखं हृदयं गुह्यं अङ्घ्रिश् च - एतेषु मन्त्र-सम्बन्धि पद-पञ्चकं क्लीम् इत्य् एकम्, अन्यानि स्पष्टानि अर्पयेन् न्यसेत् ॥ क्र्द्च्_२।५० ॥


पञ्चाङ्गानीति ।

पञ्चाङ्गानि न्यसेद् भूयो मुन्य्-आदीन् अप्य् अन्यत् सर्वम् ।
तुल्यं पूर्वेणाथो वक्ष्ये मुद्रा बन्ध्या मन्वोर् याः स्युः ॥ क्र्द्_२।५१ ॥

गोविन्द-भट्टाचार्यः

पञ्चाङ्गानि भूयः पुनर् अपि शरीरे न्यसेत् । तथा मुन्य्-आदीन् ऋष्य्-आदीन् । अन्यत् सर्वं केशवादि-जातं पूर्वेण तुल्यं समानम् एव । अत्र दश-तत्त्वादि-न्यासेषु मन्त्रस्य द्विर् आवृत्ति-विशेष इति लघु-दीपिका-कारः । अथो ऽनन्तरं मन्वोर् दशाक्षराष्टादशाक्षरयोर् या मुद्रा बन्ध्या बन्धनीयाः स्युर् भवेयुस् ता मुद्रा वक्ष्ये कथयामि ॥ क्र्द्च्_२।५१ ॥


हृदयाद्य्-अङ्ग-न्यास-मुद्राः प्रदर्शयति-अनङ्गुष्ठा इत्य् आदि ।

अनङ्गुष्ठा ऋजवो हस्त-शाखा
भवेन् मुद्रा हृदये शीर्षके च ।
अधो ऽङ्गुष्ठा खलु मुष्टिः शिखायां
कर-द्वन्द्वाङ्गुलयो वर्मणि स्युः ॥ क्र्द्_२।५२ ॥

गोविन्द-भट्टाचार्यः

नाराचमुष्ट्य्-उद्धत-बाहु-युग्म-
काङ्गुष्ठ-तर्जन्य्-उदितो ध्वनिस् तु ।
विष्वग्-विषक्तः कथितास्त्र-मुद्रा
यत्राक्षिणी तर्जनी-मध्यमे तु ॥ क्र्द्_२।५३ ॥

अनङ्गुष्ठा अङ्गुष्ठ-रहिता ऋजवो ऽवक्रा हस्त-शाखा हस्ताङ्गुलयो हृदये मुद्रा भवेत् । शीर्षके च शिरसि ता एव मुद्रा ज्ञेयाः । खलु निश्चये । अधो ऽङ्गुष्ठा मुष्टिः अधो ऽङ्गुष्ठो यस्यां मुष्टौ एवं कृता मुष्टिः शिखायां मुद्रा भवेत् । वर्मणि कवचे कर-द्वन्द्वाङ्गुलयः स्युः मुद्रा-पद-वाच्या भवन्ति । ध्वनिः शब्दो ऽस्त्र-मुद्रा कथिता । किम्भूतो ध्वनिः ? नाराचवद् बाणवद् मुष्ट्योद्धतो यो बाहुस् तस्य युग्मकं द्वयं तस्याङ्गुष्ठ-तर्जनीभ्यां करणाभ्याम् उदितः । पुनः कीदृशः ? विष्वग् दश-दिक्षु विषक्तः विस्तीर्णः यत्र मन्त्रे ऽक्षिणी भवतः नेत्राङ्गम् अस्ति तत्र तर्जनी-मध्यमे मिलिते मुद्रा ॥ क्र्द्च्_२।५३ ॥


वेणु-मुद्राम् आह-ओष्ठ इति ।

ओष्ठे वाम-कराङ्गुष्ठो लग्नस् तस्य कनिष्ठिका ।
दक्षिणाङ्गुष्ठ-संयुक्ता तत्-कनिष्ठा प्रसारिता ॥ क्र्द्_२।५४ ॥

गोविन्द-भट्टाचार्यः

तर्जनी-मध्यमानामाः किञ्चित् सङ्कुच्य चालिताः ।
वेणु-मुद्रेह कथिता सुगुप्ता प्रेयसी हरेः ॥ क्र्द्_२।५५ ॥
वाम-हस्ताङ्गुष्ठो ऽधरे लग्न इति सम्बन्धः कार्यः । तस्य वाम-हस्तस्य या कनिष्ठिका पञ्चमी अङ्गुली सा दक्षिणाङ्गुष्ठ-संयुक्ता दक्षिण-हस्ताङ्गुष्ठे सम्बद्धा कार्या । तत्-कनिष्ठिका दक्षिण-हस्त- कनिष्ठिका प्रसारिता अकुटिला कार्या । उभय-हस्त-तर्जनी-मध्यमानामिकाः किञ्चित् सङ्कुच्य चालिताश् चालनीया । इत्थम् इह शास्त्रे वेणु-मुद्रा कथिता सुगुप्ता ग्रन्थान्तरे ऽत्यन्त-गुप्ता । यतो हरेः परमेश्वरस्य श्री-कृष्णस्य प्रेयसी वल्लभा ॥ क्र्द्च्_२।५४-५५ ॥

______________________________

नोच्यन्त इति ।

नोच्यन्ते ऽत्र प्रसिद्धत्वान् माला-श्री-वत्स-कौस्तुभाः ।
उच्यते ऽच्युत-मुद्राणां मुद्रा बिल्व-फलाकृतिः ॥ क्र्द्_२।५६ ॥

गोविन्द-भट्टाचार्यः

माला-श्री-वत्स-कौस्तुभ-मुद्राः प्रसिद्धत्वान् नोच्यन्ते मया ग्रन्थ-कर्त्राप्रसिद्धम् इह प्रकाश्यत इति शेषः । अत एव गले वनमालाभिनयनं वनमाला-मुद्रा । उत्तानित-वाम-तर्जनी-कनिष्ठोपरि अधोमुख-दक्षिण-कर-कनिष्ठिका-तर्जनीके संयोज्य दक्षिण-कराणामिका-मध्यमाङ्गुली-द्वयं वाम-कराङ्गुष्ठोपरि कृत्वा वाम-कर-मध्यमोपकनिष्ठिके दक्षिण-हस्ताङ्गुष्ठस्याधः कुर्याद् एषा श्रीवत्स-मुद्रा । वाम-कनिष्ठिकया दक्षिण-कनिष्ठिकां निष्पीड्य वामानामिकया दक्षिण-तर्जनीं निष्पीड्य शिष्ट-वामाङ्गुली-त्रयम् उपरि कृत्वा वाम-तर्जनी-सहित-दक्षिण-हस्ताङ्गुलि-त्रय-मुखम् एकत्र योजयेद् एषा कौस्तुभ-मुद्रा ॥ क्र्द्च्_२।५६ ॥


बिल्व-मुद्राम् आह-अङ्गुष्ठम् इति ।

अङ्गुष्ठं वामम् उद्दण्डितम् इतर-कराङ्गुष्टकेनाथ बद्ध्वा
तस्याग्रं पीडयित्वाङ्गुलिभिर् अपि तथा वाम-हस्ताङ्गुलिभिः ।
बद्ध्वा गाढं हृदि स्थापयतु विमल-धीर् व्याहरन् मार-बीजं
बिल्वाख्या मुद्रिकैषा स्फुटम् इह कथिता गोपनीया विधिज्ञैः ॥ क्र्द्_२।५७ ॥

गोविन्द-भट्टाचार्यः

वामाङ्गुष्ठं उद्दण्डितम् दण्डाकारम् ऊर्ध्वं कृत्वाधः कर्तव्यं तथानन्तरम् इतर-कराङ्गुष्टेन बद्ध्वा तस्य च पीठे दक्षिण-कराङ्गुष्ठस् तिरङ्-कार्य इत्य् अर्थः । तस्याग्रं दक्षिण-कराङ्गुष्ठाग्रम् अङ्गुलिभिः पीडयित्वा धृत्वा ता अपि दक्षिण-कराङ्गुलयो ऽपि वाम-हस्ताङ्गुलीभिर् गाढं यथा स्याद् एवं बद्ध्वा विमल-धीः शुद्ध-बुद्धिः हृदि हृदये स्थापयेत् । मार-बीजं काम-बीजं व्याहरन् उच्चारयन् । इत्थं बिल्वाख्या एषा स्फुटम् व्यक्तं यथा स्याद् एवम् इह-शास्त्रे कथिता विधिज्ञैः प्रकार-ज्ञैर् गोपनीया ॥ क्र्द्च्_२।५७ ॥


एतस्याः फलम् आह-मन इति ।

मनो-वाणी-देहैर् यद् इह च पुरा वापि विहितं
त्वमत्या मत्या वा तद् अखिलम् असौ दुष्कृति-चयम् ।
इमां मुद्रां जानन् क्षपयति नरस् तं सुर-गणा
नमन्त्य् अस्याधीना भवति सततं सर्व-जनता ॥ क्र्द्_२।५८ ॥

गोविन्द-भट्टाचार्यः

असौ नरो मनुष्यः इमां मुद्रां जानन् तद् अखिलं सम्पूर्णं दुष्कृति-चयं पाप-राशिं क्षपयति दूरीकरोति यन् मनसा वाचा देहेनामत्याज्ञानेन मत्या ज्ञानेन वा दिवा-रात्रि-विहितं दिवसे रात्रौ वा कृतम् । यद् इह च पुरा वापि विहितम् इति पाठे इह जन्मनि जन्मान्तरे वा विहितम् इत्य् अर्थः । न केवलं पापं दूरीकरोति अपि तु सुर-गणा देवा नमन्ति । तथास्य मुद्राकर्तुः सततं सर्वदा सर्व-जन-समूहो वश्यो भवतीत्य् अर्थः ॥ क्र्द्च्_२। ५८ ॥

सनातनः (हरि-भक्ति-विलासे ६।४२) : असौ नर इमां बिल्वाख्यां मुद्रां जानन् तत्-तद्-दुष्कृत-निचयं पाप-समूहम् अखिलं निःशेषं क्षपयति विनाशयति । कम् ? यं मनो-वाक्-कायैः इह अस्मिन् पुरा पूर्व-जन्मनि च अमत्या अज्ञानेन मत्या वा ज्ञानेन विहितम् । दिवारात्रि-विहितम् इति पाठे दिने रात्रौ च कृतम् । यत् तदो नपुंसकत्वं महाकवि-स्वातन्त्र्याद् अव्ययत्वाद् वा । यद् वा, यत् यस्मात् क्षपयति तत् तस्मान् नमन्तीत्य् अन्वयः । मुद्रा-लक्षणानि च गुह्यत्वान् न लिखितानि । तथा चोक्तम्-

गुरुं प्रकाशयेद् विद्वान् मन्त्रं नैव प्रकाशयेत् ।
अक्ष-मालां च मुद्रां च गुरोर् अपि न दर्शयेत् ॥ इति ।

अत्र च तद्-विज्ञानार्थम् उद्दिश्यन्ते । तथा चागमे-

सम्यक् सम्पुटितैः पुष्पैः कराभ्यां कल्पितो ऽञ्जलिः ।
आवाहनी समाख्याता मुद्रा देशिक-सत्तमैः ॥
अधो-मुखी-कृतैः सर्वैः स्थापनीति निगद्यते ।
आश्लिष्ट-मुष्टि-युगला प्रोन्नताङ्गुष्ठ-युग्मका ।
सन्निधाने समुद्दिष्टा मुद्रेयं तन्त्र-वेदिभिः ।
अङ्गुष्ठ-गर्भिणी सैव सन्निरोधे समीरिता ॥
अङ्गैर् एवाङ्ग-विन्यासः सकली-करणी मता ।
सव्य-हस्त-कृता मुष्टिर् दीर्घाधोमुख-तर्जनी ॥
अवगुण्ठन-मुद्रेयम् अभितोभ्रामिता यदि ।
अन्योन्याभिमुखाः सर्वाः कनिष्ठानामिकाः पुनः ॥
तथा तर्जनी-मध्याश् च धेनु-मुद्रा प्रकीर्तिता ।
अन्योन्य-ग्रथिताङ्गुष्ठा प्रसारित-कराङ्गुलिः ।
महा-मुद्रेयम् उदिता परमीकरणे बुधैः ॥
वामाङ्गुष्ठं विधृत्यैवं मुष्टिना दक्षिणेन तु ।
तन्-मुष्टैः पृष्ठतो देशे योजयेच् चतुरङ्गुलीः ॥
कथिता शङ्ख-मुद्रेयं वैष्णवार्चन-कर्मणि ।
अन्योन्याभिमुखाङ्गुष्ठ-कनिष्ठ-युगले यदि ॥
विस्तृताश् चेतराङ्गुल्यस् तदासौ दर्शिनी मता ।
अन्योन्य-ग्रथिताङ्गुल्य उन्नतौ मध्यमौ यदि ।
संलग्नौ च तदा मुद्रा गदेयं परिकीर्तिता ॥
पद्माकाराव् आभिमुख्येन पाणी
मध्य्ऽङ्गुष्ठौ शायितौ कर्णिकावत् ।
पद्माख्येयं सौव संलग्न-मध्या
स्पृष्टाङ्गुष्ठा बिल्व-सञ्ज्ञैव मुद्रा ॥
अग्रे तु वाम-मुष्टेश् च इतरा तु यदा मता ।
तदेयं कृतिभिर् मुद्रा ज्ञेया मुषल-सञ्ज्ञिता ॥
वामस्थ-तर्जनी-प्रान्तं मध्यमान्ते नियोजयेत् ।
प्रसार्य तु करं वामं दक्षिणं करम् एव च ॥
नियोज्य दक्षिण-स्कन्धे बाण-प्रेरणवत् ततः ।
तर्जन्य्-अङ्गुष्ठकाभ्यां च कुर्याद् एषा प्रकीर्तिता ॥
शार्ङ्ग-मुद्रेति मुनिभिर् दर्शयेत् कृष्ण-पूजने ।
कनिष्ठानामिके द्वे तु दक्षाङ्गुष्ठ-निपीडिते ।
शेषे प्रसारिते कृत्वा खड्ग-मुद्रा प्रकीर्तिता ॥
पाशाकारां नियोज्यैव वामाङ्गुष्ठाङ्ग-तर्जनीम् ।
दक्षिणे मुष्टिम् आदाय तर्जनीं च प्रसारयेत् ॥
तेनैव संस्पृशेन् मन्त्री वामाङ्गुष्ठस्य मूलकम् ।
पाश-मुद्रेयम् उद्दिष्टा केशवार्चन-कर्मणि ॥
तर्जनीम् ईषद् आकुञ्च्य शेषेणापि निपीडयेत् ।
अङ्कुशं दर्शयेत् तद्वद् गृहीत्वा दक्ष-मुष्टिना ॥
अन्योन्य-पृष्ठे संयोज्य कनिष्ठे च परम्परम् ।
तर्जन्य्-अग्रं समं कृत्वा कनिष्ठाग्रं तथैव च ॥
ईषद् आलम्बितं कृत्वा इतरौ पक्षवत् ततः ।
प्रसार्य गारुडी मुद्रा कृष्ण-पूजा-विधौ स्मृता ॥
अन्योन्य-सम्मुखे तत्र कनिष्ठा-तर्जनी-युगे ।
मध्यमानामिके तद्वद् अङ्गुष्ठेन निपीडयेत् ॥
दर्शयेद् धृदये मुद्रां यत्नाच् छ्रीवत्स-सञ्ज्ञिताम् ।
अन्योन्याभिमुखे तद्वत् कनिष्ठे सन्नियोजयेत् ।
तर्जन्य्-अनामिके तद्वत् करौ त्व् अन्योन्य-पृष्ठगौ ॥
उत्सिक्तान्योन्य-संलग्नौ वक्षः-स्थित-कराङ्गुलीः ।
विधाय मध्य-देशे तु वाम-मध्यम-तर्जनी ।
संयोज्य मणिबन्धे तु दक्षिणे योजयेत् ततः ॥
वामाङ्गुष्ठे तु मुद्रेयं प्रसिद्धा कौस्तुभाह्वया ।
क्वचिच् च-
अनामा पृष्ठ-संलग्ना दक्षिणस्य कनिष्ठिका ।
कनिष्ठ्यान्यया बद्धा तर्जन्या दक्षया तथा ॥
वामानां च बध्नीयाद् दक्षाङ्गुष्ठस्य मूलके ।
अङ्गुष्ठ-मध्यमे वामे संयोज्य सरलाः पराः ॥
चतस्रो ऽन्योन्य-संलग्ना मुद्रा कौस्तुभ-सञ्ज्ञिता ॥
ओष्ठे वाम-कराङ्गुष्ठो लग्नस् तस्य कनिष्ठका ।
दक्षिणाङ्गुष्ठ-संयुक्ता तत्-कनिष्ठा प्रसारिता ।
तर्जनी-मध्यमानामाः किञ्चित् सङ्कुच्य चालिताः ॥
वेणु-मुद्रेयम् उद्दिष्टा सुगुप्ता प्रेयसी हरेः ।
अङ्गं प्रसारितं कृत्वा स्पृष्ट-शाखं वरानने ।
प्राङ्मुखं तु ततः कृत्वा अभयं परिकीर्तितम् ॥
दक्षं भुजं प्रसारित्वा जानूपरि निवेशयेत् ।
प्रसृतं दर्शयेद् देवि वरः सर्वार्थ-साधकः ॥
उत्तान-तर्जनीभ्यां तु ऊर्ध्वाधः प्रक्रमेण तु ।
मालावत् क्रम-विस्तारा वनमाला प्रकीर्तिता ॥

क्रम-दीपिकायां (२।५७)-
अङ्गुष्ठं वामम् उद्दण्डितम् इतर-कराङ्गुष्टकेनाथ वध्वा
तसाग्रं पीडयित्वाङ्गुलिभिर् अपि तथा वाम-हस्ताङ्गुलिभिः ।
बद्ध्वा गाढं हृदि स्थापयतु विमल-धीर् व्याहरन् मार-बीजं
बिल्वाख्या मुद्रिकैषा स्फुटम् इह कथिता गोपनीया विधिज्ञैः ॥

अगस्त्य-संहितायां च-
आवाहिनीं स्थापनीं सन्निधीकरणीं तथा ।
सुसन्निरोधिनीं मुद्रां सम्मुखी-करणीं तथा ॥
सकली-करणीं चैव महा-मुद्रान् तथैव च ।
शङ्ख-चक्र-गदा-पद्म-धेनुकोस् तु भगारुडाः ॥
श्रीवत्सं वन-मालां च योनि-मुद्रां च दर्शयेत् ॥
मूलाधाराद् द्वादशान्तम् आनीतः कुसुमाञ्जलिः ।
त्रि-स्थान-गत-तेजोभिर् विनीतः प्रतिमादिषु ॥
आवाहनीया मुद्रा स्याद् एषार्चन-विधौ मुने ।
एषैवाधो-मुखी मुद्रा स्थापने शय्यते पुनः ॥
उन्नताङ्गुष्ठ-योगेन मुष्टीकृत-कर-द्वयम् ।
सन्निधी-करणं नाम मुद्रा देवार्चने विधौ ॥
अङ्गुष्ठ-गर्भिणी सैव मुद्रा स्यात् सन्निरोधिनी ।
उत्तान-मुष्टि-युगला सम्मुखी-करणी मता ॥
अङ्गैर् एवाङ्ग-विन्यासः सकली-करणी तथा ।
अन्योन्याङ्गुष्ट-संलग्ना विस्तारित-कर-द्वयी ॥
महा-मुद्रेयम् आख्याता न्यूनाधिक-समापनी ।
कनिष्ठानामिका-मध्यान्तःस्थाङ्गुष्ठान्तरे ऽग्रतः ॥
गोपिताङ्गुलि-मध्ये समन्तान् मुकुली-कृता ।
कर-द्वयेन मुद्रा स्याच् छङ्काख्येयं सुरार्चने ॥
अन्योन्याभिमुख-स्पर्श-व्यत्ययेन तु वेष्टयेत् ।
अङ्गुलीभिः प्रयत्नेन मण्डली-करणं मुने ॥
चक्र-मुद्रेयम् आख्याता गदा-मुद्रा ततः परम् ।
अन्योन्याभिमुखाश्लिष्टाङ्गुलिः प्रोन्नत-मध्यमा ॥
अथाङ्गुष्ठ-द्वयं मध्ये दत्त्वापि परितः करौ ।
मण्डली-करणं सम्यग्-अङ्गुलीनां तपोधन ॥
पद्म-मुद्रा भवेद् एषा धेनु-मुद्रा ततः परम् ।
अनामिका-कनिष्ठाभ्यां तर्जनीभ्यां च मध्यमे ।
अन्योन्याभिमुखाश्लिष्टे ततः कौस्तुभ-सञ्ज्ञितः ॥
कनिष्ठान्योन्य-संलग्ने ऽभिमुखे ऽपि परस्परम् ।
वामस्य तर्जनी-मध्ये मध्यानामिकयोर् अपि ॥
वामानामिक-संस्पृष्टा तर्जनी-मध्य-शोभिता ।
पर्यायेण नताङ्गुष्ठ-द्वयी कौस्तुभ-लक्षणा ॥
कनिष्ठान्योन्य-संलग्ना विपरीतं वियोजिता ।
अधस्तात् स्थापिताङ्गुष्ठा मुद्रा गरुड-सञ्ज्ञिता ॥
तर्जन्य्-अङ्गुष्ठ-मध्यस्था मध्य्मानामिका-द्वयी ।
कनिष्ठानामिका-मध्या तर्जन्य्-अग्रे कर-द्वयी ॥
मुने श्रीवत्स-मुद्रेयं वनमाला भवेत् ततः ।
कनिष्ठानामिका-मध्या मुष्टिर् उन्नीत-तर्जनी ॥
परिभ्रान्ता शिरस्य् उच्चैस् तर्जनीभ्यां दिवौकसः ।
मुद्रा योनिः समाख्याता सङ्कोचित-कर-द्वयी ॥
तर्जन्य्-अङ्गुष्ठ-मध्यान्तः-स्थितानामिक-युग्मका ।
मध्य-मूल-स्थिताङ्गुष्ठा ज्ञेया शस्तार्चने मुने ॥ इति ।


अस्त्र-मन्त्रम् आह-प्रणवेति ।

प्रणव-हृदोर् अवसाने स-चतुर्थि-
सुदर्शनं तथास्त्र-पदं च ।
उक्त्वा फड्-अन्तम् अमुना कलयेन्
मनुनास्त्र-मुद्रया दश-हरितः ॥ क्र्द्_२।५९ ॥

गोविन्द-भट्टाचार्यः

प्रणव ओङ्कारः । हृत् नमः । एतयोर् अवसाने ऽन्ते स-चतुर्थि-सुदर्शनं चतुर्थी-विभक्ति-सहितं सुदर्शनम् इति पदम् एतस्यान्ते तथास्त्र-पदं चतुर्थ्य्-अन्तम् अस्त्र-पदम् । पुनः कीदृक् ? फड्-अन्तम् फट्-शब्दान्तम् उक्त्वा अमुना मनुना अनेन मन्त्रेण अस्त्र-मुद्रया दश-हरितः कल्पयेत् दश-दिग्-बन्धनं कुर्याद् इत्य् अर्थः ॥ क्र्द्च्_२।५९ ॥


प्राक् कृतं न्यास-जातम् उपसंहरन् अग्निम् अपटले वक्ष्यमाणं ध्यानं सूचयति-इतीति ।

इति विधाय समस्त-विधिं जगज्-
जनि-विनाश-विधान-विशारदम् ।
श्रुति-विमृग्यम् अजं मनु-विग्रहं
स्मरतु गोप-वधू-जन-वल्लभम् ॥ क्र्द्_२।६० ॥

गोविन्द-भट्टाचार्यः

इत्य् अनेन प्रकारेण समस्त-विधिं पूर्वोक्तम् अखिल-न्यासादिकं विधाय निर्वर्त्य गोप-वधू-जन-वल्लभं कृष्णं स्मरतु चिन्तयतु । कीदृशं कृष्णम् ? जगद्-उत्पत्ति-स्थिति- विनाश-करण-दक्षम् । पुनः कीदृशम् ? श्रुति-विमृग्यम् उपनिषद्-गम्यम् । पुनः कीदृशम् ? अजम् उत्पत्ति-रहितम् । पुनः कीदृशम् ? मनु-विग्रहं मनु-शरीरम् इत्य् अर्थः ॥ क्र्द्च्_२।६० ॥

इति श्री-केशवाचार्य-विरचितायां क्रम-दीपिकायां द्वितीयः पटलः ।
॥२॥


(३)