bhAgavata, sattvata, pAncharAtra
See leach.
Doctrinal or ritual difference?
तद् अपि लीचोल्लेखेन स्पष्टम् इह -
That distinct groups within the Pāñcarātra should have held opposing views (as per rAmakaNTha) on the ontology of individual selves seems somewhat surprising given that in the Pāñcarātra literature that is currently available, such concerns do not figure prominently. Moreover, in the works by the Vedāntin defenders of Pāñcarātra orthodoxy, in the Vaikhānasa literature and, as we will see presently, in the Pāñcarātra scriptures, different types of Pāñcarātrika are distinguished from one another not on account of opposing philosophical positions, but rather because of such factors as their different religious goals, liturgical practices, social class ( varṇa), customs, everyday habits, and religious insignia.
- Leach
परसर-प्रशंसा
लभ्यमान-पाञ्चरात्र-निबन्धेषु प्राचीन-तरं नारायणीयम् महाभारतान्तर्गतम्।
तत्र चोपरिचरवसोः पञ्च-काल-परायणस्य
श्रौतकर्मनिष्ठा प्रतिपादिता।
एवम् महाभारते ऽन्यत्रापि पाञ्चरात्रम् प्रशस्तम्।
भागवते च -
तृतीयम् ऋषिसर्गं च
+++(नारदाख्य-)+++देव-र्षित्वम् उपेत्य सः।
तन्त्रं सात्त्वतम् +++(→पञ्चरात्रम्)+++ आचष्ट
नैष्कर्म्यं कर्मणां यतः॥
[bhā.pu. 1.3.8]
अनर्थोपशमं साक्षाद्
भक्ति-योगम् अधोक्षजे । लोकस्याजानतो विद्वांश्चक्रे
सात्त्वत-संहिताम् +++(भागवताख्याम्)+++ ॥
(श्रीमद्भागवतम् १.७.६)
(अत्र भागवतम् अपि “सात्त्वत-संहिते"त्य् अन्यथा प्रसिद्धेन नाम्ना कुतो वदतीति विभाव्यम्।)
इत्थम् अपि स्पष्टम् - भागवत-पाञ्चरात्रिकयोस् तावान् भेदो नावर्तत तत्त्व-ज्ञाने। आचारे ऽनुयायिवर्गे हि व्यत्यासः कश्चन ।
भ्रमः
केचिद् अज्ञा अन्यथा भणन्ति -
जीव-तत्त्वे हि मिथो-मत-भेद इति।
यथा स शङ्करो ऽपि भागवत-पाञ्चरात्र-शब्द-द्वयेन पक्षद्वयम् पुरस्करोति,
भागवतेषु तु पाञ्चरात्रिकीं पञ्च-काल-प्रक्रियाम् एव पुरस् करोति ।