०१

वेणु-वाद-विनोद-लालसं
दिव्य-गन्ध-परिलिप्त-वक्षसम् ।
वल्लवी-हृदय-वित्त-हारिणं
भावये कम् अपि गोप-नन्दनम् ॥

विशिष्ट-शिष्टाचारानुमित-श्रुति-बोधित-कर्तव्यताक-प्रारिप्सित-प्रतिबन्धक-दुरित-निवृत्त्य्-असाधारण-कारणम् इष्ट-देवताऽनुस्मरण-पूर्वकं मङ्गलम् आशीर्-व्याजेन कृतं शिष्य-शिक्षार्थम् आदौ निबध्नाति कलात्तमायेत्य् आदिना ।

कलात्त-माया-लवकात्त-मूर्तिः
कल-क्वणद्-वेणु-निनाद-रम्यः ।
श्रितो हृदि व्याकुलयंस् त्रिलोकीं
श्रिये ऽस्तु गोपी-जन-वल्लभो वः ॥ क्र्द्_१।१ ॥

गोविन्द-भट्टाचार्यः

गोपी-जन-वल्लभो युष्माकं श्रिये सम्पदे ऽस्तु भूयाद् इति योजना । गोपीजनस्य गोपाङ्गना-जनस्य वल्लभः स्वामी । तथा च गोपी-जनस्यैवाविज्ञात-विनय-प्रकरस्यापि वल्लभः किं पुनः साधकस्याशेष-पूजा-विधान-कोविदस्येति भावः । यद् वा गोपी प्रकृतिर् जनो महद्-आदिर् अनयोर् वल्लभः प्रेरक इत्य् अर्थः ।

कीदृशः कलायां ज्ञान-स्वरूपे स्वस्मिन् आत्तायाः प्राप्ताया अध्यस्ताया मायाया लवकेन लेशेन विक्षेपात्म-स्वभावेन आत्ता प्राप्ता मूर्तिर् येन स तथोक्तः । एतेन तस्य शरीर-सम्बन्धे ऽपि न स्वरूपानुसन्धान-प्रच्युतिर् आवरण-शक्तेर् अप्रामाण्याद् इति भावः ।

अथ वा कला बन्धने, तथा च बन्धनात्मक-संसार-प्रवर्तनार्थं स्वीकृत-माया-लेशात्मक-जल-तत्त्वात्मनाङ्गीकृत-मूर्तिर् इति । तोयेन जीवान् विससर्ज भूम्याम् इति ।

अथवा, सम्मोहन-मन्त्र-रूपकं काम-बीजं सकल-गोपाल-मन्त्राणां बीजम् उदाहरति कलेति । कश् च लश् च कलौ ताभ्याम् अत्तौ गृहीतौ सम्बद्धौ माया-लवकौ चतुर्थ-स्वरानुस्वारौ ताभ्याम् आत्ता स्वीकृता बीज-रूपा मूर्तिर् येन सः तथोक्तः कल इत्य् अत्राकार उच्चारणार्थः ।

पुनः कीदृशः । कलम् अव्यक्तं मधुरं यथा स्यात् तथा क्वणन् शब्दायमानः वेणुर् वंशः कल-क्वणंश् चासौ वेणुश् चेति कल-क्वणद्-वेणुः । तस्य निनादेन रम्यः सर्व-मुख-प्रद इत्य् अर्थः ।

पुनः कीदृशः । हृदि श्रितः हृत्-पङ्कजे स्थितः हृदि ध्येय इत्य् अर्थः । यद् वा सर्व-प्राणिनां हृदये ऽन्तर्यामि-रूपेण स्थित इत्य् अर्थः ।

किं कुर्वन् । त्रयाणां लोकानां समाहारस् त्रिलोकी । त्रैलोक्यं व्याकुलयन् कर्तव्येषु विचार-शून्यं कुर्वन् मायया मोहयन्न् इत्य् अर्थः । तद् उक्तं गीतायां -

ईश्वरः सर्व-भूतेषु हृद्-देशे ऽर्जुन तिष्ठति ।
भ्रामयन् सर्व-भूतानि यन्त्रारूढानि मायया ॥ इति ।

अत्र लघु-दीपिका-कारः कलात्त-मायेत्य्-आदिना गोपी-जन-वल्लभ इत्य् अनेन च बीज-सहितो ऽत्र दशाक्षरः सूचितः । कल-क्वणद् इत्य् आदिना ध्यानं सूचितं । त्रिलोकीं व्याकुलयन्न् इत्य् अनेन च वश्यादि-प्रयोगाः सूचिताः इत्य् आह ॥ क्र्द्च्_१।१ ॥


गुरु-नमस्कार-पूर्वकं कर्तव्यं प्रतिजानीते–

गुरु-चरण-सरोरुह-द्वयोत्थान्
महित-रजः-कणकान् प्रणम्य मूर्ध्ना ।
गदितम् इह विविच्य नारदाद्यैर्
यजन-विधिं कथयामि शार्ङ्ग-पाणेः ॥ क्र्द्_१।२ ॥

गोविन्द-भट्टाचार्यः

इह ग्रन्थे शार्ङ्ग-पाणेः श्री-कृष्णस्य यजन-विधिं पूजाहोमादिकरण-प्रकारं विविच्य विवेचनं कृत्वा कथयामि आसमाप्तेर् वर्तमानत्वात् । तथा च, प्राचीन-ग्रन्थेभ्यः स्व-ग्रन्थस्योपादेयता दर्शिता । कीदृशम् ? नारद-गौतम-प्रभृतिभिर् गदितम् । एतेन स्वोक्तेः स्वातन्त्र्यं निराकृतम् इति भावः । किं कृत्वा ? मूर्ध्ना मस्तकेन महिताः पूजिता ये रजः-कणका धूलि-लेशास् तान् प्रणम्य कीदृशान् गुरु-चरण-द्वयम् एव पद्म-द्वयं तद्-उत्थान् तद्-उद्भवान् । एतेन गुरु-भर्त्-भत्त्य्-अतिशयः सूचितः । तथा गुरु-ध्यानं शिरसि कर्तव्यम् इत्य् अपि सूचितम् ॥ क्र्द्च्_१।२ ॥


मन्त्रान्तरेभ्यो गोपाल-मन्त्रस्यातिशायितं वक्तुं भूमिकां रचयति-

क्षिति-सुर-नृप-विट्-तुरीयजानां
मुनि-वनवासि-गृहस्थ-वर्णिनां च ।
जप-हुत-यजआदिभिर् मनूनां
फलति हि कश्चन कस्यचित् कथञ्चित् ॥ क्र्द्_१।३ ॥

गोविन्द-भट्टाचार्यः

हि यतः मनूनां गोपाल-मन्त्र-व्यतिरिक्तानां मध्ये कश्चन मन्त्रोराश्यादिना शोधितः क्षिति-सुर-प्रभृतीनां वर्णानां मध्ये मुनि-वनवासि-प्रभृतीनाम् आश्रमाणां चकारात् स्त्रीणां मध्ये कस्यचित् कथञ्चिज् जनस्य भाग्य-वशाज् जप-होमादिभिर् आदि-शब्देन तर्पणादेः परिग्रहः । फलति फलं ददातीति योजना । हि शब्दो ऽत्रावधारण इति कश्चित् क्षितिसुरो ब्राह्मणः । नृपः क्षत्रियः । विट् वैश्यः । तुरीयः शूद्रः । मुनिर् यतिः । वनवासी वानप्रस्थः । गृहस्थः कृत-दार-परिग्रहः । वर्णी ब्रह्मचारी ॥ क्र्द्च्_१।३ ॥


अधुना गोपाल-मन्त्रस्य सर्वेषु सिद्धत्वम् आह-

सर्वेषु वर्णेषु तथाश्रमेषु
नारीषु नानाह्वय-जन्मभेषु ।
दाता फलानाम् अभिवाञ्छितानां
द्राग् एव गोपालक-मन्त्र एषः ॥ क्र्द्_१।४ ॥

गोविन्द-भट्टाचार्यः

सिद्धादि-गणनानिरपेक्ष एवैष प्रथोपस्थितो वक्ष्यमाण-दशाक्षर-गोपाल-मन्त्रो न तु गोपाल-विषयको मन्त्र-गणो ऽतिप्रसङ्गात् ।

स्वाहा-प्रणव-संयुक्तं मन्त्रं शूद्रे ददद् द्विजः ।
शूद्रो निरय-गामी स्याद् द्विजः शूद्रो ऽभिजायते ॥

इत्य् आगम-विरोधात् । लक्षणापत्तेश् च । वाञ्छितानां स्वाभिमतानां फलानां द्राग् एव झटित्य् एव दाता केषु सर्वेषु वर्णेषु ब्राह्मणादिषु सर्वाश्रमेषु ब्रह्मचारि-प्रभृतिषु नारीषु नानाह्वय-जन्मभेषु नाना-प्रकार-नामसु तह्ता नाना-प्रकार-जन्म-नक्षत्रेषु स्तस्व् अपीत्य् अर्थः ॥ क्र्द्च्_१।४ ॥


एवं सत्य् अपि गुरु-चरण-शुश्रूषा-परोपस्थिताय मन्त्रो देय इति व्यनक्ति-

नूनम् अच्युत-कटाक्ष-पातेन
कारणं भवति भक्तिर् अञ्जसा ।
तच्-चतुष्टय-फलाप्तये ततो
भक्तिमान् अधिकृतो हरौ गुरौ ॥ क्र्द्_१।५ ॥

गोविन्द-भट्टाचार्यः

यस्मान् नूनं निश्चितम् अच्युत-कटाक्ष-पातेन श्री-कृष्ण-कृपावलोकने भक्तिर् अञ्जसा तत्त्वतः कारणं ततस् तस्मात् कारणात् तच् चतुष्टय-फलाप्तये प्रसिद्ध-धर्मादि-पुरुषार्थ-चतुष्टय-रूप-फल-प्राप्त्य्-अर्थं हरौ विष्णौ गुरौ मन्त्र-दातरि च भक्ति-युक्त-पुरुषो दीक्षादाव् अधिकृतो ऽधिकारी भवतीत्य् अर्थः । एतेन गुरु-देवतयोर् अभेदेन ध्यानं कर्तव्यम् इति सूचितम् ॥ क्र्द्च्_१।५ ॥


अधुना पूजा-क्रमम् आह-

स्नातो निर्मल-शुद्ध-सूक्स्म-वसनो धौताङ्घ्रि-पाण्याननः
स्वाचान्तः सपवित्र-मुद्रित-करः श्वेतोर्ध्व-पुण्ड्रोज्ज्वलः ।
प्राची-दिग्-वदनो निबद्ध्य-सुदृढं पद्मासनं स्वस्तिकं
वासीनः स्व-गुरून् गणाधिपम् अथो वन्देत बद्धाञ्जलिः ॥ क्र्द्_१।६ ॥

गोविन्द-भट्टाचार्यः

स्नातः स्व-गृह्योक्त-विधिना आगमोक्त-विधिनापीति केचित् । निर्मले विशदे प्रक्षालिते सूक्ष्मे वस्त्रे यस्य स तथोक्तः । धौतेति प्रक्षालित-पाणि-पाद-वदनः । स्वाचान्तः स्मृत्य्-उक्त-विधिना कृताचमनः । स-पवित्रेति पवित्र-सहितः मुद्रा-युक्त-हस्तः सुपवित्रेति-पाठे अतिशोभन-पवित्रेण मुद्रितः मुद्रा-सम्बद्धो तिलकेनोज्ज्वलः । प्राची-दिग्-वदनः पूर्वाभिमुखः ।

अत्र प्राग्-वदनस्य कण्ठोक्तत्वात् प्राग्-वदनं मुख्यं तद्-असम्भवे तूदङ्मुखत्वं रात्रौ तु सर्व-पूजास्वेदोदङ्मुखत्वं पुराणे च तथैवाभिधानात् । अनन्तरं सुदृढं यथा स्यात् तथा पद्मासनं स्वस्तिकं वा कृत्वा । तत्र पद्मासनं प्रसिद्धम्, स्वस्तिकं लक्षणं तु -

जानूर्वोर् अन्तरे सम्यक् कृत्वा पाद-तले उभे ।
ऋजु-काय-समासीनं स्वस्तिकं तत् प्रचक्षते ॥

आसीन उपविष्टः स्व-गुरून् गणेशं च वन्देत । अथो शब्दश् चार्थे ऽनुक्त-समुच्चयेन तेनाग्रे दुर्गां पृष्ठे क्षेत्र-पालं वन्देत तद् उक्तं गौतमीये वामे गुरुं दक्षिणतो गणेशं दुर्गां पुरः क्षेत्रपतिं च पश्चात् । इति ।

प्रयोगश् च गुं गुर्भ्यो नमः, गं गणपतये नमः, दुं दुर्गायै नमः, क्षें क्षेत्रपालाय नमः । बद्धाञ्जलिः कृताञ्जलि-पुटः सन्न् इत्य् अर्थः । अत्र शारदा-तिलकोक्त-क्रमेणैतद् बोद्धव्यं दक्षिणे पूजा-द्रव्य-स्थापनं वामे जल-कुम्भ-स्थापनं पृष्ठे कर-प्रक्षालन-पात्र-स्थापनं पुरतो दीप-चामराद्य्-उपकरण-स्थापनम् इति ॥ क्र्द्च्_१।६ ॥


भूत-शुद्धेः पूर्वं कृत्यम् आह-

ततो ऽस्त्र-मन्त्रेण विशोध्य पाणी
त्रिताल-दिग्-बन्ध-हुताश-शालान् ।
विधाय भूतात्मकम् एतद्-अङ्गं
विशोधयेच् छुद्ध-मतिः क्रमेण ॥ क्र्द्_१।७ ॥

गोविन्द-भट्टाचार्यः

ततस् तद्-अनन्तरं भूतात्मकं पृथिव्यादि-पञ्च-महाभूतमयम् एतद् अङ्गं शरीरं शुद्ध-मतिः विशद-मतिः विशोधयेद् देवतात्मकं कुर्याद् इत्य् अर्थः । नादेवो देवम् अर्चयेद् इति वचनात् । क्रमेण वक्ष्यमाण-प्रकारेण । किं कृत्वा ? अस्त्र-मन्त्रेणैव अस्त्राय फड् इत्य् अनेन तन्-मन्त्राङ्गास्त्र-मन्त्रेणैव वा, गन्ध-पुष्पाभ्यां हस्तौ संशोध्य कर-न्यासं कृत्वास्त्र-मन्त्रेणैवोर्ध्वोर्ध्वं ताल-त्रयं कुर्यात् । तद् उक्तं शारदायाम्-कर-न्यासं समासाद्य कुर्यात् ताल-त्रयं ततः इति ।

अनन्तरम् अस्त्र-मन्त्रेणैव छोटिकया दश-दिग्-बन्धनं अस्त्र-मन्त्रेणैव वह्नि-प्राकारं जलेनात्मनः परिवेष्टन-रूपं विधाय कृत्वा । अत्र सम्प्रदायः हृत्-पद्म-कर्णिका-स्थं दीप-शिखा-निभं जीवात्मानं हम्स इति मन्त्रेण सुषुम्णा-वर्त्मना मस्तकोपरि सहस्र-दल-कमलावस्थित-परमात्मनि संयोज्य पृथव्य्-आदि-पञ्च-विंशति-तत्त्वानि तत्र विलीनानि विभाव्य भूत-शुद्धिं कुर्यात् ॥ क्र्द्च्_१।७ ॥


भूत-शुद्धिम् आह-

इडा-वक्त्रे धूम्रं सतत-गति-बीजं सलवकं
स्मरेत् पूर्वं मन्त्रो सकल-भुवनोच्छोषण-करम् ।
स्वकं देहं तेन प्रतत-वपुषापूर्य-सकलं
विशोष्य व्यामुञ्चेत् पवनम् अथ मार्गण-खमणेः ॥ क्र्द्_१।८ ॥

गोविन्द-भट्टाचार्यः

इडा-वक्त्रे वाम-नासा-पुटे सलवकं बिन्दु-सहितं सतत-गति-बीजं वायु-बीजं यम् इति रूपं पूर्वं प्रथमं मन्त्री साधकः स्मरेत् । किम् भूतम् ? धूम्रं कृष्ण-वर्णं । पुनः किम्भूतम् ? सकलेति । पञ्च-भूत-मय-देह-शोषकं तथा च वाम-नासा-पुटेन वायुम् आकर्षन् षोडश्-वारं वायु-बीजं जपेद् इति भावः । अनन्तरं सकलं सर्वं स्वकीयं शरीरं तेन बीज-मयेन वायुना प्रतत-वपुषा विस्तीर्ण-शरीरेणापूर्य पूरयित्वा देह-स्थ-वायोर् बाह्येनैक्यं विचिन्त्य विशोषं नीत्वा चतुः-षष्ठि-वारं वायु-बीजं कुम्भकेन जप्त्वा खमणेः सूर्यस्य मार्गेण पिङ्गलया दक्षिण-नासा-पुटेन रेचनेनैव वायु-बीजं द्वात्रिंशद्-वारं जपन् वायुं व्यामुञ्चेत् त्यजेद् इत्य् अर्थः ॥ क्र्द्च्_१।८


तेनैव मार्गेण विलीन-मारुतं
बीजं विचिन्त्यारुणम् आशुशुक्षणे ।
आपूर्य देहं परिदह्य वामतो
मुञ्चेत् समीरं सह भस्मना बहिः ॥ क्र्द्_१।९ ॥

गोविन्द-भट्टाचार्यः

तेनैव ख-मणेः सूर्यस्य मार्गेण दक्षिण-नासा-पुटेन विलीनः सम्बद्धो मारुतो वायुर् यत्र तद् आशुशुक्षणेर् वह्नेर् बीजं रम् इति अरुणम् अरुण-वर्णं विचिन्त्य वायुनापूर्य तद्-बीजस्य षोडश-वार-जपेन पूरकं कृत्वानन्तरं कुम्भकेन चतुर्गुणं रं-बीजं जपन् देहं परिदह्य तद्-ऊर्ध्वं रम् इति द्वात्रिंशद्-वारं जपन् वामत इडा-मार्गेण वाम-नासा-पुटेन भस्मना सह बहिः समीरं वायुं मुञ्चेद् इत्य् अर्थः ॥ क्र्द्च्_१।९ ॥


उत्पत्तिं दर्शयति-

ट-परम् अतीव शुद्धम् अमृतांशु-पथेन विधुं
नयतु ललाट-चन्द्रम् अमुतः सकलार्ण-मयीम् ।
ल-पर-जपान् निपात्य रचयेच् च तया सकलं
वपुर् अमृतौघ-वृष्टिम् अथ वक्त्र-कराङ्गम् इदम् ॥ क्र्द्_१।१० ॥

गोविन्द-भट्टाचार्यः

टस्य परष् ट-परः ठ-कारस् तम् अतीव शुद्धं श्वेतं विधुं चन्द्र-बीज-रूपम् अमृतांशु-पथेन वाम-नासा-पुटेन षोडश-वार-जपेन ललाट-चन्द्रं ब्रह्म-रन्ध्र-स्थ-चन्द्रं नयतु प्रापयतु । ननु, सर्व-शरीरस्य दग्धत्वात् कथम् अमृतांशु-पथेन चन्द्र-बीज-नयनम् इति चेन्, न । पूर्वोक्तस्य भावनात्मकत्वात् । अथानन्तरम् अमुतः अमृतांशोर् ललाट-चन्द्राद् ब्रह्म-रन्ध्र-स्थ-शशङ्कात् सकलार्ण-मयीम् मातृका-मयीम् अमृत-समूह-वृष्टिं ल-परो व-कारः वरुण-बीजम् इति यावत् तज्-जपेन कुम्भकेन चतुः-षष्ठि-वार-जपेन निपात्य उत्पाद्य तथा मातृका-मय्या वृष्ट्या इदं सकलं शरीरं रचयेद् आरचयेत् । कीदृशम् ? वपुर् वक्त्र-कराङ्गं वक्त्रं च करश् च अङ्गम् अवयव-रूपं
यत्र तत् तथा वक्त्र-कराढ्यम् इति पाठे वक्त्राढ्यं कराढ्यं चेत्य् अर्थः । अनन्तरं दक्षिण-नासा-पुटेन वायुं रेचयेत् लम् इति पृथ्वी-बीजं पीत-वर्णं द्वात्रिंशद्-वारं जपन् तत् शरीरं सुदृष्टं चिन्तयेत् । तद्-अनु सो ऽहम् इत्य् आत्म-मन्त्रेण ब्रह्म-रन्ध्राज् जीवं हृदयाम्भोजम् आनयेद् इति सम्प्रदायः ॥ क्र्द्च्_१।१० ॥


अधुना मातृका-न्यासं दर्शयति-

शिरो-वदन-वृत्त-दृक्-श्रवण-घोण-गण्डोष्ठक-
द्वयेषु स-शिरोमुखेषु च इति क्रमाद् विन्यसेत् ।
हलश् च कर-पाद-सन्धिषु तद्-अग्रकेष्व् आदरात्
स-पार्श्व-युग-पृष्ठ-नाभ्य्-उदरकेषु याद्यान् अथ ॥ क्र्द्_१।११ ॥

गोविन्द-भट्टाचार्यः

हृदय-कक्ष-ककुत्-कर-मूल-दोः-
पद-युगोदर-वक्त्रागतान् बुधः ।
हृदय-पूर्वम् अनेन पथान्वहं
न्यसतु शुद्ध-कलेवर-सिद्धये ॥ क्र्द्_१।१२ ॥

अत्र शिरः-शब्दो ललाटस्योपलक्षकः ललाट-मुखम् आवृतेति शारदादर्शनात् एकत्राक्षर-द्वयस्यापि न्यासापाताच् च । वदन-वृत्तं मुख-मण्डलं दृक्-श्रवण-घोण-गण्डोष्ठ-दन्तानां द्वयम् इति समासः । द्वयम् इति दृग्-आदाव् अपि सर्वत्र सम्बध्यते । घोणा नासिका, दद्-द्वये दन्त-पङ्क्ति-द्वये इत्य् उक्तेषु स्थानेषु अचः षोडश-स्वरान् क्रमेणैकाक्षर-क्रमेण विन्यसेत् तथा हलश् च कादीनि व्यञ्जनानि च तत्र कादीनि विंशत्य्-अक्षराणि आदरात् आदर-पूर्वकं कर-पाद-सन्धिषु तद्-अग्रकेषु च विन्यसेत् । अनन्तरं य-कारादीनि पञ्चाक्षराणि स-पार्श्व-युग-पृष्ठ-नाभ्य्-उदरकेषु पार्श्व-युगेन सह वर्तते यत् पृष्ठ-नाभ्य्-उदरं तत्र विन्यसेत् । तथानन्तरम् अनेन वक्ष्यमाण-मार्गेण याद्यान्
वर्णान् हृदयादि-स्थान-गतान् अत्रापि कर-पद्-युगयोर् उदर-वक्त्रयोश् च हृदय-पूर्वं यथा स्यात् तथा अन्वहं प्रतिदिनं न्यसतु । कर-पद्-युगादीनां पूर्वैः पदैः समस्तानाम् अपि हृदय-पूर्वम् इति क्रिया-विशेषणेन सह सम्बन्धः सापेक्षत्वाद् अत्रासमास इति तु तुल्य-प्रधान-सापेक्ष-विषयं द्रष्टव्यम् । किम्-अर्थं शुद्ध-कलेवर-सिद्धये शुद्ध-शरीर-सम्पादनार्थम् इत्य् अर्थः ॥ क्र्द्च्_१।११-१२ ॥


इत्य् आरचय्य वपुर् अर्ण-शतार्धकेन
सार्ध-क्षपेश-स-विसर्गक-सोभयैस् तैः ।
विन्यस्य केशव-पुरःसर-मूर्त-युक्तैः
कीर्त्यादि-शक्ति-सहितैर् न्यसतु क्रमेण ॥ क्र्द्_१।१३ ॥

गोविन्द-भट्टाचार्यः

अथ कथयाम्य् अर्णानां मूर्तीः
शक्तीः समस्त-भुवन-मयीः ।
केशव-कीर्ती नारायण-कान्ती
माधवस् तथा तुष्टिः ॥ क्र्द्_१।१४ ॥

इत्य् उक्त-प्रकारेण वपुः शरीरम् अर्ण-शतार्धेन पञ्चाशद्-वर्णैः आरचय्य रचयित्वा अनन्तरं तैर् एव पञ्चाशद्-वर्णैः सार्ध-क्षपेश-स-विसर्गक-सोभयैः । अर्ध-क्षपेशेन सह वर्तन्त इति सार्ध-क्षपेशाः अर्ध-चन्द्र-सहिताः तैः सानुस्वारैर् इत्य् अर्थः । स-विसर्गकैः विसर्ग-सहितैः सोभयैर् अनुस्वार-विसर्ग-सहितैः विन्यस्य तथादौ शरीर-सम्पादनार्थं शुद्धेर् मातृकाक्षरैर् विन्यस्य तद्-अनन्तरं तेष्व् एव ललाटादिषु मातृका-स्थानेषु अं नम इत्य् आदीन् क्षं नम इत्य् अन्तान्, तथा अः नम इत्य् आदीन् क्षः नम इत्य् अन्तान् वर्णान् विन्यसेद् इत्य् अर्थः । एवं चतुर्विधो मातृका-न्यास उक्तः ।

ननु, कथम् अर्ण-शतार्धकेनेत्य् उक्त-वर्णानाम् एक-पञ्चाशत्त्वाद् इत्य् उच्यते क्ष-कारेणाक्षर-द्वयस्यैकी-करणात् । ल-त्वेन ल-कार-द्वयस्यैकीकरणाद् वा । लोक-प्रसिद्धेर् वा प्रकरणेनैक-पञ्चाशत्-सङ्ख्यायास् तात्पर्ये ऽधिगते पञ्चाशद्-वर्ण एव क-पञ्चाशत्-सङ्ख्या-पर इति प्रपञ्च-सार-विवरणे श्री-प्रेमानन्द-भट्टाचार्य-शिरोमणयः । वस्तुतस् तु अर्ण-शतार्धं च क चार्ण-शतार्धकं तेनाक्षराणाम् एक-पञ्चाशत्त्व्म् आयातम् । असम-विभागे वा अर्ध-शब्दः । केशव-न्यासम् आह-विन्यस्य केशवेति । केशवः पुरःसरः प्रथमो यासां मूर्तीनां ताः तथा च केशवादि-मूर्ति-सहितैः कीर्त्यादि-शक्ति-युक्तैश् च मातृकाक्षरैर् ललाटादिषूक्त-स्थानेषु यथा-क्रमं न्यासः कार्यः ॥ क्र्द्च्_१।१३-१४ ॥


गोविन्दः पुष्टि-युतो विष्णु-धृती सूदनश् च मध्वाद्यः ।
शान्तिस् त्रिविक्रमश् च क्रिया-युतो वामनो दया-युक्तः ॥ क्र्द्_१।१५ ॥

गोविन्द-भट्टाचार्यः

सूदनश् च मध्वाद्यः मधुसूदनः इत्य् अर्थः ॥ क्र्द्_१।१५ ॥


श्रीधर-युता च मेधा हृषीक-नाथश् च हर्षया युक्तं ।
अम्बुज-नाभ-श्रद्धे दामोदर-संयुता तथा लज्जा ॥ क्र्द्_१।१६ ॥

हृषीक-नाथो हृषीकेश इत्य् अर्थः । अम्बुजनाभः पद्मनाभः ॥ क्र्द्च्_१।१६ ॥


लक्ष्मीः स-वासुदेवा सङ्कर्षणकः सरस्वती-युक्तः ।
प्राद्यो द्युम्नः प्रीति-समेतो ऽनिरुद्धको रतिर् इमाः स्वरोपेताः ॥ क्र्द्_१।१७ ॥

गोविन्द-भट्टाचार्यः

प्राद्यो द्युम्नः प्रद्युम्नः ॥ क्र्द्च्_१।१७ ॥


चक्रिजये गदिदुर्गे शार्ङ्गी प्रभयान्वितस् तथा खड्गी ।
सत्या शङ्खी-चण्डा हलिवाण्यौ मुसलियुग्-बलासिन्किआ ॥ क्र्द्_१।१८ ॥

गोविन्द-भट्टाचार्यः

शूली विज्या पाशी विरजा विशान्वितो ऽम्बुशीर् भूयः ।
विमदा मुक्न्द-युक्ता नन्दज-सुनन्दजे स्मृतिश् च नन्दि-युता ॥ क्र्द्_१।१९ ॥
नर-ऋद्धी नरक-जितासमृद्धिर् अथ शुद्धि-युग् घरिः कृष्णः ।
बुद्धि-युतः सत्य-युत-भक्तिर् मति-युक्तः स्यात् ततः शौरिः ॥ क्र्द्_१।२० ॥
क्षमया शूरो रमया जनार्दनो मेच-भू-धरः क्लेदी ।
विश्वाद्य-मूर्ति-युक्ता क्लिन्ना वैकुण्ठ-युक् तथा वसुदा ॥ क्र्द्_१।२१ ॥

क्लेदी क्लेदिनीत्य् अर्थः । छन्दो-भङ्ग-भयात् तथोक्तः । विश्वादि-मूर्तिर् इति विश्व-मूर्तिर् इत्य् अर्थः ॥ क्र्द्च्_१।१८-२१ ॥


पुरुषोत्तमश् च वसुधा बलिना च वरा बलानुजोपेता ।
भूयः परायणाख्या बालः सूक्ष्मा वृषघ्न-सन्ध्ये च ॥ क्र्द्_१।२२ ॥

गोविन्द-भट्टाचार्यः

सवृषा प्रज्ञा प्रभा वराहो निशा च विमलो ऽमोघा ।
नरसिंह-विद्युते च प्रणिगदिता मूर्तयो हलां शक्ति-युताः ॥ क्र्द्_१।२३ ॥

अमोघेति च्छेदः ॥ क्र्द्च्_१।२२-२३ ॥


पूर्वोक्त-केशवादि-मूर्ति-कीर्त्यादि-शक्ति-न्यास-प्रकारं दर्शयति-

वर्णनुक्त्वा सार्ध-चन्द्रान् पुरस्तान्
मूर्तीः शक्तीर् ङे ऽवसाना नतिं च ।
उक्त्वा न्यस्येत् यादिभि सप्त-धातून्
प्राणं जीवं क्रोधम् अप्य् आत्मने ऽन्तान् ॥ क्र्द्_१।२४ ॥

गोविन्द-भट्टाचार्यः

पुरस्तात् प्रथमं वर्णान् अ-कारादि-क्षकारआन्तान् उक्त्वा कथम्भूतान् वर्णान् सार्ध-चन्द्रान् स-बिन्दून् अनन्तरं मूर्तीः केशवाद्याः शक्तीः कीर्त्याद्याः ङे ऽवसानाः इत्य् उभयेन सम्बध्यते तन् न हृदय-ग्राहि प्रयासत्तेः लाघवाच् च अं केशवाय कीर्त्यै नम इति प्रयोगे केशवायेत्य् अत्र नमः-पदस्य योगाभावाच् चतुर्थ्य्-अनुपपत्तिः न हि विष्णवे सूर्याय नम इति भवति । भवति च विष्णवे नमः सूर्याय नम इति (तथा च केशवाय नमः कीर्त्यै नम इति) प्रयोगापत्तिः उभयत्र वा च-कारो देयः समुच्चय-ख्यापनार्थः । स श्रिये चामृताय चेतिवत् तथा मातृकाक्षराणाम् अपि उभय-सम्बन्धार्थं द्विः-प्रयोगापत्तिः । अं केशव-कीर्तिभ्यां नम इति प्रयोगे तु नैते दोषाः पतन्ति तत्र द्वन्द्व-समास-वशात्
सहितावस्थितयोर् एवोपस्थितौ चतुर्थ्य्-अर्थान्वय-सम्भवात् वर्नान्वय-सम्भवाच् च अग्नीषोमयोर् इव सहितावस्थितयोर् देवतात्वम् । कथं तर्हि यादिषु त्वग्-आदि-प्रयोगः कार्यम् ? इत्य् उच्यते यं त्वग्-आत्मने पुरुषोत्तम-वसुधाभ्याम् नमः, रं असृग्-आत्मने बलि-पराभ्यां नम इत्य् एवं रूप इति । मन्त्रम् उक्तावलि-कारेण तथैवाभिधानात् । आत्मने इत्य् अस्य सुब्-अन्त-प्रतिरूपक-निपातत्वेनादोषाद् इति तु प्रपञ्च-सार-विवरणे परमानन्द-भट्टाचार्याभ्याः । तथा च अं केशव-कीर्तिभ्यां नम इति प्रयोगः मन्त्रम् उक्तावली-कार-लघु-दीपिका-कार-त्रिपाठि-रुद्रोपाध्याय-विद्याधराचार्य-परमानन्द-भट्टाचार्य-सम्मतः । अं केशवाय कीर्त्यै नम इति प्रयोगः पद्मपादाचार्य-प्रभृतीनां सम्मत इति । ज्ञात्वा यथा-गुरु-सम्प्रदायं
व्यवहर्तव्यम् इति । अत्रैव न्यास-विशेषम् आह-यादिभिर् इति य-काराद्यैर् दशभिर् अक्षरैः सह सप्त धातून् त्वग्-असृङ्-मांस-मेदो ऽस्थि-मज्ज-शुक्राख्यान् आत्मने ऽन्तान् आत्मने इति शब्दः अन्ते येषां ते तथा प्राणं जीवं क्रोधं च आत्मने ऽन्तं हृदयादिषु यथा-स्थानेषु विन्यस्येद् इत्य् अर्थः । प्राणं शक्तिम् इत्य् अपि पाठान्तरम् ॥ क्र्द्च्_१।२४ ॥


केशवादि-न्यासे ध्यानम् आह-उद्यद् इति ।

उद्यत्-प्रद्योतन-शत-रुचिं तप्त-हेमावदातं
पार्श्व-द्वन्द्वे जलधि-सुतया विश्व-धात्र्या च जुष्टम् ।
नाना-रत्नोल्लसित-विविधाकल्पम् आपीत-वस्त्रं
विष्णुं वन्दे दर-कमल-कौमोदकी-चक्र-पाणिम् ॥ क्र्द्_१।२५ ॥

गोविन्द-भट्टाचार्यः

अहं विष्णुं वन्दे । कीदृशं ? उद्यन्न् उदयं गच्छन् प्रद्योतनः सूर्यस् तस्य यच्-छतं तस्येव रुचि-दीप्तिर् यस्य तं पुनः तप्तेति वह्नि-मध्य-निक्षिप्त-काञ्चनवद् गौरं । पुनः कीदृशं पार्श्व-द्वन्द्वे इति दक्षिण-वाम-पार्श्व-द्वये जलधि-सुतया लक्ष्म्या तथा विश्व-धात्र्या पृथिव्या जुष्टं सेवितम् । पुनः किम्भूतं ? नाना-विध-रत्नेन शोभितो नाना बहु-प्रकार आकल्पो भूषणं यस्य । पुनः कीदृशं ? आपीतेति आसम्यक् प्रकारेण पीते वस्त्रे यस्य तं । पुनः कीदृशं ? दरः शङ्खः पद्मं कमलं कौमोदकी गदा चक्रम् एतानि पाणौ यस्य तम् । अत्र ऊर्ध्वाधः क्रमेण वाम-भागे शङ्ख-पद्मे दक्षिण-भागे गदा-चक्रे इति बोध्यम् ॥ क्र्द्च्_१।२५ ॥


ध्यान-न्यासयोः फलम् आह-ध्यात्वैवम् इति ।

ध्यात्वैवं परम-पुमांसम् अक्षरैर् यो
विन्यस्योद्दिनम् अनु केशवादि-युक्तैः ।
मेधायुः-स्मृति-धृति-कीरित्-कान्ति-लक्ष्मी
सौभाग्यैश् चिरम् उपबृंहितो भवेत् सः ॥ क्र्द्_१।२६ ॥

गोविन्द-भट्टाचार्यः

एवम् उक्त-प्रकारं परम-पुमांसं विष्णुं ध्यात्वा यो ऽनुदिनं प्रत्यहं केशवादि-सहितैर् मातृकाकाऐर् विन्यस्येत् स पुरुषः । मेधादिभिश् चिरं बहु-कालम् उपबृंहित उपचितो भवति मेधा धारणावती बुद्धिः आयुर् जीवनं स्मृतिः स्मरणं धृतिर् धैर्यं कीर्तिर् उत्कृष्ट-कर्म-कथा कान्तिः सौन्दर्यं लक्ष्मीर् ऐश्वर्यं सौभाग्यं सर्व-प्रियत्वम् ॥ क्र्द्च्_१।२६ ॥


न्यास-विशेषम् आह-अमुम् इति ।

अमुम् एव रमा-पुरः-सरं
प्रभजेद् यो मनुजो विधिं बुधः ।
समुपेत्य रमां प्रथीयसीं
पुनर् अन्ते हरितां व्रजत्य् असौ ॥ क्र्द्_१।२७ ॥

गोविन्द-भट्टाचार्यः

यः पण्डितो मनुष्यः अमुम् एव विधिं केशवादि-न्यास-प्रकारं रमा-पुरःसरं श्री-बीजम् आदौ दत्त्वा प्रभजेत् करोति असौ पुमान् इह लोके प्रथीयसीं महतीं रमां लक्ष्मीं समुपेत्य प्राप्य पुनर् अन्ते अवसाने हरितां विष्णुत्वं व्रजति प्राप्नोतीत्य् अर्थः ॥ क्र्द्च्_१।२७ ॥


तत्त्व-न्यासं दर्शयति-इत्य् अच्युतीत्य् आदि ।

इत्य् अच्युती-कृत-तनुर् विदधीत तत्त्व-
न्यासं म-पूर्वक-पराक्षर-नत्य्-उपेतम् ।
भूयः पराय च तद्-आह्वयम् आत्मने च
नत्य्-अन्तम् उद्धरतु तत्त्व-मनून् क्रमेण ॥ क्र्द्_१।२८ ॥

गोविन्द-भट्टाचार्यः

इति पूर्वोक्त-प्रकारेण
अच्युती-कृत-तनुः सम्पादित-विष्णु-शरीरः
तत्त्व-न्यासं वक्ष्यमाण-प्रकारं विदधीत कुर्यात् ।
प्रकारं दर्शयति-मः पूर्वो यस्य स म-पूर्वः ।
कः परो यस्य स क-परः ।
नत्य्-उपेतं नमः-शब्द-सहितम् ।
तथा च म-कारादि-व्युत्क्रमेण क-कार-पर्यन्तम्
एकैकाक्षरं नमः-पद-सहितं कृत्वा
भूयो ऽनन्तरं परायेति-पदं दत्त्वा
अनन्तरं तद्-आह्वयं तेषां तत्त्वानाम् आद्वयं वक्ष्यमाणं नाम दत्त्वा
अनन्तरं आत्मने इति पदं दत्त्वा
अनन्तरं नत्य्-अन्तम् नमः-पदम् अन्ते दत्त्वा
क्रमेण तत्त्व-मनून् तत्त्व-मन्त्रान् उद्धरतु ॥ क्र्द्च्_१।२८ ॥


अधुना तत्त्वानां नामानि न्यासं स्थानं च दर्शयति-

सकल-वपुषि बीजं प्राणम् आयोज्य मध्ये
न्यसतु मतिम् अहङ्कारं मनश् चेति मन्त्री ।
कमुख-हृदय-गुह्याङ्घ्रिष्व् अथो शब्द-पूर्वं
गुण-गणम् अथ कर्तादि-स्थितं श्रोत्र-पूर्वम् ॥ क्र्द्_१।२९ ॥

गोविन्द-भट्टाचार्यः

सकल-वपुषि सर्वाङ्ग-व्यापके
जीवं प्राणं च
मन्त्रे आयोज्य तेन न्यस्यतु
तथा च

मं नमः पराय जीवात्मने नमः
भं नमः पराय प्राणात्मने नमः

इति द्वयं सर्व-शरीरे विन्यस्येद् इत्य् अर्थः ।
इति तत्त्व-पदं दत्त्वा “मं नमः पराय जीव-तत्त्वात्मने नमः” इति केचित् तत्-प्रयोगान् कुर्वन्ति। तन् न - प्रमाणाभावात्, मूर्ति-पञ्जर-न्यासे ऽपि मूर्ति-पद-प्रयोगापत्तेः । अत्र मकरादीनां बिन्दु-साहित्यं सम्प्रदायावगतं बोद्धव्यम् । मध्ये हृदये मतिम् अहङ्कारं मनश् च मन्त्र आयोज्य तेन मन्त्री न्यस्यतु तथा

बं नमः पराय मनआत्मने नमः
फं नमः पराय अहङ्कारात्मने नमः
पं नमः पराय मनआत्मने नमः

इति त्रयं हृदि विन्यस्येद् इत्य् अर्थः ।
अथो ऽनन्तरं कमुख-हृदय-गुह्याङ्घ्रिषु पञ्चसु स्थानेषु शब्द-पूर्वं गुण-समुदायं शब्द-स्पर्श-रूप-रस-गन्धात्मकं मन्त्रे आयोज्य तेन न्यस्यतु तथा च

नं नमः पराय रूपात्मने नमः (इति हृदये),
+++(धकारः??)+++
थं नमः पराय रसात्मने नमः (इति गुह्ये),
तं नमः पराय गन्धात्मने नमः (पादयोर्)

विन्यस्येद् इत्य् अर्थः । अथानन्तरं श्रोत्र-त्वग्-दृक्-जिह्वा-घ्राणात्मकं कर्णादि-स्थितं कर्ण-त्वग्-दृक्-जिह्वा-घ्राणेषु स्थितं यथा स्यात् तथा न्यस्यतु तथा च

णं नमः पराय श्रोत्रात्मने नमः (इति श्रोत्रयोः)
ढं नमः पराय त्वग्-आत्मने नमः (इति त्वचि),
डं नमः पराय दृग्-आत्मने नमः (इति नेत्रयोः) ।
ठं नमः पराय जिह्वात्मने नमः (इति जिह्वायां) ।
टं नमः पराय घ्राणात्मने नमः (इति घ्राणयोर्)

इति विन्यस्येत् ॥ क्र्द्च्_१।२९ ॥


वाग्-आदीति ।

वाग्-आदीन्द्रिय-वर्गम् आत्म-निलयेष्व् आकाश-पूर्वं गणं
मूर्ध्यास्ये हृदये शिरे चरणयोर् हृत्-पुण्डरीकं हृदि ।
बिम्बानि द्विषड्-अष्ट-युग्-दश-कला-व्याप्तानि सूर्योडु-राड्
वह्नीनां च यतस् तु भूत-वसुम् उष्यन्त्य् आक्षरैर् मन्त्रवित् ॥ क्र्द्_१।३० ॥

गोविन्द-भट्टाचार्यः

वाग्-आदीन्द्रिय-वर्गं वाक्-पाणि-पाद-पायूपस्थात्मकं कर्मेन्द्रिय-पञ्चकं मन्त्रे आयोज्य आत्म-निलयेषु मुख-पाणि-पाद-पायूपस्थेषु न्यस्यतु । तथा च

ञं +++(अं)+++ नमः पराय वाग्-आत्मने नमः (इति मुखे) ।
झं नमः पराय पाण्य्-आत्मने नमः (इति पाण्योः) ।
जं नमः पराय पादात्मने नमः (इति पादयोः) ।
छं नमः पराय पाय्व्-आत्मने नमः (इति पायौ) ।
चं नमः पराय उपस्थात्मने नमः (इत्य् उपस्थे)

विन्यस्येद् इत्य् अर्थः ।
आकाश-पूर्वं गणम् आकाश-वाय्व्-अग्नि-जल-पृथिव्य्-आत्मकं
मन्त्रे आयोज्य
मूर्धन्य् आस्ये हृदये शिवे लिङ्गे चरणयोर् न्यस्यतु । तथा च

ङं नमः पराय आकाशात्मने नमः (इति शिरसि) ।
घं नमः पराय वाय्व्-आत्मने नमः (इति मुखे) ।
गं नमः परायाग्न्य्-आत्मने नमः (इति हृदये)।
खं नमः पराय जलात्मने नमः (इति लिङ्गे) ।
कं नमः पराय पृथिव्य्-आत्मने नमः (इति पादयोर्)

न्यस्येद् इत्य् अर्थः । हृत्-पुण्डरीकम् इत्य्-आदेर् अयम् अर्थः । हृत्-पुण्डरीकं तथा सूर्योड्डराद्-वह्नीनां बिम्बानि सूर्य-चन्द्राग्नीनां मण्डलानि त्रीणि द्विषड्-अष्ट-युग्-दश-कला-व्याप्तानि द्वादश-षोडश-दश-कला-युक्तानि यतस् तु भूत-वसु-मुन्य्-अक्ष्य्-अक्षरैः यतो य-काराद् यो भूत-वर्णः पञ्चम-वर्णः श-कारः वसु-वर्णो ऽष्तमार्णो ह-कारः मुनि-वर्णः सप्तमः स-कारः अक्षि-वर्णो द्वित्य-वर्णो रेफः । एतैश् च सहितानि मन्त्रे आयोज्य हृदि न्यस्यतु । तथा च-

शं नमः पराय हृत् पुण्डरीकात्मने नमः ।
हं नमः पराय द्वादश-कला-व्याप्त-सूर्य-मण्डलात्मने नमः।
सं नमः पराय षोडश-कला-व्याप्त-चन्द्र-मण्डलात्मने नमः ।
रं नमः पराय दश-कला-व्याप्त-वह्नि-मण्डलात्मने नमः

इति चतुष्टयं हृदये न्यस्यतु ॥ क्र्द्च्_१।३० ॥


अथ परमेष्ठि-पुमांसौ
विश्व-निवृत्ती च सर्व इत्य् उपनिषदः।
न्यस्येद् आकाशादि-
स्थाने ष+उपर+++(=य,र)+++-वलार्णैः सलवकैः ॥ क्र्द्_१।३१ ॥

मूलम्

अथ परमेष्ठि-पुमांसौ विश्व-निवृत्ती च सर्व-इत्य् उपनिषदः।
न्यसेद् आकाशादि-स्थानेषु यरलवळार्णैः सलवकैः ॥

इत्य् अत्र

न्यसेद् आकाशादि-स्थान-स्थान-षोप-र-वलार्थिः सलावः ॥

इति क्वचिन् नारदपाञ्चरात्रग्रन्थेषु।

विश्वास-टिप्पनी

तत्र छन्दो-विचारो ऽत्र । द्वितीयार्धे -

GGGGGG
GGGLLLG५
गोविन्द-भट्टाचार्यः

अथानन्तरं
परमेष्ठि-पुमांसौ विश्व-निवृत्ती सर्व इत्य् उपनिषदो रहस्यान्
षोपर-वलार्णैर् इति -कारः रेफस्य उप समीपं
तेन रेफ-समीप-वर्तिनौ य-कार-ल-कारौ लक्ष्येते
व-कारो ल-कारश् च
एतैः सलवकैर् बिन्दु-सहितैः सहितान्
आकाशादि-स्थाने न्यस्येद् आकाशादि न्यास-स्थानेषु मूर्ध्न्यास्ये हृदये लिङ्गे चरणयोर् न्यस्येत् ॥ क्र्द्च्_१।३१ ॥


अत्रैव विशेषम् आह-वासुदेव इति ।

वासुदेवः सङ्कर्षणः
प्रद्युम्नाश् चानिरुद्धकः
नारायणश् च क्रमशः
परमेष्ठ्यादिभिर् युतः ॥ क्र्द्_१।३२ ॥

गोविन्द-भट्टाचार्यः

क्रमशः क्रमेण परमेष्ट्य्-आदिभिः सहिता वासुदेवादयो न्यसनीयाः।
तथा च

षं नमः पराय वासुदेवाय परमेष्ठ्यात्मने नमः इति शिरसि ।
यं नमः पराय सङ्कर्षणाय पुरुषात्मने नमः इति मुखे,
लं नमः पराय प्रद्युम्नाय विश्वात्मने नम इति हृदये ।
वं नमः पराय अनिरुद्धाय निवृत्त्य्-आत्मने नम इति लिङ्गे ।
लं नमः पराय नारायणाय सर्वात्मने नम इति चरणयोः ।

विन्यस्येद् इत्य् अर्थः ।
केचित् तु परमेष्ठ्यादेर् अनन्तरं वासुदेवादेः प्रयोगं कुर्वन्ति ॥ क्र्द्च्_१।३२ ॥


ततः कोप-तत्त्वं क्षरौबिन्दु-युक्तं
नृसिंहं न्यसेत् सर्व-गात्रेषु तज्-ज्ञः ।
क्रमेणेति तत्त्वात्मको न्यास उक्तः
स्वासान् निकृद्-विश्व-मूर्त्य्-आदिषु स्यात् ॥ क्र्द्_१।३३ ॥

गोविन्द-भट्टाचार्यः

ततस् तद्-अनन्तरं क्रमेण गुरूपदेश-क्रमेण तज्-ज्ञः नृसिंह-बीज-ज्ञः क्षरौ क्ष-कार-रेफ-औ-कार इति मिलित-स्वरूपं बिन्दु-युक्तं तथा कोप-तत्त्वं नृसिंहं च मन्त्रे आयोज्य सर्व-गात्रेषु न्यस्येत् । तथा च-क्ष्रौं नमः पराय नृसिंहाय कोपात्मने नमः इति सर्व-गात्रेषु न्यस्येद् इत्य् अर्थः । तत्त्व-न्यासम् उपसंहरति इत्य् उक्त-प्रकारेण तत्त्वात्मको न्यासः कथितो भवति । कीदृशः ? विश्व-मूर्त्य्-आदिषु स्व-सान्निध्य-कृत् कृष्ण-सान्निध्य-कृत् बिम्बादिष्व् इति केचिद् बिम्बं प्रतिमा मूर्तिः शरीरम् आदि-पदेन मणि-मन्त्रादि-सकलस्य परिग्रहः एतेषु हरेः सान्निध्यं करोतीत्य् अर्थः । क्वचिन् मर्त्यादिष्व् इति पाठः ॥ क्र्द्च्_१।३३ ॥


एतन्-न्यास-प्रयोजनम् आह-इति कृत इति ।

इति कृतो ऽधिकृतो भवति ध्रुवं
सकल-वैष्णव-मन्त्र-जपादिषु ।
पवन-संयवलतत्त्व-मनुना चरेत्
तत्त्वम् इह जप्तुम् असौ मनुच्छति ॥ क्र्द्_१।३४ ॥

गोविन्द-भट्टाचार्यः

तत्त्व-न्यासे कृते ध्रुवं निश्चितम् अधिकृतो भवति न केवलं गोपाल-विषय-मन्त्र-कथनाद् अत्रैव अपि तु सकल-वैष्णव-मन्त्र-जपादिष्व् अपीत्य् अर्थः । अधुना प्राणायाम-प्रकारम् आह-पवन-संयमनम् इति । असौ साधकः यं मनुम् इह व्यवहार-भूमौ जप्तुम् इच्छति अमुना मन्त्रेण पवन-संयमनं प्राणायामं चरतु कुर्याद् इत्य् अर्थः ॥ क्र्द्च्_१।३४ ॥


अत्रैव प्रकारान्तरम् आह-अथवेति ।

अथवाखिलेषु हरि-मन्त्र-
जप-विधिषु मूल-मन्त्रतः ।
संयमनम् अमलधीर् मरुतो
विधिनाभ्यसंश् चरतु तत्त्व-सङ्ख्यया ॥ क्र्द्_१।३५ ॥

गोविन्द-भट्टाचार्यः

मूल-मन्त्रतो मूल-मन्त्रेण । वक्ष्यमाण-दशाक्षरेणेति केचित् । वस्तुतस् तु सप्ताक्षर-गोपी-जन-वल्लभ-मन्त्रेण तस्यैव मूल-मन्त्रत्वेनाभिधानात् तद्-वचनस्य प्रयोजनान्तराभावात् तत्त्व-सङ्ख्ययाष्टाविंशति-वारं चतुर्विंशति-वारम् इति केचित् ॥ क्र्द्च्_१।३५ ॥


पुरतो जपस्य परतो ऽपि
विहितम् अथ तत्-त्रयं बुधैः ।
षोडश य इह समाचरेद् दिनेशः
परिपूयते स खलु मासतो ऽं हंसः ॥ क्र्द्_१।३६ ॥

गोविन्द-भट्टाचार्यः

पुरतो जपादौ पश्चाच् च तत्-त्रयं बुधैर् विहितं प्राणायाम-त्रयम्, रेचकादि-त्रयम् इति केचित् । एतेन जपाङ्गत्वाच् च तत्राद्य्-अन्ते ऽयं दर्शितः ॥ क्र्द्च्_१।३६ ॥

सनातनः: जपस्य पुरत आदौ परतः अन्ते च इति प्राणायामेषु कालः । तत् त्रयं प्राणायाम-त्रयम् इति सङ्ख्या । यो जनो दिनशः प्रत्यहं षोडश-प्राणायामान् आचरेत्, स मासतः मासेनैकेन अंहसः पापात् परिपूयते शुद्धो भवतीति सामान्यतः फलम् । परं च सर्वं पुर्वं लिखितम् एव ॥ (हरि-भक्ति-विलास ५।१३२)


अत्रैव प्रकारान्तरम् आह-अथवेति ।

अयवाङ्ग-जन्म-ममुनानुसुसंयमं
सकलेषु कृष्णमनुजापकर्मसु ।
सहिऐक-सप्त-कृति-वारम् अभ्यसेत्
तनुयात् समस्त-दुरिताप-हारिणा ॥ क्र्द्_१।३७ ॥

गोविन्द-भट्टाचार्यः

कृतीति कृति-च्छन्दसो विंशत्य्-अक्षरत्वात् सहितम् एकं यत्र तादृश-सप्त-कृति-वारम् । अथवा सहितानि मिलितानि एक सप्त-कृतयः उभयत्राष्टाविंशति-वारम् इत्य् अर्थः । सर्वेषु कृष्ण-मनुजापकर्मसु अङ्ग-जन्म-मनुना काम-बीजेन प्राणायामम् अभ्यसंस् तनुयात् । प्रथमम् एकं ततः सप्त ततो विंशति ततो ऽभ्यास-पाटवे ऽष्टाविंशति-वारम् इत्य् अर्थः । कश्चित् तु प्रथमं सप्त ततो विंशतिस् तत एकं ततो ऽष्टाविंशति-वारम् अभ्यास-क्रमेणेति तात्पर्यम् आह तत्र प्रमाणं स एव प्रष्टव्यः ॥ क्र्द्च्_१।३७ ॥


मन्त्र-विशेष-प्राणायाम-प्रकारम् आह-अष्टाविंशतीति ।

अष्टाविंशति-सङ्ख्यम् इष्ट-फलदं मन्त्रं दशार्णं जपन्
नायच्छेत् पवनं सुसंयत-मतिस् त्व् अष्टौ दशार्णेन चेत् ।
अभ्यस्यन्न् अविवारम् अन्यम् अनुभिर् वर्णानुरूपं जपन्
कुर्याद् रेचक-पूर्वकम् अनिपणः प्राण-प्रयोगं नरः ॥ क्र्द्_१।३८ ॥

गोविन्द-भट्टाचार्यः

सुसंशित-मतिर् विमल-बुद्धिः अष्टाविंशति-सङ्ख्यं दशार्णं दशाक्षर-मन्त्रं जपन् प्रायच्छेत् प्राणायामं कुर्यात् कीदृशं दशार्णम् इष्ट-फलदं स्वाभिमत-फलदं तत्र दशाक्षर-मन्त्रस्य वार-चतुष्टयं जपेन रेचकम् । अष्ट-वार-जपेन पूरकं षोडश-वार-जपेन कुम्भकं कुर्याद् इति गुरु-सम्प्रदायः । अष्टादशार्णे चेत् प्राणायामः क्रियत इति शेषः । तदा रविवारं द्वादश-वारम् अभ्यस्यन् प्राणायामं कुर्याद् इति गुरु-सम्प्रदायः । अन्य-मनुभिर् अन्य-मन्त्रैश् चेत् प्राणायामः क्रियते । तदा वर्णानुरूपं मन्त्र-वर्णानां तारतम्येन जपं कुर्वन् कुर्यात् । अत्र स्वल्पाक्षरैर् मन्त्रैर् बहु-वारम् अनल्पाक्षरैर् मन्त्रैः स्वल्प-वारं जपेद् इत्य् अर्थः । कीदृशः ? साधकः
रेचक-पूरक-कुम्भकाख्य-कर्म-कुशल इत्य् अर्थः । रेचकस्य त्यागस्य पूर्वकर्मणी पूरक-कुम्भके तत्र निपुणा इति रुद्रधरः । तच् चिन्त्यम् एवम् अपि रेचके नैपुण्यालाभात् प्रपञ्च-सारानुसारिणो ऽस्य ग्रन्थस्य शारदा-ग्रन्थानुयायित्वाच् च ॥ क्र्द्च्_१।३८ ॥


अधुना प्राणायाम-प्रकारं दर्शयति-रेचयेन् मारुतम् इति ।

रेचयेन् मारुतं दक्षया दक्षिणः
पूरयेद् वामया मध्य-नाड्या पुनः ।
धारयेद् ईरितं रेचकादि-त्रयं स्यात्
कलादन्त-विद्याख्य-मात्राच्युकम् ॥ क्र्द्_१।३९ ॥

गोविन्द-भट्टाचार्यः

दक्षिणो विचक्षणः पुरुषः दक्षया दक्षिण-नाड्या मारुतं वायुं रेचयेत् त्यजेत् तथा वामया वाम-नाड्या त्यक्त-वायुं पूरयेद् मध्यया सुषुम्णया नाड्या मारुतं वायुं धारयेद् इत्य् उक्त-प्रकारेण रेचकादि-त्रयं रेचक-पूरक-कुम्भकाख्य-त्रितयम् ईरितं कथितं रेचकादिष्व् अवधि कालम् आह-कलाद् अन्तेति । कलाः षोडश, दन्ता द्वात्रिंशद्, विद्याः चतुःषष्ठि-रूपा एतत्-सङ्ख्याक-मात्रात्मकम् इत्य् अर्थः । अत्र भैरव-त्रिपाठिनो यत्र मन्त्र-गणनया प्राणायामः । तत्र कुम्भक-काल एवोक्तः श्वासाभ्यास-क्रमेण प्राणायाम-सङ्ख्यया मन्त्र-जपः कार्यो निर्गम-प्राणायामे तु रेचकादि-गणना कार्येत्य् आहुः । मात्र-शब्देन च वामाङ्गुष्ठे कनिष्ठाद्य्-अङ्गुलीनां प्रत्येकं
पर्व-त्रय-स्पर्श-कालः कथ्यते वाम-हस्तेन वाम-जानु-मण्डलस्य प्रादक्षिण्येन स्पर्श-कालश् च । यद् अत्र रुद्रोपाध्यायैर् उक्तं यद्यप्य् अत्र रेचकं प्रथमम् उक्तं तद्-अनन्तरं पूरकं तथापि प्रथमं पूरकम् अनन्तरं कुम्भकं ज्ञेयं यतो गृहीत-घृतस्य त्यागो भवति । यत् पुनर् व्यत्यासेन कथनं तद्-गोपनाय एवं कला-दन्तेत्याद्य् अपि व्यत्यासेन बोद्धव्यम् । इड्योत्कर्षयेद् वायुम् इत्य् आदि शारदा-दर्शनात् । एवं च गृहीत-चतुर्-गुणेन धारणं तद्-अर्धेन त्याग इत्य् अपि दर्शितं भवतीति, तन् न प्रपञ्च-सारानुसारिणो ग्रन्थस्यास्य शारदानुयायित्वात् प्रपञ्च-सारे रेचकादित्वस्यैवोक्तत्वात् पूरकादित्वस्याष्टाङ्गयोगान्तर्भूत-प्राणायाम-विषयत्वात् । यद् उक्तं गृहीतस्य त्यागो भवति तत्रोच्यते स्वाभाविक-वायु-धारणस्यात्रापि
सत्त्वाद् अन्यथा शरीर-पातापत्तेः । यद् उक्तं व्यत्यासेन गोपनार्थं कथनम् इति तद् अयुक्तम् । मन्त्र-भिन्नस्यानुष्ठान-भागस्य ऋजु-मार्गेणैव वक्तुं युक्तत्वात् । यद् उक्तं गृहीत-चतुर्गुणेनैव धारणं तद्-अर्धेन त्याग इति तद् अप्य् अयुक्तं प्रमाणाभावात् । दक्षिणामूर्ति-संहितायाम् अङ्गुली-नियमो ऽपि प्राणायामे कथितो, यथा-
कनिष्ठानामिकाङ्गुष्ठैर् यन् नासापुट-धारणम् ।
प्राणायामः स विज्ञेयस् तर्जनी-मध्यमे विना ॥ इति ॥ क्र्द्च्_१।३९ ॥

सनातनः: तद् एव क्रम-दीपिकोक्त्या संवादयन् तत्रैव किञ्चिद् विशेषं च दर्शयति-रेचयेद् इति । दक्षया दक्षिण-नाड्या, दक्षिणः विद्वान् जनः । मध्य-नाड्या सुषुम्णया धारयेत् । एवं रेचक-पूरक-कुम्भकाख्यं त्रयं स्यात् । रेचकादिषु त्रिषु क्रमेणावधिकालम् आह-कलाः षोडश । दन्ता द्वात्रिंशत् । विद्याश् चतुःषष्ठिस् तत्-तत्-सङ्ख्यक-मात्रात्मकम् इत्य् अर्थः । मात्रा च-वामाङ्गुष्ठेन वाम-कनिष्ठाद्य्-अङ्गुलीनां प्रत्येकं पर्व-त्रय-सम्पर्क-कालः । वाम-हस्तेन वाम-जानु-मण्डलस्य प्रादक्षिण्येन स्पर्श-कालो वा । तत्राप्य् अङ्गुलि-नियमो ऽप्य् उक्तः-
कनिष्ठानामिकाङ्गुष्ठैर् यन् नासा-पुट-धारणम् ।
प्राणायामः स विज्ञेयस् तर्जनी-मध्यमे विना ॥ इति ।

तत्र तेषु प्राणायामेषु पुर्वं रेचकादिषु सङ्ख्योक्ता । अत्र च प्राणायामेष्व् इति भेदः ॥ [हरि-भक्ति-विलासे ५।१३१]


प्रकृतम् उपसंहरन्न् आत्म-यागार्थं देहे पीठ-कल्पनां दर्शयति-प्राणायामम् इत्य् आदिना ।

प्राणायामं विधायेत्य् अथ निज-वपुषा कल्पयेद् योग-पीठम् ।
न्यस्येद् आधार-शक्ति-प्रकृति-कमठ-क्षमा-क्षीर-सिन्धून् ।
श्वेतद्वीपं च रत्नोज्ज्वल-महित-महा-मण्डपं कल्प-वृक्षम् ।
हृद्-देशे ऽंश-द्वयोरू-द्वय-वदन-कटी-पार्श्व-युग्मेषु भूयः ॥ क्र्द्_१।४० ॥

गोविन्द-भट्टाचार्यः

धर्माद्य्-अधर्मादि च पाद-गात्र-
चतुष्टयं हृद्य् अथ शेष-मन्त्रम् ।
सूर्येन्दु-वह्नीन् प्रणवआंश-युक्तान्
स्वाद्य्-अक्षरैः सत्त्व-रजस्-तमांसि ॥ क्र्द्_१।४१ ॥

इति पूर्वोक्त-प्रकारेण प्राणायामं विधाय कृत्वा अथानन्तरं निज-वपुषा निज-शरीरेण याग-पीथं पूजा-पीठं कल्पयेत् कल्पना-प्रकारम् आह-न्यस्येद् इति । हृद्-देशे हृदि आधार-शक्त्य्-आदि-कल्प-वृक्षान्तं न्यसेत् । कमठः कूर्मः शेषो ऽनन्तः क्षीर-सिन्धुः क्षीर-समुद्रः रत्नेन उज्ज्वलः महितो यः महा-मण्डपः रत्न-मण्डपः इति यावत् तथा चाधार-शक्तये नमः प्रकृत्यै नम इति नवकं न्यसेद् हृदीत्य् अर्थः । भूयो ऽअनन्तरं अंस-द्वयोर् उद्वय-वदन-कटी-पार्श्व-युग्मेषु धर्माद्य्-अधर्मादि-पाद-गात्र-चतुष्टयं विन्यस्येत् । पाद-गात्रयोश् चतुष्टयं पाद-गात्र-चतुष्टयम् इत्य् उभयत्र सम्बध्यते । पाद-चतुष्टयं गात्र-चतुष्टयं धर्मादि-धर्म-ज्ञान-वैराग्यैश्वर्य-रूप-पाद-चतुष्टयम्
। अंस-द्वयोर् उद्वये च धर्माय नमः दक्षिणोरौ, इत्य् एवं प्रादक्षिण्य-क्रमेण विन्यसेत् । शारदायां मुख-पार्श्व-नाभि-पार्श्वेष्व् इति क्रम-दर्शनात् । एतच् च भैरव-त्रिपाठिनो ऽपि सम्मतम् । एतेषु यथाश्रुत-क्रमेणैवेति विद्याधराचार्याः । अथानन्तरं शेषम् अनन्तम् अब्जं पद्मं सूर्येन्दु-वह्नीन् सूर्य-सोमाग्नि-मण्डलानि । कीदृशान् ? तान् प्रणवांश-युक्तान् प्रणवस्योङ्कारस्यांशाः । अवयवा अ-कारो-कार-म-कारास् तैर् युक्तान् सहितान् तत्रादौ स-बिन्दु-प्रणवांशादि-साहित्यं सम्प्रदायतो बोद्धव्यम् । स्वाद्य्-अक्षरैः स-बिन्दु-स्वीय-स्वीय-प्रथमाक्षरैः सहितानि सत्त्व-रजस्-तमांसि तथा च हृत्-पद्मे अनन्ताय नमः, पद्माय नमः, अं द्वादश-कला-व्याप्त-सूर्य-मण्डलात्मने नमः, उं
षोडश-कला-व्याप्त-चन्द्र-मण्डलात्मने नमः, मं दश-कला-व्याप्त-वह्नि-मण्डलात्मने नमः, सं सत्त्वाय नमः, रं रजसे नमः, तं तमसे नमः ॥ क्र्द्च्_१।४०-४१ ॥


आत्मादि-त्रयम् आत्म-बीज-सहितं व्योमाग्नि-माया-लवैर्
ज्ञानात्मानम् अथाष्ट-दिक्षु परितो मध्ये च शक्तीर् नव ।
न्यस्त्वा पीठम् अनुं च तत्र विधिवत् तत्-कर्णिका-मध्यगं
नित्यानन्द-चिति-प्रकाशम् अमृतं सञ्चिन्तयेन् नाम तत् ॥ क्र्द्_१।४२ ॥

गोविन्द-भट्टाचार्यः

आत्मादि-त्रयम् आत्मान्तरात्मा परमात्मेति लक्ष्यम् । कीदृशम् ? आदि-बीज-सहितं स-बिन्दुं स्वीय-स्वीय-प्रथमाक्षर-रूप-बीज-सहितम् इति विद्याधराचार्याः । आदिः प्रणवस् तत्-सहितम् इति त्रिपाठिनः । व्योम ह-कारः । अग्निः रेफः । माया दीर्घः ईः । लवो बिन्दुः । एतैः सह ज्ञानात्मानं भुवनेश्वरी-बीज-सहितं हृत्-पद्मे न्यसेद् इति पूर्वेणान्वयः । तथा च आं आत्मने नमः । अं अन्तरात्मने नमः । पं परमात्मने नमः । ह्रीं ज्ञानात्मने नमः । इति हृदि विन्यसेत् । अथानन्तरं अष्ट-दिक्षु परितः प्रादक्षिण्येन मध्ये च कर्णिकायां नव-शक्तीर् विमलोत्कर्षिण्याद्या न्यस्येत् । पद्मस्य पूर्वादि-केसरेषु प्रादक्षिण्येन विमलायै नमः । उत्कर्षिण्यै नमः । ज्ञानायै नमः । क्रियायै
नमः । योगायै नमः । प्रह्वयै नमः । सत्यायै नमः । ईशानायै नमः । कर्णिकायाम् अनुग्रहायै नमः । इति न्यसेत् । पीठ-मन्त्रं च तत्र न्यस्यः । एतस्योपरि वक्ष्यमाणं पीठ-मन्त्रं-ॐ नमो भगवते विष्णवे सर्व-भूतात्मने वासुदेवाय सर्वात्म-संयोग-यौगपद्य-पीठात्मने नमः इति मन्त्रं न्यसेत् । तद् उक्त-रूपे पीठे विधिवद् गुरूपदिष्ट-मार्गेण तत् सर्वोपनिषत्-प्रसिद्धं धाम ब्रह्म-चैतन्यं चिन्तयेत् । कीदृशम् ? तत्-कर्णिका-मध्य-गं हृत्-पद्म-कर्णिका-मध्य-स्थम् इत्य् अर्थः । एतद्-ध्यानोपयोगि-रूपम् उक्तं स्वाभाविक-रूपम् आह । कीदृशम् ? नित्येति अविनाशि-चैतन्यं स्वतः-प्रकाश-स्वरूपम् । पुनः कीदृशम् ? अमृतं शुद्ध-स्वरूपम् इत्य् अर्थः । तत्राधार-शत्त्यादयः सर्वे मन्त्राः
प्रणवादि-चतुर्थी नमो ऽन्ताः सम्प्रदायतो बोद्धव्याः ॥ क्र्द्च्_१।४२ ॥


पीठ-शक्तीर् दर्शयति-

विमलोत्कर्षणी ज्ञाना क्रिया योगेति शक्तयः ।
प्रह्वी सत्या तथेशानाऽनुग्रा नवमी तथा ॥ क्र्द्_१।४३ ॥

गोविन्द-भट्टाचार्यः

विमलेति ॥ क्र्द्च्_१।४३ ॥


पीठ-मन्त्रम् उद्धरति-तारम् इत्य् आदिना ।

एवं हृदयं भगवान् विष्णुः सर्वान्वितश् च भूतात्मा ।
ङे ऽन्ताः स-वासुदेवाः सर्वात्म-युतं च संयोगं ॥ क्र्द्_१।४४ ॥

गोविन्द-भट्टाचार्यः

योगावधश् च पद्मं पीठात् ङे-युतो नतिश् चान्ते ।
पीठ-महा-मनुर् व्यक्तः पर्याप्तो ऽयं सपर्यासु ॥ क्र्द्_१।४५ ॥

तारः प्रणवः । हृदयं नमः । भगवान् इति च विष्णुर् इति च सर्वान्वितः सर्व-पद-सहितः भूतात्मा सर्व-भूतात्मेति । एते त्रयः स-वासुदेवाः वासुदेवेन सह चत्वारः प्रत्येकं ङे ऽन्ताश् चतुर्थ्य्-अन्ताः कार्याः । सर्वात्म-युतश् च संयोगः सर्वात्म-संयोग इति स्वरूपं योगावधौ योग-शब्दान्ते पद्म-पद्मेति स्वरूपं ङे-युतः पीठात्मा चतुर्थ्य्-अन्तः पीठात्मा एतस्यान्ते नतिर् नमः-शब्दः । उपसंहरति पीठेति अयं पीठ-महा-मनुर् उक्तः कथितः । कीदृशः ? सपर्यासु पूजासु पर्याप्तः समर्थः ॥ क्र्द्च्_१।४४-४५ ॥

सनातनः: तारः प्रणवः । ततो हृदयं नम इति पदम् । ततश् च भगवान् इति विष्णुर् इति च । सर्वान्वितः सर्व-शब्द-युक्तो भूतात्मा सर्व-भूतात्मेति । एते त्रयः स-वासुदेवा वासुदेव-सहिताः प्रत्येकं ङे ऽन्ताश् चतुर्थ्य्-अन्ताः । ततश् च सर्वात्मना युतं संयोगं सर्वात्म-संयोगम् इति नपुंसकत्वम् आर्षम् । ततश् च योगस्यावधौ अन्ते पद्मं योग-पद्मम् इति । तद्-अन्ते ङे-युक्तश् चतुर्थ्य्-अन्तः पीठात्मा । तद्-अन्ते च नतिः नमः-शब्दः । एवं ॐ नमो भगवते विष्णवे सर्व-भूतात्मने वासुदेवाय सर्वात्म-संयोग-योग-पद्म-पीठात्मने नम इति सिद्धम् । तथा च शारदा-तिलके-

नमो भगवते ब्रूयाद् विष्णवे च पदं वदेत् ।
सर्व-भूतात्मने वासुदेवायेति वदेत् ततः ॥
सर्वात्म-संयोग-पदाद् योग-पद्म-पदं पुनः ।
पीठात्मने हृद्-अन्तो ऽयं मन्त्रस् तारादिर् ईरितः ॥ इति ।

सनत्-कुमार-कल्पे च-
ॐ नमः पदम् आभाष्य तथा भगवते-पदम् ।
वासुदेवाय इत्य् उक्त्वा सर्वात्मेति पदं तथा ॥
संयोग-योगेत्य् उक्त्वा च तथा पीठात्मने पदम् ।
वह्नि-पत्नी-समायुक्तः पीठ-मन्त्र इतीरितः ॥ इति ॥ [ह।भ।वि। ५।१४४-५]


कर-शोधनं दर्शयति-करयोर् इत्य् आदिना ।

करयोर् युगलं विधाय
मन्त्रात्मकमभ्यानभिराम्यमान-मार्गात् ।
सकलं विदधीत मन्त्र-
वर्णैः परमं ज्योतिर् अनुत्तमं हरेस् तत् ॥ क्र्द्_१।४६ ॥

गोविन्द-भट्टाचार्यः

करयोर् युगलम् अभिधास्यमान-मार्गात् । व्यापय्येत्य् आरभ्य विधिः समीरितः करे इत्य् अन्तं वक्ष्यमाण-प्रकारेण मन्त्र-वर्णैर् मन्त्रात्मकं मन्त्र-स्वरूपं विधाय कृत्वा आभ्यां कराभ्यां सकलं पूर्वोक्तं वक्ष्यमाणं च न्यास-पूजादिकं विदधीत कुर्यात् । मन्त्र-वर्ण-करण-क-कार-शोधने हेतुम् आह-परमम् इत्य् आदिना । यस्मात् तन्-मन्त्र-वर्णं हरेः कृष्णस्य परमं तेजः-स्वरूपम् इत्य् अर्थः । कीदृशं ? पुनः अनुत्तमं नास्त्य् उत्तमं यस्मात् तथेत्य् अर्थः । सकलं विदधीतेति परत्रापि काकाक्षि-गोलक-न्यायेन योजनीयम् । तथा च तद् हृदय-पङ्कज-स्थं हरेर् अनुत्तमं ज्योतिस् तेजः सकलं विदधीत षड्-अङ्ग-न्यासेन सावयवं कुर्याद् इति लघु-दीपिका-कारः ॥ क्र्द्च्_१।४६ ॥

इति श्री-केशवाचार्य-विरचितायां क्रम-दीपिकायां प्रथमः पटलः ॥१॥


(२)