श्री-नारायण-भट्ट-विरचितं
श्री-व्रज-भक्ति-विलासं
श्री-नारायण-भट्ट-विरचितं
श्री-व्रज-भक्ति-विलासं
रधया सहितं कृष्णं लाडिलेयं स्वभिष्टकम् ।
रेवती-सहितं देवं वन्देऽहञ् च हलायुधम् ॥१॥
कृष्णाज्ञया कृतं स्वेष्टं नत्वा देव-त्रयं शुभम् ।
शङ्करं परमानन्दं सर्व-विद्या-विशारदम् ॥२॥
कुर्वेऽहं पञ्चमं गोप्यं वन-यात्रा-शुभ-प्रदम् ।
व्रज-भक्ति-विलासाख्यं व्रज-माहात्म्य-दर्शिनम् ॥३॥
वास-प्रदक्षिणार्थाय दान-पूजन-हेतवे ।
त्रयोदश-सहस्रैस् तु सङ्ख्या-वेष्टित-सुन्दरम् ॥४॥
समस्त-व्रज-द्वाराणि वनान्य् उपवनानि च ।
प्रतिवनाधिवनानि स्युः बहु-पुNय-प्रदानि च ॥५॥
द्वादशा द्वादशाख्यातास् त्व् अष्ट-चत्वार-सङ्ख्यका ।
मासेषु द्वादशेष्व् एषु मासो भाद्रपदो वरः ॥६॥
तस्मिन् प्रदक्षिणा कार्या मन्त्रपूर्व विधानतः ।
यथोक्त विधिना कुर्याद् दान पूजन पूर्वकम् ॥७॥
मात्स्ये—
व्रजमण्डल भूगोलं शेषनागफणं वरं ।
कुमुदाख्यं महाश्रेष्ठं सर्वेषां मध्य संस्थितम् ॥८॥
तस्योपरि स्थितं लोकं सर्वस्थानमहाफलम् ।
कृष्णलीला विहारार्थ मुच्चस्थानं विराजितम् ॥९॥
चतुरष्टकक्रोशेन परिपूर्णविराजितम् ।
अस्य प्रदक्षिणीं कुर्वन्धनधान्यसुखं लभेत् ॥१०॥
दानार्चावासतो लोको विष्णुलोकमवाप्नुयात् ।
आवासान्म्रियतेऽत्रेह पुनर्जन्म न विद्यते ॥११॥
पुन्यं लक्षगुणं लब्ध्वा कृतेऽ स्मिन्व्रजमण्डले ।
कृष्णेन निर्मिता स्तिर्थाः सार्धद्वयसहस्रकाः ॥१२॥
तत्रादौ वनोपवन-प्रतिवनाधिवनान्य् अष्ट-चत्वारिंशत् तानि चतुरष्ट-क्रोश-परिमाण-स्थितानि चतुर्-भागशोऽभ्यन्तर-स्थितानि क्रमश आह ॥
पाद्मे—
वनानि द्वादशान्याहुर्यमुनोत्तरदक्षिणे ।
महावनं महाश्रेष्ठं द्वयं काम्यवनं शुभम् ॥१३॥
कोकिलाख्यं तृतीयं च तुर्यं तालवनं तथा ।
पञ्चमङ्कुमुदाख्यं च षष्ठं भण्डिरसञ्ज्ञकम् ॥१४॥
नाम्ना छत्रवनं श्रेष्ठं सप्तमं परिकीर्त्तितम् ।
अष्टमं खदिरं प्रोक्तं नवमं लोहजं वनम् ॥१५॥
नाम्ना भद्रवनं श्रेष्ठं दशमं बहुपुण्यदम् ।
एकादशं समाख्यातं बहुलावन सज्ञकम् ॥१६॥
नाम्ना बिल्ववनं श्रेष्ठं द्वादशं कामनाप्रदम् ।
इति द्वदश-सञ्ज्ञानि वनानि शुभदानि च ॥१७॥
अथ द्वादशोपवनानि आह ।
वाराहे—
आदौ ब्रह्मवनं नाम द्वितीयं त्वप्सरावनम् ।
तृतीयं विह्वलं नाम कदम्बाख्यं चतुर्थकम्॥१८॥
नाम्ना स्वर्णवनं श्रेष्ठं पञ्चमं परिकीर्तितम् ।
सुरभिवन नामानं षष्ठ माल्हादवर्धनम् ॥१९॥
श्रेष्ठं प्रेमवनं नाम सप्तमं शुभदं नृणाम् ।
मयूरवन नामानमष्टमं परिकीर्तितम् ॥२०॥
मानेङ्गितवनं श्रेष्ठं नवमं मानवर्धनम् ।
शेषशायिवनं श्रेष्ठं दशमं पापनाशनम् ॥२१॥
एकादशं समाख्यातं नारदाख्यं शुभोदितम् ।
द्वादशं परमानन्द वनं सर्वार्थदायकम् ॥२२॥
इति द्वादश सञ्ज्ञानि वनोपवनानि च ।
इति द्वादशोपवनानि ॥
अथ द्वादश प्रतिवनानि ।
भविष्ये—
आदौ रङ्कवनं श्रेष्ट्ःअं पुरसज्ञा विराजितम् ।
वार्त्तावनं द्वितीयं च करहाख्यं तृतीयकम् ॥२३॥
चतुर्थं काम्यनामानं वनं कामप्रदम् नृणाम् ।
वनम्-अञ्जन नामानं पञ्चमं श्रीशुभप्रदम् ॥२४॥
नाम्ना कर्णवनं श्रेष्ठं षष्ठं स्वप्नवरप्रदम् ।
कृष्णाक्षिपन नामानं वनं नन्दन मष्टमम् ॥२५॥
नन्दप्रेक्षणकृष्णाख्यं वनं सप्तममीरितम् ।
वनमिन्द्रवनं नाम नवमं कृष्णपूजितम् ॥
शिक्षावनं शुभं प्रोक्तं दशमं नन्दभाषितम् ॥२६॥
चन्द्रावलीवनं श्रेष्ठमेकादशमुदाहृतम् ।
नाम्ना लोहवनं श्रेष्ठं द्वादशं शुभदं नृणाम् ॥२७॥
इति प्रतिवनान्याहु र्मार्गे वामे च दाक्षिणे ।
इति द्वादश सञ्ज्ञास्ते देवावासफलाप्रदाः ॥२८॥
इति द्वादश प्रतीवनानि ॥
॥ अथ द्वदशाधिवनानि ॥
विष्णु-पुराणे—
मथुरा प्रथमं नाम राधाकुण्डं द्वितीयकं ।
नन्दग्रामं तृतीयं च गढृस्थानं चतुर्थकम् ॥२९॥
पञ्चमं ललिताग्रामं वृषभानुपुरं च षट् ।
सप्तम गोकुलं स्थानमष्टमं बलदेवकम् ॥३०॥
गोवर्धनवनं श्रेष्ठं नवमं कमनाप्रदम् ।
वनं जाववटं नाम दशमं परिकीर्तितम् ॥३१॥
मुख्यं वृन्दावनं श्रेष्ठमेकादशं प्रकीर्त्तितम् ।
सङ्केतवटकं स्थानं वनं द्वादश कीर्त्तितम् ॥३२॥
इति द्वादश सञ्ज्ञानि वनान्याधिवनानि च ।
वनानामाधिपाः प्रोक्ता व्रजमण्डल मध्यगाः ॥३३॥
एषां नैव विलोकेन वन-यात्रा च निष्फला ।
एषां च दर्शनेनईव वन-यात्रा शुभप्रदा ॥३४॥
आदौ लीलां यदा पश्येद्वन-यात्रां ततश्चरेत् ।
सर्वान् कामानवाप्नोति विष्णुलोक मवाप्नुयात् ॥३५॥
सर्वत्र विजयी भूयाद्वन-यात्राप्रचारकः ।
मन्त्रपूर्वं समायुक्तः शुचि निर्यम तत्परः ॥३६॥
प्रदक्षिणे च वृक्षाद्याः लता गुल्मादयस्तथा ।
गोब्रह्मण मूर्त्तयस्तु पाषाणाद्याः स्थिताःपथि ॥३७॥
तिर्थास्तुभगवत्स्थानाः नैव त्यज्याः प्रदक्षिणे ।
यत्तस्य सन्माननस्तु तत्तत्तेन प्रपूजयेत् ॥३८ ॥
तीर्थे स्नानाचमं ग्राह्यं स्वरूप वृक्ष पूजनम् ।
स्थानं देवस्थलं पूज्य वन-यात्रां समाचरेत् ॥
प्रदक्षिणागतान् वृक्षान् द्विजमूर्त्ति गवादिकान् ।
अपमानं पुरस्कृत्य परिक्रमणमाचरेत् ॥
निष्फला वन-यात्रा च शापमुग्रमवाप्नुयात् ॥३९॥
वन्ध्यो सन्तानहीनस्तु दरिद्रमृण्यसंयुतः ।
अपमाने कृते लोके चतुर्व्याधिमवाप्नुयात् ॥४०॥
कौर्मे—
रात्रौषितं विना धौतमार्द्र कौशेयवाससम् ।
चर्मतुल्यं समाख्यातं धर्म कर्म विनाशनम् ॥४१॥
धौतं शुष्कं धृतं वस्त्रं धर्म कर्म शुभ प्रदम् ।
ब्रह्मचर्यकृता सापि वन-यात्रा प्रदक्षिणा ॥
महाश्रेष्ठा समाख्याता त्रिवर्गफलदायिनी ॥४२॥
उपानहं विना कार्या मध्यमा सा प्रदक्षिणा ।
फलार्धदायिनी श्रेष्ठा धनधान्यविवर्धिनी ॥४३॥
प्रदक्षिणा विना स्नानं कनिष्ठ फलदायिनी ।
यत्सुखेन समाविष्टस्तत्सुखं सुस्थितो भवेत् ॥४४॥
शौचं विना यदा कार्या निष्फला स्यात्प्रदक्षिणा ।
वन-यात्रा प्रसङ्गे तु रात्रौ त्यक्ता प्रदक्षिणा ॥
त्याजेज्जीवादिहिंसां च पादप्रक्षेपणे शुचिः ।
क्रिमिकीटादिकानां च पादप्रक्षेपत्याजनम् ॥
न दृष्ट्वा जीवघातं च रात्रौ कुर्यात् प्रदक्षिणां ।
अधमा सा समाख्याता वन-यात्रा शुभप्रदा ॥
उत्तालगतिना चैव वन-यात्रा प्रदक्षिणा ।
ऐते जीवा म्रियन्ते स्म पापे पाप समे समाः ॥४५॥
नैव यात्राफलं तस्य गृहस्थः फलमाप्नुयात् ॥४६॥
वहिर्भूमिंविनायात्राऽथवा नो दन्तधावनम् ।
ब्रह्महत्या फलं भूयाच्चाण्डालसदृशो कृतिः ॥४७॥
विष्ठोच्छिष्ठास्थिमांसादौ पादस्पर्शोभिजायते ।
जलोच्छिष्टकृतः स्पर्शो भोजनोच्छिष्ट सम्भवः ॥४८ ॥
दीपतैलादिकानां च स्पर्शनं तु कदा भवेत् ।
सचैलं स्नानमाचक्रु र्नरनारीद्विजातयः ॥४९॥
आलस्यं न च कुर्यान्च स्नपनं विधिपूर्वकम् ।
चाण्डाल समतां लब्ध्वा ब्रह्महत्याफलं लभेत् ॥५०॥
वन-यात्रा गते मार्गे शवधूमप्ररोहनम् ।
तमेव च परित्यज्य परिक्रमणमाचरेत् ॥५२॥
शवधूम प्ररोहं तु वन-यात्रां समाचरेत् ।
पुराकृतं शुभं पुन्यं कर्म धर्मं हरत्यसौ ॥५२॥
वन-यात्रा प्रसङ्गे तु रोगं वा सुतकं लभेत् ।
तत्र स्थान मुषित्वा तु परिमानं दिनं त्यजेत् ॥५३॥
ततःप्रदाक्षिणां कुर्याद्विधिपूव्वींसमापयेत् ।
आदौ कलेवरं शुद्ध वा ततः कुर्यत् प्रदक्षिणाम् ॥५४॥
साङ्गमेव समाजातं वन-यात्रा प्रसङ्गकम् ॥५५॥
वन-यात्राप्रसङ्गे तु नारी स्याच्च रजःस्वला ।
उषित्वा सा च तत्रैव दिनपञ्चान् परित्यजेत् ॥५६॥
षष्ठेऽह्नौ च भवेच्छुद्धा वन-यात्रां समाचरेत् ।
विक्षेपे दिवसे जाते नैव दोषोऽभिजायते ॥५७॥
ब्रह्माण्डे—
वन-यात्रां-प्रसङ्गे तु नक्तव्रत समन्वितः ।
फलं कोटिगुणं पुन्यं फलाहारमुपोषणे ॥५८ ॥
फलं लक्षगुणं पुण्यमन्नोदनमुपोषणे ।
भोजने च कृते नक्ते सहस्रगुणितं फलम् ॥५९॥
भोजने चैव मध्याह्ने फलाहारं शतङ्गुणं ।
अन्नोदने तदर्धं स्याद् विंशत्या गुणितं दिने ॥६०॥
वन-यात्रा व्रतानां च विधिरेषा ह्वुदाहृताः ।
पादप्रक्षेपणे चैव दानं मन्त्रजपं शुचिः ।
पूजनं स्नपनं श्रेष्ठं नमस्कारार्घदापनम् ॥६१॥
यव-तण्डुल-धान्यानां बपनं सव्यपाणिना ।
वन-यात्रां नमस्कारै र्मन्त्रसिमा प्रमाणकम् ॥६२॥
ह्द्यू च्चरन् वनस्यापि मन्त्रञ्चैवाधिपस्य च ।
नैव दत्त्वा शरीरस्य कष्टं शक्तयनुसारतः ।
कष्टं दत्त्वा शरीरस्य ह्यात्मघातफलं लभेत् ॥६३॥
क्रुद्धो हरि र्ददौ शापं फलसामान्यमाप्नुयात् ॥६४॥
इति वनाधिपाधिवनव्याख्यापूर्वफलं ।
श्री भागवते—
निन्दते वेद-शास्त्राणां द्विजन्मा यदि निन्दते ।
षष्ठि वर्ष सहस्राणि विष्ठायां जायते कृमिः ॥६५॥
एतद् धि सर्व-वर्णानाम् आश्रमाणां च सम्मते ।
श्रेयसाम् उत्तमं मन्ये स्त्री-शूद्राणां च मानदे ॥६६॥
अथाष्टचत्वारिंशद्-वनोपवन-प्रतिवनाधिवनानाम् अधिप-देवताः ।
तत्रादौ द्वादशवनानामधिपदेवता उच्यन्ते ।
बृहन्-नारदिये—
हलायुधो महावनाधिपो देवः ॥१॥
गोपीनाथः काम्यवनाधिपो देवः ॥२॥
नटवरः कोकिलावनाधिपो देवः ॥३॥
दामोदरस्तालवनाधिपो देवः ॥
केशवो कुमुदवनाधिपोदेवः ॥५॥
श्रीधरो भाण्डीरवनाधिपो देवः ॥६॥
हरिश्छत्रवनाधिपो देवः ॥७॥
नारायणः खदिरवनाधिपो देव ॥८॥
हृषीकेशो लोहजङ्घानवनाधिपो देवः ॥९॥
हयग्रीवो भद्रवनाधिपो देवः ॥१०॥
पद्मनाभो बहुलावनाधिपो देवः ॥११॥
जनार्द्दनो बिल्ववनाधिपो देवः ॥१२॥
इति द्वादशवनानामधिपदेवताः ॥६७॥
अथ द्वादशोपवनानाम् अधिदेवता उच्यन्ते ।
बृहन्-नारदिये—
गोपीजनवल्लभो ब्रह्मोपवनाधिपो देवः ॥१।
वामनोऽप्सरोपवनाधिपो देवः ॥२॥
विह्वलो विह्वलोपवनाधिपो देवः ॥३॥ गोपालः कदम्बोपवनाधिपो देवः ॥४॥ विहारी स्वर्णोपवनाधिपो
देवः ॥५॥ गोविन्दः सुरभ्युपवनाधिप देवः ॥६॥ ललितामोहनो प्रेमोपवनाधिपो देवः ॥७॥ किरीटी
मयूरोपवनाधिपो देवः ॥८॥ वनमाली मानेङ्गितोपवनाधिपो देवः ॥९॥ अच्युतः प्रौढानाथशेषशाय्युप
वनाधिपो देवः ॥१०॥ मदनगोपालो नारदोपवनाधिपो देवः ॥११॥ आदिबद्रीश्वरः परमानन्दोपवना
आधिपो देवः ॥१२॥ इति द्वादश माख्याता द्वादशोपवनाधिपाः ॥
इति द्वादशोपवनानामधिपदेवताः ॥
अथ द्वादश प्रतिवनानां द्वादशाधिपदेवताः ।
बृहन्-नारदिये—
नन्दाकिशोरो रङ्कप्रतिवनाधिपो देवः ॥१॥
कृष्णो वार्त्ताप्रतिवनाधिपो देवः ॥२॥
मुरलीधरो करह प्रतिवनाधिपो देवः ॥३॥
परमेश्वरो कामप्रतिवनाधिपोदेवः ॥४॥
पुण्डरीकाक्षोऽञ्जनप्रतिवनाधिपो देवः ॥५॥
कमलाकरो कर्णाप्रतिवनाधिपो देवः ॥६॥
बालकृष्णो क्षिपनकप्रतिवनाधिपो देवः ॥७॥
नन्दनन्दनो नन्दप्रतिवनाधिपो देवः ॥८॥
चक्रपाणिरिन्द्रप्रतिवनाधिपो देवः ॥९॥
त्रिविक्रमो शीक्षा-प्रतिवनाधिपो देवः ॥१०॥
पीताम्बरो चन्द्रावलीप्रतिवनाधिपो देवः ॥११॥
विश्वक्सेनो लोह-प्रतिवनाधिपो देवः ॥१२॥
इति द्वादश प्रतिवनानामधिपदेवताः ॥६९॥
अथ द्वादशाधिवनानां द्वादशाधिपा देवाः ॥
बौधायने—
परब्रह्मो मथुराधिवनाधिपो देवः ॥१॥
राधावल्लभो राधाकुण्डाधिवनाधिपोदेवः ॥२॥
यशोदानन्दनो नन्दग्रामाधिवनाधिपो देवः ॥३॥
नवलाकिशोरः गढृआधिवनाधिपो देव ॥४॥
व्रजकिशोरो ललिताग्रामाधिवनाधिपो देवः ॥५॥
राधाकृष्णो वृषाभानुपुराधिवनाधिपो देवः ॥६॥
गोकुलचन्द्रमा गोकुलाधिवनाधिपो देवः ॥७॥
कामधेनुर् बलदेवाधिवनाधिपो देवः ॥८॥
गोवर्धननाथो गोवर्धनाधिवनाधिपो देवः ॥९॥
व्रजवरो यावटाधिवनाधिपा देवः ॥१०॥
वैकुण्ठो वृन्दावनाधिवनाधिपो देवः ॥११॥
राधारमणो सङ्केतवटाधिवनाधिपो देवः ॥१२॥ ७०॥
इति द्वादशमाख्याताः देवताधिवनाधिपाः ।
वन-यात्रा प्रसङ्गे तु मन्त्रावासार्चनीयकाः ॥
एषाम् अष्टचतुर्णां प्रतिष्ठास्थापना सण्स्काराः व्रजप्रकाशे ।
इति द्वादशाधिवनानां द्वादशाधिपादेवताः ॥७१॥
अथैषामष्टचतुर्णामधिपदेवतानां मन्त्रानि ॥
आदि-पुराणे—
आवास-वन-यात्रासु तपसाराधनार्चने ।
शापेन वर्धिता मन्त्रास्तादृक् फलप्रयच्छकाः ॥७२॥
कलाभङ्गे च संस्कारै प्रतिष्ठास्थापनेषु च ।
शापेन संयुताः मन्त्राः शापमोचन निर्मिताः ॥७३॥
तुलसीमालया युक्तो पाणिना जयमाचरेत् ।
सीमा मर्यादमावध्य वन-यात्राकृते सति ।
अभावाचमने तत्र प्राणायामं समाचरेत् ॥७४॥
तूष्णीं ज्ञानं समादाय त्यजेत् सम्भाषणं बहु ।
संस्कारे च प्रतिष्ठासु स्वरूपाणां सृजः पृथक् ॥७५॥
यत्र स्थाने कृता यात्रा तत्रैव शिवमर्चयेत् ।
तदैव वन-यात्रेयं सागं एव समर्थिताः ।
बिना शिवविलोकेन वन-यात्रा च निष्फला ॥७६॥
तत्रादौ द्वादशवनानां देवतादीनां मन्त्राः ॥
त्रैलोक्य-सम्मोहन-तन्त्रे—
ओं क्ष्रीं महावनाधिपतये हलायुधाय नमः इति षोडशाक्षरो महावनाधिप-हलायुध-मन्त्रः । अनेन मन्त्रेण प्राणायाम-त्रयं कुर्यात् ।
अस्य मन्त्रस्य गृत्समद ऋषिः हलायुध देवता
पङ्क्तिश्छन्दः ममापूर्व-दर्शन फल-प्राप्तये जपे विनियोगः ।
शिरसि गृत्समदाय ऋषये नमः ।
मुखे हलायुधाय देवतायै नमः ।
हृदये पङ्क्तिश्छन्दसे नमः ।
इति न्यासः ॥ वन-यात्रा प्रसङ्गे करादिषण्डगन्यासो नास्ति ।
आवास
तपसाराधने करादिषन्द्डगन्यासो विद्यते ॥
अथध्यानं — ध्यायेद्धलायुधं देवं महावने शुभप्रदम् ।
नमस्तेऽस्तु प्रलम्बघ्न वन-यात्रा समर्थितः ।
इति ध्यात्वा यथा-शक्ति जपं कृत्वा तत्र स्थाने समर्पयेत् ।
गुह्यातिगुह्य गोप्तस्त्वं गृह्नानास्मत्कृतं जपम् ॥
इति महावनाधिप हलायुध मन्त्रः ॥७७॥
अथ काम्यवनाधिप गोपीनाथ मन्त्रः—
ओं श्रीं काम्यवनाधिपतये गोपीनाथाय नमः ।
अनेन मन्त्रेण प्राणायाम-त्रयं कुर्यात् ।
अस्य मन्त्रस्य नारद ऋषि काम्यवनाधिपगोपीनाथो देवताः गायत्रीच्छन्दः मम काम्यफल प्राप्तये जपे विनियोगः ।
शिरषि नारदाय ऋषये नमः ।
मुखे काम्यवनाधिपतये गोपीनाथाय नमः ।
हृदये गायत्री च्छन्दसे नमः ।
अथ ध्यानं- ध्यायेत् काम्यवनाधीशं गोपीनाथं महाप्रभुम् ।
क्रोश सप्त प्रमाणेन साङ्गयात्रा समर्थिता ॥
इति ध्यात्वा यथा-शक्ति जपं कृत्वा तत्र स्थाने निवेदयेत् ।
गुह्यातिगुह्य गोप्तस्त्वं गृहानास्मकृतं जपं ॥
इति काम्यवनाधिप गोपीनाथमन्त्र ॥७८ ॥
अथ कोकिलावनाधिप नटवरमन्त्रः—
ब्रह्म-यामले—
ओं क्लीं कोकिलावनाधिपतये नटवराय स्वधा ।
इति सप्तदशाक्षरो कोकिलवनाधिपनटवर मन्त्रः ॥
अनेन मन्त्रेण प्राणायामत्रयं कुर्यात् ।
अस्य मन्त्रस्य ब्रह्मा ऋषि कोकिलावनाधिपो नटवरो
देवता ।
अनुष्टुप् च्छन्दः मम कृष्णविहारदर्शनार्थे जपे विनियोगः ।
शिरसि ब्रह्मणे ऋषये नम ।
मुखे
अनुष्टुप च्छन्दसे नमः ।
हृदये कोकिलावनाधिपतये नटवराय देवतायै नमः ॥
अथ ध्यानं - कोकिलाधिपतिं देवं नटरूपं कलान्वितम् ।
ध्यायेच्छुभकरं श्रीशं साङ्गयात्रा समर्थित ॥
इति ध्यात्वा यथा-शक्ति जप कृत्वा तत्र स्थाने निवेदयेत् ।
गुह्यातिगुह्य गोप्लस्त्वं गुहानास्मत्कृतं जपं ।
इति कोकीलाधिपनटवरमन्त्रः ॥७९॥
अथ तालवनाधिपदामोदर मन्त्रः ।
शक्र-यामले—
ओं ह्रीं तालवनाधिपतये दामोदराय फट् ।
इति शोडशाक्षरस्तालवनाधिपदामोदर
मन्त्रः ।
अनेन मन्त्रेणे प्राणायाम-त्रयं कुर्यात् ।
अस्य मन्त्रस्य गौतम ऋषि ।
तालवनाधिप दामोदर देवता ।
अनुष्टुप च्छन्दः ।
ममानेक तापश्रमनिरासनार्थे जपं विनियोगः ।
शिरसि गौतमाय ऋषये नम ।
मुखे
अनुष्टुप च्छन्दसे नमः ।
हृदये तालवनाधिपाय दामोदराय देवताये नमः ।
अथ ध्यानं - ध्यायेद्दामोदरं देवं दाम्ना वद्धकलेवरम् ।
प्रदक्षिणा कृता यात्रा साङ्गा एव समर्थिता ॥ इति ॥
ध्यात्वा यथा शक्ति जपं कृत्वा अर्पयेत् तालवनस्थले ।
इति तालवनाधिप दामोदरमन्त्रः ॥८०॥
अथ कुमुदवनाधिप केशव मन्त्रः ।
वह्नि-यामले—
ओं क्लैं कुमुद-वनाधिपतये केशवाय फट् । इति सप्तदशाक्षरः कुमुद-वनाधिप-केशव-मन्त्रः । अनेन मन्त्रेण प्राणायाम-त्रयं कुर्यात् । अस्य मन्त्रस्य कान्व ऋषिः । कुमुद-वनाधिपः केशवो दैवता । पङ्क्तिश् छन्दः । ममानेक-मनोरथ-सिद्धि-द्वारा कुमुद-वनाधिप-केशव-मन्त्र-जपे विनियोगः। शिरसि कान्वाय ऋषये नमः । मुखे कुमुद-वनाधिपाय देवतायै नमः । हृदये पङ्क्ति-च्छन्दसे नमः ।
अथ ध्यानं—
केशवं कुमुदाधीशं ध्यायेत् केशि-विमर्दानम् ।
प्रदक्षिणा कृता यात्रा साङ्गं कुरु चतुर्भुज ! ॥
इति ध्यात्वा यथा-शक्ति जपं कृत्वा कुमुदाख्यं समर्पयेत् ।
गुह्यातिगुह्य गोप्तस्त्वं गृहाणास्मत्-कृतं जपं ॥
इति कुमुद-वनाधिप-केशव-मन्त्रः ॥८१॥
अथ भाण्डीरवनाधिप श्रीधरमन्त्रः ।
धौम्य-संहितायां—
ओं भाण्डीरवनाधिपतये श्रीधराय नमः ।
इति सप्तदशाक्षरो भाण्डीरवनाधिप
श्रीधरमन्त्रः ।
अनेन मन्त्रेण प्राणायाम-त्रयं कुर्यत् ।
अस्य मन्त्रस्य वृषाकपिः ऋषिः ।
भाण्डिरवनाधिप
श्रीधरो देवता ।
कात्यायनी छन्दः ।
मम गृहसौख्य प्रपूरणार्थे भाण्डीरवनाधिप श्रीधरमन्त्रजपे विनियोगः ।
शिरसि वृषाकपये ऋषये नमः ।
मुखे भाण्डीरवनाधिपतये श्रीधराय देवतायै नमः ।
हृदये कात्यायनी
छन्दसे नमः ।
ध्यात्वा यथा शक्ति जपं कृत्वा श्रीधराय समर्पयेत् ।
गुह्यातिगुह्यगोप्तस्त्वं गृहाणास्मत्कृतं जपं ॥
इति भाण्डीरवनाधिप श्रीधरमन्त्रः ॥८२॥
अथ छत्रवनाधिपहरि मन्त्रः ।
—
ओं व्रीं छत्रवनाधिपतये हरये स्वधा ।
इति चतुर्द्दशाक्षरश्छत्रवनाधिप हरिमन्त्रः ।
अनेन मन्त्रेण
प्राणायाम-त्रयं कुर्यात् ।
अस्य मन्त्रस्य आनन्द ऋषिश्छत्रवनाधिपो हरि देवता ।
अक्षरा पङ्क्तिश्छन्दो मम
सचक्रमुकुटरक्षनार्थे जपे विनियोगः ।
शिरस्यानन्दाय ऋषये नमः ।
मुखे छत्रवनाधिपतयं हरये
देवतायै नमः ।
हृदयेऽक्षरापङ्क्तये च्छन्दसे नमः ।
अथ ध्यानं —
ध्यायेच्छत्रवनाधीशं त्रैलोक्याधिपतिं हरिम् ।
वन-यात्रा कृता सिद्धा साङ्गं एव समर्पितः ॥
इति ध्यात्वा यथा-शक्तिं जपं कृत्वा हरौ छत्रवनेऽर्पयेत् ।
गुह्यातिगुह्य गोप्तम्त्वं गृहाणास्मत्कृतं जपं ॥
इति छत्रवनाधिप हरिमन्त्रः ॥८३॥
अथ खदिरवनाधिपनारायणमन्त्रः ।
ओंए ह्रां खदिरवनाधिपतये नारायणाय स्वाहा ।
इति षोडशाक्षर खादिरवनाधिपनारायण मन्त्रः ।
अनेन मन्त्रेण प्राणायाम-त्रयं कुर्यात् ।
अस्य मन्त्रस्य मेधातिथि ऋषि खदिरवनाधिपो नारायणो देवता
जगती च्छन्दः मम सकल भोग सम्पत्प्राप्त्यर्थे जपे विनियोगः ।
शिरसि मेधातिथये ऋषये नमः ।
मुखे
खदिरवनाधिपाय नारायणाय देवतायै नमः ।
हृदये जगत्यै च्छन्दसे नमः ।
अथ ध्यानं —
ध्यायेन्-नारायणं देवं खद्रीशं श्रीरमाधिपं ।
धनधान्यसुखं भोगं प्रयच्छ भम सर्वदा ॥ इति ध्यात्वा
यथा शक्ति जपं कृत्वा खदिराख्ये समर्पयेत् ।
गुह्यातिगुह्यगोप्तस्त्वं गृहाणास्मत्कृतं जपं ॥
इति खदिरवनाधिप नारायणमन्त्रः ॥८४॥
अथ लोहजङ्घावनाधिप हृषीकेशमन्त्रः ।
परमेश्वर संहितायां—
ओं क्लीं लोहजङ्घानवनाधिपतये हृषीकेशाय स्वधा ।
इत्येकोनविंशत्यक्षरो
लोहजङ्घानाधिप हृषीकेशमन्त्रः ।
अनेन मन्त्रेण प्राणायाम-त्रयं कुय्यत् ।
अस्य मन्त्रस्य सिन्धुद्वीप ऋषिः
लोहजङ्घानाधिपो हृषीकंशो देवता गायत्रीऽश्छन्दः मम सकलारिष्टनिवारणार्थे शरीरारोग्य प्राप्त्यर्थें जपे
विनियोगः, सिरसि सिन्धुद्वीपाय ऋषये नमः ।
मुखे लोहजङ्घानवनाधिपतये हृषीकेशाय नमः ।
हृदये गायत्री
च्छन्दसे नमः ।
अथ ध्यानं —
ध्यायेल्लोहवनाधीश हृषीकेशमजं प्रभुं ।
सर्वदारोग्यतां देहि वन-यात्रा प्रदक्षिने ॥ इति ॥
ध्यात्वा यथा-शक्तिजपं कृत्वा हृषीकेशमर्पयेत् ।
गुह्यातिगुह्यगोप्तस्त्वं गृहाणास्मत्कृतं जपं ॥
इति लोहजङ्घान हृषीकेशमन्त्रः ॥८५॥
अथ भद्रवनाधिपहयग्रीवमन्त्रः ।
वाष्कल-संहितायां –
ओं हूं भद्रवनाधिपतये हयग्रीवाय नमः ।
इति षोडशाक्षरो भद्रवनाधिपहयग्रीवमन्त्रः ।
अनेन मन्त्रेण प्राणायाम-त्रयं कुर्यात् ।
अस्य मन्त्रस्य वाशीष्ठ ऋषिः भद्रवनाधिपो हयग्रीवो देवता
कान्तिश्छन्दः मम सकलकल्याणार्थे जपे विनियोगः ।
न्यास पूर्ववत् ।
अथ ध्यानं — ध्यायेत् भद्रवनाधीशं हयग्रीवं महाप्रभुं ।
प्रदक्षिणा कृता यात्रा साङ्ग एव समर्थिता ॥
इति ध्यात्वा यथा-शक्ति जपं कृत्वा भद्रस्थाने समर्पयेत् ।
गुह्यातिगुह्यगोप्तस्त्वं गृहाणास्मत्कृतं जपं ॥
इति भद्रवनाधिपहयग्रीवमन्त्रः ॥८६॥
अथ बहुलावनाधिप पद्मनाभामन्त्रः ।
अगस्त्य-संहितायां—
ओं हृऔं बहुलावनाधिपतये पद्मनाभाय स्वाहा ।
इति सप्तदशाक्षरो बहुलावनाधिपपद्मनाभमन्त्रः ।
अनेन मन्त्रेण प्राणयाम त्रयं कुर्यात् ।
अस्य मन्त्रस्य अत्रिः ऋषिर्बहुलावनाधिपः पद्मनाभो
देवता भूश्छन्दः मम सर्वकामम्प्रपूरणार्थे पुत्रफल प्राप्ति सिद्धि द्वारा जपे वीनियोगः ।
न्यासं पूर्ववत् ।
अथ ध्यानं — पद्मनाभं वर ध्यायेद्-बहुलावननायकं ।
प्रदक्षिणकृता यात्रा साङ्ग एव समर्थिताः ॥ इति ॥
ध्यात्वा यथा-शक्तिजपं कृत्वा बहुलाख्ये समर्पयेत् ।
गुह्यातिगुह्यगोप्तस्त्वं गृहणास्मत्कृतं जपं ॥
इति बहुलावनाधिप पद्मनाभमन्त्रः ॥८७॥
अथ द्वादश बिल्ववनाधिपजनार्द्दन मन्त्रः ।
बृहत्पराशरे—
ओं क्लीं बिल्ववनाधिपतए जनार्द्दनाय नमः ।
इति षोडशाक्षरो बिल्ववनाधिपजनार्द्दन मन्त्रः ।
अनेन मन्त्रेण प्राणायाम-त्रयं कुर्यात् ।
अस्य मन्त्रस्य रुद्र ऋषि बिल्ववनाधिपो जनार्द्दनो
देवता गायत्रीच्छन्दः मम परमपद प्राप्त्यर्थे जपे विनियोगः ।
शिरसि रुद्राय ऋषये नमः ।
मुखे बिल्ववनाधिपतये
जनार्द्दनाय नमः ।
हृदये गायत्री च्छन्दसे नमः ।
ध्यानं — ध्यायेत् बिल्ववनाधीशं वरदं च जनार्द्दनम् ।
प्रदक्षिणा कृता यात्रा साङ्ग एव समर्थिताः ॥ इति ॥
ध्यात्वा यथा-शक्ति जपं कृत्वा जनार्द्दने समर्पयेत् ।
गुह्यातिगुह्यगोप्तस्त्वं गृहाणास्मत् कृतं जपं ॥
इति द्वादशबिल्ववनाधिप जनार्द्दनमन्त्रः ॥८८ ॥
अथ द्वादशवनानां यमुनोत्तरदाक्षिणयोऽर्द्वौ विभागौ ।
आदि-वाराहे—
उत्तरे यमुनायास्तु पं च सङ्ख्याः वनस्थिताः ।
महावनं च भण्डिरंलोहजङ्घान बिल्वकम् ॥
भद्रमेते समाख्याताः यमुनोत्तरकूलगाः ।
यमुनादक्षिणे कुले सप्त सङ्ख्या स्थिता वनाः ॥ ।
तालाख्यं बहुलाख्यं च कुमुदं छत्रखदिरं ।
कोकिलाख्यं वनं काम्यं सप्त दक्षिण कुलगाः ॥
एशां प्रदक्षिणा कार्या श्रमस्त्तस्योपशान्तये ।
विश्रामस्थानमाख्यातं द्वितीयं दक्षिणोत्तरं ।
वनं मधुवनं नाम द्वितीयं मृद्वनं तथा ।
आवासस्थानकं श्रेष्ठमुत्तरे मृद्वनं शुभं ॥
दक्षिणे निर्मितं श्रेष्ठमातासाख्यं मधोर्वनं ।
एतयो र्वनयोश्चैव वनाच्छतगुणं फलं ।
वनानां च द्वयं श्रेष्ठं मृद्वनं च मधोर्वनं ।
८९॥
दक्षिण तटस्थ मधूवनस्याधिपो माधवो देवः ।
उत्तरतटस्थमृद्वनम्याधि वसुदेवो देवः ॥
एतयोऽर्वासुदेव माधवयोर्मन्त्रः ।
अथ मधुवनाधिपमाधव मन्त्रः —
माधवीये — ओं ह्रां ह्रीं मधुवनाधिपतये माधवाय नमः स्वाहा ।
इत्यष्टादशाक्षरो मधुवनाधिपमाधव
मन्त्रः ।
अनेन मन्त्रेण प्राणायाम-त्रयं कुर्यात् ।
अत्य मन्त्रस्य दधीचि ऋषि ऽर्मधुवनाधिपो माधवो देवता ।
अनुष्टुपच्छन्दः ।
मन्(म्)आभीष्ट सिद्ध्यर्थे जपे विनियोगः ।
सिरसि दधीचिऋषये नमः ।
मुखे मधुवनाधिपाय
माधवाय देवतायै नमः ।
हृदयेऽनुष्टुपच्छन्दसे नमः ।
अथ ध्यानं ।
ध्यायेन्-मधुवनाधीशं माधवं मधुसूदनं ।
वनत्रय कृता यात्रा विश्रामं देहि मे प्रभो ॥
इति ध्यात्वा यथा-शक्तिजपं कृत्वा माधवाय समर्पयेत् ।
गुह्यातिगुह्यगोप्तस्त्वं गृहाणास्मत् कृतं जपं ॥
इति मधुवनाधिपमाधव मन्त्रः ॥९०॥
अथ द्वितीयविश्रामस्थान यमुनोत्तर तटस्थ मृद्वनाधिपवासुदेवमन्त्रः ।
कौण्डिन्य-संहितायां—ओं
क्लीं मृद्वनाधिपाप वासुदेवाय स्वधा ।
इति चतुर्द्दशाक्षर मृद्वनाधिप वासुदेवमन्त्रः ।
अनेन मन्त्रेण प्राणायाम
त्रयं कुर्यात् ।
अस्य मन्त्रस्य्-और्व ऋषि मृद्वनाधिप वासुदेवो देवता मा च्छन्दः मम सकलपरिश्रम निवारणार्थे
मृद्वनाधिपवासुदेवमन्त्रजपे विनियोगः ।
शिरसि और्वाय ऋषये नमः ।
मुखे मृद्वनाधिपाय वासुदेवाय
देवतायै नमः ।
हृदये मा च्छन्दसे नमः ।
अथ ध्यानं —
मृद्वनाधिपति ध्यायेद्-वासुदेव व्रजेश्वरं ।
प्रदक्षिणा शुभा कार्या वन-यात्रा समार्थीता ॥ इति ॥
ध्यात्वा यथाशाक्ति जपं कृत्वा तत्र स्थाने समर्पयेत् ॥ गुह्या ०॥
इति द्वितीय विश्राम स्थानमृद्वनाधिपवासुदेव मन्त्रः ॥९१॥
अथ पं च सेव्यवनानि ।आदि-पुराने—
आदौ जह्नुवनं नाम द्वितीयं मेनकावनं ।
कज्जली वननामानं तृतीयं सेव्यसञ्ज्ञकं ॥
नन्दकूपवनं नाम चतुर्थं कृष्णदर्शकं ।
श्रेष्ठं कुशवनं नाम पञ्चमं शुभदायकं ॥
वनानां पं च द्वारानि वनाधिकफलानि च ।
सवनं व्रजलोकस्य सेव्यद्वाराणि पञ्चधा ॥
यथा भागवतं श्रेष्ठं शास्त्रे कृष्णकलेवरं ।
तथैव पृथिवीलोके सबनम् व्रजमण्डल ॥
अस्मिन् वासार्चनाद्दानाध्यापनाद्यजनासनात् ।
स्नानमन्त्रप्रयोगाच्च नमस्कारात्प्रदणिणात् ॥
मृतात् पर्यटनात्तोषात्दर्शनाच्च व्रजौकसाम् ।
चतुवर्गफलं लब्धा सर्वदा सुखमासते ॥९२॥
अथ सवनचतुरष्टक्रोशमर्याद् व्रजमण्डलं भगवदंस्वरूपः ।
विष्णु रहस्ये—
पं च पं च वनस्थानाः भगवदवयवानि च ।
मथुरा हृदयं प्रोक्तं नाभौ मधुवनं शुभं ॥
स्तनौ कुमुदतालाख्यौ भालं वृन्दावनं तथा ।
बाहू द्वौ च समाख्यातौ बहुलाख्यमहावनौ ॥
भाण्डीर कोकिलाख्यातौ द्वौ पादौ परिकीर्त्तीतौ ।
खदिरं भाद्रकं चैव स्कन्धौ द्वौ परिकीर्त्तितौ ॥
छत्राख्य लोहजङ्घानौ लोचनौ द्वौ प्रकीर्त्तितौ ।
बिल्वभद्रौ च श्रोत्रौ द्वौ चिबुकं वनकाम्यकं ।
अस्यां त्रिवेनिकं स्थानं सखीकूपवनं शुभं ।
प्रेमाञ्जनवनावोष्ठौ दन्तौ स्वर्णाख्यविह्वलौ ॥
सुरभीवनं जिह्वा च मयूराख्यं ललाटकं ।
मानेगितवनं नासा नासायाः पुटमण्डलौ ॥
शेषशायीवनं श्रेष्ठं परमानन्दकद्वयं ।
भृकुट्यौ रङ्कवार्त्ताकौ नितम्बौ करहाकमौ ॥
लिङ्गं कर्णवनं चैव कृष्णक्षिपनकं गुदं ।
नन्दनं शिरसं प्रोक्तं पृष्ठमिन्द्रवनं तथा ॥
शीक्षावनं च चन्द्रायाः वनं लोहवनंशुभ ।
नन्दग्रामं च श्रीकुण्डं पं च कृष्णाकराङ्गुलीः ॥
गढस्थानंललितायः ग्रामं भानुपुरं तथा ।
गोकुलं बलदेवं च वामकृष्णकराङ्गुलीः ॥
गोवर्धनं याववटं शुभं सङ्केतकं वनं ।
नारदस्यवनं चैच वनं मधुवनं तथा ॥
एते पं च समाख्याता वामपादाङ्गुली शुभाः ।
मृद्वनं जह्नकं चैव मेनकावनमेव च ॥
कज्जलीनन्दकूपं च पं च वामाङ्घ्रिकङ्गुलीः ।
इति ब्रजवनाख्यातं कृष्णाङ्गपरिसम्भवः ॥
कृष्णस्यावयवाः सन्ति वनान्युपवनानि च ॥
इति पं च पञ्चाशत् सबनादि ब्रज-ग्रामाभगवदङ्गाः ॥९३॥
अथ पञ्चसेव्य वनाधिपाः देवताः ॥ हस्तामलके—
पुरुषोत्तमो जह्नुवनाधिपो देवः ।
अनन्तदेवो मेनका वनाधिपो देव ।
लक्ष्मी
नारायणः कजलीवनाधिपो देवता ।
विङ्कटेशो नन्दकूपवनाधिपो देवः ।
अधोक्षजः कुशवनाधिपो देवः ॥
एषां पं च सेव्यवनानां पञ्चाधिदेवतानां मन्त्रानि ॥९४॥
अगस्त्य संहितायां —
तत्रादौ जह्नुवनाधिप पुरुषोत्तम मन्त्रः —
ओं ग्लां जह्नुवनाधिपतये पुरुषोत्तमाय नमः ।
अस्य मन्त्रस्य लोहित ऋषि जह्नुवनाधिप पुरुषोत्तमा
देवता ।
बृहती च्छन्दः ।
मम सकलैश्वर्य सिद्ध्यर्थे जपे विनियोगः ।
शिरसि लोहिताय ऋषये नम ।
मुखे जह्नुवनाधिपतये पुरुषोत्तमाय देवतायै नमः ।
हृदयं वृहती च्छन्दसे नमः ।
इति सप्तदशाक्षरो जह्नुवनाधिप
पुरुषोत्तम मन्त्रः ।
अनेन मन्त्रेण प्राणायाम-त्रयं कुर्यात् ।
अथा ध्यानं —
ध्याये-ज्जह्नुवनाधीशं श्रीकृष्णं पुरुषोत्तमं ।
प्रदक्षिणा मया कार्या वन-यात्रा समार्थितः ॥ इति ॥
ध्यात्वा यथा-शक्तिजापं कृत्वा तत्र स्थाने समर्पयेत् ॥ गुह्या ०? ॥ इति जह्नुवनाधिप पुरुषोत्तम मन्त्र ॥९५॥
अथ मेनकावनाधिपानन्तदेव मन्त्रः ।
शौनकिये—
ओं क्लीं मेनकावनाधिपतयेऽनन्तदेवाय नम ।
इति सप्तदशाक्षर मेनकावनाधिपानन्त
देव मन्त्रः ।
अनेन मन्त्रेण प्राणायाम-त्रयं कुर्यात् ।
अस्य मन्त्रस्य वात्स्य ऋषिर्-मेनकावनाधिपऽनन्तदेवो
देवता ।
गायत्रीच्छन्दः ।
ममानन्त फल प्राप्त्यर्थ जपे विनियोगः ।शिरसि वात्स्याय ऋषये नमः ।
मुखे मेनका
वनाधिपतयेऽनन्तदेवाय देवतायै नमः ।
हृदये गायत्री च्छन्दसे नमः ।
अथ ध्यानं —
मेनकाख्यवनाध्यक्षमनन्ताख्यं रमापतिं ।
ध्यात्वा प्रदक्षिणीकुर्वन्वन-यात्रा समर्थित ॥ इति ॥
ध्यात्वा यथा-शक्ति जपं कृत्वा तत्र स्थाने समर्पयेत् ॥ गुह्या ०॥ इति मेनकवनाधिपानन्तदेव मन्त्रः ॥९६॥
अथ कजलीवनाधिप लक्ष्मीनारायण मन्त्रः ।
ब्रह्म-यामले—
ओं क्षौं कजलीवनाधिपलक्ष्मीनारायणाय स्वाहा ।
इत्येंएकोन्विंशत्यक्षरो कजलीवनाधिपलक्ष्मीनारायण
युगलमन्त्रः ।
अनेन मन्त्रेण प्राणायाम-त्रयं कुर्यात् ।
अस्य मन्त्रस्य शाण्डिल्य ऋषिः
कजलीवनाधिपो लक्ष्मीनरायणो देवता जगती च्छन्दः मम सकलवाहनादिसौख्यलाभार्थे जपे विनियोगः ।
शरसि शाण्डिल्य ऋषये नमः इत्यादि पूर्वबन्न्यासं कुर्यात् ॥ अथ ध्यानं —
कज्जलाख्यवनाध्यक्षं लक्ष्मीनारायणं हरिं ।
वन्दे यात्रा प्रसङ्गस्तु साङ्ग एव समर्थितः ॥ इति ॥
ध्यात्वा यथा-शक्तिजपं०॥ गुह्या०॥ इति कजलीवनाधिप लक्ष्मीनारायण मन्त्रः ॥९७॥
अथ नन्दकूपवनाधिप्विङ्कटेश मन्त्रः ।
प्रल्हादसंहितायां —
ओं ऐं श्री नन्दकूपवनाधिपतये विङ्कटेशाय नमः ।
इत्येकोनाविंशन्यक्षरो नन्दकूपवनाधिपाविङ्कटेश
मन्त्रः ।
अनेन मन्त्रेण प्राणायामत्रयं कुर्यात् ।
अस्य मन्त्रस्य कौशिक ऋषिः नन्दकूपवनाधिप विङ्कटेशो
देवता वृहतीच्छन्दः मम कृष्णेदर्शनार्थे जपे विनियोगः पूर्ववन्न्यासः ।
अथ ध्यानं
नन्दकूपवनाधीशं वेङ्कटेशं मनोट्रं ।
ध्ययेद्-गोपाल शोभाढ्य सखिभिः परिवेष्टितं ।
इति ध्यात्वा यथा शक्तिजपम् ०॥ गुह्या ०॥ इति नन्दकूपवनाधिप विङ्कटेश मन्त्रः ॥९८।
अथ कुशवनाधिपाधोक्षज मन्त्रः ।
धौम्य संहितायां—
ओं धि ऽर्धीः कुशवनाधिपतयेऽदोक्षजाय नमः ।
इति षोडशाक्षरां कुशवनाधिपाऽ
धोक्षज मन्त्रः ।
अनेन मन्त्रेण प्राणायाम-त्रयं कुर्यात् ।
अस्य मन्त्रस्य धौम्य ऋषिः कुशवनाधिपाऽधोक्षजो
देवता ।
कात्यायनी च्छन्दः ।
मम कुलोद्धर पितृ तृप्यर्थे जपे विनियोगः ।
पूर्ववन्न्यासः ।
अथ ध्यानं —
ध्यायेत् कुशवनाधीशं श्रीवत्साख्यमधोक्षजं ।
पितृणामक्षयं मार्गं वन-यात्रा समर्थितः ॥
इति ध्यात्वा यथा-शक्तिजपं ०॥ गुह्या ०॥ इति पञ्चसेव्यवनाधिपानां मन्त्राणि ॥९ ९॥
अथ द्वादशोपवनाधिपदेवतानां मन्त्राण्युच्यन्ते ।
नारदीयेः —
तत्रादौ ब्रह्मोपवनाधिप गोपीजन वल्लभ मन्त्रः ।
ओं ग्लीं ब्रह्मवनाधिपतये गोपीजनवल्लभाय
स्वाहा ।
इत्येकोनविंशत्यक्षरो ब्रह्मवनाधिपगोपीजन वल्लभ मन्त्रः ।
अनेन मन्त्रेण प्राणायामत्रयं कुर्यात् ।
अस्य मन्त्रस्य हीरण्यगर्भ ऋषिः ब्रह्मवनाधिप गोपीजनवल्लभो देवता गायत्रीच्छन्दः मम युग्मदर्शनार्थे जपे
विनियोगः ।
शिरसि हिरण्यगर्भाय ऋषये नमः ।
मुखे गायत्री च्छन्दसे नमः ।
हृदये गोपीजनवल्लभाय
देवतायै नमः ।
अथः ध्यानं —
ध्यायेत् ब्रह्मवनाधीशं गोपीनां जनवल्लभं ।
वन-यात्रा प्रसङ्गस्तु साङ्ग एव प्रयच्छ मे ॥ इति ॥
ध्यात्वा यथा-शक्तिजपं ॥ गुह्याः०॥ इति ब्रह्मवनाधिप गोपीजनवल्लभ मन्त्रः ॥१००॥
अथाप्सरावनाधिप वामन मन्त्रः ।
पाराशरे—
ओं ग्लौं अप्सरावनाधिपाय वामनाय नमः ।
इति पञ्चदशाक्षरोऽआप्सरावनाधिप वामन
मन्त्रः ।
अनेन मन्त्रेण प्राणायाम-त्रयं कुर्यात् ।
अस्य मन्त्रस्य दीर्घतमा ऋषिः ।
अप्सरावनाधिपो वामनो
देवता ।
अष्टीच्छन्दः ।
ममानेक जलक्रीडा दर्शनार्थे जपे विनियोगः ।
न्यासं पूर्ववत् ।
अथ ध्यानं —
ध्यायेद्वामन रूपाख्यमणुरूपं महत्कृतं ।
अग्रे यच्छ कृता यात्रा साङ्ग एव समर्थितः ॥ इति ॥
ध्यात्त्वा यथा-शक्ति जपं कृत्वा तत्र स्थाने समर्पयेत् ॥ गुह्या०॥ इत्यप्सरावनाधिप वामन मन्त्र ॥१०१॥
अथ विह्वलवनाधिपविह्वल मन्त्रः ।
अगस्त्यसंहितायां—
ओं रौं विह्वलवनाधिपतये विह्वलस्वरूपाय नमः ।
इत्येकोनविंशत्यक्षरो विह्वलोपवनाधिप विह्वल मन्त्रः ।
अनेन मन्त्रेण प्राणायाम-त्रयं कुर्यात् ।
अस्य मन्त्रस्य्ऽआहिर्व्रघ्न ऋषि विह्वलो देवता पङ्क्ति च्छन्दः ।
मम षड् रूप दर्शनार्थे जपे विनियोगः ।
न्यासं पूर्ववत् ।
अथ ध्यानं
राधादिभिर्युतं कृष्णं वन्दे विह्वलरूपिणं ।
वृषभानुपुरा यात्रा साङ्गत्वत्पार्श्वगामिनी ॥ इति ॥
ध्यात्वा यथा-शक्ति जप० गुह्या०॥ इति विह्वलोपवनाधिपविह्वलमन्त्रः ॥१०२॥
अथ कदम्बवनाधिप गोपाल मन्त्रः ।
रामार्चनचन्द्रिकायां—
ओं ह्रीं कदम्बवनाधिपतये गोपालाय स्वाहा ।
इति षोडशाक्षरो कदमबोपवनाधिपगोपालमन्त्रः ।
अनेन मन्त्रेण प्राणायामत्रयं कुर्यात् ।
अस्य मन्त्रस्य भारद्वाज ऋषिः कदम्बवनाधिपो
गोपालो देवता जगतीच्छन्दः मम कदम्बारोहकृष्णादर्शनार्थे जपे विनियोगः ।
न्यासं पुर्ववत् ।
अथ ध्यानं —
मुरलीवादनासक्तं ध्यायेद्गोपालनन्दानं ।
कदम्बनिकटे यात्रा साङ्ग आश्व समर्थितः ॥ इति ॥
ध्यात्वा यथा-शक्ति जप० गुह्या० ।
इति कदम्बोप्पवनाधिप गोपाल मन्त्रः ॥१०३॥
अथ स्वर्णोपवनाधिप बिहारि मन्त्रः — कौण्डिन्यसंहितायां—
ओं क्रौं स्वर्णवनाधिपतये विहारिणे नमः ।
इति पञ्चदशाक्षरो स्वर्णोपवनाधिप
बिहारिमन्त्रः ।
अनेन मन्त्रेण प्राणायाम-त्रयं कुर्यात् ।
अस्य मस्त्रस्य शौनक ऋषिः स्वर्णवनाधिप
बिहारी देवताऽनुष्टुप् च्छन्दः मम श्रीकृष्ण विहार दर्शनार्थे जपे विनियोगः न्यासं पूर्ववत् ।
अथ ध्यानं
ध्यायेत् स्वर्णवनाधीशं राधाकृष्णं विहारिणं ।
कृता यात्रा प्रसङ्गस्तु साङ्ग एव समार्थिताः ॥
इति ध्यात्वा यथा-शक्ति जप० गुह्या०॥ इति स्वर्णवनाधिपबिहारि मन्त्र ॥१०४ ।
अथ सुरभ्युपवनाधिप गोविन्द मन्त्रः ।
शाण्डिल्य-सहितायां—
ओं क्रीं सुरभ्युपवनाधिपतये गोविन्दाय स्वधा ।
इति सप्तदशाक्षरो सुरभ्युपवनाधिप गोविन्द मन्त्रः ।
अनेन मन्त्रेण प्राणायाम-त्रयं कुर्यात् ।
अस्य मन्त्रस्य कोण्डिन्य ऋषिः सुरभ्युपवनाधिप गोविन्दो देवता कात्यायनी च्छन्दः ।
मम सर्वपापक्षय द्वारा
मोक्षपद प्राप्त्यर्थे जपे विनियोगः ।
न्यासं पूर्ववत् ।
अथ ध्यानं —
सुरभ्युपवनाधीशं गोविन्दं कमलाप्रियं ।
वन्दे प्रदक्षिणाकार्प्या सागं एव समर्थितः ॥
इति ध्यात्वा यथा-शक्ति० गुह्या०॥ इति सुरभ्युपवनाधिप गोविन्द मन्त्रः ॥१०५॥
अथ प्रेमोपवनाधिप ललितामोहन मन्त्रः ।
बार्हस्पत्य संहितायां —
ओं ब्रूं प्रेमवनाधिपतयं ललितामोहनाय स्वाहा ।
इति सप्तदशाक्षरो ललितामोहन मन्त्रः ।
अनेन मन्त्रेण प्राणायाम-त्रयं कुर्यात् ।
अस्य मन्त्रस्य गुरु ऋषिः प्रेमोपवनाधिपो ललितामोहनो देवता
उष्णिक्-च्छन्दः मम सकल प्राधान्य कृष्ण दर्शनार्थे जपे विनियोगः ।
न्यासं पूर्ववत् ।
अथ ध्यानं
ध्यायेत् प्रियान्वितं कृष्णं प्रेमपूर्णं मनोहरं ।
वन-यात्रा प्रसङ्गस्तु त्वत्समीपे समर्थितः ॥ इति ॥
ध्यात्वा यथा-शक्ति०॥ गुह्या०॥ इति प्रेमोपवनाधिप ललितामोहन मन्त्रः ॥१०६॥
अथ मयूरवनाधिप-किरीटिनो मन्त्रः ।
शुकोपनिषदिः —
ओं क्षौं मयूरवनाधिपतये किरीटिने स्वधा ।
इति षोडशाक्षरो मयूरवनाधिपमन्त्रः ।
अनेन मन्त्रेण
प्राणायामत्रयं कुर्यात् ।
अस्य मन्त्रस्य नारद ऋषि ऽर्मयूरवनाधिपः किरीटी देवता अष्टी छन्दः ममानेकाल्हाद
दर्शनार्थे जपे विनियोगः ।
न्यासं पूर्ववत् ।
अथ ध्यानं —
मयूराधिपतिं देवं किरीट-मुकुट-धृतं ।
वन्दे नन्दसुतं कृष्णां गोपीभिः परिशोभितं ॥
इति ध्यात्वा यथा-शक्ति०॥ गुह्या०॥ इति मयूरोपवनाधिप किरीटिनो मन्त्रः ॥१०७॥
अथ मानेङ्गीतोपवनाधिप वनमालिनो मन्त्रः ।
सौपर्णोऽपनिषदि —
ओं ग्रौं मानेङ्गितवनाधिपतये वनमालिने नमः ।
इत्यष्टादशक्षरो वनमाली मन्त्रः ।
अनेन मन्त्रेण
प्राणायाम-त्रयं कुर्यात् ।
अस्य मन्त्रस्य्ऽआङ्गिरस ऋषि मानेङ्गितवनाधिप वनमाली देवता गायत्री छन्दः ।
ममानेकसौख्यकृष्णदर्शनार्थे जपे विनियोगः ।
न्यासं पूर्ववत् ।अथ ध्यानं
राधाविज्ञप्तिसंयुक्तं कृष्णं मानविवर्धनं ।
वन्दे त्वद्दर्शानाद्यात्रा साङ्ग एव समर्थितः ।
इति ध्यात्वा यथा-शक्ति जप०॥ गुह्या०॥ इति मानेङ्गितोपवनाधिपवनमालिमन्त्रः ॥१०८ ॥
अथ शेषशयनवनाधिपाच्युत प्रौढानाथ मन्त्रः — भारद्वाजोपनिषदिः—
ओं षां शेषशायिवनाधिपायाच्युताय प्रौढानाथाय नमः ।
इत्येकोनविंशदक्षरो प्रौढानाथ मन्त्रः ।
अनेन मन्त्रेण प्राणायामत्रयं कुर्यात् ।
अस्य मन्त्रस्य रुद्र ऋषिः शेषशयनवननाधिप प्रौढानाथाच्युतो देवता अक्षरा पङ्क्ति छन्दः ।
मम लक्ष्मीसौख्यप्राप्त्यर्थे जपे विनियोगः ।
न्यसं पूर्ववत् ।
अथ ध्यानं—
वन्दे शेषशयानमीश्वरप्रभुं लक्ष्मीपदाव्जे रतं ।
प्रौढआनाथमञ्जुगुणाधिकवरं नारायणं सुन्दरं ॥
कुण्डे श्रीरमणे महोदधिशुभे नित्याभिषेकाभिधं ।
लक्ष्मीनाथविभुं वनाधिक वनं सम्पूर्णमिष्टप्रदम् ॥
इति ध्यात्वा यथा-शक्तिजप०॥ गुह्यातिगुह्य०॥ इति शेषशयनवनाधिपाच्युत प्रौढृआनाथ मन्त्रः ॥१०९॥
अथ श्रीनारदोपवनाधिप मदनगोपाल मन्त्रः ।
नारदीयेः —
ओं क्लीं नारदवनाधिपतये मदनगोपालाय स्वाहा ।
इत्यष्टादशाक्षरो मदनगोपाल मन्त्रः ।
अनेन
मन्त्रेण प्राणायामत्रयं कुर्यात् ।
अस्य मन्त्रस्य कौशिक ऋषि ऽर्नारदवनाधिपो मदनगोपालो देवता कौमारी
च्छन्दः मम सकलममनोरथसिद्धि द्वारा मांएक्षपदप्राप्तये जपे विनियोगः ।
न्यासं पूर्ववत् ।
अथ ध्यानं —
ध्यायेन्मुनिवनधिशं गोपालं मदनाभिधं ।
नवनीतप्रियं कृष्णं वन-यात्रा शुभप्रदं ॥ इति ॥
ध्यत्वा यथा-शक्तिजप०॥ गुह्याति०॥ इति नारदवनाधिप मदनगोपाल मन्त्रः ॥११०॥
अथ परमानन्दवनाधिपादिबद्रीस्वरूप मन्त्रः — गुरूपनिषदि—
ओं ऐं परमानन्दवनाधिपायादिबद्रये नमः ।
इति षोडशाक्षर परमानन्दाधिप
मन्त्रः ।
अनेन मन्त्रेण प्राणायाम-त्रयं कुर्यात् ।
अस्य मन्त्रस्य शौनक ऋषि परमानन्दवनाधिपादिवद्रि
देवता बृहती च्छन्दः ।
ममानेकाल्हाददर्शनार्थे जपे विनियोगः ।
न्यासं पूर्ववत् ।
ध्यानं —
आदिबद्रिस्वरूपं त्वां परमानन्दवर्धनं ।
ध्यायेद्वनाधिपं देवं वन-यात्रावरप्रदम् ॥ इति ॥
द्यात्वा यथा०॥ गुह्या०॥ इति द्वादशोपवनाधिपानां मन्त्राणि ॥१११॥
अथ द्वादश प्रतिवनाधिप मन्त्रः ।
तत्रादौ रङ्क प्रतिवनाधिप नन्दकिशोर मन्त्रः ।
धौम्यौपनिषदि —
ओं क्लीं रङ्कप्रतिवनाधिपतये नन्दाकिशोराय स्वाहा ।
इत्येकोनविंशत्यक्षरो रङ्क प्रतिवनाधिप नन्दकिशोर
मन्त्रः ।
अनेन मन्त्रेण प्राणायाम-त्रयं कुर्यात् ।
अस्य मन्त्रस्य पराशर ऋषि रङ्क प्रतिवनाधिपो
नन्दकिशोरो देवता बृहतीच्छन्दः ।
मम परमोत्सवदर्शनार्थे जपे विनियोगः ।
न्यासं पूर्ववत् ।
अथ ध्यानं —
द्यायेद्रङ्कवनाधीशं किशोरं नन्दनन्दनम् ।
वन-यात्रा कृतां पूर्णां प्रयच्छ मम सर्वदा ॥
इति विज्ञाप्य यथा-शक्ति जपं कृत्वा रङ्कप्रतिवनेऽर्पयेत् ॥ गुह्या०॥ इति रङ्कप्रतिवनाधिपनन्दकिशोर मन्त्रः ॥११२॥
अथ वार्ता प्रातिवनाधिप श्रीकृष्ण मन्त्रः ।
प्रल्हादसांहितायां —
ओं ह्रं वार्त्ताप्रतिवनाधिपतये कृष्णाय नमः ।
इति पं च दशाक्षरो कृष्णमन्त्रः ।
अनेन मन्त्रेण
प्राणायाम-त्रयं कुर्यात् ।
अस्य मन्त्रस्यागस्त्य ऋषि ऽर्वर्त्तावनाधिपः श्रीकृष्णो देवता जगतीच्छन्दः ।
मम
सुबुद्धि फल प्राप्तये जपे विनियोगः ।
न्यासं पूर्ववत् ।
अथ ध्यानं —
वार्त्ताप्रतिवनाधीशं कृष्णं वन्दे कलानिधिं ।
प्रदक्षिणा मया कार्या साङ्ग एव समर्थितः ॥
इति ध्यात्वा यथा-शक्ति०॥ गुह्याति०॥ इति वार्तावनाधिपकृष्ण मन्त्रः ॥११३॥
अथ करह प्रतिवनाधिप मुरलीधर मन्त्रः ।
धौम्योपनिषदि —
ओं ह्रं करहप्रतिवनाधिपतये मुरलीधराय स्वाहा ।
इति विंशत्यक्षरः करहप्रतिवनाधिप मुरलीधर
मन्त्रः ।
अनेन मन्त्रेण प्राणायाम-त्रयं कुर्यात् ।
अस्य मन्त्रस्य मरीचि ऋषि ऽर्करहप्रतिवनाधिपो मुरलीधरो
देवता पङ्क्तिश्छन्द ।
ममानेक सुखकृष्णदर्शनार्थे जपे विनियोगः ।
न्यासं पूर्ववत् ।
अथ ध्यनं —
करहप्रतिवनाधीशं मुरलीधरसञ्ज्ञकम् ।
गोपीभिर्माण्डितं कृष्णं ध्यायेद्यात्रा शुभप्रदम् ॥
इति ध्यात्वा यथा-शक्ति०॥ गुह्या०॥ इति करह प्रतिवनाधिपमुरलीधर मन्त्रः ॥११४॥
अथ कामप्रतिवनाधिप परमेश्वर मन्त्रः ।
माधवीये —
ओं श्रीं कामप्रतिवनाधिपतये परमेश्वराय स्वधा ।
इत्येकोनविंशत्यक्षरो परमेश्वर मन्त्रः ।
अनेन
मन्त्रेण प्राणायाम-त्रयं कुर्यात् ।
अस्य मन्त्रस्य प्रल्हाद ऋषिः कामप्रतिवनाधिपः परमेश्वरो देवता गायत्री
च्छन्दः ममानेककाम प्रपूरणार्थे जपे विनियोगः ।
न्यासं पूर्ववत् ।
अथ ध्यानं —
ध्यायेत्कामवनाधीशं श्रीकृष्णं परमेश्वरं ।
वनप्रदक्षिणा यत्र साङ्ग एव समर्थितः ।
इति ध्यात्वा यथा-शक्ति०॥ गुह्या०॥ इति कामप्रतिवनाधिप परमेश्वरमन्त्रः ॥११५॥
अथाऽञ्जन प्रतिवनाधिप पुण्डरीकाक्ष मन्त्रः ।
पाद्मे—
ओं सौं अञ्जनप्रतिवनाधिपतये पुण्डरीकाक्षाय स्वाहा ।
इत्योङ्कारसहितैकविंशत्यक्षरः
पुण्डरीकाक्ष मन्त्रः ।
अनेन मन्त्रेण प्राणायाम-त्रयं कुर्यात् ।
अस्य मन्त्रस्य गृत्समद ऋषि ऽरञ्जनप्रतिवनाधिप
पुण्डरीकाक्षो देवता अष्टीच्छन्दः मम सकलसौभाग्यसम्पत्फल प्राप्यर्थे जपे विनियोगः ।
न्यासं पूर्ववत् ।
अथ ध्यानं — अञ्जनाख्यवनाधीशं पुण्डरीकाक्षमव्ययं ।
ध्यायेत् प्रदक्षिणा साङ्गा त्यत्समीपे समार्थितः ॥
इति ध्यात्वा यशाशक्ति० ।
गुह्या०॥ इत्यञ्जनाख्यप्रतिवनाधिप पुण्डरीकाक्ष मन्त्रः ॥११६॥
अथ कर्णप्रतिवनाधिप कमलाकर मन्त्रः ।
भृगूपनिषदि —
ओं गौं कर्णप्रतिवनाधिपतये कमलाकराय नमः ।
इत्येकोनविंशत्यक्षरः कर्णप्रतिवनाधिपकमलाकर
मन्त्रः ।
अनेन मन्त्रेण प्राणायामत्रयं कुर्यात् ।
अस्य मन्त्रस्य विराट् ऋषिः कर्णप्रतिवनाधिप कमलाकरो
देवता ।
त्रिष्टुप् छन्दः ।
मम सर्व सौख्य श्रवणार्थे जपे विनियोगः ।
न्यासं पूर्ववत् ।
अथ ध्यानं —
कर्णप्रातिवनाधीशं कमलाकरमीश्वरं ।
ध्यायेत्प्रदक्षिणा साङ्गा यशोदापितृवेश्मनि ॥
इति ध्यात्वा यथा-शक्ति०॥ गुह्या०॥ ११७॥
अथ सप्तमाऽक्षिपनक प्रतिवनाधिप बालकृष्ण मन्त्रः ।
आङ्गिरस-संहितायां—
ओं खौं क्षिपनकप्रतिवनाधिपतये बालकृष्णाय नमः ।
इति विंशत्यक्षरो
बालकृष्ण मन्त्रः ।
अनेन मन्त्रेण प्राणायाम-त्रयं कुर्यात् ।
अस्य मन्त्रस्य वृक्ष ऋषिर्ऽबालकृष्णो देवता ।
अनुष्टुप् छन्दः ।
मम सकलप्रभुत्वसिद्धयर्थे जपे विनियोगः ।
न्यासं पूर्ववत् ।
अथ ध्यानं —
ध्यायेत् क्षिपनकाधीशं बालकृष्णं मनोहरं ।
वन-यात्रा गिंरेस्तीरे साङ्ग एव समर्थिताः ॥ इति ॥
ध्यात्वा यथा-शक्ति०॥ गुह्या०॥ इति क्षिपनकप्रतिवनाधिपबालकृष्ण मन्त्रः ॥११८ ॥
अथ नन्दनप्रातिवनाधिप नन्दनन्दन मन्त्रः ।
स्कान्दे —
ओं नां नन्दनप्रतिवनाधिपाय नन्दनन्दनाय स्वाहा ।
इत्येकोनविंशत्यक्षरो नन्दनन्दन मन्त्रः ।
अनेन मन्त्रेना प्राणायामत्रयं कुर्यत् ।
अस्य मन्त्रस्य वृक्ष ऋषिर्ऽनन्दनप्रतिवनाधिपो नन्दनन्दनो देवता ।
अनुष्टुप छन्दः ।
ममानेकसम्पत्फल प्राप्तये जपे विनियोगः ।
न्यासं पूर्ववत् ।
अथ ध्यानं —
नन्दनाख्यवनाधीशं नन्दनन्दनबालकं ।
ध्यायेद्यात्रा प्रसङ्गस्तु साङ्ग एव समर्थितः ॥ इति ॥
ध्यात्वा यथा-शक्ति०॥ गुह्या०॥ इति नन्दनप्रतिवनाधिपनन्दनन्दन मन्त्रः ॥११९॥
अथेन्द्रप्रतिवनाधिप चक्रपाणि मन्त्रः ।
गारुडोपनिषदि -
ओं क्लीं इन्द्रप्रतिवनाधिपतये चक्रपाणये नमः ।
इत्यष्टादशाक्षरश्चक्रपाणि मन्त्रः ।
अनेन मात्रेण
प्राणायाम-त्रयं कुर्यात् ।
अस्य मन्त्रस्य नारद ऋषिर्ऽइन्द्रप्रतिवनाधिपश्चक्रपाणिर्देवता ।
उष्णिक् छन्दः ।
मम सर्वारिष्टनिवारणार्थे जपे विनियोगः ।
न्यासं पूर्ववत् ।
अथ ध्यानं —
ध्यायेद् इन्द्रवनाधीशं चक्रपाणिं चतुभुर्जं ।
कृता प्रदक्षिणा सिद्धिः साङ्ग एव समर्थिता ॥ इति ॥
ध्यात्वा यथा-शक्ति जपं कृत्वा तत्र स्थाने समर्पयेत् ॥ गुह्या०॥ इतीन्द्रप्रतिवनाधिप चक्रपाणि मन्त्रः ॥१२०॥
अथ शीक्षाप्रतिवनाधिप त्रिवक्रम मन्त्रः ।
नारद पञ्चरात्रे —
ओं रौं शीक्षाप्रतिवनाधिपतये त्रिविक्रमाय नमः ।
इत्यष्टादशाक्षरस्त्रिविक्रम मन्त्रः ।
अनेन मन्त्रेण
प्राणायाम-त्रयं कुर्यात् ।
अस्य मन्त्रस्य ब्रह्मर्षिः शीक्षाप्रतिवनाधिपस्ऽत्रिविक्रमो देवता गायत्रीछन्दः मम
त्रिलोकविजयार्थे जपे विनियोगाः न्यासं पूर्ववत् ।
अथ ध्यानं —
शीक्षाप्रतिवनाधीशं ध्यायेद्देवं त्रिविक्रमं ।
त्रैलोक्यविजयार्थय वन-यात्रा समर्थिता ॥ इति ॥
ध्यात्वा यथा-शक्ति०॥ गुह्या०॥ इति शीक्षाप्रतिवनाधिपा त्रिविक्रम मन्त्रः ॥१२१॥
अथैकादशम चन्द्रावलीप्रतिवनाधिप पीताम्बर मन्त्रः ।
दधीचि संहितायां —
ओं धीर् धांश्चन्द्रावलि प्रतिवनाधीपतये पीताम्बराय स्वाहा ।
इत्येकविंशत्यक्षरश्चन्द्रावलिप्रतिवना
धिपपीताम्बर मन्त्रः ।
अनेन मन्त्रेन प्राणायामत्रयं कुर्यात् ।
अस्य मन्त्रस्य सङ्कुषिकस् ऋषिश्ऽचन्द्रावलिप्रतिवनाधिपपीताम्बरो
देवता जगती छन्दः मम सर्वालङ्कार समृद्धर्थे जपे विनियोगः ।
न्यासं पूर्ववत् ।
अथ ध्यानं — चन्द्रावलिवनाधीशं ध्यायेत्पीताम्बरं हरिं ।
वन-यात्रा प्रसङ्गस्तु साङ्गं एव समर्थितः ॥ इति ॥
ध्यात्वा यथा-शक्ति०॥ गुह्या०॥ इति चन्द्रावालिप्रतिवनाधिपपीताम्बर मन्त्रः ॥१२२॥
अथ द्वादशम लोहप्रतिवनाधिपविष्वक्सेन मन्त्रः ।
विराट संहितायां —
ओं ह्रां लोहप्रतिवनाधिपतये विष्वक्सेनाय नमः ।
इत्यष्टादशाक्षरो विष्वक्सेन मन्त्रः ।
अनेन
मन्त्रेण प्राणायाम-त्रयं कुर्यात् ।
अस्य मन्त्रस्य लोहित ऋषिः लोहप्रतिवनाधिपविष्वक्सेनो देवता वृहती
छन्द ।
ममसकलाभीष्टसिद्ध्यर्थे जपे विनियोगः ।
न्यासं पूर्ववत् ।
अथ ध्यानं —
लोहप्रतिवनाधीशं विष्वक्सेनमजं हरिं ।
वन्दे प्रदक्षिणा कार्या शुभदा स्यात्पदे पदे ॥ इति ॥
ध्यात्वा यथा-शक्तिजपं कृत्वा तत्र समर्पयेत् ॥ गुह्याति०॥ इति द्वादशप्रतिवनाधिपानां मन्त्राणि ॥१२३॥
अथ द्वादशाधिवनानां मथुरादिनां मत्राणयुच्यन्ते ।
तत्रादौ मथुराधिवनाधिप परब्रह्म मन्त्रः —
बौधायन संहितायां—
ओं ह्रां क्लीं मथुराधिपतये परब्रह्मणे नमः ।
इति षोडशाक्षरः परब्रह्म मन्त्रः ।
अनेन मन्त्रेण प्राणयामत्रयं कुर्यात् ।
अस्य मन्त्रस्य धौम्य ऋषिर्ऽमथुराधिवनाधिपः परब्रह्म देवता गायत्री च्छन्दः ।
मम परमपदप्राप्त्यर्थे जपे विनियोगः ।
शिरसि धौम्याय ऋषये नमः मुखे मथुराधिवनाधिपतये
परब्रह्मने देवतायै नमः ।
हृदये गायत्रीच्छन्दसे नमः ।
अथ ध्यानं —
मथुराधिवनाधीशं परब्रह्म सनातनं ।
ध्यायेत् प्रदक्षिणा साङ्ग नवक्रोश प्रमाणतः ॥
इति ध्यात्वा यथा-शक्ति जपं कृत्वा तत्र स्थाने समर्पयेत् ।
इति मथुराधिवनाधिप परब्रह्म मन्त्रः ॥१२४॥
अथ राधाकुण्डाधिवनाधिप राधावल्लभ मन्त्रः ।
बृहन्-नारदीये —
ओं ह्रौं श्रीकुण्डाधिवनाधिपतये रधावल्लभाय स्वाहाः ।
इत्येकोनविंशत्यक्षरे राधावल्लभमन्त्रः ।
अनेन मन्त्रेण प्राणायाम-त्रयं कुर्यात् ।
अस्य मन्त्रस्य नारद ऋषिः राधावल्लभो देवता जगतीच्छन्दः
मम पुत्र पौत्रादि फल-प्राप्त्यर्थे आयुः परिपूरणार्थे जपे विनियोगः ।
न्यासं पूर्ववत् ।
अथ ध्यानं —
राधावल्लभमध्यक्षं श्रीकुण्डाधिवनाधिपं ।
ध्यायेन् मनोरथार्थाय साङ्गा स्याद्वन-यात्रका ॥
इति ध्यात्वा यथा-शक्ति०॥ गुह्या०॥ इति श्रीराधाकुण्डाधिवनाधिपराधावल्लभ मन्त्रः ॥१२५॥
अथ नन्दग्रामाधिवनाधिप यशोदानन्दन मन्त्रः ।
सम्मोहन तन्त्रे —
ओं क्लौं नन्दग्रामाधिवनाधिपतये यशोदानन्दनाय नमः ।
इत्येक विंशत्यक्षरो यशोदानन्दन मन्त्रः ।
अनेन मन्त्रेण प्राणायामत्रयं कुर्यत् ।
अस्य मन्त्रस्य भार्गव ऋषिर्ऽनन्दग्रामाधिवनाधिपो यशोदानन्दनो
देवता ।
अष्टीच्छन्दः मम सकल मनोरथ सिद्धयर्थे जपे विनियोगः ।
न्यसं पूर्ववत् ।
अथ ध्यानं
यशोदानन्दनं वन्दे नन्दग्रामवनाधिपं ।
वृषभानुपुरा यात्रा साङ्ग एव समर्थिता ॥
इति ध्यात्वा यथा-शक्ति०॥ गुह्या०॥ इति नन्दग्रामाधिवनाधिप यशोदानन्दन मन्त्रः ॥१२६॥
अथ वप्राधिवनाधिप नवलकिशोर मन्त्रः ।
भार्गवोपनिषदि—
ओं ग्रौं वप्राधिवनाधिपतये नवल किशोराय स्वधा ।
इत्येकोनविंशत्यक्षरा नवलकिशोर मन्त्रः ।
अनेन मन्त्रेण प्राणायाम-त्रयं कुर्यात् ।
अस्यमन्त्रस्य और्व ऋषिर्ऽवप्राधिवनाधिपो नवलकिशोरो देवता ।
जगतीच्छन्दः ममाधिपत्यसिद्ध्यर्थे जपे विनियोगः ।
न्यासं पूर्ववत् ।
अथ ध्यानं —
वप्राधिविपिनाधीशं किशोरं नवलं प्रभुं ।
ध्यायेद्राज्यप्रदं चक्रं परशङ्कामयापहम् ॥ इति ॥
ध्यात्वा यथा-शक्ति०॥ गुह्या०॥ इति वप्राधिवनाधिपनवलकिशोर मन्त्रः ॥१२७॥
अथ ललिता ग्रामाधिवनानाधिपो व्रजकिशोरमन्त्रः ।
श्रिधरोपनिषदि —
ओं श्रैं ललिताग्रामाधिवनाधिपतये व्रजकिशोराय नमः ।
इत्येयेकविंशत्यक्षरो व्रजकिशोरमन्त्रः ।
अनेन मन्त्रेण प्राणायामत्रयं कुर्यात् ।
अश्य मन्त्रस्य विभाण्डक ऋषिर्ऽव्रजकिशोरो देवता ।
गायत्री छन्दः ।
मम सकल पापक्षयद्वारा युगलकृष्णदर्शणार्थे जपे विनियोगः ।
न्यसं पूर्ववत् ।
अथ ध्यानं — ललितासंयुत कृष्ण सर्वाभिः सखीभिर्युतं ।
ध्यायेत् त्रिवेणीकूपस्थं महारासकृतोत्सवम् ॥
इति ध्यात्वा यथा-शक्ति० गुह्याति० ।
इति ललिता ग्रामाधिवनाधिप व्रजकिशोरमन्त्रः ॥१२८॥
अथ वृषभानुपुराधिवनाधिप राधाकृष्ण मन्त्रः ।
भारद्वाजोपनिषदि —
ओं क्लौं वृषभानुपुराधिवनाधिपतये राधाकृष्णाय स्वधा ।
इत्येकविंशत्य्रक्षरो राधाकृष्ण मन्त्रः ।
अनेन मन्त्रेण प्राणायामत्रयं कुर्यत् ।
अस्य मन्त्रस्य गौतम ऋषि र्वृषभानुपुराधिवनाधिपा राधाकृष्णो देवत्ता
उष्णीक् छन्दः ।
मम सर्व व्रजोत्सवदर्शनार्थे जपे विनियोगः न्यासं पूर्ववत् ।
अथ ध्यानं — राधया सहितं कृष्णं ब्रह्मपर्वतसंस्थितं ।
वन्दे प्रदक्षीणा साङ्ग सर्वदा वरदायकम् ॥
इति ध्यात्वा यथा-शक्ति० गुह्या० ।
इति श्रीवृषभानुपुराधिवनाधिप राधाकृष्णा मन्त्रः ॥१२९॥
अथ श्रीगोकुलाधिवनाधिप गोकुलचन्द्रमामन्त्रः ।
बृहद्-गौतमीये —
ओं क्लीं गोकुलाधिवनाधिपाय गोकुलचन्द्रमसे स्वाहा ।
इति विंशत्यक्षरो गोकुलचन्द्रमा मन्त्रः ।
अनेन मन्त्रेण प्राणायाम-त्रयं कुर्यात् ।
अस्य मन्त्रस्य शाण्डिल्य ऋषि र्गोकुलाधिवनाधिपो गोकुलचन्द्रमा
देवता गायत्री छन्दः मम बालकृष्णदर्शनार्थे जपे विनियोगः ।
न्यासं पूर्ववत् ।
अथ ध्यानं — पञ्चाब्दरूपिणं कृष्णं गोकुलेश्वरमीश्वरं ।
द्यायेदुत्तरकोटीभिः यात्रा साङ्ग समर्थिता ॥
इति ध्यात्वा यथाशति० गुह्या० ।
इति गोकुलाधिवनाधिप गोकुलचन्द्रमा मन्त्रः ॥१३०॥
अथ बलदेवाधिवनाधिप कामधेनु मन्त्रः ।
ब्रह्म-संहितायां —
ओं वां बलदेवाधिवनाधिपाय कामधेनवे नमः ।
इत्यष्टादशाक्षरः कामधेनु मन्त्रः ।
अनेन मन्त्रेर
प्राणायाम-त्रयं कुर्यात् ।
अस्य मन्त्रस्य शौनक ऋषि र्बलदेवाधिवनाधिपः कामधेनु देवता ।
अनुष्टुप् छन्दः ।
मम गोधन बृद्ध्यर्थे जपे विनियोगः ।
न्यासं पूर्ववत् ।
अथ ध्यानं — ध्यायेन्मनोहरां देवीं कामधेनु वरप्रदां ।
वन-यात्रा मया कार्या साङ्ग एव समर्थिता ॥ इति ॥
ध्यात्वा यथा-शक्ति० गुह्या०॥ इति बलदेवाधिवनाधिप कामधेनु मन्त्रः ॥१३१॥
अथ नवम गोवर्धनाधिपवनाधिप र्गोवर्धननाथमन्त्रः ।
कोशिकोपनिषदि —
ओं वां गोवर्धनाधिवनाधिपाय गोवर्धननाथाय स्वाहा ।
इति विंशत्यक्षरो गोवर्धननाथ मन्त्रः ।
अनेन मन्त्रेण प्राणायाम-त्रयं कुर्यात् ।
अस्य मन्त्रम्य नारद ऋषि र्गोवर्धनवनाधिपो गोवर्धननाथो देवता ।
अनुष्टुप् छन्दः मम सकल पुण्यफल प्राप्त्यर्थे जपे विनियोगः ।
न्यासं पूर्ववत् ।
अथ ध्यानं — गोवर्धनवनाधीशं नाथं वन्दे जगद्गुरुम् ।
सप्ताब्दरूपिणं कृष्णं वन-यात्रा शुभं भवेत् ॥
इति ध्यात्वा यथा-शक्ति० गुह्या०॥ इति र्गोवर्धनाधिवनाधिप गोवर्धननाथमन्त्रः ॥१३२॥
अथ याववटाधिवनाधिप व्रजवरमन्त्रः ।
शौनकाख्य संहीतायां —
वटाद्वहिः समन्तात्तु सधनं वनमास्तिथम् ।
तमेवाधिवन ख्यातं वटसेवापरायणम् ॥
तस्मिन्मध्ये वटं श्रेष्ठं कृष्णक्रीडावरप्रदम् ।
वटाद्वहिर्वनं ज्ञातं मध्ये चैव वटं स्मृतं ॥
वट व्क्षस्थितं तत्र वटसञ्ज्ञं विधीयते ।
वटपत्रानुसारेण वटलिङ्गांवटनि दर्शयेत् ।
इति वटस्थानलिङ्गा ॥
ओं वः याववटाधिवनाधिपतये व्रजवरायनमः ।
इत्येकोनविंशत्यक्षरो याववटाधिवनाधिपः व्रजवरमन्त्रः ।
अनेन मन्त्रेण प्राणायामत्रयं कुर्यात् ।
अस्य मन्त्रस्य विश्वामित्र ऋषि र्यववटाधिवनाधिपो व्रजवरः
देवता पाङ्क्तिश्छन्द मम सकलसौभाग्यसम्पत्फल-प्राप्यर्थे जपे विनियोगः ।
न्यासं पूर्ववत् ।
ध्यानं — नानाशृङ्गारभूषाणाढ्यम् राधाकृष्णं मनोहरं ।
ध्यायेद्युगलमूर्तिं च वन-यात्रा वरप्रदं ॥
इति ध्यात्वा यथा-शक्ति० गुह्या० ।
इति याववटाधिवनाधिप व्रजवरमन्त्रः ॥१३३॥
अथैकादशमवृन्दावनाधिवनाधिप वईकुण्ठमन्त्रः ।
सूतोपनिषदि —
ओं वृन्दावनाधिवनाधिपतये वैकुण्ठाय नमः ।
इत्यष्टादशाक्षरो वृन्दावनाधिवनाधिपवैकुण्ठमन्त्रः ।
अनेना मन्त्रेण प्राणायाम-त्रयं कुर्यात् ।
अस्य मन्त्रस्य जह्नु ऋषि ऋवृन्दावनाधिवनाधिपो वैकुण्ठो देवता ।
भूश्छन्द ।
मम सकलविद्याप्राप्त्यर्थे जपे विनियोगः ।
न्यासं पूर्ववत् ।
ध्यानं — वृन्दाख्याधिवनाधीशं वैकुण्ठाख्यं जगत्प्रभुं ।
ध्यायेन्न्नारायणं देवं सनकादिभिः संस्तुतम् ॥
इति ध्यात्वा यथा-शक्ति० गुह्या०॥ इति वृन्दावनाधिवनाधिपवैकुण्ठमन्त्रः ॥१३४॥
अथ द्वादशमसङ्केतवटाधिवनाधिपराधारमणमन्त्रः ।
राधा-पटले —
ओं ह्रां क्लीं सः सङ्केटवटाधिवनाधिपतये राधारमणाय नमः ।
इति त्रयविंशाक्षरो राधारमणमन्त्र ।
अनेन मन्त्रेण प्राणायामत्रयं कुर्यात् ।
अस्य मन्त्रस्य ब्रह्म ऋषिः सङ्केतवटाधिवनाधिपो राधारमणो देवता ।
गायत्रीछन्दः मम कृष्णविहारदर्शनार्थे जपे विनियोगः ।
न्यासं पूर्ववत् ।
अथ ध्यानं — राधयाऽशोकनन्दिन्या कृष्णं वैहारिणं हरिं ।
वन्दे सङ्केतशोभाढयं वनाधीशं मनोहरं ॥
इति ध्यात्वा यथा-शक्तिजपं कृत्वा तत्र स्थाने समर्पयेत् ।
गुह्यातिगुह्यगोप्तस्त्वं गृहाणास्मत्कृतं जपम् ॥
इति द्वादशाधिवनाधिपमन्त्रानि ॥१३५॥
इत्यावासकृता मन्त्राः नित्याराधनजापकाः ।
प्रयोगवनसेवायां सर्वकामार्थासीद्धये ॥
इत्यष्टचत्वारसमाश्रितानि वनानि पुण्यानि मनोऽर्थदानि ।
श्रीभट्टनारायणनिर्मितानि व्रजाकराख्याः व्रजमण्डलानि ॥१३६॥
इति श्रीभास्करात्मजश्रीनारायणभट्टगोस्वामीविरचिते व्रजभक्तिविलासे परमहंस-संहितोदाहरणे प्रथमोऽध्यायः ॥
—ओ)०(ओ—
(२)
द्वितीय अध्यायः
अथ द्वादश तपोवनाण्युच्यन्ते ।
वराह-पुरणे
आदौ तपोवनं नाम द्वितीयं भूषणं वनं ।
क्रीडावनं तृतीयं च तुर्यं वत्सवनं स्मृतम् ॥
वनं रूद्रवनं नाम पञ्चमं रमणं वनं ।
षष्ठं ह्यशोकनामानं वनं सप्तमसञ्ज्ञकम् ॥
नारायणं वनं ह्यष्टं नवमाख्यं सखावनम् ।
सखीवनं महाश्रेष्ठं दशमं परिकीर्त्तितम् ॥
कृष्णान्तर्धाननामानमेकादशवनं स्मृतम् ।
वनं मुक्तिवनं नाम द्वादशं तपसाह्वयम् ॥
एते द्वादश आख्यातास्तपोवनमहाफलाः ।
इति द्वादश तपोवनानि ॥१॥
अथ द्वादश मोक्षवनानि ।
आदि-पुराणे
पापाङ्कुशवनं ह्यादौ रोगाङ्कुशवनं द्वयम् ।
सरस्वतीवनं मोक्षं जीवनाख्य चतुर्थकम् ॥
नवलाख्यं वनं श्रेष्ठं पञ्चमं मोक्षसञ्ज्ञकम् ।
किशोराख्यं वनं षष्ठं किशोर्याख्यं च सप्तमम् ॥
अष्टमे च वियोगाख्यं वनं मोक्षप्रदायकम् ।
नवमं च पिपासाख्यं वनं चात्रकसञ्ज्ञकम् ॥
दशमं च तथा प्रोक्त कपिवनमेकादशम् ।
गोदृष्टिवनमाख्यातं द्वादशं मोक्षसञ्ज्ञकम् ॥
एते द्वादश आख्याता मोक्षसञ्ज्ञाः शुभप्रदा ॥ इति द्वादश मोक्षवनानि ॥२॥
अथ द्वादश कामवनानि ।
भविष्ये -
विहस्याख्यं वनं नाम प्रथमं कामनाप्रदम् ।
आहुतवननामानं द्वितीयं शुभदायकम् ॥
कृष्णस्थितिवनं नाम तृतीयं कामनाप्रदम् ।
चेष्टावनं चतुर्थं च पञ्चमं स्वपनं वनम् ॥
गह्वरनाम षष्टं च शुकाख्यं सप्तमं शुभम् ।
कपोतपारखण्डाख्यं वनमष्टम कीर्त्तितम् ॥
नवं चक्रवनं नाम दशमं शेषशायनम् ।
दोलावनं समाख्यातमेकादशमसञ्ज्ञकम् ॥
द्वादशं श्रवणाख्यं च काम सञ्ज्ञा वनाः स्मृताः ॥ इति द्वादश कामनावनानि ॥३॥
अथ द्वादशार्थवनानि ।
स्कान्दे —
आदौ हाहावनं नाम द्वितीयं गायनं वनं ।
गन्धर्वाख्यं तृतीयं च ज्ञानं वनं चतुर्थकम् ॥
राजनीतवनं श्रेष्ठं पञ्चमं परिकीर्त्तितम् ।
षष्टं लेपननामानं वोलखेरा च सप्तमं ॥
मेलनं ह्यष्टमं प्रोक्तं वनं नाम सुखप्रदम् ।
परस्परवनं नाम नवमं पाडरं तथा ॥
दशमं रुद्रवीर्ज्जस्य स्खलनं शुभदं वनम् ।
एकादशममाख्यातं द्वादशं मोहनीवनं ॥
इत्यर्थाख्यावनाख्याता द्वादशा वहुपुण्यदाः ॥ इति द्वादशार्थवनानि ॥४॥
अथ द्वादश धर्मवनानि ।
स्मृत्यर्थसारे —
आदौ जेतवनं नाम द्वयं निम्ववनं तथा ।
गोपीवन तृतीयं च तुर्यं वियद्वनं तथा ॥
पञ्चमं नूपुराख्यं च षष्ठं यक्षवनं तथा ।
सप्तमं पुण्यसञ्ज्ञकं अष्टमाग्रवनं नाम ॥
प्रतिज्ञामुत्तमं नवं चम्पावनं दशमं च ।
कामरुवनेकादशं कृष्णदर्शनसञ्ज्ञकम् ॥
इति द्वादशमाख्यातं धर्मसञ्ज्ञावनं शुभम् ॥ इति द्वादश धर्मवनानि ॥५॥
अथ द्वादशसिद्धवनानि ।
विष्णु-पुराणे —
सारिकाख्यं वनं ह्यादौ विद्रुमाख्यं वनं द्वयं ।
त्रयं पुष्पवनं नाम चतुर्थं मालतीवनं ॥
नाम नागवनं श्रेष्ठं पञ्चमं परिकीर्त्तित ।
षष्ठं रावलनामानं सप्तमं बकुलं वनं ॥
तिलकाख्यं वनं श्रेष्ठमष्टामं परिकीर्त्तितम् ।
नवं दीपवनं नाम दशम श्राद्ध सञ्ज्ञकम् ॥
षट् पदाख्यवनं श्रेष्ठमेकादशं प्रकीर्त्तितम् ।
वनं त्रिभुवनारन्यं च द्वादशं सिद्धिदायकम् ॥
इति द्वादश सिद्धिवनानि ॥६॥
अथैषां षण्णां तपोऽर्थकामधर्ममोक्षसिद्धिवनानां प्रदक्षिणा साङ्गषड्वनानि ।
भविष्योत्तरे —
सूर्यस्पर्शवनाख्यं च वनमादौ प्रकीर्त्तितं ।
द्वयं पात्रवनं नाम त्रयं पितृवनं तथा ।
विहारवननामानं चतुर्थं परिकीर्त्तितं ।
विचित्रवननामानं पञ्चमं शुभदं नृणाम् ॥
षष्ठं विस्मरणाख्यं च षडेते साङ्ग सञ्ज्ञकाः ॥ इति षट् साङ्गवनानि ॥७॥
अथैषां वनानामभ्यन्तर सङ्केटवटाद्याः यमुनायाश्चतुरशितिक्रोशामर्यादान्तरे षोडशवटानि ।
पाद्मे —
सङ्केत्नवटम दौ तु भाण्डीराख्यं वटं द्वयम् ।
जाम्बकाख्यं तृतीयं च तूर्यं शृङ्गारसञ्ज्ञकम् ॥
पञ्चमं वंशीवटं च श्रीवटं नम षष्ठकम् ।
सप्तमं च जटाजूटं कामाख्यवटमष्टमम् ॥
मनोर्थवटकं नाम नवमं परिकीर्त्तितं ।
आशावटं महाश्रेष्ठं दशमं शुभदायकम् ।
अशोकाख्यं वटं श्रेष्ठमेकादशमुदहृतं ।
नाम केलिवटं श्रेष्ठं द्वादशं पारकीर्त्तीतम् ॥
नाम ब्रह्मवटं चैव त्रयोदशमसञ्ज्ञकम् ।
नाम रुद्रवटं श्रेष्ठं चतुर्द्दशमुदाहृतम् ॥
श्रीधराख्यं वटं ख्यातं पञ्चदशममीरितम् ।
सावित्राख्यं वटं श्रेष्ठं सङ्ख्या षोडशनिर्मितम् ॥
इति व्रजमण्डलान्तर षोडशवटानि ॥८॥
अथाष्टसप्ततितपोवनादीनां सप्तसञ्ज्ञिकाणं ततोर्थकामधर्म मोक्षसिद्धि प्रदा प्रदक्षिणासाङ्गाणामेतेषां
वनानामाधिपादेवता उच्यन्ते ।
आदिवाराहे —
तत्रादौ द्वादश ततोवनानामधिपा ।
एते द्वादश तपोवनानि भगवद्बराहरेमणि ।
अथाधिपादेवताः — विष्णुस्तपो
वनाधिपो देवः ।
अटलेश्वरो भूषणवनाधिपो देवः ॥ गरुडध्वजो क्रीडवनाधिपो देवः ॥ गोपालो वत्सवना
धिपो देवः ॥ श्री गोविन्दो रुद्रवनाधिपो देवः ॥ मधुरिपुः रमणवनाधिपा देवः ॥ श्रीरामः अशोकवनाधिपो
देवः ।
शौरिर्नारायणवनाधिपो देवः ।
श्रीपतिः सखावनाधिपो देवः ।
चूडामईणिः सखीवनाधिपो देवः ।
कंसाराति
कृष्णान्तर्ध्यानवनाधिपा देवः ।
अधोक्षजो मुक्त्वनाधिपो देवः ॥ इति द्वादशतपावनाधिपः ॥९॥
अथ द्वादशमोक्षवनाधिपा स्कान्दे —
विश्वम्भरो पापाङ्कुशवनाधिपो देवः ॥ रामेश्वरो रोगङ्कुशवनाधिपो देवः ॥ वागिशो सरस्वती
वनाधिपो देवः ॥ श्रीरामचन्द्रः जीवनवनाधिपो देवः ॥ कैटभजित् नवलवनाधिपो देवः ॥ श्रीवत्सलाञ्छनो
अक्षरवनाधिपो देवः ॥ जयकृष्णः किशोरीवनाधिपो देवः ।
ताडकान्तको वियोगवनाधिपो देवः ।
गोपालेशः
गोदृष्टिवनाधिपो देवः ।
व्रजराजो पिपासावनाधिपा देवः ।
दैत्यारिश्चात्रकाख्यवनाधिपो देवः ।
लक्ष्मणाग्रजो
कपिवनाधिपो देवः ॥ इति द्वादश मोक्षवनाधिपाः ।
एते द्वादश मोक्षवनानि भगवद्वाराहरोमाणि ॥१०॥
अथ द्वादश धर्मवनाधिपा उच्यन्ते ।
पाद्मे —
विजयनाथो विजयारज्यधर्मवनाधिपो देवः ।
रमाप्रियो निम्बवनाधिपो देवः ।
कौस्तुभप्रियः गोपानवनाधिपो
देवः ।
सनातनो वियद्वनाधिपो देवः ।
नवनीतरायः नूपुरवनाधिपो देवः ।
बल्लवीनन्दनः यक्षवना
धिप देवः ।
कल्याणरायः पुण्यवनाधिपो देवः ।
सच्चिदानन्दोऽग्रवनाधिपो देवः ।
परमानन्दो प्रतिज्ञावनाधिपो
देवः ।
मेघश्यामश्चम्पावनाधिपो देवः ।
विश्वेश्वरो कामरुवनाधिपो देवः ।
कदम्बकुसुमोद्भासी कृष्णदर्शनवनाधिपो देवः ।
इति द्वादश धर्मवनाधिप देवाः ॥११॥
अथ द्वादशार्थवनाधिपदेवाः ।
सौपर्ण्योपनिषदि —
असुरान्तकः हाहावनाधिपो देवः ।
वृषासुरविनाशको गानवनाधिपो देवः ।
तृणावर्त्तकृपाकरो
गन्धर्ववनाधिपो देवः ।
व्रजोत्सवो प्रशंसाख्यवनाधिपो देवः ।
नरहरिः नीतिवनाधिपो देवः ।
लोकपालनाथो
लेपनवनाधिपो देवः ।
कपिलः ज्ञानवनाधिपो देवः ।
वृन्दापतिः मेलनवनाधिपो देवः ॥ विजयेश्वरः परस्परवनाधिपो
देवः ॥ कुलग्रामी पाडरवनाधिपो देवः ।
विघ्नहारी वीर्जवनाधिपो देवः ।
कमलेश्वरो मोहनीवनाधिपो
देवः ॥ इति द्वादशार्थवनाधिपाः ॥१२॥
अथ द्वादश कामवनाधिपः ।
विष्णुपुराणे —
दशरथामजो विहम्यवनाधिपो देवः ।
रावणरि राहूतवनाधिपो देवः ।
जनकात्मजो कृष्णस्थितिवनाधिपो
देवः ।
वलिध्वंसी चेष्टावनाधिपो देवः ।
गोलोकेशः स्वपनवनाधिपो देवः ।
गोवर्धनेशो गह्ररवनाधिपो
देवः ।
द्वारकेशो शुकवनाधिपो देवः ।
साम्वकुष्ठविनाशकः कपोतवनाधिपो देवः ।
चन्द्रावलीपतिश्चक्र
वनाधिपो देवः ।
लक्ष्मीनिवासो लघुशेषशायिवनाधिपो देवः ।
गोपतिर्दोलावनाधिपो देवः ।
भक्तवत्सलो
श्रवणवनाधिपो देवः ॥
चतुस्पथाधिपाः प्रोक्ताम्त्वष्टचत्वारसञ्ज्ञकाः ॥ इति द्वादशकामवनाधिपाः ॥१३॥
अथ द्वादश सिद्धवनाधिपाः ।
विष्णु-यामले —
विजयगोविन्दो सारिकावनाधिपो देवः ।
गोकुलेशां विद्रुमवनाधिपो देवः ।
गोपीशः पुष्पवनाधिपो
देवः ।
गोपीकान्तः जातिवनाधिपो देवः ।
हरिगोविन्दो नागवनाधिपो देवः ।
मेघश्यामश्चम्पावनाधिपो देवः ।
श्रीनिवास रावलवनाधिपो देवः ।
अम्बिकेशो बकुलवनाधिपो देवः ।
पूत्नान्तकास्तिलकवनाधिपो देवः ।
जगन्निवासः श्राद्धवनाधिपो देवः ।
त्रिभुवनेशः षट्पदवनाधिपो देवः ।
इति द्वादश सिद्धवनाधिपाः ॥१४॥
अथ षट् प्रदक्षिणा साङ्गवनाधिपाः ।
भविष्ये —
हरिस्सूर्यपतनवनाधिप देवः ।
व्रजभावनो पात्रवनाधिपो देवः ।
राधाकृष्णो पितृवनाधिपां देवः ।
चाणरान्तकां विहारवनाधिपो देवः ।
व्रजपालो विचित्रवनाधिपो देवः ।
हारिकृष्णो विस्मारणवनाधिपो देवः ।
इति षट् प्रदक्षीणा साङ्गवनाधिपाः देवाः ॥१५॥
अथ चतुराशीतिकोशमर्यादमथुरामण्डलमध्ये मर्यादी कृत्य चतुद्दित्क्षु व्रजमण्डलमेकविंशक्रोशपरिमाणीय
चतुः सीमावनानि प्रतापमार्त्तण्डे—
पूर्वं हास्यवनं नाम पश्चिमस्यां पहारिकम् ।
दक्षिणे जह्नुसञ्ज्ञकं सोह्नदाख्यं तथोत्तरे ॥ इति चतुः सिमावानानि ।
अथैषां चतुर्णां चत्वारोऽधिपाः ।
— नारदीयेऽन्तिमपटले—
लीलाकमललोचनो हास्यवनाधिपो देवः ।
विधिपश्यतिलोकेश्वरो पहारवनाधिपो देवः ।
लङ्काधिपकुलध्वंसी जह्नुवनाधिपो देवः ।
श्रीवत्सलाञ्छनः त्रिभुवनवनाधिपां देवः ॥ इति चतुर्थवनाधिपाः ।
अन्योक्तिः — व्रजमण्डलं देवाश्चतुरस्रमण्डलाकारं चतुरशीतिमर्यादं पश्यन्ति ।
ऋषयः शृङ्गारप्रकाश्यं पश्यन्ति ।
मुनयः आत्मभिर्नारदादिभि र्वत्तुर्लमण्डलाकारं पश्यन्ति इति व्रजमण्डलं मथुरामन्डलं मध्यमर्यादीकृत्येति॥१६।
अथ सङ्केतवटादिषोडशवटाधिपाः ।
स्कान्दे भूमिखण्डे —
राधारमणो सङ्केतवटाधिपो देवः ।
गरुडवाहनो भण्डिरवटाधिपो देवः ।
गोपीश्वरो यावटवटाधिपो
देवः ।
रुक्मिणीप्रियः शृङ्गारवटाधिपो देवः ।
वंशीधरो वंशीवटाधिपो देवः ।
लक्ष्मीनृसिंहो श्रीवटाधिपो
देवः ।
राधामोहनो जटाजूटवनाधिपो देवः ।
श्रीनाथः कामवटाधिपो देवः ।
गदापाणि र्मनोरथवटाधिपो देवः ।
विभीषणपरमदस्त्वाशावटाधिपो देवः ।
सीतानन्दकरोऽशोकवटाधिपो देवः ।
कालीयदमनकारकः केलिवटाधिपो देवः ।
गदाधरः ब्रह्मवटधिपो देवः ।
वारिधिबन्धनो रुद्रवटाधिपो देवः ।
रामछन्द्रः श्रिधरोवटाधिपो देवः ।
चक्रधरः सावित्री वटाधिपो देवः ॥ इति सङ्केतवटाधिषोडशवटाधिपाः ॥१७॥
अथ त्रयत्रिंशोत्तरशतानि वनानि यमुनोत्तरदक्षिणतटस्थानि वक्ष्यन्ते ।
भविष्ये — मथुराद्येकनवति
मथुरा ।१। राधाकुण्ड ।२। नन्दग्राम ।३। गढ ।४। ललिताग्राम ।५। वृषभानुपुर ।६। गोवर्धन ।७। कामना
वन ।८। याववट ।९। नारदवन ।१०। सङ्केत ।११। काम्यवन ।११। कोकिलावन ।१३। तालवन ।१४। कुमुदवन ।१५।
छत्रवन ।१६। खदिरवन ।१७। भद्रवन ।१८। बहुलावन ।१९। मधुवन ।२०। जह्नुवन ।२१। मेनकावन ।२२। कजली
वन ।२३। नन्दकूपवन ।२४। कुशवन ।२५। अप्सरावन ।२६। विह्वलवन ।२७। कदम्बवन ।२८। स्वर्णवन ।२९। सुरभी
वन ।३०। प्रेमवन ।३१। मयूरवन ।३२। मानेङ्गितवन ।३३। शेषशयनवन ।३४। वृन्दावन ।३५। परमानन्दवन ।३६।
रङ्कप्रतिवन ।३७। वार्त्तावन ।३८। करहपुरवन ।३९। अञ्जनपुरवन ।४०। कर्णवन ।४१। क्षीपनवन ।४२। नन्दनवन ।४३।
इन्द्रवन ।४४। शिक्षावन ।४५। चन्द्रावलीवन ।४६। लोहवन ।४७। सारिकावन ।४८। जातिवन ।४९। तारावन ।५०।
नागवन ।५१। सूर्यपतनवन ।५२। तिलबन ।५३। त्रिभुवनवन ।५४। विस्मरणवन ।५५। पर्वतपहारीवन ।५६।
अशोकवन ।५७। नारायणवन ।५८। सखीवन ।५९। गोदृष्टिवन ।६०। स्वषनवन ।६१। गह्वरवन ।६२। कपोतवन ।६३।
लघुशेषशयनवन ।६४। हाहावन ।६५। गानवन ।६६। गन्धर्ववन ।६७। ज्ञानवन ।६८। नीतीवन ।६९। लेपनवन ।७०।
प्रशंसावन ।७१। मेलनवन ।७२। परस्परवन ।७३। पाडग्वन ।७४। वीर्यवन ।७५। मोहनीवन ।७६। विजयवन ।७७।
निम्बवन ।७८। गोपानवन ।७९। वियद्वन ।८०। नूपुरवन ।८१। पुण्यवन ।८२। यक्षवन ।८२। अग्रवन ।८४। प्रतिज्ञावन
।८५। कामरुवन ।८६। कृष्णस्थितवन ।८७। पिपासावन ।८८। चात्रगवन ।८९। विहस्यवन ।९०। आह्वानवन ।९१।
कृष्णान्तर्धानवन ।९२। ॥ इत्येक-नवति-वनानि यमुनादक्षिण तटस्थानि ॥१८ ॥
अथ द्विचत्वारिंशद्वनानि यमुमोत्तरतटस्थानि ।
सन्मोहनीतन्त्रे —
महावन ।१। लोहजङ्घानवन ।२। बिल्ववन ।३। मृद्वन ।४। कपिवन ।५। ब्रह्मवन ।६। कामवन ।७।
विद्रूमवन ।८। पुष्पवन ।९। चम्पावन ।१०। बकुलवन ।११। दीपवन ।१२। श्राद्धवन ।१३।
षट्पदवन ।१४। पात्रवन ।१५। चित्रवन ।१६। विहारवन ।१७। विचित्रवन ।१८। हास्यवन ।१९। जाम्व
वन ।२०। तपोवन ।२१। भूषणवन ।२२। वत्सवन ।२३। क्रीडावन ।२४। रुद्रवन ।२५। रमणवन ।२६।
सखावन ।२७। कृष्णान्तर्धानवन ।२८। मुक्तिवन ।२९। पापाङ्कुशवन ।३०। रोगाङ्कुशवन ।३१। सरस्वतीवन ।३२।
नवलवन ।३३। किशोरवन ।३४। किशोरीवन ।३५। वियोगवन ।३६। चेष्टावन ।३७।
सुखवन ।३८। चक्रवन ।३९। दोलावन ।४०। बलदेवस्थल ।४१। गोकुल ।४२। इति द्विचत्वारिंशद्वनानि
यमुनोत्तरतटस्थानि ॥१९॥
अथ षोडशवटानि आह यमुनोत्तरदक्षिणतटयोः ।
भविष्योत्तरे —
समन्तात्तु वटानां च वनमस्ति मनोहरं ।
मध्ये वटं विजानीयात् वटलिङ्गानि पश्यति ॥
अथैवाष्ट सङ्केतवटाद्या यमुनादक्षिणतटस्थाः — सङ्केतवट ।१। याववट ।२। शृङ्गारवट ।३। जटाजूटवट ।४।
वंशीवट ।५। केलिवट ।६। श्रीधरवट ।७। रुद्रवट ।८। इतष्टवटाः यमुनादक्षिणतटस्थाः ।
अथाष्ट भाण्डीरवटाद्याः यमुनोत्तरतटस्थाः — भाण्डीरवट ।१। श्रीवट ।२। कामवट ।३। मनोरथवट ।४।
आशावट ।५। अशोकवट ।६। ब्रह्मवट ।७। सावित्रीवट ।८। इत्यष्टवटाः यमुनोत्तरतटस्थाः ॥२०॥
अथ षोडशवटानां त्रयंस्त्रिशोत्तरशतवनानामभ्यन्तरगतानां स्थानानि तत्र दक्षिणातटस्थानामेकनवतिवनानां
सङ्केतवटाद्याष्टवटेषवेतेषु वनेषु श्रीकृष्णराज्यं ।
यमुनोत्तरतथस्थवनेषु वाष्टवटेषु श्रीबलदेवरामराज्यं ।
अथवनेषु वा वटेषु श्रीराधादीनां नवतिसखीनां भिन्नभिन्नमधिकारराज्यं ।
बृहद्गौतमीये —
वृषभानुपुर ।१। सङ्केतवट ।२। नन्दग्राम ।३। राधाकुण्ड ।४। गोवर्धन ।५। गोपालपुर ।६।
अप्सरावन ।७। नारदवन ।८। सुरभीवन ।९। पाडरवन ।१०। डिम्बवन ।११। इति भानुनन्दिनीराज्यं ॥२१॥
अथ ललिताराज्यमाह ।
नारदीये—
ललिताग्राम१गुर्ज्जपुर २ करहपुर ३ स्वर्णपुर ४ नन्दनवन ५ क्षिपनकवन ६ कर्णवन ७ इन्द्रवन ८ काम्यवन ९ कामनावन १० रङ्कपुरवन ११ अञ्जनपुर १२ शृङ्गारवट १३ भाण्डीरवट १४ एतेषु द्वादशवनेषु द्वयोर्वटयोर्ललिताधिकारराज्यम् ॥२२॥
अथ विशाखाधिकारराज्यं — चिवित्सपुर१पिपासावन २ चात्रगवन ३ जीवनवन ४ कपिवन
५ विहत्यवन ६ आहूतवन ७ वंशीवट ८ जटाजूटबट ९ इत्येतेष सप्तवनेषु द्वयोर्वटयो र्विशाखाराज्यं॥२३॥
अथ चम्पकलतिकाधिकारराज्यं ।
सम्मांहनीये—
मथुरा मण्डलं१कृष्णस्थितिवनं २ गढवनं ३ गोकुलकृष्णधाम ४ बलदेवस्थलं ५ श्रीवट ६ कामवट ७ इत्येतेषु पञ्चषु वनेषु द्वयोर्वटयोश्चःपकलताधिकारराज्यं ॥२४॥
अथ तुङ्गदेव्यधिकारराज्यं ।
भविष्यपुराणे भूमिखण्डे लक्ष्मीनारायणसंवादे—
याववटवनं१सारिकावनं २ विद्रुमवनं ३ पुष्पवनं ४ जातीवनं ५ मनोरथवट ६ आशावट ७ इत्येतेषु पञ्चषु वनेषु द्वयोर्वटयोस्तुङ्गदेव्यधिकारराज्यं ॥२५॥
अथ रङ्गदेव्यधिकारराज्यं ।
गरुडसंहितायां—
चम्पावनं१नागवनं २ तारावनं ३ सूर्यपतनवनं ४ बकुलवनं ५ अशोकवट ६ केलिवट ७ इत्येतेषु पञ्चवनेषु द्वयोर्वटयो रङ्गदेव्यधिकारराज्यं ॥२६॥
अथ चित्रलेखाधिकारराज्य्ं — तिलकवनं१दीपवनं २ श्राद्धवनं ३ षट्पदवनं ४ त्रिभुवनवनं ५।
ब्रह्मवट ६ इत्येतेषु पञ्चवनेष्केकस्मिन्वटे चित्रलेखाधिकारराज्यं ॥२७॥
अथेन्दुलेखाधिकारराज्यं — पात्रवनं१पितृवनं २ विहारवनं ३ विचित्रवनं ४ विस्मरणवन ५
हास्यवनं ६ रुद्रवट ७ इत्येतेषु षड्वनेष्केकस्मिन्वटे चेन्दुलेखाधिकारराज्यं ॥२८ ॥
अथ सुदेव्याधिकारराज्यं ।
बृहत्पराशरे—
जह्नुवनं ॥१॥ पहारवनं २॥ लोहवनं ॥३॥ भाण्डीरवनं ॥४॥ छत्रवनं ॥५॥ खदिरवनं ६॥ सौमनवट ॥७॥ इत्येतेषु षड्वनेष्वेकस्मिन् वटे च सुदेव्यधिकारराज्यं ।
इति श्रीराधादीनामधिकारराज्यं ॥२९॥
अथ चन्द्रावल्यधिकारराज्यं — कुमुदवनं चन्द्रावलीवनं महावनं कोकिलावनं तालवन लोहवनं
भाण्डीरवनं छत्रवन खदिरवनं सौमनवट इत्येतेषु नववनेष्वेकस्मिन्वटेषु चन्द्रावल्यधिकारराज्यं ॥३०॥
अथ ललितादिनवसखीनां द्विसप्तत्युपसखीनां द्विसप्ततिवनेषु राज्याधिकारः ।
ब्रह्मयामले —
तत्रादौ ललितोपसखीनामधिकारराज्यं — वार्त्तावने सुमनाराज्यं ॥१॥ परमानन्दवने सुखिवयाधिकारराज्यं ॥२॥
वृन्दावने काञ्च्याधिकारराज्यं ॥३॥ शेषशयनवने दीपिकाधिकाररज्यं ॥४॥
मानेङ्गितवने मदीपिकाधिरराज्यं ॥५॥ मयूरवने नागर्याधिकारराज्यं ॥६॥ कदम्बवने प्रबलाधिकारराज्यं ॥७॥
बिल्ववने गौर्याधिकारराज्यं ।
८ ॥ इति ललिताष्टोपसखीनां सुमनादीनामधिकर
राज्यं ॥३१॥
अथ विशाखोपसखीनामधिकारराज्यं — ब्रम्हवने मङ्गलाधिकारराज्यं ॥१॥ कुशवने सुमुख्याधिकारराज्यं ।
। २॥
नन्दकूपवने पद्माधिकारराज्यं ॥३॥ कजलीवने सुपद्माधिकारराज्यं ॥४॥ मेनकावने
मनोहराधिकारराज्यं ॥५॥ जह्नुवने सुपत्राधिकारराज्यं ॥६॥ मृद्वने वहुपत्राधिकारराज्यं ॥७॥ मधुवने
पद्मारेखाधिकारराज्यं ॥८॥ इति विशाखोपसखीनामधिकारराज्यं ॥३२॥
अथ चम्पकलतोपसखीनामधिकारराज्यं ।
गौतमीये —
बहुलावने सुकेश्याधिकारराज्यं ॥१॥ बिल्ववने पद्मनयनाधिकारराज्य ॥२॥ भद्रवने
सुनेत्राधिकारराज्य ॥३॥ लोहजङ्घावने काम्यदीपिकाधिकारराज्यं ॥४॥ वत्सवने प्रदीपिकाधिकारराज्यं
तपोवने सुकर्णाधीकारराज्यं ॥६॥ भूषणवने रागसंयुक्तवेनिङ्काधिकारराज्यं ॥७॥ क्रीडावने नवनीतप्रियाधिकारराज्यं ॥८॥
इति चम्पकलतोपसखीनामधिकारराज्यं ॥३३॥
अथ चित्रलेखोपसखीनामधिकारराज्यं ॥
रुद्रवने रङ्गवल्लभाधिकारराज्यं ।
।१॥ रमणवने सुवल्ल्याधिकारराज्यं ॥२॥ अशोकवने पद्मवल्ल्याधिकारराज्यं ॥३
नारायणवने मरीचिकाधिकारराज्यं ।४। सखावने शिवनील्यधिकारराज्यं ॥५॥
सखीवने सत्यधिकारराज्यं ॥६॥ कृष्णान्तर्धानवने साध्व्याधिकारराज्यं ।७॥ मुक्तिवने ब्रह्मवल्ल्यधिकारराज्यं
८॥ इति चित्रलेखोपसखीनांअधिकारराज्यं ॥३४॥
अथ तुङ्गदेव्युपसखीनामधिकारराज्यं ।
सम्मोहनीये —
पापाङ्कुशवने वीरदेव्यधिकारराज्यं ॥१॥ रोगाङ्कुशवने भद्रदेव्यधिकारराज्यं ॥२॥ सरस्वती
वने मनोहरादेव्यधिकारराज्यं ॥३ ।
नवलवने मनोत्सवाधिकारराज्यं ॥४ ।
किशोरवने कामदेव्यधिकार
राज्यं ॥५॥ किशोरीवने नृदेव्यधिकारराज्यं ॥६॥ वियोगवने स्नेहदेव्यधिकाररज्यं ॥७॥ गोदृष्टिवने
मनोमाधिकारराज्यं ॥८॥ इति तुङ्गदेव्युपसखिनामधिकारराज्यं ॥२५॥
अथेन्दुलेखोपसखीनामधिकारज्यं ।
त्रैलोक्यशम्मोहनतन्त्रे —
चेष्टावने सुलेखाधिकारराज्यं ॥१॥ स्वपनवने पद्मवदन्यधिकारराज्यं ॥२॥ गह्वरवने विचि
त्राधिकारराज्यं ॥३॥ शुकवने कामकुन्तलाधिकाररज्यं ॥४ ।
कपोतवने सुगन्धाधिकारराज्यं ॥५॥
चक्रवने नागकेश्यधिकारराज्यं ॥६॥ लघुशेषशायीवने कटिसैन्द्यधिकारराज्यं ॥७॥ दोलावने सुलतिका
धिकारराज्यं ॥८॥ इतीन्दुलेखोपसखीनामधिकारराज्यं ॥३६॥
अथ रङ्गदेव्युपसखीनां श्रीदेव्यादीनामधिकारराज्यं —
हाहावने श्रीदेव्याधिकारराज्यं ॥१॥ गानवने कमलासनाधिकारराज्यं ॥२॥ गन्धर्ववने बलदेव्यधिकारराज्यं ॥३॥
ज्ञानवने महादेव्यधिकारराज्यं ॥४॥ नीतिवने रञ्जनाधिकारराज्यं ॥५॥
श्रीवने कलिरञ्जनाधिकारराज्यं ॥६॥ लेपनवने कामदेव्यधिकारराज्यं ॥७॥ प्रंशसावने कमलाकान्ताधि
कारराज्यं ॥८॥ इति रङ्गदेव्युपसखीनामधिकारराज्यं ॥३७॥
अथ सुदेव्युपसखीनां रतिक्रीडादीनामधिकारराज्यं ।
प्रभासखण्डे —
मेलनवने रतिक्रीडाधिकारराज्यं ॥१॥ परस्परवने विशालाधिकारराज्यं ॥२॥ पाडरवने ऽन्ति
काधिकारराज्यं ॥३॥ रुद्रवीर्यस्खलनवने कामललिताधिकारराज्यं ॥४॥ मोहिनीवने निराज्यधिकारराज्यं
॥५॥ वियद्वने महालीलाधिकारराज्यं ॥६॥ निम्ववने कोमलाङ्ग्यधिकारराज्यं ॥७॥ गोपानवने
विश्रुताधिकारराज्यं ॥८॥ इति सुदेव्युपसखीनामधिकारराज्यं ॥३८ ॥
अथ चन्द्रावल्युपासखीनां रागलेखादीनाम्मधिकाररज्यं ।
वियद्वने रागलेखाधिकारराज्यं ॥१॥ नूपुरवने कलाकेल्यधिकारराज्यं ॥२॥ पक्षवने पालिकाररज्यं ॥३॥
पुण्यवने मनोरमाधिकारराज्यं ॥४॥ अग्रवने मनोत्साहाधिकारराज्यं ॥५॥ प्रतिज्ञावने
उल्लासिकाधिकारराज्यं ॥६॥ कामोरुवने विशालिकाधिकारराज्यं ॥७॥ कृष्णदर्शनवने पद्माधिकार
राज्यं ॥८॥ इति चन्द्रावल्युपसखीनामधिकारराज्यं ॥ इति सप्तत्रिंशोत्तरशतेषु वनेषु राधादिसख्युपसखी
नामधिकारराज्यानि ॥३९॥
अथ सप्तत्रिंशोत्तरशतवनानां षोडशवटानां च प्रदक्षिणा परिमाणमाह ।
भविष्ये —
तत्रादौ मथुरामण्डलस्य प्रदक्षिणा नवक्रोशपरिमाणम् ।
राधाकुण्डगोवर्धनयोरुभयोः प्रदक्षिणा
सप्तक्रोशपरिमाणम् ।
सीमामर्यादीकृत्य प्रदक्षिणा परिमाणम् ।
नन्दग्रामस्य क्रोशद्वयम् ।
गढृवनस्य प्रदक्षिणा
सार्धक्रोशद्वयम् ।
ललिताग्रामस्य प्र० क्रोशत्रयम् ।
बलदेवस्थानस्य प्र० सार्धकोशद्वयम् कामनावनस्य प्र०
क्रोशमेकम् ।
याववटवनस्य प्र० सार्धक्रोशद्वयम् ।
नारदवनस्य प्र० पादोनक्रोशम् ।
सकेतवटस्य प्र० सार्ध
क्रोशमेकम् ।
सारिकावनस्य प्र० क्रोशमेकम् ।
विद्रुमवनस्य प्र० क्रोशार्धम् ।
पुष्पवनस्य प्र० क्रोशपरिमाणं ।
जातीवनस्य सपादक्रोशम् ।
चम्पावनस्य क्रोशद्वयं ।
नागवनस्य सार्धक्रोशम् ।
तारावनस्य सार्धक्रोशद्वयम् ।
सूर्यपतनवनस्य पादोनक्रोशद्वयम् ।
बकुलवनस्य क्रोशपरिमाणं ।
तिलकवनस्य सपादक्रोंशम् ।
दीपवनस्य
क्रोशद्वयम् ।
श्राद्धवनस्य सार्धक्रोशमेकम् ।
षट्पदवनस्य सपादक्रोशद्वयम् ।
त्रिभुवनवनस्य पादोनक्रोशत्रयम् ।
सपादक्रोशम् ।
नवलवनस्य पादोनक्रोशम् ।
किशोरवनस्य क्रोशार्धम् ।
किशोरावनस्य क्रोशमेकम् ।
वियोग
वनस्य क्रोशार्धम् ।
गोदृष्टीवनस्य सार्धक्रोशत्रयम् ।
चेष्टावनस्य पदोनक्रोशम् ।
स्वपनवस्य क्रोशार्धम् ।
गह्वरवनस्यैव क्रोशार्धम् ।
शुकवनस्य पादक्रोशम् ।
कपोतवनस्य पादोनक्रोशम् ।
चक्रवनस्य क्रोशमेकम् ।
लघुशेषशयनवनस्य पादोनक्रोशद्वयम् ।
दोल वनस्य क्रोशार्धं ।
हाहावनस्य पादक्रोशम् ।
गानवनस्य
सपादक्रोशम् ।
गन्धर्ववनस्य पादोनक्रोशम् ।
ज्ञनवनस्य क्रोशार्धम् ।
नीतिवनस्य क्रोशमेकम् ।
श्रवणवनस्य
क्रोशार्धम् ।
लेपनवनस्य सार्धक्रोशम् ।
। प्रशसावनस्य पादक्रोशम् ।
मेलनवनस्य पादोनक्रोशम् ।
परस्परवनस्य
क्रोशमेकम् ।
पाडरवनस्य सपादक्रोशम् ।
रुद्रवीर्यस्खलनवनस्य क्रोशद्वयम् ।
मोहिनीवनस्य सार्धक्रोशम् ।
विजयवनस्य क्रोशमेकम् ।
निम्बवनस्य सपादक्रोशम् ।
गोपानवनस्य क्रोशद्वयम् ।
वियद्वनस्य पादोनक्रोश
द्वयम् ।
नूपुरवनस्य क्रोशार्धम् ।
पक्षवनस्य पदक्रोशं ।
पुन्यवनस्य क्रोशमेकम् ।
अग्रवनस्य सार्धक्रोशं ।
प्रतिज्ञावनस्य क्रोशत्रयम् ।
कामोरुवनस्य सपादक्रोशद्वयम् ।
कृष्णदर्शनवनस्य प्रदक्षिणा सार्धक्रोशम् ॥
सप्तत्रिंशोत्तरशत मथुरामण्डलादिवनानां प्रदक्षिणापरीमणं ।
भविष्योत्तरे —
कार्या प्रदक्षिणा नित्यं सकामानामशेषितम् ।
सर्वकामानवाप्नोति वनानां शुभदायिनी ॥४०॥
अथ सङ्केतवटादिषोडशवटानां प्रदाक्षिणापारिमाणमाह ।
त्रैलोक्यं सम्मोहनतन्त्रे —
सङ्केतवटस्य प्रदक्षिणा पादक्रोशम् ।
भण्डिरवटस्य प्रदक्षिणा क्रोशार्धम् ।
याववटस्य प्र० पादोन
क्रोशम् ।
शृङ्गारवटस्य प्र० पादक्रोशं ।
वंशिवटस्य सपादक्रोशं ।
जटाजूटवटस्य पादार्धक्रोशम् ।
श्रीवटस्य
पादक्रोशमेकम् ।
कामवटस्य सार्धक्रोशद्वयम् ।
मनोरथवटस्य क्रोशद्वयम् ।
आशावटस्य पादोनक्रोशद्वयम् ।
अशोकवटस्य क्रोशमेकम् ।
केलिवटस्य क्रोशत्रयम् ।
ब्रह्मवटस्य सार्धक्रोशमेकम् ।
रुद्रवटस्य पादोनक्रोशम् ।
श्रीधरवटस्य पादोनक्रोशं ।
सावित्रीवटस्य पादार्धक्रोशं प्रदक्षिणा ।
नित्यं प्रदक्षिणं कुर्याद्वटानां वरदायिनाम् ।
भगवद्दर्शनं लब्ध्वा भगवान् वरदो भवेत् ॥
मध्यस्थलं समारभ्य चतुद्दिक्षु समानतः ।
परिक्रमणमर्यादं विधिपूर्वं समाचरेत् ॥
इति षोडशवटानां प्रदक्षिणापरिमाणम् ॥४१॥
अथमथुरामण्डलादि समस्तव्रजमण्डल सप्तत्रिंशोत्तरशतबनेषु वा षोडशवटेषु तीर्थस्वरूपमाह ।
तत्रादौ मथुरापुरे चतुरशीतितीर्थदेवताः दक्षिणोत्तरकोट्यस्थास्त्वभ्यन्तरस्था ॥ तत्र त्रयो विभागाः ।
षड्विंशनितीर्थादेवताः मथुरायाः दक्षिणस्थाः हनुमदादकोटिसञ्ज्ञाः ।
पञ्चत्रिंशत् तीर्थदेवताः मथुराभ्यन्त
रस्थाः ।
देवमथुराणां कृतेश्वरसञ्ज्ञाः ।
हनुमन्मूर्त्तिः ।
१॥ ततो दीर्घकेशवः ॥२॥ ततो भूतेश्वरः ॥३॥
ततो पद्मनाभः ॥४॥ दीर्घविष्णुमूर्त्तिः ॥५ ।
वसुमतीसरोवर्यामेते पञ्चदेवतामूर्त्तयः ।
वसुमतीतीर्थे
मथुरादक्षिणतटस्थे ॥६॥ ततो दुर्गसेनी चर्चिकानदी ।
तस्या दक्षिणे भागे आयूधस्थानं ।
तस्मिन्निकटे
ऽपराजितादेवी ।
तत्समीपे कण्सवान्तिकास्थानम् ॥१०॥ तत वास्तुको दक्षिणकोटिसरोवरः ।
ततो वधूद्याख्यं गृहदेवी ।
दक्षिण कोटीश्वरस्वरूपं ।
उछवासं वत्सपुत्रं अर्कस्थलं ।
विर्यस्थलं ।
कुशस्थलं ।
पुष्पस्थलं ।
महत्स्थलं ॥ एतेषां प्रदक्षीणा संसिद्ध्यर्थं सिद्धिमुखाशी स्वरूपं स्थापितम् ।
ततः शिवकुण्डमस्ति तस्य कुण्डस्य
तीरस्थाः पञ्चदेवताः ।
हयमुक्ताख्यं कृष्णस्वरुपं ।
सिन्दुरीसिन्दुराख्ये द्वे लवणासुरस्य पटराज्ञी लवणगुहा ।
शत्रुघ्नस्वरूपं ।
ततो गुह्यतीर्थं ।
मरिचिकाचिह्नं तत्समन्तान्मल्लिकावनं ।
तन्मध्ये कदम्बखण्डं ।
तन्मध्ये
लोकसिद्धमल्लख्यादेवी ।
ततो अस्पृशासस्पृशे द्वे पुष्कारिण्यौ तत्समीपे उल्लोलकुण्डं ।
तत्र चर्चिकादेवी ।
ततः कंसखातम् ।
तत्र भूतेश्वराख्यो महादेवः ।
सेतुबन्धाख्यं कृष्णस्वरूपं ।
वल्लभीमूर्त्तिः ।
गोपीगानस्थानं
कृष्णे रङ्गभूमौ स्थिते सति इति षट्त्रिंशत्तीर्थदेवता मथुरा दक्षिणतटस्था दक्षिणकोटिसज्ञाः ।
ततः उत्तरको
ट्यास्तीर्थादेवताः ।
कुक्कुटस्थानं ।
तत्र शाम्भोच्छायमण्डलम् ।
वसुदेवदेवकीस्वपनस्थलम् ।
तत्रैव नारायण
स्थानं सिद्धविनायकाख्यागणेशस्वरूपम् ।
कुब्जिकावामनस्थानम् ।
गर्त्तेश्वराख्यमहादेवः ।
लोहजङ्घस्वरूपम् ।
प्रभाल्लल्याख्यदेवीमूर्त्तिः ।
सङ्केतेश्वरदेवीमूर्त्तिः ।
इत्येकादशतीर्थस्थानमूर्तयः ॥ देवकीकुण्डं ।
ततो महातीर्थ
सरोवरी ।
तस्यामष्टदेवतास्थानाः ॥ गोकर्णाख्य ऋषिस्वरूपम् ।
सरस्वतीस्वरूपम् विघ्नराजाख्यगणेशमूर्त्तिः ।
गार्ग्याख्या गोकर्णऋषिवृहत्पत्नी ।
शार्ग्याख्यालघुपत्नीमूर्त्तिः ।
महालयाख्यरुद्रमूर्त्तिः ।
उत्तरकोटीशाख्य गणेश
मूर्त्तिं ।
दूयूतम्थानम् ।
इत्यस्तदेवतास्थानाः महतिर्थनाम्नि सरासि गर्ग्यीख्यन्दीतीर्थमस्ति ।
तत्र रुद्रमहाल
याख्यमन्दिरम् ।
ततो विघ्न्राजं कुण्डतीर्थं ।
तत्र द्वयोरभ्यन्तरे मार्गे भद्रेश्वराख्यमहादेवमूर्तिः ।
ततः सोमकुण्डतीर्थं
यमुनाभ्यन्तरस्थम् ।
तत्र सोमेश्वराख्य महादेवमुर्त्तिः ।
ततो सरस्वतीआसङ्गमाख्यतान्तिर्थमस्ति ।
तत्रैव घण्टाभरणकश्रवणं ।
गण्डकेशवाख्यविष्णुमूर्त्तिः ।
ततो धारालोपनकवैकुण्ठाधाममान्दिरम् ।
तत्समीपे
खण्डवृषभमूर्त्तिः ।
ततो मण्डिकन्या पुष्करिनितिर्थमस्ति ।
तत्रापि विमुक्त्तेश्वराख्यमहादेवमूर्त्तीः ॥ इति
पञ्चत्रिंशत् मूर्त्तयः मथुरोत्तरतटस्था-तूतरकोटिंसञ्ज्ञाः ॥ अता मथुराभ्यन्तरस्थास्तीर्थदेवतास्त्रयोदश ।
आदित्यपुराणे —
क्षेत्रपालाख्यशिवमूर्त्तीः ।विश्रान्तितीर्थम् ।
गतश्रमप्रदक्षिणस्थानम् ।
तस्योपरि-सुमङ्गलाख्यदेवी
मूर्त्तिः ।
तत्पाश्वे पिप्पलादेश्वराख्य विष्णुमूर्त्तिः ।
तत्र वज्रनाभख्यहनुमन्मूऋत्तिः ।
सम्वरणदाख्यशिवमूर्त्तिः ।
तत्पार्श्वे सूर्यमूर्त्तिः ।
सूर्यसम्बरणाख्य ऋषिमूर्त्तिः ।
एतेषु मध्ये कुलेश्वराख्यविष्णुमूर्त्तिः ।
पञ्चाङ्गस्थानं ।
रामघाटं ।
चीरघाटं ।
गोपीघाटं ।
सूर्यकुण्डं ।
ध्रुवक्षेत्र ।
गोपीकनितोदनस्थलं ।
कुवलयापीडवधस्थलं ।
चाणूरमुष्टिकवधस्थानं ।
कंसशयनस्थन्नं ।
उग्रसेनिकारागृहस्थानं ।
उग्रसेनिराज्याभिषेकस्थानम् ॥ इति मथुरा
मण्डलाधिदेवतास्थानतीर्थः ॥४२॥
अथ श्रीकुण्डवनम् ।
आदिवाराहे — गोपिकाकुण्डं ।
अरिष्टवनमस्ति ।
तत्र धेनुकासुरवधस्थानम् ।
तत्पर्श्वे ललितामोहनाख्यौ द्वौ कुण्डौ ।
ततो दक्षिणपार्श्वे द्वौ कुण्डौ राधाकृष्णाख्यौ ।
तयोः सङ्गमपार्श्वे
सखीमण्डलं ।
ललितया ग्रन्थिदत्तं स्थानम् ।
कलाकेलिसखीविवाहस्थलम् ।
तत्समीपे राधावल्लभमूर्त्तिः ।
तत्रैव श्रीमन्मदनगोपालमूर्त्तिः ।
इति श्रीकुण्डलिङ्गानि ॥४३॥
ततो नन्दग्रामतीर्थदेवताः ।
वाराहे — ग्रामस्य पश्चिमभागे मधुसूदनकुण्डं ।
तत्रैव मधुसूदनमुर्त्तिः ।
श्रीयशोदाकुण्डं ।
पाषाणस्वरूपका कृष्णदर्शकाः ।
हावकानां मुर्त्तायः ।
ललिताकुण्डं ।
तत्पार्श्वे मोहनकुण्डं ।
दोहनीकुण्डम् ।
दुग्धकुण्डं ।
कृष्णदधिभाण्डभञ्जनात् प्रपूरितं दधिकुण्डम् ।
ग्रामादग्रतः पावनाख्यसरोवरम् ।
तन्मध्ये यशोदाकूपम् ।
तत्पार्श्वे कदम्बखण्डाख्यवनम् ।
ग्रामाभ्यन्तरे यशोदादधिमन्थनस्थानम् ।
तत्पार्श्वे
नन्दीश्वराख्यमहारुद्रमूर्तिः ।
रुद्रपर्वतोपरि नन्दरायमन्दिरम् ।
तत्र नन्दराययशोदाकृष्णबलभद्रदर्शनम् ।
तत्पार्श्वे
यशोदानन्दनयुगलमूर्त्तिः ।
इति नन्दग्रमस्थिततीर्थ देवताः ॥४४॥
अथ गढृवनतीर्थ देवताः ।
भाविष्ये - तत्र व्योमासुरहर्म्यः ।
वज्रकीलनाम पर्वतोऽस्ति ।
तत्पार्श्वे
बलभद्रसरः ।
ततीरस्थं कृष्णरासमण्डलम् ।
तत्पार्श्वस्थवजूकीलपर्वतोपरिस्थं श्रीराधावल्लभमन्दिरम् ।
तत्रैव वाक्यवनमास्ति ॥ इति गढ्राधिवनलिङ्गतीर्थाः ॥४५॥
अथ ललिताग्रामलिङ्गः ।
श्रीवत्सोपनिषदि - सखीगिरीपर्वतोऽस्ति ।
तत्पार्श्वस्थखिसिलिनिसिला
मन्दिरम् तत्रैव ललिताविवहस्थलम् ।
तत्पर्वतस्य दक्षिणपार्श्वे त्रिवेणीतीर्थं ।
तन्मध्ये रासमण्डलं ।
तत्पार्श्वे सखीकूपं ।
तदुत्तरपाश्वे शिलापृष्ठस्थयुगलबलदेवमूर्त्तिः हिंसवृक्षाधःस्था ।
तद्वामपार्श्वेऽशोका
वासपर्वतोऽस्ति ।
तदुपरि ललिताक्रीडनस्थानम् ।
अशोकगोपमान्दिरम् ।
सखीगिरिपर्वतो(प)रि गोपिकापुष्करिणी ।
तत्रैव वीरकोलूखल्यः ।
सखीनां मृगतृष्णावल्लघुपादचिह्नानि पाषाणपरिस्थानि ।
तदुत्तरपार्श्वे
देहकुण्डाभिधानकुण्डम् ।
तद्दक्षिणपार्श्वे वेणीशङ्कराख्यमहारुद्रमूर्त्तिः ॥ इति श्रीललिताग्रामाधिवनलिङ्गानि॥४६
ततो वृषभानुपुरलिङ्गानि ।
पाद्मे - विष्णुब्रह्माख्यनामानो पर्वतौ द्वौ परस्परौ ।
दणिक्षपार्श्वे
ब्रह्म नाम पर्वतः वामापर्श्वे विष्णुनामपर्वतः ।
ब्रह्मपर्वतोपरि श्रीराधाकृष्णमन्दिरम् ।
श्रीराधाकृष्णदर्शनं ।
तदधो भागे वृषभनुमन्दिरम् ।
श्रीवृषभानुकीर्त्तिदाश्रीदाम्नां त्रयाणां दर्शनम् ।
तत्पार्श्वे ललितासखीनां
प्रियासहितानां मन्दिरम् ।
राधादिनवसखीनां दर्शनम् ।
ब्रह्मपर्वतोपरि दानमन्दिरम् ।
हिण्डोलस्थलं ।
मयूर
कुटीस्थलम् ।
रासमण्डलं ।
विष्णुब्रह्मनाम्नोरुभयोः पर्वतयोः साकरिखोरिस्थलम् ।
ब्रह्मपर्वातोपरि राधामन्दिरम् ।
अग्रे लीलानृत्यमण्डलम् ।
विष्णुपर्वातोपारी श्रीकृष्णमन्दिरम् ।
अग्रे लीलानृत्यमन्दिरम् ।
तत्पार्श्वे
विलासमन्दिरम् ।
तत्पार्श्वे गह्वरवनं ।
तदधोस्थले रासमण्डलम् ।
राधासरोवरः ।
तत्पार्श्वे दोहनीकुण्डम् ।
तत्पाश्वे चित्रलेखया कृतं मयूरसरः ।
तत्रैव भानुसरोवरः ।
तत्पाश्वे वज्रेश्वराख्य महारूद्रमूर्त्तिः ।
तद्वाम
भागे कीर्त्तिसरः ।
तत्रैव युगलदर्शनं भवति ।
चतुर्द्दिक्षू समन्तत् चतुः सरासि ।
इति वृषभनुपुरतीर्थ
देवताः ।
४७॥
अथ गोकुललिङ्गानि ।
विष्णुपुराणे - नन्दमान्दिरम् ।
यशोदाशयनस्थलम् ।
उलुखलस्थलाम् ।
पर्यस्त
शकटस्थलम् ।
भिन्नभाण्डीकुटीकम् ।
यमलार्जुनोत्पाटनतीर्थाख्यौ द्वौ कुण्डौ ।
तत्र दामोदरमूर्त्तिदर्शनम् ।
तत्र
सप्तसामुद्रिकाख्यकूपम् ।
तत्पाश्वे गोपीश्वरमहारूद्रमूर्त्तिः ।
गोकुलचन्द्रमामन्दिरम् ।
बालस्वरूपगोकुलेश्वर
दर्शनम् ।
तत्पार्श्वे रोहिनीमन्दिरम् ।
तदभ्यन्तरे बलदेवजन्मस्थानम् ।
नन्दगोष्ठिस्थानम् ।
पूतनास्तन्य
प्रानायानस्थलम् ।
इतिगोकुललिङ्गानि ॥४८ ॥
अथ बलदेवस्थलाधिवनतीर्थदेवताः ।
भविष्योत्तरे — दुग्धकुण्डम् ।
बलदेवभोजनस्थलम् ।
युगल
भिन्नसन्मुखस्थमूर्त्तिं।
मन्दिरं त्रिकोणं ।
इतिबलदेवस्थललीङ्गः ॥४९॥
अथ गोवर्धानलिङ्गः ।
आदिवारहे — गोवर्धानपर्वतम् ।
तदुपरिस्थं हरिदेवमन्दिरम् ।
हरिदेव
दर्शनम् ।
मानसीगङ्गा ।
ब्रह्मकुण्डम् ।
मनसाख्यदेवीमन्दिरम् ।
मनसादेवीदर्शनम् ।
चक्रतीर्थम् ।
चक्रेश्वर
महादेवमूर्त्तिः ।
लक्ष्मीनारायणस्थलम् ।
तत्समीपे कदम्बाखण्डाख्यं वनम् ।
तन्मध्ये हरिदेवकुण्डम् ।
तत्पार्श्वे
इन्द्रध्वजवनम् ।
तन्मध्ये पञ्चतीर्थाख्यकुण्डम् ।
पूर्वभागे मैन्द्रवतीतीर्थकुण्डम् ।
दक्षिणभागे यमुतीर्थसरः ।
पश्चिमभगे वारुण्यख्य सरः ।
उत्तरभागे कौवेरिण्यानदी ॥ इति श्रीगोवर्धनाधिवनतीर्थदेवतः ॥५०॥
अथ कामनवनलिङ्गाः ।
नारदीये — रधाकुण्डम् रासमण्डलम् ।
राधया ग्रन्थिदत्तम् ।
पद्मावतीनाम
सखीविवाहस्थलम् ।
ततो नारदवनम् ।
तन्मध्ये नरदाख्यकुण्डम नारदविद्याध्ययनस्थलम् ।
सरस्वती
स्वरूपम् ॥५१॥
ततः सङ्केतवटाधिवनलिङ्गः ।
कुलार्णवेः — प्रयागकुण्डम् ।
ततः सारिकावनम् ।
मानसरः ।
ततो
विद्रूमवनम् ।
रोहिणीकुण्डम् ।
तत्पाश्वे वज्रेश्वरमहादेवमूर्त्तिः ।
ततः पुष्पवनम् ।
शङ्करकुण्डम् ।
तत्पाश्वे
लम्बोदराख्यगणेशदर्शनम् ।
ततो जातीवनम् ।
माधुरीकुण्डम् ।
मानमाधुरीविलासस्थलम् ।
ततश्चम्पावनम् ।
गोमतीकुण्डम् ।
ततो नागवनम् ।
सखीकुण्डम् ।
ततस्तारावनम् ।
ताराकुण्डम् ।
ततः सूर्यपतनवनम् ।
सूर्य
कुण्डम् (कूपं?) ।
ततो बकुलकुञ्जम् (वनं) ।
गोपीसरः क्रीडामण्डलम् ।
ततस्तिलकवनं ।
मृगवतीकुण्डम् ।
ततो दीपवनम् ।
रुद्रकुण्डम् ।
लक्ष्मीनारायणयुगलदर्शनम् ।
ततः श्राद्धवनम् ।
बलभद्रकुण्डम् ।
नीलकण्ठाख्य
शिवमूर्र्त्तिदर्शनम् ।
ततः षट्पदवनम् ।
दामोदरकुण्डम् ।
दामोदराख्य कृष्णस्वरूपदर्शनम् ।
ततस्त्रिभुवनवनम् ।
कामेश्वरकुण्डम् ॥ तत्पार्श्वे वासुदेवदर्शनम् ॥ ततः पात्रवनम् ।
दानकुण्डं ।
कर्णदर्शनम् ।
ततः पितृवनम् ।
श्रवणकुण्डम् ।
ततो वटस्थस्कन्धारोहदर्शनम् ॥ ततो विहारवनम् ।
शतकोटिगोपीकारासमण्डलं ।
वारुणीकुण्डं ॥
ततो विचित्रवनम् ।
कृष्णचित्रमन्दिरम् ।
तत्पार्श्वे चित्रलेखाकुन्दम् ॥ अथ विस्मरणवनम् ।
केशवकुण्डम् ॥
ततो हाहावनम् ।
गोपालकुण्डम् ॥ ततो जह्नुवनम् ।
जह्नुऋषिकूपम् ॥ ततो पर्वतवनम् ।
वराहकुण्डम् ॥
ततोमहावनम् ।
बृहद्गौतमीये - तृणावर्त्तनाशकाख्यतीर्थकुण्डम् ।
तत्पार्श्वे मल्लाख्यं तीर्थम् ।
तदुपरिस्थं
गोपेश्वराख्यमहादेवदर्शनम् ।
तत्पार्श्वे तप्तसामुद्रिकं नाम कूपम् ॥५२॥
ततः कामानलिङ्गानि ।
विष्णुपुरणे — चतुरशीति ये तीर्थाश्चतुरशीति मन्दिराः ।
चतुरशीति ये स्तम्भाः कामसेनविनिर्मिताः ।
अष्टषष्ठयुत्तरा सङ्ख्या शतस्था रक्षणाय वै ॥
असुरा देवताः सर्वे विष्णोराज्ञाप्रणोदिता ।
यस्मान्न्यूनाधिकं जातं स्तभसङ्ख्या न जायते ॥
विमलकुण्डम् ॥१॥ गोपीकाकुण्डम् ॥२॥ सुवर्णपुरम् ॥३॥ गयाकुण्डम् ॥४॥ धर्मकुण्डम् ॥५।
सहस्रतीर्थसरः ॥६॥( तत्र धर्मराजसिंहासनदर्शनम्) ।
यज्ञकुण्डम् ॥७॥ पाण्डवानां पञ्चतीर्थसरांसि ।
॥८॥ परमोक्षकुण्डम् ॥९॥ मणिकर्णिकाकुण्डम् ॥१०॥ तत्पार्श्वे निवासकुण्डम् ॥११॥ त्रिकोणाकृतं
यशोदाकुण्डम् ॥१२॥ ततो मनोकामनाकुण्डम् ॥१३॥ ततो गोपीकारमणकुण्डम् ॥१४॥ तत समुद्रसेतु
बन्धकुण्डम् ॥१५॥ ततस्त्रिकोणाकृतं ध्यानकुण्डम् ॥१६॥ ततस्तप्तकुण्डम् ।१७॥ ततो जलविहारकुण्डं ॥१८॥
जलक्रीडाकुन्दम् १९॥ रङ्गिलीकुण्डम् ॥२०॥ ततो छविलाख्यकुण्डम् ॥२१॥ ततो जलक्रीडाख्यकुण्डम्
॥ २२॥ ततो मतीलाख्यकुण्डम् ॥२३॥ ततो दतीलाख्यकुण्डम् ॥२४॥ तत्पार्स्वे पञ्चकुण्डाः ये स्थिताः ॥२९॥
ततो घोषरानीकुण्डम् ॥३०॥ तस्य समीपे विह्वलकुण्डम् ॥३१॥ ततो श्यामकुण्डम् ॥३२॥ तत्पार्स्वे
गोमतीकुण्डम् ॥३३॥ ततो द्वारिकाकुण्डम् ॥३४॥ तत्पार्श्वे मानकुण्डम्॥३५॥ ततो ललिताकुण्डम्।३६॥
तत्पार्श्वे विशाखाकुण्डम् ॥३७॥ ततो दोहनीकुण्डम् ॥३८ ॥ तनो मोहिनीकुण्डम् ॥३९॥ ततो बलभद्र
कुण्डम् ॥४०॥ ततश्चतुर्भुजकुण्डम् ॥४१॥ तत्पार्श्वे सुरभीकुण्डम् ॥४२॥ ततो वत्सकुण्डम् ॥४३॥
लुकलुकस्थानम् ॥ ततो गोविन्दकुण्डम् ॥४४॥ तत्रैवाक्षमीलनस्थानम् ॥४५॥ ततो खिसिलिनिशिलातीर्थम्
॥ ४६॥ व्योमासुरगोफास्थानम् ।
ततो भोजनस्थलम् ।
सुमनानामसखी विवाहस्थानम् ।
ललितया रहस्येन
ग्रन्थिदत्तम् ।
ततो विष्णुपादचिह्नपर्वतमेकादशाब्दावस्थस्वरूपपरिमाणलिङ्गम् ।
तत्पार्श्वे गरुडनामतीर्थम्
॥ ४७॥ ततो कपिलतीर्थस्थानम् ॥४८ ॥ ततो लोहजङ्घाख्यऋषिस्थानम् ।
ततो होडस्थानम् ।
तस्योत्तरे भागे
इन्दुलेखास्थानम् ।
विष्णुपादचिह्नस्य लक्षण - पाद्मे - ः
कदम्बकुसुमाकारो पञ्चरेखाविभूषितः ।
वर्त्त्लश्चापि ह्वस्वश्च पादचिह्न प्रकीर्त्तितः ॥
विन्दुविंशसमाकीर्णः पृष्ठे नीलस्वरूपकम् ।
पादचिह्नं च सर्वं च चक्रमेकं तथा ध्वजम् ॥
तत्रैव पर्वतोपरि रामस्थानम् ।
एतयो र्द्वयोः स्थानयोर्मध्ये दीर्घप्रवर्त्तिनी हलरेखान्वित-बलदेव
स्थलम् ।
तस्योत्तरे भागे काम्यवनमध्ये कृष्णकूपम् ॥४९॥ तत्पार्वे निर्भरसंयुक्तं सङ्कर्षणकूपं द्वितीयम्॥५०॥
ततो लोकेश्वरनाम गुह्यतिर्थम् ॥५१॥ वाराहकुण्डम् ॥५२॥ ततः सतीकुण्डं नाम पुष्करिणी ॥५३॥
चन्द्रसखी पुष्करिणी ॥५४॥ तस्योपरि चन्द्रशेखराख्यमहादेवमूर्त्तिः ॥ ततो शृङ्गारतीर्थम् ॥५५॥ ततः
शैलस्य दक्षिणपार्श्वे प्रभाल्ललीनामवापी ॥५६॥ तस्य पश्चिमे भागे भारद्वाजर्षिकूपम् ॥५७॥ तस्योत्तरेभागे
सङ्कर्षणकूपम् ॥५८ ॥ तस्य पूवस्मिन्भागे कृष्णकूपम् ॥५९॥ ये त्रय कूपाः पर्वतस्य निकटे स्थिताः ॥ तत
शैलशिखरोपरिस्थभद्रेश्वराख्य महादेवमूर्त्तिः ।
ततस्तत्रैवालक्ष गरुडमूर्त्तिः ।
ततस्तत्समीपे पिप्पल्याद्(य्)आश्रमम् ।
ततः शैलस्य निकटे पश्चिमतः बुद्धस्वरूपस्थानम् ।
ततः दिहुहलीतिप्रसिद्धं नाम ।
तत्र लोकेश्वरसोत्तरे भागे
लक्षमुर्त्तिस्तन्निकटे राधानामपुष्करिनीतिप्रसिद्धम् ॥६०॥ तत्पूर्वभागे ललितानाम पुष्करिणी ॥६१॥
तस्याः उत्तरे भागे विशाखानाम पुष्करिणी ॥६२॥ तस्याः पश्चिमे भागे चन्द्रावलीनाम पुष्करिणी ॥६३॥
तस्याः दक्षिणे भागे चन्द्रभागानाम पुष्करिणी ॥६४॥ पूर्वदक्षिणाभ्यन्तरे लीलावतीनाम पुष्करिणी ॥६५॥
पश्चिमोत्तराभ्यन्तरे प्रभावतीनाम पुष्करिणी ॥६६॥ आसां मध्यस्था गधानाम पुष्करिणी ॥६७॥
आसु षट्सु पुष्करिनीष्वभ्यन्तरेषु चतुः षष्टि सखीनां गोपीकानां नाम्ना पुष्करिण्यो दृश्यन्ते ॥६८ ॥ तासामग्रे
कुशस्थली तीर्थम् ॥६९॥ तत्रैव शङ्खचूडवधस्थानम् ।
कामेश्वराख्यमहादेवम्मूर्त्तिः ।
उत्तरदेशे चन्द्रशेख
राख्यमहादेवमूर्त्तिः ।
विमलेश्वरदर्शनम् ।
वाराहस्वरूपदर्शनम् ।
तत्रैव द्रौपदीसहितानां पञ्चपाण्डवानां
दर्शनम् ।
तत्रैवाष्टसिद्धिदारख्यगणेशदर्शनम् ।
वज्रपञ्जराख्य हनुमद्दर्शनम् ।
चतुर्भुजदर्शनम् ।
वृन्दान्वित
गोविन्ददर्शनं ।
राधावल्लभदर्शानम् ।
गोपीनाथदर्शनम् ।
नवनीतरायदर्शनम् ।
गोकुलेश्वरदर्शनम् ।
राम
चन्द्रदर्शनम् ॥ इत्यादि चतुरशीतिदेवानां दर्शन कृतम् ॥
तदैव चतुरशीतितीर्थस्नानफलं लभेत् ।
नैव कुर्याद् यदालोकं तीर्थयात्रा तु निष्फला ।
चतुरशीतिस्तम्भानां समारभं करोद् यदा ।
तदैव परिपूर्णोऽस्तु तीर्थयात्रा समर्थितः ॥
इतिकाम्यवनलिङ्गानि ॥५३॥
अथ कोकिलावनम् ।
नारदपञ्चरात्रे — रत्नाकरसरः ।
तत्पार्श्वे रसमण्डलम् ।
ततस्तालवनम् ।
सङ्कर्शणकुन्दं ॥ ततः कुमुदवनं ।
पद्मकुण्डं ॥ ततो भण्डिरवनं ।
असिमाण्डह्रदनामतिर्थम् ।
मत्स्यकूपम् ।
कुण्डो नास्ति ।
तस्य कूपस्योत्तरपार्श्वेऽशोकनामवृक्षः ।
तत्रैवाशोकमालिनीनामाशोकवनदेवता ।
अघासुरवध
स्थानम् ॥ ततो छत्रवनम् ।
सूर्यकुण्डम् ॥ ततो भद्रवनम् ।
भद्रेश्वराख्यशिवमूर्त्तीः ।
भद्रसरः ॥ ततो विमल
वनम् ।
भविष्योत्तरे — बकासुरवधस्थानम् ।
नन्दकुण्डम् ।
तत्पार्श्वे मानमाधुरीकुण्डम् ॥ ततो बहुलावनम् ।
सङ्कर्षणकुण्डम् ।
तत्समीपे कृष्णकुण्डम् ॥ ततो मधुवनम् ।
विदुरस्थानम् ।
मधुसूदन कुण्डम् ।
लवणासुरवध
स्थानम् ।
लवणासुरगुफा ।
शत्रूघ्नकुण्डम् ।
तत्पार्श्वे शत्रुघ्नमूर्त्तिदर्शनम् ॥ ततो मृद्वनम् ।
प्रजापतिस्थानम् ।
ततः जह्नुवनम् ।
वामनकुण्डम् ॥ ततो मेनकावनम् ।
रम्भासरः ॥ ततः कजलीवनम् ।
पुण्डरीकसरः ॥ ततो
नन्दकूपवनम् ।
दीर्घनन्दकूपम् ।
गोगोपलस्थलम् ॥ ततः कुशवनम् ।
मानसरः ॥ ततो ब्रह्मवनम् ।
यज्ञकुण्डम् ॥
ततोऽप्सरावनम् ।
अप्सराकुण्डम् ॥ ततो विह्वलवनं ।
विह्वलकुण्डं ।
विह्वलवरूप कदम्बस्थल दर्शनं ।
सङ्केते
श्वर्यम्म्बकादर्शनं ।
सखीगोपिकागानभोजनस्थलमण्डलदर्शनं ॥ ततः कदम्बवन ।
गोपिकासरः ।
रासमण्डल ।
ततः स्वर्णवनं ।
रसमण्डलस्थलं ।
ततः सुरभिवनं ।
गोविन्दकुण्डं ।
तत्पार्स्वे गोवर्धनपर्वतोपरिस्थं सप्तवर्षा
वस्थकृष्णस्वरूपगोवर्धननाथदधिभोजनस्थलं ।
गोपालपाणिचिह्नं ।
गोवर्धननाथदर्शनं ॥ ततः प्रेमवनं ।
प्रेमसरः ।
ललितामोहनदर्शनं ।
रासमण्डलं ।
हिण्डोलस्थलं ॥ ततो मयूरवनं ।
मयूरकुण्ड ॥ ततो मानेङ्गितवनं ।
ब्रह्मपर्वतोपरिस्थं मानमन्दिरं ।
हिण्डोलं ।
रासमण्डल ।
रत्नकुण्डं ॥ ततः शेषशयनवनं ।
महोदधिकुण्डं ।
शेष
नागोपरिशयन लक्ष्मि नारायणप्रोढृअनाथस्वरूपदर्शनं ॥५४॥
ततो वृन्दावनं ।
पाद्मे — कालीयहॄदं ।
केशीघाटं ।
ततश्चिरघाटं ।
ततो वंशीवटं ।
दशाब्दावस्थ
कृष्णपादचिह्नं ।
मदनगोपालदर्शनं ।
वृन्दादेव्यन्वितगोविन्ददर्शनं ।
ततः यज्ञपत्नीस्थलं ।
ततीऽक्रूरघाटं ।
उत्तरकोणस्थ शतकोटिगोपिकाभिः कृतरासमण्डलस्थलं ॥ ततः परमानन्दवनं ।
आदिबद्रिकास्थानदर्शनं ।
आनन्दसरः ।
ततो रङ्कपुरवनं ।
सुभद्राकुण्ड ।
ततो वार्त्तावनं ।
मानसरः ।
ततः करहपुरवनं ।
ललितासरः ।
तदुपरिस्थ
भानुकूपम् ।
रासमण्डलम् ।
कदम्बखण्डम् ।
हिण्डोलस्थलम् ।
भद्रादेवी सखीविवाहस्थलम् ।
ललितया ग्रन्थि
दत्तम् ।
दानलीलास्थलम् ।
ततः कामनावनम् ।
श्रीधरकुण्डम् ।
तताऽञ्ञ्जनपुराख्यं वनम् ।
किशोरीकुण्डम् ।
कृष्णकिशोरीदर्शनम् ।
ततः कर्णवनम् ।
दानकुण्डम् ।
ततः क्षिपनकवनम् ।
गोपीकुण्डम् ।
ततो नन्दनवनम् ।
नन्दनन्दनकुण्डम् ।
अथेन्द्रवनम् ।
देवताकुण्डम् ।
ततः शिक्षावनम् ।
कामसरः ।
ततेश्चन्द्रावलीवनम् ।
चन्द्रा
वलीसरः ।
ततो लोहवनम् ।
गिरीशकुण्डम् ।
वज्रेश्वरमहादेवदर्शनम् ।
ततस्तपोवनम् ।
पाद्मे — विष्णुकुण्डं ।
ततो जीवनवनम् ।
पीयूषकुण्डम् ।
ततः पिपासावनम् ।
गन्दाकिनीकुण्डम् ।
रासमण्डलम् ।
ततश्चात्रगवनं ।
माहेश्वरीसरः ।
ततः कपिवनम् ।
अञ्जनीकुण्डम् ।
हनुमद्दर्शनम् ।
ततो विहस्यवनम् ।
रामकुण्डम् ।
अथाहूत
वनम् ।
ध्यानकुण्डम् ।
ततः कृष्णस्थितिवनम् ।
हेलासरः ।
ततो भूषणवनम् ।
पद्मासरः ।
ततो वत्सवनम् ।
गोपालकुण्डम् ।
ततः क्रीडावनम् ।
भामिनीकुण्डं ।
ततः रुद्रवनम् ।
गदाधरकुण्डं ।
ततो रमणवनं ।
मृगतृष्णा
शुक्तिरससमूहम् ।
पञ्चवर्षावस्थकृष्णपादचिह्नम् ।
अटलेश्वरकुण्डं ।
ततोऽशोकवनं ।
सीताकुण्डं ।
ततो नारायणवन ।
गोपकुण्डं ।
ततो सखावनं ।
नारायणकुण्डं ।
ततः सखीवनं ।
लीलावतीकुण्डं ।
ततः कृष्णानर्धान
वनं ।
कृष्णकुण्डं ।
ततो मुक्तिवन ।
मधुमङ्गलकुण्डं ।
ततो पापाङ्कुशवनं ।
अमृतकुण्डं ।
ततो रोगाङ्कुशवनं ।
धण्वन्तरिस्थानं ।
दुर्वासाकुन्डं ।
ततो सरस्वतीवन ।
सरस्वतीकुण्ड ।
ततो नवलवनं ।
राधारमण कुण्डं ।
ततो
किशोरवनं ।
रमाकुण्डं ।
ततो किशोरीवनं ।
नवनीतकुण्डम् ।
ततो वियोगवनम् ।
उद्धवकुण्डम् ।
ततोगोदृष्टिवनं ।
गोपालकुण्डम् ।
समन्ताद्धिंसवृक्षाणां सघनं वनम् ।
स्वप्नेश्वराख्यमहादेवदर्शनम् ।
ततश्चेष्टावनम् ।
ज्ञानकुण्डं ।
ततः स्वप्नवनम् ।
अक्रूरकुण्ड ।
ततः शुकवनं ।
द्वारिकाकुण्डं ।
ततः कपातवनं ।
शौनककुण्डं ।
ततो लघुशेष
शयनवन ।
लक्ष्मीकुण्ड ।
ततस्चक्रावनं ।
गोपिपुष्करिनी ।
ततो दोलावनं ।
स्कान्दे — विशाखाकुण्डम् ।
ततो हाहावनं ।
रतिकेलिसखीकूपम् ।
ततो गानवनं ।
गन्धर्वकुण्डम् ।
ततो गन्धर्ववनम् ।
विश्वावसुसरः ।
ततो ज्ञानवनम् ।
मुक्तिकुण्डम् ।
ततो नीतिवनं ।
धर्मसरः ।
ततो श्रवणवनं ।
प्रह्लादकुण्डम् ।
ततो लेपनवनं ।
नरहरिकुण्डम् ।
ततः प्रशंसावनं ।
वाराहकूपम् ।
ततो मेलनवनं ।
रुद्रकुण्डम् ।
ततः परस्परवनं ।
कलाकेलि
विवाहस्थलं ।
चन्द्रारवल्या-ग्रन्थिबन्धनं कृतं ।
सुमनाकुण्डं ।
तत्पार्श्वे रासमण्डलस्थलं ॥ ततः पाडरवनं ।
मनोहरकुण्डं ।
ततो रुद्रवीर्यस्कलनवनं ।
मोहिनीकुण्ड ।
तत्पार्श्वे रुद्रकूपं ।
तदुपरि श्रमितमहादेव मूर्त्तिः ।
लिङ्गोर्धभूमिशयनम् ।
ततो मोहिनीवनं ।
कमलासरः ।
तत्पार्श्वे मोहिनीस्वरूपभगबद्दर्शनं ।
ततो विजयवनं ।
मायाकुण्डम् ।
ततो गोपिकाकूपम् ।
धेनुकुण्डम् ॥ ततो गोपालवनं यमुनायां गोपान-परस्पराख्यं तीर्थम् ।
ततो
वियद्वनं ।
मन्दाकिनीकूपम् ।
ततो नूपुरवनम् ।
सुन्दरीकुण्डम् — ततो यज्ञवनम् ।
प्रबावलीसरः ।
ततः पुण्यवनां ।
सत्यकुण्डम् ।
ततो ऽग्रवनम् ।
नारदकुण्डम् ।
प्रतिज्ञावनं सन्देहकूपम् ।
ततः कामरुवन विश्वेश्वरकुण्डं ।
ततः
कृष्णदर्शनवनं ।
परमेश्वरकुण्डम् ।
तत्पार्श्वे परमेश्वरस्थानम् ।
इति सप्तत्रिंशोत्तरशतवनानां स्थानलिङ्गानि ॥५५।
अथ षोडशवटानां सङ्केतवटादीनां स्थानलिङ्गान्याह ।
स्कान्दे उत्तरखण्डे —
तत्रादौ सङ्केतस्य वटलिङ्गानि दर्शयेत् ।
हिण्डोलान्वितरासस्य मण्डलं परिभूषितम् ।
तत्पार्श्वे कृष्णाकुण्डाख्यं मज्जने कृष्णदर्शनम् ॥
ततो भाण्डीरवटम् ।
दीर्घ मन्दिरं स्वरूपदर्शनब्यतिरिक्तम् ।
ततो याववटं ।
रासमण्डलं ।
तदुपरिस्थानि
द्वादशाब्दावस्थं राधादि दशसखीनामारत्तानि पादक्षेपनेषु आगदचिह्नानि ।
तत शृङ्गारवटम् ।
द्वौ मन्दिरौ ।
दक्षिनभागे शृङ्गारमन्दिरं ।
वामभागे शुर्यामन्दिरं ।
तत श्रीवटं ।
लक्ष्मीमन्दरं ॥ तत कामवटं काम
देवसरः ।
तातो मनोरथवटं धनदाकुण्डम् ।
तत आशावटं कामिनीकूपं ।
ततोऽशोकवटम् ।
जानकीसरः ।
तत्पार्श्वे त्र्यम्वकेश्वरमहादेवदर्शनम् ।
ततः केलिवट कमलकुण्डम् ।
कृष्णरासमण्डलम् ॥ ततो ब्रह्मवटं गयाकुण्ड
शङ्केश्वरमहादेवदर्शनम् ।
ततो रुद्रवटं पार्वतीकुण्डम् ।
कालभैरवदर्शनम् ।
तत श्रीधरवटम् ।
श्रीधरकुण् डम् ।
तत्पार्श्वे प्रह्लाद्कूपम् ।
तत सावित्रीवटम् ।
गायत्रीकूपं रमणीसरः ।
तत् पार्श्वे सुवट नाम वटवृक्षमतिदीर्घम् ।
इति वनानां कथितानि लीङ्गान्यनेकशः सप्तत्रयोत्तराशता ।
तथैव प्रओक्तानि वटादिकानां चिह्नानि
तीर्थानि शुभप्रदानि ॥५६॥
इति श्रीमद्भास्करात्मज नारायणभट्टविरचिते व्रजभक्विविलासाख्ये ग्रन्थे परमहंससंहितोदाहरणे
लिङ्गकथनं नाम द्वितीयोऽध्यायः ॥
—ओ)०(ओ—
(३)
तृतीयोऽध्यायः प्रारभ्यते ।
अथ सप्तत्रिंशोत्तरशतवनानां वा सङ्केतादिषोडशवटानां वा तीर्थानां स्वरूपाणामुत्पत्ति निरूप्यते ॥ स्कान्दे —
तत्रादौ सतीर्थमथुरोत्पत्ति निरूप्यते ।
पुराकृतयुगस्यान्ते मधुनामाऽसुरोऽभवत् ।
इन्द्रादीन् सकलान् जित्वा त्रैलोक्याधिपतिर्भवेत् ॥
नाम्ना मधुपुरीं कृत्वा प्रशशासासुरेश्वरः ।
तदैव पीडिता देवाः केशवं शरणं ययुः ॥
नमो नारायणायैव माधवाय नमोऽस्तु ते ।
मधुं विनाशय स्वामिन्नस्माकं परिपालय ॥
इति विज्ञायितो विष्णु र्युयुधे मधुना सह ।
दशवर्षप्रमाणेनासुर तत्रावधीद्धरिः ॥
सर्वे देवाः समागत्य माधवं नाम चक्रिरे ।
मधोः पुरीं समुत्पाद्य मथुरं नाम चक्रिरे ॥
तत्र देवास्तपश्चक्रुस्त्यक्त्त्वा वैकुण्ठधामकम् ।
चतुरशीति तीर्थाश्च स्थापयेयुश्च देवताः ॥
दक्षिणोत्तरकोटीश्च त्रयो भागाः समासनः ।
षट् त्रिंशास्तीर्थदेवाश्च मथुरायास्तु दक्षिणो ॥
पञ्चत्रिंशोत्तरे स्थाप्याः नित्यसेवा वरप्रदाः ।
त्रयोदशान्तरे स्थाप्या मयुराकूलभूषिताः ॥
क्रमः तत्रादौ हनुमन्मूर्त्तिः रक्षनाय प्रकल्पयेत् ॥
भाद्रमास्यसिताष्टम्यां सिंहलग्नोदये यदि ।
स्थपनं पूजनं कुर्युर्गन्धपुष्पै र्मनोहरैः ॥
धूपदीपश्च नैविद्यै र्द्विजेभ्यो दानमाचरेत् ।
वस्त्रमन्नं च गोदानं प्रतितीर्थं समर्पयेत् ॥
तत्र हनुमत्प्रार्थन मन्त्रः —
यथा रामस्य यात्रायां सिद्धिस्त्वं मे प्रतिष्ठितः ।
तथा परिभ्रमे मेऽद्य भवान् सिद्धिप्रदो भव ॥
इति मन्त्रं दशधा पठन् दशनमस्कार कुर्यात् ॥२॥
ततो दीर्घकेशवप्रार्थनमन्त्रः ।
चतुरशीतिक्रोशत्वं मर्यादं रक्ष सर्वदा ।
नमस्ते केशवायैव नमस्ते केशीनाशक ॥
इति मन्त्रं चतुर्धा पठन्नादिकेशवाय चतुर्नमस्कारं कुर्यात् ।
केशिनोऽश्वम्वरूपस्य दानवस्य वधेन च ।
केशवाख्यो हरि र्भूत्वा आदिकेशवसंस्थितः ।
३॥
ततो भूतेश्वरप्रार्थनमन्त्रः ।
रुद्रयामले —
भूतानां रक्षणार्थाय स्थापितो हरिणा स्वयम् ।
सर्वदा वरदो नाथ भूतेशाय नमोऽस्तुते ॥
इति मन्त्रमेकादशधा पठन् भूतेश्वराख्य महादेवायैकादश नमस्कार कुर्यात् ॥४॥
ततो पद्मनाभ प्राथनमन्त्रः ।
विष्णुयामले —
नमस्ते कमलाकान्त पद्मनाभ नमोऽस्तु ते ।
मथुरमण्डलं रक्ष प्रदक्षिणावरप्रद ॥
इति पञ्चभिः पठन् पं च नमस्कारान् कुर्यात् ।
गोदानं वस्त्रदानं च दानमामान्नमुत्तमम् ।
नमस्कारप्रमाणेन कुर्याद्दानं प्रयत्नतः ।
क्रमभगं यदा कुर्यान्निष्फलत्वमवाप्नुयात् ।
नमस्कारानुसारेण कुर्याद्दानं सुधी र्नरः ।
सर्वान् कामानवाप्नोति हृदिस्थपरिचिन्तितान् ॥५॥
ततो दीर्घविष्णु प्राथन मन्त्रः ।
अखण्डव्रजरक्षाथे दीर्घमूर्त्तिधरो हरिः ।
सर्वदा वरदो नाथ नमस्ते दीघविष्णवे ॥
इति मन्त्र चतुर्द्दशवृत्त्या पठन् चतुद्दशनमस्कारान् कुर्यात् ॥६॥
ततो वसुमतीसरोवर्या पञ्चदेवताप्रार्थनमन्त्रः ।
(पञ्च)एतान् वसुमतीदेवान् सिंहलग्ने उपस्थिते ।
संस्थाप्य विधिवत्पूज्य सुरा वसुमतीं ययुः ॥
कन्यालग्ने समायाते देवर्षि र्मुनयस्तथा ।
यत्र राज्याभिषेकं च चक्रु ऋनारायणाधिपम् ।
तीर्थं वसुमतीनाम्नाऽखण्डमण्डलराज्यदम् ॥
ततो वसुमतीस्नान प्रार्थन मन्त्रः —
यथा विष्णो करोद्राज्यं त्रैलोक्य प्रशशासह ।
तथैव मे वरं व्रूहि वसुमत्यै नमो नमः ॥
इति मन्त्र समाहृत्य पञ्चभि र्मज्जनं चरेत् ।
पूर्वाभिमुखसंस्थित्वाऽखण्डराज्यमवाप्नुयात् ॥
राज्यभ्रष्टो नरो यस्तु यत्र स्नायाच्छुचिर्यदा ।
अब्दत्रयप्रमाणेन कन्यालग्नान्तरे यदि ॥
अखण्डमण्डलं राज्यं कुरुते नात्र संशयः ।
सर्वदा सुखसंयुक्तो शत्रूणां भयदायकः ॥
ततो देवगणाः सर्वे दुगासेनीनदीं ययुः ।
पुरस्कृत्य हृषीकेशं निर्मितां विष्णुना स्वयम् ॥
देवानां पितृणाञ्चैव मुनीनां च तपस्विनाम् ।
सुवर्णचर्चिकां रम्यां स्नानाचमनहेतवे ॥७॥
ततो दुर्गसेनीचर्चिकानदीस्नानप्रार्थनमन्त्रः ।
त्वं वैष्णवी महादुर्गे मागे देहि वरप्रदे ।
वैकुण्ठगमनार्थाय दुर्गसेनि नमोऽस्तु ते ॥
सप्तवारं पठन् मन्त्रं सप्तभिर्मज्जनं चरेत् ॥८ ॥
तत्र त्वायुधस्थानम् ।
भविष्योत्तरे -
यत्रैव भगवान्स्थित्वा धृत्वा चक्रादिकायुधान् ।
आयुधान् पूजयेद्राजा सर्वत्र विजयी भवेत् ॥
आयुध प्रार्थनमन्त्रः —
शङ्ख चक्र गदा पद्म विष्णुपाणिमुपस्थित ।
नमस्ते दशधावृत्त्या मधुदैत्यान्तक्रारकः ॥
इति दशधा मन्त्र पठन् दश नमस्कारं कुर्यात् ।
तत्रापराजिता देवी मधुदैत्यान्तकारिणी —
विश्णुना सहदेवेन पूजिता सर्वमङ्गला ।
नित्यं प्रपूजयेद्देवीं धनधान्यसुतं लभेत् ॥
ततो ऽपराजिता प्रार्थनमन्त्रः ।
दुर्गातन्त्रे —
नमो देव्यै महादेव्यै शत्रुणां क्षयवर्धिनी ।
अपरायै जितायैव देवानां वरदायिनि ॥
इति मन्त्र शतावृत्त्या प्रणमेत्परमेश्वरीम् ।
दुर्गसेनीनदीतीरे द्वौ स्थानौ वरदायिनौ ॥
विधिवत्पूजनीयौ तु वाञ्छितफलदायकौ ।
षट्तीर्थाः देवताः सर्वे पुन्याः सत्ययुगोद्भवाः ॥९॥
अथातः सम्प्रेवक्ष्यामि द्वापरान्तयुगोद्भवाः ।
स्कन्दे —
कंसवासन्तिकास्थानं कृष्णदर्शनकारकम् ।
ततः कंस वासन्तीकास्थानप्रार्थनमन्त्रः ।
नारदाज्ञावरं व्रूहि भगवानवतारयत् ।
कंसगोष्ठि नमस्तुभ्यं नीलमाणिक्यरञ्जितः ॥
इति मन्त्रमेकावृत्त्या पठन् कंसवासन्तिकास्थानं प्रणमेत् ॥१०॥
ततो देवा ययुस्तत्र कन्यालग्नोदये यदि ।
वास्तुकां सरसीं रम्यां कोटिदक्षिणसंस्थिताम् ॥
यत्र ब्रह्मादयौ वध्वा ग्रन्थिं पत्नीभिरन्विताः ।
स्नानं कुर्यूर्विधानेन सर्वदा सौख्यसंयूताः ॥
धनधान्यसमृद्धिस्तु पुत्रादिसन्तति र्ध्रुवम् ।
कदाचिन्नैव भ्रश्यन्ति सप्तजन्मसु दम्पती ॥११॥
ततो वास्तूकसरः स्नानप्रार्थनमन्त्र —
सर्वदा मङ्गलं देहि वास्तूकसरसे नमः ।
काञ्चण्नागवरं व्रूहि देवानां वरदायिनी ॥
इति मन्त्रं पठन् रूद्रौः स्नानं चक्रुः सदा शिवैः ।
मज्जनै र्विधिना सर्वं नमस्कृत्य पृथक् पृथक् ॥
तत्पार्श्वे स्थापयेद्देवीं वधूटयाख्यां गृहेश्वरीम् ।
ततो वधूटी गृहदेवी प्रार्थनमन्त्रः —
गृहदेव्यै नमस्तुभ्यं वधूटयाख्यै नमो नमः ।
व्रजमण्डलकामिन्यै वरदायै नमो नमः ॥
इति मन्त्रमष्टाभिः पठन्नष्टनमस्कारान् कुर्यात् ।
ततो दक्षिणकोटीशं स्थापयेद् रुद्रमूर्त्तिकम् ॥
प्रार्थनमन्त्रः —
कोटीश्वर नमस्तुभ्यं महादेव नमोऽस्तु ते ।
अक्षीणां सम्पदं देहि सर्वदा वरदो भव ॥
इति मन्त्रमेकादशभिः पठन्नेकादशनमस्कारं कुर्यात् ॥१२॥
तत उञ्छवासवत्सपुत्रप्रार्थनमन्त्रः ।
लिङ्गे —
उञ्छवास नमस्तुआभ्यं वत्ससूना नमोऽस्तु ते ।
सर्वपापप्रनाशायानेकसाङ्गवरप्रद ॥
इति मन्त्र चतुर्भिः पठन् नमस्कारं कुर्यत् ॥१३॥
ततो सूर्यस्थलं गत्वा प्रार्थनं कुरुते सुराः ।
निर्मितं विश्णुना स्थानं सर्वताप प्रनाशनम् ॥
ततो ऽर्कस्थल प्रार्थनमन्त्रः —
व्रजमण्डलरक्षार्थं सण्स्थितो भगवान् रवे ।
। नमस्ते काश्यपेयाय भास्कराय नमोऽस्तु ते ॥
इति मन्त्र द्वादशावृत्त्या पठन् द्वादशनमस्कारं कुर्यात् ॥१४॥
देवानां रक्षनार्थाय कार्त्तवीर्यस्थलं करोत् ।
ततः कार्त्तवीर्याख्यवीरस्थल प्राथनमन्त्रः ।
स्कान्दे —
तारकाख्यप्रनाशाय कार्त्तिकाय नमो नमः ।
वीरस्थल नमस्तुभ्यं सर्वदा शिवकारकः ॥
इति मन्त्र त्रयोदशावृत्या पठन् त्रयोदश नमस्कार कुर्यात् ॥१५॥
ततो कुशस्थलं गत्वा सर्वे देवाः मुनीश्वराः ।
सर्वपापक्षयार्थाय श्राद्ध कुर्युश्च तर्पणं ॥
पितृणामक्षयं दत्तं जातं देवर्षि तृप्तिदम् ।
षोडशान् प्रणतीन्कृत्वा देवेभ्यो र्पितृभ्यो नमः ॥
श्राद्धकृतफलं जातं सर्वाभीष्टफलं लभेत् ।
कुशस्थलप्रार्थनमन्त्रः ।
विश्णुधर्मोत्तरे —
कुशस्थलं नमस्तुभ्यं पितृमोक्षवरप्रदः ।
देवपितृप्रसादान्मे धनधान्यसमृद्धयः ॥ इति ।
ततो पुष्पस्थलं गत्वा भगवत्पूजनं चरेत् ।
पुष्पैः सहस्रसङ्ख्याभि राधाकृष्णं प्रपूजयेत् ॥
सर्वान् कामानवाप्नोति सर्वलोकेषु पूजितः ।
पुष्पस्थल प्रार्थनमन्त्रः —
नमस्ते सुमनाकार कृष्णदर्शनकारक ।
सर्वदा देहि सौभाग्यं कृष्णय नमोस्तु ते ॥
इति मन्त्रं शतावृत्या नमस्कारान् शतान् करोत् ।
पूजाफलमवाप्नोति साङ्गं कुर्या प्रदक्षिणां ॥१६॥
ततो विष्णु पुरस्कृत्य देवाः जग्मु र्महस्थलं ।
राज्यमन्त्रं समाचक्रु र्व्रजमण्डलरक्षकं ।
यत्र राजा करोन्मन्त्रं निर्भयं राज्यमाप्नुयात् ॥
महत्स्थल प्रार्थनमन्त्रः —
देवर्षिमुनिगन्धर्वसमालोकेष्टदायकं ।
नमस्ते महतां स्थान सुबुद्धिपरिचारकः ॥
इति चतुर्द्दशावृत्या मन्त्र पठन् चतुर्द्दशनमस्कार कुर्यात् ॥१७।
ततो सिद्धिमुखं नाम महादेवं च स्थापयेत् ।
सिद्धिस्तु वरदानस्तु देवोंयो यत्र जायते ॥
देवानां च मुनीनां च नराणां सिद्धिदायकः ।
त्रैलोक्यचिन्तयाविष्ट नमस्ते रुद्रमूर्त्तये ॥
इति मन्त्र समाहृत्यैकादशावृत्यभिर्नतीन् ॥१८ ॥
ततस्ते शिवकुण्डं तु गत्वेशमभिषेचयेत् ।
ततो शिवकुण्डस्नानप्रार्थनमन्त्रः —
आभिषिक्त जल तुभ्यं शिरसा प्रणमाम्यहम् ॥ सर्व कल्मषनाशाय परं मोक्षं प्रदेहि मे ॥
इति मन्त्र समाहृत्यैकादशवृत्तिज्मजनं ।
वैकुण्ठपदमाप्नोति देवतुल्यकलेवरः ॥
इत्येतद्द्वापरान्ते व श्रीकृष्णेनैव निर्मिताः ।
तीर्थाश्च देवतापूज्याः रणणाय व्रजौकसाम् ॥
कृष्णावतारसम्भूता यद्वाभीरप्रपूजिताः ॥१९॥
अथात सम्प्रवक्षामि त्रेतायुगसमुद्भवान् ।
रामावतारसम्भूतन् शत्रुघ्नप्रकटीकृतान् ॥
तीर्थां च देवताणञ्चैव व्रजमण्डलरक्षकान् ।
क्रमत पूजनीयं च मन्त्रपूर्विधानतः ॥
पाद्मे पातालखण्डे शेषवात्सायन संवादे — प्रतिज्ञामकरोद्रामो देवाः कृष्णो भवाम्यहम् ॥
तदावै मथुरां यान्तु लीलां कुर्वे खिलं व्रजम् ।
तस्य कुण्डस्य पाश्वस्थाः स्थापिता ये च देवताः ॥
तुलालग्नागते काले हयमुक्यम् स्वरूपकम् ।
स्थापयेयुस्तदादेवा रामाज्ञापरिपालिताः ॥
लवणासुरहम्ये तु निर्मूलं सविधाय च ।
शत्रुघ्न स्थापयेन्न्मूर्तिर्हयमुक्तं स्वरूपकम् ॥
रामश्च स्थापयेद्यत्र वाजिशाला सुरस्य च ॥२०॥
ततो हयमुक्त प्राथनमन्त्रः —
हयमुक्त नमस्तुभ्यं सर्वदा विजयप्रदः ।
व्रजं च सकलं रक्ष खुरैः क्षुण्णां वसुन्धराम् ॥
इतिमन्त्रं चतुर्भिः पठन् चतुःप्रदक्षिणा प्रणतीन् कुर्यात् ।
कदाचिन्नैव भ्रंश्यति वाजिशाला गृहेषु च ॥२१॥
ततो सिन्दूरीसिन्दूराख्ययोर्द्वयोः प्रार्थनमन्त्रः —
लवणस्य बृहद्राज्ञी सिन्दूरी महते नमः ।
कनिष्ठे लवणस्यापि सिन्दूरी वरदे नमः ॥
इतिमन्त्रं पठित्वा न्द्वयोरभ्यन्तरे पूर्वाभिमुखं संस्थित्य दक्षिणोत्तरभागे नमस्कुर्यात् ॥२२॥
ततो लवणगुहाप्राथण मन्त्रः —
सुवर्णस्फटिकै रम्ये लवणासुररक्षके ।
नयस्ते सुन्दरि सेव्ये मन्दिरे देवपूजने ॥
इति मन्त्रं व्रुवन्षड्भिर्नमस्कारं च षट् चरेत ॥२३॥
ततो शत्रुघ्नाप्राथनमन्त्रः —
रामाज्ञापारिमाणेन व्रजरक्षार्थमागतः ।
शत्रुणां ज्वलनार्थाय शत्रुघ्नाय नमो नमः ॥
इति मन्त्र चतुर्दशावृत्या पठन् चतुर्दश नमस्कारं कुर्यात् ॥२४॥
शत्रुघ्न स्थापयेद्देवाः सर्वारिष्टप्रशान्तये ।
ततो गुह्याख्यतीर्थं तु स्थापयेत्कामनाप्रदं ॥
यत्र स्वर्णादिधातूनां धान्यानां गोप्यदानकं ।
गोप्यपुण्यमवाप्नोति दशलक्ष गुणं फलम् ॥
ततो गुह्यतीर्थ प्रार्थनमन्त्रः —
पुण्यलक्ष्यगुणे तीर्थे गुह्यतीर्थ नमोस्तु ते ।
सर्वार्थवरद श्रेष्ठ देवानां च फलप्रद ॥
इति मन्त्रं यथा-शक्त्त्या पठन् तदेव नमस्कारं कुर्यात् ॥२५॥
ततो मरीचिकास्थानं सप्ताब्दकृष्णपादकं ।
भगवत् क्रीडनस्थानं नूपुरचिह्नलाञ्छितं ॥
ततो मरीचिकाप्रार्थनमन्त्रः —
कृष्णपादरजो धूलि सप्तवर्षाघ्रिं लाञ्च्छिते ।
। सर्वदा वसुधां देहि नमस्ते मुक्ति दायिनी ॥
इति मन्त्रं समाहृत्य सप्तवारै र्नमस्करोत् ।
वनं तस्य समन्तात्तु मल्लिकानां करोद्धरिः ॥२६॥
ततो मल्लिकावन प्रार्थनमन्त्रः —
भगवन्निर्मिते तुभ्यं मल्लिके क्रीडनाय च ।
नमः सौगन्ध्यमाल्हाद सर्वदा सौख्यतां व्रज ॥
इति मन्त्रं त्रिभिर्वृत्या त्रिभिर्वारै र्नमस्करोत् ।
तन्मध्ये अर्चयेत्कृष्णं कदम्बानां वनं स्वकम्॥७॥
ततो कदम्बखण्ड प्रार्थनमन्त्रः —
मुक्तिदाख्यवरं देहि कृष्णासौभाग्यवर्धनं ।
नमस्ते परमोक्षाय कदम्बाख्य नमोस्तु ते ॥
इति मत्र समुच्चार्य सप्तभिः प्रणमेद्वहिः ।
ततो वलप्रवृद्धाय स्थापयेन्मल्लकेश्वरीम् ॥
देवानां च हितार्थाय लोकानां सौख्य हेतवे ।
अत्र लाङ्गूलप्रक्षेपान् कुर्वन्ति वानराः स्वयं ॥२८॥
ततो मल्लादेवी प्राथानमन्त्रः ।
वायुपुराणे —
वल शक्ति-प्रदे देवि वीर्यशक्तिक्रमप्रदे ।
नारायणि नमस्तुभ्यं रूपं देहि जयप्रदे ॥
इति मन्त्रं त्रयोदशावृत्या पठन् नमस्कारान् कुर्यात् ॥२९॥
ततो देवा समागत्य निर्मिते द्वे सरोवरे ।
अस्पृशा सस्पृशा नाम्ना सर्व माङ्गल्य वर्धिनी ।
यत्र गम्यागमं पापं भक्षाभक्ष्यं तथैव च ॥
चाण्डालर्स्पर्शनेऽशौचे व्यभिचारादिसम्भवम् ।
म्लेच्छसंसर्गतो स्पर्शमेतत्सर्वं प्रणश्यति ॥
ततो ऽस्पृशा सस्पृशा पुष्करिण्योः स्नान प्राथनमन्त्रः —
सर्वपापहरे तीर्थे देवानां वरदायके ।
श्रीप्रदे धनदे मातर्नमस्ते सस्पृशास्पृशे ॥
इति दशधा मन्त्रमुचार्य पुष्करिण्योर्दशभिर्मज्जनं चरेत् ।
अस्पृशास्नानमादौ तु सस्पृशास्नपनं ततः ।
ततो देवा समागत्य कुण्डमुल्लोलसञ्ज्ञकम् ॥३०॥
उल्लोलकुण्डस्नान प्रार्थनमन्त्र भविष्ये —
कृष्णश्चोल्लक्रीडां च कुरुते गोपिका सह ।
यस्मादुल्लोलनामानमासीत् पृथ्वीतलेऽर्थदे ॥
इति मन्त्रं त्रिम्भिर्जाप्त्वा स्नानं कुर्यान्त्रिमज्जनैः ।
परमानन्दमाप्नोति सर्वसौभाग्यसम्पदः ॥
तत्रैव चर्चिकां देवीं स्थापयेयुः पुरास्तदा ।
पूजासाङ्गकृतां सिद्धां सकलेष्टवरप्रदाम् ॥३१॥
ततश्चर्चिकेश्वरी प्रार्थनमन्त्रः —
चर्चिके वरदे देवि व्रजमण्डलरक्षके ।
नमस्ते पूजिते देवि सकलेष्टवरप्रदे ॥
इति मन्त्रं समुच्चार्य अष्टभिः प्रणतीन्कुर्यात् ॥३२॥
इति रामावतारे ऽस्मिन् तीर्था देवाः प्रकल्पिताः ।
त्रेतायुगसमुद्भूताः पूज्याः कोटिफलप्रदाः ॥
ततो पुनः प्रवक्षामि द्वापरान्तयुगोद्भवान् ।
कृष्णावतारलीलाभिः कृतां तीर्थां च देवताः ॥
ततो देवाः समागत्य कंसखवाताख्यतीर्थाकम् ।
यत्र कृष्णो समागत्य मातुश्च भ्रातरं हनन् ॥३३॥
ततो कंसखवातप्राथानमन्त्रः वाधूलि ऋषि संहितायाम् ।
कृष्णेन निर्मित स्थान कंसखात नमोस्तु ते ।
घोरकल्मषनाशाय सुतीर्थ वरदो नमः ॥
इति मन्त्रं नवावृत्या नमस्कारान्नवाञ्चरेत् ॥३४॥
ततो देवाः समागत्य भूतानां रक्षणाय च ।
भूतेश्वरं महादेवं स्थापयेयुर्मनोर्थदम् ॥
ततो भूतेश्वर प्रार्थनमन्त्रः ।
लिङ्गे —
भूतानां रक्षणार्थाय नमस्ते भूतनायक ।
सर्वदा वरदो देव भूतेशाय नमो नमः ॥
इतिमन्त्रमेकादशावृत्या पठन्नेकादश नमस्कारान्कुर्यात् ॥३५॥
सेतुबन्धं हरे र्मूर्तिं जग्मुर्देवाश्च स्थापयेत् ।
ततो सेतुबन्ध प्रार्थनमन्त्रः —
सेतुबन्ध नमस्तुभ्यं कृष्णमूर्ते नमोस्तु ते ।
तीर्थानां देवतानां च साङ्गसिद्धिप्रदायक ।
इति मन्त्रं समुचार्य सप्तभिश्च नमस्करोत् ॥३६॥
ततश्च वल्लभीमूर्तिं गत्वा गनस्थलं सुराः ।
स्यापयेयु र्मनोऽर्थानां मङ्गलार्थायुसिद्धिदम् ॥
रङ्गभूमौ स्थिते कृष्णे गोप्यो गानं समाचेरुः ॥
ततो वल्लभीप्रार्थनमन्त्रः —
कृष्णाप्रिये नमस्तुभ्यं सर्व सौभाग्यदे नमः ।
कामाख्या परिपूर्णाख्यं वरं व्रूहि नमोस्तु ते ॥
इति मन्त्रमष्टभिः पठन्नष्टप्रणतीन् कुर्यात् ॥३७॥
सिंहलग्नोदये रम्ये धनुलग्नोदये यदि ।
अष्टम्यां कुरुते यम्तु भाद्रकृष्णे प्रदक्षिणा ॥
एते षड्विंशमाख्याताः कोटिदक्षिणसंस्थिताः ।
त्रेताद्वापरयोश्चैवावतारे रामकृष्ण्पायोः ॥
तीर्थाश्च देवताश्चैव भाद्रकात्तिकयोः शुभाः ।
भाद्रे मास्यसिताष्टम्यां कार्तिके शुक्लाष्टमी ॥
इति मथुरायां भाद्रकार्तिकाष्टम्यां दक्षिण-कोटि-सञ्ज्ञकानां षड्त्रिंशतीर्थ देवतानामुत्पत्ति
महात्म्यं मन्त्रपूर्वदर्शनम् अथोत्तरे कोटिसञ्ज्ञकानां कुक्कुटस्थानादिनां पञ्चत्रिंशद्दे वतातीर्थानां मन्त्र पूर्वो
त्त्पत्तिमहात्म्यदर्शनं प्रतापमार्त्तण्डे — ॥३८ ॥
तत्रादौ कुक्कुट स्थान प्रार्थनमन्त्रः —
नमः कुक्कुटकास्थान प्रभात वरदायक ।
सुवाक्यवरद श्रेष्ठ लोकानां मङ्गलं कुरु ॥
इति मन्त्रं दशावृत्या नमस्कारं समाचरेत् ॥३९॥
भाद्रकार्तिकयोश्चैव नवम्यामसितेसिते ।
सिंहवृश्चिकयोर्लग्ने समारभ्य प्रदक्षिणा ॥
ततोः साम्भोच्छ्राय मण्डल प्रार्थनमन्त्रः —
साम्भोच्छ्राय नमस्तुभ्यं मण्डलाय नमो नमः ।
सर्वतापं हरेन्नित्यं सर्वपापप्रणाशन ॥
इति मन्त्रं द्वादशावृत्या पठन् द्वादश प्रणतीन्कुर्यत् ॥४०॥
ततो वसुदेवदेवकीशयनस्थल प्रार्थनमन्त्रः —
कंसाज्ञा संस्थित सौरई देवकी शयनस्थल ।
सङ्कटमोचनार्थाय महत्तुभ्यं नमाम्यहम् ॥
इति मन्त्रं समुचार्य प्रणतीनष्टधा करोत् ।
ततो नारायणस्थानं देवो विश्णुं प्रपूजयेत्॥४१॥
नारायण स्थान प्रार्थनमन्त्रः ।
बृहन्नारदीये —
नारायण नमस्तुभ्यं सुस्थानाय नमो नमः ।
सकलेष्टप्रदो नाथ मथुरां परियालय ॥
इति मन्त्रं चतुर्भिः पठन् चतुर्नमस्कारं कुर्यात् ॥४२॥
कृष्णस्य यत्र सिद्धिः स्यादत्र देवाः समागताः ।
सिद्धिविनायकं स्थाप्य गणेशं विघ्ननाशन ॥
प्राथनमन्त्र —
सर्वसिद्धिप्रदो देवः गणेश भगवन्नमः ।
यथा कृष्णो लभेत्सिद्धिं तथा लोकत्रये कुरु ॥
इति मन्त्रं चतुर्भिपठन् चतुर्नमस्कारं कुर्यात् ॥४३॥
ततो देवाः समाजम्मुः कुब्जिकास्थानमुत्तमं ।
कुब्जिकावामना यत्र कंसभृत्यावतुष्टिनी ॥
कृष्णेन ताडिता सापि शुद्धा देवाङ्गना भवत् ।
यस्मात्तत् कुब्जिकास्थानमातिसौभाग्यवर्धनं ॥
यत्र कुरुपिणि नारी गेगिणी दुर्गभा खला ।
कुब्जिका वधिरा मूका वक्षिप्ता साकिनीप्रिया ॥
कुलक्षिणी च दुर्भाग्या कर्कशा व्यभिचारिणी ।
वर्षत्रयं वसेद्यत्र सुभगा स्यात्पतिव्रता ॥
द्वापञ्चाशन्नमस्कारान् यत्र कृष्णाय सञ्चरेत् ।
सर्व-व्याधीन् परित्यज्य रात्रौ कृष्णं प्रदर्शयेत् ॥
सर्वान्कामानवाप्नोति धनधान्यसुखैर्युता ।
नित्यमेव नमस्कारफलमेतदुदाहृतम् ॥४४॥
ततो कुब्जिकास्थान प्रार्थनमन्त्रः ।
गौतमीये —
कुब्जे शुद्धे नमस्तुभ्यं सर्वदा सुखदे नमः ।
यथा कृष्णस्त्वयातुष्टस्तथैव सम्प्रसीदतु ॥
इति मन्त्रं समाहृत्य द्विपञ्चाशत्कमेण तु ।
सर्वान्कामानवाप्नोति सर्व-व्याधिविवर्जितः ॥
ततो गर्त्तेश्वरं रुद्रं स्थापयेयुर्ज्वरापहं ।
दद्धयोदनघृतक्षौद्रशर्कराच्छादनादिकम् ॥
महिम्नस्तोत्रपाठेन शिवं च परिपूजयेत् ।
ज्वरे ह्येकादशैर्विप्रै रतिदाहे द्विविंशकैः ॥
त्रिदोषे देवतासङ्ख्यै र्महिम्न स्तोत्रपाठकं ।
द्विविंशशतकैः पाठै र्मुक्तः स्यत्रिदिनान्तरे ॥
अर्धसप्तदिनेष्वेन चतुर्थांशं चतुदृश ।
गर्त्तेश्वर विलोकेन रोगमुक्तो न संशयः ॥४५॥
ततो गर्त्तेश्वर प्राथनमन्त्र रुद्रयामले —
गर्त्तेश्वर नमस्तुभ्यम् अतिदीर्घज्वरापह ।
हराय शम्भवे देव शरीरारोग्यमाचर ॥
इति एकादशभिः पठन्तेकादश नमस्कारान्कुर्यात् ।
एतेषां देवतानां च अतिक्रमणमाचरेत् ।
निष्फला भवति यत्र तीर्थ यात्रा प्रदक्षिणा ॥४६॥
ततो देवाः समाजग्मुः लोहजङ्घतपस्थलं ।
लोहजङ्घ ऋषिर्नामा तपश्चक्रेति दीर्घकम् ॥
चतुविंशभवैर्वर्षैः कृष्णदर्शनमाचरत् ।
वरदानं समालभ्य वैकुण्ठमगमत्पदम् ॥
लोहजङ्घ ऋषेर्मूर्तिं स्थापयेयुः सुरानघाः ।
ऋषेस्तु दर्शनादेव मुक्तिमागी भवेन्नरः ॥४७॥
ततो लोहजङ्घ ऋषिमूर्ति प्रार्थनमन्त्रः —
लोहजङ्घ ऋषे तुभ्यं नमामि परमेश्वर ।
विनाशय यमालोकं सर्वदा कुरु मङ्गलम् ॥
लोहपात्रे घृतं धृत्वा दीपदानं समाचरेत् ।
मन्त्रं त्रिधा समुच्चार्यं नमस्कारत्रयं चरेत् ॥
कदाचिन्नैव तस्यास्ति यमदूतस्य दर्शनं ।
वज्रतुल्यं भवेत् कायस्त्रिलोकविजयी भवत् ॥
प्रभालल्ल्याम्बिकामूर्तिं स्थापयेद्देवकी शुभा ।
सर्वारिष्टविनाशाय कृष्णस्य रमणाय च ॥
सर्वान्कामानवाप्नोति प्रभालल्लाश्च प्राथनं ॥४८ ॥
ततो प्रभालल्लीप्रार्थनमन्त्रः ।
गौरीरहस्ये —
प्रभालल्लि नमस्तुभ्यं सुवरं च प्रयच्छ भे ।
कृष्णविक्रीडनार्थाय देवक्यानिर्मितऽर्चिते ॥
इति मन्त्रं दशावृत्या नमस्कारान् समाचरेत् ॥४९॥
दक्षिणोत्तरकोटिंश्च तीर्थान् देवान् प्रपूज्य च ।
दिनद्वयप्रमानेन मथुरायां वसेत् सुधिः ॥
मथुरा त्रिदिनेष्वेव न त्याज्या तु कदाचन ।
यदि त्यत्त्क प्रमाणेन कुर्याञ्च्चैव प्रदक्षिणा ॥
फलमर्धमवाप्नोति मथुरा विहितास्थिताः ।
महाविद्यां शुभां देवीं स्थापयेद्देवकी प्रियाम् ॥
व्रजमण्डलरक्षाय सर्वदानवघातिनीम् ॥५०॥
ततो महाविद्याप्रार्थनमन्त्रः ।
मार्कण्डेये —
महाविद्ये महाकालि देवानां हितकारिणि ।
नमस्ते गोपरक्षायै गोपिकाकुलरक्षिणि ॥
अष्टभिश्च पठेन्मत्रमष्टसङ्ख्या नमस्करोत् ।
यत्रैव पठते कृष्णः गुरोः सान्दीपनेर्मुनेः ॥
यस्मात्सञ्जायते श्रेष्ठं महाविद्याम्बिकास्थलं ।
ततो सङ्केतसन्त्थानं गोपिकाकृष्णसङ्गमम् ॥
यत्र संस्थापयेद्देवी सङ्केतप्रियकारिणीम् ।
मथुरामण्डले सस्थां देवकीनिर्मितेश्वरीम् ॥५१॥
ततो सङ्केतेश्वरी प्रार्थनमन्त्र —
दम्पत्योः प्रीतिदे नित्यं चिरजात वियोगिनि ।
नमस्ते वरदे देवि सङ्केत फलदायिनि ॥
इति मन्त्रं चतुर्भिः पठन् चतुर्नमस्कारं कुर्यत् ।
चिरं स्त्रीपुंसयो र्बैरो यत्र मुक्तो भविष्यति ॥
इत्येकादशमाख्याताः देवता तीर्था सञ्ज्ञकाः ।
स्वकुण्डे देवकी स्थाप्याः कृष्णक्रोडार्थहेतवे ॥५२।
ततो देवाः समाजग्मुर्महातीर्थसरोवरम् ।
रचित्वा पापनाशाय दैत्यघ्नदोष शान्तये ॥
महातिर्थसरः स्नान प्रार्थनमन्त्रः ।
भविष्ये —
कृमिकीटादिपापघ्ने नमस्ते सरसाम्बरे ।
सर्वदा विमले देवी सर्वसौभाग्यदायिके ॥
इति पञ्चदशावृत्या मन्त्रमुक्त्त्वा समज्जनैः ।
स्नापयेत्तु नमस्कारं सर्व पापान् प्रमुच्यते ॥५३॥
अस्यास्तु देवतास्त्वष्टा स्थापिता सकलेष्टदाः ।
ततो गोकर्णसंस्थानं समाजग्मुः सुरास्तथा ॥
यत्र गोकर्णनामासौ तपस्तेपेऽतिविस्तरम् ।
वर्षैरष्टादशैः सङ्ख्यैः कृष्णदर्शनमाचरेत् ।
यस्मादृषे र्महास्थानं वैकुण्ठपददायकम् ।
ततो गोकर्णर्षिमूर्तिप्रार्थनमन्त्रः ।
शौनकीये —
गोकर्णाय नमस्तुभ्यं वैकुण्ठपददायिने ।
सिद्धिं च सकलां यच्छ तोषितो भगवत्त्वया ॥
इति मन्त्रं समुचार्य पञ्चभिः प्रणामेद्दृषिम् ।
सर्वान्कामान्समालभ्य वैकुण्ठपदमाप्नुयात् ॥५४॥
ततो सरस्वतीप्रार्थनमन्त्रः —
सरस्वति नमस्तुभ्यं सुबुद्धि-बलवर्धिनि ।
देवानां बलदे नित्यं रक्षःकुलविनाशिनि ॥
इति मन्त्रमुदाहृत्य सप्तभिस्तु नमस्करोत् ॥५५॥
ततो विघ्नराजगणेशप्रार्थानमन्त्रः ।
ब्रह्मवैवर्त्ते —
नमस्ते विघ्नराजाय लोकविघ्नविनाशन ।
वरदोऽसि सुराणां वै रक्षःकुलक्षयङ्कर ॥
इति मन्त्रं समाहृत्य दशधा प्रणमेन्नरः ।
सर्वान्कामानवाप्नोति त्रैलोक्यविजयी भवेत् ॥५६।
ततो गार्गीनामर्षिमहत्पत्नी प्रार्थनमन्त्रः —
गोकर्णर्धर्मपत्नी त्वं पतिव्रतातिवर्धिनी ।
नमस्तुभ्यं भवेद्देवी तपोराशिसमुद्भवे ॥
इति मन्त्रं समाहृत्य नमस्कारं नवं चरेत् ।
ततो सार्गिनामार्षिलघुपत्नीप्रार्थनमन्त्रः —
सार्गिदेवि नमस्तुभ्यमृषिपत्नि मनोरमे ।
सुभगे वरदे गौरि सर्वदा सिद्धिदायीनी ॥
इति मन्त्रं समुचार्य सप्तभिस्तु नमश्चरेत् ॥५७॥
ततो महालयं रुद्रं स्थापयेत् स्वर्गशुद्धये ।
दैत्यकारागृहस्थाश्च देवाः शुद्धाङ्गहेतवे ॥
ततो महालयरुद्रप्रार्थनमन्त्रः ।
लिङ्गे —
महालय नमस्तुभ्यं रुद्राय शुद्धमूर्तये ।
शुद्धकल्याणरूपाय नमस्ते परमात्मने ॥
इति मन्त्रं समुच्चार्य नमस्कारोऽश्टभिश्चरेत् ॥५८ ॥
ततो उत्तरकोटिगणेशप्रार्थनमन्त्रः —
गणेशाय नमस्तुभ्यमुत्तरेशाय ते नमः ।
सर्वेषां देवतानां च पूजासाङ्गफलप्रद ॥
इति मन्त्रं समुच्चार्य दशधा प्रणमेन्नरः ।
सर्वेषां देवतानां च फलमन्त्रमवाप्नुयात् ॥५९॥
ततो द्यूतस्थानप्रार्थनमन्त्रः ।
महाभारते —
द्यूतस्थान नमस्तुभ्यं देवानां विजयप्रदः ।
शुभदे कार्तिके मासि गोपिकावरदो भव ॥
इति मन्त्रं समुच्चार्य षोडशावृत्तिभिर्नमेत् ।
कार्तिके षोडशान्वृत्या वराकाश्च त्रिभिश्चरन् ॥
ओजपूर्णगुणं दृष्ट्वा नमस्कृत्याग्रतोगमन् ।
द्यूतस्थानं विना पूज्य कुर्यादत्र प्रदक्षीणा ॥
अजयं सर्वदाप्नोति बुद्धिहीनः प्रजायते ।
इत्यष्टदेवताः प्रोक्ता महातीर्थसरोवरे ॥६०॥
ततो गार्गीनदीतीर्थं जग्मुर्देवाः सविश्णुगाः ॥
ततो गार्गीस्नानप्रार्थनमन्त्रः ।
भविष्योत्तरे —
सर्वकल्मषनाशघ्ने नदी गार्गि नमोस्तु ते ।
इति मन्त्रं दशाबृत्या मज्जनं च पठञ्चरेत् ॥
नमस्कारान्दश कुर्यात् सर्वपापप्रणाशये ॥६१॥
महालयाख्यरुद्रस्य मन्दिरं रचयेत्सुराः ।
पार्वत्या सहितो रुद्रो कुरुतेऽत्र च मङ्गलम् ॥
यस्माच्छ्यून्यं महाबेश्म गार्गीतीरमुपाश्रितं ।
ततो रुद्रमहालयप्रार्थनमन्त्रः ।
गौरीरहस्ये —
भवस्य रमणायैव वरवेश्म नमोस्तु ते ।
गौरीसहोमनोर्थाय सकलेष्टप्रदाय च ॥
इति मन्त्रं त्रिभिरुक्त्त्वा नमस्कारं त्रयं चरेत् ॥६२॥
ततस्तु विघ्नराजस्य कुण्डं विघ्नविनाशनं ।
यत्रैव देवतानां च विघ्नाः नश्क्यत्यनेकशः ॥
गणेशरूपमाधाय विष्णुर्विघ्नान्निवारयेत् ।
यत्र स्नानानराणां च विघ्ननाशो भवत्फलं ॥
ततो विघ्नराजकुण्डस्नानप्रार्थनमन्त्रः ।
ब्रह्मवैवर्ते —
विघ्नराज नमस्तुभ्यं गणेशाय नमो नमः ।
स्नानात्सर्वाणि विघ्नानि नाशयेह सुखं कुरु ॥
इति मन्त्र समुचार्य मज्जनं सप्तभिश्चरेत् ॥६३॥
ततो देवाः समाजग्मुश्चक्रतीर्थोत्तमोत्तमं ।
यत्र सुदर्शनं नीत्वा दर्शनं प्रददे हरिः ॥
चक्रतीर्थ प्राथनमन्त्रः —
नमस्ते वासुदेवाय नमस्ते चक्रधारिणे ।
चक्रतीर्थ समाख्यात नमस्ते जलशायिने ॥
इति मन्त्रं समुचार्य चतुर्भिः प्रणमत्क्रमात् ।
द्वयोरभ्यन्तरे देवाः भद्रेश्वरसदाशिवं ॥
स्थापयेयुश्च सन्तत्यै कल्याणाय च सिद्धये ।
यत्र कल्याणमाप्नोति धनधान्यादिसन्ततीम् ॥६४॥
ततो भद्रेश्वरप्राथनमन्त्रः —
कल्याणरुपिणं तुभ्यं शिवाय सततं नमः ।
मङ्गलेष्टप्रदो देव देवानां कार्यसिद्धये ॥
इति मन्त्रं पठेन्नित्यं नमस्कारैकविंशतिः ।
यमुनाभ्यन्तरस्थं च सोमकुण्डाख्यतीर्थकम् ॥
सोमपर्वफलं भूयाद्गत्रस्नानं समाचरेत् ॥६५॥
ततो सोमकुण्डप्रार्थनमन्त्रः ।
विष्णुधर्मोत्तरे —
तीर्थरज नमस्तुभ्यं सर्वदेवरप्रद ।
सोमपर्वफलं यच्छ वैकुण्ठाददायक ॥
इति मन्त्र समुचार्य षोडशावृत्तिभिर्नमेत् ।
सोमेश्वरमहादेवं स्थापयेद्देवनास्ततः ॥
धर्मकामार्थलाभाय सुख सौभाग्यसम्यदे ॥६६॥
सोमेश्वर प्राऋथनमन्त्रः —
सोमेश्वर नमस्तुभ्यं सोमपर्वफलप्रदं ।
चान्द्रायणव्रतं साङ्गकोटि पुण्य फल प्रदः ॥
इत्येकादशभिर्मन्त्रं प्रतिवासरमर्चयेत् ।
सर्वान्कामानवाप्नोति सर्व सौभाग्यसम्पदः ॥६७॥
सङ्गमं च सरस्वत्या तीर्थराजं मनोहरं ।
देवानां च महाबुद्धि र्जयते नात्र संशयः ॥
पुस्तकानां कृतं दानं विद्यादानं शतं गुणं ।
ततो सररवतीसङ्गमस्नानप्रर्थनमन्त्रः ।
आश्वलायनसंहितायां —
देवानां बुद्धिदायै त्वां सरस्वत्यै नमो नमः ।
तीर्थराज नमस्तुभ्यं कलाधर नमोस्तु ते ॥
इति मन्त्रमुदाहृत्य सप्तभिर्मज्जनैर्नमेत् ॥६८ ॥
ततो घण्टाभर्णं श्रुत्वा प्रबुद्धौ भगवाह्नरिः ।
कार्तिके शुक्लपक्षे तु दशभ्यां लग्नवृश्चिके ॥
देवाः घण्टां समभ्यर्च घण्टास्वनमकारयन् ।
सर्वदा जयमाप्नोति त्रैलोक्येष्वुपराजिता ॥
ततो घण्टावादनप्रार्थनमन्त्रः ।
गारुडे —
विष्णुवोध नमस्तुभ्यं सौवर्णाय महात्मने ।
सर्वदा जयद श्रेष्ठ घण्टाभर्ण नमोस्तु ते ॥
इति मन्त्रं शतावृत्या घण्टां नात्वा च वादयन् ।
प्रबुद्धो भगवान् तत्र विजयाख्यवरं ददौ ॥
दारिद्रय नैव पश्यन्ति धनधान्यसुखं लाभेत् ।
घण्टादानं समाचक्रुर्ब्राह्मणेभ्योऽर्थसिद्धये ॥६९॥
ततो गण्डकेशवप्रार्थनमन्त्रः —
गण्डकेशव देवाय नमस्ते जलशायिने ।
सुराणां वरदो नाथ गण्डदाराग्रसिद्धिदः ॥
इत्यष्टादशभिरुक्त्वा मन्त्रं देवा प्रघर्षेयुः ।
नाशाग्रं गुदामूलं च सर्वकामानवाप्नुयुः ॥७०॥
धारलोपनं वैकुण्ठधाम विष्णोस्तु मन्दिरं ।
यत्र देवकृते कार्ये मनोभिश्चिन्तितेखिले ॥
धराच्छिन्नं कदा नैव जायतेऽनेकविघ्नकैः ।
सङ्गमं च सरस्वत्या तीर्थराजं मनोहरं ।
देवानां च महाबुद्धि र्जयते नात्र संशयः ॥
पुस्तकानां कृतं दानं विद्यादानं शतं गुणं ।
ततो सररवतीसङ्गमस्नानप्रर्थनमन्त्रः ।
आश्वलायनसंहितायां —
देवानां बुद्धिदायै त्वां सरस्वत्यै नमो नमः ।
तीर्थराज नमस्तुभ्यं कलाधर नमोस्तु ते ॥
इति मन्त्रमुदाहृत्य सप्तभिर्मज्जनैर्नमेत् ॥६८ ॥
ततो घण्टाभर्णं श्रुत्वा प्रबुद्धौ भगवाह्नरिः ।
कार्तिके शुक्लपक्षे तु दशभ्यां लग्नवृश्चिके ॥
देवाः घण्टां समभ्यर्च घण्टास्वनमकारयन् ।
सर्वदा जयमाप्नोति त्रैलोक्येष्वुपराजिता ॥
ततो घण्टावादनप्रार्थनमन्त्रः ।
गारुडे —
विष्णुवोध नमस्तुभ्यं सौवर्णाय महात्मने ।
सर्वदा जयद श्रेष्ठ घण्टाभर्ण नमोस्तु ते ॥
इति मन्त्रं शतावृत्या घण्टां नात्वा च वादयन् ।
प्रबुद्धो भगवान् तत्र विजयाख्यवरं ददौ ॥
दारिद्रय नैव पश्यन्ति धनधान्यसुखं लाभेत् ।
घण्टादानं समाचक्रुर्ब्राह्मणेभ्योऽर्थसिद्धये ॥६९॥
ततो गण्डकेशवप्रार्थनमन्त्रः —
गण्डकेशव देवाय नमस्ते जलशायिने ।
सुराणां वरदो नाथ गण्डदाराग्रसिद्धिदः ॥
इत्यष्टादशभिरुक्त्वा मन्त्रं देवा प्रघर्षेयुः ।
नाशाग्रं गुदामूलं च सर्वकामानवाप्नुयुः ॥७०॥
धारलोपनं वैकुण्ठधाम विष्णोस्तु मन्दिरं ।
यत्र देवकृते कार्ये मनोभिश्चिन्तितेखिले ॥
धराच्छिन्नं कदा नैव जायतेऽनेकविघ्नकैः ।
विमुक्तेश्वरनामानं महादेवं प्रकल्पयेत् ।
दर्शनादविमुक्तस्तु विमुक्तस्तु प्रजायते ॥
ततो विमुक्तेश्वरप्रार्थनमन्त्रः ।
उत्तरकोटिदेवतानां प्रार्थना —
अविमुक्तेश देवेश द्विसप्तभिरनुष्ठिताः ।
मथुरा क्रमणीया मे सफलास्यात्तवाज्ञया ॥
इति मन्त्रं समुचार्य चतुराशीतिवृत्तिभिः ।
नमस्कारान्समाचक्रु र्देवगन्धर्वमानवाः ॥
भाद्रकार्तिकयोश्चैवासिते शुक्ले दिने शुभे ।
नवम्यां सविधानेन कुर्यात् साङ्गप्रदक्षिणां ॥
सिंहवृश्चिकयोर्लग्ने समारम्भ शुभप्रदः ।
मासयोरुभयोश्चैव पक्षयांएरसिते सिते ॥
दशभ्यां च समागत्य मथुराभ्यन्तरं शुचिः ।
क्षेत्रस्थं शिवमभ्यर्च्य मन्त्रपूर्वविधानतः ॥७४॥
ततो क्षेत्रपालशिवप्रार्थनमन्त्रः ।
लैङ्गे —
क्षेत्रपाय नमस्तुभ्यं शिवाय शिवरूपिणे ।
सर्वदा कुरु माङ्गल्यं धनधान्यादिसम्पदः ॥
इत्येकादशभिर्मन्त्रं पठम्ं च प्रणतिंश्चरेत् ।
धर्मार्थकाममोक्षादीन् लभते वै न संशयः ॥७५॥
ततो विश्रान्तितीर्थन्तु सविष्णुदेवतास्तथा ।
स्नानं चक्रुर्विधानेनाकाशगङ्गनफलं लभेत् ॥
ततौ विश्रान्तिस्नानप्रार्थनमन्त्रः ।
पाद्मे —
तीर्थराज नमस्तुभ्यं देवानां हितकारिणे ।
परस्परसुराधिष्टविश्रान्त्यै वरदे नमः ॥
इति मन्त्रमुद्वाहृत्य शतावृत्या च मज्जनैः ।
नमस्कृत्याकरोत्स्नानमैश्चर्यपदमाप्नुयात् ॥७६॥
गतश्रमपदस्थानं जग्मुर्देवास्तुविश्रमाः ।
तत्र चिन्ताविनिर्मुक्तो श्रममुक्तो भवेन्नरः ॥
ततो गतश्रमपदस्थानप्रार्थनमन्त्रः —
वरदोसि महारम्य नानाक्लेशनिवारक ।
। गतश्रम महास्थान नमस्ते नारदार्चित ॥
इति मन्त्रं पठन् तत्र दशधा प्रणमेत्सुधीः ।
घटिकार्धं स्थिरो भुत्वा सर्वदुःखाद्विमुच्यते ॥७७॥
ततो सुमङ्गलादेविमूर्तिं संस्थापयेद्धरिः ।
देनानां मङ्गलार्थाय नराणां वै तथैव च ॥
अस्यास्तु दर्शननैव कदा शोको न जायते ।
पुत्रोत्सवविवाहाद्ध्यैर्मङ्गलैः सर्वदा सुखी ॥
ततो तस्याः प्रार्थनमन्त्रः ।
वायुपुराणे —
सुमङ्गले नमस्तुभ्यं सर्वदा मङ्गलप्रिये ।
धनधान्यप्रदे देवि व्रजमाङ्गल्यदायिनि ॥
इतिमन्त्रं चतुर्भिस्तु नमस्कारं श्चतुश्चरेत् ।
पिप्पलादेश्वरं विश्णुमूर्ति संस्थापयेदजः ॥७८ ॥
ततो पिप्पलादेश्वरप्रार्थनामन्त्रः —
पिप्पलादेश्वराख्याय विष्णवे प्रभविष्णवे ।
मथुरामण्डलेशाय नमस्ते केशवाय च ॥
इति मन्त्रं षडाबृत्त्या प्रणतीं षट् समाचरेत् ॥७९॥
ततो कर्क्कोटप्रार्थन मन्त्रः ।
रुद्रयामले —
कर्क्कोटाय नमस्तुभ्यं महादेवाय सम्भवे ।
सर्वदा कुरु माङ्गल्य पाहि मां गिरिजापते ॥
इत्येकादशभिर्मन्त्रं पठेत्तु प्रणमेच्छिवम् ।
सर्व-वाधाविनिर्मुक्तो सर्वदा सौख्यसंयुतम् ॥८०॥
सुखवासस्थलं गत्वा ब्रह्मणा सहिताः सुराः ।
लक्ष्म्यासार्धं रमेद्विष्णुरतिसौख्यसमाकुलः ॥
यतो यत्र समाख्यातिं सुखवासः स्थलं हरेः ।
सर्वसौभाग्यदं श्रेष्ठं नराणां देवतादिषु ॥
ततो सुखवासप्रर्थनमन्त्रः —
त्रैलोक्यसुखवासाय सुस्थानाय नमोस्तु ते ।
सर्वदा मङ्गलं देहि रमापतिप्रसादतः ॥
इति मन्त्रं जपनत्वा वारमेकादशं हृदि ।
क्षणमात्रविलम्बेन सुस्थितोऽत्र सुखी भवेत् ॥८१॥
पूतनापतनस्थाने स्वरवात्यां च वाटिके ।
दशायोजनविस्तीर्ण पूतनापतनस्थलं ॥
सप्तदिनस्वरूपोऽसौ कृष्णो स्वामपिवत्स्तनं ।
गरं सुधामयं जातं सुन्दरिरूपमत्यजान ॥
धत्रीतुल्यगतिं लेभे यतःस्थानं प्रपूजयेत् ।
तस्या हृद्युपरि कृष्णो क्रीडतेघटिकाद्वयं ॥
भाद्रकृष्णचतुर्दश्यां तुललग्नोत्तरे मृताः ।
घटीपं च प्रमाणेन पूतनामोक्षमाप्नुयात् ॥
ततो खरवात्यां पूतनापतनवाटिकाप्रार्थनमन्त्रः ।
आदिपुराणे —
वाटिके पूतनास्थाने खरस्वात्यै नमो नमः ।
कृष्णाक्रीडास्थले तुभ्यं लोकानां स्वर्गतिप्रदे ॥
इति मन्त्रं षडावृत्यापठंस्तलेष्वपत् ।
द्वयं शुद्धं समन्तात्तु चतुर्भिर्क्षणमुत्स्वपन् ॥
पित्रोरिव लभेन्मोक्षं परिवारकुलैः सह ।
तीर्थेषु मजनैः स्नानं यस्य नाम्नोच्चरन् चरेत् ॥
फलं तस्यैवमाप्नोति कृतस्यैव दशांशकम् ।
पुरुषेण कृतं पुण्यं तदर्धं लभते प्रिया ॥
स्त्रियाकृतं यदा पुण्यं पुरुषो नैव लभ्यते ।
स्नानं दानं तपो यज्ञं पुण्यं पापं विभागशः ॥
भतुरर्धमवाप्नोति यदिस्यात्तु पतिव्रता ।
पतिविद्वेषिणी नारी यदि स्यात्सविवाहिता ॥८२॥
तथाप्यर्धमवाप्नोती भाग्याद्देवप्रणोदिता ।
ततो ऽगोचरनामनं वनं गत्वा हलायुधः ॥
रामस्तु रेवतीसार्धं परशङ्काविवर्जितः ।
ततो गोचरप्रार्थनामन्त्रः ।
पाद्मे पातालखण्डे —
नमस्ते रेवतीकान्त नागसेवापरायण ।
क्रीडारमणसम्मोद हलायुध नमोस्तु ते ॥
इति मन्त्रं शता-वृत्या पठंस्तु प्रणतींश्चरेत् ।
परशङ्कां न पश्यन्ति यमोऽपि भस्मतां ययौ ॥
प्रियासार्धं चिरं रेमे गृहे सौभाग्यसम्पदा ॥८३॥
वज्राननमहामूर्त्तिर्हनुमत्परिचारकः ।
तत्र वज्रधरो पाणौ रामानुचरभावतः ॥
रामनामानुभावेन हनुमत्सेवको सदा ।
ततो वज्राननहनुमत्प्रार्थनमन्त्रः ।
अध्यात्म रामायणे —
वज्रानन नमस्तुभ्यं सर्वान्तकविनाशन ।
रामस्य रक्षणार्थाय हनुमत्मूर्तये नमः ॥
इति मन्त्रं समुच्चार्य प्रणमेद्दष्टभिः क्रमात् ।
शिवसंवरणो नाम कालीयुद्धेक्षणाय च ॥
मुखद्वयं समाधाय पूर्वपश्चिमतः क्रमात् ।
वरदानप्रभावेनार्हनिशं युद्धमीक्षयेत् ॥८४॥
शिवसंवरणो नाम भावेनाहर्निशं युद्धं ।
उदितास्ते यदासूर्ये मरणं जीवनं दृशेत् ॥
यतः समागतो रुद्रो मथुरामण्डले स्थितः ।
ततो संवरणाख्यशिवप्रार्थनमन्त्रः ।
आग्नेये —
नमः संवरणायैव युद्धेक्षावरदाय च ।
नमस्ते घोररूपाय शिवाय शिवरूपिणे ॥
इति द्वादशभिर्मत्रं पठंस्तु प्रणमेच्छिवं ।
युद्धे तस्य भयं नास्ति सर्वदा विजयीभवेत् ॥८५॥
ततो सूर्यप्रार्थनमन्त्रः —
आरक्ताय नमस्तुभ्यमहर्निश प्रदीपिने ।
क्रोधरूपाय देवाय भास्वराय नमो नमः ॥
इति मन्त्रमुदाहृत्य पूर्वपश्चिमतो मुखं ।
पञ्च-पं च द्वयोर्मार्गे नमस्कारान्समाचरेत् ॥
सर्वदा विजयीभूत्वा प्रतापो जगतीतले ॥८६॥
सूर्यसंवरणो नाम वालखिल्यऋषेः सुतः ।
तपस्तेपे सहस्राव्दैर्विश्णुसायुज्यमाप्नुयात् ॥
यत्र स्थाने कलाविष्टऋषिमूर्तिं प्रकल्पयेत् ।
ततो ऋषिप्रार्थनमन्त्रः ।
गौतमीये —
सूर्यसंवरणायैव जगतां हितकारिणे ।
नमस्तं शिवरूपाय वालखिल्यर्षिसम्भवः ॥
इति मन्त्रं समुचार्य नवभिः प्रणमेदृषिम् ।
सर्वान्कामानवाप्नोति सर्वदा रोगवर्जितः ॥
इति पञ्चाङ्गसम्भूतं मथुराभ्यन्तरेश्वरं ।
रक्षाकुलेश्वरं देवं धर्मकामार्थदायकम् ॥
यत्रेइव बलरामस्तु जलक्रीडां समाचरेत् ।
रामघाटं समाख्यातं मथुरामण्डले स्थितं ॥
ततो रामघाटस्नानप्रार्थनमन्त्रः —
सखिभिर्वली रामस्तु जलक्रीडाविहारिणे ।
नमस्ते रामतीर्थाय बलभद्राय ते नमः ॥
इति मन्त्रं दशावृत्या मज्जनैः प्रणमेत्स्नपन् ।
अखण्डपदमापन्नो सर्वदा सौख्यमाप्नुयात् ॥८८॥
दशानां गोपिकानां च मुषित्वा वसनानि च ।
हरिः कदम्बमारुह्य गोपीन् क्रीडायुतां करोत् ॥
हसित्वा च हृषीकेशो चीरपाणिः प्रदर्शयत् ।
यतस्तु चीरतीर्थेऽस्मिन् कदम्बं परिपूजयेत् ॥
राधादिकसखिनां च दश चीराणि सङ्गृहेत् ।
नीलकर्बूरधूम्रश्चरक्तपीतसितासितम् ॥
वादलं च द्वय रक्तं पीतद्वयं मनोहरं ।
एतानि रङ्गभिन्नानि चीराणि च समाददे ॥
कदम्बलतिकायान्तु मन्त्रपूर्वं प्रवन्धयेत् ।
ततो चीरघाटस्नान कदम्बचीरवन्धनप्राथानमन्त्रः ।
वाराहे —
राधादिभिः सखिभिस्तु संस्तुतो देवकीसुतः ।
तस्मेइ तुभ्यं हृषीकेश नमः सौभाग्यवर्धनम् ॥
इति मन्त्रं दशावृत्या पठन् नत्वा प्रबन्धयेत् ।
सर्वदा वस्त्रैभाग्यं प्राप्नुयानात्र संशयः ॥
अलाभे दशधा चीरे रञ्जनं दशधा करोत् ।
कदम्बे पूज्येत्कृष्णं गोपिकाभ्यो नमश्चरेत् ॥
चीरपूजां विना यात्रा नैव साङ्गं प्रयच्छति ।
चीरपूजां परित्यत्त्का वस्त्रदारिद्रयपीडितः ॥
सर्वदुःखैस्तु सन्तप्तो नग्नकायः सदास्थितः ।
ततस्तु गोपिकासार्धं जलक्रीडां करोद्धरिः ॥
मार्गशीर्षे शुभे मासे गोप्यपुण्यफलप्रदे ।
भाद्रकार्तिकयोश्चैव वन-यात्रा प्रसङ्गमे ॥
गोपीनां सुकुमारीणां वस्त्रदानं समाचरेत् ।
भोजनं विविधं कृत्वा गोपिका परिपूजयेत् ॥
दशलक्ष गुणं पुण्यं फलं गोप्यमवाप्नुयात् ॥८९॥
ततो गोपीघाटस्थानप्रार्थनमन्त्रः —
गोपीनाथ नमस्तुभ्यं कृष्णाय हरये नमः ।
सर्वापापविनाशाय सकलेष्टप्रदायिने ॥
इति मन्त्रं दशावृत्या मज्जनं स्नानमुच्चरन् ।
नमस्कारविधानेन गोपीभ्यस्तु नमश्चरेत् ॥
सर्वकामार्थमोक्षादीन् परमेशपदं लभेत् ॥९०॥
सूर्यो यत्र स्थिरो भूत्वा घटीद्वयप्रमाणतः ।
स्नानं चकार दैत्यस्य हतदोषप्रशान्तये ॥
यस्मात्सञ्जायते तीर्थं सूर्यकुण्डं च पुत्रदं ।
यत्र स्नानकृतस्यापि सूर्यतुल्यो भवेत्सुतः ॥
ततो तस्य स्नानप्रार्थनमन्त्रः ।
अदित्यपुराणे —
समतेज प्रकाशाय पुत्रदाय नमो नमः ।
द्वादशादित्यरूपाय भास्कराय वरप्रद ।
॥
इति द्वादशभिर्मन्त्रै माज्ज्ञनैः स्नपनन्नमन् ।
धर्माथाकाममोक्षादीन् लभते नात्र संशयः ॥९१॥
पित्र्युद्धारकरं तीथं ध्रुवक्षेत्रं महाफलं ।
प्रेतयोनिगतास्तेऽपि पितरो लुप्तपिण्डकाः ॥
अपुत्रा नर्कगाश्चैव यत्र श्राद्धमवाप्नुयात् ।
प्रेतयोनिं परित्यक्त्वा देवायोनिमवाप्नुयुः ॥
ततो ध्रुवक्षेत्रस्नान प्रार्थनमन्त्रः —
गदाधर नमस्तुभ्यं पितृमोक्षविवर्धन ।
ध्रुवक्षेत्रवर श्रेष्ठ ध्रुवाटलवरप्रद ॥
इति मन्त्रं नवाबृत्या मज्जनैः स्नपनं नमन् ।
ध्रुवलोकमवाप्नोति विष्णोश्चैव प्रसादतः ॥
ध्रुवसांहितायां —
ध्रुवस्तपश्चकाराऽत्र शताब्दं बहुविस्तरं ।
भगवद्दर्शनं लब्ध्वा पदवीमटलां लभेत् ॥९२॥
ततस्तु गोपिकाः सर्वाः भगवद्भोजनाय च ।
ओदनं नियमानास्ता कृष्पापूजनतत्पराः ॥
चक्रुर्विविधगानैस्तु कृष्णपूजां मनोर्थदां ।
यतस्तु गोपिकानीतोदनस्थानमुदाहृतं ॥
यत्र स्थानं प्रपूज्यन्त्योदनेनैव विधानतः ।
लोको कामानवाप्नोति धनधान्यसमृद्धिभिः ॥
मथुराभ्यन्तारे मार्गे वृन्दृआवनगमागमे ।
स्थानं देवैः शुभं कार्यं शून्यं पूर्णमहोत्सवं ॥
ततो गोपिकानीतौदनप्राथनामन्त्रः ।
बृहन्नारदीये —
नमस्ते वासुदेवाय गोपिकावल्लभाय च ।
स्वादौदानप्रयुक्ताय श्रीकृष्णाय नमो नमः ॥
इति मन्त्रं षडावृत्या पठन्स्थानं प्रणम्य च ॥९३॥
ततो कुवलयापीडवधस्थलप्रार्थनमन्त्रः —
दन्तभग्न नमस्तुभ्यं बलकृष्णकृताऽर्थक ।
नमः कुवलयापीडवधस्थान वरप्रद ॥
सप्तभिर्मान्त्रमुच्चार्यं स्थानं च प्रणमेत्सुधीः ।
हस्तितुल्यबलं लब्ध्वा यमपुरात्स जीवति ॥९४॥
चाणूरमुष्टिकौ मल्लौ बलकृष्णकृतोजसौ ।
तयो र्वधस्थल श्रेष्ठ तिवीर्यबलप्रदं ॥
ततो चाणूरमुष्टिकमल्लवधस्थानप्रार्थनमन्त्रः —
नमश्चाणूरमल्लाय मुष्टिकाय तथा नमः ।
बलभद्रहतायैव कृष्णाखण्डकृतायते ॥
इति मन्त्रं चतुर्भिस्तु द्वयोः स्थानं नमश्चरेत् ॥९५॥
ततो कंसशयनस्थलप्रार्थनमन्त्रः —
कृष्णोद्भव विचिन्त्याय कंसशायन वेश्मने ।
नमो नरदमन्त्रय भगवज्जन्महेतवे ॥
इति मन्त्रं त्रिभिरुक्त्वा नमस्कारं त्रयं चरेत् ।
वैकुण्ठपदमाप्नोति सुशील इव रूपधृक् ॥९६॥
ततो उग्रसेनीकारागृहस्तानप्रार्थनमन्त्रः ।
दशमे —
गायन्ति ते विशदकर्मगृहेषु देव्यो राज्ञां स्वशत्रुवधमात्मविमोक्ष्णं च ।
गोप्यश्च कुञ्जरपतेर्ज्जनकात्मजायाः पित्रोश्च लब्धशराणा मुनयो वयं च ॥
इति मन्त्रमुदांहृत्यैकादशैर्वृतिभिर्नमेत् ।
यत्र स्थाने प्रयोगं च निगडेन परिप्लुते ॥
दशसाहस्रसङ्ख्याकै र्मुक्तः कारागृहाद् भवेत् ।
सत्यं सत्यं पुनः सत्यमुग्रसेनिप्रणोदितः ॥९७॥
ततो उग्रसेनिराज्याभिषेकस्थानप्रार्थानमन्त्रः ।
भविष्योत्तरे —
पुत्रवाधानिवृत्ताय राज्यस्थान नमोऽस्तु ते ।
अन्धायान्धस्वरुपाय कृष्णराज्याभिषेचने ॥
इति मन्त्रमुदाहृत्य सप्तभिः प्रणमेत्सुधीः ।
ययाति शापतो कृष्णो राज्यसिंहासने न्यसेत् ॥
मातुश्च पितरं नत्वोग्रसेनमभिषेचयेत् ।
इत्येते मथुरायास्तु तीर्थाः देवाश्च सुस्थलाः ॥
स्नानप्रणतिपूजाभिः पूजनीया पृथक् पृथाक् ॥९८ ॥
सकलगुणनिधानो भट्टनारायणाख्यः ।
प्रभुमयप्रचुरात्मा नारदस्यावतारः ॥
व्रजशुभगुणमध्ये सांस्थितस्थानतीर्थ ।
विधिसमयप्रयोगं पूर्णमेतच्चकार ॥९९॥
इति श्रीभास्करात्मजभट्टनारायणविरचिते व्रजभक्तिविलासे परमहंससंहितोदाहरणे व्रजमहात्म्यनिरूपणे
वन-यात्राप्रसङ्गे मथुरोत्पत्तिमहात्म्यकथनदर्शनं नाम तृतीयोऽध्यायः ॥१००॥
—ओ)०(ओ—
(४)
॥ चतुर्थोऽध्यायः ॥
अथ श्रीकुण्डवनाद्युत्पत्तिमहात्म्यदर्शनं ।
आदिवाराहे—
तत्रादौ श्रीकुण्डवनप्रार्थनमन्त्रः—
कृष्णक्रीडास्थलायैव नमस्तुभ्यं वनाय च ।
साफलाख्यं वर देहि कृष्णसौभाग्यदायिने ॥
इति मन्त्रं समुचार्य चतुर्भिः प्रणमेद्वनं ॥१॥
गोपिका रमते यत्र कृष्णसार्धं यथेच्छया ।
यस्मात्तु गोपिकाकुण्डं सर्वसौभाग्यदायकं ॥
ततो गोपिकाकुण्डस्नानप्रार्थनमन्त्रः—
कृष्णवश्यकृते तुभ्यं गोपिकाविमलोज्ज्वल ।
पीतवर्णाजलायैव गुप्तपुण्यफलप्रद ॥
इति मन्त्रं दशावृत्त्या मज्जनै स्नपनं नमन् ।
धर्मार्थकाममोक्षादीन् लभते वै न संशयः ॥
यत्रव गोपीकानां च पूजन वस्त्रभोजनः ।
सौभाग्यफलमाप्नोति सौभाग्यं वर्धनं भवेत् ॥
त्रयोदश्यां तु सप्तभ्यां भाद्रकार्त्तिकयोस्तथा ।
कृष्णपक्षे शुभयोगे कुर्यात्साङ्गप्रदक्षिणां ॥२॥
वनस्य व्रजयात्रायाः प्रसङ्गेऽनुक्रमेन च ।
अरिष्टासुरनामासौ यत्रैव वसते सदा ॥
यदरिष्ट वनं नाम बहुवानरसङ्कुलं ।
ततो ऽरिष्टप्रार्थनमन्त्रः—
अरिष्टरूपिणे तुभ्यं वनाय च नमो नमः ।
वानराकुलरुम्याय ममारिष्टं विनाशय ॥
इति मन्त्रं समुच्चार्य पञ्चभिः प्रणमेद्वनं ।
अरीष्टे नैव पश्यन्ति बहुवैरिकृतेऽपि च ॥
वृषरूपं समाधाय कृष्णघाताय त्वागमत् ।
यतो वृषासुरो नाम विख्यातः पृथिवीतले ॥
+स्कान्देः—
यत्र कृष्णाहतो दैत्यौ धेनुकासुरदैत्यराट् ।
यत्रारिष्टाः समाख्याताः शत्रोर्बधज्वरादयः ॥
प्रयोगेनैव नश्यन्तु वधस्थानोत्तमोत्तमः ।
ज्वरमेकान्तरं चैवान्यहिक्यं च तृतीयकम् ॥
सप्तमासो परिभ्रामन् यत्रस्थानोत्तमोत्तमः ।
ज्वरमुक्तो भवेल्लोको परमायुः स जीवति ॥३॥
ततो धेनुकासुरवधस्थानप्रार्थनमन्त्रः—
कृष्णां प्रसादितायैव धेनुकासुर नाशक ।
सुस्थानाय नमस्तुभ्यं गोपिकाभयहारिणे ॥
इति मन्त्रमुदाहृत्य सप्तभिः प्रणमेत्स्थलम् ।
सर्वारिष्टविमुक्तोऽसौ सर्वदा सुखमाप्नुयात् ॥
ललितामोहनो यत्र वृषहत्यानिवृत्तये ।
अष्टषष्टिसमाख्यातान्तीर्थानाहूय संस्नपन् ॥
वृषह्त्याविमुक्तोऽसौ ख्यातौ द्वौ कुण्डविश्रुतौ ।
ललितामोहनौ कुण्डौ कृमिहत्याव्यपोहकै ॥
ततो ललितामोहनकुन्डयोः स्नानप्रार्थनमन्त्रः—
नमो पातकविघ्नाघ्नौ ललितामोहनौ शुभौ ।
स्नापयेऽहं विमोक्षाय कुन्डौ नीरमनोहरौ ॥
इति मन्त्रं समुचार्य दशभिर्मज्जनै र्नमन् ।
आदौ तु ललिताकुण्डं स्नापयेद्दशमज्जनैः ॥
ततस्तु मोहनं कुन्डं सर्व हत्यान् विमुच्यति ।
भ्रूणहा कृमिहा गोहा ब्रह्महा स्वानहात्महा ॥
एताभ्यो षड् हत्याभ्यो स्नापनाच्च विमुच्यते ॥४॥
ततस्तु राधिकात्यक्तो ललितामोहनस्तदा ।
अस्माकं नैव संसर्गो वृषहत्यासमन्वित ॥
नैव दृष्टा न ज्ञातव्यास्त्वस्मर्भितीर्थसङ्गता ।
न मन्तव्य न मन्तव्यं वृषहत्याविमोचनं ॥
एतद्राधावचः श्रुत्वा कृष्णो विह्वलमानसः ।
ललितान्तु परित्यज्य राधापाणिं समाददे ॥
स्थित्वाग्रतः स्थले राजन् कुण्डे तीर्थान्समाह्वये ।
चक्रतु स्नपनं यत्र राधाकृष्णौ सुनिर्मलौ ॥
यतस्तु पृथिवीलोके कुण्डौ श्रीकृष्णाराधिकौ ।
ललिता द्वयकुण्डाभ्यां जलं यत्रैवनीयते ॥
विमलौ सर्वपापघ्नौ ब्रह्महत्याविघातकौ ।
आदौ स्नानं तु रधायाःकुण्डे सर्वार्थदायकम् ॥
ततस्तु कृष्णकुण्डे तु सर्वपापप्रणाशनम् ।
ततो राधाकृष्णकुण्डयोः स्नानप्रार्थनमन्त्रः ।
वाराहे—
सर्वपापहरस्तीर्थ नमस्ते हरिमुक्तिद ।
नमः कैवल्यनाथाय राधाकृष्णाभिधायिने ॥
इति मन्त्रमुदाहृत्य अष्टषष्ठयादिमज्जनैः ।
स्नापयेद्विधिना पूर्वं नमस्कारं पृथक् पृथक् ॥
वृषहत्यादिपापानि प्रणश्यन्ति प्रभावतः ।
धनधान्यसुतोत्पात्तिश्चिराय सुखमाप्नुयात् ॥
द्वयोस्तु कुण्डयोश्चैव स्नानमेकविध स्मृतम् ॥५॥
तयोस्तु सङ्गमपार्श्वे सखीनां मण्डलं स्थलं ।
सरित्पूर्णविधानेन सखीनां सप्तभ्यां निशि ॥
पूजनं विधिवत्कुर्यात्सरित्पूर्णफलं लभेत् ।
धनधान्यसमृद्धिं च सर्वदा सुखमाप्नुयात् ॥
ततो सखीमण्डलप्रार्थनमन्त्रः—
सखीनां मण्डलायैव राधादिभ्यो नमो नमः ।
सर्वमङ्गलमागाल्यवरदाय नमो नमः ॥
इति मन्त्रं चतुषष्ठया वृत्तिभिः प्रणमेत्स्थलं ।
सर्वदा सुखमाप्नोति सर्वदा नेत्रशीतलः ॥६॥
ततो यत्र कलाकेल्या सख्या वैवाहिकं स्थलं ।
दशवर्षस्वरूपेण कलाकेलिकृतो हारिः ॥
कृतं ललितया चैव प्रियग्रन्थिं विनिर्मितम् ।
उच्छरन् बहुधा गीतं वैवाहिकसुमङ्गलम् ॥
गानं सर्वसखिभिस्तु प्रियसौभाग्यवर्धनं ।
यतो वैवाहिकं स्थानं सर्वदैव वरप्रदम् ॥
ततो विवहस्थलप्रार्थनमन्त्र—
कलाकेलिविवाहस्थाशोकपुत्री वरप्रदः ।
सुस्थानाय समानीय व्रजराजस्य हेतवे ॥
इति मन्त्रमुदाहृत्य सप्तभिः प्रणयेत्स्थलं ।
नारी सौभाग्यसंयुक्ताखण्डसौभाग्यमाप्नुयात्॥७॥
तत्रैव संस्थितो कृष्णो राधया सहितो हरिः ।
राधावल्लभमूर्तिस्तुलोकानां वरदायकः ॥
ततो राधावल्लभप्रार्थनमन्त्रः ।
ब्रह्मवैवर्त्ते राधाखण्डे—
राधावल्लभरूपाय पुत्रपौत्रप्रदाय च ।
नमस्ते केशवायैव सर्वपापप्रणाशिने ॥
दशवर्षस्वरूपेण कलाकेलिं वृणोद्धारिः ।
इति मन्त्रं समुचार्य दशधा प्रणमेद्धरिम् ॥८॥
स्नानयात्राप्रसङ्गे तु स्थानमूर्त्योस्तु दर्शनम् ।
नैव कुर्यात्श्रमस्तस्य विफलस्तु प्रजायते ॥
यत्र तीर्थे स्थिताः विष्णो र्मूर्तयस्तु विराजिताः ।
नमस्कारैः पृथक् पूज्यास्तेऽपि सर्वे वरप्रदाः ॥
शापदा नैव पूज्यास्ते राधाकृष्णेन निर्मिता ॥९॥
ततो मदनगोपालमूर्तिर्भूत्वा स्थितो हरिः ।
लोकानां मोहनार्थाय गोपीनां च तथैवच ॥
ततां मदनगोपाल प्रार्थनमन्त्रः ।
विष्णुरहस्ये—
देवाय वासुदेवाय धर्मकामार्थ दायिने ।
नमस्ते मोहनायैव श्रीमद्गोपालरूपिणे ॥
इत्येकादशभिर्मन्त्रं पठन्नत्र नमस्करोत् ।
वैकुण्ठपदमाप्नोति पुण्यशीलसमो नरः ॥
वन-यात्राप्रसङ्गे तु विधिरेषा प्रकीर्तिता ।
इति श्रीकुण्डमाहात्म्यमुत्त्पत्तिस्नपनं यजं ॥
निरूपितं यथा साङ्गं त्रिषु लोकेषु मुक्तिदम् ।
इति श्रीकुण्डमाहात्म्यं ॥१०॥
अथ वन-यात्राप्रसङ्गे नन्दग्रामतीर्थादेवोत्पत्ति माहात्म्य ।
आदिपुराणे—
यत्र नन्दोपनन्दास्ते प्रतिनन्दाधिनन्दना ।
चक्रुर्वासं सुखस्थानं यतो नन्दाभिधानकं ॥
भाद्र कार्तिकयोः शुक्ले चतुर्थ्यामष्टमीदिने ।
वन-यात्राप्रसङ्गस्तु सर्वकामार्थ दायकः ॥११॥
ततो मधुसूदनकुण्डष्नानप्रार्थनमन्त्रः—
केशवाय नमस्तुभ्यं परमायुर्विवर्धने ।
मधुसूदन कृष्णाय देवानं हितकारिणे ॥
सप्तभिर्मत्रमुचार्य स्नपन मज्जनैर्नमन् ।
सर्वाधर्मार्थकामादीन् लभते नात्र संशयः ॥१२॥
मधुसूदनमूर्तिं च यशोदा यत्र स्थापयेत् ॥ ततो मधुसूदनमन्त्रः—
यशोदाशासितायैव दैत्यदर्पविनाशिने ।
नमस्ते विरजीवाय मधुसूदन केशव ॥
इति मन्त्रं दशावृत्या नमस्कारं समाचरेत् ।
परमायुः सजीविन्यो निरान्तका निरीतयः ॥१३॥
यशोदा कुरुते स्नानं नित्यमेव दिनं प्रति ।
यतो सञ्जायते कुण्डं यशोदासञ्ज्ञकं शुभम् ॥
यत्र पयस्विनी नारी गवामधिपतिर्नरः ।
दर्शानात्स्नानतो वापि धनधान्यसुखैर्ंयुतः ॥
ततो यशोदाकुण्डस्नानप्रार्थनमन्त्रः—
धनधान्यसुखं देहि तीर्थराज नमोस्तु ते ।
वैकुण्ठपदलाभाय प्रार्थयामि नमस्तु ते ॥
इति मन्त्रं समुचार्य मज्जनैर्दशधा स्नपन् ।
नमस्कारं प्रकुर्वीत पुत्रादिसुखमाप्नुयात् ॥१४॥
ततो हावप्रार्थनमन्त्रः—
नमः कृष्णङ्क्षकास्तुभ्यं धर्मकामार्थामोक्षिणः ।
पाषाणरूपिणो देवाः यशोदाशीषसंसस्थिताः ॥
इति मन्त्रं षडावृत्यापठं च प्रणमेत् च तान् ।
अभयं पदमाप्नोति परशङ्काविवर्जितः ॥१५॥
यत्रईव ललितायाता राधया प्रेषिता किल ।
सङ्केते कृष्णमानीय स्नपनं कुरुते स्थले ॥
यतस्तु ललिताकुण्डमभिधानमनोहरं ।
महातीर्थं समाख्यातं देवानामपि दुर्लभं ॥
ततो ललिताकुण्डस्नानप्रार्थनमन्त्रः—
ललिते स्नपने रम्यं स्वर्गद्वारविधायिने ।
नमो विमलतोयाप तीथाराज नमोस्तु ते ॥
इति मन्त्रमुदाहृत्य सप्तभिर्मज्जनैः स्नपन् ।
नरो मोक्षमवाप्नोति ललिताकुण्ड संस्मरन् ॥१६॥
ललिता स्नपनं कृत्वा मोहनेक्षणमिच्छति ।
ततस्तु तत्समीपे तु स्नपितं कृष्णमोक्षयेत् ॥
तत्रैव ललिता कुर्यात्कुण्डमोहनसञ्ज्ञकम् ।
यत्र स्नायाद्विधानेन कृष्णदर्शनमाप्नुयात् ॥
साफल्यपदमाप्नोति जगन्मोहनकारकम् ।
ततो मोहनकुण्डस्नानप्रार्थनमन्त्रः—
नमो मोहनकुण्डाय जाह्नवीफलदायिने ।
नमः कैवल्यनाथाय कृष्णदर्शनहेतवे ॥
इति मन्त्रं दशावृत्या मज्जनैः स्नपनं नमन् ॥१७॥
यत्र नन्दादयो गोपाः गवां दोहनमाददुः ।
नन्दाः स्वेतांश्च गांश्चैव दुदुहुरयुताधिकाः ॥
मणार्धं दुग्धतः पूर्णां त्वाभीरगोकुलोत्सवाः ।
प्रतिनन्दास्तथा पीता उपनन्दाश्च रक्तकाः ॥
अधिनन्दाश्च धूम्राश्चासितवर्णविवर्जिताः ।
यत्र कुर्याद्गवां दानं पुण्यकोटिगुणं फलम् ॥
अशक्तौ तु गवां दाने स्वर्णरूप्यादिदोहनीम् ।
दद्यात्विप्राय विज्ञाप्य दशलक्षगुणं फलम् ॥
प्रताप मार्तण्डे—
दुग्धकुण्डे पयोदानं स्वयं पानमथाचरेत् ।
स्वर्णादिपात्रके धृत्वा शर्करोपरि संस्थितम् ॥
नमः प्रदक्षिणौ कृत्य ब्राह्मणाय निवेदयेत् ।
गवामधिपतिर्भूयात्शतसङ्ख्याभिधायिनाम् ॥
यतस्तु दोहनीकुण्डं नन्दग्रामे शुभप्रदम् ।
ततो दोहनीकुण्डस्नानप्रार्थनमन्त्रः—
नमो निर्मलतोयाढय देवानां च सुधामय ।
नमस्ते दोह सम्भूत सर्वकामार्थदायक ॥
इति मन्त्रमुदाहृत्य दशभिर्मज्जनैः स्नपन् ।
नमन्सुफलमाप्नोति सकलेष्टफलं शुभम् ॥१८॥
यत्र नन्दादयो गोपा दुग्ध्वा दुग्धं समादधुः ।
दुग्ध कुण्डं समाख्यातं तात्र दुग्धमगोऽभवत् ॥
ततो दुग्धकुण्डस्नानप्रार्थनमन्त्रः ।
धौम्योपनिषदि –
सुधामयस्वरूपाय देवमोक्षप्रदायिने ।
नमः कैवल्यनाथाय सर्वदारोग्यतां कुरु ॥
इति मन्त्रं चतुर्भिस्तु मज्जनैः स्नपनं नमन् ।
देवतुल्यं भवेत्क्रायं परमेशपदं लभेत् ॥१९॥
भुक्तासौ दधिभाण्डं तु कृष्णो यत्र दधिक्षिपेत् ।
मात्रा सन्तर्जयन् धावन् दधिना भूमिपूरिता ॥
यतस्तु दधिकुण्डस्तु देवानाममृताह्वयः ।
देवानां दुर्लभः श्रेष्ठः मुनिगन्धर्वयोगिनां ॥
दधिदानं च विप्राय दत्त्वाथ स्वयमस्नुते ।
दशकोटिगुणं पुण्यं फलमाप्नोति मानवः ॥
ततो दधिकुण्डप्रार्थनमन्त्रः—
देवानां दुर्लभतीर्थ नमस्तेऽमृतरूपिणे ।
जलरूपहरस्तुभ्यं पयोराशिं शुभप्रदं ॥
इति मन्त्रं त्रयत्रिंशैः पठन् स्नायात्तु मज्जनैः ।
साफल्यपदमाप्नोति गोरसईः सर्वदा सुखं ॥२०॥
भवन्ति देवताः सर्वे पवित्रं च सरोवरम् ।
तस्मात्पावननामासौ लोकानां पावनीकृतम् ॥
पवित्ररुपिणं तीर्थं ब्रम्हाहत्यादिनाशनम् ।
तिलादिपूण्यधान्यानां स्वर्णदीनं च पावनं ॥
दानण् विप्राय दातव्यं काचनाङ्गध्युतिप्रदम् ।
ततो पावनसरः स्नानप्रार्थनमन्त्र —
नमः पावनरूपाय देवानां कल्मषापहम् ।
नन्द्दादिपावनयैव तीर्थराज नमोस्तु ते ॥
इति मन्त्रं समुचार्य षोडशैर्मज्जनैर्नमन् ।
स्नपनं चक्रिरे लोका वैकुण्ट्ःअपदमाप्नुयात् ॥२१॥
तत्रैव सरसो मध्ये यशोदाकूपमुत्खनत् ।
यत्र कूपं पिवेत्तोयं कृष्णतुल्यं सुतां भवेत् ॥
घटैर्दुग्धं प्रदातव्यं नन्दग्रामाधिशालिने ।
पितृणामक्षयं दत्तं फलमाप्नोति मानवः ॥
ततो यशोदाकूपस्नानाचमनमन्त्रः ।
आदिवाराहे —
कामसेनीन्सुताकूप सुपुत्रफलदायक ।
नमः पावनतीर्थाय गोपिकायै नमस्तु ते ॥
सप्तभिः पठते मन्त्रं मज्जनाचमनं चरेत् ।
सुपुत्रफलमाप्नोति धनधान्यादिसम्पदम् ॥२२॥
तत्समीपेऽकरोन्माताकृष्णविक्रीडनायसा ।
कदम्बानां वन श्रेष्टं गोपिकाप्रियवल्लभं ॥
कदम्बखण्डमाख्यातमतिसौभाग्यवर्धनं ।
ततो कदम्बवनप्रार्थनमन्त्र —
गोपिकावल्लभायैव कृष्णगोपालरूपिणे ।
नमस्ते सुखरूपाय यशोदानन्दनाय च ॥
इति मन्त्रं चतुर्भिस्तु नमस्कारं समाचरेत् ।
घटिमात्रं विलम्व्यात्र वैकुण्ठपदमाप्नुयात् ॥२३॥
दधि मन्थानमाचक्रे यशोदायुतकं दधि ।
चतुर्थांशायुतं सर्पि दधिमाखनभाजनौ ॥
लघुदीर्घाउ विराजन्तौ नन्द वेश्मसमीपतः ।
ततो दधिभाजनप्रार्थनमन्त्रः —
कामसेनिसुताकार्य सुमिष्टदधिभाजनौ ।
नमस्त्वमृतरूपाय देवानां मोक्षहेतवे ॥
इति मन्त्रमुधृअत्य दशधा च नमस्करोत् ।
दशाचमनमाचक्रे तक्रं सङ्कुशमीकृतम् ॥
चिरजीवी भवेलोको गवामधिपातेर्भवेत् ।
धनधान्यसुताद्यौश्च परिवरसुखं चिरं ।२४॥
ततो नन्दीश्वरं रुद्रं नाम्ना संस्थापयेत्प्रिया ।
नन्दीश्वरं नन्दपत्नी स्थापितं मङ्गलार्थये ॥
परिवारसुखार्थाय कुलाभीर सम्बृद्धये ।
ततो नन्दीश्वरप्रार्थनमन्त्रः ।
स्कान्दे —
नन्दीश्वराय देवाया भीरोत्पत्पत्तिहिताय च ।
यशोदासुखदायैव महादेवाय ते नमः ॥
शक्रावृत्यापठन्मन्त्रं नमस्कुर्याच्चतुर्दशैः ।
चिरायुर्भवति लोको धनधान्यसुखं लभेत् ॥२५॥
इति प्रासादितो रुद्रा यशोदायै वरं ददौ ।
स्वकीयाय कृतार्थाय वरं प्रार्थयते हरः ।
यत्राहं पर्वतो भूये बलकृष्णसुते नमः ।
नन्दधातृसमेतस्त्वं ममोपरि विराजते ॥
ततो नन्दधाममन्दिरे नन्दयशोदाकृष्ण बलभद्रप्रार्थनमन्त्रः ।
ब्रह्मवैवर्त्ते –
नन्दधात नमस्तुभ्यं यशोदायै नमो नमः ।
नमः कृष्णाय बालाय बलभद्राय ते नमः ॥
इति मन्त्रं चतुर्भिस्तु चतुर्धा प्रणमेन्नर ।
सर्वदा सुखमाप्नोति चिरकालस्य सम्पदा ॥२६॥
यशोदायाः महान्पुत्रो नन्दपत्न्याः समुद्भवः ।
ज्येष्ठो युगलमूर्तिस्तु यशोदानन्दनाभिधः ॥
कृष्णरामान्वितान्मातुः प्र्थक्संस्थो बृहत्सुतः
ततो यशोदानन्दनयुगल प्रार्थनमन्त्रः ।
भविष्योत्तरे —
यशोदानन्दनायैवं युगलाय स्वरूपिणे ।
नमस्तु नन्दसत्पुत्रभूमिदीप्तिकृताय च ॥
इति मन्त्रं चतुर्भिस्तु पठं च प्रणतींश्चरेत् ।
चतुराचमनं दुग्धं यत्र कुर्यात्सुधी नर ॥
सर्वदा तृप्तिमाप्नोति चिरञ्जीवी भवेत्किल ॥२७॥
सीमायां ग्रामतो स्थित्वा नन्दादिभ्यो नमश्चरेत् ।
ततो षड्त्रिंशनन्दोपनन्दप्रतिनन्दाधिनन्दप्रार्थनमन्त्र —
नमो नन्दोपनन्देभ्यो प्रतिनन्दाय ते नमः ।
नमोधिनन्दगोपेभ्यो सुपुत्रेभ्योऽर्थ सिद्धये ॥
इति मन्त्रं तु षड्त्रिंशैः पठंस्तु प्रणतींश्चरत् ।
नन्दस्य परिवारे च परिवारोऽस्य जायते ॥
इत्येते देवता ख्याता नन्दग्रामव्रजौकसः ।
तीर्थाः पुणफलाः प्रोक्तास्त्रिवर्गफलदायिनः ॥
इति सदेवतीर्था नन्दग्राम उत्पत्ति माहात्म्य निरूपणं ॥२८ ॥
अथ वन-यात्राप्रसङ्गे सदेवतीर्थनामाख्यवनोत्त्पत्तिमहात्म्यनिरूपणं ।
ब्राह्मे —
भाद्रशुक्ले तु पूर्णायां वन-यात्रा समाप्यते ।
गढृ नाम्नो वनस्यापि माहात्म्यं च प्रदर्शयेत् ।
आसीद्वयोमासुगे? नाम बलदेवरिपुर्वली ।
वासं यत्र चकारासौ मह्द्वप्रे मनोहरं ॥
वज्रकीलं गिरिं यत्र स्थापयेद्रक्षक्षाय च ।
हलायुधविघाताय मुसलखण्डनाय च ॥
लघुप्रकार विस्तारं ग्रन्थभूयस्त्व शङ्कय ।
वक्ष्येऽहं रमणं ग्रन्थं व्रजभक्तिविलासकां ॥ इति भट्टोक्ति ॥२९॥
ततो व्योमासुरप्रार्थनमन्त्रः ।
लैङ्गे —
बलदेवारिहम्यर्य शक्रादीनां परिग्रह ।
देवरूपाय देवाय सुस्थलाय नमो नमः ॥
इति मन्त्रं नगावृत्या नमस्कारं समाचरेत् ।
पदं मोक्षमवाप्नोतीः सर्व-वन्धात्प्रमुच्यते ॥३०॥
ततो वज्रकीलप्रार्थनमन्त्रः —
वज्रकीलायते तुभ्यं नमस्तु गिरये नमः ।
बलभद्रार्थिने तुभ्यं देवानां वरदायिने ॥
इति मन्त्रं समुचार्य सप्तभिस्तु नमश्चरेत् ।
पदमैन्द्रमवाप्नोति पुनर्जन्म न विद्यते ॥३१॥
भविष्ये —
गोकुले सः समागत्य व्योमासुरो नभोगतिः ।
स्कन्धमारुह्य शेषाख्यं नभसि तु स्थले भ्रमन् ॥
तत्रैव बलदेवस्तु पातयन्तं भुवस्थले ।
खण्ड खण्डं हलेनापि चकार मुसलायुधो ॥
दशयोजनविस्तीर्णं शरीरं तस्य संस्थितं ।
यत्र ब्रह्मादयो देवां बलभद्राभिषेचनं ॥
चक्रुस्ततो वभूवात्र बलभद्रसरः शुभम् ।
ततो बलभद्रसरः स्नानप्रार्थनमन्त्रः —
नमो भद्रस्वरूपाय सुभद्राय शुभप्रदः ।
अभद्रनाशिने तुभ्यम् नमः सङ्कर्षणाय ते ॥
इति मन्त्रमुदाहृत्य सप्तभिर्मज्जनईः र्नमन् ।
स्नान कुर्याद्विधानेन चिरजीवी भवेन्नर ॥३२॥
तत्तीरे पूर्णिमारात्रौ कृष्णो गोपिभिः संयुतः ।
रासक्रीडां करोद्यत्र वहुधा विमलां भवन् ॥
भ्रातुर्विजयसंस्थानव्योमासुरवधस्थले ।
ततो रासमण्डलप्रार्थनमन्त्रः —
वल्लभाय च गोपीनां नमस्ते रासमण्डल ।
भूमिभारावताराय प्रसीद परमेश्वर ॥
इति मन्त्रं दशावृत्या पठं च प्रणमेद्धरिम् ।
सर्वदा सुखमाप्नोति विचरन् पृथिवीतले ॥३३॥
वज्रकीलोपरि कृष्णो राधया साहितो गमन् ।
मीनलग्नोदये जाते दानलीलां च भोजनम् ॥
प्रसादं दत्तवान्नत्र सर्वेभ्योच्छिष्टमोदकान् ।
राधावल्लभमूर्तीस्तु मन्दिरे प्रवभूवह ॥
ततो राधावल्लभमन्दिरार्लोकप्रार्थनमन्त्रः ।
Bऋहत्पाराशरे —
नमस्तु वल्लभायैव राधाप्रिय मनोहर ।
गोलोकपदरूपाय नमस्तेच्युतशोभने ॥
इति मन्त्रमुदाहृत्यैकादशप्रणतीन् चरेत् ॥३४॥
पर्वतोपरि संस्थित्य वाक्यैः कृष्णः समाह्वयन् ।
गोपालाम्ं च सखीनत्र वाक्यनामा भवद्वनम् ॥
ततो वाक्यवनप्रार्थनमन्त्रः —
कृष्णवाक्यसमुद्भूत वधिरान्धविनाशन ।
सर्वदारोग्यलाभाय वाक्यनाम्ने नमस्तु ते ॥
इति मन्त्र समुचार्य दशधा प्रणमेद्वनम् ।
वधिरान्धो भवेत् यत्र मासत्रयतपश्चरेत् ॥
वधिरन्धद्वयद्रोगन्मुच्यते नात्र सण्शयः ।
इति वप्रवने (वक्य) देवास् तीर्थाः पुण्यफलप्रद ॥
पूर्णायां वन-यात्राया समापनं समाचरन् ।
इति वन-यात्राप्रसङ्गे वाक्यवप्रवनोत्पत्तिमहात्म्यनिरूपाशम् ॥३५॥
अथ ललिताग्राम उच्चग्राम तीर्थदेवोत्पत्तिमहात्म्यनिरूपणम् ।
विश्णुरहस्ये —
यत्र गोपसुताः सर्वा ललितादिप्रभृतयः ।
क्रीडाश्चक्रु समासेन श्रीकृष्ण गुण मोदिताः ॥
यस्मात्सखी गिरिर्नम वभूव व्रजमण्डले ॥३६॥
तत्पार्श्वे खिसलीख्याता कृष्णक्रीडा शिलास्थिता ।
भाद्रे मासे सितेपक्षे तृतीयायां शुभदिने ॥
वन-यात्राप्रसङ्गस्तु क्रोशत्रयप्रविस्तृतः ।
ततो खिसलिनीशिलाप्रार्थनमन्त्रः —
सह गोपालकृष्णाय स्खलनक्रीडनाय च ।
यशोदानन्दना यैव सुस्थलाय नमो नमः ॥
इति मन्त्रं दशावृता नमस्स्खलनमाचरेत् ।
स्वर्गश्रेणीं समारुह्य वैकुण्ठपदमाप्नुयात् ॥३७॥
यत्र कृष्णकृतोद्वाहे ललिता व्रज क्रीडकः ।
सप्तवर्षस्वरूपेण ललितां संवृणोद्धरिः ॥
यतो वैवाहिकं स्थानं शक्रादीनां वरप्रदम् ।
ततो वैवाहिकस्थलप्रार्थनमन्त्रः —
व्रजोत्सवाय कृष्णाय व्रजराजाय शोभिने ।
ललितायै नमस्तुभ्यं व्रजकेल्यै नमो नमः ॥
सप्तधा पठते मन्त्रं नमस्कारं समाचरेत् ।
दम्पत्योर्वहुधा प्रीतिः सर्वदा चिरवर्धिनी ॥
कुमारी वा कुमारोऽसौ कृष्णोद्वाहसुखं लभेत् ।
कृष्णतुल्यो भवेत्लोको नारी स्याल्-ललिता-समा ॥
वृद्धो मोक्षपदं लब्ध्वा देवदम्पातितां चरेत् ॥३८ ॥
ततस्-त्रिवेणी-तीर्थ-प्रार्थनमन्त्रः ।
कौर्म्ये —
कृष्णाज्ञासम्प्रव्रर्तिन्यै त्रिवेण्यै सततं नमः ।
परं मोक्षपदं देहि धनधान्यप्रवृइर्धिनी ॥
उच्चग्रामनिवासिनीं भगवतीं वेणीं महास्वर्णदीं स्नानार्थं ललिता गता शुभप्रदा नाम्नी किशोरीमता ।
स्नानार्थं समुपागता च रमणो श्रीरेवतीं वल्लभां श्रीदेवो बलदेवः सन्निधिगतां स्नायात्प्रभोरग्रजः ।
इति मन्त्रण् समुचार्य नमस्कारत्रयं चरेत् ।
त्र्यङ्गुलिभिः समादाय धूलिं धार्य ललाटके ॥
परमेशपदं लब्ध्वा कृतार्थः स्वाद्भृउवस्थले ।
नित्यं धूलिं ललाटे च वेणीस्नानफलं लभेत् ॥३९॥
ततो रासमण्डलप्रार्थनमन्त्रः —
सख्यान्विताय कृष्णाय रास क्रीडान्विताय च ।
वेणीरम्यकृतार्थय सुस्थलाय नमो नमः ॥
इति मन्त्रं दशावृत्या नमस्कारं पटञ्ञ्चरेत् ॥४०॥
कूपं चक्रुश्च ताः सर्वः सख्यस्तु ललितादयः ।
अपः पानाय कृष्णस्यागमनायेक्षणाय च ॥
सखी कूपं समाख्यातं त्रिवेण्यां मण्डले स्थले ।
ततो सखिकूपस्नानाचमनमन्त्रः —
कृतार्थोऽसि सखीकूप देवानां मुक्तिह्रेतवे ।
ललितायाः स्वपानाय साखीकूप नमोऽस्तु ते ॥४१॥
इति मन्त्रं षडावृत्या मज्जनाचमनं नमन् ।
मुक्तो कृतार्थप्तां याति भगवद्भक्त वत्सलः ॥
यत्रैव नारदो मुक्तो भट्टनारायणस्तथा। इति भट्टोक्तिः ॥४२॥
ततो श्रीबलदेवप्रार्थनमन्त्रः ।
पाद्मे —
रेवतीरमणायैव नमस्ते मुसलायुध ।
लाऋइलेय समेताय हलायुध नमोऽस्तु ते ॥
इत्येकविंशवारैस्तु नमस्कारं समाचरेत् ।
कृतार्थो जायते लोको सर्वधान्यधनैर्युतः ॥४३॥
ततो ललितास्थलप्रार्थनमन्त्रः —
ललिताक्रीडनस्थान नमस्ते मोहनप्रिय ।
सखिरम्याय मोक्षाय हरिसान्निध्यहेतवे ॥
इति मन्त्रं समुच्चार्य प्रणामं त्वष्टभिश्चरेत् ।
सुशीलपदमाप्नोति भावत्पार्श्वस्थोभवत् ॥४४॥
ततो पुष्करिणीख्याता गोपिकानां सखिगिरौ ।
यत्रैव ललिताद्यास्ताः सख्यः स्नानं समाचेरुः ।
गोपीपुष्करिणईख्याता देवानां दुर्लभा शुभा ।
ततो गोपिकापुष्करिणीस्नानाचमनमन्त्रः —
पुष्करिण्यै नमस्तुभ्यं मुक्तिदायै नमो नमः ।
साफल्यप्रदप्राप्तायै सर्वकल्मषनाशये ॥
इति मन्त्रं समुचार्य पञ्चभिर्मज्जनैर्नमन् ।
स्नानं पठन् समाचक्रे वैकुण्ठपदमाप्नुयात् ॥४५॥
ततो उलूहतिमन्त्रं उच्चरन्नभिषेचनपूर्वकं पठन् वैकुण्ठपदं लभेत् —
यत्र वदरिकां नीत्वा खण्डिकुर्वंस्तु वर्चर्नं ।
उलूखलाः कुरु सव्यः दशधा च स्थिताः शुभाः ॥
उलूखलीप्रार्थनमन्त्रः —
उलूखल्यो नमस्तुभ्यं सखीनां प्रियवल्लभाः ।
मोक्षदाः शुभदाः नित्यं सखीगिरिशिखास्तिथा ॥
इति मन्त्रं त्रिभि रुक्त्वा कुट्वा वर्चनमाचरंएत् ।
नमस्कारत्रयङ्कृत्वा क्षुधातृप्तः सदास्थितः ॥४६॥
यत्रैव ललितानां च सखिनां पादलिङ्गगाः ।
सप्ताब्दपरिवेषाणां मृगतृष्णेव दृष्टिगाः ॥
क्रीडाभिर्निर्मिता रम्या सखीगिरिशिखोपरि ।
ततो सखिचरण प्रार्थनमन्त्रः ।
मात्स्ये —
सखीनां चरणेभ्यस्तु नमस्ते मोक्षदायिनः ।
निर्धौत कल्मषाङ्घ्रयास्तु पावनेभ्यो नमो नमः ॥
इति मन्त्रं समुचार्यं स्पृष्टा लोचनयोर्नमन् ।
विष्णोः शरणमाप्नोति पुण्यशीलसमो नरः ॥
पादानां भूषणैश्चैव रौप्यरुक्मादिधातुभिः ।
पादानां पूजनं कुर्योत् तादृशं फलमाप्नुयात् ॥
यत्र षड्गुणितं पुण्यं फलमाप्नोति मानवः ॥४७॥
ततो देहकुण्डस्नानाचमनप्रार्थनमन्त्रः —
त्रैलोक्यश्रमनाशाय सर्वदानन्ददायिने ।
सर्वकल्मषनिर्धौत दीप्यकायप्रदायक ॥
इति मन्त्रं समुच्चार्य दशधा स्नानमज्जनैः ।
नमस्कारं प्रकुर्वीत तापमुक्तो भवेन्नर ॥
दशकर्षसुवर्णं च यत्र दानं समाचरेत् ।
दिव्यकायो भवेल्लोको कुष्ठयुक्तो भवेद्यदि ॥
चिरञ्जीवी निरान्तको शरीरारोग्यतायुतः ।
दशधाचमनैर्यदि नित्यहत्या विमुच्यते ॥४८ ॥
वेणीस्नानफलमाप्नोति वेणीशङ्करशूलिनं ।
स्थापयेयुर्महात्मानः गोपाः देवाङ्गयोनयः ॥
ततो वेणीशङ्करमहादेवप्रार्थनमन्त्रः ।
आग्नेये —
वेणीशङ्कर रुद्राय नमस्ते शिवरूपिणे ।
कुलगोपशिवार्थाय नमस्ते भवमूर्तये ॥
इति मन्त्रं शिवावृत्या पठश्च प्रणमेच्छिवम् ।
सर्वान्कामानवाप्नोति वेणीस्नानफलं लभेत् ॥
इत्येतल्ललिताग्रामोत्पत्तीमाहात्म्यदर्शितं ।
इति सदेवतीर्थललिताग्रामोत्पत्तिमाहात्म्यनिरूपणं ॥४९॥
अथ वृषभानुपुरोत्पत्तिमाहात्म्यवर्णनं ।
वाराहे पाद्मे च —
पुरा कृतयुगस्यान्ते ब्रह्मणा प्रार्थितो हरिः ।
ममोपरि सदा त्वंहि रासक्रीडां करिष्यसि ॥
सर्वाभिर्व्रजगोपीभिः प्रावृट्काले कृतार्थ कृत् ।
ततो ब्रह्मन् व्रजं गत्वा वृषभानुपुरग्ङ्गतः ।
पर्वतो भवसि त्वं हि मम क्रीडां च पश्यसि ॥
यस्माद्ब्रह्मा पर्वतोऽभूद्वृषभानुपुरेस्थितः ॥५०॥
तत राधाकृष्णदर्शनप्रार्थनमन्त्र —
नमः प्रियायै राधायै ब्रह्मणो वरदायिने ।
सर्वेष्टफलरम्याय राधाकृष्णाय मूर्तये ॥
इति मन्त्रमुदाहृत्य सप्तभि प्रणमेप्रियाम् ।
वाञ्छितं फलमाप्नोति विचरन् व्रजमण्डले ॥
मुक्तिभागीभवेल्लोको नित्यदर्शनकारकः ॥५१॥
भाद्रशुक्लतृतीयायां वन-यात्रा वरप्रदः ।
भाद्रकार्तिकयोर्मासे पक्षयोरुभयोरापि ।
न्यूनाधिक्ये दिने जाते न्यूनाधिक्यं न कारयेत् ।
वन-यात्रा हरेर्लीला सङ्ख्या प्रोक्ता दिनान्तरे ॥
न्यूनाधिक्यदिनेष्वेषु न्यूनाधिक्यं न विद्यते ।
वन्यात्राप्रसङ्गस्तु लीलाकृष्णकृताशूभा ॥
दिनम्भ्यन्तरे कार्यं न्यूनाधिक्ये दिने यदि ।
यस्यां तिथौ यदाप्रोक्ता लीलावनप्रदक्षिणा ॥
या तिथिःक्षयमाप्नोति आग्ःआमिन्यां तिथौ चरेत् ।
वृद्धिं प्राप्ते तिथौ वापि तामेव तु परेत्यजेत् ॥
न्यूनाधिक्यं न विद्यते दिनसङ्ख्या समाचरेत् ।
भाद्रशुक्लतृतीयायामुषित्वाथ निशीथके ॥
वृषभानुपुरे यात्रा साङ्ग एव समर्थिता ॥ इति भविष्ये ।
५२॥
ततो वृषभानुपुरदर्शनप्रार्थनमन्त्रः —
महीभानुसुतायैव कीर्तिदायै नमो नमः ।
सर्वदा गोकुले वृद्धिं प्रपच्छ मम काङ्क्षितां ॥
इति मन्त्रं दशावृत्या नमस्कारं समाचरेत् ।
सर्वदा गोकले वृद्धिं धनधान्यसमाकुलः ॥५३॥
ततो राधा प्रियं कृष्ण वाक्यमूचे कृतार्थकृत् ।
मम पितृपुरे त्वं हि मया सह प्रतिष्ठतु ॥
ब्रह्मा कृतार्थतां याति मम प्रीतिकरो भव ।
तत्रैव श्रीराधा प्रियं श्रीकृष्णं ब्रह्मा विज्ञाप्य —
तस्य वृषभानुपुरे ब्रह्मनाम पर्वतोऽस्ति ।
तस्योपरि विहारार्थे स्वकीयं मन्दिरं कृत्वा हेमाद्रौ ह्येकदा
समये कृष्णेन राधायाः दानो याच्यते ।
तस्माद्दान प्रवासः स्याद्रास क्रीडास्थलो भवः ॥५४॥
ततो राधादिनवसख्यवलोकनप्रार्थनमन्त्रः ।
ब्राह्मे —
प्रियायै च नमस्तुभ्यं ललितायै नमो नमः ।
चम्पकाद्यै सखिभ्यस्तु चन्द्रावल्यै नमो नमः ॥
इति मन्त्रं दशावृत्या नमस्कारान् पृथक् चरेत् ॥५५॥
ततो दानमन्दिरप्रार्थनमन्त्रः —
दानवेषधरायैव दध्युपास्यामिलाषिणे ।
राधानिर्भत्सितायैव कृष्णाय सततं नमः ॥
इति मन्त्रं समादृत्य चतुर्धा प्रणमेत्स्थलं ।
दधिना पूजयेत् यत्र हिन्डोलसहितं स्थलं ॥
सर्वदा सुखमाप्नोति दम्पति मनसेप्सितम् ॥५६॥
ततो मयूरकुटीस्थलप्रार्थनमन्त्रः —
किरीटिने नमस्तुभ्यं मयूरप्रियवल्लभ ।
सुरम्यायै महाकुट्यै शिखण्डिपदवेश्मने ॥
इति मन्त्रं समुच्चार्य सप्तभिः प्रणमेत्स्थलं ।
यत्र स्थित्वा मयूरेभ्यो भोजनं विधिवच्चरेत् ॥
सुप्रियाभिः रमेन्नित्यं सर्वदानन्दवर्धनं ॥५७॥
( वन-यात्रानिषेधः ब्रह्मयामले ) —
वन-यात्राप्रसङ्गेषु पार्श्व स्थानि वनानि च ।
वामदक्षिणयोर्मार्गे सन्मुखपृष्ठभागयोः ॥
संस्कारवन-यात्रा स्यात् कृतयात्राफलं लभेत् ।
कृतयात्राफलं लब्ध्वा साङ्गा तत्र प्रदक्षिणा ॥
गमागमनचिन्तायाः हेतुर्नैवोपजायते ॥ इति निषेधः ॥५८ ॥
ततो मयूरकुटीस्थले रासमण्डलप्रार्थनमन्त्रः ।
आदिवाराहे —
नमः सखीसमेताय राधाकृष्णायते नमः ।
विमलोत्सवदेवाय व्रजमङ्गलहेतवे ॥
इति मन्त्रं नवावृत्या मण्डलाय नमश्चरेत् ।
वैकुण्ठपदमाप्नोति धनधान्यादिभिः सुखी ॥५९॥
ततो लीलानृत्यमण्डलसाङ्करीखोरि दर्शन प्रार्थनमन्त्रः —
दधिभाजनशीर्षाः स्ताः गोपिकाकृष्णरुन्धिताः ।
तासां गमागमौ स्थानौ ताभ्यां नित्यं नमश्चरेत् ॥
इति मन्त्रं समुचार्य यथा-शक्त्या नमश्चरेत् ।
नानाभोगविलासाद्यः गोरसैः सौख्यमाप्नुयात्॥६०॥
ततो विलासमन्दिरप्रार्थनमन्त्रः —
विलासरूपिणे तुभ्यं नमः कृष्णाय ते नमः ।
सखीवर्गसुखाप्ताय क्रीडाविमलदर्शिने ॥
इति त्रयोदशावृत्या पठन्मन्त्रं नमश्चरेत् ।
कलत्रादिधनैर्धान्यैश्चिरञ्जीवी सुखी सदा ॥६१॥
ततो गह्वरवनप्रार्थनमन्त्रः ।
बृहन्नारदीये —
गह्वराख्याय रम्याय कृष्णलीलाविधायिने ।
गोपीरमणसौख्याय वनाय च नमो नमः ॥
इति षोडशवृत्तिभि र्मन्त्रमुक्त्वा नमश्चरेत् ।
भगवच्छखीतां लब्ध्वा भुक्तिभागी भवेन्नरः ॥६२॥
ततो रासमण्डलप्रार्थनामन्त्रः —
विलासरासक्रीडाय कृष्णाय रमणाय च ।
दशवर्षस्वरूपाय नमो भानुपुरे हरे ॥
इति मन्त्रं दशावृत्या पठन्स्तु प्रणमेत्स्थलं ।
परिवारसुखेनापि सर्वदा सुखमाप्नुयात् ॥६३॥
यत्र राधा चतुः षष्ठि सखिभिः समुपागता ।
नित्य स्नानकृता साध्वी यतो राधा सरोऽभवत् ॥
तता राधासरस्नानाचमनमन्त्रः —
देवकृतार्थरूपाय श्रीराधासरसे नमः ।
त्रैलोक्यपदमोक्षाय रम्यतीर्थाय ते नमः ॥
इति मन्त्रं दशावृत्या मज्जनाचमनैः स्नपन् ।
गोपीनां पूजनं कुर्यात्वस्त्रालङ्करणादिभिः ॥
कृतार्थी भवति लोके देवयोनिमवाप्नुयात् ॥६४॥
वृषभानुश्च यत्रैव सर्वगोपै समन्वितः ।
गोदोहनं समाचक्रे वल्लभीपूर्णकामभिः ॥
यस्मात्सञ्जायते तीर्थ दोहनीकुण्डसुस्थलं ।
ततो दोहनीकुण्डस्नानाचमनप्रार्थनमन्त्रः —
रक्तनीलसिताधूम्रापीतागोदोहनप्रद ।
वृषभानुकृतस्तीर्थ नमस्तुभ्यं प्रसीद मे ॥
इति मन्त्रं चतुभिस्तु स्नानाचमनकैः स्नपेत् ।
सर्वदा बर्हुदुग्धैस्तु परिपूर्णमनोरथः ॥
यत्रैव दुग्धपूर्णं दोहिनीं दानमावरेत् ।
ततो स्वयम्मुपोह्येति त्रैलोक्याधिपतिर्भवेत् ॥
मोक्षाख्यपदवी लब्ध्वा चिरञ्जीवी भवेन्नरः ॥६५॥
यत्रैव चित्रलेखा च नित्यस्नानं समाचरेत् ।
मयूरेभ्योऽशनं दत्त्वा क्रीडानं चैव पश्यति ॥
मयूरसरसाख्य च चित्रलेखाविनिर्मितं ।
ततो मयूरसरस्स्नानाचमनप्रार्थनमन्त्रः —
मयूरक्रीडिने तुभ्यं चित्रलेखे नमोस्तु ते ।
त्रैलोक्यपदमोक्षाय मयूर्सरसे नमः ॥
इति मन्त्रं समुच्चार्य पञ्चभिर्मज्जनाचमैः ।
नमस्कारं प्रकुर्वीत परं मोक्षपदं लभेत् ॥६६॥
यत्रैव वृषभानुश्च नित्यस्नानं चकारह ।
यत्रैव कृतदोषाश्च कायमानसवाचकाः ॥
स्नपनात्तेऽपि नश्यन्ति दानं शतगुणं फलं ।
ततो भानुसरोवरस्नानाचमन प्रार्थनमन्त्रः ।
विश्णुधर्मोत्तरे -
नीर्धूतकिल्विषायैव गोपराजकृताय ते ।
वृषभानुमहाराजकृताय सरसे नमः ॥
इती मन्त्रं शतावृत्या मज्जनाचमनै र्नमन् ।
सर्वान्कामानवाप्नोति धनधान्यसुखैर्यु तः ॥
कृष्णदर्शनमाप्नोति मुक्तिभागी भवेन्नरः ।
नित्यमेव कृताद्दोषान्मुच्यते नात्र संशय ॥६७॥
कीर्तिश्च यत्र गोपीभिः सह स्नानं समाचरेत् ।
सौभाग्यसुतधान्यादिसुखमाप्नोति मानषः ॥
यतो कीर्त्तिसरःख्यातं सकलेष्टप्रदृआयकं ।
ततो कीर्तिसरः स्नानाचमनप्रार्थनमन्त्रः ।
बृहत्पारशरे —
नमः कीर्तिर्महाभागे सर्वेषां गोव्रजौकषां ।
सर्वसौभाग्यदे तीर्थे सुकीर्तिसरसे नमः ॥
इति मन्त्रमुदाहृत्य नवभिर्मज्जनाचमैः ।
स्नपनं कुरुते लोको लभते मोक्षसम्पदम् ॥६८ ॥
वृषभानुसरःपार्श्वे महारुद्र व्रजेश्वर ।
ततो भान्वादयो गोपाः स्थापयेदिष्टसिद्धये ॥
ततो व्रजेश्वराख्यमहारुद्रप्रार्थनमन्त्रः ।
गौरीतन्त्रे —
व्रजेश्वराय ते तुभ्यं महारुद्राय ते नमः ।
व्रजौकसां शिवार्थाय नमस्ते शिवरूपिणे ॥
शक्राबृत्या पठेन्मन्त्रं सर्वकल्याणमाप्नुयात् ।
व्रजे वसन्सदा नित्यं भुङ्क्ते सौभाग्य सम्पदम् ॥६९॥
ललितामोहनो यत्र शूरभक्ताय दर्शनं ।
ददौ नेत्रं प्रफुल्लास्यो दर्शनेक्षणकं वरं ॥
यत्रैवान्धो कृतस्नानं पर मोक्षपदं लभेत् ।
तस्य बुद्धिर्भवेद्व्याप्ता सर्वशास्त्रेषु गोप्यतः ।
ललितामोहनो मूर्तियुगलो दर्शनं ददाउ ॥
ततः शूरसरः स्नानाचमनप्रार्थनमन्त्रः —
कृतार्थारूपिणे तुभ्यं शूरस्य सरसे नमः ।
धर्मार्थाकाममोक्षाणां वैकुण्ठपदढायिने ॥
इति मन्त्रं दशावृत्त्या मजनाचमनं नमन् ।
स्नपनं विधिवत्कुर्यात्परमोक्षपदं लभेत् ॥
इत्येतच्च समाख्यातं वृषभानुपुरोद्भवण् ।
राधातीर्थस्वरूपाणां माहातयोत्पत्तिदर्शनं ॥
इति वृषभानुपुरोत्पत्तितीर्थस्नानस्वरूपोत्पत्तिमाहात्म्यं ॥७०॥
अथ गोकुलदेवतीर्थस्नानोत्पतिमाहात्यं ।
वाराहे —
ततो भाद्रपदे मासि दशभ्यां शुक्लपक्षगे ।
गोकुले वन-यात्रा च गोलोकसमताफले ॥
वैकुण्ठं द्वितीयं रम्यं जम्मना विष्णुनिर्भितं ।
मथुरा नगरी रम्या केवलोत्पत्तिहेतवे ॥७१॥
ततो गोकुलप्रवेशप्रार्थनमन्त्रः —
गोलोकरूपिणं तुब्ःयं गोकुलाय नमो नमः ।
अतिदीर्घाय रम्याय द्वाविंशद्योजनाय ते ॥
इति मन्त्रं समुच्चार्य द्वाविंशद्भिर्नमश्चरेत् ।
गोलोकपदप्राप्ताय मुक्तिभागो भवेन्नरः ॥७२॥
अभिमन्युसुतो यत्र स्वकीयं मन्दिरं करोत् ।
सुखवासमनोर्थाय वसुदेवागमाय च ।
शतवर्षप्रवास्तव्यो सर्वगोपैः समन्वितः ।
ततो नन्दमन्दीरप्रार्थनमन्त्रः —
नन्दधाम्ने नमस्तुभ्यं त्रैलोक्यपददायिने ।
कृष्णवात्सल्यपुत्राय परमोत्सवहेतवे ॥
इति मन्त्रं समुचार्य नवभिः प्रणयेद्गृहम् ।
कृष्णतुल्यतनुर्यस्य सुखमाप्नोति सर्वदा ॥७३॥
यशोदा शयनस्थानं रचयेद् यत्र वेश्मनि ।
पुत्रोत्सवसुखार्थाय शतगोपीसमाकुला ॥
ततो यशोदाशयनस्थलप्रार्थनमन्त्र ।
मात्स्ये —
यशोदाशयनायैव समस्तसुखदायिने ।
पुत्रसौभाग्यलाभाय नमस्ते शुभदो भव ।
इति मन्त्रं दशावृत्या पठंस्तु शयनं नमेत् ।
चिरञ्जीवी भवेद्वालोमृतवत्सो नरप्रिया ॥
पुत्रसौख्ययुतो नन्दन्स्तादृशो सोख्यमाप्नुयात् ।
कन्याजन्मो भवेद्गर्भे तथापि पुत्रमाप्नुयात् ॥७४॥
उकूखलस्थलं यत्र यशोदा रचयेत्स्वकं ।
पञ्चाशत्मणसङ्ख्याकमन्नोजलसुहेतवे ॥
ततो उलूखलप्रार्थानमन्त्रः —
तन्दुलानेकधान्याय सर्वदा पूरणाय ते ।
नमस्ते सौख्यदायैवोलूखलाय नमो नमः ॥
इति मन्त्रं त्रयत्रिंशैः पठित्वा प्रणमेत्स्थलं ।
सर्वदानेकधान्यैस्तु परिपूर्णसुखं लभेत् ॥७५॥
यत्रैव नवनन्दानां चक्रसंस्था विदूरतः ।
धौरेययुगसन्त्यक्ता सामग्रीभिः समाकुलाः ॥
तेषामभ्यन्तरे गोपा उपविश्युः समासतः ।
कृशभूमौ ततो दूरमुपनन्दनभूमयः ॥
ततस्तु प्रतिनन्दानामेवं षट् त्रिंशभूमयः ।
चक्रतीर्थास्त्वनंएकाः स्युः गोकुले संस्थिताः पृथक् ॥
नन्दस्य चक्रतीर्थाधो यशोदा कृष्णबालकं ।
मासस्वरूपिणं तत्र स्थापयेत्क्षेत्रपूरणं ॥
कृषवृतीं करोन्माता तत्क्षणे शकटासुरः ।
चक्रतीथास्वरूपेण चक्रतीर्थे विवेशह ॥
ततस्तत्रागतं दैत्यं वधमिन्छन्समाश्रितं ।
नेत्रोन्मील्य हरिः साक्षात् दृष्ट्वा वामपदाहनत् ॥
चक्रतीर्थो विभज्येत खण्डङ्खण्डप्रमाणतः ।
चूर्णीभूतं तु तं दृष्ट्वा सर्वे गोपाः समागताः ॥
क्रीडमाणं सुतं डृष्ट्वा प्रशासुः नन्दभाग्यतां ।
पर्यस्तसकटस्थानं पुत्रायुशिचरवर्धनं ॥
ततो पर्यस्तशकटस्थलप्रार्थनमन्त्रः ।
स्कान्दे -
मृतमासामृतोद्भूत विरपुत्रायुदायिने ।
शकटासुरमोक्षाय सुस्थलाय नमोस्तु ते ॥
इति मन्त्रं समुच्चार्य सप्तभिः प्रणमेत्स्थलं ।
मासेनमृतवत्सापि नारी वा पुरुषोऽपिवा ॥
चिरञ्जीवीनमाख्यातं लभते तादृशं सुतं ॥७६॥
गन्धर्वौ नारदशापात् यमलार्जुनसञ्ज्ञक्ःऔ ।
पृथिवीतलमायातौ वृक्षयोनिमुपाश्रितौ ॥
नन्दगोपोद्भवो कृष्णो युवामुद्वारीष्यति ।
इति शापाद्वरं दत्त्वा मत्ताभ्यां प्रययौ मुनिः ॥
यशोदा दधिचौरेण कृष्णं वध्वा उलूखले ।
ताडयन् धावती दृष्ट्वा मातरं गोकुलेश्वरः ॥
उलूखलेन सार्धं तावुत्पाटयति भूमिः ।
गन्धर्वयोनितां यातौ वृक्षयोनिपरित्यजौ ॥
कृष्णां प्रजग्मतुः स्तुत्वा स्वधाम परमं स्वकं ।
यत्रैव शापतो रोगी रोगमुक्तस्तु जायते ॥
विक्षिप्तो यदि वा कुष्ठी वहुगेगसमाकुलः ।
दामोदरप्रसादात्तु भुक्तिभागी भवेन्नरः ॥७७॥
ततोतूखलयोः स्थाने द्वौ कुण्डौ यमलार्जुनौ ।
महातीर्थौ समाखयातौ दामोदरकृतौ शुभौ ॥
तयोः स्नानाचमनप्रार्थनमन्त्रः ।
आदिपुरणे —
यमलार्जुन देवायां नमो दामोदराय च ।
उलूखलकृतोद्धार वरदो भव सर्वदा ॥
इति मन्त्रं दशावृत्या मज्जनाचमनं नमन् ।
कृतार्थयोनिमाप्नोति विष्णुसाण्निध्यगः सदा ॥७८॥
यमलार्जुन-देवाभ्याम्-उद्धराख्यो ऽच्युतो हरिः ।
दामोदरमहामूर्त्तिं स्थापितो नन्दनन्दनः ॥
ततो दामोदरप्रार्थनमन्त्रः —
दामवद्धाय कृष्णाय मातृस्नेहसुताय ते ।
नमो दामोदरायैव बालकृष्ण नमोस्तु ते ॥
षडब्दरूपिणे तुभ्यं दामोदरस्वरूपिणे ।
इति षड् पदमन्त्रं च पठित्वा पञ्चभिर्नमेत् ॥
मुक्तिभागी भवेल्लोको जननीजनवल्लभः ॥७९॥
वृक्षोत्पाटनदोषस्य शान्तये नन्दनिर्मितं ।
नगसङ्ख्यासमुद्रांश्च समानीतं च कूपकं ॥
सप्तसामुद्रिकं नाम वृक्षहत्यानिवारणं ।
हरितार्द्रं क्षिणोद्वृक्षं वटाश्वत्थकदम्बकं ॥
सप्तकूपकृतात्स्नानान्मुक्तो भवति पातकात् ।
ततो सप्तसामुद्रिककूपस्नानाचमनप्रार्थनमन्त्रः ।
शौनकीये —
दधि दुग्ध घृत क्षीर मधु तक्ररसादिभिः ।
सप्तसामुद्रकूपाय रचिताय नमो नमः ॥
इती मन्त्रं समुच्चार्य सप्तभिर्मज्जनादिभिः ।
स्नानाचमनपूर्वस्तु नमस्कारं समाचरेत् ॥
सप्त दुग्द रसादिनां दानं दद्वात् विधानतः ।
गोदानं विधिवत्कुर्यात् देवयोनिमवाप्नुयात् ॥
सप्तगोत्रद्विजेभ्यस्तु सप्त दानं समाचरेत् ।
सप्तर्षिगोत्रजाः विप्रास्तेभ्यो दानं समाचरेत् ॥
सप्तप्रकारहत्याभि र्विमुक्तो यत्र मानव ॥८०॥
कामसेनीसुताद्यास्ताः गोप्यो वालोत्सवाय च ।
गोपीश्वरमहादेवं स्थात्पयेयुर्मनोरथैः ॥
पूर्णायुषो भवेत्वालाः धनधान्यादिसम्पदः ।
दिने दिने विवर्धन्ते गोपीश्वरप्रदर्शनत् ॥
ततो गोपीश्वरप्रार्थनमन्त्रः ।
लैङ्गे —
गोपीश्वराय रुद्राय महादेवाय ते नमः ।
गोपीनां शिवदायैव भवाय शततं नमः ॥
इति मन्त्रं समुच्चार्यैकादशैः प्रणमेच्छिवं ॥८१॥
गोकुलचन्द्रमामूर्तेर्मन्दिरं यत्र राजते ।
बालस्य गोकुलेशस्य दर्शनं कुरुते नरः ॥
मुक्तिभागी भवेल्लोको धनधान्यसमाकुलः ।
ततो गोकुलेश्वरप्रार्थनमन्त्रः —
गोकुलेश नमस्तुभ्यं बालकृष्ण वरप्रद ।
व्रजमण्डललोकस्य रक्षणायगतो शिशून् ॥
पञ्चभिः पठते मन्त्रं नमस्करं समाचरेत् ॥८२॥
सूरसेनीसुतो यत्र रोहण्युद्वाहमाचरेत् ।
मन्दिरं रमणायार्थे रचयेद्रोहिणी गृहम् ॥
दशवर्षेण वास्तव्यो बलदेवसमुद्भवः ।
ततो रोहिणीमन्दिरप्रार्थनमन्त्रः —
धर्मपत्नीगृहायैव वसुदेवसुखोद्भवः ।
रोहिण्यन्तपुरायैव नमस्ते गोकुलोत्सव ॥
इति मन्त्रं समुच्चार्य शक्रावृत्या नमश्चरेत् ।
बलदेवसमं पुत्रं चिरजीविनमाप्नुयात् ॥८२॥
तद्भ्यन्तरगेहे च बलदेवोद्भवस्थलम् ।
ततो बलदेवजन्मस्थलप्रर्त्थनमन्त्रः ।
पाद्मे —
हलिने बलदेवाय नमस्ते शेषमूर्तये ।
जन्मस्थलाय गोप्याय कंसाभीतिवरप्रदः ॥
इति मन्त्रं पठेद्धीमान् सप्तभिः प्रणमेत्स्थलं ।
तस्यैव सर्वदा सौख्यं धनधान्यः प्रजायते ॥८४॥
यत्र नन्दोऽकरोद्गोष्ठीं सर्वगोपैः समन्वितः ।
नन्दादिभिश्च षड्त्रिंशैर्गोष्ठीरम्या ऽभवच्छुभा ॥
ततो नन्दगोष्ठीप्रार्थनमन्त्र —
नन्दादिभ्यो नमस्तुभ्यं गोष्ठई स्थानाय धीमते ।
नित्यसौबुद्धिदायैव विष्णोः सान्निध्यहेत्तवे ॥
इति मन्त्रं समुच्चार्य षट् त्रिंशाद्भिः समासतः ।
कुबुध्या संयुतो लोको सुबुद्धिश्च प्रजायते ॥
विक्षिप्तो यदि वा लोकः सुशीलः स्पान्नसंशयः ।
कुनीतिकारको लोको राजा वा धर्मसंयुतः ॥
सुनीतिकारको राजा सुधर्मो भवते नरः ॥८५॥
शतगोपीसमाकीर्णे सर्वाश्चैव तु गोपिकाः ।
विमोहयन् विवेशाथ पूतना नन्दसद्मनिः ॥
देवाङ्गनोपवेषाढ्या राक्षसीरूपवर्जिता ।
अङ्के कृष्णार्भकं नीत्वा दिनसप्तस्वरूपिणं ॥
विपाढय पयसापूर्णं स्नेहस्तन्यमपाययत् ।
दुग्धसार्धं पिवेत्प्राणमस्याः घोरेण पाणिना ॥
सन्गृह्य निविडं यत्र सन्त्यजेत्यतरेवदन् ।
नन्दवेश्म परित्यत्त्का राक्षसी तनुमास्थिता ॥
सा जगाम नभो मार्गं दुर्वासर्षेस्तु शिष्याणी ।
पातयद्धरणीलोके पूतनापयसाहनत् ॥
धात्रीव गतिमालेभे देवयोनीमनोहराम् ।
यस्मादेतत्समुद्भूतं पूतनास्तन्यपानकं ॥
ततो पूतनास्तन्यपानस्थलप्रार्थनमन्त्रः —
सप्तवासरवेषाय कृष्णाय सततं नमः ।
पूतनामोक्षदायैव पयः पानाय ते नमः ॥
इति मन्त्रं त्रिभिरुक्त्वा नामस्कारं समाचरेत् ।
मुक्तिभागी भवेल्लोको गनागमविवर्जितः ॥
इति गोकुलमाहात्म्यमुत्पत्तिः समुदाहृता ।
वन-यात्राप्रसङ्गे तु सर्वाभीष्टवरप्रदा ॥
इति गोकुलोत्पत्तिसदेवतीर्थ्स्नानमाहात्म्यनिरूपणं ॥८६॥
अथ महावनपार्श्वे सदेवतीर्थ-स्नान-बलदेवस्थलोत्पत्तिमाहात्म्यनिरूपणम् ।
पाद्मे —
यत्र नन्दादयो गोपः यदोर्नैमन्त्रणञ्चरेत् ।
दशायुतगवां दुग्धं समानीयात्रप्रक्षिपुः ॥
दुग्धपूर्णं पयोकुण्डं प्रचख्युर्दुग्धकुण्डकं ।
नानामिष्टान्नद्रव्यैस्तु सिताद्यैः द्राक्षक्षुच्चरैः ॥
तण्डुलैः पयसं चक्रुर्बलदेवस्य प्रीतये ।
श्रावणे च सहो मासे पायसं च निवेदनम् ॥
तेषां गृहे वसेत् लक्ष्मीदुग्धपूर्णवसुन्धरा ।
हलिनो वरदानेन जलं दुग्धं प्रजायते ॥
यतः सञ्जायते नाम्ना दुग्धकुण्डं मनोहरं ।
वन-यात्राप्रसङ्गस्तु नवम्यां भाद्रशुक्लगे ॥
यत्र स्नानाचमेनैव प्रार्थनेन तथैवच —
देवयोनिमवाप्नोति सुरास्तेऽमृतपायिनः ।
धनधान्यसुखादीश्च लभते नात्र संशयः ॥
ततो दुग्धकुण्डस्नानाचमनप्रार्थनमन्त्रः —
सुधामयपयम्तुभ्यं हलायुधवरोद्भव ।
। चिरायुर्वरदायैव दुग्धकुण्ड नमोस्तु ते ॥
इति मन्त्रं समुच्चार्य दशधा मज्जनैः स्नपन् ।
विधिवदाचमं कुर्यात् नमस्कारैश्च प्रार्थयेत् ॥
चिरजीवी भवेल्लोकोऽमृतपा देवता यथा ॥८७॥
आदिपुराणे —
यत्रव बलदेवस्तु यदुपुत्रैः समन्वितः ।
भोजनं क्रियते स्वच्छं कृतदुग्धाढयपायसम् ॥
नन्दादिसकलैर्गोपैर्बहुदुग्धविभूतये ।
यत्रैव वन-यात्री च नैवेद्यं पापसं चरेत् ॥
सर्वदा दुग्धपूर्णस्तु तस्य गेहो प्रजायते ।
धनधान्यसुखैः पूर्णः सर्वदा रमते जनः ॥
ततो बलदेवभोजनस्थलप्रार्थनमन्त्रः —
सकलेष्टप्रदायैव हलिना भोजनस्थल ।
देवर्षिमनुजानां च हितार्थसिद्धये नमः ॥
इति चतुर्दशावृत्या पठन् मन्त्रं नमश्चरेत् ।
शक्रसङ्ख्याघृतं ग्रासं बलदेवस्य तुष्टये ॥८८ ॥
ततो बलदेवयुगलप्रार्थनमन्त्रः —
रेवतीरमणायैव गोपानां वरदायिने ।
अन्योन्यसन्मुखालोकप्रीतये च नमस्तु ते ॥
इति मन्त्रं समुच्चार्य वामभागमुपास्थितो ।
नमस्कारं दशावृत्या युगलाभ्यां समाचरेत् ॥
दशवर्षस्वरूपेण बलदेवः प्रसीदतु ॥८९॥
ततो त्रिकोणमन्दिरप्रदक्षिणप्रार्थनमन्त्रः —
नन्दगोपकृतार्थाय त्रिकोण रमणस्थल ।
गोपकामप्रपूर्णाय प्रदक्षिणपदे नमः ॥
पञ्चभिरुच्चरन् मन्त्रं कुर्यात्पं च प्रदक्षिणं ।
सर्वदा सौख्यमाप्नोति धनधान्यादिभिः स्तुतैः ॥
नन्दादिसर्वगोपैस्तु निर्मितं हलिन स्थलं ।
अत्रैव देवतादीनां पूर्णाः स्युश्च मनोरथाः ॥९०॥
देवादिभिः कार्यप्रदक्षिणा शुभा शुभप्रदा स्यान्मनुजादिकानां ।
कृष्णे नभो मासि शुभं प्रकाशितं श्रीभट्टनारायणसञ्ज्ञकेन ॥
इति श्री-भास्कर-तनय-नारायण-भट्ट-विरचिते व्रजभक्ति विलासाख्ये
परमहंस-संहितोदाहरणे चतुर्थोऽध्यायः ॥
—ओ)०(ओ—
(५)
॥ पञ्चमोऽध्यायः ॥
अथ गोवर्धनोत्पत्तिमाहात्म्यनिरूपणम् ।
आदिवाराहे —
भाद्रकृष्णचतुर्दश्यां कुयाद्गोवर्धनागमम् ।
कार्तिके शुक्लकृष्णेतु प्रतिपद्यां शिवामयोः ॥
प्रदक्षिणाकृतापूजा शक्रपूजापहारिणी ।
वनप्रदक्षिणार्चाभिः स्नानं च प्रणतिं चरेत् ॥
रामाज्ञाग्राहकः श्रीमाह्ननुमद्वानराधिपः ।
उत्तरादुधृतं स्कन्धे नीत्वा पर्वतमुच्चकं ॥
देवताकाशवाक्यैस्तु सेतुपूर्णस्तु जायते ।
तिवाक्यं समाकर्ण्य प्रक्षिपदवनीतले ॥
गोवर्धनो हरेर्भक्तो हनुमन्तं व्रवीद्वचः ।
भगवत्पादहीनं मां करिष्ये ऽत्रगमिष्यति ॥
शापं दातुं प्रशक्तोऽभूत्गिरिर्हनुमते किल ।
ततो गिरिवरस्यापि वाक्यमाकर्ण्य वानरः ॥
वरदो गिरये भूयादव्रवीत्वाक्यं कपीश्वरः ।
हनुमदुवाच - क्षमस्व भोदुराराध्य त्वयावासं चकार स ।
इन्द्रो देवादिभिः सार्धं गोपपूजां समाददे ॥
ऊर्ज सित प्रतिपद्यां गोपानां र्क्षको भव ।
द्वापरन्ते कलेरदौ लीलापूर्णे भविष्यसि ॥
इत्याश्वास्य कपिः श्रीमान् जगाम नभसा सुधीः ।
रामं प्राप्त्वा नमस्कारं दण्डवत् प्रपात ह ॥
व्रवीद्वाक्यं कपिः श्रेष्ठः सेतुपूर्णः प्रजायते ।
यस्मादहं क्षिपाम्यद्य गावेद्धनगिरिं प्रभो ॥
श्रुत्वैवं हनुमद्वाक्यं रामो वचनमब्रवीत् ।
एते गिरिवआः श्रेष्ठाः पादस्पर्शाद्विमोक्ष्यते ॥
गोवर्धनं गिरिवरं करिष्येहं विमोक्षणं ।
पाणिस्पर्शाच्च नन्दस्य गोपानां रक्षकं परं ॥
वसुदेवकुलद्भुतो बालकृष्णो भवाम्यहं ।
इति गोवऋधनोत्पत्तिः देवानां सौख्यकारिणी ॥१॥
ततो गोवर्धनपर्वतपुजनप्रदक्षिणाप्रार्थनमन्त्रं –
गोवर्धन गिरे तुभ्यं गोपानां सर्वरक्षक ।
नमस्ते देवरूपाय देवानां सुखदायिने ॥
द्वि सहस्रं जपन् मन्त्रं नमस्कारं प्रदक्षिण ।
कुर्याच्चतुः प्रमाणेन मुक्तिभागी भवेन्नरः ॥
अयं गोवर्धनश्चात्र प्रतिवासरनिम्नतां ।
इन्द्रशापाद्भुवो मध्ये गमिष्यति कलौ युगे ॥
यवमात्रप्रमाणेन लोकानां मुक्तिदो भवः ।
यस्य दर्श्नमात्रेण मुक्तिभागी भवेन्नरः ॥२॥
ततो हरिदेवप्रार्थनमन्त्रः ।
स्कान्दे –
करोद्ध्र्तनगेन्द्राय गोपानां रक्षकाय ते ।
सप्ताव्दरूपिणे तुभ्यं हरिदेवाय ते नमः ॥
पञ्चधा पठते मन्त्र नमस्कारं समाचरेत् ।
सर्वपापाद्विनिर्मुक्तो वैकुण्ठपदमाप्नुयत् ॥३॥
गोपिकावचनेनापि कृष्णस्तु मनसाकरेत् ।
बृषहत्यापराधस्य मुक्तये मानसीं सुभां ॥
गङ्गां दुग्धमयां पुण्यां महापापग्रणाशिनीम् ।
ततो मानसीगङ्गास्नानाचमनप्रार्थनमन्त्रः —
गङ्गे दुग्धमये देवि भगवन्मानसोद्भवे ।
नमः कैवल्यरूपाढये मुक्तिदे मुक्तिभागिनी ॥
इति मन्त्रं शतावृत्या मज्जनाचमनैर्नमन् ।
ब्रह्महत्यादिपापानि नश्यन्ति नात्र संशयः ॥
वृषहत्यापराधात्तु विमुक्तो देवकीसुतः ॥४॥
यत्र ब्रह्मादयो देवाः समाजग्मुर्भुवस्थले ।
ब्रह्मस्तुत्याभिषेकं च हरेश्चक्रे विधानतः ॥
सामवेदोद्भवैर्मन्त्रैः सर्वकामार्थसिद्धये ।
ब्रह्मकुण्डं यतो जातं ब्रह्मादिभिर्विनिर्मितं ॥
ततो ब्रह्मकुण्डस्नानाचमनप्राथानमन्त्रः ।
कौर्मे —
ब्रह्मादिनिर्मितस्तीर्थ शुद्धकृष्णाभिषेचन ।
नमः कैवल्यनाथाय देवानां मुक्तिकारक ॥
इति मन्त्रं दशावृत्या मज्जनाचमनैर्नमन् ।
द्वयोर्मध्ये कृतं दानं सहस्रं गुणितं भवेत् ॥
पुण्यं मानसिकं यत्र फलमक्षयमाप्नुयात् ।
मनसि संस्थितान्कामान्-चिन्तनात्सर्वमाप्नुयात् ॥
गुप्तदानं प्रकुर्वीत स्वर्णगौरजतादिकं ।
अन्नवस्त्रादिकं चैव पात्रपृथ्वीगृहादिकं ॥
दशायुतगुणं पुण्यं फलं तद्द्विगुणं लभेत् ।
नारीकेलफलादीनां हस्त्यश्वादिविधायीनां ॥
पुण्यं लक्षगुणं जातं फलं स्यात्तच्चतुर्गुणं ।
मनसा क्रियते दानं मक्षयं फलमाप्नूयात् ॥५॥
यत्रैव देवताः सर्वे कृत्वा कृष्णं पुरः सरं ।मनसाख्यशुभां देवीं स्थापयेयुर्मनोर्थदां ॥
ततो मानसाम्बिकाप्रार्थनमन्त्रः ।
वायुपुराणे —
मनसः कामदायैव मनसायै नमो नमः ।
नम देव्यै महादेव्यै धनधान्यफलप्रदे ॥
इति मन्त्रं समुच्चार्य नवभिः प्रणमेच्चतां ।
सर्वान्कामानवाप्नोति मनसा चिन्तनादपि ॥
देव्यास्तु भवनस्यायि परिक्रमणमष्टधा ।
क्रियमाणः फलं लेभे मनसा यदि चिन्तितम् ॥६॥
ततश्चक्रतीर्थस्नानाचमनप्रार्थनमन्त्रः —
चक्रतीर्थ नमस्तुभ्यं कृष्णचक्रेण लाञ्छितं ।
सर्वपापच्छिदे तस्मै कृष्णनिर्मलनिर्मितं ॥
इति मन्त्रं दशावृत्या मज्जनाचमनैर्नमन् ।
दशद्वारात् कृतात्पापात् मुच्यते नात्र संशयः ॥७॥
यत्रैव देवताः सर्वे चक्रेश्वरसदशिवं ।
स्थापयेयुः प्रपूर्णाय मनसः कामनाय च ॥
ततश्चक्रेश्वरप्रार्थनमन्त्रः ।
रुद्रयामले —
चक्रेश्वराय रुद्राय पञ्चास्य शिवमूर्तये ।
व्रजमण्डलरक्षाय नमस्ते भवमूर्तये ॥
इत्येकादशभिर्मन्त्रं नमस्कारं पठन्श्चरेत् ।
सर्वकामार्थामोक्षादिं लभते नात्र सशयः ॥८॥
ततो लक्ष्मीनारायणप्रार्थनमन्त्रः —
लक्ष्मीनारायणायैव गोवर्धनसुखाय ते ।
नमस्ते गोपवृन्दानां परिपूर्णव्रजोत्सव ॥
इति मन्त्रं चतुर्भिस्तु प्रदक्षिणं नमश्चरेत् ।
पुत्रादि सर्वकामांश्च लभते नात्र संशयः ॥९॥
भविष्ये — यत्र कृष्णस्तु गोपीनां मनांस्याल्हादनं करात् ।
कदम्बोपरि संविष्टो मुरलीवादन शुभम् ॥
गोप्योऽधःस्थलसंस्थास्ता रासक्रीडनतत्पराः ।
यतो कदम्बखण्डाख्यं वनं जातं महद्भूतं ॥
देवानां मनुजानाञ्च कृष्णदर्शनदायकं ।
मुक्तिभगी भवेल्लोको यत्रागत्य नमश्चरेत् ॥
ततो कदम्बखण्डाख्यवनप्रार्थनमन्त्रः —
गोपिकाल्हादरूपाय कृष्णक्रीडनहेतवे ।
कदम्बाख्यवनायैव कृष्णाय सततं नमः ॥
दशभिर्जपते मन्त्रं क्षण स्थित्वा हारिं स्मरन् ।
वैकुण्ठपदमाप्नोति सर्वस्तैख्यसमन्वितः ॥१०॥
यत्रैव गोपिकाः सर्वाः कृष्णमानीय चार्भकम् ।
स्नापयेयुः सुखाल्हादैर्हऋइदेवं मुहुर्वदन् ॥
कुण्डं श्रीहारिदेवाख्यं प्रचक्रुः पुण्यवर्धनं ।
धनधान्यप्रदं नृणां चिरवालायुवर्धं ॥
ततो हरिदेवकुण्डस्नानाचमनप्रार्थनमन्त्रः —
गोपिकाकृततीर्थाय हरिदेव मनोहर ।
तीर्थराज नमस्तुभ्यं कृष्णलालित्यदर्शिने ॥
इति मन्त्रं समुच्चार्य सप्ताचमनमज्जनैः ।
नमस्करं विधानेन कुर्यान्मुक्तिपदं लभेत् ॥११॥
शक्रयामले — यत्रेन्द्रो ध्वजमादाय कृष्णस्याग्रे व्रजन् पुरः ।
कृतार्थपदमालेभे विष्णोरग्रेस्वरत्वतः ॥
इन्द्रध्वजवनप्रार्थनमन्त्रः —
कृताथारूपिणे तुभ्यमिन्द्रध्वज कृतार्थिने ।
नमः कैवल्यनाथाय शक्रद्वजबतय ते ॥
इति मन्त्रं समुच्चार्य षडावृत्या नमश्चरेत् ।
कृतार्थपदमाप्नोति त्रैलोक्याधिपतिर्भवेत् ॥१२॥
तन्मध्ये देवताः सर्वे पञ्चतीर्थान् समाददुः ।
कुण्डं चक्रुश्च गोपीनां क्रीडास्नपनहेतवे ॥
पञ्चतीर्थाख्यकुण्डं च पञ्चहत्याविनाशनं ।
पञ्चधान्यकृतं दानं पञ्चवीप्राय दीयते ॥
सिततण्डुलनोधूमयवमुद्गमसूरिकम् ।
पञ्चधान्यामिदं श्रेष्ठं घृतादिरससंयुतम् ॥
पञ्चगोत्रसमुद्भूताः वशिष्ठात्रिपराशरः ।
कश्यपाङ्गिरसच्चैते दानपात्राः प्रपूजकाः ॥
ततो पञ्चतीर्थकुण्डस्नानाचमनप्रार्थनमन्त्रः —
नर्मदे सरयूकाञ्चि गोमती वेत्रिके नमः ।
कृष्णाभिषेचनार्थाय पञ्चतीर्थाय ते नमः ॥
इति मन्त्रं समुच्चार्य पञ्चभिर्मज्जनाचमं ।
नमस्कारं करोत्येवं पञ्चसौभाग्यसम्पदम् ॥
लभते वैष्णवं लोकमुच्यकैः पदमाप्नुयात् ॥१३॥
ततो मैन्द्रवतीर्थकुण्डस्नानाचमनप्रार्थनमन्त्रः ।
मात्स्ये —
मैदवाय नमस्तुभ्यं ऋषिशृङ्गसुताय त ।
मैन्दवाख्याय तिर्थाय कुण्डाय सततं नमः ॥
इति मन्त्रं समुच्चार्य चतुर्धा मज्जनाचमैः ।
नमस्कारं प्रकुर्वीत सर्वात्कामानवप्नुयात्॥१४॥
यमोऽनुचरभावेन यत्र स्नानं समाचरेत् ।
व्रजमण्डलरक्षार्थमागतो पाशदण्डभृत् ॥
कृष्णाज्ञया भ्रमन्यत्र गोपानां रक्षणाय च ।
यमतीर्थसरोरम्यं महिषासुरनाशनं ॥
यत्रैव कार्तिके मासि कृष्णपक्षे त्रयोदशि ।
तस्यां वै कुरुते स्नानं दीपदानं चतुर्मुखं ॥
सर्वदा सौख्यमाप्नोति सर्वारिष्टविवर्जितः ।
ततो यमतीर्थसरोवरस्नानाचमनप्रार्थनमन्त्रः —
सर्वारिष्टहरस्तीर्थ यमतीर्थ सरोवर ।
नमस्ते कल्मषौघानां शान्तये भूरिदाय ते ॥
इति मन्त्रं चतुर्भिस्तु पठित्वा मज्जनाचमं ।
नमस्कारं प्रकुर्वीत सदासुखमवाप्नुयात् ॥
चतुर्विधं कृतं दानं कृष्णागौस्वर्णलौहकम् ।
तिलं दद्यात् विधानेन गूर्जराय विशेषतः ॥
यमलोकं कदा नैव दृष्टो मोक्षपदं लभेत् ॥१५॥
तप्तोदकं समानीय वरुणोऽनुचरभावतः ।
श्रीकृष्णस्नपनार्थाय रचयेन्निर्मलं सरः ॥
वरुणाख्यसरो रम्यं विख्यातं पृथिवीतले ।
ततो वरुणसरस्नानाचमनप्रार्थनमन्त्रः —
मन्दाकिनीसमस्तीर्था वरुणसङ्गकाय च ।
नमः परमशोभाढ्य कल्मषघ्नाय ते नमः ॥
द्विसप्ततिभिरुच्चार्य मन्त्रं मज्जनमाचमं ।
नमस्कारं प्रकुर्विताखण्डसौभाग्यसम्पदं ॥
लभते परमं सौख्यं परिवारसमन्वितः ॥१६॥
कुवेरोऽत्र तपश्चक्रे नदिं कौवेरिणीं करोत् ।
यत्र स्नातो नरो यस्तु कुबेरवद्धनी भवेत् ॥
चतुर्विधधनैपूर्णो जायते नात्र संशयः ।
ततो कौवेरिणीस्नानाचमनप्रार्थानमन्त्रः ।
भविष्ये —
कौवेरिण्यै नमस्तुभ्यं नद्यै लक्ष्म्यै नमो नमः ।
कृष्णायै वहुधान्यायै स्वर्णदायै वरानने ॥
इति मन्त्रं दशावृत्या मज्जनाचमनै र्नमन् ।
धनाढ्यो वहुधा लोको स्नपनाज्जायते ध्रुवम् ॥
इति गोवर्धनस्थानतीर्थोत्पत्तिरुदाहृता ।
लोकानां च हितार्थायावन्यामाविर्भवन्ति हि ॥
इति गोवर्धनोत्पत्तिमहात्म्यनिरूपणं ॥१७॥
अथ कामवनोत्पत्तिमहात्म्यनिरूपणं ।
वाराहे —
भाद्रकृष्णतृतीयायामागतो वन-यात्रया ।
यत्रैव गोपिकानान्तु कामास्तु बहुधा भवन् ॥
यतो कामवनं नाम विख्यातं पृथिवीतले ।
मोहिता देवताः सर्वा कामसन्तप्तमानसः ॥
ततो कामवनप्रार्थनमन्त्रः —
गोपीगीतप्रविष्टाय धीसम्मोहनकारिणे ।
नमस्ते कामदेवाय श्रीमन्मदनमुर्त्तये ॥
ततो मन्त्रं समुच्चार्य पञ्चधा च नमस्करोत् ।
सर्वदा पुरुषार्थेन रमते स्त्रीजनैः सह ॥
परमायुः सजीवेत स्तैख्यश्रीवल्लभः सदा ॥१८ ॥
रतिकेलिसखी यत्र स्नानं प्रतिदिनं करोत् ।
रतिकेलिकृतं कुण्डं सर्वसौभाग्यवर्धनं ॥
नारी च पतिना सार्धं रतिकेलिं समाचरेत् ।
कदाचिन्न भवेद्भगं पत्युश्चरति क्रीडनं ॥
वियोगं न कदा जातं पत्युग्त्यन्तवल्लभा ।
ततो रतिकेलिकुण्डस्नानाचमनप्रार्थनमन्त्रः ।
भविष्ये —
रतिकेल्यै नमस्तुभ्यं सर्वकैवल्यमूर्तये ।
सर्वसौभाग्यदे तीर्थे रतितीर्थ नमोस्तु ते ॥
इति मन्त्रं त्रिधावृत्या मज्जनाचमनै र्नमन् ।
सर्वदा सौख्यमाप्नोति दम्पतीरतिक्रीडनात्॥१९॥
यत्रैव फाल्गुनं मासि होलिकोत्सवकारकः ।
मण्डलो राजते सौख्यमुत्सवं च व्रजौकसाम् ॥
ततो केलिमण्डलप्रार्थनमन्त्रः —
राधाकृष्णविलासाय मण्डलाय नमो नमः ।
सर्व मङ्गलमाङ्गल्यफाल्गुनोत्सवकारक ॥
इति मन्त्रं समुच्चार्य नवभिः प्रणमेत्स्थलं ।
सर्वदा सौख्यमाप्नोति होलिकोत्सववर्धनः ॥
इति कामवनोत्पत्तिमाहात्म्यनिरूपणं ॥२०॥
अथ जाववटाधिवनोत्पत्तिमाहात्म्यनिरूपणं ।
बृहद्गौतमीये —
राधापादतलाद्यत्र जावकः स्खलितोऽभवत् ।
यस्माज्जाववटं नाम विख्यातं पृथिवीतले ॥
ततो जाववटप्रदक्षिणाप्रार्थनमन्त्रः —
राधाजावकसम्भूत सौभाग्यसुखवर्धन ।
रतिकेलिसुखार्थाय नमो जाववटाय च ॥
इति मन्त्रं समुच्चार्य दशधा प्रणतिञ्चरेत् ।
सर्वदा सुखमाप्नोति सर्वसौभाग्यसम्पदां ॥
यत्र राधाकरोत्स्नानं चतुषष्ठिसखिभिस्सा ।
यस्माज्जाववटे संस्थं राधाकुण्डं मनोहरं ॥
रक्तनीरसमाक्रान्तं किञ्चित् पीतसमाकुलं ।
रतिकेलिसुखं नृणाम् अतिसोभाग्यवर्धनं ॥२१॥
ततो राधाकुण्डस्नानाचमनप्रार्थनमन्त्रः —
राधायै सततं तुभ्यं ललितायै नमो नमः ।
कृष्णेन सह क्रीडायै राधाकुण्डाय ते नमः ॥
इति मन्त्रं दशावृत्या मज्जनाचमनै र्नमन् ।
नर नारी कृतस्नानादखण्डसुखमाप्नुयात् ॥२२॥
नारदीये — यत्र राधाकरोद्रासं कृष्णेन सह विह्वला ।
सप्तवर्षस्वरूपेण सखिभिर्वहुधा सुखम् ॥
कौमार सम्भवामूर्तिर्लालिता राधया सह ।
कण्ठे हस्तं समाधाय अन्योन्यकुटिलेक्षणं ॥
रासमण्डलमाख्यातं गोपवृन्दैर्विनिर्मितं ।
भाद्रेमासि सिते पक्षे कृष्णो क्रीडां करोत्यसौ ॥
ततो रासमण्डलप्रार्थनमन्त्रः —
चतुषष्ठिसखिभ्यस्तु राधादिभ्यो नमो नमः ।
कृष्णाय रमणायैव सप्तवर्षस्वरूपिणे ॥
इति मन्त्रं नवावृत्या मण्डलाय नमश्चरेत् ।
त्रैलोक्यपदराज्यस्य सुखमाप्नोति मानवः ॥२३॥
यत्रैव वहुधा जाताः सर्वाः सख्यस्तु विह्वलाः ।
कृष्णं परिजहुस्तत्र राधाग्रन्थिं समायुजन् ॥
पद्मावत्यास्तु सख्यास्तु विवाहं सा समाचरेत् ।
गानं वैवाहिकोत्साहं सर्वमाङ्गल्यपूरितं ॥
स्थानं वैवाहिकं नाम नरनारीवरप्रदं ।
ततः पद्मावती विवाहस्थलप्रार्थनमन्त्रः —
नमस्ते सर्वमाङ्गल्यशुभवैवाहीकस्थल ।
पद्मावती समेताय नमस्ते नन्दसूनवे ॥
इति मन्त्रं समुच्चार्य वारमेकादशं नमन् ।
चिरञ्जीवी भवेल्लोको पुत्रोत्सवसुखं लभेत् ॥
इति जाववटाधिवनोत्पत्तिमाहात्म्यनिरूपणं ॥२४॥
अथ वन-यात्राप्रसङ्गे नारदवनोत्पत्तिमाहात्म्यं —
भाद्रे मास्यसिते पक्षे चतुर्दश्यां च दर्शनं ।
शुक्ले कार्तिकमसि च दर्शनं प्रतिपद्दिने ॥
आदिपुराणे — यत्रैव मुनिशार्दूलो नारदस्तु तपश्चरेत् ।
कृष्णसदर्शनार्थाय योगविद्यां च प्रार्थयन् ॥
ततो नारदमाख्यातं वनं नाम भुवि स्थितं ।
ततो नारदवनप्रार्थनमन्त्रः —
गोवर्धनमुखास्थाय नारदाख्यवनाय च ।
तपसां राशये तुभ्यं नमः कैवल्यरूपिणे ॥
इति मन्त्रं समुच्चार्य सप्तभिः प्रणमेत्स्थलं ।
परं मोक्षपदं लेभे सर्वदा विजयी भवेत् ॥२५॥
यत्रैव नारदो नित्यं स्नानं कृत्वा तपश्चरन् ।
यतो नारदकुण्डाख्यं सर्वेष्टफलदायकं ॥
ततो नारदकुण्डस्नानाचमनप्रार्थनमन्त्रः ।
बृहन्नारदीये —
ब्रह्मलोकप्रदायैव वैकुण्ठपदायिने ।
नमः नारदकुण्डाय तुभ्यं पापप्रशान्तये ॥
इति मन्त्रं दशावृत्या मज्जाचमनै र्नमन् ।
सर्वपापविनिर्मुक्तो वैकुण्ठपदमाप्नुयात् ॥२६॥
यत्र ब्रह्मा समागत्य पुत्राध्ययनहेतवे ।
सर्वयोगमयीं विद्यां कमण्डलुसमाकुलः ॥
उपदेशं च पुत्राय करोति परमोत्सवं ।
यतो विद्यास्थलं जातं सिद्धपीठं वरप्रदं ॥
यतो ब्रह्माप्रसादात्तु नारदाध्ययन्नाच यः ।
देवर्षिमुनिलोकानां सिद्धिविद्याप्रदायकः ॥
ततो नारदविद्ध्याध्ययनस्थलप्रार्थनमन्त्रः —
ब्रह्म विद्यास्थलस्तुभ्यं जगदानन्ददायिने ।
नारदाध्ययनश्रेष्ठ नमस्तुभ्यं वरप्रदं ॥
इति मन्त्रं सतावृत्या नमस्कारैः स्थलं नमेत् ।
सर्वलोकार्थदां विद्यां सकलेष्टविमोहिनीम् ॥
प्राप्नोति पुरुषो नित्यं नारदस्य प्रसादतः ।
ब्रह्मणो वरमालभ्य नारदो विजयी भवेत् ॥
यत्र स्थले जडो बुद्धया मूर्खो मूकोऽलसोऽकुधीः ।
विक्षिप्तो वधिरश्चैव कुशीलो द्यूतलम्पटः ॥
कृत्वौषधं महाश्रेष्ठं वाक्प्रवृत्ति शुभप्रदं ।
अद्रकं भद्रकं चैव वचं वावचिकं तथा ॥
ब्राह्मी सद्यघृतं शुद्धं युक्त्त्वा चूर्णं शुभप्रदं ।
षष्ठं पीतरसाढ्यख्यं सारस्वतमिदं शुभं ॥
माघे मास्यसिते पक्षे चतुर्दश्यां समाचरेत् ।
कोकिलास्वरसादृश्यं स्वरमाप्नोति मानवः ॥
पिवन्माघचतुर्दश्यां नाभिमात्रजले स्थितः ।
आस्मिन्नारदकुण्डे ऽसौ कृत्वा बुद्धिविशारदः ॥
सुबुद्धिर्जायते लोको सुशीलो धर्मतत्परः ॥२७॥
ब्राह्मे — ब्रह्मा सरस्वतीश्मूर्तिं स्थापयेत् पुत्रसिद्धये ।
सरस्वत्याग्रतो विश्य नारदो मुनिसत्तमः ॥
विद्य ध्ययनसंयुक्तो योगविद्यां लभेदसौ ।
सरस्वत्यवलोकेन विद्यावान् जायते नरः ॥
ततो सरस्वतीप्रार्थनमन्त्रः ।
आश्वलायने —
सरस्वत्यै नमस्तुभ्यं नारदेष्टप्रदायिने ।
ब्रह्मण्यै ब्रह्मरूपिण्यै सिद्धि विद्यास्वरूपिणि ॥
इति मन्त्रमुदाहृत्य सप्तभिश्च नमश्चरेत् ।
सर्वान्कामानवाप्नोति सिद्धिविद्यां वरप्रदां ॥
इति नारदवनोत्पत्तिमहात्म्यनिरूपणं ॥२८ ॥
अथ सङ्केतवनाधिवनोत्पत्ति महात्म्यनिरूपणं ।
कौर्म्ये —
सङ्गमो यत्र जायेत श्रीराधाकृष्णयोः सदा ।
आगमागमसंयोगान्नाम सञ्केतकं स्थलं ॥
भाद्रे मासि सितेपक्षे पञ्चम्यां दर्शनं करोत् ।
न्यूनाधिक्यौ यदा जातौ चतुर्थी तृतीयादिने ॥
चतुर्थीतु विशेषेण वन-यात्राप्रसङ्गके ।
वन-यात्राप्रसङ्गे तु सङ्केतवनसञ्ज्ञकं ॥
ततो सङ्केतवनप्रार्थनमन्त्रः —
युगलागमवेषाय राधायै नन्दसूनवे ।
सङ्केतवनरम्याय नमस्तुभ्यं प्रसीद मे ॥
इति मन्त्रं समुच्चार्य नवभि प्रणतिं चरेत् ।
दम्पत्योवहुधा प्रीतिर्जायते नात्र सशयः ॥२९॥
स्यामास्यामौ यथा सौख्यं यत्र स्नानं समाचरेत् ।
युगलौ पितृमात्रोश्च नामोच्चारणकारकौ ॥
स्यामकुण्डं समुद्भूतं सङ्केतोपवने स्थितं ।
ततो स्यामकुण्डस्नानाचमनप्रार्थानमन्त्रः ।
कौण्डिन्ये —
युगलस्नपनायैव स्यामास्यामाय शाश्वते ।
विमलोत्सवरूपाय केशवाय नमो नमः ॥
इति मन्त्रं समुचार्य सप्तभिर्मज्जनाचमैः ।
नमस्कारै र्विधानेन स्नानान्मोक्षपदं लभेत् ॥
इति सङ्केतवटाधिवनोत्पत्तिमाहात्म्यनिरूपणं ॥३०॥
ततो सारिकावनोत्पत्तिमाहात्म्यनिरूपणं —
श्रावणकृष्णपञ्चम्यां व्रजयात्राप्रसङ्गतः ।
यत्रैव सारिकानां च क्रीडानं विरुतं रतिं ॥
पश्यति परमानन्दो राधयाः सञ्युतो हरिः ।
यतो नाम समुद्भूतं सारिकावनमुत्तमं ॥
ततो सारिकावनप्रार्थनमन्त्रः ।
भविष्योत्तरे —
सारिकाह्लादसौख्याय नानाश्रुतसुखप्रदं ।
युगलाय नमस्तुभ्यं रमारमणनामतः ॥
इति मन्त्रं षडावृत्या नमस्कारं समाचरेत् ।
तस्यैव बन्धनो नास्ति सुवाक्यं श्रूयते सदा ॥
दुर्वाक्यं न कदा तस्य श्रवणस्य पथं चरेत् ॥३१॥
श्रीराधाकृष्णयोश्चैव मनसाह्लादसम्भवं ।
यतो मानसरो यत्र जायते तन्मनोहरं ॥
नानाहंसवकाकीर्णं कलनिर्ह्लादसारसं ।
देवाङ्गनासमाकीर्णं देवगन्धर्वसं कुलं ॥
ततो मानसरःस्नानाचमनप्रार्थनमन्त्रः —
भगवन्मनसोद्भूत राधामन्दविहासज ।
तीर्थाराज नमस्तुभ्यं श्रीमानसरसे नमः ॥
इति मन्त्रं समुच्चार्य शक्रावृत्या कमेण च ।
मज्जनाचमनै र्नित्यं नमस्कारं समाचरेत् ॥
गन्धर्वयोनिमालम्य पुण्यशीलस्थलं ययौ ॥ इति सारिकावनोत्पत्तिमाहात्म्यनिरूपणं ॥३२॥
अथ विद्रुमवनोत्पत्तिमहात्म्यनिरूपणं ।
मात्स्ये —
आषाढशुक्लपञ्चम्यामागतो वन-यात्रया ।
यत्र कदम्बबिल्वाद्याः मध्ये विद्रुमराजयः ॥
शोभन्ते वहुशोभाभिर् देवगन्धर्वकिन्नरैः ।
विद्रुमोत्पत्तिसञ्जाता विद्रुमाख्यवनं भवेत् ॥
ततो विद्रुमवनप्रार्थनमन्त्रः —
विद्रुमोद्भवरूपाय तालाङ्करचिताय च ।
सर्वसौन्दर्यगन्धाय वनाय च नमोस्तु ते ॥
इति मन्त्रं समुचार्य द्वाविंशैश्च नमश्चरेत् ।
सर्वोभरणसञ्युक्तो सौभाग्यसुखमाप्नुयात् ॥
कदापि भूषणैर्हीनो नैव जायेन्न संशयः ॥३३॥
विद्रुमार्थागता यत्र रोहिणी भूषणाय सा ।
स्नानं चकार शुद्धयर्थं मुक्तादानं करोति सा ॥
रोहिणीकुण्डमाख्यातं वसुधातलराजितं ।
ततो रोहिणीकुण्डस्नानाचमनप्रार्थनमन्त्रः —
रोहिणी कृत तीर्थाय नमस्ते कल्मषापह ।
देवगन्धर्वभुषाय सर्वसौभाग्यदायक ॥
इति मन्त्रं समुच्चार्याष्टभिराचमनैर्नमन् ।
मज्जनैः स्नपनं कुर्र्यात्सौभाग्यसुखमाप्नुयात् ॥३४॥
मुक्तान्नीत्वा गता देवी रोहिणी पतिवल्लभा ।
वज्रेश्वरं महादेवं स्थापयेद्विधिपूर्वकम् ॥
नानाविद्रूमलाभाय नित्यसम्भूषणाय च ।
सौभाग्यफल-प्राप्ताय पतिकाञ्तिविवृद्धये ॥
ततो वज्रेश्वरमहादेवप्रार्थनमन्त्रः ।
रुद्रयामले —
वज्रेश्वराय देवाय नमस्तुभ्यं प्रसीद मे ।
मणिविद्धसमुद्भूत वज्रमूर्ते नमोस्तु ते ॥
इत्येकादशभिर्मन्त्रं नमस्कारं समाचरेत् ।
वज्राङो दीर्घजीवीस्याद्रत्नादिघनस्ंयुतः ॥
इति विदुमवनोत्पत्तिमहात्म्यनिरूपणं ॥३५॥
अथ पुष्पोवनोत्पत्तिमहात्म्यनिरूपणं ।
पाद्मे –
जेष्ठशुक्लत्रयोदश्यामागतो व्रजयात्रया ।
यत्रैव ललिताद्यास्ताः सख्योगोप्यस्तथाखिलाः ॥
पुष्पसेवाकृतार्थाय कृष्णसम्मोहनाय च ।
कृष्णाभरणशोभायै रम्यस्त्रक्निर्मिताय च ॥
रचयेयुर्मनोर्थस्तु रम्यं पुष्पवनं सुभम् ।
यमुनाकूलसम्भूतं देवगन्धर्वसंयुतं ॥
पुष्पान्समाददुर्लोकाः कृष्णं गोपींस्तु पूजयेत् ।
सुवर्णभुषणान् लेभे रमते वसुधतले ॥
ततो पुष्पवनप्रार्थनमन्त्रः ।
स्कन्दे –
सौगन्ध्यसुमनाह्लाददायिने सुमनोधर ।
नमः पुष्पवन तुभ्यं सर्वदाश्रीविवर्धनं ॥
इतिमन्त्रं समुचार्य शतमष्टोत्तरं नरः ।
प्रकुर्वन्ति विधानेन काञ्चनैर्भूषणं लभेत् ॥
यत्र स्थानसमुद्भूतैः पुष्परर्भ्यर्चनं हरेः ।
कुरुते सर्वदा सौख्यं नित्यमेव वरंलभेत् ॥३६॥
लैङ्गे –यत्रैव शङ्करो नित्यं स्नात्वा कृष्णार्चनं करोत् ।
रचयेत्स्नानकुण्डं च परं मोक्षप्रदं नृणाम् ॥
कल्याणवर्धनं श्रेष्ठं शिवरूपं सुखप्रदं ॥
ततो शङ्करकुण्डस्नानाचमनप्रार्थनमन्त्रः –
शिवनिर्मिततीर्थआय भवरूपाय ते नमः ।
देवर्षि मनुजादीनां परमोत्सवहेतवे ॥
इति मन्त्रं समुचार्य पञ्चभिर्मज्जनाचमैः ।
गालिनीभिश्चमुद्राभिः स्नपनं प्रणतिं चरेत् ॥
शिवलोकमवाप्नोति सर्वेषां वश्यकारकः ।
कल्याणं सकलं लेभे निर्भाग्यो भाग्यवान्भवेत् ॥३७॥
शिवो लम्बोदरं पुत्रं स्थापयेद्विघ्नशान्तये ।
लम्बोदरं गणेशं च पूजयेद्विधिवत्सुधीः ॥
धनपुत्रादिकामांश्च लभते नात्र संशयः ।
ततो लम्बोदरगणेशप्रार्थनमन्त्रः —
लम्बोदर महाभाग नमस्ते गिरिजात्मज ।
पुत्रादिधनकामानां वर्धनो शुभदायक ॥
इति मन्त्रं समुच्चार्य प्रणति द्वादशं चरेत् ।
तस्य विघानि नश्यन्ति सर्वदा सिद्धिमाप्नुयात् ॥
इति पुष्पवनोत्पत्तिमाहात्म्यनिरूपणं ॥३८ ॥
अथ जातीवनोत्पत्तिमाहात्म्यनिरूपणं ।
नृसिंहपुराणे —
आषाढशुक्लसप्तम्यामागतो व्रजयात्रया ।
राधाप्रियसखी यत्र माधुरीनामगोपिका ॥
राधाकृष्णार्चनार्थाय रचयेन्मालतीवनं ।
नानाद्रुम लताकीर्णं मथुरामण्डलं द्युतिं ॥
ततो जातीवनप्रार्थनमन्त्रः —
माधुरीनिर्मितायैव जातिवन नमोस्तु ते ।
अतिसौगन्ध्यमोदाय लक्ष्मीरूपाय ते नमः ॥
इति मन्त्रं समुच्चार्य प्रणतिं दशधा कमोत् ।
सदा सौभाग्यसंयुक्तो लक्ष्मीवानपि जायते ॥३९॥
माधुरी नित्यमेवात्र स्नपनं कुर्वती सुखं ।
स्वकुण्डं रचयेद्गोपी माधुरीकुण्डविश्रुतं ॥
यत्र स्नानकृतानारी कर्कशा दुर्भगाशुभा ।
सुशीला शुभगा श्रेष्ठा मधुरस्वरभाषिणी ॥
अप्सरेव च लोकेषु रमते मोदतेऽखिलं ।
ततो माधुरीकुण्डस्नानाचमनप्रार्थनमन्त्रः —
माधुरीरचितं तीर्थ पीतवारिसमाकुल ।
नमस्ते माधुरीकुण्डं मानरूप नमो नमः ॥
इति मन्त्रं षडावृत्या मज्जनाचमनै र्नमन् ।
मधुरा भवति वाणी लोकानां प्रियवल्लभः ॥४०॥
यत्र राधाकरोन्मनं माधुर्या सह विह्वला ।
कुटिलेक्षणा दृष्टथा सा श्रीकृष्णमवलोकयेत् ॥
वहुभिः प्रार्थनाभिः सा माधूर्या सुदृशाभवत् ।
विलासं कुरुतेऽसौ सा कृष्णेन सह मोहिता ॥
मानपूर्णं विलासस्य माधुरीस्थलमीरितं ।
ततो मानमाधुरीस्थलप्रार्थनमन्त्रः —
मानपूर्णनिवासाय राधारमणहेतवे ।
विलासमाधुरीस्थान रतिसौख्यायते नमः ॥
चतुभिरितिमन्त्रं च पठम्ं च प्रणतिं चरेत् ।
दम्पत्योर्वहुधा प्रीति रतिसौख्यं च सर्वदा ॥
इति जातिवनोत्पात्तीमहात्म्यनिरूपणं ॥४१॥
अथ चम्पावनोत्पत्तिमाहात्म्यानिरूपणं ।
कात्यायनसंहितायां —
आषाढशुक्लषष्ठयां च गतोऽसौ व्रजयात्रया ।
यत्र चम्पासखीनाम रचयेत्सुन्दरं वनं ॥
ललितामोहनस्यापि क्रीडारमणहेतवे ।
सखी चम्पलता श्रेष्ठा ललिता प्रियवल्लभा ॥
यस्याः प्रीत्या समायाता गोमती गोपिका शुभा ।
क्रीडाविमलकल्लोलहेतवे कुण्डनिर्मलं ॥
नीलवारिसमाकीर्णं नानाद्रुमलतावृतं ।
त्रिविधैः कमलैश्चापि रक्तनीलसरोरुहैः ॥
वहुधा राजते श्रेष्ठं तपः सिद्धिप्रदायकं ।
ततश्चम्पावन-यात्राप्रार्थनमन्त्र —
देवगन्धर्वकीर्णाय चम्पावन नमोस्तु ते ।
सकलेष्टप्रदायैव ललितारमणाय ते ॥
इति मन्त्रं दशावृत्या नमस्कारं समाचरेत् ।
देवयोनिं समालभ्य सर्वदा सुखमाप्नुयात् ॥
ततो गोमतीकुण्डस्नानाचमनप्रार्थनमन्त्रः —
गोमती मनसोर्थाय सर्वकामप्रदायिने ।
तपसां सिद्धये तुभ्यं तीर्थराज नमोस्तु ते ॥
इति मन्त्रं दशावृत्या मज्जनाचमनै र्नमन् ।
त्रिविधं सौख्यमाप्नोति कामधर्मार्थसञ्ज्ञकं ॥
इति चम्पावनोत्पत्तिमहात्म्यनिरूपणं ॥४२॥
अथ नागवनोत्पत्तिमहात्म्यनिरूपणं ।
शक्रयामले —
वन-यात्राप्रसङ्गं च भाद्रकृष्णे ह्यमादिने ।
आगतो वन-यात्रार्थी हस्त्यारोहसुखं लभेत् ॥
ऐरावतसमारूढो शक्रो यत्र समागतः ।
शचीजलविहारस्य क्रीडालोकनहेतवे ॥
सर्वभिरप्सरोभिश्च जलक्रीडां करोद्धरिः ।
तत्रैवैरावतं मुच्य शक्रो क्रीडां प्रपश्यति ॥
यस्मान्नागवनं नाम जायते पृथिवीतले ।
इन्द्राणी रचयेत्कुण्डं जलक्रीद्दाविहारिणे ॥
गन्धर्वदेवताभिश्च अप्सरोगणसेवितं ।
शचीकुण्डं समाख्यात्तं भूमौ नागवने स्थितं ॥
ततो नागवनप्रार्थनमन्त्रः —
नमो नागवनायैव ऐरावतसमुद्भव ।
राज्यलक्ष्मीप्रदस्तुभ्यं सर्वदा विजयप्रद ।
।
सप्तभिर्मन्त्रमुच्चार्य नमस्कारं समाचरेत् ।
राज्यसम्पदमाप्नोति शक्रतुल्यपराक्रमः ॥
ततो शचीकुण्डस्नानाचमनप्रार्थनमन्त्रः —
शचीनिर्मिततीर्थय पातिव्रत्यस्वरूपिणे ।
नमः कैवल्यनाथाय रम्यतीर्थं नमोस्तु ते ॥
इति मन्त्रं मुदाहृत्य द्वादशैर्मज्जनाचमैः ।
नमस्कारं विधानेन कुर्यान्मोक्षपदं लभेत् ॥
यत्र स्नानकृता नारी सप्तजन्मपतिव्रता ॥ इति नागवनोत्पत्तिमहात्म्यनिरूपणं ॥४३॥
अथ तारावनोत्पत्तिमाहात्म्यनिरूपणं ।
शेषरामायणे —
श्रावण कृष्णसप्तम्यामागतों व्रजयात्रया ।
तारा यत्र तपस्तेपे कन्यापञ्चत्वसिद्धये ॥
भगवद्दर्शनार्थाय वरलाभाय दुश्चरं ।
यस्मात्तारावनं नाम विख्यातं पृथिवीतले ॥
ततस्तारावनप्रार्थनमन्त्र —
तारावन नमस्तुभ्यं तपः सिद्धिस्वरूपिणे ।
देवयोनिसमुद्भूत कन्यायै वरदे नमः ॥
इति मन्त्रं समुचार्य नवभिः प्रणतिं चरेत् ।
देवर्षियोनिमाप्नोति परमोक्षपदं लभेत् ॥
तारा यत्र कृतं स्नानं परिचर्यासुसिद्धये ।
ताराकुण्डं समाख्यातं तारवनमुपस्थितं ॥
ततस्ताराकुण्डस्नानाचमनप्रार्थनमन्त्रः —
तारानिर्मिततीर्थाय ताराकुण्डाभिधायिने ।
तीर्थराज नमस्तुभ्यं सर्वपापप्रणाशन ॥
इति मन्त्रं समुचार्य नवभिर्मनाचमैः ।
नमस्कारं प्रकुर्वीत फलं शतगुणं लभेत् ॥
यत्रैव क्रियते दानं तारं रुक्ममयं कृतं ।
कर्षत्रयप्रमाणेन स्वर्गे हर्म्यं लभेन्नरः ॥
इति तारावनोत्पत्तिमाहात्म्यनिरूपणं ॥४४॥
अथ सूर्यपतनवनोत्पत्तिमाहात्म्यनिरूपणं ।
आदित्यपुराणे —
श्रावणकृष्णद्वादश्यामागतो व्रजयात्रया ।
त्रेतायुगे समायाते सूर्यो यत्र पपात ह ॥
रावणस्य भयं लब्ध्वा श्रीरामशरणागतः ।
यतो सूर्यप्रपाताख्यं वनं यत्र प्रजायते ॥
ततो सूर्यपतनवनप्रार्थनमन्त्रः —
भास्कराय नमस्तुभ्यं भुवस्तलसमागतः ।
नमः प्रत्यक्षदेवाय तिमिरन्धविनाशिने ॥
इति द्वादशभिर्मन्त्रं समुचार्य नमस्करोत् ।
सर्वंरोगैर्विनिर्मुक्तो धनधान्यमवाप्नुयात् ॥
यत्र स्थानेऽपतत्सूर्यो दीर्घकूपः प्रजायते ।
सूर्यकूपं समाख्यातं वहुपुण्यविवर्धनं ॥
यत्र स्नानकृतो धीमान्स्वर्णमूर्ति रविं ददौ ।
पञ्चकर्षप्रमाणेन वैकुण्ठपदमाप्नुयात् ॥
इति सूर्यम्पतनवनोत्पत्तिमाहात्म्यनिरूपणं ॥४५॥
अथ बकुलवनोत्पत्तिमाहात्म्यनिरूपणं ।
गौरीरहस्ये —
आषाढशुक्लद्वादश्यामागतो व्रजयात्रया ।
गोप्यो बकुलावृक्षाणां वनं चक्रुर्मनोहरं ॥
रमणार्थाय कृष्णस्य रूपं वैहारिणोऽत्रहि ।
बकुलाख्यं वनं जातं विख्यातं पृथिवीतले ॥
कृष्णसार्धं रमेद्गोपी यत्रोत्साहशुखं रतं ।
ततो बकुलवनप्रार्थनमन्त्रः —
गोपिकानिर्मितार्थाय बकुलानां वनाय ते ।
नमः परमरूपाय परमाल्हादरूपिणे ॥
इति मन्त्रं समुचार्य वीश्वप्रणतिमाचरेत् ।
मनोभिलाषिणीं नारीं लब्धा सौख्यमवाप्नुयात् ॥४६॥
यत्र गोप्यो सरोरम्यं निर्मयेयुर्मनोहरं ।
पीतारुणसितैर्नीलैर्जलैर्रूमिसमाकुलं ॥
अङ्गरागविनिर्धौतभिन्नकल्लोलशोभितं ।
जलक्रीडाविहारेण क्षिप्तवाहूरुनिर्फरै ः ॥
वीमलं क्रीडमानास्ताजगुः कृष्णं मनोरथैः ।
गोपीसरो समाख्यातं विख्यातं पृथिवीतले ॥
ततो गोपीसरोवरस्नानाचमनप्रार्थनमन्त्र —
नानाविमलवर्णाम्भःसरसे गोपिकर्चित ।
नमः कल्मषनाशाय गोपिकासरसे नमः ॥
इति मन्त्रं समुच्चार्य सप्तभिर्मज्जनाचमैः ।
नमस्कारं प्रकुर्वीत सर्वदा सुखमाप्नुयात् ॥४७॥
यत्र गोप्यः शुभां क्रीडां चक्रुः कृष्णमहोत्सवैः ।
क्रीडामण्डलमाख्यातं गोपीनां कृष्णगोष्टिकं ॥
गीतवाद्यसमायुक्तं नानारवमनोहरं ।
ततो क्रीडामण्डलप्रार्थनमन्त्रः —
गोपिकारमणार्थाय मण्डलाय नमास्तु ते ।
यशोदानन्दनायैव कृष्णाय सततं नमः ॥
इति मन्त्रं समुच्चार्य षोडशावृत्तिभिर्नमेत् ।
परं मोक्षपदं लेभे धनधान्यसमाकुलः ॥
इति बकुलवनोत्पत्तिमाहात्म्यनिरूपणं ।
अथ तिलकवनोत्पत्तिमाहात्म्यनिरूपणं ।
वामनपुराणे —
नवम्यां श्रावणे कृष्णे वन-यात्राप्रसङ्गतः ।
आगतो व्रजयात्रार्थी तीलकाख्यं वनं शुभं ॥
मृगावत्याप्सरा यत्र शृङ्गारतिलकं करोत् ।
गोपीनां सुकुमारीणां कृष्णवेषाभिधायिनां ॥
वहुतिलकवृक्षाणां रोपणं रमणं करोत् ।
तिलकाख्यं वनं जातं सर्व सौभाग्यवर्धनं ॥
ततस्तिलकवनप्रार्थनमन्त्रः ।
बृहद्गौतमीये —
शृङ्गारतिलकाभ्यस्तु गोपिकाभ्यो नमो नमः ।
वनाय तिलकाख्याय वनराज नमोस्तु ते ॥
इति मन्त्रं दशावृत्या प्रणतिं कुरुते नरः ।
सकलेष्टप्रदां नित्यं प्राप्नोत्यत्र न संशयः ॥४९॥
मृगावतीकृतं स्नानं गोपिकाभिः समन्विता ।
यतो मृगावतीकुण्डं विख्यातं पृथिवीतले ॥
ततो मृगावतीकुण्डस्नानाचमनप्रार्थनमन्त्रः —
मृगावतीकृतार्थाय तीथराज नमोस्तु ते ।
ताम्रवर्णापयोद्भूत ब्रह्महत्यादिघातक ॥
इति मन्त्रं समुच्चार्य नवभिर्मज्जनाचमैः ।
नमस्कारं प्रकुर्वीत परमैन्द्रपदं लभेत् ॥
इति तिलकवनोत्पत्तिमाहात्म्यनिरूपणं ॥५०॥
अथ दीपवनोत्पत्तिमाहात्म्यनिरूपणं ।
भविष्ये —
जेष्ठशुक्लद्वितीयायां व्रजयात्राप्रसङ्गतः ।
दीपनामवनं गत्वा परिपूर्णसुखंलभेत् ॥
यत्र कृष्णः सगोपीभिः दीपदानं समाचरेत् ।
मासि कार्तिकपूर्णे तु जगन्मङ्गलकारके ॥
यत्रैव दिपदानं च कुरुते कार्तिके नरः ।
त्रैलोक्यमोहिनीं लक्ष्मी धनधान्यसमाकुलां ॥
चतुर्गुणमयीं लेभे चतुर्वर्गफलप्रदं ।
ततो दीपवनप्रार्थनमन्त्र —
नमो दीपवनायैव कमलेष्टप्रदायिने ।
सगोपिकाय कृष्णाय नमस्ते नन्दसूनवे ॥
इति मन्त्रं समुच्चार्य दशधा प्रणतिञ्चरेत् ।
दीपदानफलं लेभे त्वन्यमासेषु दर्शनात् ॥५१॥
यत्र रुद्रोऽकरोतस्नानं कृष्णदर्शनलालसः ।
रुद्रकुण्डं समुद्भूतं सकलेष्टप्रदं नृणां ॥
ततो रुद्रकुण्डस्नानाचमनप्रार्थनमन्त्रः —
रुद्रकुण्डाय ते तुभ्यं नमो रुद्रविनिर्मितं ।
सकलेष्टप्रदायैव तीर्थराज शुभप्रद ॥
इत्येकादशधा मन्त्रं पठित्वा मज्जनाचमैः ।
नमस्कारं प्रकुर्वीत सर्वकल्याणामाप्नुयात् ॥५२॥
लक्ष्मीनारायणं मूर्त्तिं स्थापयेदर्थसिद्धये ।
रुद्रो मोक्षप्रदार्थाय कृष्णमायाविमोहितः ॥
ततो लक्ष्मीनारायणप्रार्थनमन्त्रः ।
लक्ष्मीरहस्ये —
लक्ष्म्यासह सुखासीन नारायण नमोस्तु ते ।
कलिदोषविनाशाय सन्तत्युद्भवहेतवे ॥
इति मन्त्रं समुच्चार्यः द्वादशैः प्रणतिं चरेत् ।
धनवान् पुत्रवान् लोको कीर्तिमांश्च प्रजायते ॥
इति दीपवनोत्पत्तिमाहात्म्यनिरूपणं ॥५३॥
अथ श्राद्धवनोत्पत्तिमाहात्म्यनिरूपणं ।
गारुडे —
वैशाखस्यासिते पक्षे तृतीयासम्भवे दिने ।
व्रजयात्रा समायाता नाम श्राद्धवनं शुभं ॥
इदं च यादवानां च मोक्षरूपप्रदस्थलं ।
यतस्तु यादवाः सर्वे बलदेवप्रभृतयः ॥
श्राद्धं कुर्वन्ति मोक्षाय पितृणामक्षयं फलं ।
अपमृत्युमृतो लोको वह्निदाहादिना यतः ॥
प्रेतत्वयोनियुक्तान्धोऽसन्तानो निर्वशकः ।
यत्र श्राद्धमवाप्नोति प्रेतत्वं मुच्यते क्षणात् ॥
पितृदेवगतायोनिं प्राप्नोत्यत्र न संशयः ।
पुत्रवान् धनवान् भूयाद् इत्युक्त्वा च वरं ददौ ॥
यतो श्राद्धवनं जातं विख्यातं पृथिवीतले ।
ततो श्राद्धवनप्रार्थनमन्त्रः —
अक्षयं पुण्डरीकाक्ष प्रेतमुक्तिप्रदो भवः ।
नमः श्राद्धवनं तुभ्यं पितृदेव नमोस्तुते ॥
इति मन्त्रं त्रिभिरुकत्त्वा नमस्कारम्ं त्रयं चरेत् ।
तस्यैव पितरो यान्ति अक्षयपदसज्ञकं ॥
आश्विने वाथवा पौषे मासयोरुरुभयोरपि ।
कृष्णपक्षे करोच्छ्राद्धं गयाश्राद्धफलं लभेत् ॥
पायसस्य कृतं पिण्डमन्यधान्यविवर्जितं ।
पितृणामक्षयं सज्ञं सर्वदा तृप्तिकारकं ॥५४॥
बलदेवकृतं श्रेष्ठं सज्ञं श्राद्धवनं शुभम् ।
यत्रैव बलभद्रस्तु नित्यस्नानं समाचरेत् ॥
मध्याह्नोदयवेलायां यदूनां श्राद्धहेतवे ।
नाम श्रीबलभद्रस्य कुण्डं पापप्रणाशनं ॥
विख्यातं पृतिवीलोके स्थितं श्राद्धवने शुभे ।
ततो बलभद्रकुण्डस्नानाचमनप्रार्थनमन्त्र —
बलभद्रकृतायैव तीर्थराज नमोस्तु ते ।
वैमल्यजलपूर्णाय कुण्डाय सततं नमः ॥
इति मन्त्रं समुच्चार्य दशधा मज्जनाचमैः ।
नमस्कारं प्रकुर्वीत मुक्तिभागी भवेन्नरः ॥५५॥
नीलकण्ठशिवस्यापि मूर्तिं संस्थापयेद्धली ।
यत्रैव यादवानां च मोक्षायार्थविभुतये ॥
ततो नीलकञ्ठशिवप्रार्थनमन्त्रः ।
लैङ्गे —
भवायाकाशरूपाय नीलकञ्ठाय ते नमः ।
जलमूर्ते नमस्तुभ्यं यदूनां मोक्षदायक ॥
इत्येकादशभिर्मन्त्रं पठंस्तु प्रणतिञ्चरेत् ।
धनधान्यसुखादींश्च लभते नात्र संशयः ॥
इति श्राद्धवनोत्पत्तिमाहात्म्यनिरूपणं ॥५६॥
अथ षट्पदवनोत्पत्तिनिरूपणं ।
भविष्योत्तरे —
वैशाखशुक्लसप्तभ्यां व्रजयात्री समागतः ।
यत्रैव भ्रमरानेकाः नानारवसमाकुलाः ॥
वहुधा रवमाचक्रुर्गोपिका क्रीडनोत्सवाः ।
यस्मात्षट्पदनामानं वनं ख्यातं भुवस्तले ॥
ततो षट्पदवनप्रार्थनमन्त्रः —
गोपिकारमणस्थान भ्रमरावलिसङ्कुल ।
षट्पदाख्यवनायैव नमस्तुभ्यं वरप्रद ॥
इति षड्भिः समुच्चार्य मन्त्रं च प्रणतिञ्चरेत् ।
सर्वदा स्त्रीसुखं लेभे धनधान्यसमन्वितः ॥५७॥
यत्र राधादयो गोप्यः कटिं वद्ध्वा हरेः करैः ।
आलिङ्गनं समाचक्रुभ्रामरारावमोदिताः ॥
ताडयनच्युतं कृष्णं स्नापयेयुर्मदोद्धताः ।
दामोदरं प्रषिञ्चेयुर्जलवैहारनिर्फरैः ॥
नाम दामोदर्ंअ कुण्डं विख्यातं पृथिवीतले ।
गोपीकृष्णं महातीर्थं नानावर्णजलास्तुतं ॥
ततो दामोदरकुण्डस्नानाचमनप्रार्थनमन्त्रः —
सगोपीस्नानरम्याय वेषदामोदराय ते ।
नमः कैवल्यनाथाय तीर्थराज नमोस्तु ते ॥
इति मन्त्रं दशावृत्या मज्जनाचमनै र्नमत् ।
सर्वान्कामानवाप्नोति सर्वसौभाग्यसम्पदं ॥
यत्र गोप्यो प्रियं मूर्तिं दामोदरस्वरूपिणं ।
स्थापयेयुर्गणोत्साहैर्नित्यदर्शनलालसाः ॥५८ ॥
ततो दामोदरस्वरूपदर्शनप्रार्थनमन्त्रः —
दामोदर महाभाग गोपीवश्य वरप्रद ।
शतकोटिसखीनां च वल्लभाय नमोस्तु ते ॥
इति मन्त्रं समुच्चार्य षोडशावृत्तिभिर्नमेत् ।
मुक्तिभागी भवेल्लोको वैकुण्ठं वसते सदा ॥
इति षट्पदवनोत्पत्तिमाहात्म्यनिरूपणं ॥५९॥
अथ त्रिभुवनोत्पत्तिमाहात्म्यानिरूपणं ।
विष्णुरहस्ये —
वैशाखकृष्णपूर्णायां व्रजयात्री समागतः ।
त्रयाणां भुवनानां च यत्र सौख्यं करोद्धरिः ॥
गोपीभ्यो शतकोटीभ्यो वहूत्सवमनोरथैः ।
यतस्त्रिभुवनं नाम वनं जातं महीतले ॥
ततस्त्रिभुवनवनप्रार्थनमन्त्रः —
नमस्त्रैलौक्यसौख्याय मङ्गलोत्सवहेतवे ।
कलानां निधये तुभ्यं धनधान्यादिदायकः ॥
इत्यष्टधा पठेन्मन्त्रं नमस्कारं समाचरेत् ।
त्रैलोक्यसम्भवां लक्ष्मीं भुङ्क्ते भूमिपदेस्थितः ॥६०॥
यत्रैव कामनाः पूण गोपीनाञ्चाकरोद्धरि ।
स्नानं चकार गोपीभिः सह कृष्णो सुखोत्सवैः ॥
यतैव कामेश्वरं कुण्डमिच्छापूर्णजलाप्लुतं ।
ततो कामेश्वरकुण्डस्नानाचमनप्रार्थनमन्त्रः —
काम्योत्सवप्रपूर्णाय तीर्थराज नमोस्तु ते ।
धनधान्यसुखोत्पत्तिसौख्यरूपाय ते नमः ॥
इति मन्त्रं समुच्चार्य विंशत्या मज्जनाचमैः ।
नमस्कारं चकारात्र वाञ्छितं फलमाप्नुयात्॥६१॥
गोप्योऽत्र दर्शनार्थाय वासुदेवस्वरूपकं ।
स्थापयेयुः सुखाह्लादैः परिपूर्ण मनोरथाः ॥
ततो वासुदेवप्रार्थनमन्त्रः —
नमस्ते वासुदेवाय गोपिकावल्लभाय च ।
नमः परमरूपाय देवकीनन्दनाय च ॥
इति मन्त्रं समुच्चार्य यथा शक्त्या नमश्चरेत् ।
परं मोक्षपदं याति धनधान्यसमृद्धिमान् ॥
दर्शनाद्वासुदेवस्य मुक्तिभागी भवेन्नरः ।
इति त्रिभुवनोत्पत्तिमाहात्म्यनिरूपणं ॥६२॥
अथ पात्रवनोत्पत्तिमाहात्म्यनिरूपणं ।
महाभारते —
वैशाखस्यासिते पक्षे त्रयोदश्यामुपागते ।
व्रजयात्राप्रसङ्गेन पात्राख्यवनसञ्ज्ञक ॥
द्वापरस्य युगस्यान्ते राजा कर्णोऽभवत्सुधीः ।
धातूनान्तु चतुर्णां सस्वर्णरुक्मप्रभृतिनां ॥
ताम्रकांस्यद्वयोश्चैव पात्रणि च चकारह ।
घृतशर्करगोधूमतिलपूर्णानि तूर्य च ॥
सद्रुव्याणि द्विजातिभ्यो ददौ दानमनुत्तमं ।
अङ्गिरात्रिभरद्वाजकश्यपेभ्यो प्रणम्य च ॥
यस्मात्पात्रवनं नाम विख्यातं पृथिवीतले ।
ततो पात्रवनप्रार्थनमन्त्रः —
सर्वधातुमयस्थान स्वर्णभूमि नमोस्तु ते ।
रत्नगर्भं नमस्तुभ्यं पात्रस्थल नमोऽस्तु ते ॥
इति मन्त्रं शतावृत्या नमस्कारं समाचरेत् ।
पात्रदानफलं लेभे पुण्यं कोटिगुणं फलं ॥
यथा शक्त्या करोद्दानं चतुष्पात्रं सधातुकं ।
चतुष्पात्रादि धान्यं च द्विजेभ्यो सविधानतः ॥
सर्वान्कामानवाप्नोति सहस्रगुणितं फलं ॥६३॥
यत्र कर्णो महात्यागी नित्यस्नानं चकार ह ।
सुवर्णनिर्मितं कुण्डं नीलाम्भः कमलान्वितं ॥
यत्र स्नात्वा करोद्दानं दशभारसुवर्णकं ।
माघकार्तिकयोश्चैव पक्षयोरुभयोरपि ॥
दान कुण्डो भवेदत्र पुण्यं कोटिगुणं फलं ॥
ततो दानकुण्डस्नानाचमनप्रार्थनमन्त्रः —
सर्वाक्षयप्रदस्तीर्थ दानकुण्ड नमोस्तु ते ।
सदेहकर्णमोक्षाय नमः पपप्रणाशिने ॥
इति मन्त्रं दशावृत्या मज्जनाचमनै र्नमन् ।
सकलेवरजीवात्मा वैकुण्ठपदमाप्नुयात् ॥६४॥
ततो कर्णदर्शनप्रार्थनमनाः —
कर्णाय दानरुपाय कौरवाय नमोस्तु ते ।
सर्वकल्मषनाशाय मुक्तिदां मुक्तिमूर्तये ॥
इति मन्त्रं समुच्चार्य पञ्चभिः प्रणतिञ्चरेत् ।
मुक्तिभागी भवेल्लोको दर्शनान्नात्रसंशयः ॥
इति पात्रवनोत्पत्तिमाहात्म्म्यनिरूपणं ॥६५॥
अथ पितृवनोत्पत्तिमाहात्म्यनिरूपणं ।
विश्णुपुराणे —
जेष्ठकृष्णत्रयोदश्यां व्रजयात्राप्रसङ्गतः ।
आगतो पितृयाचार्थी पितृणामाशिषं लभेत् ॥
आजगाम मुनिश्रेष्ठो श्रवणो पितृवत्सलः ।
तीर्थयात्राप्रसङ्गेन पित्रोरन्धस्वरूपिणोः ॥
स्कन्धारोहणसंयुक्तो स्वतीर्थं रचयेऽत्रहि ।
कवरीवट मूलेस्मिन् निधाय स्नपनं चरेत् ॥
यतो पितृवनं नाम भवति पृथिवीतले ।
स्नपनाच्छ्रंवणं कुण्डं सर्वतीर्थोत्तमोत्तमं ॥
ततो पितृवनप्रार्थानमन्त्रः —
नमः पितृवनायैव पुत्रवात्सल्यहेतवे ।
मोक्षरूपनिवासाय भगस्तुभ्यं नमोस्तु ते ॥
इति मन्त्रं दशावृत्या नमस्कारं समाचरेत् ।
चिरजीवी भवेल्लोको परिवारविवर्धनः ॥६६॥
ततो श्रवणकुण्डस्नानाचमनप्रार्थनमन्त्रः —
तीर्थराज नमस्तुभ्यं श्रवणेन विनिर्मितं ।
पापौघशमनायैव सर्वधर्मस्वरूपिणे ॥
इति मन्त्रं समुच्चार्य पञ्चभिर्मज्जनाचमैः ।
नमस्कारं प्रकुर्वित परमायुः स जीवति ॥६७॥
ततो वटस्थस्कन्धारोहणदर्शनप्रार्थनमन्त्रः —
नमो मात्रेऽन्धरूपिण्यै नमः पित्रेऽन्धरूपिणे ।
वरादायै नमस्तुभ्यं वरदाय नमोस्तु ते ॥
इति द्वादशभिर्मन्त्रं पठंस्तु प्रणतिञ्चरेत् ।
पुत्रसौखमवाप्नोति नित्योत्सवविवर्धनः ॥
इति पितृवनोत्पत्तिमाहात्म्यनिरूपणं ॥६८ ॥
अथ विहारवनोत्पत्तिमाहात्म्यनिरूपणं ।
ब्रह्माण्डे —
जेष्ठशुक्लचतुर्थ्यान्तु व्रजयात्राप्रसङ्गतः ।
आगतो व्रजयात्रार्थी विहाराख्यवनं शुभं ॥
यत्रैव शतकोटिभिर्गोपीभीरासमाचरेत् ।
नन्दसुनुर्महोत्साहैर्झकाररवमोहनैः ॥
नाना विमलरूपेण विहार रतिविह्वलं ।
विहारवनमाख्यातं यस्मान्नाम भविष्यति ॥
तन्मध्ये स करोद्रासं रासमण्डंलमद्भुतं ।
विख्यातं त्रिषुलोकेषु वहुसौभाग्यवर्धनम् ॥
ततो विहारवनप्रार्थनमन्त्रः —
गोपिकानिर्मितायैव नन्दसूनुविहारिणे ।
देवर्षिदुर्ल्लभ श्रेष्ठ वनराज नमोस्तु ते ॥
इति षोडशभिर्मन्त्रं पठित्वा प्रणतिं चरेत् ।
सर्वदा परिवारेषु रमते स महोत्सवैः ॥६९॥
ततो शतकोटीगोपिकारासमण्डलप्रार्थनमन्त्रः —
गोपीभ्यो शतकोटीभ्यो स कृष्णाभ्यो नमोस्तु ते ।
देवादिपरमोत्साह रासगोष्टि नमोस्तु ते ॥
इति मन्त्रं समावृत्या नमस्कारं समाचरेत् ।
धनधान्यसुखं लब्ध्वा परमोक्षपदं लभेत् ॥७०॥
आगत्य वरुणे यत्र वारुणीं मान्दिरां करोत् ।
कृष्णपनाय गोपीनां पानाय मदविह्वलां ॥
वैहारविह्वलाः गोपीः कृष्णं वैहारविह्वलं ।
दृष्ट्वा करोन्महातीर्थ वारुणीकुण्डमुत्तमं ॥
सुरापानकृतो मोहाद्यत्र दोषो विमुच्यते ।
ततो वारुणीकुण्डस्नानाचमनप्रार्थनमन्त्रः —
नमो वरुणरम्याय वारुणीकुण्ड ते नमः ।
इन्द्रादिलोकपालानां वरदाय नमोस्तु ते ।१
इति मन्त्रं नवावृत्या मज्जनाचमनैर्नमन् ।
दशद्वारकृतात्पपान्मुच्यते नात्र संशयः ॥
इति विहारवनोत्पत्तिमाहात्म्यनिरूपणं ॥७१॥
अथ विचित्रवनोत्पत्तिमाहात्म्यनिरूपणं ।
बृहद्गौतमीये —
वैशाखशुक्लपञ्चम्यामागतो व्रजयात्रया ।
यत्र गोप्यो विचित्राणि रचयेयुः सुमङ्गलः ॥
नानावर्णानि रम्यानि मनोज्ञानि सुनिर्मलाः ।
ततो विचित्रवनप्रार्थनमन्त्र —
विचित्ररूपिणे तुभ्यं नमस्ते क्रीडनस्थल ।
गोपीनिर्मितवासाय जगदानन्दहेतवे ॥
इति मन्त्रं षडावृत्या पठित्वा प्रणतिञ्चरेत् ।
परत्रेह च प्राप्नोति चित्रवैचित्रमन्दिरं ॥७२॥
कृष्णस्य मन्दिरं चक्रुश्चित्रवैचित्रशोभितं ।
नानाविमलक्रीडाभि रमणाय मनोहरं ॥
ततश्चित्रमन्दिरप्रार्थनमन्त्रः —
नानावर्णविचित्राय गोपिकानिर्मिताय च ।
अत्युत्सवविलासाय रमणाय नमोस्तु ते ॥
इति मन्त्रं समुच्चार्य षोडशावृत्तिभिर्नमेत् ।
चित्रं समर्पयेद्ध्यत्र लिखित्वा विधिपूर्वकं ॥
सर्वदा सुखसंयुक्तं मन्दिरं लभते नरः ॥७३॥
चित्रलेखा सखी रम्या यत्र स्नानं चकार ह ।
सखीभिः सह रम्याभिर्मन्दिरारम्भसिद्धये ॥
ततश्चित्रलेखाकुण्डस्नानाचमनप्राथानमन्त्र —
चित्रलेखाकृततीर्थ चित्रविमलवरिणे ।
तीर्थराज नमस्तुभ्यं सर्वदा वरदायिने ॥
इति मन्त्रं नवावृत्या मज्जनाचमनैर्नमन् ।
चित्रविचित्रकार्याणि सिद्धयन्ति सकलान्यपि ॥
इति विचित्रवनोत्पत्तिमाहात्म्यनिरूपणं ॥७४॥
अथ विस्मरणवनोत्पत्तिमाहात्म्यनिरूपणं ।
मात्स्ये —
वैशाखकृष्णपञ्चम्यां व्रजयात्राप्रसाङ्गतः ।
यत्र गोप्यो हरिं त्यक्त्त्वा भ्रमेयुः कृष्णचिन्वतीः ॥
कृष्णस्तुगोपिकाश्चिन्वन् भ्रमन् घोरवने मुहुः ।
रूपं केशवमाधाय विस्मितोत्रैव स्थीयते ॥
यस्माद्विस्मरण नाम जातं वनमहद्भुतं ।
ततो विस्मरणवनप्रार्थनमन्त्रः —
गोपिकादर्शनान्वेषवनाय च नमोस्तु ते ।
केशवाह्लादसञ्जात धूम्रवर्णाय ते नमः ॥
इति मन्त्रं त्रिभिरुक्त्त्वा नमस्कारं समाचरेत् ।
भूमिद्रव्यमवाप्नोति स्वकीयं वापरात्मकं ॥७५॥
केशवो गोपिकाः लब्ध्वा यत्र स्नानं चकार स ।
कुण्डं केशवमाख्यातं विख्यातं पृथिवीतले ॥
ततो कशवकुण्डस्नानाचमनप्रार्थनमन्त्रः —
गोपिकाशक्तरूपाय केशवाय नमोस्तु ते ।
स्नपिताय भगोस्तुभ्यं विमलाङ्गद्युते नमः ॥
इति षोडशभिर्मन्त्रं मज्जनाचमनै र्नमन् ।
सर्वपापविनिर्मुक्तो मुक्तिभागी भवेन्नरः ॥
इति विस्मरणवनोत्पत्तिमाहात्म्यनिरूपणं ॥७६॥
अथ हास्थवनोत्पत्तिमाहात्म्यं ।
कौर्म्ये —
पूर्णायां च सितेपक्षे वैशाखे व्रजयात्रया ।
प्रारम्भो शुभदो प्रोक्तो हास्य नाम वनाच्छुभात् ॥
सर्वा राधादिगोप्यस्तु गोपालं हास्यमाचेरुः ।
यतो हास्यवनं जातं नाम विख्यातकीर्तितं ॥
हास्यवनप्रार्थनमन्त्रः —
गोपीहास्यस्वरूपाय कृष्णलोलविधायिने ।
नानाह्लादविनोदाय नमो वैमल्यमुर्तये ॥
इति मन्त्रं समुच्चार्य सप्तभिस्तु नमश्चरेत् ।
सर्वदा हास्यक्रीडाभिर् जयतेऽहर्निशं सुखं ॥
वियोगं न कदा पश्येत्विनोदं लभभे सदा ॥७७॥
गोप्यो गोपालमारुध्य स्नापयेयुर्महोत्सवैः ।
नानागानविधानेन चुचुम्बुश्चिबुकं हरेः ॥
यतो गोपालकुण्डं च विख्यातं नाम सम्भवं ।
ततो गोपालकुण्डस्नानाचमनप्रार्थनमन्त्रः —
मनीरमाय गोपीनां कृष्णाह्लादनतत्पर ।
नमो गोपालकुण्डाय तीर्थराज नमोस्तु ते ॥
इति मन्त्रं पठन्नित्यं शक्रावृत्या नमश्चरेत् ।
मज्जनाचमनैः पूवैर्विध्येषा ब्रह्मणोदिता ॥
मुक्तिवान् धनवान् यात्री गवामधिपतिर्भवेत् ॥ इति हास्यवनोत्पत्तिमाहात्म्यनिरूपणं ॥७८॥
अथ जह्नुवनोत्पत्तिमाहात्म्यं ।
ब्राह्मे —
जेष्ठशुक्लचतुर्द्दश्यां व्रजयात्राप्रसङ्गतः ।
प्रदक्षिणाप्रपूर्णास्तु कोणदक्षिणगामिनी ॥
जह्नु नाम मुनिश्रेष्ठो यत्र तपे महत्तपः ।
अयुतद्वयवर्षेण त्रेतायुगसमागमे ॥
रामो दाशरथिभूत्वा कृतार्थं कुरुते हरिः ।
गङ्गां त्यक्त्त्वा ऋषित्भूमौ वैकुण्ठपदमाप्नुयात् ॥
यतो जह्नुवनं नाम विख्यातं पृथिवीतले ।
ततो जहुवनप्रार्थनमन्त्रः —
देवगन्धवसेव्याय नानाद्रुमलतार्वित ।
विकल्मषाय मोक्षाय तपस्थल नमोस्तु ते ॥
इति मन्त्रं दशावृत्या नमस्कारं करोति यः ।
ब्रह्महत्यादिनिर्मुक्तो वैकुण्ठपदमाप्नुयात् ॥७९॥
नित्यस्नानं चकारात्र जह्नुश्च तपसान्निधिः ।
जह्नुकूपसमाख्यातं गङ्गापातसमुद्भवं ॥
जह्नुऋषिकूपस्नानाचमनप्रार्थनमन्त्रः —
गङ्गापातसमुद्भुत जह्नुतीर्थ नमोस्तु ते ।
सर्वकल्मषनाशाय जह्नुकूप नमोस्तु ते ॥
इति मन्त्रं त्रिधावृत्या मज्ज्ञनाचमनै र्नमन् ।
धनधान्यसुखं तस्य गङ्गास्नानम्फलं लभेत् ॥
इति जह्नुवनोत्पत्तिमाहात्म्यनिरूपणं ॥८०॥
अथ पर्वतवनोत्पत्तिमाहात्म्यनिरूपणं ।
वाराहे —
पञ्चम्यां जेष्ठशुक्ले तु व्रजयात्राप्रसङ्गकं ।
प्रलयान्ते नगैकोऽ?सौ संस्थितो पृथिवीतले ॥
वाराहरूपमास्थाय यत्र जातो स्वयं हरिः ।
भूमेरुद्धारणार्थाय पातालमधिरोहति ॥
यतोपर्वतनामात्र वनं चक्रुश्च यादवाः ।
ततापर्वतवनप्रार्थनमन्त्रः —
वाराहजन्मरम्याय पर्वताख्य वनाय च ।
नमः कल्याणरूपाय सुवर्णादिस्वमूर्तये ॥
इति मन्त्रं नगावृत्या नमस्कारं समाचरेत् ।
सर्वदा पृथिवीलोके चिरजीवी भवेन्नृपः ॥८१॥
भूमिप्रवेशतो जातं कुण्ड वाराहसञ्ज्ञकं ।
ततो वारहकुण्डस्नानाचमनप्रार्थनमन्त्रः —
वाराहनिर्मिततीर्थ नीलवारिपरिप्लुत ।
तीर्थराज नमस्तुभ्यं सर्वदा वरदो भव ॥
इति मन्त्रं समुच्चार्य सप्तभिर्मज्जनाचमैः ।
नमस्कारं करोद्यस्तु पृथुतुल्यपराक्रमः ॥
इति पर्वतवनोत्पत्तिमाहात्म्यनिरूपणं ॥८२॥
अथ महावनोत्पत्तिमाहात्म्यनिरूपणं ।
बृहद्गौतमीये —
महान्महाऋषिर्नाम यत्र तेपे महात्तपः ।
वर्षपञ्चसहस्रैस्तु द्वापरान्ते महामुनिः ॥
वैकुण्ठपदलाभाय कृष्णदर्शनलालसः ।
यस्मान्महावनं नाम जायते पृथिवीतले ॥
ततो महावनप्रार्थनमन्त्रः —
तपः पीठ नमस्तुभ्यं कृष्णाक्रीडावरप्रद ।
त्रैलोक्यरमणक्षेत्र महावन नमोस्तु ते ॥
इति मन्त्रं समुच्चार्य नवभिः प्रणतिञ्चरेत् ।
सर्वान्कामानवाप्नोति चिरञ्जीवी भवेन्नरः ॥
भाद्रशुक्लनवम्यान्तु वन-यात्रां समाचरेत् ।
क्रमतः पादविक्षेपैर्धनवान् पुत्रवान्भवेत्॥।८३॥
पक्षवासरसम्भूतो यशोदानन्दनो हरिः ।
अन्धकारस्वरूपेण तृणावर्तो महासुरः ॥
जगाम गोकुलं रम्यं कुर्वन्मुद्रितलोचनान् ।
कृष्णं नीत्वा भुवो लोकादगच्छन्नभसः पथा ॥
ज्ञात्वा हरिंस्तृणावर्त्तमसुरम्बालघातिन ।
यत्रैव त्वपतद्भूमौ जघान पदमुष्टिना ॥
तृणावर्त्तो लभेन्मोक्षं देवयोनिसमाकुलः ।
यतो कुण्डं समुद्भूतं तृणावर्तविनाशकं ॥
ततस्तृणावर्तनाशककुण्डस्नानाचमनप्रार्थनमन्त्रः —
वासुदेवप्रसादेन मुक्तरूप नमोस्तु ते ।
तीर्थराज नमस्तुभ्यं नेत्ररोगभयापह ॥
इति मन्त्रं समुच्चार्य षड्भिर्मज्जनमाचरेत् ।
दिव्यदृष्टिं समालभ्य विष्णुलोकमवाप्नुयात् ॥
यत्रैव नेत्रपीडार्तो पुष्यान्धो तारकान्वितः ।
स्नानाचमनमस्कारैर्दिव्यदृष्टिमवाप्नुयात् ॥८४॥
विष्णुयामले — यत्रैव सखिभिः सार्धं रामकृष्णौ वलोद्धतौ ।
मल्लमल्लाख्यतीर्थाख्यं सञ्जातं पृथिवीतले ॥
यत्रैव देवताः सर्वे नमस्कारं शतं चरेत् ।
असुरघ्नं बलं लब्ध्वा सर्वकामानवाप्नुयुः ॥
कृशाङ्गो दुर्बलो दुखी कृष्णतुल्यपराक्रमः ॥८५॥
ततो देवाः समाजग्मुः शरीरारोग हेतवे ।
समस्तव्रजरक्षार्थं गोपेश्वरसदाशिवं ॥
स्थापयेयुः सुखार्थाय सर्वकल्याणहेतवे ।
त्रयंस्त्रिशनमस्कारान् करोति मनसा धिया ।
चिरजीवी भवेलोको गोपेश्वरप्रसादतः ॥८६॥
भविष्ये — भ्रूणहत्यादिपापानां कृमीकीटविधायिनां ।
विनाशाय समाचक्रूस्तप्तसामुद्रकूपकं ॥
यादवाः देवताः सर्वे वातशीतादिशान्तये ।
शतावृत्याकरोत्स्नानं विमुक्तो जायते नरः ॥
सप्तसामुद्रिके कूपे कुर्यात्स्नानं विधानतः ।
गोदानपञ्चकं दद्यात्कञ्चनं पञ्चप्रस्थकं ॥
वस्त्रं पं च सितं रक्तं हरितं पीतधूम्रकं ।
रुक्मादि पं च पात्राणि पञ्चमुद्रायुतानि च ॥
सर्वैस्तु कल्मषैर्मुक्तो परिवारैः सुखं व्रजेत् ॥८७॥
पञ्चकागतमृत्युश्च यथापूर्वविधायकः ।
तथैव निर्मलत्वाय पूर्वशान्तिविधायकः ॥
प्राणे च विद्यमाने तु जीवन् कञ्ठनिरोधके ।
अथ पञ्चकागतमृत्यौ प्राणेविद्यमाने पूर्वमेव प्रायश्चित्तः ।
कुलार्णवे —
धनिष्टादिकनक्षत्रेस्वागतेषु च पञ्चसु ।
मृत्यौ कण्ठागते काले विद्यमाने तु जीवके ॥
पूर्वमेव विधानेन प्रायश्चित्तं समाचरेत् ।
अमृतादिशुभेष्वेषु घटिकादिष्वहर्निशं ।
नक्षत्रपञ्चकेष्वेषु पञ्चविंशगुणं फलं ॥
पञ्चवासरकेष्वेषु त्वथवापञ्चमासिके ।
अथवा पञ्चवर्षेषु तादृशं फलमीक्षयेत् ॥
पञ्चकेष्वादिकेष्वेव पञ्चविंशगुणं फलं ।
विंशं द्वितीयके जातं तिथिगुण्यं तृतीयके ॥
दशश्चतुर्थके जातं पञ्चके पञ्चकं गुणं ।
तुर्येषु चरणेष्वेव भिन्नभिन्नफलं स्मृतं ॥
बालस्तरुणवृद्धेषु मृयन्ते तत्स्वरूपिणः ।
सपाद षट् हनन् जीवान् धनिष्ठातुर्यपादकः ॥
सार्धद्वादशजीवांश्च धनिष्ठागतृतीयकं ।
एकोनविंशकं हन्यात् वासवद्वितीयाह्रिकः ॥
प्रथमे पञ्चविंशाश्च जीवाह्नन्यात्कुलोद्भवान् ।
स्वकुलेऽवाथवा मातुः प्रोहिते कन्यकाकुले ॥
प्रियेषु हन्यते जीवान् समोपस्थान्युरादिषु ।
ज्योतिनिर्बन्धे — जीवन् पूर्वकृताशन्तिमृतदोषो न विद्यतं ।
दानं पञ्चविधं प्रोक्त्ंअ पञ्चनक्षत्रदारुणे ॥
तत्रादौ धनिष्ठाशान्तिः ।
महार्णवे —
स्वेतगोदानपञ्चैव सितवस्त्रं च पञ्चकं ।
कांस्यपात्रं च पञ्चैव चतुःप्रस्थप्रमाणतः ॥
पात्रेषु संलिखेन्मत्रं चन्दनेन विधानतः ।
मन्त्रः — वासवाय नमस्तुभ्यं शान्तिं यच्छ शुभां मृतौ ।
कुटुम्बसकलेष्वेव दानेन सह रम्यतां ॥ इति मन्त्रः —
पञ्चधा लिखयेन्मन्त्रं समुद्रां दानमाचरेत् ।
धनिष्ठाऋग्प्रपाठेभ्यो विप्रेभ्यो पञ्चसख्यया ॥
कुटुम्वेषु मनुष्यास्तु भवन्ति परमायुषः ।
इति विद्यमाने जीवे धनिष्ठाशान्तिः ॥
अथ सतभिषाशान्तिः —
शक्रयामले — रक्तगोदानपञ्चैव पञ्चपात्रं च ताम्रकं ।
रक्ववस्त्रं च पञ्चैव विप्रेभ्यो दानमाचरेत् ॥
मन्त्रं संलिख्य पात्रेषु चन्दनेन नियोजयेत् ।
मन्त्रः —- वरुणाय नमस्तुभ्यं कुरु मे शान्ति मानवीं ।
सकलारिष्टनाशाय कुटुम्बपरमायुषे ॥ इतिम० —
शतभिष्सूक्तपाठेभ्यो द्विजेभ्यो दानमाचरेत् ।
सर्वकौटुम्बलोकेषु परमायुः स जीवति ॥
इति विद्यमाने जीवे शतभिषाशान्तिः ।
अथ रोगग्रस्ते पूर्वमेव पूर्वभाद्रपदशनिः ।
देवीपुराणे —
स्वेतङ्गा हरितशृङ्गा हरिद्वस्त्रसमन्वितां ।
त्रिविधं च कृतम्पात्रं सप्तप्रस्थप्रमाणतः ॥
मन्त्रं त्रिषु लिखेद्धीमान् कुङ्कुमेन विधानतः ।
मन्त्रः — अजपाद महाभाग नमास्तु पृथिवीपते ।
शान्तिं प्रयच्छ मे देव कौटुम्बपरमायुषी ॥ इतिमन्त्रः —
पूर्वभाद्रपदस्यापि ऋग्पठन्ति द्विजातयः ।
तेभ्यो दानं समर्प्पन्ति शन्तिमाप्नोति कौशलीं ॥
इति पूर्वभाद्रपदशान्तिः ॥
अथोत्तराभाद्रपदशान्तिः ।
दिवोदासनिबन्धे —
पीतगां पीतवस्त्रं च पीतपात्राणि कारयेत् ।
तन्दुलं परिपूर्णानि समुद्गाणि निधारयेत् ॥
तेषु मन्त्रं लिखेत्तत्र नवप्रस्थकृतेषु च ।
मन्त्रः — अहिर्बुध्न्य नमस्तुभ्यं पित्तलस्थ वरप्रद ।
कुटुम्बपरिवारेषु शान्तिं यच्छ नमोस्तु ते ॥ इतिमन्त्रः —
कुङ्कुमेन समभ्यर्च्य विप्रेभ्यो दानमाचरेत् ।
पञ्चके मृतकस्यापि जीवदोषो न विद्ध्यते ॥
इति जीवविद्ध्यमाने चतुर्थपञ्चकोत्तराभाद्रपदपूर्वशान्तिः ।
अथ पञ्चम पञ्चकरेवतीशान्तिः ।
प्रतापमार्तण्डे —
रुक्मस्य पञ्चपात्रणि प्रस्थमात्रं चकार ह ।
धूम्रवर्णमयीन्धेनु पञ्चमुद्रासमन्वितां ॥
धूम्रवर्णानि वस्त्राणि विद्यमाने कलेवरे ।
पात्रेषु नारिकेराणि धारयेन्मश्रमुच्यरेत् ॥
मन्त्रः — पूषणे भगवन्तुभ्यं नमस्ते पञ्चकान्तिक ।
कुटुम्बपरिवाराय मानुषीं शान्तिमाचरेत् ॥ इतिमन्०॥
विप्रेभ्यो विधिवद्दद्ध्यात् ग्रहशान्तिमवाप्नुयात् ।
इति रोगग्रस्ते धनिष्ठादिपञ्चकागतमृत्यौ पूर्वशान्ति ।
ब्राह्मे — रोगग्रस्तो यदालोको योगस्त्रै पुष्करागतः ।
तदादौ क्रियते शान्तिर्विद्यमाने सजीवके ॥
दोषत्रिगुणशान्ताय प्रायश्चित्तं समाचरेत् ।
यथैव पञ्चके त्याज्यमशुभं कर्मसञ्ज्ञकं ॥
त्रैपुष्करेऽशुभे योगे श्राद्धादीनि विसर्जयेत् ।
दशगात्रविना श्राद्धं पक्षदोषो न विद्यते ॥
दशगात्रविशुद्धेन पक्षदोषोऽभिजायते ।
वृद्धौ शुमेऽत्र माङ्गल्ये योगस्त्रैपुष्करोशुभः ॥
त्रिगुणं फलदः प्रोक्तो नराणां शुभकर्मणि ॥
त्रैपुष्करयोगोत्पत्तिः ।
ज्योतिर्निबन्धे —
भद्रातिथिः शनिकुजार्कादिनेषु वह्णि द्वीशार्य मोत्तरपदपुनवैश्चदेवः ।
त्रैपुष्करो भवति यत्र्त्रिगुणाप्रदोयं योगो मृतौ त्याज्यभवो हि मानवैः ॥
शनौ कुजे रवेर्वारे धनिष्ठा मृगतक्षके ।
द्विगुणफलदो योगो प्राभे कर्माणि वर्जयेत् ॥
द्वौ योगौ च परित्याज्यावशुभे कर्म सञ्ज्ञके ।
रोगप्रस्ते शरीरे तु प्राणो कञ्ठगतस्तदा ॥
विद्यमाने तदा जीवे पूर्वशान्तिं समाचरेत् ।
नैव कृत्वा मृता पूर्वं प्रायश्चित्तं त्रिपुष्करे ॥
अशुभं त्रिगुणं कुर्यान्मृतश्राद्धादिकर्मणि ॥ इतिनिषेध ॥
अथ मृत्यावागते काले विद्यमाने जीवे पूर्वमेवशान्तिः ।
शान्त्यर्णवे —
गोदानतृतयं कृत्वा पीतरक्तसितासितं ।
एव वर्णत्रयणैव त्रीणि वस्त्रानि वारयेत् ।
कांस्यपित्तलिताम्राणां त्रीणि पात्राणि सञ्चरेत् ।
प्रस्थत्रयप्रमाणेन त्रैपुष्करप्रशान्तये ॥
तेषु मन्त्रं लिखेद्धीमात्सद्रव्यं पूर्णतण्डुलं ॥
मन्त्रः — ब्रह्मविष्णुमहेशेभ्यो नमस्ते त्रिगुणप्रद ।
त्रैपुष्करमघोरस्यं निवारय प्रसीद मे ॥ इतिमन्त्रः ॥
द्विजेभ्यस्तृतयेभ्यस्तु विधिपूर्वं समापयेत् ।
कौटुम्बपरिवारेषु परमायुः फलं लभेत् ॥
त्रैपुष्करस्य योगस्य जीवितं शान्तिमाचरेत् ।
मृतदोषो न विद्येत परमायुषजीविनः ॥
इति विद्यमानजीवे मृत्या आगाते काले त्रैपुष्करयोगशान्तीः ॥
अथ द्विगुणकृतयोगशान्तिमृत्यावागतसमये जीवविद्यमाने —
पाद्मे वर्णद्वयं च गोदानं स्वेतरक्तं मनोहरं ।
तथैव पित्तलिकांस्यपात्रौ द्वौ प्रस्थपञ्चकं ॥
वस्त्रौ द्वौ सितरक्तौ च द्विगुणस्य प्रशान्तये ।
विप्राभ्यां विधिवद्दद्यात्स्द्रव्यं रुक्ममुद्रकं ॥
नारिकेरयुतं कृत्वा तन्दुलेन प्रपूरितम् ।
तयोस्तु मन्त्रमालेख्य चन्दनेन विचर्चयेत् ॥
द्विगुणं फलदो योगो विफलो जायते ध्रुवम् ।
मृतकर्मणि सन्त्याज्यमशुभे द्विगुणाभिधं ॥
पूर्वशान्तिं न कुर्वीत जीविते मृत्युमागतं ।
द्वयोस्तु जीवयोश्चैव मृत्युमाप्नोति कौलकीं ॥
मन्त्रः — त्वष्टेन्द्रसाशेनस्तुभ्यं नमामि सकलेष्टदाः ।
प्रयच्छन्तु शुभान्कामान्द्विगुणं मे निवारय ॥
इत्येते शुभदाः वृद्धौ माङ्गल्यदिशुभादिषु ।
अशुभादिषु कार्येषु ह्यशुभफलदाः स्मृताः ॥
इति रोगग्रस्ते कलेवरे जीवविद्यमाने द्विगुणयोगागते काले पूर्वमेव शान्तिः ॥
अथाश्विन्यादिसप्तविंशनक्षत्रेषु रोगशान्तिरभिधीयते —
अश्विन्यादिषु पीडा स्याज्जपवरदाहो कलेवरे ।
तद्दोषशमनार्थाय ज्वरतापादिशान्तये ॥
दानं कुर्याद्विधानेन रोगशान्तस्तदा भवेत् ।
तत्रादौ अश्विन्यां रोगशान्तये ऽश्विनीदानं ।
आदित्यपुराणे —
सितमश्वं समादाय सुवर्णप्रतिमां रबेः ।
टङ्कप्रभाणतः कुर्यात्कांस्यपात्रे निधारयेत् ॥
घृतपूर्णे मुखं पश्येन्मन्त्रं द्वादशभिः पठेत् —
मन्त्रः — भास्कराय नमस्तुभ्यम् कौमाराय नमो नमः ।
अश्विनीसम्भवां पीडां निवारय नवात्मकीं ॥
इति मन्त्रं त्रीभिरुक्त्वा दद्याद्दानं द्विजातये ।
ज्वरबाधाविनिर्मुक्तो स्नानमारोग्यमाप्नुयात् ॥
इत्यश्विन्यां रोगसम्भवेऽश्विनीदानशान्तिः ॥
अथ भरण्यां रोगसम्भवे भरणीदानशान्तिः ।
विष्णुधर्मोत्तरे —
द्विप्रस्थपरिमाणेन कांस्यपात्रं च कारयेन् ।
सार्धाप्रस्थत्रयं नीत्वा तिलं श्यामाङ्गनिर्मितं ॥
धर्मराजस्वरूपं च कृत्वा सौवर्णनिर्मितं ।
कर्षमात्रप्रमाणेन तिलपात्रे निवेशयेत् ॥
तिलपात्रे लिखेन्मन्त्रं कृष्णविप्राय दापयेत् ।
मन्त्रः — धर्मराज नमस्तुभ्यमेकादशदिनात्मकीं ॥ पीड्मं निवारय देव यमदोषसमुद्भवां ॥ इतिमन्त्रः ॥
इति या कथिता शान्तिः भरण्याः नैरुजात्मकी ।
इति भरण्यां रोगसम्भवे भरणीदानशान्तिः ॥
अथ कृत्तिकायां रोगसम्भवे कृत्तिकादानशान्तिः ।
अग्निपुराणे —
अग्निदोषसमुद्भूतो कृत्तिकासम्भवो रुजः ।
तद्दोषशमनार्थाय दानमुतममीरितं ॥
कर्षमात्रसुवर्णेन वह्नेस्तु प्रतिमां करोत् ।
तण्डुलं पात्रमाध्याय प्रतिमां तत्र पूजयेत् ॥
मन्त्रं संलिख्य पात्रे ऽस्मिन् दानं विप्राय दापयेत् ।
मन्त्रः — कृपीटाय नमस्तुभ्यं बाधां मे विनिवारय ।
नवबासरसम्भूतां वह्निदोषसमुद्भवां ॥ इतिमन्त्रः ॥
इत्येता कथिता शान्तिः कृत्तिकायाः निरौजकी ।
आयुरारोग्यतां याति वह्निदोषविवर्जितः ॥
इति कृत्तिकायां रोगसम्भवे कृत्तिकादानशान्तिः ।
अथ रोहीण्यां रोगसम्भवे रोहिणीदानशान्तिः ।
ब्रह्माण्डे —
विप्रदोषाच्च रोहिण्यां ज्वरो भवति दारुणः ।
तद्दोषशमनार्थाय शान्तिदानं समाचरेत् ॥
पीतगां ब्रह्मणो मूर्त्तिं सुवर्णास्य चकारह ।
पीतपट्टस्य सस्त्रेण मन्त्रं संलेख्य छादयेत् ॥
टङ्कमात्रसुवर्णस्य प्रतिमा ब्रह्मणो शुभा ॥
मन्त्रः — पितामह नमस्तुभ्यं सप्तवासरसम्भवां ।
निवारय महाभाग पीडामेऽतिज्वरोद्भवाम् ॥ इतिमन्त्र —
ब्राह्मणाय ददौ दानं रोगनिर्मुक्ततां नयेत् ॥ इति रोहिणीदानशान्तिः ॥
मृगशीर्षे भवेद्रोगश्चन्द्रदोषसमुद्भवः ।
तज्ज्वरशमनार्थाय शान्तिदानं समाचरेत् ॥
कांस्यपात्रं समादाय प्रस्थद्वय प्रमाणकं ।
तन्मध्ये पायसं धृत्वा चन्द्रस्य प्रतिमां करोत् ॥
पञ्चकर्ष प्रमाणेन रुक्मेन शुभदायिनीं ॥
मन्त्रः — समुद्रतनय देव मासवाधां निवारय ।
रोहिणीपतये तुभ्यं द्विजरूपाय ते नमः ॥
इति मन्त्रं समुच्चार्य दशभिः प्रणतिञ्चरेत् ।
ब्राह्मणाय ददौ दानं रोगनिर्मुक्ततां नयेत् ॥
इति मृगशीर्षशान्तिदानं ।
महार्णवे ॥
अथाद्राव्यां रोगसम्भवे ।आर्द्रादानशन्तिः ।
लैङ्गे —
आर्द्रायां जायते रोगो शिवदौषसमुद्भवः ।
तज्ज्वरशमनार्थाय दानशान्तिं चकार ह ॥
स्वेतवर्णं वृषं नीत्वा धूम्रवस्त्रेन छादितं ।
कर्षमान्त्रेण रुक्मेण शिवमूर्तिं प्रकल्पयेत् ॥
मन्त्रः — वृषारूढ नमस्तुभ्यं शूलिने वरदायिने ।
आर्द्रारोगनिवृत्ताय रुद्रवाधां निवारय ॥
इत्येकादशभिर्मन्त्रमुच्चरन्प्रणमेच्छिवम् ।
ददौ दानं च विप्राय रोगनिर्मुक्ततां ब्रजेत् ॥
इति आर्द्रादानशान्तिः ।
स्कान्दे — पुनर्वसौ भवेद्रोगो देवदोषसमुद्भवः ।
तज्ज्वरशमनार्थाय दानशान्तिं च कारयेत् ॥
पलार्ध परिमाणेन सुवर्णाप्रतिमां शुभां ।
स्वशरीरानुसारेण सूत्रेण परिवेष्टयेत् ॥
रक्तपट्टेन सञ्छाद्य हस्ते नीत्वा नरः सुधीः ।
मन्त्रः — देवायादितये तुभ्यं नमामि कामरूपिणे ।
सप्तवासरजां बाधां निवारय नमोस्तु ते ॥
इति मन्त्रं समुच्चार्य सप्तभिः प्रणतिञ्चरेत् ।
द्विजाय च ददौ दानं दक्षिणाभिमुखो भवन् ॥
पुनर्वसुकृता शान्तिः रोगनिर्मुक्ततां ब्रजेत् ।
इति पुनर्वसुदानशान्तिः ॥
हरिवंशे — पुष्यर्क्षे जायते रोगो गुरुब्राह्मणदोषतः ।
शान्तिदानं समाचक्रे ज्वरपीडादिशान्तये ॥
बृहस्पतेः करोन्मूर्तिं कर्षं मात्रसुवर्णतः ।
चणकद्विदलप्रस्थसप्तकं परिधाय च ॥
पीतवस्त्रे लिखेन्मन्त्रं हरिद्राभिः सुधीर्नरः ।
मन्त्रः — बृहस्पते सुराचार्य नमस्ते पुष्यनायक ।
सप्तवासरजां बाधां निवराय सुदारुणां ॥ इतिमन्त्र —
सूत्र शरीरमात्रेण पीतं तत्र निवेशयेत् ।
पश्चिमाभिमुखो भूत्वा दानं दद्याद्द्विजातये ॥
रोगनिर्मुक्ततं यति गुरुपुष्यस्य दानतः ॥ इति पुष्यदानशान्तिः ॥
पाद्मे — अश्लेषायां भवेन्रोगो नागदोषसमुद्भवः ।
तद्दोषशमनार्थाय मृत्युरोगप्रशान्तये ॥
शेषस्य प्रतिमां कुर्यात् पलमात्रसुर्वणतः ।
द्वादशाङ्गुलमानेन श्वेतवस्त्रेण छादयेत् ॥
शरीरसूत्रमानेन पुच्छं च परिवेष्टयेत् ।
प्रस्थत्रयप्रमाणेन तन्दुलं परिधाय च ॥
तन्मध्ये लेखयेन्मन्त्रं मुत्तराभिमुखो विशन् ।
मन्त्रः — पातालवासिने तुभ्यं मृत्युयोगादिशान्तये ।
नमोऽश्लेषापते देव शेषनाग प्रसीद मे ॥ इति मन्त्रः —
इत्येतत्क्रियते दानं ब्राह्मणाय तपस्विने ।
मृत्युयोगाद्विमुच्यते परमायुः सजीतति ॥
इति ऽश्लेषादानशान्तिः ।
गारुडे — मघायां जायते पीडा ज्वरदाहादिव्याकुला ।
विंशवासरजा पीडा पितृदोषस्मुद्भवा ॥
तद्दोषविनिवृत्ताय पितृशान्ति समाचरेत् ।
पलतुर्यम्प्रमाणेन स्वर्णमूर्तिं चकारह ॥
स्वेतवस्त्रे लिखेन्मन्त्रं छादयेदुत्तरे मुखः ।
मन्त्रः — विंशवासरजां पीडां निवारय गदाधर ।
पितृदेव नमस्तुभ्यं शरीरारोग्यतां कुरु ॥ इतिमन्त्रः —
मघानक्षत्ररोगस्य शान्तिदानं विधानतः ।
द्विजाय ऋग्प्रपाठाय वृद्धाय प्रणमन्ददौ ॥
इति मघादानशान्तिः ॥
वामनमुराणे — रोगः स्यात्पूर्वफाल्गुन्यां देवदोषसमुद्भवः ।
मृत्युयोगः समाख्यातस्तद्दोषशमनाय च ॥
शान्तिदानं समाचक्रे गोदानं दानमुत्तमं ।
रक्तवर्णमयीं धेनुं रक्तपट्टस्य वस्त्रकम् ॥
भगस्य प्रतिमां कुर्यात्सुवर्णपलमात्रतः ।
पट्टवस्त्रे लिखेन्मन्त्रं गोमूर्तिं पारिछादययेत् ॥
मन्त्रः — भगाय च नमस्तुभ्यं मृत्यूद्भवकलेवर ।
मृत्युयोगभवां बाधां निवारयसि मे प्रभो ॥ इतिमं०॥
उत्तराभिमुखं विप्रं कृत्वादानं प्रदापयेत् ।
इत्युयोगाद्विमुच्येत परमायुर्भवेन्नरः ॥
इति पूर्वाफाल्गुनीदानशान्तिः ।
नृसिंहे — रोगां ह्युत्तरफाल्गुण्यां राक्षसीदोषसम्भवः ।
सप्तवासरजापीडा ज्वरादिमहाद्दारुणा ॥
तद्दोषशमनार्थाय शान्तिदानं समाचरेत् ।
दध्योदनं महाश्रेष्टं वहुशर्करयान्वितं ॥
ब्राह्मणान्सत्तसङ्ख्यकान्भोजनं कारयेत्बुधः ।
पत्रं ऽश्वत्थस्य सन्लिख्व मन्त्रमुत्तरफाल्गुनी ॥
दक्षिणस्यां च दिग्भागे तडागे प्रक्षिपेज्जले ।
दृष्ट्वा च रोगिणं यत्र शीघ्रज्वरप्रशान्तये ॥
मन्त्रः — भगदेवाय ते तुभ्यं नमस्ते जलशायिने ।
सप्तवासरजां पीडां निवारय प्रसीद मे ॥ इतिम०॥
रोगनिर्मुक्ततां याति चिरजीवी भवेन्नरः ।
अल्पाद्विमुच्यते रोगी भगदेवप्रसादतः ॥
इत्युत्तरफाल्गुनीदानशान्तिः ।
भविष्योत्तरे — हस्तर्क्षे जायते रोगो रविदोषसमुद्भवः ।
पक्षवासरजा पीडा ज्वरदाहातिदारुणा ॥
तद्दोषशमनार्थाय शान्तिदानं समाचरेत् ।
पञ्चाब्दगजमादाय सूर्यमूर्त्तिविराजितं ॥
दशगुन्जाप्रमाणेन सुवर्णप्रतिमा शुभा ।
माषतदुलमादाय दक्षिणे च शुभेकरे ॥
मन्त्रं त्रिभिः समुचार्य गजोपरिपरिच्छिपेत् ।
मन्त्रः — नमस्तुभ्यं गजेन्द्राय द्विरदाय जयैषिणे ।
पक्षवासरजां पीडां निवारय प्रसीद मे ॥ इतिमं०॥
कम्बलेन समाच्छाद्य दद्याद्दानं द्विजाय च ।
पूर्वाभिमुखमास्थाय नरो नैरुज्यतां ब्रजेत् ॥
इति हस्तानक्षत्रदानशान्तिः ।
आदिपुराणे — चित्रायां जायतं रोगो विप्रद्रोहसमुद्भवः ।
रुद्रवासरजा पीडा तदोषशमनाय च ॥
शन्तिदानं करोद्धीमान् रोगनिर्मुक्ततां व्रजेत् ।
वर्णं वृषं नीत्वा गोधूमं मणसङ्ख्यकं ॥
ताम्रपात्रे निधायात्र रक्तवस्त्रेण छादयेत् ।
तद्वस्त्रे लिखते मन्त्रं नमश्कृत्य विधानतः ॥
मन्त्रः — त्वाष्ट्रदेव नमस्तुभ्यं चित्रेशाय नमोस्तु ते ।
रुद्रवासरजं रोगं निवारय सदा प्रभो ॥
ब्राह्मणाय ददौ दानमीशानाभिमुखोश्रवन् ।
त्वाष्ट्रदानविधिप्रोक्तः नराणां रोगमुक्तये ॥
इति चित्राशान्तिदानं ।
वायुपुराणे — स्वात्यां सञ्जायते पीडा वायुदोषसमुद्भवा ।
मृत्युरोगः समाख्यातस्तस्मिन्रोगी न जीवति ॥
सर्वौषधिकृतेवापि विना शान्त्या न जीवति ।
मृत्युयोगविनाशाय शान्तिदानं समाचरेत् ॥
सदाशिववृषं नीत्वा सितस्याममहोज्वलं ।
शतप्रस्थप्रमाणेन तन्दुलं सितवर्णकं ॥
वृषपृष्ठे समाधाय धूम्रवस्त्रपरिवृतं ।
वायुकोणे समास्थाय व्यञ्जने मन्त्रमालिखेत् ॥
मन्त्रः —- अञ्जनीपतये तुभ्यं वायवे स्वातिस्वामिने ।
मृत्युयोगभवां वाधां निवारय प्रसीद मे ॥ इतिमन्त्रः ॥
द्विजाय च ददौ दानं परमायुः सजीवति ॥ इति स्वातिनक्षत्रशान्तिदानं ॥
स्कान्दे — विशाखायां भवेद्रोगो देवाग्न्यीः दोसम्भवः ।
तिथिवासरजा पीडा तद्दोषशमनाय च ॥
शक्राघ्न्योःकारयेन्मूर्तिं कर्षामात्रसुवर्णजां ।
चतुः प्रस्थप्रमाणेन कांस्यपात्रं चकारह ॥
पञ्चप्रस्थप्रमाणेन तिलस्वेतं निधारयेत् ।
मन्त्रं तत्र लिखेद्धीमान् पीतरक्तेन वाससा ॥
पूर्वाभीमुखतोविश्य दद्याद्दानं द्विजातये ।
मन्त्रः — देवेन्द्राय नमस्तुभ्यं वह्नये ब्रह्मसाक्षिणे ।
पक्षवासरजां पीडां निवारय प्रसीद मे ॥ इतिमं०॥
उर्धाधोमुखमास्थाय नमस्कारं द्वयं चरेत् ।
रोगी निर्मुक्ततां याति विशाखादानशान्तितः ॥
इति विशाखाशान्तिदानं ।
मात्स्ये — रोगः स्यादनुराधायां मित्रदेवस्य दोषतः ।
षष्ठिवआसरजा वाधा तद्दोषशमनाय च ॥
कर्षार्धपरिमाणेन सौवर्णेन चकारह ।
विधिवन्मित्रदेवस्य रक्तवस्त्रेण छादितं ॥
प्रस्थत्रयप्रमाणेन ताम्रपात्र चकारयेत् ।
रक्तं तत्र दधौ प्रस्थं लिखेन्मन्त्रं विधानतः ॥
उत्तराभिमुखोभूत्वा ब्राह्मणाय प्रदापयेत् ।
मन्त्रः — मित्रदेव नमस्तुभ्यमनुराधापते नमः ।
निवारयसि मे वाधां षष्ठिवासरसम्भवां ॥ इतिमन्०॥
कुर्याच्छान्तिं विधानेन रोगैर्विमुक्यतान्नयेत् ।
इति अनुरधाशान्तिदानं ॥
शक्रयामले — ज्येष्ठायां सम्भवो रोगो मृत्युयोगसमागमे ।
न जीवति कदा रोगी तुर्यपादे यदा स्थिते ॥
तद्दोषशमनार्थाय शान्तिदानमुदाहृतं ।
कर्षमात्रसुवर्णं च पीतृवस्त्रेनिवेशयेत् ॥
तन्मध्ये लेखयेन्मन्त्रं पूर्वाभिमुद्ध्योविशत् ।
मत्रः — शक्राय देवदेवाय नमस्तुभ्यं प्रसीद मे ।
मृत्योगभवां बाधां निवारय शचीपते ॥ इतिमन्०॥
इति गुप्तकृतं दानं रोगमृत्योविमोक्ष्यति ।
दीर्घायुर्जायते लोको दानशन्तिप्रभावतः ॥
इति ज्येष्ठाशान्तिदानं ।
आदिवाराहे — सञ्जायते रोगो ह्यनाचारसमुद्भवः ।
नववासरजा पीडा तद्दोषशमनाय च ॥
पलद्वयसुवर्णस्य नैऋतेः प्रतिमां करोत् ।
श्यामवस्त्रेण सन्छाद्य दक्षिणाभिमुखोविशन् ॥
प्रस्थद्वयघृतं नीत्वा लोहपात्रे निधाय च ।
नवभिरुच्चरन्मन्त्रं मुखं तत्र विलोकयन् ॥
मन्त्रः — नमस्ते दैत्यराजाय नैऋत्ताय कृतार्थिने ।
नववासरजां पीडां निवारय च पृष्टिद ॥ इतिमन् ०॥
दत्त्वा दानं च विप्राय रोगनिर्मुक्ततां नयेत् ।
इति मूलशान्तिदानं ॥
कौर्म्ये — पूर्वाषाढे भवेद्रोगो जलदांषसमुद्भवः ।
मृत्युयोगसमाख्यातस्तशेषविनिवृत्तये ॥
देवहस्तप्रमाणेन सितवस्त्रं समाददे ।
पश्चिमाभमुखो भूत्वा तन्दुलं प्रस्थसप्तकं ॥
तत्रैव लिखयेन्मन्त्रं जलमादौ प्रपूज्य च ।
मन्त्रः — नमः पावनरूपाय व्यापिने परमात्मने ।
मृत्युवमहावाधां निवारय च क्रेशव ॥ इतिमन् ०॥
ब्राह्मणाय ददौ दानं मृत्युबाधाद्विमुच्यते ।
मृत्युयोगकृताद्दानात्परमायुः सजीवीति ॥
इति पूर्वाषाढादानशान्तिः ।
विश्णुपुराणे — रोगः स्यादुत्तराषाढे श्राद्धलोपसमुद्भवः ।
मासपीडा ज्वरोद्भूता तद्दोषशमनाय च ॥
पलद्वयप्रमाणेन सुवर्णप्रतिमाकरोत् ।
विश्वेषां देवयोश्चैव श्वेतवस्त्रपरिवृतः ॥
दशप्रस्थानुसारेण सिततन्दुलमुत्क्षिपेत् ।
लिखेन्मन्त्रं च तत्रैव पश्चिमाभिमुखेविशन् ॥
मन्त्रः — नमो विश्वप्रबोधाय विश्वदेव नमोस्तु ते ।
मासोद्भवमहापीडां निवारय सनातन ॥
ब्रह्मणाय ददौ दानं रोगनिर्मुक्ततां नयेत्। इति उत्तराषाढा शान्तिदानं ॥
वामनपुराणे — श्रवणक्षे भवेद्रोगो मातृपित्रोस्तु दोषज ।
शिववासरजा पीडा ज्वरातीसारसम्भवा ॥
तद्दोषशमनार्थाय शान्तिदानं समाचरेत् ।
नैमन्च्य ब्राह्मणं श्रेष्ठं सितवस्त्र मनोहरं ॥
हस्तपञ्चाशमानेन मन्त्रं तत्र लिखेद्बुधः ।
सिततन्दुलपूर्णं च घटं मृन्मयमुत्तमं ॥
दश पुङ्गीफलं मध्ये दशमुद्रासमाकुलं ।
पूर्वाभिमुखमाविश्य चन्दनेन समर्चयेत् ॥
मन्त्रः — विष्णवे श्रवणेशाय गोविन्दाय नमो नमः ।
रुद्रवासरजां पीडां विनाशय महोत्कटां ॥इतिम०॥
इति शान्त्या ददौ दानं ब्राह्मणाय विशेषतः ।
रोगनिर्मुक्ततां याति परमायुः सजीवति ॥
इति श्रवणा शान्तिदानं ॥
भविष्ये — रोग स्याच्चधनिष्ठायामपमानसमुद्भव ।
पक्षवासरजा पीडा तद्दोषशमनाय च ॥
प्रस्थत्रयप्रमाणेन कांस्यपात्रं चकारयेत् ।
विलिप्य चन्दनेनैव शुष्क कुर्याद्विधानतः ॥
तन्मध्ये मन्त्रमालेख्य सुवर्णस्य शलाकया ।
पञ्चप्रस्थप्रमाणेन तन्दुलं तत्र प्रक्षिपेत् ॥
हरिद्वस्त्रेण सञ्छाद्य पश्चिमाभिमुखोभवन् ।
रुक्ममुद्राद्वयं धृत्वा दानं दद्याद्द्विजातये ॥
मन्त्रः — वसवे देवदेवाय धनिष्ठेशाय ते नमः ।
पक्षवासरसम्भूतां निवारय च सुप्रद ॥ इतिमन्त्रः ॥
शान्त्यादानकृतेनापि रोगनिर्मुक्ततां ब्रजेत् ।
इति धनिष्ठाशान्तिदानं ॥
लैङ्गे — शतभिष्दुष्टनक्षत्रे रोगः स्याज्जलदोषतः ।
रुद्रवासरजा पीडा तद्दोषशमनाय च ॥
पितल्याः पञ्चम्प्रस्थेन घटं कृत्वा मनोहरं ।
प्रस्थत्रयं घृतं नीत्वा कर्षस्वर्णस्तु प्रक्षिपेत् ॥
समन्ताच्चन्दनेनैव लेपयेच्छुष्कमाचरेत् ।तत्रैव लेखयेन्मन्त्रं सितवस्त्रेण छादयेत् ॥
मन्त्रः — वरुणाय नमस्तुभ्यं देवाय वरदायिने ।
रुद्रवासरजां पीडां निवारय कलाधरं ।
॥ इतिम ०॥
उत्तराभिमुखो भूत्वा दानं दद्याद्द्विजातये ।
नैरोग्यतां व्रजेद्रोगी परमायुः सजीवति ॥
इति शतभिषादानशान्तिः ॥
मार्कण्डेये — पूर्वाभाद्रपदे रोगो जायते जीवघाततः ।
मृत्युरोगसमाख्यातस्तद्दोषशमनाय च ॥
लोहपात्रं समानीय नवप्रस्थप्रमाणतः ।
सप्तप्रस्थतिलं नीत्वा श्यामवर्णं शवोपमं ॥
कृष्णवर्णामजां नीत्वा सितवस्त्रेण छादयेत् ।
ग्राह्य प्रस्थद्वयं तैलं तस्मिन् दृष्ट्वा मुखं सुभम् ॥
तत्रैव सप्तभिर्मन्त्रं पठित्वा माषमुतेक्षिपेत् ।
उत्तराभिमुखो भूत्वा दानं दद्याद्द्विजातये ॥
मन्त्रः — अजपाद नमस्तुभ्यं मृत्युवाधाव्यपोहक ।
मृत्युयोगभवां बाधां निवारय प्रसीद मे ॥ इतिम ०॥
मृत्युयोगभवाद्रोगान्मुच्यते नात्र संशयः ।
इतिपूर्वाभाद्रपदशान्तिदानं ॥
वायुपुराणे — रोगःस्यादुत्तराभाद्रे देवदोषसमुद्भवः ।
सप्तवासरजा पीडा तद्दोषशमनाय च ॥
नीत्वा कर्षसुवर्णं तु ताम्रपात्रं च प्रस्थकं ।
चणकद्विदलं प्रस्थं पीतवस्त्रेण वेष्टितं ॥
रुक्ममुद्राद्वय न्यस्य पश्चिमाभिमुखो भवन् ।
पीतवस्त्रे लिखेन्मन्त्रं सप्तभिःप्रणतिञ्चरेत् ॥
मन्त्रः — अहिर्बुध्न्य नमस्तुभ्यं रुद्रदेव नमोस्तु ते ।
सप्तवासरजां पीडां निवारय प्रसीद मे ॥
ब्राह्मणाय ददौ दानं रोगीनिर्मुक्ततां ब्रजेत् ॥ इति उत्तराभाद्रपदशान्तिदानं ।
ब्रह्मयामले — रेवत्यां जायते रोगो पर्वदोषसमुद्भवः ।
षष्ठिवासरजा पीडा तद्दोषशमनाय च ॥
रक्तवर्णमयीं धेनुं पीतवस्त्रेण छादितां ।
कांस्यपात्रं शुभं कार्य पञ्चप्रस्थप्रमाणकं ॥
कर्षमात्रसुवर्णस्य पूषणोर्मूर्त्तिमाचरेत् ।
पात्रस्य च समन्ताच्च चन्दनेन लिखेद्बुधः ॥
मन्त्रः — पूषणे रेवतीशाय देवदेवाय ते नमः ।
षष्टिवासरजां पीडां शीघ्रमेव निवारय ॥ इति मन्त्रः ॥
उत्तराभिमुखो भूत्वा दद्यादानं द्विजातये ।
रोगनिर्मुक्ततां याति परमायुः सजीवति ॥
नक्षत्रसप्तविंशत्या रोगेषु शान्तिमाचरेत् ।
दानं दध्याद्विधानेन रोगनिर्मुक्ततां ययौ ॥
ऋक्षेषु वर्तमानेषु नित्यदानं चकारह ।
कदा रोगं न पश्येत निरोगी सर्वदा भवेत् ॥
आयुरारोग्यतां याति कुटुम्बसौख्यमाप्नुयात्।
इति सप्तविंशत्याश्विन्यादिनक्षत्ररोगसम्भवेषु सप्तविंशतिनक्षत्रशान्तिदानविधिः ।
इति श्रीमद्भास्करात्मज श्रीनारायणभट्ट गोस्वामीविरचिते पञ्चमगोप्यग्रन्थे
व्रजभक्तिविलासे परमहंससंहितोदाहरणे पञ्चमोऽध्यायः ॥५॥
—ओ)०(ओ—
(६)
॥षष्ठो अध्यायः ॥
व्रजस्य शुभमर्यादा कृष्णलीलाविनिर्मिता ।
यादवनां च गोपानां रम्यभूमिमनोहरा ॥
रत्नगर्भा पयपूर्णं मणिकाञ्चनभूषिता ।
मधुरामण्डलमध्ये प्रमाणकृतशोभिता ॥
चतुरशीति क्रोशाढयां चतुर्दिक्षु विराजिता ।
मथुरामण्डलात्क्रोशमेकविंशतिकं भजेत् ॥
चतुर्दिक्षु प्रमाणेन पूर्वादिक्रमतोगणत् ।
पूर्वभागे स्थितं कोणं वनं हास्याभिधानकं ॥
भागे च दक्षिणे कोणं शुभं जह्नुवनं स्थित ।
भागे च पश्चिमे कोणे पर्वताख्यवनं स्थितं ॥
भागे ह्युत्तरकोणस्थं सूर्यपतनसञ्ज्ञकं ।
इत्येता व्रजमर्यादा चतुष्कोणाभिधायिनी ॥
चतुरस्त्रम व्रजं व्रूयुर्देवतास्तं शिवादयः ।
मण्डलाकारमीक्षन्ति मुनयो नारदादयः ॥
शृङ्गाराकारकं व्रूयुः ऋषयः सनकादयः ।
नैरञ्तय्यमुस्यान्ते देवर्षिमुनयस्तथा ॥
इति व्रजमण्डलमर्यादा ब्रह्माण्डे भूमिखण्डे ॥१॥
तत्रादौ यमुनादक्षिणतटस्थकाम्यवनोत्पत्तिनिरूपणं
आदिवाराहे — यत्रैव देवतानां च कामनासिद्धितां ब्रजेत् ।
ऋषीणां च मुनीनां च मनुजानां तपम्विनां ॥
कामनासिद्धितामेति यतो काम्यवनं भवेत् ।
भाद्रमासि सितेपक्षे प्रतिपद्दिनसम्भवे ॥
पूर्वाफाल्गुणि संयुक्ते भृगुवारसमन्विते ।
वन-यात्राप्रसङ्गाय प्रापुः काम्यवनं शुभं ॥
सर्वार्थकामसिद्ध्यर्थे देवाङ्गमनुजादयः ।
अथ काम्यवनप्रार्थनमन्त्रः —
नमस्ते भगवद्रूप कामनासिद्धिदायिने ।
वन-यात्राप्रसङ्गेन प्रसीद परमेश्वर ।
॥
इति मन्त्रं समुच्चार्य ह्यष्टषष्टिशतोत्तरैः ।
नमस्कारान्करोद्धीमान् रात्रौ वासं चकारह ॥
प्रवासनिषेधः पाद्मे —
नैव प्रतिपदारात्रौ प्रवासं यत्र कारयेत् ।
तस्यैव वन-यात्रायाः पारिपूर्णप्रदक्षिणा ॥
नैव साङ्गं समायाति न फलत्वं प्रजायते ।
प्रवासान् मानसी सिद्धिर् जायते नात्र संशयः ॥२॥
भाद्रशुक्लद्वितीयायामुत्तराशनिसंयुते ।
प्रभातसमये धीमान् सिंहलग्नोदये यदा ॥
विमलस्नानमाचक्रुर्देवता मनुजादयः ।
विमलाख्यं महाकुण्डं शुभं काम्यवनेऽभवत् ॥
ततो विमलकुण्डस्नानाचमनप्रार्थनमन्त्रः ।
बृहद्गौतमीये —
वैमल्यरूपिणे तुभ्यं नमस्ते जलशायिने ।
केशवाय नमस्तुभ्यं तीर्थराज नमोऽस्तु ते ॥
इति मन्त्रमुदाहृत्य सप्तभिर्मज्जनाचमैः ।
विमलाङ्गो भवेन्लोको देवयोनिसमो नरः ॥
गोपिकाः स्नानमाचक्रुः पूर्णकामाभिलाषिण्यः ।
यतस्तु गोपिकाकुण्डं सञ्जातं पृथिवीतले ॥
सुवर्णसोपानपरमरायुतं पयः पूर्णं ।
रमणीभिर्सुशोभितं सरोरुहाकीर्णं वरं ॥
मनोहराङ्गं समस्तका मर्थदं शुभप्रदं ॥३॥
ततौ गोपिकाकुण्डस्नानाचमनप्रार्थनमन्त्रः ।
नारदीये —
नमस्ते गोपिकानाथ नमः सर्वार्थदायिने ।
नमः कृतार्थरूपाय गोपिकासरसे नमः ॥
नमस्कारं चकारात्र स्वर्णदानं समाचरेत् ।
धनधान्यसुखादींश्च लभतेऽस्य प्रभावतः ॥४॥
यत्र शक्रादयो देवाः श्राद्धं चक्रुर्गयासमं ।
तेषाञ्व पितरोऽत्रैव हस्तं पिण्डं समाददुः ॥
गयाकुन्दाभिधानेदं विख्यातं वनभूमिषु ।
दुग्धेन परिपूर्णस्तु पितृदेवादिसङ्कुलं ॥
ततो गयाकुण्डस्नानाचमनप्रार्थनमन्त्रः ।
भविष्ये —
तारणे दिव्यतोयाढ्य देवदेवाङ्गसम्भव ।
नमस्ते तीर्थराजाय फल्गुतीर्थसमाह्वय ।
॥
इति मन्त्रं समुच्चार्य नवभिर्मज्जनाचमैः ।
नमस्कारं विधास्येत परं मोक्षपदं लभेत् ॥
गयाकुण्डे कृतं श्राद्धं निःप्रेतत्वमवाप्नुयात् ॥५॥
धर्मं यत्राकरोद्राजा धर्मपुत्रो युधिष्ठिरः ।
धर्मकुण्डं समाख्यातं शुभे काम्यवनेभवत् ॥
धर्मोह्यक्षयतां याति सहस्रगुणितं फलम् ।
ततो धर्मकुण्डस्नानाचमनप्रार्थनमन्त्रः ।
विश्णुधर्मोत्तरे —
धर्माय धर्मरूपाय निर्मले सत्यरूपिणे ।
नमस्ते परमोक्षाय पुण्यतीर्थ नमोस्तु ते ॥
इति पञ्चदशावृत्या मन्त्रमुच्चार्य स्नापयेत् ॥६॥
तीर्थानां च सहस्राणामागमोयत्र सम्भवः ।
यतस्तीर्थ सरोरम्यं सहस्राख्यं मनोहरं ॥
ततो सहस्रसरः तीर्थस्नानाचमनप्रार्थनमन्त्रः ।
ब्रह्माण्डे —
सहस्रगुणपुण्याय पावनाय महात्मने ।
नमो सहस्रतीर्थाय नैर्मल्यवररूपिणे ॥
इत्येकादशभिर्मन्त्रं मज्जनाचमनैर्नमन् ।
कृतार्थफलतां याति नरो मोक्षफलं लभेत्॥७॥
ततो धर्मराजसिंहासनावलोकनप्रार्थनमन्त्रः ।
आग्नेये —
धर्मराज नमस्तुभ्यं धर्मसिंहानाय च ।
नमः कैवल्यनाथाय सत्यरूप नमोस्तु ते ॥
इति मन्त्रं शतावृत्या नमस्कारं शतं चरेत् ।
शतधाकृतपापानि क्षीयन्ते यत्र दर्शनात् ॥८॥
मात्स्ये — राजा युधिष्ठिरो यत्र पञ्चयज्ञं चकारह ।
यज्ञकुण्डो स्थितो यत्र पञ्चयज्ञफलप्रदः ॥
ततो यज्ञकुण्डप्रदक्षिणाप्रार्थनमन्त्रः —
पाण्डवसुकृतार्थाय पञ्चयज्ञाभिधायिने ।
नमो ब्रह्मणयदेवाय यज्ञकुण्ड नमोस्तु ते ॥
इत्यष्टभिः समुच्चार्य प्रणमंश्चप्रदक्षिणां ।
कृतार्थफलतां याति प्रदक्षिणप्रभावतः ॥९॥
महाभारते — यज्ञान्ते पाञ्डवाः श्रेष्ठाः स्नानं चक्रुर्विधानतः ।
युधिष्ठिरादिपञ्चानां पञ्चतीर्थसरांसि च ॥
ततां पञ्चसरस्नानाचमनप्रार्थनमन्त्रः —
धर्मरूप नमस्तुभ्यं वायुपुत्र नमोस्तु ते ।
शक्रात्मज नमस्तुभ्यम् अश्विन्यास्तनयौ नमः ॥
इति मन्त्रं समुच्चार्य पञ्चभिर्मज्जनाचमैः ।
कृतार्थफलमाप्नोति मानवाः विष्णुरूपिण ॥१०॥
यत्रैव मुक्तिमाप्नोति नन्दगोपादयो मताः ।
कुण्ड मोक्षाभिधं जातं कामसेनिविनिर्मितं ॥
ततो परमोक्षकुण्डस्नानाचमनप्रार्थनमन्त्रः ।
शौनकीये —
मोक्षाय मुक्तिरूपाय मुक्तितीर्था नमोस्तु ते ।
नमः कैवल्यनाथाय सर्वदा मोक्षदायिने ।
इति मन्त्रं दशावृत्या मज्जनाचमनै र्नमन् ।
परं मोक्षपदं लेभे धनधान्यादिभियुतः ॥११॥
ततो मणिकर्णिकाकुण्डस्नानाचमनप्रार्थनमन्त्रः ।
वामनपुराणे —
नमस्त्रिभुवनेशाय व्यापिने परमात्मने ।
तीर्थराज नमस्तुभ्यं मणिकर्णि नमोस्तु ते ॥
इतिमन्त्रं त्रिभिरुक्त्वा मज्जनाचमनै र्नमन् ।
सर्व-विद्याभिसम्पन्नो लक्ष्मीवान् अपि जायते ॥१२॥
सर्वे देवाः निवासं च यत्र चक्रुर्मनोरथैः ।
यतो निवासकुण्डाख्यं शुभे काम्यवनेऽभवत् ॥
ततो निवासकुण्डस्नानाचमनप्रार्थनमन्त्रः —
निवरनाख्यं महातीर्थे सर्वदा सुखदायिने ।
नमस्ते कल्मषघ्नाय वासुदेवकृताय च ॥
षड्भिर्मन्त्रं समुच्वार्य मज्जनाचमनै र्नमन् ।
सर्वदा सौख्यमाप्नोति धनधान्यादिभिर्युतः ॥
नित्यमेव करोत्स्ननं यशोदा कामसेनिजा ।
यशोदाकुण्डमाख्यातं त्रिकोणाकारनिर्मितं ॥
ततो यशोदाकुण्डस्नानाचमनप्रार्थनमन्त्र —
कामसेनिसुते तुभ्यं नमामि विमलात्मके ।
तीर्थ रूपे नमस्तुभ्यं सर्वदा पुत्रवत्सले ॥
इति मन्त्रं समुच्चार्य सप्तभिर्मज्जनाचमैः ।
बहुभिः परिवारैस्तु सर्वदासौख्यमाप्नुयात्॥१४॥
ततो देवकीकुण्डस्नानाचमनप्रार्थनमन्त्रः ।
गौडनिवन्धे —
कृतार्थरूपिणे तुभ्यं तीर्थ राज नमोस्तु ते ।
तपस्वि मुनिवेष्टाय देवकीस्नान सञ्ज्ञिके ॥
दशभिरुच्चरेन्मन्त्रं मज्जनाचमनैर्नमन् ॥१५॥
ततो मनोकामनाकुण्डस्नानाचमनप्रार्थनमन्त्रः ।
धौम्यसंहितायं —
मनोर्थद नमस्तुभ्यं कामनावरदायिने ।
तीर्थराज नमस्तुभ्यं सकलेष्टवरप्रद ॥
नवभिरुच्चरेन्मन्त्रं मज्जनाचमनैर्नमन् ।
मनसाचिन्तते कामान् प्राप्नुयान्नात्र संशयः ॥१६॥
ततो समुद्रसेतुबञ्धकुण्डस्नानाचमनप्रार्थनमन्त्रः —
देवानां सिद्धिरूपाय सेतुबन्ध नमोस्तु ते ।
नमस्ते सकलेष्टाय तीर्थराज नमोस्तु ते ॥
इति मन्त्रं समुचार्य द्वादशैर्मज्जनाचमैः ।
सर्व-वाधाविनिर्मुक्त्वो सर्वदाविजयी भवेत् ॥१७॥
ततो ध्यानकुण्डस्नानाचमनप्रार्थनमन्त्रः ।
ध्रुवसंहितायां —
चतुर्भुज नमस्तुभ्यं वैष्णवे दिव्यरूपिणे ।
तीर्थराज नमस्तुभ्यं दिव्यदृष्ट्याभिधायिने ॥
इतिमन्त्रं चतुर्भिस्तु मज्जनाचमनैर्नमन् ।
दिव्यदृष्टिं समालभ्य वैष्णवं पदमीक्षते ॥१८ ॥
ततस्तप्तकुण्डस्नानाचमनप्रार्थनमन्त्रः —
सर्वतापविनाशाय मनस्तापनिवारक ।
समस्तकल्मषघ्नाय तप्तकुण्ड नमोस्तु ते ॥
इति मन्त्रं त्रिधावृत्या मज्जनाचमनैर्नमन् ।
मनसस्तापनिः शान्तिमाप्नुयान्नात्र संशायः ॥१९॥
ततो जलविहारकुण्डस्नानाचमनप्रार्थनमन्त्रः ।
ब्रह्मयामले —
शक्रप्सरविहाराय तीर्थराज नमोस्तु ते ।
कल्लोलविमलाङ्गाय सर्वदेष्टवरप्रद ॥
इति मन्त्रं दशावृत्या मज्जनाचमनैर्नमन् ।
वैहारसुखसम्पत्तिमाप्नुयात्मानवः सदा ॥२०॥
ततो जलक्रीडाकुण्डस्नानाचमनप्रार्थनमन्त्रः —
जलक्रीडाविहाराय वैमल्यजलसम्भव ।
गोपालकृतवेषाय कृष्णाय सततं नमः ॥
इति मन्त्रमुदाहृत्य सप्तभिर्मज्जनाचमैः ।
लभेच्छीतलतां लोको नेत्रसौख्यमनोरथैः ॥२१॥
ततो रङ्गीलकुण्डस्नानाचमनप्रार्थनमन्त्रः —
नानावर्णसुभाङ्गाय पीतरक्तजलात्मक ।
सदानन्दस्वरूपाय दिव्यकान्ते नमोस्तु ते ॥
एकोनविंशदावृत्या मज्जनाचमनै र्नमन् ।
नानावर्णौस्तु वस्त्रैस्तु भूषितो सौख्यमाप्नुयात्॥२२॥
ततो छवीलाख्यकुण्डस्नानाचमनप्रार्थनमन्त्रः ।
कौर्म्ये —
नमः कान्तिमते तुभ्यं छवीलाख्यसरोवरे ।
तीर्थनैर्मल्यतोयाढये वेषनैर्मल्यदायके ॥
इति मन्त्रं समुच्चार्य पञ्चभिर्मज्जनाचमैः ।
आतिरूपवतीं कान्तिं लभते नात्र संशयः ॥२३॥
ततो जकीलकुण्डस्नानाचमनप्रार्थनमन्त्रः ।
माधवीये —
जकीलाख्यमहातीर्थ परमोत्साहदायक ।
नमस्ते जडतां देव दुर्बुद्धिं विनिवारय ॥
इति मन्त्र त्रिधावृत्या मज्जनाचमनैर्नमन् ।
नश्येज्जकीलतां तस्य सौन्दर्यपदवीं लभेत् ॥२४॥
ततो मतीलकुण्डस्नानाचमनप्रार्थनमन्त्रः ।
गौरीरहस्ये —
नमो मतीलतीर्थाय नानावैचित्रबुद्धिद ।
शुभेष्ट वरदो देव तीर्थराज नमोस्तु ते ॥
इति मन्त्रं समुचार्य सप्तभिर्मज्जनाचमैः ।
धनधान्यसमायुक्तो सदा धर्मरतो भवेत्॥२५॥
ततो दतीलकुण्डस्नानाचमनप्रार्थनमन्त्रः —
मन्दहास्य महातीर्थ सर्वसौख्यप्रदायक ।
दुर्बुद्धिकलहच्छेद तीर्थराज नमोस्तु ते ॥
इति द्वादशभिर्मन्त्रमुच्वारन्मज्जनाचमैः ।
सर्वदानन्दरूपेण रमते पृथीवितले ॥२६॥
ततो घोषराणीकुण्डस्नानाचमनप्रार्थनमन्त्रः ।
नारदीये —
सुघोषण महाप्राज्ञ तीर्थराज नमोस्तु ते ।
कटुवाक्यविनाशाय दिव्यघोष नमस्तु ते ॥
इति मन्त्रं समुच्चार्य षड्भिराचम्यप्रार्थनैः ।
दुर्वचो सुवचो जातः सुशीलो जायते नरः ॥२७॥
ततो विह्वलकुण्डस्नानाचमनप्रार्थानमन्त्रः ।
गौतमीये —
नमो गोपालगोपेभ्यो विह्वलेभ्यो स्वरूपिणः ।
भगवत्प्रेमपूर्णेभ्यो सर्वदावरदायिनः ॥
इति मन्त्रं समुच्चार्य नवभिर्मज्जनाचमैः ।
हरिदर्शनमाप्नोति तीर्थरजप्रभावतः ॥२८ ॥
ततो स्यामकुण्डस्नानाचमनप्रार्थनमन्त्रः ।
ब्रह्मवैवर्ते —
सगोपालाय कृष्णाय यशोदानन्दनाय च ।
नमस्ते कमलाकान्त गोपिकारमणाय च ॥
इति मन्त्रं समुचार्य दशधामज्जनाचमैः ।
प्रणमेद्भ्रूणहत्यादिपापेत्भ्यो मुच्यते नरः ॥
स्यामकुण्डापमानेन भ्रूणहत्यादिकं फलं ।
लभते निष्फला यात्रा भ्रमते व्यर्थभूतले ॥२९॥
भ्रूण प्रमाणं धर्मप्रदीपे —
एक मासं चतुर्थांश द्विमासं ह्यृद्ध सञ्ज्ञकं ।
त्रिभिर्मासैस्त्रयोभागं तुर्यमासैः प्रपूरणं ॥
एतद्भ्रूणमितिख्यातं तदूर्ध्वङ्गर्भसञ्ज्ञकं ।
व्यभिचारसमुद्भूतं नरनारी निवर्तयेत् ॥
नैवमुक्तो ऽपराधात्तु प्रायश्चित्तं विनाधमः ।
गुप्तहत्या न मुञ्चति विना पञ्चाद्रत्तेन च ॥
वर्षत्रयं च तुर्याशे षड्वर्षैस्तु ततोऽर्ध के ।
नववर्ष त्रियादाढ्ये द्वादशे परिपूर्णके ॥
गृहं ग्रामं न पश्यन्ति तीर्थषट्कं समाचरेत् ।
गङ्गा गोदावरी वेत्रा सिन्धुश्चैव तु नर्मदा ॥
गोमतीषु च षट्केषु षड्भिर्मासैः प्रवासयेत् ।
मन्त्रं तुर्याशभ्रूणस्यापराधस्य विमुक्तयं ॥
चतुर्थांशभ्रूणप्रायश्चित्तमन्त्रः ।
विश्णुस्मृतौ —
ओं ह्रीं केशवाय नमस्तुभ्यं सर्वकल्मषमोक्षणे ।
भ्रूण तुर्यापराधं मे निवारय प्रसीद मे ॥
अस्य मन्त्रस्य देवल ऋषिःकेशवो देवतापङ्क्ति छन्दः मम चतुर्थभ्रूणापराधशान्त्यर्थे जपे विनियोगः देवल ऋषये
सिरसे स्वाहा मुखे पङ्क्ती छन्दसे नमः हृदये केशवाय देवतायै नमः ।
अथध्यानं — भ्रूणदोषहरं देवं पीताम्बरधरं हरिम् ।
कृपामयं कलाकान्त केशवं चिन्तयाम्यहम् ॥
इतिध्यात्वा — द्विसहस्रजपं कृत्वा केशवाय समर्पयेत् ।
उत्तराभिमुखो भूत्वा जपेन्मन्त्रं समासतः ॥
ह्रीमितवीजाक्षरमन्त्रेण षडङ्गन्यासं —
द्विसहस्रमिदं मन्त्रं प्रतिवासरमाचरेत् ।
एकस्मिन्तीर्थराजेऽस्मिन् षण्मासां च व्यतीयतं ॥
ततस्तु सप्तमे मासि गङ्गां हित्वा नदीं ययौ ।
गोदावरीमुपाश्रित्य मन्त्रमेन समाचरेत् ॥
मातुः शतगुणं पापं पितुस्तद्द्विगुणं भवेत् ।
तद्दशांशं भवेत्पापं वचनाद्भ्रंशकस्य च त ॥
एवं तीर्थं करोत् षट्कं त्रिवर्षं च व्यपीयते ।
भ्रूणहा गोमतीं लब्धा गुप्तदानं समाचरेत् ॥
भ्रूणापराधशान्ताय गुप्तदानविधीरिता ।
प्रस्थत्रयं सुवर्णस्य कुष्माण्ड तु चकार ह ॥
तन्मध्ये पञ्चरत्नानि रक्तवस्त्रेण छादयेत् ।
दत्त्वा विप्राय यत्नेन चौरभावं समाचरेत् ॥
अन्तर्ध्यानगतमार्गं भ्रूणहत्या विमुच्यति ।
प्रायश्चित्तं न कुर्वीत पुत्रशोकधनक्षयः ॥
शरीरविघ्नतां याति दुःखरोगदरिद्रता ।
लोकानां श्रवणात्पापं तुर्यांश च विलीयते ॥
लोकेभ्यस्तु समाछाद्य समूलं च विनाशयेत् ।
विप्रो नैवाभिजानाति गुप्तदानं कृतं यदा ॥
दानं कदाचिज्जानाति तद्दानं निष्फलं भवेत् ।
प्रतीपं दोषमाप्नोति पुनस्तीर्थान्समाचरेत् ॥
तदा साङ्गं भवेद्यात्रा भ्रूणहत्या व्यपोहति ।
तदा ग्रामं गृहं वापि धनधान्यादिभिः सुखं ॥
एकग्रामे पुरेवापि ह्येकावासे गृहेऽपि वा ।
दशांशं लभते पापं दर्शनाद्वचनादपि ॥
स्पर्शनाच्चैव तुर्यांशं लभते पापसम्भवं ।
प्रभातसमये तस्य भ्रूणघ्नो मुखमीक्षते ॥
तद्दिनं वर्धितं पापं तद्दशांशं लभेन्नरः ।
मृगचर्न्मोपरि स्थित्वा चतुर्मन्त्रान्जपेत्सुधिः ॥
चतुः प्राकारकं भ्रूणं चतुः प्राकारका विधिः ।
चतुर्गुणं कृतं दानं चतुर्गुण्यं च तीर्थकं ॥
चतुर्गुणं जपेन्मन्त्रं भ्रूणहत्या व्यपोहति ।
द्विगुणं द्वितीये भ्रूणे त्रिगुणे च तृतीयके ॥
चतुर्गुणं चतुर्थेऽस्मिन्भ्रूणमेतदुदाहृतम् ॥
धर्मकल्पद्रुमे — हविष्यान्न सम्भुञ्जीयाच्चान्द्रायणव्रतं चरेत् ।
ब्रह्मचर्यसमायुक्तो प्रायश्चित्तमुदाहृतम् ॥
दानं प्राकटयहीनेन गुप्तं पापापहारकं ।
एवं चतुः प्रकारेण गर्भहस्या ह्युदाहृता ॥
मासपञ्चममारम्य दशमाससमुद्भवं ।
सार्धपञ्चममासेन गर्भभागं चतुष्टयं ॥
षड्भिर्मासचतुर्भागैर्गर्भभागं चतुर्विधं ।
भ्रूणे दानमितिख्यातं गर्भे तद्द्विगुणं स्मृतं ॥
प्रायश्चित्तं विधानेन गर्भहत्या व्यपोहति ॥
अथार्ध भ्रूणप्रायश्चित्तमन्त्रः सन्ंओहनतन्त्रे —
ओं ग्लौं नमो नागयणायैव भ्रूणार्धकल्मषापह ।
नमस्ते कमलाकान्त मम हत्यां व्यापोहतु ॥
इति नारायणमन्त्रमर्धाभ्रूणाघशान्तये ।
षट्षु तीर्थेषु कर्त्तव्यमीशानाभिमुखो भवन् ॥
अस्य नारायणमन्त्रस्य शम्भु ऋषि र्नारायणो देवता गायत्री छन्दः ममार्धभ्रूणघ्नपापपरिहारार्थे
गङ्गातीर्थे द्विसहस्रमिदं जपमहं करिष्यो इति सङ्कल्प्य शिरसि शम्भु ऋषये नमः मुखे गायत्री छन्दसे नमः
हृद्ये नारायणाय देवतायै नमः इति न्यासः ग्लौमित्येकवीजाक्षरमन्त्रेण षडङ्गन्यासं कुर्यान् ॥ अथध्यानं —-
कलामयं कान्तवपुर्दधानं नारायणं शङ्खगदाधरं हरिं ।
भ्रूणाघ्नदोषाय विमुक्तिहेतु सर्वार्थकामःपरिचिन्तयामि ॥
इति नारायणस्वरूपं ध्यात्वा —
इत्यर्ध भ्रूणदोषस्य शान्तये च कृतं जपं ।
नारायणाय निक्षिप्तं गुह्यमन्त्रं प्रकाशितं ॥
इत्यर्धं भ्रूणापराधप्रायश्चित्तमन्त्रः —
अथ त्रिभागभ्रूणापराधप्रायश्चित्ताय माधवमन्त्रः ।
बृहत्पाराशरे —
ओं ग्रीं नमस्ते माधवायैव मधुदैत्यविमुक्तिद ।
भ्रूणत्रिमासपापौघशान्तये कमलापते ॥
इति माधवमन्त्रं तु पादोनभ्रूणशान्तये ॥
अस्य मन्त्रस्य कुशसृषिर्माधवो देवता अष्टी छन्दः मम त्रिभागभ्रूणापराधशान्त्यर्थे माधवमन्त्र
जपे विनियोगः शिरसि कुशसृषये नम मुखे माधवाय देवतायै नम हृदये अष्टी छन्दसे नमः न्यासः ।
अथध्यानं — वन्दे माधवमीश्वरं गुणनिधिं भ्रूणघपापापहं ।
श्रीवत्साङ्कमुदारकौस्तुभधरं पीताम्बरालङ्कृतं ॥
सर्वापद्विनिवारणशुभप्रदं कामाग्निसन्दीपनं ।
नानादोषविनाशनं करतले चक्रादिभिः शोभितम् ॥
इति माधवस्वरूपं ध्यात्वा
द्विसहस्रमिदं जप्त्वा भ्रूणहत्याविमुक्तये ।
दक्षिणाभिमुखो भूत्वा माधवाय समर्पयेत् ।
इतित्रिभागभ्रूणापराधशान्तये माधवमन्त्रः ॥
अथ चतुर्थपरिपूर्णभ्रूणापराधनिवृत्यर्थ हृषीकेशमन्त्रः ।
कश्यपसंहितायां —
ओं ग्लईं नमस्ते तु हृषीकेश नमस्ते जलशायिने ।
पूर्णभ्रूणापराघ्नेन परिपूर्णकलाधरं ॥
अस्य मन्त्रस्य ब्रह्मर्षिः हृषीकेशो देवताऽनुष्टुप्छन्दः मम परिपूर्णभ्रूणापराधविमुक्त्यर्थं हृषीकेशमन्त्रं
जपे विनियोगः शिरस ब्रह्मर्षये नामः मुखेऽनुष्टुप् छन्दसे नम हृदये हृषीकेशदेवतायै नमः ।
ग्लैमित्येक
वीजाक्षरमन्त्रेण षडङ्गन्यासं कुर्यात् ।
अथ ध्यानं —
वन्दे हृषीकेशमनर्घ्यमूर्त्तिं कलासमग्रैः परिपूर्णदेहं ।
रामानुजं दिव्यमनोहराङ्गं भ्रूणापराधाघप्रशान्तकारकम् ॥
इति ध्यात्वा — द्विसहस्रमिदं जप्त्वा पश्चिमाभिमुखो विशन् ।
पूर्णभ्रूणापराधं मे हृषीकेश निवारय ॥
इति परिपूर्णभ्रूणापराधानिवृत्यर्थ हृषीकेशमन्त्रः ॥
अथ चतुष्प्रकारभ्रूणापराधचतुर्मन्त्राणां चतुरः शापमोचनानाह ।
हयग्रीवपञ्चरात्रे —
ओं अस्य श्रीचतुर्थां शभ्रूणापराधमुक्तकेशवमन्त्रशापमोचनस्य विश्वामित्र ऋषिस्त्रिपुरभैरवीदेवता
बृहतीछन्दः मम चतुर्थ भ्रूणापराधमुक्तकेशवमन्त्रशापप्रमोचने जपे विनियोगः ।
षड्भिस्तायाञ्जलीः नीत्वा ह्याग्नेय्यां दिशि निःक्षिपेत् ।
तदा चतुर्थभ्रूणस्यापराधान्मोक्षयेत् नरः ॥
इति पौलस्त्यऋषिशापमुक्ताभवः इति चतुर्थ भ्रूणप्रायश्चित्तशापमोचनः ॥
ततोऽर्ध भ्रूणापराधमुक्तनारायणमन्त्रशापमोचनः ।
नारदपञ्चरात्रे —
ओं अस्य श्रीअर्ध भ्रूणापराधमुक्तनारायणमन्त्रस्य कौन्डिन्यऋषिशापप्रमोचनस्य नारद ऋषिः
कौमारी देवता अष्टी छन्दः मम कौडिन्यशापमुक्तो भवः इत्यर्ध भ्रूणाप्रायश्चित्तमन्त्रशापमोचनद्वितीयः ।
अथ पादोनभ्रूणापराधप्रायश्चित्तमन्त्रस्य पराशरर्षिशापस्तस्य तृतीयो शापमोचनः ।
बृहद्गौतमीये —
ओं अस्य श्रीपराशरर्षि शापप्रमोचनस्य शान्डिल्यर्षि शाङ्करी देवता भूछन्दः मम माधवमन्त्रपराशर
र्षिशापप्रमोचने ज० त्रिरावृत्ति जलं नीत्वा दक्षिणस्यां दिशि क्षिपेत् ।
पराशार्षिशापा तु मन्त्रमुक्तो भवेद्यदि ।
इतिपादोनभ्रूणापराधप्रायाश्चित्तमन्त्रे पराशरर्षि तृतीयो शापमोचनः ॥
अथ पूर्णभ्रूणापराधप्रायश्चित्तमन्त्रस्य लोहितर्षिशापस्तस्य मोचनप्रयोगः ।
अगस्त्यसंहितायां —
अस्य श्री लोहितर्षिशापप्रमोचनस्य गौतमऋषिः श्रीदेवी देवता बृहतीछन्दः मम लोहितर्षिशापप्रमो० ज० वि०
दशाञ्जलीः समादाय कोणवायव्यतो क्षिपेत् ।
पूर्ण भ्रूणापराधस्य प्रायश्चित्तसमन्वितः ।
मन्त्रस्तु साङ्गतां याति शापमुक्तो यदा भवन् ॥
पाद्मे — भ्रूणे भ्रंस्येत्त्वयं तर्हि माता तं नैव पश्यती ।
गृहशुद्धं प्रकुर्वान्ति प्रायाश्चित्तं दिनत्रयं ॥
अनेनैवं विधानेन चान्द्रायणव्रतं चरेत् ।
पिता भ्रूणं न पश्येत तदा भ्रूणो न जायते ॥
मातृपित्रोः समक्ष तु भ्रूणपातो ददर्शतु ।
असाववतरद्भ्रूणा षमासाभ्यन्तरे तदा ॥
मातृपित्रोः सदा दुःखं कुरुतेऽब्द न लङ्घयेत् ।
मृते गर्भे भवेद्गर्भे त्रिमासाभ्यन्तरे गते ॥
मातृगर्भं स्पृशेन्माता पिता वा मोहसम्युतः ।
तदाऽसौ मृतगर्भस्तु पुनरेव प्रजायते ॥
पुत्रो वा कन्यका वापि तदैव द्वौ प्रजायते ।
पुत्राच्छतगुणं पापं कन्यायां परिकीर्त्तितं ॥
रतिकर्मकृताद्गर्भो मृतो पतनमाचरेत् ।
तस्यैव महती हत्या कदाचिन्नैव मुञ्चति ॥
प्रायश्चित्तं विधानेन कुर्यान्मुक्तो भवेद्यदि ॥
अथ चतुष्प्रकार चतुर्णां गर्भाणां चत्वारप्रायश्चित्तमन्त्राः ।
रुद्रयामले —
तत्रादौ चतुर्थगर्भ प्रायश्चित्तत्रिविक्रममन्त्रः —
ओं व्रीं त्रिविक्रम नमस्तुभ्यं तुर्यगर्भापराधह ।
निवारय कृतं पापं श्रीवत्साङ्क नमोऽस्तु ते ॥
ध्वति त्रिविक्रममन्त्रः ।
अस्य मत्सस्य माण्डूक ऋषिस्त्रिविक्रमो देवता जगती छन्दः मम तुर्य
गर्भापराधशान्तये त्रिविक्रममन्त्रजपे विनियोगः ।
शिरसि माण्डकाय ऋषये नमः मुखे जगती छन्दसे नमः
हृदये त्रिविक्रमाय देवतायै नमः ।
इतिन्यासः ।
अथध्यानं —
त्रिविक्रमं कलाकान्तं संसारार्णवतारकं ।
चिन्तयामि जगन्नाथं जगदानन्ददायकं ॥
इति ध्यात्वा — इशानाभिमुखो भूत्वा द्विसहस्रमिदं जपेत् ।
त्रिविक्रमाय देवायं ह्यर्यथेत्सविधानतं ॥
नक्षत्रदर्शनं कृत्वा तदुलान्नं च भक्षयेत् ।
मृतस्पर्शे कृते तर्हि कौलके वान्यकौलके ॥
नक्षत्रदर्शनं कृत्वा शुद्धतामाचरेन्नरः ॥
इतिचतुर्थ गभाप्रायश्चित्तत्रिविक्रममन्त्रः ॥
अथ शौनकर्षिशापान्वितोऽयं मन्त्रः ।
बृहन्नारदीये —
ओं अस्य श्रीशौनकर्षिशापप्रमोचनमन्त्रस्य बृहदारण्यकर्षिभारवो देवता पङ्क्ति छन्दः मम शानकैर्षशाप
प्रमोचने जपे विनियोगः इति शौनकर्षि शापमुक्ताभवः चतुर्भिरुच्चरेन्मन्त्रं दक्षिणस्यां जलं क्षिपेत् इति चतुर्थ
गर्भापराधशान्तये त्रिविक्रममन्त्रशापमोचनं ।
अथार्ध गर्भापराधप्रायश्चित्तवामनमन्त्रः ।
वामनपुराणे —
ओं ह्रीं ग्लौं वामनाय नमस्तुभ्यं नमस्ते ब्रह्मरूपिणे ।
मेखलाजिनयुक्ताय गर्भार्धदोषशान्तये ॥
इति वामनमन्त्रः ॥
अस्य मन्त्रस्य भृगु ऋषिर्वामनो देवता अक्षरा पङ्क्ति छन्दः ममार्ध गर्भापारधर्निवृत्त्यर्थं प्रायश्चित्त
वामनमन्त्रजपेविनियोगः न्यासं पूर्ववत् ।
शिरसि भृगवे ऋषये नमः मुखेऽक्षगपङ्क्तिछन्दसे नमः ।
हृदये
वामनदेवतायै नमः ।
अथ ध्यानं —
सर्व-विद्यार्थतत्वज्ञ वामन चिन्तयाम्यहं ।
अर्धं गर्भापराधाख्यनिहं तारमजं प्रभुम् ॥ इति ध्यात्वा —
पूवाभिमुखमाविश्य सहस्रत्रितयं जपेत् ।
अर्धगर्भापराधात्तु मुक्तो भवति मानवः ॥
प्रायश्चित्तं बिना लोको त्रिषु लोके न तिष्ठति ।
भ्रूणहा वल्गुलीं योनिमालभ्य भ्रम्ते भुवि ॥
गर्भहा कौलकीं योनिं चाण्डालमुखमास्यतां ।
दश जन्मभवो योनिं मुहुर्मुहुर्प्रवर्त्तिना ॥
बालघ्नो ह्येडकायोनिमजायोनिं च विप्रहा ॥
पुराण समुच्चये — पुत्रे पितुर्भवेद्धत्या सहस्रगुणितां भवेत् ।
पुत्रस्य च भवेत्ताते सहस्रार्धं प्रजायते ॥
कन्यायार्श्चायुतं गुण्यं दशधा कन्यके पितुः ।
भ्रातुश्च कन्यकायां तु पञ्चधा जायते ध्रुवं ॥
जामातुश्च भवेद्धत्या स्वसुरि द्विशतं गुणं ।
जामातरि भवेच्छुश्रोरेकविंशगुणं फलं ॥
श्वश्रोः सुतस्य दशधा तत्सुतस्य च पञ्चधा ।
चतुगुणं भवेत्पौत्रे द्विगुणं च प्रपौत्रके ॥
नारिहत्या भवेत्पत्यौ षड्गुणां त्रिगुणस्त्रियां ।
मातुः पितुः समाख्याता दुहीत्री पुत्रकन्यका ॥
मातृश्वसुः पितुर्वापि चतुर्गुणफलं स्मृतं ।
भगिनी पुत्र कन्यायाः शतगुणप्रवत्तिनी ॥
एवं कौलसमुद्भूते हत्या निर्णयमीरितं ॥
भविष्योत्तरे — ब्राह्मणे ब्राह्मणस्यापि समता गुणितं भवेत् ।
क्षत्रिये द्विगुणं जातं तदर्धं क्षत्रियस्य च ॥
वैश्ये त्रिगुणं जातं तं चतुर्थांश तु ब्राह्मणे ।
शुद्रे ह्येकगुणं जापं शुद्रस्यं तु तदर्धकं ॥
अन्त्त्यजे ब्राह्मणस्यापि द्विसहस्रगुणां भवन् ।
म्लेच्छस्य जायतं हत्या सामान्या परिकीर्त्तिता ॥
हत्या संस्कारसम्भूते म्लेच्छे नैव प्रजायते ।
सङ्ग्रामे वैरभावे च नैव हत्या प्रजायते ॥
अज्ञातां च करोद्धत्यां कदाचिनैव मुच्यति ॥
इति चतुर्वर्णापराधनिषेधः ।
इत्यर्धागर्भाप्रायश्चितवामनमन्त्रः ।
अस्य मन्त्रास्य भारद्वाजर्षेः शापस्तस्य मोचनप्रयोगः ।
वारस्पत्यसंहितायां —
ओं अस्य श्रीभारद्वाजर्षिशापप्रमोचनमन्त्रस्य वारस्पत्यर्षिश्चन्द्रमा देवता भूछन्दः मम भारद्वाजर्षि
शापप्रमोचने जपे विनियोगः ।
भारद्वाजशापमुक्ताभवः ।
इति षष्ठाञ्जलीः नीत्वा कोणं नैऋतमुत्क्षिपेत् ।
इति द्वितीयो शापमोचनः ।
अथ पादोनगर्भप्रायश्चित्तापद्मनाभमन्त्रः ।
शौनकीये —
ओं श्रीं देवाय पद्मनाभाय गर्भदोषापहारिणे ।
नमस्ते कमलाकान्त सर्वदाघविमुक्तये ॥
इति पादोनगर्भ प्रायश्चित्ताय पद्मनाभमन्त्रः ।
अस्य मन्त्रस्य वेणु ऋषिः पद्मनाभो देवता जगती छन्दः मम पादोनगर्भापराधविमुक्तयथम्प्रायश्चित्तपद्मनाभमन्त्रजपे विनियोगः न्यासं पूर्ववत् ।
अथ ध्यानं —
पद्मनाभ पयोमूर्त्तिं गर्भदोषापहारिणं ।
चिन्तयामि कलापूर्णं नानापुण्यार्थदायकं इति ध्यात्वा —
पश्चिमाभिमुखो भूत्वा मन्त्रं जप्त्वा विधानतः ।
पादोनगर्भासम्भूतां हत्यां मम निबारय ॥
इति पद्मनाभमन्त्रः औत्सारर्षिशापान्वितोऽयं मन्त्रः अस्यौत्सार्षिर्शापप्रमोचनमन्त्रस्य
साकलऋषिवैष्णवी देवता वृहती छन्दः ममौत्सारर्षिशापप्रमोचने जपे विनियोगः इत्यौत्सारर्षिशापमुक्ताभवः ।
पञ्चाञ्जलौ जलं नीत्वा दक्षिणस्यां दिशि क्षिपेत् ।
इत्यौत्सारर्षिशापमोचनः ॥
अथ पूर्णगर्भापराधमुक्तयर्थं प्रायश्चित्ताऽधोक्षजमन्त्रः ।
वौद्धायने —
ओं ह्रीं श्रीं क्लीं सौ देवायाधोक्षजाय च ।
नमो ब्रह्मण्यरूपाय पूर्ण गर्भापराधह ।
इत्यधोक्षजमन्त्रः ॥
अस्य मन्त्रस्य धौम्यर्षिरधोक्षजो देवता जगती छन्दः मम गर्र्भापराधशान्त्यर्थेऽधोक्षमन्त्रजपे वि०
शिरसि धौम्याय ऋषये नमः मुखे जगती छन्दसे नमः हृदयेऽधोक्षजाय देवतायै नमः इति न्यासः ।
ततो पञ्च
बीजाक्षरेण पञ्चाङ्गन्यासं कुर्यात् ।
अथ ध्यानं —
वन्देऽधोक्षजमीश्वरं गुणीनिधिं गर्भापराधापहं ।
शङ्खं चक्रगदाभृतं करतले नारायणं सुन्दरं ॥
सर्वाभीष्टवरप्रदं सकलया लक्ष्यान्वितं कामन्द ।
नानामुक्तिप्रदं नृणां शुभप्रदं संसारपापापहम् ॥
इत्यधोक्षजस्वरूपं ध्यात्वा —
उत्तराभिमुखो भूत्वा मन्त्र जाप्यं समाचरेत् ।
पूर्णगर्भापराध मे ऽज्ञातपापं निवारय ॥
इति गर्भापराधप्रायश्चित्ते ऽधोक्षजमन्त्रः ॥ हिरण्यस्तूपर्षिशापान्वितोऽयं मन्त्रः ।
सन्मोहनतन्त्रे —
ओं अस्य श्रीहिरण्यस्तूपर्षिशापप्रमोचनमन्त्रस्य वृषाकपि ऋषिः कात्यायनी देवता पङ्क्ति छन्दः मम
हिरण्यस्तूपर्षीशापप्रमोचने जपे विनियोगः इति हिरण्यस्तूपर्षिशापमुक्ताभवः ।
इति सप्ताञ्जलीः नीत्वा कोण
वायव्यमुक्षिपेत् ।
इति हिरण्यस्तुपर्षिशापमोचनः ॥
भविष्ये — भ्रूणाहा गर्भहा वापि दशाभिर्परिमनातः ।
परिवारक्षयं नीत्वा समूलं च विनश्यति ॥
ब्रह्मघाती नरो यस्तु तीर्थद्वादशमाचरेत् ।
गया वेणी च वेत्रा च मणिकर्णिका गन्दकी ॥
चर्मंवती सुभद्रा च कालिन्दी च महेन्द्रका ।
गोमती सरयूक्षिप्रास्तीर्थाः द्वादश सञ्ज्ञका ॥
आदौ द्वादशतीर्थाश्च कृत्वा श्रीकुण्डमाविशत् ।
व्यतीय द्वादशाब्दानि प्रायश्चित्तं समाचरन् ॥
प्रायश्चित्तं विना लोको ब्रह्महत्या न मुच्यति ।
सप्तजन्म भवेत्कुष्ठी गलिताङ्गस्तु जायते ॥
अथ ब्रह्महत्याप्रायश्चित्ते मधुसूदनमन्त्रः ।
ब्राह्मे —
ओं ह्रीं क्लीं मधुसूदनाय स्वाहा इति ब्रह्महत्याप्रायश्चित्तार्थ मिदं दशाक्षरमधुसूदनमन्त्रं ।
अस्य
मन्त्रस्य नारदर्षिमधुसूदनो देवता गायत्री छन्दः मम ब्रह्महत्यापराधशान्त्यर्थे मधुसूदनमन्त्रजपे विनियोगः
शिरसि नारदऋषये नमः मुखे गायत्री छन्दसे नमः हृदये मधुसूदनाय देवतायै नमः ।
अथ ध्यानं —
मधुदैत्यनिहन्तारं मधुसूदनमीश्वरं ।
ब्रह्महत्यापराधस्य शान्तये चिन्तयाम्यहं ॥
इति मधुसूदनस्वरूपं ध्यात्वा —
पूर्वाभिमुखमाविश्य मन्त्रं जप्त्वा विधानतः ।
मधुसूदनदेवेश ब्रह्महत्यां व्यपोहतु ॥
गोधूमान्नं प्रभक्ष्येत नक्तव्रतसमन्वितः ।
ब्रह्मचर्यसमायुक्तो तिलसौवर्ण प्रस्थकं ॥
गुप्त कृत्वा च विप्राय प्रतितीर्थेषु दियते ॥
इति ब्रह्महत्यापराधशान्तये मधुसूदनमन्त्रः ।
दक्षिणामूर्त्यर्षिशापान्वितोऽयं मन्त्रः अस्य मन्त्रस्य शापमोचनः ।
कौडिन्यसंहितायां —
ओं अस्य श्रीदक्षिणामूर्त्यर्षिशापप्रमोचनमन्त्रस्य नैध्यर्षिस्त्रिपुरसुन्दरी देवता विराट् छन्दः मम
दक्षिणामूर्त्त्यर्षिशापप्रमोचने जपे विनियोगः इति दक्षिणामूर्त्तिशापमुक्ता भवः सप्ताञ्जलीः समादाय कोणं
नैऋतमुत्क्षिपेत् ।
इतिदक्षिणामूर्त्तिशापमोचनः ।
अथ क्षात्रियवधापराधप्रायश्चित्तः ।
विष्णुधमोत्तरे —
नववर्षं गृहं त्यक्त्वा तीर्थानां नवकं चरेत् ।
गङ्गा भागीरथी क्षिप्रा कालिन्दी यमुना तथा ॥
कर्मनाशा च कौशिल्या ह्युल्कनन्दा च मेनिका ।
आदावष्टौ करोत्तीर्थं ततो पुष्करतीर्थकं ॥
व्यतीय नववर्षाणि प्रदोषव्रतसंयुतः ।
पक्वान्नं भोजयेन्नित्यं ब्रह्मचर्यसमन्वितः ॥
पलत्रयं सुवर्णस्य नालिकेरं करोन्नरः ।
मध्ये मुक्तां समादाय सितवस्त्रेण छादितं ॥
नित्यदानं तु विप्राय दत्त्वा मुक्तिमवाप्नुयात् ॥
ततः क्षत्रियप्रायश्चित्तमन्त्रः ।
अगस्त्यसंहितायां —
नमः प्रद्युम्नदेवाय क्षत्रहत्याव्यापोहक ।
सर्वकल्मषनाशाय वासुदेव नमोऽस्तु ते ॥ इति मन्त्रः —
अस्य मन्त्रस्य कौशिकर्षिः प्रद्युम्नो देवता वृहती छन्दः मम क्षत्रियापराधविमोचने प्रायश्चित्त
प्रद्युम्नमन्त्रजपे विनियोगाः ।
शिरसि कौशिकाय ऋषये नमः ।
मुखे बृहती छन्दसे नमः हदये प्रद्युम्नाय
देवतायै नमः इति न्यासः ।
अथ ध्यानं —
क्षत्रापराधदोषघ्न प्रद्युम्न चिन्तयाम्यहं ।
पीताम्बरधरं देवं कमलाकान्त वल्लभं ॥
इति स्वरूप ध्यात्वा —
वृक्षारूढाजिने स्थित्वा विल्ववृक्षस्थले जपन् ।
इशानाभिमुखो भूत्वा सहस्रत्रितयं जपेत् ॥
क्षत्रहत्याद्विमुक्तस्तु मुक्तिभागी भवेन्नरः ।
गोदानशतकं दत्त्वा ग्रहवल्लभतां ब्रजेत् ॥
सप्तद्वरकृतां भिक्षां जीवहिंसाकृते यदि ।
तदैव मुच्यते हत्या विनायाञ्चा न मुच्यति ॥
द्वारेषु व्रुवते वाक्यं हत्यासन्धानदर्शनं ।
दशांशं मुच्यते पापं न व्रूत्वा तद्विवर्धितं ॥
हत्योक्तवत्सरे पूर्णे वासरे प्रतिभागतः ।
वर्धते क्षीयते वापि प्रायश्चित्ते ऽकृते कृते ॥
इति क्षत्रियावधापराधप्रायश्चित्तमन्त्रः ।
वाधलस् ऋषिशापान्वितोऽयं मन्त्रः ।
अस्य श्रीवाधूलस्
ऋषिशापप्रमोचनस्य अहिर्बुघ्न्य ऋषि र्माहेश्वरी देवता त्रिष्टुप् छन्दः मम क्षत्रियवधापराधप्रायश्चित्ते वाधूला
ऋषिशापप्रमोचने जपे विनियोगः इति वाधुल ऋषि शापमुक्ता भवः पञ्चाञ्ज्ञलौ जलं नीत्वा पश्चिमस्यां
दिशि क्षिपेत् इति वाधूल ऋषि शापमोचनः ॥
अथ वश्यवधापराधप्रायश्चित्तः ।
दुर्गारहस्ये —
वर्षषट्कं गृहं त्यक्त्वा तीर्थषट्कं समाचरेत् ।
गङ्गासिन्धुस्त्रिवेणी च क्षिप्रा वेत्रवती नदी ॥
गयां गत्वा कर्रोछ्राद्धं फल्गुस्नानं समाचरेत् ।
व्यतीय षडवर्षाण्यई पूर्णिमाव्रतमाचरेत् ॥
पायसं भोजयेन्नित्यं भूम्मिशायी जितेन्द्रियः ।
पात्रं त्यक्त्वा पलाशस्य पात्रे भोजनमाचरेत् ॥
चतुः पलसुवर्णस्य फलाम्रं कारयेच्छुधीः ।
मध्ये विद्रुममादाय छादयेत्पीतवाससा ॥
नित्यदानं द्विजायैव ददौ मुक्तिमवाप्नुयात् ।
ततः वैश्यवधप्रायश्चित्ते ऽनिरुद्धमन्त्रः ।
देवीपुरणे —
ओं श्रीं क्लीं सौंरः अनिरुद्धाय वैश्यापराधघ्नाय फट् स्वाहा इति विंशाक्षरोऽनिरुद्धमन्त्रः ।
अस्यमन्त्रेस्येरिपठि ऋषिरनिरुद्धो देवता कान्तिछन्दः मम वैश्यापराधशाप्यर्थे प्रायश्चित्ते
ऽनिरुद्धमन्त्रजपे विनियोगः ।
न्यासं पूर्ववत् ।
अथ ध्यानं —
वैश्यहत्यापराधघ्नमनिरुद्धं भजास्यहं ।
शङ्खचक्रगदाशार्ङ्गनानावस्त्रविभूषितं ॥
इति ध्यात्वा — सिंहचर्मणि संविश्य पिप्पलाधस्तले जपन् ।
आग्नेयाभिमुखो भूल्त्वा सहस्रद्वितयं चरेत् ॥
वैश्यहत्याविमुक्तस्तु मुक्तिभाग्भवते नरः ।
द्विपं चाशगवां दानं दत्त्वा कौटुम्बपालकः ॥
इति वैश्यहत्यापराधप्रायश्चित्ते ऽनिरुद्धमन्त्रः ।
यमदग्निशापान्वितोऽयं मन्त्राः ।
ओं अस्य श्रीयम
दग्निशापप्रमोचनस्य वशिष्ठ ऋषिस्त्रिपुरभैरवी देवता अष्टी छन्दः मम वैश्यहत्यापराधप्रायश्चित्ते ऽनिरुद्ध
मन्त्राराधने यमदग्निशापप्रमोचने जपे विनियोगः ।
इति यमदग्निशापमुक्ता भवः चतुर्भिरञ्जलीः नीत्वा
चतुर्दिक्षु परिक्षिपेत् ।
इति यमदग्निशापमोचनः ॥
अथ शुद्रापराधप्रायश्चित्तः ।
विश्णुयामले —
वर्षत्रयं गृहं त्यक्त्वा तीर्थानां तृनयं चरेत् ।
गङ्गा चर्मन्वती वेत्रा स्नानं कुर्याद्विधानतः ॥
चतुर्द्दशी व्रतं कृत्वा फत्ताहारं समाचरेत् ।
ब्रह्मचर्यसमायुक्तस्त्रिपलस्वर्णविल्वकं ॥
मध्ये रत्नं समादाय पट्टवस्त्रेण छादितं ।
विप्राय नित्यदानं तु दत्त्वा मोक्षमवाप्नुयात् ॥
ततः शुद्रवधापराधप्रायश्चित्ते ऽच्युतमन्त्रः ।
विष्णुपुराणे —
ओं विष्णवेऽच्युतरूपाय व्यापिने परमार्थिने ।
शुद्रापराधपापघ्ने नमस्ते मोक्षदायिने ॥
इति द्वात्रिंशाक्षरोऽच्युतमन्त्रः ।
अस्य मन्त्रस्य गौतमपुत्रो वामदेवर्षिरच्युतो देवता गायत्री छन्दः
मम शुद्रापराधविमोचने प्रायश्चित्ते ऽच्युतमन्त्रजपे विनियोगः ।
न्यासं पूर्ववत् ।
अथ ध्यानं
अच्युत कमलाकान्त शूद्रहत्याविनाशनं ।
सर्वदैत्यनिहन्तारमीश्वरं प्रणमाम्यहं ॥ इति ध्यात्वा –
रक्तकम्बलमादायाऽशोकवृक्षस्तले विशन् ।
नैऋताभिमुखो भूत्वा द्विसहस्रमिदं जपेत् ।
शद्रहत्याविमुक्तस्तु मुक्तिभागी भवेन्नरः ।
गोदानं दशकं दत्त्वा कौटुम्बसौख्यमाप्नुयात् ॥
चतुर्द्वारकृताभिक्षा शुद्रहत्या कृतेऽपि वा ।
तदैव मुच्यते हत्या न भिक्षा मुच्यते क्वचित् ॥
भविष्ये — अपरधी भवेत्लोको आवेक्षिप्तश्चित्तावभ्रमः ।
प्रतिवासरमेधन्ते रात्रौ च लवणं यथा ॥
लवणं दीयतं रात्रौ दारिद्रमृणामेधते ।
यस्मात्क दान दातव्यं लवणं रात्रि सम्भवे ॥
आदित्यपुराणे —
नित्यमेव कृत दानं वासरे लवणस्य च ।
गृहपाकानुमानेन न्यूनाधिक्यबिवार्जित ॥
तद्गृहे ऋणदारिद्र्यं कदाचिन्नैव तिष्टति ।
वहु प्रवर्धितो गेहे ऋणदारिद्र्यव्याधयः ॥
लवणस्य कृते दाने वर्षमात्रं विनश्यति ।
धनधान्यसमृद्धिस्तु पुत्रपौत्रादि वृद्धयः ॥
नैरोग्यसुखसम्पत्तिर्माङ्गल्यांएत्सवकेलय ।
प्रतिवासरमेधन्ते सर्वकामार्थचिन्तनैः ॥
श्रीकुण्डादिशुभे तीर्थे दानं च लवणस्य च ।
कृते शतऋणैः ग्रस्तो बहुदारिद्रपीडितः ॥
मुक्तो भवति लोकोऽस्मिन्सर्वकामानमाप्नुयात् ।
सदा सम्पीडयमानोऽपि मुच्यते व्याधिवन्धनात् ॥
यथैवादित्यवारेऽसौ चणादिधान्यसम्भवाः ।
तप्तवालुकयन्त्रेण भुङ्त्वा पानादिकं चरेत् ॥
वहुधा ऋणदारिद्रयरोगशोकभयं न्यथा ।
भूतं तद्द्विगुणं जातं नतु स्याद्वर्धते क्षणं ॥
शनिवारे चणाधान्य बालुकायन्त्रभुञ्जितं ।
भुङ्क्त्वा बहुविधे जातं दारिद्रय कलहं ऋणं ॥
नाशये क्षणमात्रेण गृहे नैव कदा भवेत् ।
तद्गृहे वर्धाते लक्ष्मीः धनधान्यादिसम्पदां ॥
स्वप्नोति नैव पश्येत रोगशोकदारिजं ।
दरिद्रागमने जातं निद्रालस्यं मनो भ्रमं ॥
पुरुषाद्द्विगुणं पापं स्त्रीबधे जायते ध्रुवं ।
नारीकर्मरतो भर्ता नारी स्याद्वहुप्रक्षिणी ॥
तद्गृहं नैव वृद्धिः स्याद्धनधान्यादिसम्पदः ।
प्रतिवासरमेवास्ति क्षीयते च प्रतिक्षणं ॥
उपवासदिने वापि ह्येकादश्यां विशेषतः ।
तप्तं च वालुकायन्त्रं करोद्ग्रामे पुरेऽपि वा ॥
व्रतं निष्फलतां याति ब्रह्महत्या प्रजायते ।
शतजीवाभिघातेन हत्येका ब्रह्मघातिनी ॥
भुञ्जितो घ्राणतो वापि जीवाग्निदहनादपि ।
दैवशापो भवेद्ग्रामे तस्माद्ग्रामो विनश्यति ॥
दुर्भिक्ष मरणं व्याधिदरिद्रो राजविग्रहः ।
यतस्तु बालुकायन्त्रं तप्तं नैव तु कारयेत् ॥
एवं पक्वानकृद्यन्त्रं मिष्टान्नाय प्रकल्पितं ।
एकादश्यष्टमी पूर्णाभूता मा पक्षवर्धिनी ॥
पितृपक्षे च भाद्रे च वैशाखे माघकर्त्तिके ।
कदाचिनैव कर्त्तव्यं वह्निसंयुक्ततप्तकं ॥
वर्षमध्ये भवेद्भ्रष्टो ग्रामो निधानपीडितः ।
इति शूद्रापराधप्रायश्चित्तेऽच्युतमन्त्रः — वृषाकपिशानेवतोऽयं मन्त्रः ।
अस्य श्रीवृषाकप्यर्षिशापप्रमोचनस्य
च्यवनर्षिर्विश्वम्भरो देवता गायत्री छन्दः मम वृषाकप्यर्षिशापप्रमोचने जपे विनियोगः इति वृषाकपर्षि
शापमुक्तो भवः ।
चतुर्भिरञ्जलीः नीत्वा दक्षिणस्यां दिशि क्षिपेत् ।
इति वृषाकप्यर्षिशापमोचनः ॥
अथान्त्य्जवधापराधप्रायश्चित्तः ।
भविष्ये —
वर्षद्वयं गृहं त्यक्त्वा गङ्गावेत्रवतीं चरेत् ।
भास्करस्य व्रतं कुर्यात्दधिभक्तं तु भोजयेत् ॥
चतुःपलसुवर्णस्य दाडिमं कारयेच्छुधीः ।
हरित्पट्टेन वस्त्रेण छादितं दानमाचरेत् ॥
नित्यं विप्राय दातव्यं हत्यामुक्तो भवेन्नरः ।
ततोऽन्त्यजवधापराधप्रायश्चित्ते जनार्द्दानमन्त्रः ।
माधवीये तन्त्रे —
जनार्द्दनाय देवाय गोब्राह्मणहिताय च ।
वधान्त्यजापराधघ्ने नमस्ते मुक्तिदायिने ॥
इति द्वात्रिंशाक्षरो जनार्द्दनमन्त्रः ।
अस्य मन्त्रस्य वेणुऋषि र्जनार्द्दनो देवता पङ्क्ती छन्दः ममा
न्त्यजवधापराधविमोचने प्रायश्चित्ते जनार्द्दन मन्त्रजपे विनियोगः ।
न्यास पूर्ववत् ।
अथध्यानं — अन्त्यजघ्नापराधघ्नं वन्देऽहं त्वां जनार्द्दनं ।
सच्चिदानन्दरूपाढ्य पीतवस्त्राभिलङ्कृतं ॥
इति ध्यात्वा — श्यामकम्बलमादाय श्वेतार्कतलतो जपेत् ।
आग्नेयाभिमुखो भूत्वा त्रिसहस्रमिदं जपेत् ॥
हत्यान्त्यजविमुकस्तु मुक्यिभाग्जायते नरः ।
गोदानपञ्चक दत्त्वा सौभाग्यादिसुखं लभेत् ॥
दशद्वारकृताभिक्षान्त्यजहत्या विमुच्यति ।
इत्यन्त्यजवधापराधप्रायश्चित्ते जनार्द्दानमन्त्रः ।
भार्गवऋषिर्शापः ।
अस्य श्री भार्गवर्षिशापप्रमोचनस्य
सावाश्वर्षिः कात्यायनी देवता जगती छन्दः मम भार्गवर्षिशापप्रमोचने जपे वि०इति भार्गवर्षिशापमुक्ता भवः ।
आत्रिभिरञ्जलिमादाय पश्चिमस्यां दिशि क्षिपेत् ।
इति भार्गवर्षिशापमोचनः ।
अथ चाण्डालवधापराधप्रायश्चित्तः ।
ब्राह्मे —
वर्षमेकं गृहं त्यक्त्वा गङ्गां च सरयूं ययौ ।
चाण्डालघातको लोको स्नानाद्धत्यां व्यपोहति ॥
भूमिपुत्रंव्रतं कुर्यात् पुन्नाग भोजयेत्सुधीः ।
अतिथ्यागमने काले मध्याह्ने पातकी नरः ॥
मार्जारयोनिमालभ्य प्रायश्चित्तं विनाधमः ।
पञ्चकर्षप्रमाणेन सौवर्णं नारङ्गीफलं ॥
मध्ये नीलमणि धृत्वा सितपट्टे न वाससा ।
छादितं विधिवद्दद्याद्ब्राह्मणाय समासतः ॥
मुच्येञ्चन्डालकी हत्या नित्यदानकृते यदि ॥
ततश्चान्डालवधापराधप्रायश्चित्ते परब्रह्ममन्त्रः ।
सन्मोहनतन्त्रे —
परब्रह्मस्वरूपाय जगदानन्दहेतवे ।
चान्डालवधपापघ्ने नारायण नमोस्तु ते ॥
इति द्वात्रिंशाक्षरो परब्रह्ममन्त्रः ।
अस्य मन्त्रस्य काण्वर्षिः परब्रह्मो देवता अक्षरा पङ्क्ति छन्दः मम
चान्डालवधापराधविमोचने प्रायश्चित्ते जपे विनियोगः न्यासं पूर्ववत् ।
शिरसि काण्वर्षये नमः मुखेऽक्षरा
पङ्क्वये छन्दसे नमः हृदये षरब्रह्मणे देवतायै नमः इति न्यासः ।
अथ ध्यानं —
वन्दे परब्रह्ममनादिरूपं देवाधिदेवं कमलायताक्षं ।
चान्डालपापघ्नमजं सुरेशं सर्वार्थदं सुन्दरश्यामलाङ्गं ॥
इति परब्रह्मस्वरूपं ध्यात्वा —
मृगचर्मं समादाय वटस्याधस्तले जपेत् ।
पूर्वाभिमुखमाविश्य सहस्रद्वितयञ्चरेत् ॥
ग्रन्थसञ्ज्ञकगोदानं नवकं दीयते बुधः ।
नवद्वारकृताभिक्षा हत्या चान्डालकी ब्रजेत् ॥
इति चाञ्डालवधापराधप्रायश्चित्ते परब्रह्ममन्त्रः ।
आप्लुवानृषिशापान्वितोऽयं मन्त्रः ।
अस्य श्री
आप्लुतानृषिशापप्रमोचनस्य साकलर्षिः वैष्णवी देवता विराट् छन्दः ममाप्लुवानृषिशापप्रमोचने जपे विनियोगः ।
इत्याप्लुवानृषि शापमुक्ता भवः " पञ्चाञ्जलिः समादाय कोणमीशानमुक्षिपेत् इत्याप्लुतवानृषिशापमाचनः ॥
इतीरितं ब्रह्मवधादिपातकं नरस्वरूपं सकलाभिशान्तये ।
प्रायश्चित्तं गोप्यव्रतादिदानं श्रीभट्टनारायणसञ्ज्ञकेन ॥
इति श्री भास्करात्मज श्रीनारायणभट्टगोस्वामी विरचिते व्रजभक्तिविलासे परमहंससंहितोदाहरणे
व्रजमाहात्म्यनिरूपणे श्यामकुण्डदृष्टान्ते गोप्यभ्रूणादिवधप्रायश्चित्ताभिधानाख्ये
नरस्वरूपके षष्ठोऽध्यायः ॥
—ओ)०(ओ—
(७)
सप्तमो अध्यायः
॥ सप्तमोऽध्यायः ॥
अथ गवादिपशुजन्तूनां वधापराधप्रायश्चित्तः ।
स्कान्दे —
गवादि पशुजन्तूनां म्लेछावासे वधोभवेत् ।
तद्ग्रामे च पुरे वापि हत्यादोषो न विद्यते ॥
ब्राह्मणे त्वथवा वैश्ये जीवहत्याभिजायते ।
पशुपक्षिमृगादीनां वधदोषमुदाहृतं ॥
यथैव च सुरापानं महापातककारकं ।
तथैव वैष्णवानां च चातुर्वर्णाभिधायिनां ॥
क्षत्रियं च गवां त्यक्त्वा पशुपक्षिमृगादयः ।
तेषां वधे कृते नैव हत्यादोषोभिजायते ॥
नीलकण्ठशुकश्वानविडालशिखिचात्रगाः ।
एषां वधं त्यजन्ति स्म हत्या स्यात् कुलघातिनी ॥
चतुर्वर्णाश्रमावासे गवां घातं समुद्भवं ।
समुलं नाशतां याति वायुनोदितवह्निना ॥
तदैव घातकस्यापि वधहत्य न जायते ।
राजा शस्याधिपो मन्त्री तथैव ग्रामरक्षकः ॥
येषां न विद्यते दोषं प्रायश्चित्तमथाचरेत् ।
चौरो ऽसत्कृतको वापि जीवाहिंसां न कारयेत् ॥
गोघ्नो वधं न कुर्वीत तधत्या फलमाप्नुयात् ।
सीताशिखाबन्ध कुर्यात्गवां हत्या शतंसमं ॥
फलमाप्नोति लोकोपि समूलं च विनश्यति ।
गवादिपशुजातीनामग्रतस्त्णमाहरेत् ॥
अथवा भोजनं ह्यग्राद्वाकशल्येन वृथा करोत् ।
तदात्मकल्पानात्तस्य हत्यास्यात्कुत्सिनीमता ॥
दारिद्रशोकतप्तार्त्तापमानबहुदुःखदा ।
कस्य नीत्वा ददौ कस्मै द्रव्यादीनर्थसञ्चयान् ॥
लोकनिन्दामयी नाम हत्या स्याद्वहुक्लेशदा ।
अजैडकां बालवतीं गुर्विणीं वा शिशुं तथा ॥
वैश्यविप्रापराधस्तु क्षत्रिये नैव विद्यते ।
मेषछागसुतस्यापि वधदोषो न जायते ॥
कालस्वरूपजीवानां वध दोषो न विद्यते ।
यज्ञकर्मणि जीवानां घाते दोषो न विद्यते ॥
यज्ञांशशेषसम्भुङ्क्ते मांस जीवसमुद्भवं ।
वैश्यब्राह्मणयो नैव भुङ्क्तदोषो न जायते ॥
शृगालभेडसिंहानां सुतमज्ञानसंयुत ।
तत्रैव नगरे ग्रामे गृहे नैवानथेत्क्वचित् ॥
वानरक्षर्विवर्णानामेषामागमनं शुभं ।
शृगालादित्रयाणान्तु सुतागमन वेश्मनः ॥
ब्रह्महत्या फलं जातं समूलं च विनाशयेत् ।
धर्मप्रदीपे — मनसा कर्मणा वाचा यज्ञं वैवाहिकादिकं ।
विध्वंसनमभीच्छन्ति कृच्छ्रहत्या फलं लभेत् ॥
विंशवर्षान्तरे लोको समूलं च विनश्यति ।
ब्राह्मणो वाममार्गस्थो सुरामांसरतः सदा ॥
मांसाहारे सुरापाने तस्य दोषो न विद्यते ।
दुर्गोत्सवोत्सवे नित्यमजाघातं चकार ह ॥
दैवीदितमहामन्त्रैस्तस्य दोषोन विद्यते ।
क्षत्रियो महिषं हन्यात्दैत्यरूपं स्मृतं तदा ॥
दुर्गोत्सवे न दोषः स्यात् प्रीता महिषमर्द्दिनी ।
विना महिषघातेन क्षत्रियोऽविजयी भवेत् ॥
महिषी पयस्विनी घते हत्याकल्पभिधायिनी ।
पुत्रशोकमवाप्नोति प्रायश्चित्तं विना यदा ॥
मूर्खाणां च नराणां च कदा हत्या न मुञ्चति ।
गृहभङ्गं स्थानभ्रष्टं द्वयोत्साहं करिष्यति ॥
हत्यालिङ्गं समादाय तीर्थयात्रां समाचरेत् ।
कपोतमेनिकासाराचक्रवाक्गर्द्दभादयः ॥
जीवापराधिनी नाम हत्यैषा परिकीर्तिता ।
पुरुषं मृतवत्साख्यं करोत्यब्दत्रयान्तरे ॥
कागाकाशवहायास्तु हत्या दोषो न विद्यते ।
शृगालश्वानविक्षिप्तो उलूको कालकारकः ॥
तेषां वधे न हस्या स्यादुष्त्रेकिञ्चिद्भविष्यति ।
स्यामावधे भवेद्धत्या दैवघ्नीत्यभिधा स्मृता ॥
सङ्ग्रामपरिवारं च कुटुम्बं च विनाशयेत् ।
चिरीपण्डुकुलीमूषस्रयाणां वधमाचरेत् ।
मिथ्या कलङ्कदा नाम हत्या द्रव्यार्थनाशिनी ॥
मृद्भक्षिणी नागत्यक्ता द्वयोर्हत्या न विद्यते ।
वन्धनागतजीवानां गवादीनां पयस्विनां ॥
क्षुधया पीडितं कुर्यात् हत्या स्यात्कलदाहिनी ।
दरिद्ररोगसन्तापं कुरुते नन्वहर्निशं ॥
मिथात्मकल्पदाहंस केषाञ्चित् कारयेत्कदा ।
काम्यहत्या भवेत्तस्य पुत्राद्युत्सवनाशकः ॥
छायान्वितं हरिद्वृक्षं यश्छिनोत्यधमोनरः ।
नस्यार्द्रा जायते हत्या समूलं च विनाशकं ॥
मनसा कर्मणा वाचा परद्रोहं विचिन्तयेत् ।
समूलं नाशमायाति द्रोहहत्या ऽशुभप्रदा ॥
शुष्कवृक्षं छिनोद्यसु गृहकायार्थामाहृतं ।
तस्य हत्या न दोषो च नैवात्र शुभदायकं ॥
घनछायं वटं छित्वा ब्रह्महत्या समं फलं ।
अश्वत्थमोदकी नाम हत्या कुल विनाशिनी ॥
निम्बे मनोर्थहानाम हत्या सौख्यविनाशिनी ।
चूते फलप्रहानाम हत्या भोगप्रणाशिनी ॥
बिल्वे द्रव्यपहानाम पूजाधर्मार्थनाशिनी ।
घातयेद्धरितं वृक्षं मन्त्रप्रैचारसिद्धये ॥
रोगिणीनाम सा हत्या सर्वदा व्याधिदायिनी ।
सफलं हरितं वृक्षं निर्मूलफलकारिणी ॥
निर्मूलनाशिनी हत्या वंशवृद्धिविनाशिनी ।
विफलं कण्टसंयुक्तं वृक्ष छित्वा हरिच्छुभम् ॥
नैव हत्या भवेतस्य वैरभावेन दूषितं ।
कृष्णपक्षे छिनोत्काष्ठमघुनं च प्रजायते ॥
छलेन कस्य द्रव्याणि नीत्वा तस्मैन दीयते ।
पञ्चजन्मसु जामाता भूत्वा द्रव्यं समाददे ॥
व्यभिचारप्रलोभेन दद्याद्दानं मिषेण च ।
तद्दानं निष्फलं जातमिच्छितार्थं विनाशयेत् ॥
गवादिधनधान्यादिवस्त्रहर्म्यादिभूमयः ।
वाससो दानमिन्छन्ति वाक्यदानविधायकः ॥
नैव दद्याच्च विप्राय समुलं तद्विनश्यति ।
विप्र निमन्त्रयेद्यस्तु भोजनं नैव कारयेत् ॥
तदात्मकल्पनात्पापं प्राणहत्यासमाह्वयं ।
यदर्थं दीयते दानमन्यकस्मै प्रदीयते ॥
तदात्मकल्पनाल्लोकश्चाण्डालत्वं प्रजायते ।
धर्मकमाविहीनस्तु वैमुख्यं देवपितृतः ॥
फलं च छेदने कस्य पुत्रशोकमवाप्नुयात् ।
द्विजर्नैर्मन्त्रणं कृत्वा यद्वस्तु भाषयेत्ववचित् ॥
तमेव नैव कुर्वन्ति भोजनं निष्फलं भवेत् ।
शिंशुकं शुष्कबीजं च रक्तं व श्वेतचन्दनं ॥
जगन्नाथाम्बिकायैव भानुरूपायचिछिदे ।
हरिते नैव दोषः स्यात् प्रतिमानिर्मिताय वै ॥
वलान्मोहेन कस्यैव पुस्तकं जगृहे नृपः ।
समूलनाशमायाति ब्राह्मणात्मविकल्पनात् ॥
स्थानभ्रष्टं करोद्राजा समूलं च विनश्यति ।
इति प्रायश्चित्तनिषेधः ।
तत्रादौ गोवधप्रायश्चित्तः ।
स्कान्दे —
प्रायश्चितं विना गोहा नारीहस्ताद्वधं लभेत् ।
वषे षट्कं गृहं त्यक्त्वा सप्ततीर्थं समाचरेत् ॥
गङ्गा चर्मण्वती वेत्रा यमुना गण्डकी नदीं ।
सिन्धुश्च कर्मनाशाख्या सप्ततीर्थां प्रकीर्तिता ॥
एषां स्नपनमात्रेण गोहत्यान्मुच्यते नरः ।
देवीव्रतं समाचक्रे भुञ्जीयान्मिष्टफेणिका ॥
नक्तव्रतं च षड् वर्षं ब्रह्मचर्यसमन्वितः ।
स्त्रीयोनिं लभते लोको प्रायश्चित्तं विनाधमः ॥
देवप्रस्थप्रमाणेन सौवर्णिः सप्तगाःकरोत् ।
बहुधा रक्तपट्टेन वाससा गुप्तछादिताः ॥
सप्ततीर्थकृताद्दानात् गोहत्या मुच्यते यदा ॥ इति गोवधप्रायश्चित्तेदाननिर्णयः ।
ततो गोवधापराधप्रायाश्चित्ते विष्णुमन्त्रः ।
आदिपुराणे —
नमस्ते गरुडारूढ विष्णवे प्रभविष्णवे ।
कमलापतये देव गोऽपराधं निवारय ॥ इति द्वात्रिंशाक्षरो विश्णुमन्त्रः
अस्य मन्त्रस्य साङ्ख्यायनर्षि र्विष्णुर्देवता गायत्रीछन्दः मम गोवधापराधविमोचने प्रायश्चित्ते जपे
विनियोगः न्यासं पूर्ववत् ।
शिरसि साङ्ख्यायनाय ऋषये नमः मुखे गायत्री छन्दसे नमः हृदये विष्णुदेवतायै
नमः इति न्यासः ।
अथ ध्यानं —
वन्दे विष्णुं रमाकान्तं पुण्यशीलादिभिर्युतं ।
गोध्नापराधहन्तारं जगत्रयहितैषिणं ॥
इति विश्णुरूपं ध्यात्वा —
मृगचर्मं समादाय लक्ष्मीनारायणस्तले ।
उत्तराभिमुखो भूक्त्वा त्रिसहस्रमिदं जपेत् ॥
द्वादशं ग्रन्धिसञ्ज्ञकं प्रायश्चिते च दीयते ।
शक्रद्वारकृताभिक्षा गोलिङ्गेन समाकुलः ॥
तदैव मुच्यते हत्या गवां धर्मार्थनाशिनी ॥
इतीव दानतीर्थानि प्रायश्चित्तं विधाय च ।
गोवर्धने च श्रीकुण्डे उर्जस्नानसमाचरेत् ॥
तदापराधमुक्तस्य सर्वसौभाग्यमाप्नुयात् ।
इति गोवधापराधप्रायश्चित्ते विष्णुमन्त्रः ।
देवराजर्षिशापान्वितोयम्मन्त्रः —-
अस्य श्रीदेवराजर्षिशापप्रमोचनस्यौर्व ऋषिः पद्मावती देवता कान्तिछन्दः मम देवराजर्षिशापप्रमोचने
जपेवि० इति देवराजर्षिशापमुक्ताभवः — अष्टवाराञ्जलीः नीत्वा ह्यष्टपूर्वादिषु क्षिपेत् इति देवराजर्षिशापमोचनः ।
अथ वृषवधापराधप्रायश्चित्ते कृष्णमन्त्रः ।
वाराहे —
वृषहत्यापराधे च प्रायश्चित्तं च गोसमं ।
ओं कृष्णाय वासुदेवाय देवकीनन्दनाय च ।
नमस्ते वृषहत्याघ्ने गोपिकावल्लभाय च ॥
इति द्वात्रिंशाक्षरां कृष्णमन्त्रः ।
अस्य मन्त्रस्याश्बलायनाइर्षिः श्रीकृष्णो देवता जगती छन्दः मम
वृषवधापराधविमोचने प्रायश्चित्ते कृष्णमन्त्र ज० वि० न्यास० पू० अथ ध्यानं —
पद्मेत्वन्नयने स्मरामि सततं भावो भवत्कुन्तले ।
नीलेमुह्यति किङ्करोमिमहितैः प्रीतोस्मि ते विभ्रमौ ॥
रित्यत्स्वप्नवचो निशम्य सरूषा निर्भत्सतो राधया ।
कृष्णास्तद्विपिनेतद्यपदिशः क्रीडाविटः पातु वः ॥
इति ध्यात्वा — व्याघ्रचर्मं समादाय धातृवृक्षस्तले जपन् ।
इशानाभिमुखो भूत्वाद्विसहस्रमिदं जपेत् ॥
रुद्रग्रन्थिं च गोदानं विप्राय च प्रदापयेत् ।
रुद्रद्वारकृताभिक्षा वृषहत्या विमुच्यति ॥
प्रस्थैकादशमानेन शिवरुद्रस्वरूपकं ।
रुक्मस्य विधिवत्कृत्वा तण्डुलेन सुगोप्यकं ॥
सितेन वाससा वध्वा गुप्तदानं समाचरेत् ।
गोवर्धने प्रियाकुण्डे कार्तिकस्नानमाचरेत् ॥
पूर्वषट्तीर्थकं कृत्वा ततो गोवर्धनं चरेत् ।
गणेशस्य व्रतं कुर्यादन्नोदनमभोजयेत् ॥
वर्षत्रय गृहं त्यक्त्वा ब्रह्मचर्यसमन्वितः ।
कर्षद्वयं रुक्मपात्रं प्रस्थतण्डुलपूरितं ॥
नित्यदानं करोद्धीमान् वृषहत्याद्विमुच्यते ।
इति वृषवधापराधप्रायश्चित्ते कृष्णमन्त्रः — शौनकर्षिशापान्वितोऽयं मन्त्रः ।
अस्य श्रीशोनकर्षिशापप्रमोचनमन्त्रस्य — मधुछन्दः ऋषिर्भुवनेश्वरी देवताविश्वच्छन्दः मम
शौनकर्षिशापविमोचने ज० वि० ति शोनकषिशापमुक्ताभवः ।
नवभिरञ्जलीर्नीत्वा पश्चिमस्यां दिशि क्षिपेत् ।
अथ महिषीवधापराधप्रायश्चित्तः ।
कुलार्णवे —
मासत्रयं गृहं त्यक्त्वा गङ्गायमुमयोः स्नपन् ।
यमराजं सुवर्णस्य पञ्चकर्षप्रमाणतः ॥
मूर्तिं कृत्वा विधानेन रक्तपट्टेन छादितां ।
कृष्णगोरवरुढाढ्य तीर्थे दानं समाचरेत् ॥
स्वर्णं फलार्धाकं नीत्वा सार्धाप्रस्थं तिलं सितं ।
नित्यदानं करोद्यस्तु दक्षिणाभिमुखोभवन् ॥
यमस्य दीपदानं तु रात्रौ नित्यं समाचरेत् ।
तदैव महिषी हत्यान्मुच्यते नात्र संशयः ॥
सोमरूद्रव्रतं कुर्यात्प्रायश्चित्तमितीरितं ।
प्रायश्चित्तं विना रोगो मनस्तापं दरिद्रता ॥
दर्शनं यमराजस्य नित्यमेव प्रजायते ।
महिष्यारोहणस्यापि द्यु लक्ष्मी च वसेत्गृहे ॥
इति महिषीप्रायश्चित्तनिषेधः ।
ततो महिषीवधापराधप्रायश्चित्ते चण्डीमन्त्रः ।
दुर्गारहस्ये —
ओं क्लीं ख्रां ग्लौं चण्डदेव्यै नमः इति दशाक्षरश्चण्डीमन्त्रः अस्य मन्त्रस्य रुद्र ऋषिश्चण्डी देवता उष्णिक् छन्दः मम
महिषीवधापराधप्रायश्चित्ते चण्डीमन्त्रजपे विनियोगः ।
न्यासं पूर्ववत् ।
अथ ध्यान —
ध्यायेच्चण्डीं महादेवीं चण्डमुण्डविनाशिनीं ।
माहिष्यासुरहन्त्री त्वां महिषीपापनाशिनीं ॥
इति ध्यात्वा —- त्रिसहस्रमिदं जप्त्वा स्यामकम्वलसंस्थितः ।
दक्षिणाभिमुखो भूत्वा बिल्ववृक्षस्तले जपन् ॥
गुह्यातिगुह्यगोप्तिस्त्वं गृहाण परमेश्वरि ।
त्रिवाराञ्जलिमादाय नैऋतं कोणमुत्क्षिपेत् ॥
इति महिषीवधापराधप्रयश्चित्ते चण्डीमन्त्रः ।
अस्य मन्त्रस्य शापो नास्ति ।
अथाश्ववधापराधप्रायश्चित्तः ।
हयग्रीवपञ्चरात्रे —
दशमासं गृहं त्यक्त्वा गङ्गा वेत्रवती चरेत् ।
सूर्यस्य प्रतिमां कृत्वा नवकर्षसुवर्णतः ॥
रक्तवस्त्रेण सङ्गोप्य तीर्थदानं समाचरेत् ।
पलद्वयं सुवर्णं तु नित्यदानं समाचरेत् ॥
पूर्वाभिमुखमाविश्य मन्त्रजाप्यं विधानतः ।
प्रायश्चित्तं विना तापं मनसस्तु प्रजायते ॥
सप्तम्यास्तु व्रतं कुर्याद्दध्योदनमभोजयेत् ।
अश्वहत्या विमुक्तस्त्तु सर्वदा विजयी भवेत् ॥
इताश्ववधापराधप्रायश्चित्तनिषेधः ।
ततो प्रायश्चित्तेऽश्विनीकुमार मन्त्रः ।
वायुपुराणे —
ह्रां ह्रीं ह्रूं अश्विनीकुमाराभ्यां स्वाहा " इति द्वादशाक्षरोऽश्विनीकुमारमन्त्रः ।
अस्य मन्त्रस्य नारद ऋषिरश्विनीकुमारो
देवता जगती छन्दः ममाश्ववधापराधविमोचने प्रायश्चित्ते ऽश्विनीकुमारमन्त्रजपे वि० न्या० पूर्ववत् ।
अथ ध्यानं — अश्वापराधहन्तारावश्विनौ देवसज्ञिकौ ।
नमामि शुभदौ काम्यौ कुमारौ सुमनोहरौ ॥
इति ध्यात्वा — द्विसहस्रीमिदं जप्त्वा पलाशपिप्पलस्तले ।
शुक्लासनं समादाय कुमारप्रीतये ततः ॥
सप्ताञ्जलौ जलं नीत्वा ह्युत्तरस्यां दिशि क्षिपेत् ।
इत्यश्ववधापराधप्रायश्चित्ते ऽश्विनीकुमारमन्त्रः ।
अस्य मन्त्रस्य शापो नास्ति ॥
अथ श्वानवधापराधप्रायश्चित्तः ।
भैरवीयतन्त्रे —
श्वानस्य तु वधे कार्ये स्वानयोनिं ब्रजेदसौ ।
पुनः पुनर्द्दशावृत्याऽकालमृत्युमवाप्नुयात् ॥
प्रायश्चित्तं विना हत्यां नरेभ्यो गुप्तमाचरेत् ।
पुत्रशोकं समालभ्य वध्वाः वैधव्यमीक्षयेत् ॥
श्वानवत्तप्तिमाप्नोति सन्तापं च क्षणे क्षणे ।
शुनीवधं करेद्यस्तु कन्यावैधव्यमीक्षते ।
सप्तजन्म भवेत्कन्या हृदयोपरिगामिनी ।
वर्षत्रयं गृहं त्यक्त्वा पञ्चतीर्थं समाचरेत् ॥
गङ्गा वेत्रवती भद्रा गण्डकी यमुना तथा ।
वर्षत्रयान्तरे पञ्चतीर्थानां स्नानमाचरेत् ॥
श्वानहत्या विमुक्तस्तु नक्वभोजनमाचरेत् ।
प्रकृतिप्रस्थमाणेन सौवर्णिः पञ्चमूर्त्तयः ॥
श्यामाङ्गपट्टवस्त्रेण छादयेद्विधिपूर्वकं ।
पञ्चतीर्थो कृतं दानं स्वानहत्याद्विमुच्यति ॥
सुवर्णं टङ्क्तमाणेन गोधूमचूर्णगोप्यकं ।
विप्राय नित्यदानं हि दत्त्वा मुक्तिमवाप्नुयात् ॥
इति श्वानवधप्रायश्चित्ते दाननिर्णयः ।
ततः श्वानवधापराधप्रायश्चित्ते मुक्तिभैरवमन्त्रः ।मन्थान भैरवीये —
ओं ह्रां व्रीं क्ष्रीं श्रीं मुक्ति भैरवाय स्वाहा " इति द्वादशाक्षरो मुक्तिभैरवमन्त्रः ।
अस्य मन्त्रस्य जह्नु
ऋषि र्मुक्तिभैरवो देवता बृहती छन्दः ।
मम श्वानवधापराधमुक्तये प्रायश्चित्ते ज० विनियोग न्या० पूर्ववत्
अथ ध्यानं — श्वानापराधपापघ्नं मुक्तिदं भैरवं भजे ।
ऋणमुक्तिप्रदं नृणां शूयदारिद्रमनाशनं ॥
इति ध्यात्वा — वृक्षाशोकतले स्थित्वा श्यामासनविराजितः ।
इशानाभिमुखो भूत्वा द्विसहस्रमिदं जपेत् ॥
व्यतीय त्रिणिनर्षाणि ग्रामं नीत्वा करोदयम् ।
शीतकण्ठमहादेवं मुक्तये स्थापयेऽत्रहि ॥
मत्स्यावतारविष्णोश्च जन्मन्यवसरे दिने ।
स्थापयेद्रूद्रमूर्त्तिं तु स्नानपापौघमुक्तये ॥
मत्स्यावतारजन्मनिर्णयः ।
मात्स्ये —
मत्स्यादि पं च गोप्यास्ते तीर्यङ कूर्मादिमूर्त्तयः ।
वराह राम कल्की च बौद्धो षङ्गोप्यासञ्ज्ञिकं ॥
स्वकीयेषु पुराणेषु जन्मन्यवसरं दिनं ।
लिख्यते गोप्यसञ्ज्ञाभिः दशधा जन्मसञ्ज्ञिका ॥
मत्स्यकूर्मो वराहश्च नारसिंहोऽथ वामनः ।
रामो रामश्च रामश्च बौद्धः कल्कीरिति स्मृताः ॥
वृतो मध्यावतारस्तु सत्यार्थवरदानतः ।
प्रसङ्गाद्दशधा प्रोक्ताः देवोत्सर्गादिहेतवे ॥
पौष्यमास्यसिते पक्षे पञ्चमी सोमसंयुता ।
मघानक्षत्रसंयुक्ता प्रीतियोगसमन्विता ॥
सूर्योदयात्समारभ्य घटिका द्वितयं गता ।
लग्ने धनुषि संस्थे च शङ्खासुरप्रपीडितैः ॥
धर्म कर्म विहीनैस्तु वेदाध्ययनवर्जितैः ।
देवैः प्रणोदितो विष्णुस्तीर्थराजे च नैमिषे ॥
ऋषेस्तु पितृभावेन ह्यञ्जलौ प्रपतद्भुवि ।
शयिता पुत्रभावेन सन्न्यसेच्चक मण्डलौ ॥
तत्र प्रवर्धितो मत्स्यो कूपमध्ये विनिक्षिपेत् ।
निःसार्य कूपमध्याच्च तडागेऽसौ विनिक्षिपेत् ॥
तत्र प्रवर्धितो विष्णुरर्णवे निःक्षिपेत् मुनिः ।
मास्त्यावतारसम्भूतो शङ्खदैत्यं विचिन्वयत् ॥
वेदवेदार्थलाभाय शङ्खदैत्यवधाय च ।
क्षीराब्धौ क्रीडमानोऽसौ मत्स्यो नारायणो भवत् ॥
वेदान्नीत्वा ददौ विष्णुः देवेभ्यो स्तुतिमाददे ।
एवं मत्स्यदिने जाते रामकृष्णादिमूर्त्तयः ॥
तेषां च मन्दिरेष्वेषु वेदस्तौतिं समाचरेत् ।
सर्वदा सुखसम्पद्भिर्द्दिवध्वान्यादिसञ्चयैः ॥
कुबुद्धिर्नश्यते ऽत्रैव सुबुद्धिस्तु प्रजायते ।
सर्वदा जाड्यसम्पन्नो विद्यावान् जायते नरः ॥
वेदार्थभावको जातः मत्स्यजन्मोत्सवकृतात् ।
विष्णवे प्रणतिं कुर्यान्नानाद्रव्यार्थमाप्नुयात् ॥
इति मत्स्यावतारजन्मनिर्णयः ॥
अथ कूर्मावतारजन्मनिर्णयः ।
कौर्म्ये —
देवैर्विज्ञापितो विष्णुर्भूमेर्भारधृताय च ।
चैत्रे मासि सिते पक्षे द्वितीया सोमसंयुता ॥
अश्विन्यक्षप्रयुक्त्वा स्यात् प्रीतियोगसमन्विता ।
सूर्योदयात्समारभ्य घटिका षोडशा गताः ॥
कर्कलग्नोदये जाते कूर्मो नारायणोऽभवत् ।
वसुन्धरा वभौ नस्मिन् कूर्मे भारधृते यदि ॥
नद्यादौ जलपूजां च कुर्युर्नानार्थ मङ्गलै ।
द्वितीये दिवसे गौरी जलपूजनमाचरेत् ॥
इति कूर्मावतारजन्मनिर्णयः ।
अथ वाराहावतारजन्मनिर्णयः ।
वाराहे —
प्रलयेऽब्धौ धरामग्ना देवैर्विज्ञापितो हरिः ।
तस्याः निःसारणार्थाय क्रीडाक्रोडतनुर्भवेत् ॥
मार्गे मासि सिते पक्षे नवमी शनिसंयुता ।
पूर्वभाद्रपदाविष्टा वज्रयोगसमन्विता ॥
सूर्योदयप्रवृत्या तु घटीसप्त व्यतीयते ।
लग्ने च मकरं संस्थे वाराहोऽवतरद्भुवि ॥
पातालादागता पृ१ःवी तुङ्डाग्रधृतभूषिता ।
पृथिव्यां सर्वकर्माणि जायते ह्यनघाः फलाः ॥
इतिवाराहावतारजन्मनिर्णयः ।
अथ भार्गवावतारजन्मनिर्णयः ।
ब्रह्मान्डे —
क्षत्रपापकुला पृथ्वी तस्याः ह्युद्धरणाय वै ।
क्षत्रियाणां विनाशाय निःक्षत्रियकृतार्थिने ॥
ब्रह्मर्षि र्यमदग्निस्तु रेणुकाख्या पतिव्रता ।
चक्रतुश्च व्रतं श्रेष्ठं विष्णुपुत्रार्थं दम्पती ॥
सत्यव्रतो महाविष्णु र्ब्रह्मण्यकुलसम्भवः ।
माघे मासि सिते पक्षे सप्तमी सोमसंयुता ॥
अश्विन्यर्क्षं समाविष्टा शुभयोगसमन्विता ।
मुहूर्त्ते ब्राह्मणे जाते लग्ने धनुषि संस्थिते ॥
रेणुका जनयत्पुत्रं जगज्ज्योतिकलामयं ।
यमदग्निः पिता तस्य रामेण वपुषा हरेः ॥
नाम्ना परशुरामाख्यं चकार कुलदीपकं ।
दीपे प्रज्ज्वलिते कीटाः पपङ्गाद्याः विनश्यति ॥
यमदग्निसुते जाते क्षत्रियाः नाशमाप्नुयुः ।
अचला जायते पृथ्वी धर्म्य कर्म समाकुला ॥
ब्राह्मणैः राजभिः पूर्णा नानायक्षार्थसम्पदः ।
निःकल्मषा निरातन्का नाना श्रव्यार्थदायिनी ॥
इति परशुरामावतारजन्मनिर्णयः ।
अथ बौद्धावतार जन्म निर्णयः ।
भविष्योत्तरे —
धर्माधर्मविवेकाय लोकानां भयहेतवे ।
अधर्मे दर्शनार्थाय बोद्धो नारायणो ऽभवत् ॥
आश्विने कृष्णपक्षे तु दशमी गुरुसंयुताः ।
पुनर्वस्वर्क्ष संयुतां परिघेन समन्विता ॥
सूर्योदये घटी जाता षट्लग्ने तुलसंस्थिते ।
सत्यार्थभाषणार्थाय बौद्धो नारायणोऽभवत् ॥
ब्रह्मकुलजदैत्यानां वधपातकसम्भवात् ।
हस्तौ छित्वा हरिः साक्षात्परस्त्रीगमनोद्भवात् ॥
पादौ छित्वा जगन्नाथः लोकानां दर्शनाय च ।
संस्थितो भगवान्भूमौ धर्माधर्म विवेकवित् ॥
मिथ्यात्मकल्पनाद्दोषाद्धरिदारुकलेवरः ।
धर्मपत्न्यास्तु सीतायाः शुद्धायाः भगवान्प्रभुः ॥
एवं लोको भवेद्रोगी स्त्रीशापा दुखितो सदा ।
मिथ्याभिशंसनाद् योषाद्दरिद्रे ण सदान्वितः ॥
बौद्धायने — विप्राणां ताडनेनैव पणिहीनो नरो भवत् ।
परस्त्रीगमनात्पापात्पादखङ्जस्तु जायते ॥
अपवादकलङ्केन ह्यथवा कुष्ठसम्भवात् ।
हस्तपादविहीनस्तु जायते पापसम्भवात् ॥
इति बौद्धावतारजन्मनिर्णयः ॥
अथ कल्क्यवतारजन्मनिर्णयः ।
भविष्ये —
अति चौराकुलां पृथ्वीं दृष्ट्वा नारायणो हरिः ।
समराख्ये पुरे रम्ये कल्कीरूपो भवेत्स्वयं ॥
श्रावणे कृष्णसप्तभ्यां रेवती भृगुसंयुते ।
धृतियोगसमायुक्ते दुर्दिने भयविह्वले ॥
चतुर्द्दशघटीजाते कन्यालग्नमुपस्थितं ।
चौराणां नाशनार्थायावतारद्धरिरीश्वरः ॥
इति दशावतार जन्म निर्णयः ॥
गोदानं सप्तसङ्ख्याकं दत्त्वा मुक्तिमवाप्नुयात् ।
शतसङ्ख्यान् द्विजांश्चैव भोजयेद्विधिपूर्वकम् ॥
श्वानहत्याविमुक्तस्तुं प्रायश्चित्ताभिधानतः ।
मोक्षाख्यं पदवीं लब्ध्वा धनधान्यसुखं लभेत् ॥
इति श्वानवधापराधप्रायाश्चित्ते मुक्तिभैरवमन्त्रः ।
धौम्यर्षिर्शापान्वितोऽयं मन्त्रः ।
अस्य श्रीधौम्यर्षि
शापप्रमोचनस्य बृहदारण्यकर्षिः महाकाली देवता त्रिष्टुप् छन्दः मम धौम्यर्षिशापप्रमोचने जपे विनियोगः ।
इति धौम्यार्षि शापमुक्ता भवः ।
दशावृत्याञ्जलीः नीत्वा नैऋतं कोणमुक्षिपेत् इति धौम्यर्षिशापप्रमोचनः ।
अथ विडालवधापराधप्रायश्चित्ते दामोदरमन्त्रः —
ओं ह्रीं क्लीं श्रीं दामोत्दराय स्वाहा " इति दशाक्षरो दामोदरमन्त्रः अनेन प्रा० त्र० कुर्यात् ।
अस्यमन्त्रस्य नारद ऋषिः दामोदरो देवता गायत्री छन्दः मम विडालवधापराधविमुक्तये प्रायश्चित्ते जपे विनियोगः न्या० पू० ।
अथ ध्यानं — विडालपाहघ्नमजं सुरेशं दामोदरं सुन्दर विश्वमाद्यं ।
वन्दे सदा कारुणिकस्वरूपं जगत्रयेशं शुभ दायकान्तं ॥
इति दामोदरस्वरूपं ध्यात्वा —
त्रिसहस्रजपेन्मन्त्रं शमीवृक्षस्तले शुचिः ।
त्रिवर्णासनमादाय वायव्याभिमुखः स्थितः ॥
विडालवधपापात्तु मुच्यते नात्र संशयः ।
प्रायश्चित्तं विना लोकः समूलं च विनश्यति ॥
इति बौद्धायने ।
नवतीर्थं समाचक्रे गङ्गा वेत्रवती तथा ।
सरयूचन्द्रभागा व सिन्धु कावेरी गञ्डकी ॥
वैसुली कर्मनाशा च नवसङ्ख्या प्रकीर्तिताः ।
सार्धवर्षत्रयं गेहं त्यक्त्वा तीर्थं समाचरेत् ॥
एकरोमं विडालस्य भ्रंशनं कुरुते नरः ।
तत्प्रमाणं सुवर्णस्य रोमदानं करोति सः ॥
तदैव मुच्यते पापात्धनधान्यसुखं लभेत् ।
नवरात्रं जिताहारस्त्वेकान्तरव्रतं चरेत् ।
प्रायश्चित्तविधानेन पूर्वजां पदवीं लभेत् ।
नैव कुर्याद्विधानेन गर्वतो जडतान्धतः ॥
अलक्ष्मीं लभते शीघ्रं सर्वथाः नश्यते क्षणात् ।
फलाहारं च भुञ्जीयादेकान्तरव्रतेन च ॥
चान्द्रायणं शुभं प्रोक्तं पापे वैडालसम्भवे ।
व्रजेच्चाण्डालकीं योनीं प्रायश्चित्तं विना नरः ॥
प्रस्थाष्टादशमानेन सौर्वणिः प्रतिमाः नवः ।
प्रस्थद्वयप्रमाणेन वैडालस्य कलेवरं ॥
एकमेकान्तरेणैव प्रतितीर्थे समागते ।
दधिनाछादितं कृत्वा दानं दद्याद्विजातये ॥
नवतीर्थ कृताद्दानात्स्नानाच्चैवमुपोषणं ।
विडालसम्भवपापान्मुच्यते नात्र संशयः ॥
दशगुञ्जाप्रमाणैश्च घृते क्षिप्त्वाहिरण्मयम् ।
नित्यमेव कृतं दानं मोत हत्याद्विमुच्यते ॥
सार्धं च तृतीयं वर्षं व्यतीयासौगृहागमत् ।
तत्रैव दशगोदानं ग्रन्थिसञ्ज्ञाकमाचरेत् ॥
स्कन्दे —
विडालो भुञ्जितान्नंवा कच्चान्नं भक्षयेद्यदि ।
वषत्रयान्तरे जातं दुर्भिक्ष स्यान्महर्घता ॥
नरादिपशुजातीनां मृत्युलाभादिनाशनं ।
तद्दोषशमनार्थाय शान्तिदानं समाचरेत् ॥
दुर्भिक्षशमनार्थाय प्रायश्चित्तमितीरितं ।
गोधूमयवशालीकमुद्गमासमसूरिका ॥
घृततैलमितिख्यातं चतुर्द्दशमणाभिधम् ।
समन्तान्नवकं धृत्वा स्वयं मध्यस्थलेविशत् ॥
अर्धरात्रे कृतं दानं दुर्भिक्षशमनं भवेत् ।
विडालस्य वधे कर्ये जगन्नथस्वरूपकं ॥
सर्वदा पूजनार्थाय स्थापयेत्त्वच्छमन्दिरे ।
विडालस्यापराधोसौ सप्तजन्मसु दह्यते ॥
कौवेरिवैजकं शिंशुः ह्याम्रीकाष्ट चतुर्थकैः ।
कलेवरः शुभः प्रोक्तो जगन्नाथस्य सिद्धिदः ॥
एवं नन्दस्य भानोश्च कलेवरवरप्रदः ।
कुम्भेरिनिर्मिते मूर्तौ सहस्रकलयान्वितः ॥
धनधान्यसुतोत्पत्तिरिष्टसिद्धिप्रदायकः ।
वीर्जैसारसमुद्भूते तदर्ध कलयान्वितः ॥
द्रव्यार्थ कामनासिद्धिर्लोकप्राधान्यदायकः ।
शिंशुकाष्ठसमुद्भूते तदर्थ कलयान्वितः ॥
पशुवाहगवादीनां नानाभोगप्रदायकः ।
आम्रीकाष्ठमयीभूतौ भयहालोकसौख्यदः ॥
तदर्धकलयाविष्टो लक्ष्पीवन्तं जनं करोत् ।
नन्दभानुर्जगन्नाथस्तेषां मूर्त्तिप्रकीर्तिता ॥
पाषाणनिर्मितास्त्वेषां मूर्तेयो विघ्नतां ययुः ।
कदापि नैव कर्त्तव्याः पाषाणस्य स्वरूपकाः ॥
पञ्चकाष्ठेन देव्यास्तु मूर्तिः स्याच्छभदायिनी ।
श्वेतार्क वैजसारश्च कुभेर्याम्री च शिंशुपाः ॥
एतैः काष्ठैः समुद्भूताचण्डिकाप्रतिमाशुभा ।
पाषाणसम्भवा देवी सर्वदैव वरप्रदा ॥
जगन्नाथानुसारेण सहस्रकलयान्विता ।
अन्यकाष्ठसमुद्भूताः मूर्त्तयो भयदायकाः ॥
देशोपद्रवकर्त्तारो समूलोत्पाटदाऽशुभाः ।
दशावतारमूर्त्तिनां पाषाणप्रतिमाशुभा ॥
कृष्णावतारोद्भवमूर्त्तयस्ते पाषाणरूपाः शभदाः सदास्तु ।
राधादयो निर्मितधातुमूर्त्तयः पाषाणभूताः शुभदाः स्म लोके ॥
यथैव रामादिचतुः स्वरूपाः पाषाणधातुप्रचुराः शुभाः स्युः ॥
कृष्णादिषट्स्वरूपास्ते यदि स्युर्द्दारुरूपिणः ॥
षट्स्वरूपाः — श्रीकृष्णः बलदेवोऽथ गोविन्द देव उच्यते ।
मदनमोहनो नाम गोपीनाथविहारिणः ॥
इति षट्स्वरुपाः ।
वायुना नोदिता वह्निः निर्मूलं नगरं दहेत् ।
कदापि नैव तिष्ठेत ग्रामो भस्म भवो यदा ॥
दशवर्षप्रमाणेन मुखं नवाविलोकयेन् ॥ इति ब्राह्मे ॥
विघ्नस्वरूपिणं पूजा ब्रह्महत्या दिने दिने ।
अमङ्गलमृणं दुखं रोगशोकदरिद्रता ॥
विडालदोषशान्ताय स्थापये बौद्धसञ्ज्ञकं ।
कूर्मजन्मदिने प्राप्ते स्थापयेद्विधिपूर्वकं ॥
परकायाप्रवेशाख्यमन्त्रपूर्वप्रयोगकं ।
कलेवरे यदा पूर्णे मक्षिकाभ्यस्तु रक्षये ॥
मस्तके जीवसंस्कारमेकस्मिन् दिवसेऽभवत् ।
द्वितीये हृदये जातं तृतीये वाहुमूलयोः ॥
चतुर्थे जङ्घयोश्चौ पञ्चमे नेत्रनाशिके ।
षष्ठे कर्णद्वयोश्चैव सप्तमे पादमूलयोः ॥
अष्टमे पृष्टिभागं च नवमे च स्तनद्वये ।
मुखं च दशमे जातं गलमेकादशे दिने ॥
नाभिलिङ्गगुदादन्तनेत्र स्याद्वादशे दिने ।
जिह्वाकेशनखाः रोमाः स्युस्त्रयोदशवासरे ॥
सर्वाङ्गावचये पूर्णे त्रयोदश दिनान्तरे ।
कर्त्तव्यं पक्षमेकं तु प्रयोगं लक्षपञ्चकं ॥
एवं दारुमये प्रोक्ता पाषाणे धातुसञ्ज्ञिके ।
त्रिविधे मूर्त्तिसंस्कारे विधिरेका प्रकीर्तिता ॥
राजसेवाधिकारे च त्रिविधाः मूर्त्तयः स्मृताः ।
विना मन्त्रप्रयोगेन नरेषु च यथाशवः ॥
अकल्याणकराः हि स्युर्दारुपाषाणधातवः ।
भविष्योत्तरे — पूजार्थध्यानार्थशुभार्थमेव विचिन्तनार्थं गुणगोप्यसञ्ज्ञकं ।
स्वप्नार्थ्प्रमष्टौ कथिताः स्वरूपाः प्रयोगासञ्ज्ञाः भवतीह लोके ॥
शैली दारुमयी लौही लेप्या लेख्या च सैकती ।
मनोमयी मणिमयी प्रातिमाष्टांए प्रकीर्त्तिता ॥
अथ परकायाप्रवेशमन्त्रः ।
पारमेश्वरसंहितायां —
ओं ह्रीं क्लीं ज्रीं क्ष्रीं क्ष्रौं परमात्मने हूं फट् स्वाहा " इति पञ्चदशाक्षरोपरकायाप्रवेशमन्त्रः ।
अनेनमन्त्रेन प्राणायामं दशधा कुर्यात् ।
अस्य मन्त्रस्य सनकसनन्दनसनातनास्त्रयो ऋषयः परब्रह्म नारायण
परमात्मनस्त्रयो देवताः गायत्र्युष्णिग्त्रिष्टुप् छन्दांसि विश्वम्भरीकामेश्वरीनन्दजास्त्रयो शक्तय दुर्गामङ्गला
रक्तदन्तिकास्त्रयो बीजाः सूर्यवाय्य्वाश्काशास्त्रयस्तत्वानि मम शैलदारुधातुम्यस्वरूपपरकायाप्रवेशार्थे जपे
विनियोगः ।
ततः अङ्गन्यासः शिरसि सनकसनन्दनसनातनेभ्यसृषिभ्यो नमः मुखे गायत्युष्णिग्स्त्रिष्टुप्
छन्देभ्यो नमः हृदये विश्वम्भरी कामेश्वरी नन्दजाभ्यस्त्रिभ्यो शाक्तिभ्यो नमः ततो षडङ्गन्यासः ।
ओं ह्रीं अङ्गुष्ठाभ्यां
नमः ओं क्लीं तर्जनीभ्यां नमः ओं ज्रीं मध्यमाभ्यां नमः ।
ओं क्षईं अनामिकाभ्यां नमः ।
ओं क्ष्रौं
कनिष्ठकाभ्यां नमः ।
ओं परमात्मने हूं फट् स्वाहा इति करतलकरपृष्ठाभ्यां नमः ।
इति पञ्चदशाक्षराख्य
परकायाप्रवेशामन्त्रेण षडङ्गन्यासां कुर्यात् ।
एवं हृदयादिषु विन्यसेत् ।
अथ ध्यानं —
वन्दे विष्णुमनादिमीश्वरमजं नारायणं श्यामलं ।
लक्ष्मीकान्तमनन्तशूत्तैर्मनघं पीताम्बरालङ्कृतं ।
पद्माक्षं सुमनोहराङ्गवपुषं सत्वव्रतं श्रीपदं ।
सर्व-व्यापिजगन्मयं गुणनिधिं दैत्यारिं वैद्याखिलं ॥
इति ध्यात्वा — गोवालव्यजनेनैव स्वरूपे मन्त्रयोजयेत् ।
गुह्यातिगुह्यमन्त्रेण प्रविवेश हरेऽनथ ॥
शैलदारुमये मूर्त्तौ धातुरूपे कलेवरे ।
प्रसीद कृपयाविष्ट जगन्नाथ हरे प्रभो ॥
जितेन्द्रियो शुचि भूत्वा ह्युपोषणपरायणः ।
दुग्धाहारसमायुक्तो नक्तभोजनमाचरेत् ॥
इति पाषाणादारुधातुमयी त्रिविध स्वरूप प्राणप्रतिष्ठायां परकायाप्रवेश — सिद्धमन्त्रप्रयोगः अस्य
मन्त्रस्य शापो नास्ति ।
इति विडालवधापराधप्रायश्चित्ते दामोदरमन्त्रः अस्य मन्त्रस्य दुर्वासर्षिः ।
शापोनस्ति ।
तस्य मोचनप्रयोगः ।
वसिष्ठसंहितायं —
ओं अस्य श्रीदुर्वाससृषिशापमोचनमन्त्रस्य लोमहर्षण ऋषि दुर्गा देवतात्रिष्टुप् छन्दः मम दुर्वास
ऋषिशापप्रमोचने जपे विनिगोगः इति दुर्वासासृशिशापमुक्ताभवः ।
" चतुर्भिरञ्जली र्नीत्वा उत्तरम्यां दिशि
क्षिपेत् " इति दुर्वासासृषिशापमोचनः ॥
अथ वानरवधापराधप्रायश्चित्तः ।
पाद्मे पातालखण्डे —
वानरस्य वधेनैव राक्षसीयोनिमाप्नुयात् ।
मासत्रयं गृहं त्यक्त्वा गङ्गापुष्करमाचरेत् ॥
भौमवारव्रतं कुर्याद्भोजनं मिष्टसञ्ज्ञकं ।
ब्रह्मचर्यसमायुक्तः वानरद्वितयं करोत् ॥
चतुः प्रस्थ सुवर्णस्य रक्तवस्त्रेण छादितं ।
। तीर्थयोः गोप्यसञ्ज्ञकं दानं दद्यात्द्विजातये ॥
नित्यदानं करोद्यस्तु चतुर्गुञ्जाहिरण्यकं ।
प्रायश्चित्ते कृते दाने कपिहत्य द्विमुच्यते ॥
इति कपिवधापराधप्रायश्चित्ते स्नानदानप्रयोगः ।
ततो कपिवधापराधप्रायश्चित्ते राममन्त्रः —
कौशल्यानन्दनायैव रामचन्द्राय ते नमः ।
जानकीपतये तुभ्यं कपिपापविमुक्तये ॥
इति द्वात्रिंशाक्षरो राममन्त्रः ।
अनेन मन्त्रेण प्राणायाम-त्रयं कुर्यात् ।
अस्य मन्त्रस्य अगस्त्यसृषिः
रामो देवताऽनुष्टुप् छन्दः मम कपिवधापराधविमोचने प्रायश्चित्ते जपे विनियोगः ।
न्यासं पूर्ववत् ।
ध्यानं — वन्दे रामं किरीटसुन्दरदृशं सीतापतिं श्यामलं ।
श्रीवत्साङ्कमनन्तमूर्त्तिमनघं पीताम्बरालङ्कृतं ॥
विश्वेश्वरं वानरघातपापह कलानिधिं लक्ष्मणसेविताङ्घ्रिं ॥
इति ध्यात्वा — उत्तराभिमुखो भूत्वा सहस्रत्रितयं जपेत् ।
कदम्बस्य स्तले स्थित्वा गोदानं पञ्चकं ददो ॥
वानरस्य कृता हत्या त्रैवर्गफलनाशिनी ।
तदापराधमुक्तस्तु सर्वसौख्यमवाप्नुयात् ॥
स्थापयेत्प्रतिमां रामं कपिहत्याविमुक्तये ।
धातुरूपमयं विश्णुं भार्गवस्य च जन्मनि ॥
नित्य सन्दर्शनार्थाय रामं नैवोत्थयेद्यदि ।
चतुर्जन्मसु दद्येत कपिहत्या समुद्भवाः ॥
इति कपिवधापराधप्रायश्चित्ते राममन्त्रः ।
दधीच्यर्षिः शापान्वितो ऽयं मन्त्रः ।
अस्य श्रीदधीच्यषई
शापप्रमोचनस्य विश्वामित्रर्षिः भवानी देवता जगती छन्दः मम दधीच्यऋषिशापप्रमोचने जपे विनियोगः इति
दधीच्यर्षि शाप मुक्ता भवः " नवाञ्जलीः समादाय कोणमाग्नेयमुक्षिपेत् " इति दधीच्यऋषिशापमोचनः ।
अथस्यामावधापराधप्रायश्चित्ते कामेश्वरीमन्त्रः ।
वायुपुरणे —
ओं ज्रीं व्रीं क्र्षौं खं कामेश्वर्यै स्वाहा इति दशाक्षरो कामेश्वरीमन्त्रः ।
अनेन मन्त्रेण प्राणायाम
त्रयं कुर्यात् ।
अस्य मन्त्रस्यानन्दर्षिः कामेश्वरी देवता त्रिष्टुप् छन्दः मम सामावधापराधविमुक्तये प्रायश्चित्ते
जपे विनियोगः न्यासं पूर्ववत् ।
अथ ध्यानं —
कामेश्वरीं महादेवीं स्यामाहत्याविनाशिनीं ।
ध्यायेत्कामार्थदां शुक्लां जीवदोषापहारिणीं ॥
इति ध्यात्वा — इशानाभिमुखो भूत्वा चन्दनस्य च मालया ।
जपेन्मन्त्रं सहस्राख्यं स्यामाहत्याविमुच्यति ॥
गृहार्थनाशिनी हत्या नव जन्म विदाहिनी ।
भागीरथीकृते तीर्थे प्रायश्चित्तं समाचरेत् ॥
ततः श्रीकुण्डस्नानेन स्यामा हत्या विमुच्यति ।
पञ्चकर्षप्रमाणेन सौवर्णीं मूर्त्तिमाचरेत् ॥
पीतवस्त्रं परिछाद्य दद्याद्विप्राय शान्तये ।
गोदानं नवकं दत्त्वा स्यामाहत्याविमुक्तये ॥
अब्दे पूर्णे यदा जाते स्थापयेच्चण्डमर्द्दिनीं ।
देव्याः व्रतं विधानेन नक्तभोजनमाचरेत् ॥
इति स्यामावधापराधप्रायश्चित्ते कामेश्वरीमन्त्रः —
कुम्भयज्ञर्षिशापान्वितोऽयं मन्त्रः ।
ओं अस्य श्रीकुम्भयज्ञर्षिशापप्रमोचनय्य विमलार्षिः पद्मावती
देवता अनुष्टुप् छन्दः मम कुम्भयज्ञर्षिशापप्रमोचने जपे विनियोगः ।
इति कुम्भयज्ञर्षिशापमोचनः ॥
अथ सीताशिखावधापराधप्रायश्चित्तं ।
मात्स्ये —
सीता सिखावधे कार्ये गवां हत्या शताधिकं ।
समूलोत्पाटनं कुर्यात्धनधान्यसमूहकं ॥
दशवर्षं गृहं त्यक्त्वा दशतीर्थं समाचरेत् ।
सरयू गञ्डकी गङ्गा यमुना चन्द्रभागका ॥
गोदा वेत्रवती काञ्ची वेणी श्रीकुण्डमुत्तमं ।
दशकल्पलतादानं प्रतितीर्थे हिरण्मयं ॥
दानात्स्नपनमात्रेण शिखाहत्या विमुच्यति ।
नवम्यास्तु व्रतं कुर्याच्चान्द्रायणविधानतः ॥
दशाऽब्दकं व्यतीयाय स्थापयेल्लक्षणं गृहे ।
नित्यसन्दशनार्थाय शिखाहत्याविमुक्तये ॥
वर्षद्वादशकं यावन्नित्यदानं समाचरेत् ।
दशगुन्जाप्रमाणेन सुवर्णं घृतपात्रकं ॥
इति सीताशिखावधप्रायश्चित्ते दानस्नानं ।
ततः प्रायश्चित्ते लक्ष्मणमन्त्रप्रयोगः ।
वैष्णवीये —
उर्मिलापतये तुभ्यं लक्ष्मणाय नमोस्तु ते ।
सीताशिखापराधं मे निवारय प्रसीद मे ॥
इति वैष्णवमते द्वात्रिंशाक्षरो सिद्धलक्ष्मणमन्त्रः ।
अनेन मन्त्रेण प्राणायामत्रयं कुर्यात् ।
अस्य मन्त्रस्य
गृत्समदर्षिः लाक्ष्मणो देवता उष्णिक् छन्दः मम जानकीसिखावधापराधविमुक्तये प्रायश्चित्ते जपे विनियोगः ।
न्यासं पूर्ववत् ।
ध्यानं —
शेषं निरञ्जनं विष्णुं लक्ष्मणं त्रिपथस्थितं ।
भातृजायाशिखादोषसर्वपापौघनाशनं ॥ इतिध्यात्वा —
पूर्वाभिमुखमाविश्य वृक्षपर्पटिकास्तले ।
सहस्रतृतयं जप्त्वा चम्पकोद्भवमालया ॥
प्रायश्चित्तविधानेन शिखाहत्या विमुच्यति ।
इति सीताशिखावधापराधप्रायश्चित्ते लक्ष्मणमन्त्रप्रयोगः वाल्मीक्यर्षिशापान्वितोऽयं मन्त्रः ।
ओं अस्य श्री वाल्मीक्यर्षिशापप्रमोचनम्य शृङ्गर्षि पद्मा देवता कान्ति छन्दः मम वाल्मीक्यर्षिशापप्रमोचने जपे
विनियोगः ।
इति वाल्मीक्यार्षिशापमुक्ता भवः " चतुर्भिरञ्जलीः नीत्वा चतुर्द्दिक्षु विनिःक्षिपेत् ।
इति वाल्मीक्यीर्शीशापमोचनः ॥
अथ प्रतिमाविघ्नकृदपराधप्रायश्चित्तः ।
वामनपुराणे —
चतुर्विंशे च दैवत्वे ब्रह्महत्याऽव्दद्वादशे ।
स्वरूपविघ्नकृल्लोको देवहत्याविधायकः ॥
चतुविंशाब्दमानेन गृहं ग्रामं परित्यजेत् ।
राधाकुण्डविहीनानि द्वात्रिंशसङ्ख्यकानि च ॥
शततीर्थकृतात्स्नानाद्देवहत्या विमुच्यति ।
पूर्वं द्वात्रिंशद्युन्यानि कृत्वा तीर्थानि ग्रामतः ॥
ततः श्रीकुण्डमागत्य षष्ठ्याष्टतीर्थसञ्ज्ञकं ।
स्नात्वा मन्त्रविधानेन व्रजयात्रां समाचरेत् ॥
ततस्तु वन-यात्रां तु दैवहत्याविमुक्तये ।
शततीर्थे कृतं दानं शतगोदानसञ्ज्ञकं ।
दशकर्षसुवर्णं तु नित्यदानं समाचरेत् ।
अथ वनायात्रा क्रम प्रसङ्गः —
व्रजयात्रा प्रसङ्गे तु वक्ष्ययाम्यनुमानतः ।
षड्त्रिंशद् वह्निप्रमाणेन क्रोशसञ्ज्ञाऽभिधीयते ॥
चतुर्मासान्तरेणैव व्रजयात्रां समाचरेत् ।
नित्यं सार्धद्वयक्रोशं परिश्रमविवर्जितः ॥
चैत्रपूर्णं व्यतीयाय ह्यारम्भो प्रतिपद्दिनात् ।
वैशाखाच्छ्रावणं यावत् चातुर्मासप्रदक्षिणा ॥
वैशाखकृष्णपक्षस्य प्रतिपद्दिने संयुता ।
बुधवारसमायुक्ता आरम्भोऽत्र विधीयते ॥
श्रावणशुक्लपूर्णायां श्रवणार्क्षसमन्विते ।
व्रजयात्रां समाप्येतं रक्षाबन्धनमाचरेत् ॥
ऋषीणां तर्पणं कुर्यात् ब्राह्मणानपि भोजयेत् ॥१॥
व्रजयात्रा मर्यादाष्टकोणादिग्विदिक्सुप्रमाणं ।
आदिवाराहे — वनहास्यवनारभ्य पूर्वदक्षिणमध्यगे ।
एक कोणं समाख्यातं गोपानवनसञ्ज्ञिकं ॥
ततो कोणं द्वितीयं च दक्षिणपश्चिमान्तरे ।
गोमयाख्यं वनं नाम गोपानातिर्यह्नागतः ॥
पश्चिमोत्तरयोर्मध्ये त्रिकोणं कमलावनं ।
पूर्वोत्तरान्तरे जातं चतुष्कोणं हरेर्वनं ॥
व्याख्या — हास्यवनजह्नुवनयो र्द्वयोरभ्यन्तरे गोपानवनं विश्राममेककोणमाग्न्येयं ।
चतुरशीति
क्रोशपरिमितं द्वयोरभ्यन्तरतः द्विचत्वारिंशतिर्यग्भागं प्रदक्षिणाप्रमाणं जह्नुवनपर्वतवनयोद्वयोरभ्यन्तरे
गोमयाख्यं वनं द्वितीयविश्रामं नैऋतं कोणं चतुरशीतिक्रोशपरिमितं द्वयोरभ्यन्तरतः द्विचत्वारिंशतिर्यग्भागं
प्रदक्षिणाप्रमाणं पर्वतवनजह्नुवनयो द्वयोरभ्यन्तरे कमलावनं तृतीयविश्रामं वथव्यकोणं चतुरशीतिक्रोश
परिमितं द्वयोरभ्यन्तरतः द्विचत्वारिंशक्रोशतिर्यग्भागं प्रदक्षिणाप्रमाणं सुह्नवनजह्नुवनयोरभ्यन्तरे हरिवन
चतुर्थाविश्राममीशानकोणं चतुरशीति क्रोशपरिमितं द्वयोरभ्यन्तरतः द्विचत्वारिंशक्रोशतिर्यग्भागं
प्रदक्षिणा प्रमाणं इति तिर्थाग्भागप्रदक्षिणावर्त्ता व्रजमर्यादा षड्त्रिंश त्रिशतोत्तरक्रोशपरिमाणं विंशोत्तर
शतसङ्ख्याकप्रतिदिनेषु नित्यप्रत्यागममागमेषु ग्रामग्रामप्रतिप्रवासकेपु सार्धद्वयक्रोशपरिमितग्रामाभिधानेषु
बृहद्व्रजगुणोत्सवाख्ये ग्रन्थे समन्त्रमाहात्म्यं नाम्नः वक्षन्ते ॥२॥
भविष्योत्तरे —
आदौ तु व्रजयात्रा च कुर्यात्पापविमुक्तये ।
ततस्तु वन-यात्रा च कुर्यात्सर्वार्थसिद्धये ॥३॥
वन-यात्राक्रमोऽ त्रैव लिखितौ नारदेन च ।
व्रजभक्तिविलासाख्ये ग्रन्थे सुफलदायके ॥
तथैव व्रजयात्रायाः क्रमो व्रजगुणोत्सवे ।
यथैव विधिना प्रोक्ता वनानां च प्रदक्षिणा ॥
व्रजभक्तिविलासाख्ये व्रजयात्रा तथैव च ।
बृहद्व्रजगुणोत्साहे पड्विंशाख्यसहस्रके ॥४॥
वन-यात्रा क्रमं दर्शेयेत् ।
विष्णुयामले —
वन-यात्राप्रसङ्गस्तु त्रयोविंशदिनान्तरे ।
भाद्र मास्यसिते पक्षे ह्यष्टमी बुधसंयुता ॥
रोहिण्यर्क्षसमायुक्तो योगहर्षणसंयुता ।
जन्माष्टमी समाख्याता कृष्णजन्मसमुद्भवा ॥
तद्दिनै मथुरां प्राप्य कृष्णजन्मोत्सवं करोत् ।
तद्दिने वन-यात्रायाः सुखसौभाग्यवर्धनः ॥
उषित्वा मथुरायां तु रात्रौ जन्मोत्सवं चरेत् ।
अष्टमीदिवसे चैव विधिरेषा उदाहृतां ॥
प्रभातसमये प्राप्ते नवमीदिनसम्भवे ।
नन्दगोपमहोत्साहं कुर्याद्ब्राह्मणभोजनं ॥
नानाविधान्नपक्वान्नमिच्छापूर्वं समाचरेत् ।
वन-यात्राक्रमभङ्गं कदाचिन्नैव कारयेत् ॥
वन-यात्राक्रमभङ्गो जायते च कदा ननु ।
द्विगुणं ह्यपराधं स्यात् पुण्यनाशस्तु जायते ॥
उषित्वा नवमीरात्रौ प्रभाते दशमीदिने ।
प्रदाक्षिणां करोद्धीमान् मथुरायाः नवात्मिकां ॥५॥
उषित्वा दशमीरात्रौ दिने ह्येकादशीभवे ।
प्रभातसमये स्नात्वा वनं मधुवनं व्रजेत् ॥
सार्धक्रोश प्रमाणेन कुर्यात्पूर्णप्रदक्षिणां ।
मधुदानं विधानेन कांस्यागत्र द्विजातये ॥
ततस्तालवनं गत्वा पादोनक्रोशसञ्ज्ञिकां ।
प्रदक्षिणां करोद्यम्तु भूमिदानं समाचरेत् ॥
कौमदाख्यं वनं गत्वा क्रोशार्धं च प्रदक्षिणां ।
कुर्याद्व्रतोपवासेन प्रतिपागमनं चरेत् ॥
पुनर्मधुवनमेत्य फलाहारं समाचरेत् ।
एकस्मिन्दिवसे कुर्याद्वनत्रयप्रदक्षिणां ॥
एकादशीदिने भाद्रे कृष्णेऽदितिसमन्विते ।
द्वादशीदिनसम्भूते प्रभातसमये सुधीः ॥
बहुलाख्यं वनं गच्छेत्क्रोशपरिमाणतः ।
प्रदक्षिणाविधानेन कुर्याच्छाङ्गप्रदक्षिणां ॥
द्वादशीदिवसे रात्रौ उषित्वा प्राप्नुयात्सुखं ।
कन्यादानं करोद्यत्र फलमिच्छासमं लभेत् ॥
त्रयोदशीदिने जाते राधाकुण्डं व्रजेत्शुचिः ।
प्रवासं कृतवान् रात्रौ यत्र च नियतेन्द्रियः ॥६।
प्रभाते च चतुर्द्दाश्यां कुर्याद्गिरिप्रदक्षिणां ।
सप्तक्रोशप्रमाणेन लक्ष्मीवानपिजायते ॥
कृत्वा प्रदक्षिणां पूर्णां चतुर्दश्यां दिने शुभे ।
प्रवासं कृतवान्नात्रौ गिरौ गोवर्धनालये ॥
ततो भाद्रप्रदे मासि कृष्णपक्षे ह्यमादिने ।
परमन्दिरनामानं वनं गच्छेत्सुधीर्नरः ॥
एकक्रोशप्रमाणेन कुर्यात्सङ्गप्रदक्षिणां ।
प्रवासं कृतवानात्रौ राज्यं प्राप्नोति मानावः ॥
शुक्ले भाद्रपदे मासि प्रतिपद्बुधसंयुता ।
उत्तरफाल्गुणी युक्ता प्रभाते समयोद्भवे ॥
व्रजेत्काम्यवन तस्मात्कामसेनिविनिर्मितं ।
उषित्वा प्रतिपद्रात्रौ तत्र काम्ये वने शुभे ॥
भाद्रशुक्लद्वितीयायां प्रभातसमये यदि ।
वैमलाख्ये महातीर्थे स्नात्वा कुर्यात्प्रदक्षिणां ॥
सप्तक्रोशमयीं श्रेष्टामष्टाषट्तीर्थ गामिनीं ।
प्रदक्षिणां विधयात्र ब्रह्मणान्भोजयेत्सुधीः ॥
प्रवासं कृतवायात्रौ द्वितीयासम्भवे दिने ।
उषितोदितग्रामेषु रत्रौ वासं न कारयेत् ॥
परिश्रमकृतायात्रा विफलत्वं प्रजायते ॥७॥
तृतीयदिनसम्भुते प्रभाते हस्तासंयते ।
तस्माज्जगाम देवर्षे वृषभानुपुरं वनं ॥
द्विक्रोशसञ्ज्ञकां यस्य कुर्यात् साङ्गप्रदक्षिणां ।
प्रवासं कृतवायत्रे गौरीपूजा विधायिनी ॥
चतुर्थीदिवसे प्राप्ते प्रभाते त्वाष्त्रसंयुते ।
आदौ खद्रवनं गत्वा सपादक्रोशसज्ञकां ॥
कुर्यात्प्रदक्षिणां प्रीत्या नन्दग्रामं ततो व्रजेत् ।
तिर्यग्मार्गप्रमाणेन जातापूर्णप्रदक्षिणा ॥
तत्रैव नन्द्ग्रामस्य प्रदक्षिणामथ कुर्यात् ।
क्रोशद्वयप्रमाणेन परिपूर्णं वरप्रदं ॥
प्रवासं कुरुते चात्र नन्दग्रामे शुभप्रदे ।
भाद्रं विनान्यमामेषु कुर्याद्यदि प्रदक्षिणां ॥
तद्दशांशफलं तस्य जायते नात्र संशयः ।
भाद्रशुक्ले च पञ्चम्यामृषिपूजाविधायिनी ॥
गच्छेद्भद्रवनं नाम प्रभाते श्रेःयवर्धानं ।
पादोनद्वयक्रोशेन कुर्याद्भद्रप्रदक्षिणां ॥
प्रवासं कृतवानात्रौ समस्तं पञ्चमीदिने ॥८॥
भाद्रशुक्ले षु षष्ठ्यां तु ललिताजन्मसञ्ज्ञिके ।
शेषम्य शयनस्थानं लक्ष्मीनारयणस्य च ॥
गच्छेत्प्रभातकले तु पादोनद्वयक्रोशतः ।
तस्य प्रदक्ष्णिणं कुर्यात्सर्वदा सौख्यमाप्नुयात् ॥
रात्रौ च कृतवान् वासं सर्वान्तकविवर्जितः ।
भाद्रसुक्ले च सप्तम्यो व्रजेच्छत्रवनं शुभं ॥
सपादद्वयक्रोशेन कुर्यत्साङ्गप्रदक्षिणां ।
प्रवासं कुरुते रात्रौ छत्रधारी नरो भवेत् ॥
भाद्रशुक्लाष्टमीजाते व्रजेद्वृन्दावनं शुभं ।
पञ्चक्रोशप्रमाणेन कुर्यात्साङ्गप्रदक्षिणां ॥
उषित्वात्र सुखेनापि परिपूर्णसुखं लभेत् ।
एतेषां दक्षिणस्थानां वनानां च प्रदक्षिणा ॥९॥
ततस्तुत्तरदिग्स्थनां वनानां च प्रदक्षिणा ।
भाद्रशुक्लनवव्यां तु महावनवनं व्रजेत् ॥
कुर्यात्प्रदक्षिणं सङ्गां चतुः क्रोशप्रमाणतः ।
प्रवासं कृतवान्नात्रौ पदवीं महतीं लभेत् ॥
दशमीदिनसम्भूते प्रभातसमये यदि ।
बलदेवस्थलं गच्छेन्नानाभोगफलप्रदं ॥
सार्धाक्रोशद्वयेनैव प्रदक्षिणामयाचरेत् ।
रात्रौ प्रवासमाचक्रे सर्वकामानवाप्नुयात् ॥
एकादशीदिनेजाते भाद्रमासे सितोद्भवे ।
व्रजेल्लोहवनं श्रेष्ठं लोहजङ्घानसञ्ज्ञिकं ॥
सार्धक्रोशप्रमाणेन कुर्यात्साङ्गप्रदक्षिणां ।
प्रवासं कृतवान्नात्रौ निश्चलेन्द्रियसंयुतः ॥
भाद्रशुक्ले च द्वादश्यां श्रवणाक्षर्समन्विते ।
गच्छेत्ंवटं च भाण्डीरं कुर्यात्तस्यप्रदक्षिणं ॥
क्रोशद्वयप्रमाणेन वनेन च समन्वितं ।
भाण्डीरं तु नमस्कारं कुर्यात्सप्तप्रदक्षिणां ॥
ततो बिल्ववनं गच्छेदर्धक्रोशप्रमाणतः ।
प्रदक्षिणां करोत्तत्र रात्रौ वासं च कारयेत् ॥
त्रयोदशीदिने जाते शुक्ले भाद्रशुभप्रदे ।
पुनरागमनं कुर्यान्मथुरानगरेऽर्थदे ॥
ब्राह्मणान्भोजयेद्यत्र रात्रौ वासं चकार ह ।
धनधान्यसमृद्धिं च लभते नात्र संशयः ॥
भाद्रशुक्लचतुर्द्दश्यामनन्तव्रतसञ्ज्ञके ।
पुनरागमनं कुर्याद्वने काम्यवने शुभे ॥
कृत्वानन्तव्रतं श्रेष्ठं रात्रौ गच्छेद्गढं वनं ।
तत्र रासोत्सवं दृष्ट्वा रात्रौ वासं चकार ह ॥
प्रभाते पूर्णिमायां तु भाद्रशुक्ले शुभे दिने ।
दृष्ट्वा कृष्णोत्सवं पूर्णं वन-यात्रां समापयेत् ॥
समस्तचिन्तितान् कामान्प्राप्नोत्यत्र न संशयः ।
सम्पूर्णफलदा भाद्रेत्रयोविंशदिनान्तरे ॥
समस्तवन-यात्रा स्यात् तदर्धं ह्युर्जमार्गयोः ।
गोपाष्टम्यां समारभ्य मार्गशीर्षे ह्यमादिने ॥
त्रयोविंशदिनेष्वेषु वन-यात्रा समाचरेत् ।
अनेनैव क्रमेणैव भाद्रादर्धफलं भवेत् ॥
इति वन-यात्राक्रमप्रसङ्गः ॥११॥
प्रतिमाविघ्नप्रायश्चित्ते दानस्नाननिर्णयः ।
ततो प्रतिमाविघ्नकृदपराधप्रायाश्चिते विश्वम्भरमन्त्रः ।
विष्णुयामले —
विश्वम्भराय देवाय देवदोषापहारिणे ।
नमो ब्रह्मण्यदेवाय देवानां हितकारिणे ॥
इति द्वात्रिंशाक्षरो विश्वम्भरमन्त्रः ।
अनेन मात्रेण प्रणायामत्रयं कुर्यात् ।
अस्य मन्त्रस्य मैत्रावरुणार्षिः
विश्वम्भरो देवता गायत्री छन्दः मम प्रतिमाविघ्नकृदपराधविमुक्तये प्रायाश्चित्ते जपे विनियोगः ।
न्यासं पूर्ववत् ।
अथध्यानं —-
विश्वम्भर जगन्मूत्तैर् सच्चिदानन्दरूपिणं ।
स्वरूपदोषहन्तारं प्रणमामि कलामयं ॥
कदम्बनिकटे स्थित्वा जपेन्मन्त्रं सहस्रकं ।
उत्तराभिमुखो भूत्वां ब्रह्मचर्यसमन्वितः ॥
पञ्चस्वरूपविघ्नाख्यं प्रतिमां पं च वेश्मषु ।
स्थापयेत्पञ्चगोदानं ग्रन्थसञ्ज्ञाकमाचरेत् ॥
प्रायश्चित्तमितिप्रोक्तमपराधविमुक्तये ।
इति प्रतिमाविघ्नकृदपराधप्रायश्चित्ते विश्वम्भरमन्त्रप्रयोगः ।
हिरण्यगर्भशापान्वितोऽयं
मन्त्रः ।
ओं अस्य श्री हिरण्यगर्भर्षिशापप्रमोचनस्यार्चर्षिः कामो देवता पङ्क्ती छन्दः मम हिरण्यगर्भर्षिशाप
प्रमोचने जपे विनियोगः ।
इति हिरण्यगभार्षिशापमुकाभवः ।
" विंशान्जलीः समादाय कोणं वायव्यमुत्क्षिपेत् "
इति हिररायगभर्षिशापमोचनः ।
इति जपित्वा सकलांश्च दोषान्विमुक्तयेऽहं प्रवदामि शान्तिं ।
तेषां स्वरूपो नरदेवसम्भवो श्रीभट्टनारायणनामधेयः ॥
इति श्रीमद्भास्करात्मज श्रीनारायणभट्टगोस्वामि विरचिते व्रजभक्तिविलासे परमहंससंहितोदा
हरणे व्रजमाहात्म्यनिरूपणे श्यामकुण्डृष्टान्ते गवादिवधप्रायश्चित्ताभिधानाख्याने
॥ सप्तमोऽध्यायः ॥
—ओ)०(ओ—
(८)
॥ अष्टमोऽध्यायः ॥
अथ गरुडविघ्नकृदपराधप्रायश्चित्तः ।
गारुडे —
गरुडघ्नेऽपराधे च पक्षयोरुभयोरपि ।
मृत्युश्च भूयसी जाता शरीरो विघ्नतामियात् ॥
तद्दोषसमनार्थाय प्रायश्चित्तं समाचरेत् ।
मासमेकं गृहं त्यक्त्वा श्रीकुण्डे वासमाचरेत् ॥
गरुडविघ्नकृदपराधप्रायश्चित्ते सौपर्णमन्त्रः ।
बौद्धायने —
“ओं ह्रीं श्रीं स्मै सः डः सौपर्णाय स्वाहा " इत्येकादशाक्षरो सौपर्णमन्त्रः इत्यनेन मन्त्रेण प्राणायाम
त्रयं कुर्यात् अस्य मन्त्रस्य ब्रह्मर्षिः सौपर्णो देवता कात्यायनी छन्दः मम सौपर्णविघ्नकृदपराधमुक्तये
प्रायश्चित्ते जपे विनियोगः शिरसि ब्रह्मऋषये नमः मुखे कात्यायिनीछन्दसे नमः हृदये सौपर्णदेवपायै
नमः इति न्यासः ।
अथ ध्यानं —-
कुलपन्नगहं तारं गरुडं विष्णुवाहनं ।
त्वद्विघ्नकृतदोषघ्नं निवारय प्रसीद मे ॥
इति ध्यात्वा —- नईऋताभिमुखो भूत्वा जपेन्मन्त्रं सहस्रकं ।
दशप्रस्थप्रमाणेन दशघन्टान् प्रदीयते ॥
तन्दुलं त्रिमणं दत्त्वा घन्टादोषविमुक्तये ।
एवं कांस्यादिधातूनां घटयादिपात्रसम्भवाः ॥
हस्ताद्विग्नाः भवन्तीह तेषां दोषविमुक्तये ।
तन्दुलानां कृतं दानं यथा-शक्त्यानुसारतः ॥
एवं पाषाणपात्राणि हस्ताद्विघ्नानि जायते ।
तदेव पारिमाणेन दानं तन्दुलमाचरेत् ॥
पाषाणसम्भवात्पापाद्विमुक्तो जायते नरः ।
लोभाद्दानं न कुर्वीत शरीरो विघ्नतां व्रजेत् ॥
शतधा सम्भवैः रोगैरथवा क्षतपीडया ।
षण्मासपूरिता पीडा जायते नात्र संशयः ॥
इति गरुडविघ्नकृत् कांस्यादिधातुपानविघ्नकृद्वा पाषाणपात्रविघ्नकृदपराधप्रायश्चित्तदाने सौपर्ण
मन्त्रप्रयोगः ।
अस्य मन्त्रस्य शापो नास्ति ।
अथ शङ्खविघ्नकृदपराधप्रायश्चित्तः ।
पाद्मे —
शङ्ख्विघ्ने यदा जाते वाक्यहीनो नरो भवेत् ।
राङ्गेन वह्निना वापि क्षतेन कटिदंशतः ॥
जिह्वादन्तौ विनश्येत मूको दोषसमुद्भवः ।
तद्दोषशमनार्थाय शङ्खदानं समाचरेत् ॥
प्रस्थार्धापरिमाणेन रुक्मशङ्खं तु कारयेत् ।
मध्ये कर्षसुवर्णं च धृत्वा विप्राय दापयेत् ।
मासत्रयं गृहं त्यक्त्वा शोणभद्रं च गोमतीं ।
स्नात्वा शङ्खापराधात्तु मुक्तो भवति मानवः ॥
ततः शङ्खाविघ्नकृदपराधप्रायश्चित्ते पाञ्चजन्यमन्त्रः ।
अगस्त्यसंहितायां —
विघ्नदोषविमुक्ताय पाञ्चजन्थाय धीमते ।
कमलापतितोषाय नमो पापं प्रशाम्यतु ॥
इति द्वात्रिंशाक्षरो पाञ्चजन्यमन्त्रः ।
अनेन मन्त्रेण प्राणायामन्त्रयं कुर्यातस्य मन्त्रस्य नारायण्सृषिः कमल
देवता गायत्री छन्दः मम शङ्खविघ्नकृदपराधमुक्तये प्रायश्चित्ते जपे विनियोगः न्यासं पूर्ववत् ।
अथ ध्यानं
ध्यायेत्क्षीरसमुद्रसम्भवमयं शङ्खं हरेर्वल्लभं ।
विघ्नं पापप्रणाशनं कलिमलापघ्नं सुभद्राप्रियं ॥
सर्व-व्याधिविनाशनं सुखकरं सर्वार्थकामप्रदं ।
माङ्गल्यं शुभवर्धनं हरिगुणालङ्कारभूषोज्वलं ॥
इति स्वरुपं ध्यात्वा —
द्विसहस्रमिदं जप्त्वा भास्कराभिमुखेनिशन् ।
द्वितयं ग्रन्थिसञ्ज्ञाकं गोदानं च द्विजातये ॥
लक्ष्मीनारायणस्थाने जपेन्मन्त्रं सुधीर्नरः ।
शङ्खविघ्नकृतात्पापान्मुच्यते नात्र संशयः ॥
इति शङ्खविघ्नकृदपराधप्रायश्चित्ते पुण्डरीकाक्षमन्त्रप्रयोगः ।
अस्य मन्त्रस्य शापो नास्ति ।
अथ हरिद्वृक्षसमूलोत्पाटप्रायश्चित्ते पुण्डरीकाक्षमन्त्रः ।
वाधूलसांहितायां —
पुण्डरीकविशालाक्ष वृक्षपापप्रणाशक ।
कमलापतयं तुभ्यं प्रणमामि प्रसीद मे ।
इति वृक्षहत्याप्रायश्चिते पुण्डरीकाक्षमन्त्रः ।
अनेन मन्त्रेन प्राणायामत्रयं कुर्यात् ।
अस्य मन्त्रस्याथ
वर्णर्षिः पुण्डरीकक्षो देवता स्त्रिष्तुप् छन्दः मम हरिद्वृक्षसमूलोत्पाटापराधविमोचने प्रायश्चित्ते जपे विनि
योगः ।
न्यासं पूर्ववत् ।
ध्यानं —
पुण्डरीकं विशालाक्षं वन्दे नारायां प्रभुं ।
समस्तवृक्षपापघ्नं रमाकान्तमजं हरिं ॥
इति ध्यात्वा — त्रिसहस्रमिदं जप्त्वा पूर्वाभिमुखतां विशन् ।
वटस्तले विधानेन मन्त्रं जप्त्वा सुदीर्नरः ॥
मासमेकं गृहं त्यक्त्वा प्रायश्चित्तं समाचरेत् ।
कूःदान करोद्यस्तु वृक्षहत्याद्विमुच्यते ॥
कृष्णलीलोद्भवान तीर्थान् व्रजमण्डलशोभितान् ।
तेषां स्नपनमान्त्रेण वृक्षहत्या विमुच्यते ॥
गोदानग्रन्थिमञ्ज्ञकान् द्विजेभ्यो दानमाचरेत् ।
हस्त्यश्वरथदानं च वटाश्वत्थकदम्बके ॥
त्रिवृक्षघ्ने त्रयं दानं सर्वद्रव्यार्थसंयुतं ।
प्रायश्चित्तं विना लोको समूलं च विनश्यति ॥
सहस्रपरिमणेन धामांसं दन्तधावनं द्विजेभ्यो नित्यदानं स्याद्वृक्षहत्या विमुच्यति ॥
इति समूलहरिद्वृक्षोत्पाटापराधप्रायश्चित्ते पुण्डरीकाक्षमन्त्रप्रयोगः ।
अथ प्रसङ्गात् ग्रामभूमिगृहादिवस्तुद्रव्यादिहरणप्रायश्चित्तः ।
धर्मप्रदीपे —
वलान्मोहाच्च विद्वेषाद्ग्रामभूमिं समाददे ।
अथवा गृहवस्तूनि द्रव्यादीनर्थसञ्चयान् ।
नारीभोजनपात्रांश्च लोभादाहरते नरः ।
तस्यैव जायते दोषस्ताड्र्शं फलमीक्षयेत् ॥
छलेनाहरते द्रव्यं धान्यादेवस्तुसन्चयान् ।
मासद्वयान्तरे शीघ्रं फलमाप्नोति मानवः ॥
मिथ्यापरात्मनश्चैव कल्पनं कारयेत्क्वचित् ।
दिनत्रयान्तरे दोषस्तादृशं फलमाप्नुयात् ॥
द्विगुणं त्रिगुणं हानिरेकादशगुणाभिधा ।
स्थानभ्रष्टं करोद्यस्तु त्रिलोकेष्विजयी भवेत् ॥
यत्र यत्र ब्रजन् लोके तत्र तत्रापमानता ।
एतेषां दोपशान्ताय प्रायश्चित्तं समाचरेत् ॥
वन-यात्रां करोद्यस्तु व्रजतीर्थान्समाचरेत् ।
वर्षमेकं गृहं त्यक्त्वा श्रीकुण्डे वारनमाचरेत् ॥
ग्रामदानं करोद्यस्तु ग्रामपापो विनश्यति ।
भूमीदानं करोद्धीमान् भूमिदोषप्रशान्तये ॥
गृहदानं करोद्यस्तु गृहदोषादिशान्तये ।
एतेषां दोषशीताय प्रायश्चित्ते पुरुषोत्तममन्त्रः ।
विष्णुयामले —
“ओं क्ष्रां क्षीं क्लीं सौ पुरुषोत्तमाय स्वाहा” इति मन्त्रः अनेन मन्त्रेण प्राणायामत्रयं कुर्यात् ।
अस्य मन्त्रस्य कश्यपर्षिः पुरुषौत्तमो देवताष्टीछन्दः ।
मम ग्रामभूमिगृहादिसर्व-वस्तु द्रवाप्तिहरणपग्द्रोहादिदोष
परिहारार्थं प्रायश्चित्ते जपे विनियोगः ।
न्यासं पूर्ववत् ।
अथ ध्यानं —
सर्वपापहरं देवं पुण्यं श्री पुयषोत्तमं ।
कलाधरं कलाकान्तं प्रणमामि परेश्वरं ॥
इति ध्यात्वा — ईशानाभिमुखो भूत्वा द्विसहस्रमिदं जपेत् ।
दशगोदानसञ्ज्ञाकं ग्रन्थिसंयुक्तशोभनं ॥
पलमाणसुवर्णं च नित्यदानं समाचरेन्त् ।
एकान्तरव्रतं कुर्यन्नक्तभोजनमाचरेत् ॥
इति गृहादिदोशप्रायश्चित्ते पुरुषोत्तममन्त्रप्रयोगः ।
अस्य मन्त्रस्य शापो नास्ति ।
अथ राक्षसाज्ञातसुतशिवासुनादिघातापराधप्रायश्चित्तः ।
भविष्योत्तरे —
अज्ञात बालजीवं च हन्यतेऽशुभरूपिणं ।
कुलघ्नी जायते हत्या मृतवत्सं करोन्नरः ॥
तद्दोषशमनार्थाय प्रायश्चित्तं समाचरेत् ।
त्रिवेण्यां क्रियते स्नानं श्रीकुण्डे वासमाचरेत् ॥
सार्धवर्षद्वयं गेहं त्यक्त्वा चान्द्रायणं चरेत् ॥
ततो ऽज्ञानशिवाबालवधापराधप्रायश्चित्ते नरकान्तकमन्त्रः ।
गोमिलसंहितायां —-
ओं नरकान्तस्वरूपाय विष्णवेऽनन्तरूपिणे ।
अज्ञातवालपापघ्ने नमस्ते कमलासन ॥
इति मन्त्रः ।
अनेन मन्त्रेण प्राणायामत्रयं कुर्यात् ।
अस्य मन्त्रस्य सप्तर्षिः नरकान्तकस्वरूपो देवता अनुष्टुप्
छन्दः ।
ममाज्ञातजीववालापराधविमुक्तये प्रायश्चित्ते जपे विनियोगः न्यासं पूर्ववत् ।
अथ ध्यानं —- भौमादिनररूपाणां कुलघ्नं देवसेवितं ।
भजेऽहं नरकान्तं तं जीवदोषादिनाशनम् ॥
इति ध्यात्वा — उत्तराभिमुखो भूत्वा सहस्रत्रितयं जपेत् ।
बिल्ववृक्षस्तले स्थित्वा गोदानं पञ्चकददौ ॥
पञ्चकर्ष सुवर्णस्य स्वरूपं जीववाचकं ।
आच्छाद्य पीतवस्त्रेण गुप्तदानं समाचरेत् ॥
मुक्तो जीववधाद्दोषान् शिवारक्षकुलोद्भवः ॥ अस्य मन्त्रस्य शापोनास्ति
अथ नीलकण्ठवधप्रायश्चित्तः ।
गौरीरहस्ये —
नीलकण्ठवधं कुर्यात् हत्या ह्यजयवर्धिनी ।
सर्वदा जयहीनं च सर्वमाङ्गल्यवर्जितं ॥
सप्तमासान्तरे लोको कुरुते नात्रसंशयः ।
प्रायश्चित्तं बिना लोको मृत्युर्वर्षमेकान्तरे ॥ इति निषेषः -
ततो प्रायाश्चित्ते विश्वरूपमन्त्रः ।
त्रैलोक्यसन्मोहनतन्त्रे —
ओं विश्वरूपाय देवाय नीलकण्ठापराधह ।
विश्वराट् रूपिणेतुभ्यं नमामि प्रलयान्तक ॥
अनेन प्रा० त्र० अस्य मन्त्रस्य विभाण्डकार्षि विश्वरूपो देवता अनुष्टुप् छन्दः मम नीलकण्ठवधापराधविमो
चने प्रायश्चित्ते ज० वि० न्यासं ।
पूर्ववत् ।
अथ ध्यानं —-
विश्वरूप निराकारं निरञ्जनमजं ह्रिम्। प्रलयान्तकरं देवं प्रणमामि कलानिधम् ॥
इति ध्यात्वा — पूर्वभिमुखमाविश्य सहस्राख्यमिदं जपेत् ।
ग्रन्थसङ्ख्यकरोदानं चतुर्थां दानमाचरेत् ॥
सार्धमाद्वय त्यक्वा श्रीकुण्डमावसेच्छुधीः ।
नीलकण्ठे कृतं दानं सामग्रीभिः समन्वितं ॥
पञ्चकर्षसुवर्णस्य नीलकण्ठम्स्वरूपकं ।
नीलकण्ठवधोषापान्मुच्यते नात्र संशयः ॥
गुञ्जाचतुःप्रमाणेन स्वर्णं नित्यं प्रदापयेत् ॥ इति अस्य मन्त्रस्य शापोनास्ति —
अथ मयूरवधापराधप्रायश्चित्तः ।
स्कान्दे —
मयूरस्य कृता हत्या समूलगृहनाशनं ।
तद्दोषशमनार्थाय गङ्गावेत्रवतीञ्चरेत् ॥
मासत्रयं गृहं त्यक्त्वा श्रीकुण्डवासमाचरेत् ।
मयूरत्रितयं कृत्वा प्रस्थमानसुवर्णतः ॥
दश मुक्ताकृता माला त्रिमालात्रिंशसङ्खया ।
मयूराणां त्रयाणाइव कष्ठेषु मालिकान् क्षिपेत् ॥
पीतरक्तहरिद्वस्त्रै राच्छाद्य पटसम्भवैः ।
त्रिषु तीर्थेसु दानाणि गुप्तसञ्ज्ञानि यानि च ॥
मुक्तात्रयप्रवन्धेन नित्यदानं समाचरेत् ।
प्रायश्चित्तं विना हत्या कदाचिन्नैव मुञ्चति ॥
निर्णयतरङ्गे —-
हत्या केषां च जीवानां कदाचिन्नैव मुञ्चाते ।
विना कन्याविवाहेन द्वारमार्गप्रवेशतः ॥
कन्योद्वाहं विना गेहो सदा हत्यासमाकुलः ।
सदा कपाटवद्धस्तु मध्ये हत्या च क्रीडति ॥
देवपित्रर्चनादिभ्यो वैमुख्यो जायते ग्रहः ।
विना कुलोद्भवा कन्या गोत्रान्यकुलसम्भवाः ॥
तस्या वैवाहिकं यज्ञां स्वगृहे कुरुते यदि ।
नैव मुच्येत्तदाहत्या कृत निष्फलता व्रजेत् ॥
स्वगोत्रकुलसम्भूत कन्य्द्वाहं गृहऽङ्करोत् ।
तदैव मुच्यते हत्या द्वारागमनसम्भवः ॥
यावद्द्वारप्रबन्धस्तु तावत्कन्याकुलेऽभवत् ।
तस्यावैवाहिकं कुर्यात् निःप्रबन्धो भवेत्तदा ॥
विना कन्याद्भवोद्वोहे विप्रो लोभसमन्वितः ।
भोजनं क्रियमाणस्तु गेहे हत्यान्वितस्य च ॥
षण्मासाभ्यन्तरे मृत्युमाप्नोत्यत्र न संशयः ।
भोजनं क्रियमाणस्य हत्यायां ब्रह्मणस्य च ॥
प्रतीपं जायते हत्या द्वितीयां ब्राह्मणस्य च ।
राजाज्ञा परिमाणेन पञ्चानामाज्ञयापि वा ॥
हत्या विमुच्यते तस्माद्दशांश फलभागिनी ।
ततो मयूरवधापराधेऽनन्तमन्त्रः ।
शौनकीये —-
नमस्त्वनन्तदेवाय शिखायाः पापहारिणे ।
त्रैलोक्यजगदानन्दहेतवे ब्रह्ममूर्तये ॥
इति अ० प्रा० त्र० अस्य मन्त्रस्यापस्तम्भषिरनन्तो देवता — अक्षरा पङ्क्त्वि छन्दः ।
मम मयूरवधापराधविमोचने
प्रायश्चित्ते ज० वि० न्या० पू० ।
अथ ध्यान —
अनन्तं सर्वपापघ्न शङ्खचक्रगदाधरं ।
त्रैलोक्यमोहनं देवं नीलेन्दीवरलोचनं ॥
इति ध्यात्वा —- पूर्वाभिमुखमाविश्य जपेन्मन्त्रं शतत्रयं ।
नाभिमात्रे जले स्थित्वा प्रायश्चित्तमिदं चरेत् ॥
गोदानं ग्रन्थिसङ्ख्याकं दानं दद्याद्विजातये ।
मयूरवधपापस्य मुक्तये च तृतीयकं ॥
नक्तं व्रतं करोद्धीमान् शिखिहत्याद्विमुच्यते ॥
अथ चात्रगवधापराधप्रायश्चित्तः ।
विष्णुधर्मोत्तरे —
चात्रगस्य वध कार्ये हत्यास्यात् क्षुत्प्रपीडिनी ।
सदारोगसमायुक्ता प्रायश्चित्तं विनाशुभा ॥
एकं मासं गृहं त्यक्त्वा गङ्गां स्नात्वा विधानतः ।
कुर्यच्चात्रगदानञ्व हिरण्यं ह्यर्धप्रस्थकं ॥
गुप्तदानमितीस्यातं चात्रग पापशान्तये ।
ततश्चात्रगवधापराधप्रायश्चित्ते मुकुन्दमन्त्रः —-
“ओं ह्रां क्लीं ज्रीं क्ष्रौं मुकुन्दाय स्वाहा” अनेन म० प्रा० त्र० अस्य मन्त्रस्य विभाण्डकर्षिमुकुन्दो
देवता त्रिष्टुप् छन्दः ।
मम चात्रगवधापराधविमुक्तये प्रायश्चित्ते ज० वि० न्या० पू० ।
अथ ध्यानं —- ध्यायेद्देवं मुकुन्दाख्यं यशोदानन्दनं हरिं ।
बालक्रीडासुखसीनं चात्रग्द्दोषनिवाराणं ॥
इति ध्यात्वा — वायव्याभिमुखो भूत्वा ह्याम्रवृक्षस्तले विशन् ।
जपेन्मन्त्रं सहस्राख्यं सन्नियम्येजितेन्द्रियः ॥
चात्रग् हत्याद्विमुक्तस्तु सुखसौभाग्यमाप्नुयात् ।
एवं शुकसारिकापिकचमेनिकावकचिडीपण्डू प्रभृतयः ।
एतेपाञ्चव जीवानां प्रयोगोयमुदाहृतः ।
तथापि सर्वजन्तूनां वधपापविमुक्तये ॥
प्रयोगविधिराख्याता प्रायश्चित्तानुसारतः ॥
इति चात्रगादिजन्तूनां वधापराधप्रायश्चिते मुकुन्दमन्त्रप्रयोगः ॥
अथगर्दभोष्त्राजैडकवधपराधप्रायश्चित्तः ।
बृहत्पाराशरे —
गङ्गादि पञ्चतीर्थानि कालिन्दी यमुना नदी ।
कर्मनाशा च वेत्रा च स्नानाद्धत्या विमुच्यते ॥
चतुर्णां गर्दभादीनां चतुर्धातुस्वरूपिणं ।
पित्तालिस्ताम्रलोहाढ्याः निर्मिताः मणसङ्ख्यया ॥
पीतरक्तासितस्वेतैर्वस्त्रेराच्छादयेत्क्रमात् ।
चणमाषतिलाजिका चतुर्धाष्टमणाः स्मृताः ॥
दद्याद्विप्राय दानं हि हत्यामुक्तो भवेन्नरः ।
एतेषाभपराधप्रायश्चित्ते मुररिमन्त्रः —-
मुरान्तकाय देवाय वासुदेवाय धीमते ।
तीर्त्युष्त्रगर्दभोच्छेदपापघ्नाय नमोस्तु ते ॥
अनेन मत्रेण प्रा० त्र० अस्य मन्त्रस्य वैमलर्षिमुरारिदेवता ज्योतिः छन्दः मम पं च प्रकारजीवगर्दभ
तिर्त्युष्त्रछागमेषवधापराधमोचने प्रायश्चित्ते ज० न्या० पू० ।
अथ ध्यानं —
शङ्ख चक्र गदा पद्मैः शोभितं मुरमर्द्दानं ।
ध्यायेद्देवं रमाकान्तं पञ्चपापापहारिणं ॥
इति ध्यात्वा — जलाशयेऽश्वत्थवृक्षे तले स्थित्वा जपेत्सुधीः ।
द्विसहस्रमिदं मन्त्रमुत्तराभिमुखोविशन् ॥
गोदानं तृतयं दद्यात् वृषग्रन्थिसमन्वितं ।
पञ्चहत्यापराधात्तु मुक्तो भवति मानवः ॥
अथ परद्रोहादिवैवाहादिकमाङ्गल्ययज्ञविध्वसनादि ताम्बूलादिफलाहरणमित्थ्यात्मकल्पापराध
प्रायश्चित्ते याज्ञपुरुषमन्त्रः ।
योगयाज्ञवल्के — ह्रीं क्लीं क्षं ह्वैं यज्ञपुरुषाय विष्णवे नमः स्वाहा इति
अनेन मन्त्रेण प्रा० त्र० अस्या मन्त्रस्य साकलर्षि र्यज्ञपुरुषो देवता बृहती छन्दः ।
मम परद्रोहादिवैवाहिक
माङ्गल्य्प्रयज्ञविध्वसनादिताम्बूलफलहरणमिथ्यात्मकल्पापराधविमोचने ज० वि० न्या० पू० शिरसि
साकलर्षये नमः ।
मुखे बृहतीछन्दसे नमः ।
हृदये यज्ञपुरुषाय देवतायै नमः इति न्यासः ।
अथ ध्यानं
विवाहयज्ञादिकदोषसम्भवपापघ्नमीशं कमलायताक्षं ।
वन्दे कृपासिन्धुमनन्तरूपं नारायणं यज्ञपुरापुरुषं ॥
इति ध्यात्वा —- लक्ष्मीनारायणस्थने द्विसहस्रमिदं जपेत् ।
पूर्वाभिमुखमाविश्य यज्ञपापाद्विमुच्यते ॥
गोदानं ग्रन्थिसञ्ज्ञाकं गङ्गादिषु त्रयोदशं ।
कन्यादानं करोत्तर्हि यज्ञहत्या विमुच्यति ॥
आप्रायश्चित्तं विना पापाः मुक्तिमायान्ति केशव ।
यज्ञविध्वंसनातापाः सप्त जन्म प्रपीडिताः ।
इतीव पापाः कथिताः प्रशस्ता प्रायश्चित्ताः जीवविधातसम्भवाः ।
विवाहयज्ञादिकभ्रंशनोद्भवाः परात्मद्रोहादिकशान्तये शुभाः ॥
वने काम्यवने तीर्थे तेषां मध्ये महत्स्थलं ।
श्यामकुण्ड समाख्यातं तद्दृष्टान्तमितीरितम् ॥
इति श्रीभास्करात्मज श्रीनारायणभट्टगोस्वामीविरचिते व्रजभक्तिविलासे परमहंससंहितोदाहरणे
व्रजमाहत्म्यनिरूपणे श्यामकुण्डदृष्टान्ते नानाप्रकार पार्षदादिविघ्नप्रायश्चित्ताभिधायने
अष्टमोऽध्यायः
—ओ)०(ओ—
(९)
॥ नवमोऽध्यायः ॥
अथातः सम्प्रवक्षामि तीर्थाः काम्यवनोद्भवाः ।
गोमहत्यादयो कुण्डास्तेषां मन्त्रमुदाहरेत् ॥
महात्म्यं दर्शये तादृक्फलमेतत्प्रकीतयेत् ।
ततः काम्यवने गोमतीकुण्डस्नानाचमप्रार्थनमन्त्रः ।
आदिवाराहे —
धेनुकृत्तीर्थराजाय सर्वदा पुष्टिवर्धन ।
जयवाल्यप्रदस्तीर्थ सर्व वाधां निवारय ॥
इति मन्त्रं समुच्चार्य नवभिर्मज्जनाचमैः ।
यत्र तीर्थे कृतं दानं धेनु सोपस्करैयुतं ॥१॥
धेनुदाननिर्णयः ।
गौडनिबन्धे —
सीपस्करयुतां धेनुं दद्यादानं द्विजातये ।
कृतकृत्यो भवेत्लोको वैष्णवीपदवीं लभेत् ॥
जीवन् यावन्नृलोकेस्मिनैश्चर्यपदवीं लभेत् ।
नानाद्रव्यधनैर्धान्यैर्वस्त्रालङ्करणादिभिः ॥
वईवाहादिकमाङ्गल्यैरिच्छापूर्वं सुखं लभेत् ।
सोपस्करं विना धेनुं दद्याद्विप्राय तुष्टये ॥
वस्त्रालङ्कारभूषादिपात्रं धान्यादिभिः क्रमात् ।
दुःखितो वहुदारिद्र्यं सदा सम्पीड्यते नरः ॥
द्वाभ्यां दानं तु विप्राभ्यामेकधेनोश्च कारयेत् ।
धेनुशापात्कृता ह्याशाखण्डत्वं च प्रजायते ॥
यत्र यत्रेच्छितं कामं तत्र तत्रैव नश्यतु ।
यतो धेन्वैकदानं हि एक स्मै तु प्रदापयेत् ॥
इच्छया सादृशं कामं परिपूर्णं तु जायते ।
विभागं तु कदा नैव कारयेच्च सुधीर्नर्ः ॥
निष्कं द्रव्यसमुद्भूतं विप्रेभ्यो दानमाचरेत् ।
तत्रैव नैव दोषः स्यात्सहस्रगुणितं फलं ॥
कन्यादानं यथा पुण्यं गोदानं च तथा फलं ।
सर्वालङ्कारसंयुक्तां कन्यां रूपगुणान्वितां ॥
वामनपुराणे —-
तदा तस्यैव दानं तु कुर्यान्मोक्षाय दम्पती ।
तान्येव भूषणादीनि जामात्त्रेस्तु समपयेत् ॥
कन्यादानकृतात्पश्चाद्धेनुदानं समाचरेत् ।
धेनुदानं विना कन्यादानं साङ्गं न जायते ॥
कन्योद्वाहे च जामातु र्भूषणान् धारयेत्प्रिया ।
गौरीमूर्त्ति गले न्यस्य मुक्तास्यामाक्षमालकां ॥
तदा कन्या प्रिया जाता लक्ष्मीसौभाग्यवर्धिनी ।
गौर्यादिभूषणैर्हीनं कन्योद्वाह यदा भवेत् ॥
सा प्रिया विभवा जाता ह्येकवर्षदिनान्तरे ।
विनोत्साहं विवाहादीन्माङ्गल्यान् कारयेत् क्वचित् ॥
सर्वदाऽमङ्गलान्येव जायन्ते सर्वदा चिरं ।
तस्य गेहे करोद्वासं शोको मृत्युसमुद्भवः ॥
गीतमाङ्गल्यहीनेन वैवाहादीन् शुभान् चरेत् ।
अमाङ्गलं गृहे तस्य सर्वदैव प्रजायते ॥
कन्योद्वाहे द्रव्यदाननिषेधः ।
स्कान्दे —
नग्नकन्याकृतं दानं सदा नग्नत्वसम्प्रदं ।
मातृपित्रौ सदा दुःखौ वस्त्रधान्यादिभिर्विना ॥
यदि वा लोभमोहेन कन्यादत्तं समाददे ।
सर्वदा दुःखदारिद्रैः कदा तृप्तिं न गच्छति ॥
क्षुतृट् प्रपीडितो नित्यमपमानसदान्वितः ।
बहुधा ऋणसम्पूर्णो यत्रस्थो त्रिनिरदरः ॥
कन्यार्थमागतं द्रव्यं चिन्तितं वापि याचितं ।
न तदर्थं करोद्यस्तु ह्यन्यकार्ये समापयेत् ॥
समूलं नश्यते कार्यो हानिः स्याद्द्विगुणाभिधा ।
कन्यार्थ देवार्थ द्विजार्थामेव गवार्थ तीर्थार्थगृहार्थद्रव्यं ।
विचिन्तयित्वा नहि दातुमिच्छन्समूलनाशं द्विगुणान्यहानिः ॥
कौर्म्ये —- एतद्देवालयं स्थानं गेहं तीर्थं समलकं ।
कुलनाशं यदा हि स्यात्तमेव पुनरुद्धरेत् ॥
तस्यैव जायते पुण्यं सहस्रगुणितं फलं ।
प्रतिवासरसम्भूता कुलवृद्धिः प्रजायते ॥
अखण्डपदवीं लब्ध्वा सराजा धार्मिको भवेत् ।
जीर्णोद्धारं प्रकुर्वन्ति पुस्तकादिस्थलेषु च ॥
असङ्ख्या फलदं पुण्यं वैकुण्ठपदमाप्नुयात् ।
आविर्भावं करोत्स्थानमुछिन्नं गोप्यसञ्ज्ञकं ॥
प्रतापस्तुत्कुले वृद्धो सहस्रगुणितोऽभिधः ।
हेमाद्रौ —- लब्धद्रव्यादिधान्येभ्यो दृशांशं दानमाचरेत् ।
वस्त्रालङ्कारधान्यादि गोपश्वादिसमागमे ॥
दशांशभागतः कुर्याद्दानं दशगुणप्रदं ।
वालकौमारपौगण्डबलदेवादिमूर्त्तिषु ॥
उपायनं यदा जातं तद्दशांशस्तु दक्षिणा ।
उपायनप्रमाणेन दशांशं दानमाचरेत् ॥
लोभान्नैव दशांशस्य दानं यदि न कारयेत् ।
तत्समूलं विनश्यन्तु प्रतिमाविघ्नतामियात् ॥
द्विगुणं जायते हानिः प्रायश्चित्तं विना यदा ।
यथैव शतविप्राणां भोजनादीन्समाचरेत् ॥
एको वैमुख्यतां जातस्तस्य शापात्तु निष्फलाः ।
शतगोपानमाचक्रे ह्येका स्याच्च तृषार्द्दिता ॥
तस्यास्तु निष्फलाः जाताः शापाच्छेतप्रपूरणाः ।
एवं राजादिलोकाश्च प्राप्तद्रव्यादिमध्यतः ॥
दशांशं कुरुते दानं सहस्रगुणितं भवेत् ।
लोभान्नैव कृतं दानं समूलं नाशमाप्नुयात् ॥
विप्राणामपमानेन यज्ञो विध्वसतां नयेत् ।
अपराधकृतो विप्रो शूद्र द्वेषप्रचारकः ॥
कुलपूज्यो पितृपूज्यो द्रौहित्रस्तीर्थपूजकः ।
श्रयमाने च तस्यैव नैव दोषः प्रजायते ॥
मुक्तादिभूषणादाने विप्रेभ्यो दक्षिणां ददौ ।
सहसरगुणिता वृद्धिर्जायते च दिने दिने ॥
इमां शान्तिं न कुर्वन्ति समुलं नाशमाप्नुयात् ।
शरीरव्याधिभिर्गेहे हानिश्च विपुला भवेत् ॥
इति लाभादिके दशांशदाननिषेधः ॥
नारायणस्वरूपेषु बलदेवादिमूर्त्तिषु ।
सहस्रगुणितं जातमुपायनमिति स्मृतं ॥
पद्मे —- शङ्खरुकामयं कृत्वा प्रस्थमात्रं मनोहरं ।
कमलापतये कान्तमर्पयेत्कामनान्वितः ॥
सर्वदा विजयी भयाननैव तिष्टन्ति वैरिणः ।
घन्टां च विष्णवे दद्यात्सदा माङ्गल्यमाप्नुयात् ॥
आरात्तिं हरये दद्यात्काञ्चनीं परिपूर्णकां ।
त्रैलोक्यसुखसम्पत्त्या धनधन्यादिसम्पदा ॥
संयुता वसते लक्ष्मी तस्य गेहे पतिव्रता ।
विनारार्त्तिंस्थितामूर्त्तिस्त्रैलोक्यसुखनाशिनी ॥
घटी समर्पणे तस्य सर्वदा जयामङ्गलं ।
रुक्मस्नानमयं पत्रं ह्यर्पयेत् विष्णवेऽखिलं ॥
सहस्रगुणितं सौख्यं पात्रान्तरगृहे लभेत् ।
ताम्रपित्तलिपात्रेषु सामान्यफलमाप्नुयात् ॥
रुक्मे पानमये पात्रे हरेः सौख्यं करोति यः ।
तत्सुखं लभते शीघ्रं चिरायुःसुखमाप्नुयात् ॥
छत्रं स्वर्णमयं धृत्वा कमलापतये शुभं ।
तस्माल्लक्षगुणं छत्रं धारयेत्स्वयमुच्छ्रितं ॥
त्रैलोक्याधिपतिर्भूत्वा छत्रधारी नरो भवेत् ।
अपायेद्रुक्मछत्रं तु सहस्रगुणितं लभेत् ॥
छत्रधारी भवेद्राजा समस्तपृथिवीतले ।
अखण्डं कुरुते राज्यं नैव तिष्ठान्ति कञ्टकाः ॥
अन्यैर्नानाविधैर्वस्त्रैर्भूषणैर्वहुपार्षदैः ।
वहुधा कारयेत्सौख्यं हरये मुर्त्तिरूपिणे ॥
सदा लक्षगुणैः सौख्यं प्राप्नुयात्पृथिवीतले ।
रुक्मस्वर्णमःईं कृत्वा विष्णवेऽर्थचतुष्पथीं ॥
समर्पणं करोद्धीमान् सर्वदा विजयी भवेत् ।
राजद्वारे च सङ्ग्रामे शत्रुपक्षविमर्द्दकः ॥
अजयं नैव पश्यति कदाचिद्वहुसङ्कटे ।
यत्त्स्वरुपेषु नैवस्ति मनोल्लासमयी पथी ॥
वालकौमारपौगण्डेष्वेषु सौख्यविवर्ध्नी ।
उक्षसीना सदामूर्त्ति र्वसते ह्चयप्रदा ॥
एवं मन्त्रमयीं कृत्वा विष्णवे च समर्पयेत् ।
राज्यवश्यकृतो लोको राज्यं निष्कन्टकं करोत् ॥
सुबुद्धिर्जायते नित्यं मन्त्रविद्याविशारदः ।
यन्मन्दिरे सुबुधीत्स्तु जायते नात्र संशयः ॥
कुबुद्धेस्तु भावेन्नाशो सदा सौबुद्धिवर्धनः ।
पूजाविधानं कृष्णस्य कुर्याच्च विधिवन्नरः ॥
समयतीनरूपणं —— कृष्णार्चनचन्द्रिकायां ——
विना चतुष्पथीं पूजोत्थापनं तु हरेश्चरेत् ।
वहु क्रोधमयो विष्णुः शपतेऽजयवर्धनः ॥
विष्णुधर्मोत्तरे —-
वीष्णुशापत्प्रजायते कुबुद्धिस्तु दारिद्रता ।
ऋणापमानव्यात्धिश्च वहुक्लेशसदान्वितः ॥
विनः दर्शनकालेन हरेरीक्षणमाचरेत् ।
निष्कला जायते मूर्त्तिः स्थानभ्रष्टं चकार ह ॥
पारिवारक्षयं जातं मिथ्याद्रोहकलङ्कता ।
ब्रह्महत्या फलं लब्ध्वा ह्यलक्ष्मीं भजते सदा ॥
तद्दोषशमनार्थाय प्रायश्चित्तं समाचरेत् ।
तदैव सकलामूर्त्तिर्जायते शुभवर्धिनी ॥
विष्णोश्च मन्दिरे दीपौ ज्योतिषौ दक्षिणोत्तरः ।
चतुर्द्दिक्षु भवेज्ज्योतिस्त्रैलोक्यजयमङ्गला ॥
एक दीपं स्थितं तत्र द्वि दिशोजयमङ्गलं ।
द्विदिशोऽन्धकारस्तु सर्वदा ह्यशुभं भयं ॥
एकपक्षे भवेल्लक्ष्मीरेकपक्षे दरिद्रता ।
वामदक्षिणयोर्भार्गे विष्णोरग्रे वरप्रदौ ॥
एकदीपं करोद्यस्तु नेत्रहीनो नरो भवेत् ।
यस्मात्कदा न कर्त्तव्यमेकदीपं सुरालये ॥
चामरं केशवायैव स्वर्णरौप्यविनिर्मितं ।
अपर्येन्मनसेछाभिः पारिपूर्णसुखं लभेत् ॥
तद्गृहे वसते पद्मा सदा क्लेशविवर्जितः ।
अलक्ष्मी नैव पश्येत तद्गृहेषु च निर्मलं ॥
चमरेण विना मूर्त्तिरशुचिः सर्वदा स्थिता ।
मक्षिका स्पृशते मूर्त्तिं किञ्चिद्दोषं कलेवरे ॥
क्षीयते त्त कलङ्कश्च मक्षिकाभ्यस्तु रक्षयेत् ॥
धर्मप्रदीपे — मक्षिका सततं धारा भूमि रापो हुताशनः ।
शिशु मर्जारद्रव्यं च सप्तेते च पवित्रकाः ॥
उच्छिष्टं शिवनिर्माल्यं वमनं शवकर्पटं ।
काकविष्ठारसमुत्पन्न पञ्चैतं च पवित्रकाः ॥
इति पावित्राभिधाः ॥ अगस्त्यसंहितायां —-
भगवच्छपथं मिथ्यां कारयेदधमो जनः ।
विंशवृत्या धृतं जन्म निरये पच्यते चिरं ॥
सपथस्य प्रभावं तु समक्षं शीघ्रमीक्शयेत् ।
पुत्रशोकमृणं व्याधिर्दरिद्रं क्लेशपीडनं ॥
पथहत्याऽभवत्तस्य सदा सौख्यविनाशिनी ।
मिथ्या सपथदोषेन प्रतिमा विघ्नतां ययौ ॥
षण्मासाभ्यन्तरे मिथ्या दशयेत्स्वकृतं फलं ।
एवं पुत्रादिजीवेषु मिथ्य सपथमाचरेत् ॥
गोविप्रादिषु जीवेषु मिथ्या सपथमाचरेत् ।
षण्मसाभ्यन्तरे तेषां मृत्युरेव न संशयः ॥
तेषां वधकृतोद्भूता हत्या स्यात्कुष्ठवर्धिनी ।
भक्ष्याभक्ष्यविवेकेन मिथ्यासपथमाचरेत् ॥
ब्रह्मत्वरहितो जातश्चाण्डालसदृशो द्विजः ।
प्रायश्चितं विना तस्य चतुर्मासे फलं दृशेत् ॥
पुत्रशोकजराव्याधिरतिदीर्घादरिद्रता ।
ऋण कलहसन्तापं कुरुते ब्रह्मघातिनी ॥
स नरो देवपितृभ्यो लोकेभ्यो विमुखः स्मृतः ।
मिथ्याया सपथे कार्ये प्रायश्चित्तं विधीयते ॥
विष्णुयामले — गङ्गां च मानसीं स्नात्वा श्रीकुण्डे वासमाचरेत् ।
चातुर्मासं गृहं त्यक्त्वा सपथस्य प्रशान्तये ॥
पञ्चकर्षेसुवर्णं च ताम्रपात्रे निधाय च ।
तिलैश्च छादनं कृत्वां ब्राह्मणाय प्रदीयते ॥
काले ब्राह्म्यमुहूर्त्तख्ये नित्यदानं समापयेत् ।
मिथ्यासपथदोषात्तु मुक्तो भवति मानवः ॥
मिध्यासपथकारस्य कदा स्थानं न जायते ॥
अथ मिथ्यासपथप्रायश्चित्ते वैकुण्ठमन्त्रः —
" ओं ह्रीं क्लीं क्षौं ज्रौं ग्लैं व्रां वैकुण्ठाय नमः " इति द्वादशाक्षरो वैकुण्ठमन्त्रः ।
अनेन मन्त्रेण प्राणायामुत्रयं कुर्यात् ।
अस्य मन्त्रस्य सोम ऋषिः वैकुण्ठो देवता कात्यायिनी छन्दः मम मिथ्यआसपथदोषाविमुक्तये
प्रायश्चित्ते जपे विनिगोगः ।
न्यासं पूर्ववत् ।
अथ ध्यानं —
वैकुण्ठमीश्वरं विष्णुं मिथ्यासपददोषहं ।
वन्दे कलिमलापघ्नं चतुर्भुजस्वरूपिणं ॥ इति ध्यात्वा —
उत्तराभिमुखो भूत्वा जपेन्मन्त्रं सहस्रकं ।
नक्तव्रतविधानेन नक्तभोजनमाचरेत् ॥
मिथ्यासपथदोषात्तु मुक्तो भवति पातकी ।
सपथस्य द्वयोर्दोषो जायते फलदायकः ॥
सापथं सत्यं वा मिथ्यां ह्याषाढे परिवर्जयेत् ।
सपथोद्भवदोषस्तु षण्मासे फलदोऽभवत् ॥
मिथ्यासपथभवेन परधर्मं विनाशयेत् ।
जलादिभोजने पाने छादने स्पर्शकारके ॥
धर्महत्या महत्पापं कृतकस्यैव जायते ।
विनादृष्टिप्रयोगेन दाषो नैव प्रजायते ॥
धर्मप्रपालकां विष्णुः किञ्चिद्भ्रान्तिमुपार्जयेत् ।
समूलं नाशमायाति धर्महत्या कृते यदि ॥
इति मिथ्यासपथप्रायश्चित्ते वैकुण्ठमन्त्रप्रयोगः ।
सकुष्टिक ऋषिशापान्वितोऽयं मन्त्रः ।
तस्य मोचनप्रयोगः
कौडिन्यसांहितायां — अस्य श्री सङ्कुष्टिकर्षिशापप्रमोचनस्य बुध ऋषिः विश्वेश्वरी देवता अनुष्टुप्
छन्दः ममासङ्कुष्टिकर्षिशापप्रमोचने ज० इति सङ्कुष्टिकर्षिशापमुक्ताभवः नवाञ्जलीः जलं नीत्वा वायव्यं
कोणमुत्क्षिपेत् ।
इति सङ्कुष्टिर्षिशापमोचनप्रयोगः ।
इत्यष्टषट् समाख्यातास्तीर्था श्रीकुण्डमागता ।
नरादिदेवपितृणां गोपश्वादिप्रभृतीनां ॥
हत्यापराधसम्भूते श्रीकुण्डस्नानमात्रतः ।
मुच्यते नात्र सन्देहो क्षमस्तीर्थगमे यदि ॥
इति गोमतीकुण्डे दृष्टान्तं समुदाहृतं ।
ततो द्वारावतीकुण्डमाहात्म्यं च निरूप्यते ॥
ततो द्वारिकाकुण्डस्नानाचमनप्रार्थनमन्त्रः ।
ब्रह्माण्डे —
गोपिकानाथ देवाय द्वारिकेशाय विष्णवे ।
तीर्थराज नमस्तुभ्यं द्वारिकाकुण्डसञ्ज्ञक ॥
इति मन्त्रं समुचार्य नवभिर्मज्जनाचमैः ।
नमस्कुर्याद्विधानेन वैष्णवीं पद्वीं लभेत् ॥२॥
ततो मानकुण्डस्नानाचमनप्रार्थनमन्त्रः ।
ब्राह्मे —
मानवत्यै च राधायै नमः कृष्णाय केलिने ।
दम्पेती सौख्यदस्तीर्थ मानकुण्ड नमोस्तु ते ॥
इति मन्त्रं समुचार्य दशभीर्मज्जनाचमैः ।
नमस्कारं प्रकुर्वीत सर्वदा प्रीतिमाप्नुयात् ॥३॥
ततो ललिताकुण्डस्नानाचमनप्रार्थनमन्त्रः ।
वाराहे —
सर्वदा प्रीतिदे देवि ललिते कृष्णवल्लभे ।
तीर्थरज नमस्तुभ्यं ललिताकुण्डसञ्ज्ञक ।
इति मन्त्रं समुच्चार्य द्वादशैर्मज्जनाचमैः ।
प्रणमेत्कृतकृत्यम्तु परमोक्षपदं लभेत् ॥४॥
ततो विशाखाकुण्डस्नानाचमनप्रार्थनमन्त्रः ।
भविष्योत्तरे —
विशाखारमणतीर्थ नमो वैमल्यरूपिणे ।
श्रीकृष्णाय नमस्तुभ्यं यशोदानन्दनाय च ॥
इति चतुर्द्दशावृत्या मज्जनाचनैर्नमन् ।
अखण्डपदवीं लेभे धानधान्यमवाप्नुयात् ॥५॥
ततो दोहनीकुण्डस्नानाचमनप्रार्थनमन्त्रः ।
आदिपुराणे —
नन्दादिनिर्मिते तीर्थे दोहनीतीर्थ सञ्ज्ञके ।
सर्वदा पयः पूर्णाय तीथराज नमोऽस्तु ते ॥
इति मन्त्रं षडावृत्या मज्जनाचमनै नमन् ।
सदा दोहप्रपूर्णस्तु लक्ष्मीवानपि जायते ॥६॥
ततो मोहनीकुण्डस्नानाचमनप्रार्थनमन्त्रः ।
सञ्मोहनतन्त्रे —
जगन्मोहकृते तीर्थे यशोदामोहकारके ।
मोहनीकुण्डसञ्ज्ञाय तीर्थ राज नमोऽस्तु ते ॥
इति मन्त्रं समुच्चार्य सप्तभिर्मज्जनाचमैः ।
प्रणमन् लभते मोहं जगत्सु ह्चाङ्खलं सुखं ॥७॥
ततो बलभद्रकुण्डस्नानाचमनप्रार्थनमन्त्रः ।
पाद्मे —
बलभद्रकृते तीर्थे सर्वदा बलवर्धनं ।
तीर्थराज नमस्तुभ्यं प्रसीद वरदो भव ॥
इति मन्त्रं दशावृत्या मज्जनाचमनैर्नमन् ।
सर्वदा बलसंयुक्तो त्रैलोक्यविजयी भवेत् ॥८॥
ततश्चतुर्भुजकुण्डस्नानाचमनप्रार्थनमन्त्रः ।
आदिवाराहे —
चतुर्भुजस्वरूपेण विष्णुना निर्मितस्थले ।
चतुर्युगसमुत्पन्न तीर्थराज नमोऽस्तु ते ॥
इति मन्त्रं समुच्चार्य चतुर्द्दिक्षु मुखो भवन् ।
मज्जनाचमनैः षड्भिः परिपूर्णसुखं लभेत् ॥९॥
ततो सुरभीकुण्डस्नानाचमनप्रार्थनामन्त्रः ।
मात्स्ये —
सुरभीकृततीर्थाय विष्णुप्रीतिप्रदाय च ।
पापाञ्कुश स्वरूपायं सदा वैमल्यहेतवे ॥
इति त्रयादशावृत्या मज्जनाचमनैर्नमन् ।
चामरै र्वीज्यमानस्तु नराणामधिपो भवेत् ॥१०॥
ततो वत्सकुण्डस्नानाचमनप्रार्थनमन्त्रः ।
ब्राह्मे —
गोवत्सकृततीर्थाय यशोदाप्रीतिदायके ।
तीर्थराज नमस्तुभ्यं पुत्रपौत्रसुखप्रद ॥
विंशावृत्या पठन्मन्त्रं मज्जनाचमनैर्नमन् ।
पुत्रवान् जायते वञ्ध्यो जगद्वारसत्यतामियात् ॥१ १॥
ततो गोविन्दकुण्डस्नानाचमनप्रार्थनमन्त्रः ।
विष्णुरहस्ये —
शक्रादिनिर्मिते तीर्थेऽभिषेकसमुद्भव ।
गोविन्दकुण्डसञ्ज्ञाय तीर्थराज नमोस्तु ते ॥
इति मन्त्रं समुच्चर्य नवभिर्मज्जनाचमैः ।
प्रणमन् विजयी भूयात् सर्वदा प्रियवल्लभः ॥
इति काम्यवने तीर्थाः कुण्डसञ्ज्ञाभिधायिनः ।
एषु स्नानकृताल्लोकाः जायन्ते मुक्तिभागिनः ॥१२॥
ततो ऽक्षमीलनादिस्थानप्रार्थनमन्त्रः ।
आदित्यपुराणे —
विष्णुरूपेक्षणार्थाय चतुः शैतल्यवर्धन ।
दिव्यदृष्टिप्रदायैव निरन्धे दृष्टिदायिने ।
॥
इति मन्त्रं समुच्चार्य पञ्चभिः प्रणतीन् चरेत् ।
दिव्यदृष्टिसमायुक्तो नित्यं विष्णु विलोकयेत् ॥१३॥
ततो स्खिलिनीशिलाप्रार्थनमन्त्रः ।
पुराणसमुच्चये —
कृष्ण गोपालरूपाय ललितावल्लभाय च ।
नमो गोपीभिरम्याय शिलातीर्थस्खलाय च ॥
इति मन्त्रं दशावृत्या नमस्कारं समाचरेत् ।
सदा क्रीडासमायुक्तो कौटुम्बकुलनायक ॥१४॥
ततो व्योमासुरगुफाप्रार्थनमन्त्रः ।
महाभारते —
कृष्णकृतार्थ रूपाय सखिरूपाय ते नमः ।
मुक्ति व्योमासुरस्थान घोरकल्मशनाशन ॥१५॥
इत्येकादशभिर्मन्त्रमुच्चरन् प्रणतींश्चरेत् ।
कृतकृत्यो भवेल्लोको वैष्णवं पदमाप्नुयात् ॥१५॥
ततो भोजनस्थलप्रार्थनमन्त्रः ।
विष्णुधर्मोत्तरे —
अष्टवर्षस्वरूपाढ्य कृष्णापाणितलाङ्कित ।
नमोऽस्तु भोजनस्थल सर्वदा भोगवर्धण ॥
इति षोडशभिर्मन्त्र मुदाहृत्य नमश्चरेत् ।
सदा सौभाग्यसपन्नो नानाभोगसुखं लभेत् ॥
अत्रैव कुलदेवांश्च ब्राह्मणांश्चैव भोजयेत् ।
ईप्सिताः सकलाः कामाः जायन्ते पारिपूर्णतां ॥
सुभोजनस्थलं विष्णोः पूजाभिर्विमुखं चरेत् ।
क्षुधार्त्तो भवते नित्य मृणदारिद्रपीडितः ॥
वनप्रदक्षिणा जाता निष्फला दुःखभागिनी ।
दत्तं परात्मकं द्रव्यं मध्ये गोप्त्वा न दीयते ॥
चतुर्गुणं भवेद्धानिस्तत्समूलं यिनश्यति ॥१६॥
ततो ललितास्थलप्रार्थनमन्त्रः ।
नारदीय पञ्चरात्रे —
भोजनस्य शिलायां तु भागपश्चिमभूषिते ।
ललितानिर्मिते स्थाने नमस्ते प्रियवल्लभे ॥
इति मन्त्रं समुच्चार्य नवधा प्रणतिंश्चरेत् ।
सदा लालित्यसंयुक्तौ धनधान्यसुखं लभेत् ॥१७॥
ततो सुमनासखीविवाहस्थलप्रार्थनमन्त्रः ।
बृहद्गौतमीये —-
रहस्यसंयुता देवी ललिता प्रियग्रन्थिदा ।
सुमनासखिमुद्वाहरमणीकस्थले नमः ।
इति चतुर्द्दशावृत्या नमस्कारान्समाचरेत् ।
सदा वैवाहिकोत्साहैश्चिरायुः सुखमाप्नुयात् ॥१८॥
ततो गरुडस्थलप्रार्थनमन्त्रः ।
गारुडे —
गरुडाधिष्ठिते स्थाने सर्वापद्विनिवारणे ।
नारायणकृतोत्साह तीर्थराज नमोऽस्तु ते ॥
इति मन्त्रं दशावृत्या प्रणमेद्गरुडस्थलं ।
कदाचित्तु परेभ्यस्तु भयं नैव विलोकयेत् ॥१९॥
ततो कपिलतीर्थ स्नानाचमनप्रार्थनमन्त्रः ।
भविष्ये —
गुप्तयोगसमायुक्त कपिलाधिष्ठितस्थले ।
नमो ब्रह्मण्यरूपाय देवहूतीसुताय ते ॥
इति मन्त्रमुदाहृत्य द्विपञ्चाशनतींश्चरेत् ।
सर्वदा ज्ञानसम्पन्नो लोकानां वश्यकारकः ॥२०॥
ततो लोहजङ्घर्षिस्थानप्रार्थनमन्त्रः ।
स्कन्दे —
लोहजङ्घर्षये तुभ्यं देव वज्राङ्गदायिने ।
आयुरारोग्यसौख्याय नैरुजं मां सदा कुरु ॥
इति मन्त्रं समुच्चार्य सप्तभिः प्रणतींश्चरेत् ।
सदा नैरोग्यमालभ्य त्रैलोक्ये रमते सुखं ॥२१॥
अथेन्दुलेखास्थानप्रार्थनमन्त्रः ।
वाराहे —
नानाचित्राङ्गरूपाय देवानां सुखहेतवे ।
इन्दुलेखामनोरम्य सुस्थलाय नमो नमः ॥
इति मन्त्रं षडावृत्या प्रणतीन् विधिवचरेत् ।
चित्रवैचित्ररूपाढ्यं हर्म्यसौख्यमवाप्नुयात् ॥२२॥
ततश्चन्द्रावलिस्थानप्रार्थनमन्त्रः ।
विष्णुयामले —
चन्द्रावलिकृतोत्साह कृष्णक्रीडामनोहरे ।
गन्धर्वकिन्नराकीर्ण रम्यभूमे नमोऽस्तु ते ॥
इति पञ्चदशावृत्या नमस्कारं समाचरेत् ।
अखण्डपदवीं लब्ध्वा विष्णुसायुज्यमाप्नुयात् ॥२३॥
ततो ऽलक्ष्यस्थानप्रार्थनमन्त्रः ।
बृहत्पाराशरे —
गुप्तायेक्षणगोप्याय गुप्तधर्मार्थदायिने ।
नमः सौख्यकलाप्ताय ऽलक्ष्यवेश्म नमोऽस्तु ते ॥
इति मन्त्रमुदाहृत्य शतधा प्रणतींश्चरेत् ।
गुप्तधर्मार्थकामांश्च लभते नात्र सशयः ॥२४॥
ततो विष्णुपादचिह्नस्थलप्रार्थनमन्त्रः ।
विष्णुपुराणे —
विष्णुपादतलोत्कीर्णचिह्नरम्याङ्गभूमये ।
नमस्ते विश्वरूपाय कलाकन्त नमोस्तु ते ॥
इति मन्त्रं समुच्चार्य दशधा प्रणतींश्चरेत् ।
विष्णुलोकमवाप्नोति पुनर्जन्म न विद्यते ॥२५॥
ततो रासस्थलप्रार्थनमन्त्रः ।
कौर्म्ये —
नानाविमलरूपाय रासमण्डलनिर्मले ।
गोपिकाक्रीडकृष्णाय नमस्ते देवदुर्ल्लभे ॥
चतुःषष्ठिभिराहृत्य मन्त्रं प्रणातेमाचरेत् ।
विमलाङ्गसुखाविष्टो वैष्णवं पदमाप्नुयात् ॥२६॥
ततो बलदेवस्थलप्रार्थनमन्त्रः ।
पाद्मे —
हलरेखाकृतार्थाय मध्यदीर्घप्रवर्त्तिते ।
बलदेवस्थलायैव नमस्ते धान्यवर्धने ।
॥
इति सप्तदशावृत्या नमस्कारं समाचरेत् ।
सर्वदा कृषर्धान्यानां समृद्धिर् बहुध भवेत् ॥२७॥
ततो कृष्णकूपस्नानाचमनप्रार्थनमन्त्रः ।
आदिपुराणे —
कृष्णस्नपनतीर्थाय कृष्णकूपाभिधायिने ।
यादवानां विमोक्षाय तीर्थराज नमोऽस्तु ते ॥
पञ्चावृत्योच्चरन्मन्त्रं मज्जनाचमनैर्नमन् ।
सर्वपापविनिर्मुक्तो वैष्णवं पदमाप्नुयात् ॥२८।
ततो सङ्कर्षणकुण्डस्नानाचमनप्रार्थनमन्त्रः ।
वायुपुराणे —
निर्झरोद्गारतीर्थाय कूपसङ्कर्षणाभिध ।
यादवानां कृतार्थाय धनधान्यप्रदायिने ॥
इति मन्त्रं समुच्चार्य सप्तभिर्मज्जनाचमैः ।
धनधान्यसुखादीनां समृद्धिस्तु प्रजायते ॥२९॥
ततो गुह्यतीर्थस्नानाचमनप्रार्थनमन्त्र ।
लैङ्गे —
लोकेश्वरसुखाप्ताय स्नानमुक्तिप्रदायिने ।
गुह्यतीर्थ नमस्तुभ्यं त्रैलोक्यसुरववर्धन ॥
इति मन्त्रं समुच्चार्य दशधा मज्जनाचमैः ।
प्रणमन् गुह्यविद्याभिः सम्पन्नो विजयी भवेत् ॥३०॥
ततो वाराहकुण्डस्नानाचमनप्रार्थनमन्त्रः ।
वाराहे —
सर्वकल्मषनाशाय तीर्थ राज नमोऽस्तु ते ।
वाराहकृतरम्याय भूमेरुद्धरणाय च ।
इति द्वादशभिर्मन्त्रमज्जनाचमनै र्नमन् ।
कृतर्थो जायते लोको राजविख्यातकीर्त्तिमान् ॥३१॥
ततो सीताकुण्डस्नानाचमनप्रार्थनमन्त्रः ।
वायुपुराणे —
सीतास्नपनरम्याय विश्वकर्मविधायिने ।
तीर्थ राज नमस्तुभ्यं सर्वदा पुण्यवर्धन ॥
इति मन्तृआं शतावृत्या मज्जनाचमनै र्नमन् ।
कृतकृत्यो भवेल्लोको परमायुः स जीवति ॥३२॥
ततश्चन्द्रसिखिरिनीस्नानाचमानप्रार्थनमन्त्रः ।
देवीपुराणे —
तापार्त्तिहरणे तीर्थे चक्षुशीतलदयिने ।
चन्द्रसिखिरिणि तुभ्यं तीर्थ राज नमोऽस्तु ते ॥
इति मन्त्रं समुच्चार्यैकादशै र्मज्जनाचमैः ।
निष्पापो जायते स्नानात् सफला कामनाऽभवन् ॥३३॥
ततश्चन्द्रशेखराख्यरुद्रप्रार्थनमन्त्रः ।
स्कान्दे —
चन्द्रशेखरदेवाय सर्वदा प्रीतिदायिने ।
नमस्तुभ्यं महादेव प्रसीद वरदो भव ॥
इति षोडशभिर्मन्त्रमुच्चरन्प्रणतींश्चरेत् ।
शिवलोकमवाप्नोति शापानुग्रहणे क्षमः ॥३४॥
ततो शृङ्गारतीर्थप्रार्थनमन्त्रः ।
गौतमीये —
शृङ्गारेङ्गितभूषाय कृष्णाय परमात्मने ।
शृङ्गाररूपिणीभ्यस्तु गोपिकाभ्यो नमो नमः ।
इति मन्त्रमुदाहृत्य सप्तभिः प्रणतींश्चरेत् ।
सदा स्वर्णादिभूषाभिर्भूषितो वसनैः शुभैः ॥३५॥
ततो प्रभालल्लीवापीस्नानाचमनप्रार्थनमन्त्रः ।
शौनकीये —
देवगन्धर्वरम्यायै प्रभालल्ल्यै नमो नमः ।
पुण्यसौख्यप्रदानायै तीर्थ राज्यै नमो नमः ॥
इति मन्त्रं षडावृत्या मज्जनाचमनै र्नमन् ।
सर्वदा काञ्चनी कान्त्या भूषितो पृथिवीतले ॥२५॥
ततो भारद्वाजकूपस्नानाचमनप्रार्थनामन्त्रः ।
भारद्वाजसंहितायां —
तप्पसां सिद्धिरूपाय सदा दुग्धमयाय च ।
भारद्वाजकृतस्नानकूपतीर्थ नमोस्तु ते ॥
इत्यष्टादशभिर्मन्त्रं मज्जनाचमनै र्नमन् ।
मन्त्रसिद्धिसमायुक्तो लोकपूज्योऽभिजायते ॥
एतयोः रामकृष्णयोरूभयोः कूपयोः पर्वतनिकटस्थयोः स्नानाचमनप्रार्थनं पूर्वमन्त्रेण कुर्यात् ॥२६॥
ततो भद्रेश्वरमहादेवप्रार्थनमन्त्रः ।
आग्नेये —
कल्याणरूपिणे तुभ्यं नमो भद्रेश्वराय ते ।
अभद्र नाशये देव शिव मे सर्वदा कुरु ॥
इति चतुर्द्दशावृत्या नमास्कारं समाचरेन् ।
सदा कल्याणमाङ्गल्यैः सुखं भुङ्क्ते भुवस्तले ॥३८॥
ततो ऽलक्ष्यगरुडमूर्त्तिर्प्रार्थनमन्त्रः —
अलक्ष्यमूर्त्तये तुभ्यं गरुडाय नमोऽस्तु ते ।
पन्नगान्तक सौवर्णनगराहर्म्यरूम्पिणे ॥
इति मन्त्रं शतावृत्या साष्टाङ्गप्रणतींश्चरेत् ।
सर्व-वाधाविनिर्मुक्तो रमते पृतिवीतले ॥३९॥
ततो पिप्पलादाश्रमप्रार्थनमन्त्रः ।
नृसिंहपुराणे —
सर्वदा मुक्तिरुपाय सर्वक्लेशापहारिणं ।
सङ्कटमोचनार्थाय पिप्पलादर्षये नमः ॥
इति चतुर्दशावृत्या मन्त्रं व्रूत्वा नमश्चरेत् ।
सदा राजादिसङ्कष्टान्मुच्यते नात्र संशय ॥४०॥
ततो बुद्धस्थनप्रार्थनमत्रः ।
बौद्धायने —
बुद्धाय बुद्धरूपाय जगदानन्दहेतवे ।
तत्वज्ञानप्रदेशाय नमस्ते पापनाशन ॥
इति सप्तदशावृत्या नमस्कारं समाचरेत् ।
धनधान्यादिसम्पत्तिं भुङ्क्ते मोक्षपदं लभेत् ॥४१॥
ततो राधापुष्करिणीस्तानाचमनप्रार्थनमन्त्रः ।
ब्रह्मवैवर्त्ते राधाजन्मखण्डे —
वेमल्यरूपिणे तुभ्यं राधाकृष्णमनोहरे ।
तीर्थराज्ये कलाकान्त्यै पुष्क्ररिण्यै नमो नमः ॥
इति चतुर्थषड्भिस्तु मज्जनाचमनै र्नमन् ।
कृष्णतुल्यसुखं लब्धा शतनारीभिर्वेष्टितः ॥४२॥
ततो ललितापुष्करिणीस्नानाचमनप्रार्थ मन्त्रः ।
बृह्न्नारदीये —
ललितानिर्मिते तीर्थे सदा दुग्धामयेऽर्थदे ।
पुष्कारिण्यै नमस्तुभ्यं गोपीरमणसम्भवे ॥
इति दिग्भिः पठन्मन्त्र मज्जनाचमनै र्नमन् ।
कृतकृत्या भवेल्लोको भ्रूणहत्याद्विमुच्यति ॥४३ ।
ततो विशाखापुष्करिणीस्नानाचमनप्रार्थनामन्त्रः ।
विष्णुयामले —
रक्तपीतसिताभासे निर्मलपयःरूपिणे ।
पुष्करिण्यै नमस्तुभ्यं विशाखारचिते शुभे ॥
इत्येकादशभिर्मन्त्रं मज्जनाचमनै र्नमन् ।
सदा नानाविधाद्रोगान्मुच्यते सौख्यमवभूत् ॥४४॥
ततश्चन्द्रावली पुष्करिणीस्नानाचमनप्रार्थनमन्त्रः ।
ब्रह्माण्डे —
पीततोय समाकीर्णे शुभाङ्गावयवप्रदे ।
पट्टराज्यै नमस्तुभ्यं कलातीर्थ स्वरूपिणे ॥
इति द्वादशभिर्मन्त्रं मज्जनाचमै र्नमन् ।
गवादिसुखसम्पात्तिं भुङ्क्ते भोगसमन्वितः ॥४५॥
ततश्चन्द्रभागापुष्करिणीस्नानाचमनप्रार्थनमन्त्रः ।
मात्स्ये —
सदा चन्द्रकले तीर्थे नमस्ते घोरनाशने ।
पुण्यदे पुण्यरूपस्थे चन्द्रभागे नमोऽतु ते ॥
इत्यष्टभिः पठन्मन्त्रं मज्जनाचमनै र्नमन् ।
सर्वदा सुखसम्पद्भिर्जायते विमलो नरः ॥४६॥
ततो लीलावती पुष्करिणीस्नानाचमनप्रार्थनमन्त्रः ।
पाद्मे —
नानालीलासमाकीर्णे लीलावत्यै नमो नमः ।
सर्वरी विमले तोये देवगन्धर्वशोभिने ॥
इत्येकोनदशावृत्या मज्जनाचमनै र्नमन् ।
सदा लीलान्वितां लोको धानधान्यासुख लभेत् ॥४७॥
ततो प्रभावतीस्नानाचमनप्रार्थनमन्त्रः ।
वायुपुराणे —
प्रभावति नमस्तुभ्यं तीथाराज महाफले ।
प्रभावं वर्धये देवि ।
प्रभाववरदायिनि ॥
इति मन्त्रं दृशावृत्या मज्जनाचमनै र्नमन् ।
राजा प्रतापसंयुक्तो लक्ष्मीवान् जायते नरः ॥४८॥
ततश्चतुःषष्ठिपुष्करिणीध्यानपूर्वस्नानाचमनप्रार्थनमन्त्रः ।
शक्रयामले —
गोपिकाभ्यो नमस्तुभ्यं पुष्करिण्यै शुभप्रदे ।
तीर्थ रूपे नमस्तुभ्यं कृष्णस्यात्यन्तवल्लभे ॥
इति मन्त्रं चतुः षेड्भिर्ध्यानपूर्वनमश्चरेत् ।
धनधान्यसमायुक्तो लक्ष्मीवान् जायते नरः ॥४९॥
ततो कुशस्थलीस्नानाचमनप्रार्थनमन्त्रः ।
कौर्म्ये —
ऋषिगन्धर्वदेवानां पुण्यतीर्थ नमोऽस्तु ते ।
कुशस्तली पयोरम्य वाञ्छितीर्थाप्रदायिने ॥
इति षोडशभिर्मन्त्रं मज्जनाचमनै र्नमन् ।
सदा मन्त्रतपोविद्याशापानुग्रहणे क्षमः ॥५०॥
ततो शङ्खचूडवधस्थलप्रार्थनमन्त्रः ।
महाभारते —
कृष्णमुक्तिकृतस्तीर्था शङ्खचूडवथस्थल ।
नमो लक्ष्मीप्रदानाय धनधान्यप्रदाय च ॥
इति मन्त्रं समुचार्य सप्तत्रिंशावृतेन च ।
नमस्कृत्यास्य गेहे तु सुखं पद्मा वसेत्सदा ॥
यत्रैव लभ्याते शङ्खं विधिना तं गृहे न्यसेत् ।
तस्य गेहात् कदा लक्ष्मी नैव गन्तुं समीक्षयेत् ॥
सदा पुत्रकलत्रादियुक्ता लक्ष्मी स्थिरा भवेत् ॥५१॥
ततो कामेश्वरमहादेवप्रार्थानमन्त्रः ।
लैङ्गे —
कामेश्वराय देवाय कामनाथाप्रदायिनं ।
महादेवाय ते तुभ्यं नमस्ते मुक्तिदो भव ॥
इत्येकादशभिर्मन्त्रं व्रत्वा प्रणतिमाचरेत् ।
सर्वाथ कामनाभिस्तु परिपूर्णोऽभिजायते ॥
कामेश्वरं विना लोके नईव साङ्गा प्रदक्षिणा ॥५२॥
ततो विमलेश्वरालोकप्रार्थनमन्त्रः ।
आग्नेये —
सदा वैमल्यरूपाय नमस्ते विमलेश्वर ।
घोरकल्मषपापाघ्ने सदैश्वर्यप्रदायिने ॥
इति त्रयोदशावृत्त्या साष्टाङ्गप्रणतींश्चरेत् ।
सदा सौभाग्यसंयुक्तो परमायुः सजीवति ॥५३॥
ततो वाराहदर्शनप्रार्थनमन्त्रः ।
वाराहे —
पद्ममुद्राङ्कितोरस्थ वराहाकृतये नमः ।
क्रीडाकृतस्वरूपाय देवदेवाय ते नमः ॥
इति मन्त्रं दशावृत्या साष्टाङ्गप्रणतींश्चरेत् ।
कृतकृत्यो भवेल्लोके लक्ष्मीवान् जायते नरः ॥५४॥
ततो द्रौपदीसहितानां पञ्चपाण्डवानामालोकप्रार्थनमन्त्रः ।
वायुपुराणे —
धर्मपुत्रादिरूपेभ्यो पाण्डवेभ्यो नमोऽतु ते ।
द्रौपदीसहितेभ्यस्तु तपः सिद्धिस्वरूपिणः ॥
इति मन्तृं समुचार्य षड्भिः प्रणतिमाचरेत् ।
धर्मवायु सुरादीनां सदा सन्तुष्टकारकः ॥
त्रैलोक्यविजयी भूयात्सदा धर्मपरायणः ॥५५॥
ततो ऽष्टसिद्धिगणेशालोकनप्रार्थनमन्त्रः ।
ब्रह्मर्वैवर्त्ते —
अष्टसिद्धिप्रदायैव गणेशाय नमो नमः ।
सर्वाथादाय देवाय सञ्कटमुक्तये नमः ॥
इति मन्त्रं समुच्चार्य द्वादशावृत्तिभिर्नमन् ।
सदा सञ्कष्टनिर्मुक्तो वैमल्यसुखमाप्नुयात् ॥५६॥
ततो वज्रपञ्जरहनुमद्दर्शनप्रार्थानमन्त्रः ।
ब्रह्माण्डे —
वज्राङ्गमूर्त्तये तुभ्यं वज्रपञ्जरसम्भव ।
सर्वान्तकविनाशाय हनुमन्मूर्त्तये नमः ॥
इत्यष्टादशभिर्मन्त्रं नमस्कारं समाचरेत् ।
सर्वकामानवाप्नोति सर्वर्वाधाविवर्जितः ॥५७॥
तपश्चतुर्भुजदर्शनप्रार्थनमन्त्रः ।
भविष्ये —
चतुर्युगेसमुत्पन्न श्यामशुक्लस्वरूपिणे ।
चतुर्भुजाय देवाय नमस्ते कमलाप्रिय ॥
इत्येकविंशदावृत्या साष्टाङ्गप्रणतिं चरेत् ।
कृतकृत्यो भवेल्लोको वैष्णवी पदवीं लभेत् ॥५८ ॥
ततो वृन्दान्वितगोविन्दालोकप्रार्थनमन्त्रः ।
विष्णुयामले —
वृन्दादेवीसमेताय गोविन्दाय नमो नमः ।
मुक्तिरूपाय कृष्णाय वासुदेवाय केलिने ॥
इति मन्त्रं शतावृत्या नमस्कारं समाचरेत् ।
मुक्तिभागी भवेल्लोको लक्ष्मीवान् जायते नरः ॥५९॥
ततो राधार्वल्लभालोकप्रार्थनमन्त्रः ।
ब्राह्मे —
राधावल्लभरूपय विष्णवे व्रजकेलिने ।
नमः प्रगल्भकान्ताय सर्वार्थसुखदायिने ॥
इति चतुर्द्दशावृत्त्या नमस्कारं समाचरेत् ।
दम्पत्यो भूयसी प्रीतिर् जायते सुखसंयुता ॥६०॥
ततां गोपीनाथावलोकनप्रार्थनामन्त्रः ।
मात्स्ये —
सदा रासोत्सवक्रीडाविमलाय कृतार्थिने ।
गोपीनाथाय देवाय नमस्ते व्रजकेलिने ॥
इति मन्त्रं समुच्चार्य नवभिः प्रणतिंश्चरेत् ।
सदा विमलरूपाय रमते पृथिवीतले ॥६१॥
ततो नवनीतकेलिदर्शनप्रार्थनमन्त्रः ।
श्रीवत्ससंहितायां —
यशोदाविविधोत्साहैः परिपूर्णस्वरूपिणे ।
नवनीतप्रिय कृष्ण बालचेष्टान्वित हरे ॥
इति मन्त्रं समुचार्यं चतुर्विंश नमश्चरेत् ।
सदा गोरसभोगादीन् लभते नात्र संशय ॥६२॥
ततो गोकुलेश्वरावलोकनप्रार्थनमन्त्रः ।
विणुपुराणे —
पञ्चाब्दरूपिणे तुभ्यं नमस्ते गोकुलेश्वर ।
नमः कैवल्यरूपाय नमस्ते बालरूपिणे ॥
इति त्रयोदशावृत्या मन्त्रं व्र्त्वा नमश्चरेत् ।
कृतार्थो जायते लोके देवतुल्यकलेवरः ॥६३॥
ततो रामचन्द्रदर्शनप्रार्थनमन्त्रः ।
पाद्मे पातालखण्डे —
नमस्ते रामचन्द्राय कौशल्यानन्ददायिने ।
नमस्ते कमलाकाञ्त त्रेतायुगस्वरूपिणे ॥
इति चतुर्द्दशावृत्या पठन्मन्त्रं नमश्चरेत् ।
गज्यवान् धनवान् लोको लक्ष्मीवान् जागतेऽखिल॥६४॥
इतिभाद्रपदेशुक्ले द्वितीयायां समुचरेत् ।
तस्य काम्यवनस्यापि सप्तक्रोशप्रदक्षिणा ॥
चतुराशीतिदेवानां तीर्थानां च तथैव च ।
तथैव चतुराशीतिस्तम्भानां च विलोकनं ॥
सर्वकामानवाप्नोति कामसेनिरिवास्थितः ।
ततः शुक्लतृतीयायां प्रभाते ह्यरुणोदये ॥
वनाद्वहिर्विनिःसृत्य क्रोशार्धं तिष्ठते पथि ।
पश्चिमाभिमुरवो भूत्वा प्रार्थनं कुरुते शुचि ॥६५॥
ततो काम्यवनप्रार्थनमन्त्रः ।
स्कान्दे —
सर्वदा वरदो देव भगवदङ्गसम्भवः ।
नमो काम्यवन श्रेष्ठ पुनरागमनाय च ।
इति मन्त्रं दशावृत्या नमस्कारं समाचरेत् ।
काम्यमिच्छितमाप्नोति सर्वदा विजयी भवेत् ॥
इति काम्यवनं प्रार्थ्य प्रतस्थे वन-यात्रया ।
वृषभानुपुर रम्य क्रोशत्रयविनिर्मितं ॥
इतिमाहात्म्यपूर्वकाम्यवनप्रदक्षिणा ॥६६॥
अथ कोकिलावनप्रदक्षिणा ।
आदिवाराहे —
भाद्रशुक्लर्षिपञ्चम्यां स्वातिनक्षत्रसंयुते ।
जगाम कोकिलायाश्च वनं कलमनोहरं ॥
ततो कोकिलावनप्रार्थनमन्त्रः ।
नारदपञ्चरात्रे —
देवर्षिकिन्नराकीर्ण कोकिलानिर्मिताय च ।
वनायालूहादपूर्णाय नमस्ते सुस्वरप्रद ॥
इति मन्त्रं षडावृत्या नमस्कारं समाचरेत् ।
कोकिलास्वरवत्कण्ठं लभते रमते भुवि ॥६७॥
ततो रत्नाकरस्नानाचमनप्रार्थनमन्त्रः —
सख्याः क्षीरसमुद्भूत रत्नाकरसरोवरे ।
नाना प्रकाररत्नानामुद्भवे वरदे नमः ॥
इति सप्तदशावृत्या मज्जनाचमनैर्नमन् ।
विविधै र्वहदधारत्नैः पूर्णस्तु रमते भुवि ॥६८॥
ततो रासमण्डलप्रार्थनमन्त्रः —
रासक्रीडाप्रदीप्ताय गोपीरमण्सुन्दर ।
नमः सुखमनौरम्यस्थलाय सिद्धिरूपिणे ॥
इति त्रयोदशावृत्या नमस्कारं समाचरेत् ।
कृतकृत्यो भवेल्लोको धनधान्यसमन्वितः ॥
ततो प्रदक्षिणां कुर्यात्कोकिलाख्यवनस्य च ।
पदोनद्वयक्रोशस्य परिपूर्णाभिधायिनी ॥
इति महात्म्यपूर्व कोकिलावनप्रदक्षिणा ॥६९॥
अथ तालवनमहात्म्यपूर्वप्रदक्षिणा ।
आदिपुराणे —
भाद्र मास्यासिते पक्षे ह्येकादश्यां गतो वनं ।
तालनाम्नाऽसुरेणापि रचितं निर्मलं स्थलं ॥
ततस्तालवनप्रार्थनमन्त्रः —
मोक्षाय मुक्तिरूपाय हरिमुक्तिप्रदयिने ।
नमस्तलाय रम्याय तालशोभाविवर्धिने ॥
इति मन्त्रं समुच्चार्य दशधा प्रणतिं चरेत् ।
मुक्तिभागी भवेल्लोको वैष्णवं पदमाप्नुयात्॥७०॥
ततौ सङ्कर्षणकुण्डस्नानाचमनप्रार्थनमन्त्रः —
सङ्कार्षणकृदार्थाय तीर्थ राज नमोऽस्तु ते ।
क्षीरपूर्णाय रम्याय कलाकान्तसुखाय ते ॥
इति मन्त्रं षडावृत्या मज्जनाचमनैर्नमन् ।
वाञ्छितं फलमाप्नोति मन्दभागी भवेन्नरः ॥
ततो पादोनक्रोशेन कुर्यात्तालवनस्य च ।
प्रदक्षिणां शुभां पूर्णां सर्वारिष्टविनाशिनीं ॥
इति तालवनमहात्म्याप्रदक्षिणा ॥७१॥
अथ कुमुदवनमहात्म्यप्रदक्षिणा ।
पाद्मे —
कुमुदाख्यं वनं गच्छेद् एकादश्यां च भाद्रके ।
कृष्णायामेव तस्यां तु दर्शनं तु समाचरन् ॥
ततो कुमुदवनप्रार्थनमन्त्रः —
कुमुदाख्याय रम्याय नानाल्हादविधायिने ।
नानाकुमुदकल्हाररूपिणे ते नमां नमः ॥
इति मन्त्रं समुचार्य षोडश प्रणतिं चरेत् ।
विविधानन्दपूर्णस्तु जायते पृथिवीतले ॥७२॥
ततो पद्मकुण्डस्नानाचमनप्रार्थनमन्त्रः —
इन्द्रादिदेवगन्धर्वैराकीर्ण विमलार्थिने ।
पद्मकुण्डाय ते तुभ्यं नानासौख्यप्रदायिने ॥
इति सप्तदशावृत्या मज्जनाचमनै र्नमन् ।
सदा सौरभ्यसंयुक्तोऽनेकसौख्यार्थमवभूत् ॥
ततोऽर्ध क्रोशसङ्ख्येन प्रणाक्षिणमथा करोत् ।
कुमुदाख्यवनस्यापि समस्तं सकलेष्टद ॥
ति कुमुदवनमाहात्म्यपूर्वप्रदक्षिणा ॥७२॥
अथ भाण्डीरवनमाहात्म्यप्रदक्षिणा ।
स्कान्दे —
भाद्रशुक्ले च द्वादश्यां जन्म वामन सभवेत् ।
गछेद्भाण्डीरनामानं वनं सर्वार्थदायिनं ॥
ततो भाण्डीरवनप्रार्थनमन्त्रः —
चतुर्द्दशावताराणां लीलोद्भवस्वरूपिणे ।
नानाद्रव्योद्भवस्थान नमो भाण्डीरसञ्ज्ञिके ॥
इति चतुर्द्दशावृत्या नमस्कारं समाचरेत् ।
ध्रुवादिपदवीं लब्ध्वा ह्चखण्डसुखमाप्नुयात् ॥७३॥
ततां ऽसिभाण्डतीर्थप्रार्थनमन्त्रः —
मनोर्थ वरदे तीर्थे असिभाण्डहृदाव्हये ।
नमो गोप्यजलाल्हादे तीथराज नमोस्तु ते ॥
इति पञ्चदशावृत्या नमस्कारं समाचरेत् ।
जन्मनीह परत्रे च याचितां योनिमाप्नुयात्॥७५॥
ततो मत्स्यकूपस्नानाचमनप्रार्थनमन्त्रः ।
मात्स्ये —
चतुर्द्दशावताराणां जन्मन्युत्सववर्धिने ।
दुग्धोफानमयोद्भूत मत्स्यकूप नमोऽस्तु ते ॥
इति विंशावृतेनैव मज्जनाचमनैर्नमन् ।
चतुर्द्दशावताराणां प्रभाव इव राजते ॥७६॥
ध्रुवजन्मदिने कूपो दुग्धपूर्णोघमाचरेत् ।
दशावतारसञ्ज्ञाभिर्विष्णुरावतरत्स्वयं ॥
मत्स्यादिदश्वरूपैस्तु क्रीड्यमानो भुवस्तले ।
एव चतुर्द्दशैः सङ्ख्यैरवताराः ध्रुवादयः ॥
भगवदंशसम्भूताः चतुर्द्दशकलोद्भवाः ।
इत्येवं कथिताः विष्णोश्चतुर्विंशास्तु मूर्त्तयः ॥७७॥
अथ भगवदङ्गसमुद्भवाश्चतुर्द्दशकलाः व्याख्याः ।
भविष्योत्तरे —
परमा विमला मोदा वैष्णवी सिद्धिरूपिणी ।
कौमारी सुतला लक्ष्मी तापसी ब्रह्मरूपिणी ॥
सुभद्रा शुभगा धात्री सौरभैताश्चतुर्दशः ।
भगवदङ्गसम्भूताः कलाः मुख्यविराजिताः ॥
मुखहृद्वाहुनेत्रोरुकटिकञ्ठललाटजाः ।
पृष्टि पाणि गुदा पान्द स्तनोदरसमुद्भवाः ॥
ध्रुवश्च कपिलो वासः नारदो पृथु भार्गवः ।
धन्वन्तरि हयग्रीव दत्तात्रेयो हरिः प्रभुः ॥
ऋषभो हंस प्रल्हादो धनञ्जयश्चतुर्द्दशाः ।
चतुर्विंशावताराः ये मत्स्यादयः ध्रुवादयः ॥
परमाख्यकलोद्भूतो ध्रुवो नारायणः स्वयं ।
कलाविमलया जातो कपिलो मुनिसत्तमः ॥
मोदाख्यकलयाद्भूतो व्यासो नारायणोऽभवत् ।
वैष्णवीकलयोद्भूतो नारदो मुनिसत्तमः ॥
कलया सिद्धिरूपिण्या पृथुराजा समुद्भवः ।
कौमारीकलया जातो कविनामधिपो भृगुः ॥
लक्ष्माख्यकलया जातो धान्वन्तरिसमुद्रजः ।
तापसीकलया जातो हयग्रीवो हरिः स्वयं ॥
कलया ब्रह्मरूपिण्या दत्तात्रेयो महामुनिः ।
सुभद्राकलयीद्भूतो हरिश्चक्रगदाधरः ॥
शुभगाकलया जातो ऋषभो देवसञ्ज्ञकः ।
धात्री नाम कलोद्भूतो हंसो परमसञ्ज्ञकः ॥
सुतलाकलयोद्भूतो प्रल्हादो भगवान् हरिः ।
सौरभाकलया जातो पाण्डवानां धनञ्जयः ॥
इति चतुर्द्दशाख्यातावताराः हरेः प्रभोः ।
चतुर्विंशा इति प्रोक्ताः मत्स्यादय इति शुभाः ॥७८ ॥
अथ ध्रुवादि चतुर्द्दशावतार जन्म निर्णयः ।
ध्रुवजन्मप्रसङ्गात् तत्रादौ ध्रूव जन्मः ।
ध्रूवसंहितायाम् —
चतुर्द्दश्यां सिते पक्षे श्रावणे दक्षिणायने ।
रात्रिर्गता घटी विंशाः वृषलग्नोदये यदि ॥
उत्तगषाढसंयुक्ते सोमशोभनसम्भुते ।
ध्रुवावतारग्सञ्ज्ञोऽभिजायते भगवान् हरिः ॥
इति ध्रुवावतारजन्मः ।
अथ कपिलावतारजन्म निर्णयः ।
ब्राह्मे —-
कार्त्तिके कृष्णपक्षे तु पञ्चमी बुधसंयुता ।
शिवयोगार्द्रया युक्ता घटिजाताश्चतुर्दशः ॥
धनुलग्नोदये जातेऽवतरत्कपिलो मुनिः ।
देवहूतिमहोत्साहैः सत्थवरप्रदो हरिः ॥
योगविद्यासमायुक्तो सर्वशास्त्रविशारदः ।
जन्मनि कपिलस्यापि पुरश्चरणमारभेत् ॥
अचिरान्मन्त्रसिद्धिस्तु लोकानां वश्यकारकः ।
ईप्सितं वरमाप्नोति त्रैलोक्यविजयी भवेत् ॥
इति कपिलवतारजन्मनिर्णयः ।
अथ व्यासावतारजन्मनिर्णयः पुराणसमुच्चये —
आषाढशुक्लपञ्चम्यां पूर्वफाल्गुनिसंयुते ।
वरीयान् भृगुसंयुक्तो नाडी पञ्चदशो गताः ॥
कन्यालग्नोदये जाते धर्माधर्मार्थहेतवे ।
सत्यावत्यां सुतो जातो व्यासो नारायणो हरिः ॥
तद्दिने यमुनादौ च नदीगङ्गादिषु तथा ।
तडागे ह्यथवा कूपे व्यासपूजां करोन्नरः ॥
दुग्धेन शीतलं कुर्यात्सिक्तमन्तं समुच्चरन् ।
ओं नमो विमलरूपाय लोकपावनहेतवे ॥
नमो व्यासस्वरूपाय विष्णवे वरदायिने ।
इति मन्त्रं दशावृत्या पूर्वाभिमुखतो विशन् ॥
दुग्धशीतां जलौ नीत्वा नद्यादौ दशभिः क्षिपेत् ।
सर्वशास्त्रार्थतत्वज्ञो ह्यागमागमतत्ववित् ॥
सदा कल्याणसंयुक्तो लक्ष्मीवान् जायते नरः ।
जडबुद्धिः कुशीलो वा पापिष्ठो भ्रूणापि वा ॥
सर्वदोषविनिर्मुक्तो व्यासरूपो रमेद्भुवि ।
शुष्कतोयं भवेत् कूपो कटुतोयममुद्भवः ॥
क्षीरवत्तोयपूर्णस्तु सजलश्चिरमास्यते ।
कदाचिच्छुष्कतां नैव जायते नात्र संशयः ॥
नदीतडागकूपाश्च वापी सर्वजलाशयाः ।
व्यासपूजाविधानेन दुग्धंवत् पयस प्लुताः ॥
इति व्यासावतारजन्मनिर्णयः ।
अथ नारदावतारजन्मनिर्णयः ।
नारदपञ्चरात्रे —
आश्विनस्य सिते पक्षे बुधयुक्ता त्रयोदशी ।
उत्तराभाद्रसंयुक्ता ध्रुवयोगसमन्विता ॥
घटिकातृतयं जातं तुलालग्नमुपस्थितं ।
पृथ्वीपर्याटनार्थाय नारदः सञ्ज्ञकां हरिः ॥
भूमेर्भारावताराय दैत्यनाशोद्यमाय च ।
अवतारः समुद्भुतो सर्वपपौघमुक्तये ।
विष्णुक्रीडेक्षनार्थाय सर्वकल्याणहेतवे ।
नारदस्यावतारोहौ कुर्याद्धरिप्रदक्षिणां ॥
अष्टोत्तरशतैः सङ्खैः व्रजयात्राफलं लभेत् ।
अथ पृथ्वावतारजन्मनिणयः ।
पाद्मे —
माघे मास्यसितेपक्षे षष्ठी भौमयुतायदि ।
हस्तसुकर्मतोगाढ्या घटी जातास्त्रयोदश ॥
मीनलग्नोदये प्राप्ते ऽवतारश्च पृथोर्भवेत् ।
विमलावनिरम्याय समस्तपृथिवीतले ॥
पृथु जन्म दिने जाते गृहदानं समाचरेत् ।
भूमिग्रामादिदानं च सहस्रगुणितं फलं ॥
सर्वदा सुखसम्पत्या रमते पृथिवीतले ।
अखण्डं पदवीं लब्ध्वा चक्रवर्त्ती भवेन्नृपः ॥
इतिपृथुरजावतारजन्मनिर्णयः ॥
अथ भृग्ववतारजन्मनिर्णयः ।
वामनपुराणे —
ज्येष्ठ शुक्लाष्टमी जाता भृगुवारसमन्विता ।
मघा व्याघातयोगेन संयुता तपवर्धिनी ॥
पञ्चनाडीगते काले लग्ने च मिथुने स्थिते ।
सञ्जीवनीसमायुक्तोऽवतरद्भृगुनन्दनः ॥
कविराज इति ख्यातस्त्रैलोक्यविजयप्रदः भृगुजन्मदिने जाते शस्यभूमिं प्रपूजयेत् ॥
चतुर्दश गुण धान्यं वर्धते नात्र संशय ।
अतिवृष्टावनाबृष्टौ न्यूनाधिक्यं न जायते ॥
इति भृग्ववतारजन्मनिर्णयः ।
अथ धन्वन्तर्यवतार जन्म निर्णय ।
स्कान्दे —
कार्त्तिकस्यासिते पक्षे ह्यमावस्या भृगुर्युता ।
विशाखा ऋक्षसंयुक्ता योगसौभाग्यसंयुता ॥
तस्यां पाणौ समाधाय ह्यौषधी च हरितकीं ।
चतुर्दाशाख्यरत्नानां मध्ये धन्वन्तरिःप्रभुः ॥
लोकसञ्जीवनार्थाय समुद्रमन्थनोद्भवः ।
भगवद्दवतारस्तु वैद्यराजोऽभवद्भुवि ॥
धन्वन्तरिरुवाच —-
ग्रीष्मे तुल्यगुडांशर्सैधवयुतां मेघावरुद्धेन्वरे ।
तुल्याशङ्केरया शर्द्यमलया शुठ्या तुषारागमे ॥
पिपल्या शिषिरे वसन्तसमये क्षौद्रेण संसेव्यतां ।
राजन्प्राश्य हारेतकीमिव गदाः नश्यन्तु ते शत्रवः ॥
तस्मिनमादिने जाता रत्नानीव चतुर्दशाः ।
सूर्योदयात्समारभ्य शेषमईकघटीदिनं ॥
आदौ विष१सुरा २ श्चन्द्रं ३ कामधेनु ४ श्च कौस्तुभः ५ ।
कल्पवृक्षो ६ धेनू७ रम्भा ८ गजैरावतसञ्ज्ञकः ९॥
धन्वन्तरि १० हरेः शङ्खः ११ लक्ष्मी १२ रुच्चैःश्रवाहयः १३ ।
पीयूषममृतं ह्येते रत्नानीव चतुर्द्दशः ॥
अन्तरान्तरतो जाता रत्नानीव चतुर्द्दाशः ।
अमावास्योद्भवे रात्रौ लक्ष्मीपूजनमाचरेत् ॥
लक्ष्मीनारायणस्यापि ह्यभिषेकं च जन्मनि ।
धनधान्यसमृद्धिस्तु सर्वदा सौख्यमाप्नुयात् ॥
चतुर्द्दशानां रत्नानामेतेषां पूजनं चरेत् ।
लक्ष्मीपूजाविधानं व्रजोत्सवाल्हादिन्यां —
लक्ष्मी कौस्तुभ पारिजातक सुरा धन्वन्तरिश्चन्द्रमाः ।
गावः कामदुघाः सुरेश्वरगजो रम्भा च देवाङ्गना ॥
अश्वः सप्तमुखोः सुधा हरिधनुः शङ्खो विषं चाम्बुधेः ।
रत्नानीव चतुर्द्दाशः प्रसिदिनं कुर्वन्तु वो मङ्गलं ॥
धन्वतरिप्रसङ्गेन रत्नजन्मानि व्याख्याते ॥ इति धन्वन्तरी जन्म निर्णय ॥
अथ हयग्रीवावतारजन्मनिर्णयः ।
हयग्रीवपञ्चरात्रे —
चैत्रमस्यसिते पक्षे पञ्चमी गुरुसंयुता ।
अनुराधा समायुक्ता सिद्धियोगसमन्विता ॥
एक विंश घटी जाता कर्कलग्नोदये यदि ।
हयग्रीवावतारस्तु भवेन्नारायणो हरिः ॥
इति हयग्रीवावतारजन्म निर्णयः ॥
अथ दत्तात्रेयावतारजन्मनिर्णयः ।
भविष्ये —
श्रावणस्यासिते पक्षे सप्तमी सोमसंयुता ।
सूलाश्विनी समायुक्ता घटी सप्त व्यतीयताः ॥
सिंहलग्नोदये जाते दत्तात्रेयोऽभवद्धरिः ।
अत्र्यषेर्वरदानेन ब्रह्मा विष्णु महेश्वरा ॥
अनसूयाः समाजातास्त्रयो पुत्राः वरप्रदाः ।
ब्रह्मावतारसम्भूतश्चन्द्रमाकलयान्वितः ॥
दत्तात्रेयोऽभवत् पुत्रः विश्णुरवतरत् स्वयं ।
विप्रादिपूजनार्थाय धर्माधर्मविवेकवित् ॥
शिवावतारसम्भूतो दुर्वासो मुनिसत्तमः ॥ इति दत्तात्रेयावतारजन्मनिर्णयः ॥
अथ हर्यवतारजन्मनिर्णयः ।
आदिपुराणे —
मार्गशिर्षेऽसिते पक्षे नवमी बुधसंयुता ।
उत्तरा फाल्गुनी ऋक्ष प्रतियोगसमन्विता ॥
सूर्योदयात्समारभ्य व्यतीता घटिका नव ।
धनुलग्नसमायातेऽवतारां हरिसञ्ज्ञकः ॥
इति हर्यवतार जन्म निर्णयः ।
अथ ऋषभदेवावतार जन्म निर्णयः ।
वायुपुराणे —
पौषे मासि सिते पक्षे दशमी भृगुसंयुता ।
कृतिकाशुभयोगाढ्या घटी जाताश्च द्वादश ॥
कुम्भलग्नोदये जाते ऽवतरदृषभो हरिः ।
लोकानां च हितार्थाय तत्वज्ञानार्थहेतवे ॥
सञ्ज्ञो ऋषभदेवाख्योऽवतारा विष्णुसम्भवः ।
अथ परमहंसावतारजन्मनिर्णयः ।
परमहंससंहितायां —
शुक्लपक्षे सहोमासे तृतीयाबुधसंयुता ।
पूर्वाषाढा समायुक्ता वृद्धियोगसमन्विता ॥
घटी जातास्त्रयोविंशाः मेषलग्नोदये यदि ।
परमहंसावतारः जायते पृथिवीतले ॥
तत्वार्थदर्शनार्थाय हंसो नारायणो भवत् ।
जन्मोत्सवे च हंसस्य बलदेवादिमूर्त्तिषु ॥
श्वेतवस्त्रे परिधाय मुक्तामालां समर्पयेत् ।
सर्वदा सौख्यमाप्नोति सहस्रगुणितं फलं ॥
मुक्तादिवहुद्रव्याद्यैर्धनाढ्यो जायते नरः ॥ इति परमहंसावतारजन्मनिर्णयः ॥
अथ प्रल्हादावतारजन्मनिर्णयः ।
प्रल्हदसंहितायां —
शुभे फाल्गुनमासे तु द्वितीया शुक्लपक्षगा ।
पूर्वभाद्रपदाविष्टा सिद्ध्वियोग समन्विता ॥
गुवुरेण संयुता घटी जाताश्चतुर्द्दशाः ।
मेषलग्नोदये जातं प्रल्हादोऽवतरद्धरिः ॥
दैत्यराजकुलोत्पान्नो जगदानन्दहेतवे ।
चक्रुरिन्दादयो देवाः पुष्पानां वृष्टिमायती ॥
समस्तपृथिवीलोके पुष्याख्या द्वितीया भवेत् ।
प्रल्हादप्रभवोत्साहे ब्राह्मणान्भोजयेन्नरः ॥
कदा कष्टं न पश्येत नृहरेर्वरमाप्नुयात् ॥ इति प्रल्हादावतारजन्मनिर्णयः ॥
अथ धनञ्जयावतारजन्मनिर्णयः ।
ब्रह्माण्डे —
एकादश्यां सिते पक्षे आश्विने विजयप्रदे ।
धनिष्ठा ऋक्षयुक्तायां भृगुणाधृतिसंयुते ॥
जाताः सप्तदशाः नाड्यः लग्नगे मकरोदये ।
कौरवानां क्षयाथाय हरयुद्धार्थिनं हरिः ॥
कुन्तीपुत्रोऽभवद्विष्णुरवतारीऽजुनोऽवनौ ।
धनन्जयावतारे ऽह्नौ धनुः पूजां करोन्नृपः ॥
वहु सङ्कष्टसङ्ग्रामे विजयस्तस्य जायते ।
भगवत्कलया जाता अवताराश्चतुर्दशः ॥
चतुविंशावताराणां जन्मसञ्ज्ञादिनेष्वपि ।
जायते नरलोकेऽस्मिन् सुतो वा कन्यकापि वा ॥
भगवत्कलयाजातस्तद्रूपं तत्पराक्रमं ॥ इति चतुर्विंशावतारजन्मनिर्णयः ॥
महार्णवे —
मत्स्यकूर्मवाराहवामनहरि रामोर्जुनो नारदो ।
बौद्धोव्यासपृथुभृगु हलधरो धन्वन्तरिर्भार्गवः ॥
दत्तात्रेयनृसिंहग्रीवकपिलो प्रल्हादहंसो ध्रुवः ।
कल्कीश्रीऋषभार्वतारगणनायायाच्चतुर्विंशगाः ॥
दृष्टान्ते मत्स्यकूपस्य भाण्डीरस्य परिक्रमे ।
इत्येते च समाख्याताश्चतुर्विंशावतारगाः ॥
ततो भाण्डीरवनेऽशोकवृक्षप्रार्थनमन्त्रः ।
पाद्मे —
सीताशोकच्छिदे तुभ्यमशोकाय नमो नमः ।
सदानन्दस्वरूपय पातिव्रतप्रदायिनि ॥
इति मन्त्रं समुच्चार्य चतुदाशं नमश्चरेत् ।
सदानन्दाप्नुति लोको सौभाग्य सुखमन्वभूत्॥७९॥
ततो ऽशोकमालिनीवनदेवताप्रार्थनमन्त्रः —
अशोकमालिनीभ्यस्तु नमस्तुभ्यो वरप्रदे ।
अशोकवररक्षाभ्यो देवतायो प्रसीद मे ॥
इति मन्त्रं समुच्चार्य सप्तभिः प्रणतिंश्चरेत् ।
अधिष्टातावलोकानां लक्ष्मीवान् जायते नरः ॥८०॥
ततो ऽघासुरवधस्थानप्रार्थनमन्त्रः —
मुक्तिस्वरूपिणे तुभ्यमघासुखवधस्थल ।
कृष्णामुक्तिकृते तीर्थे नमस्ते मोक्ष्दायिने ॥
इति मन्त्रं दशावृत्या नमस्कारं समाचरेत् ।
सर्वपापविनिर्मुक्तो विश्णुसायुज्यमाप्नुयात् ॥
ततो प्रदक्षिणां कुर्यात् क्रोशद्वयप्रमाणतः ।
इति भाण्डीरवनस्य माहात्म्यं परिकीर्त्तितं ॥
इति श्रीभास्करात्मजनारायणभट्टविरचिते व्रजभक्तिविलासे परमहंससंहितोदाहरणे
व्रजमहात्म्यनिरूपणे नवमोऽध्यायः ॥
—ओ)०(ओ—
(१०)
॥ दशमो ऽध्यायः ॥
अथ छत्रवनप्रदक्षिणा कौर्म्ये —
भाद्रशुक्लाख्यसप्तम्यां ज्येष्ठाऋक्षसमन्विते ।
स्थित्वा छत्रवने लोकः प्रार्थनां कुरुते शुचिः ॥
प्रार्थनामन्त्र — गोपिकान्वितकृष्णाय नमरते छत्रधारिणे ।
इन्द्रादिदेवताभ्यस्तु वरदाय नमो नमः ॥
इति मन्त्रं शतावृत्त्या नमस्कारं समाचरेत् ।
छत्रधारी भवेद्राजा मानवो नात्र संशयः ॥१॥
ततो सूर्यकुण्डस्नानाचमनप्रार्थनमन्त्रः —
भास्कराय नमस्तुभ्यं प्रतिबिम्बस्वरूपिणे ।
रविपतनसम्भूत तीर्थराज वरप्रद ॥
इत्येकादशभिर्मन्त्रमज्जनाचमनैर्नमन् ।
कृतकृत्य भवेल्लोको पुनर्जन्म न विद्यते ॥
ततो प्रदक्षिणां कुर्यात्सपादद्वयक्रोशजां ।
स्वर्णरुक्ममयं छत्रं कृत्वा च हरयेऽर्पयेत् ॥
छत्रधारी भवेल्लोको ह्यखण्डपदसंस्थितः ।
सहस्रगुनितं पुन्यं फलमाप्नोति मानवः ॥
इति छत्रवनस्यापि प्रदक्षिणमुदाहृतम् ।
इति छत्रवन प्रदक्षिणा ॥२॥
अथ खदिरवनप्रदक्षिणा ।
आदिवाराहे —
भाद्रशुक्लचतुर्थ्यां तु गत्वा खद्रवनं शुभं ।
प्रार्थनां कुरुते यस्तु शुचिर्भूत्वा समाश्रितः ॥
ततो खदिरवनप्रार्थनमन्त्रः —
नमः खद्रवनायैव नानारम्यविभूतये ।
देवगन्धर्वलोकानां वरदाय नमोऽस्तु ते ॥
इति मन्त्रं समुच्चार्य नवभिः प्रणतिं चरेत् ।
सर्व कामानवाप्नोति मुक्तिमाप्नोति मानवः ॥३॥
ततो माधवकुण्डस्नानाचमनप्रार्थनमन्त्रः —
तीर्थराज नमस्तुभ्यं माधवस्नपनोद्भव ।
त्रिवर्गफलदायैव नमस्ते मोक्षदायिने ॥
इति द्वादशभिर्मन्त्रं मज्जनाचमनैर्नमन् ।
परमैशं पदं लब्धा विष्णुसायुज्यमाप्नुयात् ॥
सपादक्रोशसङ्ख्येन प्रदक्षिणमथाचरेत् ।
इति खद्रवनस्यापि कुर्यात्साङ्गप्रदाक्षिणां ॥
इति खदिरवनप्रदक्षिणा ॥४॥
अथ लोहवनप्रदक्षिणा ।
वायुपुराणे —
एकादश्यां सिते पक्षे मासि भाद्रपदे शुभे ।
गत्वा लोहवनं श्रेष्ठं प्रार्थनं कुरुते नरः ॥
प्रार्थनामन्त्र —
लोहजङ्घानसम्भूत कलाकाष्ठास्वरूपिणे ।
सर्व-वाधाविमुक्ताय नमस्ते लोहसञ्ज्ञके ।
॥
इति मन्त्रं समुच्चार्य विंशसङ्ख्या नतिञ्चरेत् ।
रोगस्य दर्शनं नैव कदाचित्तस्य जायते ॥५॥
ततो जरासन्धाक्षौहिणीपराजयस्थानप्रार्थनमन्त्र —
कृष्णविजयिने तुभ्यं सूर्यकुण्डसमाह्वय ।
। नमस्ते तीर्थ राजाय सर्वकल्मषनाशने ॥
इति मन्त्रं समुच्चार्य मज्जनाचमनैर्नमन् ।
त्रैलोक्यविजयी भूयाद्धर्मपाल इव स्थितः ॥
इति लोहवनस्यापि प्रदक्षिणमुदाहृतम् ॥६॥
अथ भद्रवनप्रदक्षिणा ।
भविष्योत्तरे —-
भाद्र शुक्लर्षिपञ्चम्यां शुभं भद्रवनं गतः ।
प्रार्थनमन्त्रः —-
भद्राय भद्ररूपाय सदा कल्याणवर्धने ।
अमङ्गलच्छिदे तस्मै नमो भद्रवनाय च ॥
इत्येकोनशतावृत्या नमस्कारं समाचरेत् ।
नानाविविधकल्याणैः परिपूर्णसुखे लभेत् ॥७॥
ततो भद्रसरः स्नानाचमनप्रार्थनमन्त्रः —-
यज्ञस्नानस्वरूपाय राज्याखञ्डपदप्रद ।
तीर्थराज नमस्तुभ्यं भद्राख्यसरसे नमः ॥
इति मन्त्रं दशावृत्या मज्जनाचमनैर्नमन् ।
अखञ्डपदराज्यं च लभते नात्र संशयः ॥८॥
ततो भद्रेश्वरमहादेवप्रार्थनमन्त्रः —-
भद्रेश्वराय देवाय सर्वदा शुभदायिने ।
नमो भद्रस्वरूपाय वामदेव नमोस्तु ते ॥
इत्येकादशभिर्मन्त्रं गालिनी मुद्रया नमन् ।
सर्वकल्याणसम्पन्नो शिवलोकमवाप्नुयात् ॥
पादोनद्वयक्रोशेन प्रदक्षिणमथाकरोत् ।
प्रदक्षिणा समाख्याता नामभद्रवनस्य च ॥
इति भद्रवनप्रदक्षिणा ॥९॥
अथ बिल्ववनप्रदक्षिणा ।
भविष्योत्तरे —-
द्वादश्यां शुक्लपक्षे तु मासि भाद्रपदे तिथौ ।
गत्वा बिल्ववनं श्रेष्ठं प्रार्थनं च समाचरेत् ॥
ततो बिल्ववनप्रार्थनमन्त्रः —
तपःसिद्धिप्रदायैव नमो बिल्ववनाय च ।
जनार्द्दान नमस्तुभ्यं बिल्वेशाय नमोस्तु ते ॥
इति मन्त्रं समुच्चार्य नवभिः प्रणतिं चरेत् ।
लोकानां जायते पुज्यो शिवतुल्यवरप्रदः ॥१०॥
ततो बकासुरवधस्थानप्रार्थनमन्त्रः —
कृष्णवरप्रसादाय बकासुरवधस्थल ।
नमस्ते मुक्तिरूपाय वैष्णवपददायिने ॥
इति मन्त्रं समुच्चार्य षोडश प्रणतीञ्चरेत् ।
वैष्णवपदमालभ्य लोकानां वरदोऽभवत् ॥११॥
ततो नारदकुण्डस्नानाचमनप्रार्थनमन्त्रः —
नन्दादिसर्वगोपानां तीर्थस्नपनसम्भवः ।
तीर्थराज नमस्तुभ्यं नन्दकुण्ड नमोऽस्तु ते ॥
इति मन्त्रं समुच्चार्य दशभिर्मज्जनाचमैः ।
नमस्कारं प्रकुर्वीत गोधानादिभिः संयुतः ॥१२ ।
ततो मानमाधुरीकुण्डस्नानाचमनप्रार्थनमन्त्रः —-
गोपीमानोद्भव क्रीडाजलकेलिसमुद्भव ।
माधुरीकृततीर्थाय नमस्ते वरदायिने ॥
इति सप्तदशावृत्या मज्जनाचमनैर्नमन् ।
कलत्रगृहसौख्याद्यैः संयुतो सुखमन्वभूत् ॥
ततो बिल्ववनस्यापि क्रोशार्धं च प्रदक्षिणां ।
कुरुते लभते सौख्यं धनधान्यसमाकुलं ॥
इति बिल्ववनप्रदक्षिणा ॥१३॥
अथ बहुलावनप्रदक्षिणा ।
मात्स्ये —-
द्वादश्या भाद्रकृष्णे तु बहुलाख्य सखीवनं ।
गतस्तु प्रार्थानां कुर्यान्मन्त्रमेनं समुच्चरन् ॥
ततो बहुलावनप्रार्थनमन्त्रः —-
बहुलासखीरम्याय बहुलाख्यवनाय च ।
नमः पुत्रप्रदायैव पब्जनामेश्वराय च ॥
इति मन्त्रं समुचार्य नवभिः प्रणतिं चरेत् ।
पुत्रवान् धनवान् गोमान् लोकपूज्यो भवेन्नरः ॥१४॥
ततो सङ्कर्षणकुण्डस्नानाचमनप्रार्थनमन्त्रः —-
अग्रजस्नपनोद्भूत तीर्थसङ्कर्षणाह्वय ।
तीर्थराज नमस्तुभ्यं सर्वपापौघनाशनः ॥
इति मन्त्रं दशावृत्या मज्जनाचमनैर्नमन् ।
सर्वसङ्कष्टनिर्मुक्तोह् वाञ्छितं फलमाप्नुयात्॥१५॥
ततो कृष्णकुण्डस्नानाचमनप्रार्थनमन्त्रः —
कृष्णस्नपनसञ्जात कृष्णकुण्ड नमोऽस्तु ते ।
सप्तवर्णजलाल्हाद सर्वदा कृष्णवल्लभ ॥
इति त्रयोदशावृत्या मज्जनाचमनैर्नमन् ।
कृष्णतुल्यवलोद्भूतो शतनारीपतिर्भवेत् ॥
क्रोशद्वयप्रमाणेन प्रदणिणमथाकरोत् ।
बहुलायाः वनस्यापि धनधान्यसमाकुलः ॥
इति बहुलावनप्रदक्षिणा ॥१६॥
अथ मधुवनप्रदक्षिणा ।
वाराहे —-
एकादश्यां च भाद्रेऽस्मिन् कृष्णपक्षे व्रतोत्सवे ।
गच्छेन्मधुवनं श्रेष्ठं प्रार्थनां क्रियते शुचिः ॥
तता मधुवनप्रार्थनमन्त्रः —
मधुदानसमुद्भूत सहस्रगुणितार्थदः ।
माधवेशाय रम्याय नमो मधुवनाय च ॥
इति मन्त्रं समुच्चार्य पञ्चभिःप्रणतीं चरेत् ।
नित्यैव माधवस्यापि स्वप्ने दर्शनमाप्नुयात् ॥१७॥
ततो विदुरस्थानप्रार्थनमन्त्रः —-
विदुरस्थान रम्याय सर्वकामार्थ दायिने ।
नभः काञ्चनवैडूर्यमणिमुक्तामयाय च ॥
इति मन्त्रं समुच्चर्य नवभिः प्रणतिं चरेत् ।
काञ्चनाद्येः कृतैरम्यैः हर्माद्यैः सुखमन्वभूत् ॥१८॥
ततो मधुसूदनकुण्डस्नानाचमनप्रार्थनमन्त्रः —-
मधुसूदनकुण्डाय तीर्थ राज नमोऽस्तु ते ।
पीतरक्तसितस्यामनिर्मलक्षीरपूरितः ॥
इति चतुर्द्दशावृत्या मज्जनाचमनैर्नमन् ।
विष्णुलोकमवाप्नोति कृतकृत्या भवेन्नरः ॥
सांर्धक्रोशप्रमाणेन कुर्यात्साङ्गप्रदक्षिणां ।
मधुदानं च विप्राय कांस्यपात्रे निधाय च ॥
कांस्यपात्रं प्रस्थमानं मधुपूर्णं मनोरमं ।
दानेन सर्वदेष्टं स यथा सौख्यमवाप्नुयात् ॥
लवणासुरवधस्थान लवणासुरगुफा शत्रुघ्नकुण्ड शत्रुघ्नमुर्त्तिप्रार्थनस्नानाचमनं पूर्वोक्तमन्त्रविधानेन कुर्यान् ।
इति मधुवनप्रदक्षिणा ॥१९॥
अथ मृद्वनप्रदक्षिणा ।
वाराहे ।प्रार्थनामन्त्रः —-
भद्रस्वरूपिणे तुभ्यं मृद्वनाय नमो नमः ।
आवाससुखदायैव परिपूर्णवरप्रद ॥
इति मन्त्रं समुच्चार्य सप्तभिः प्रणतिञ्चरेत् ।
सर्वार्थ परिपूर्णं तु गृहसौख्यमवाप्नुयात् ॥
यत्रैव गृहदानं स कुर्यात्पूर्णमनोरथैः ।
परस्मिन्निहलोकेऽस्मिन्सहस्रगुणितं फलं ॥२०॥
ततो प्रजापतिस्थानप्रार्थनमन्त्रः —-
त्रैलोक्यसुखरम्याय प्रजापतिविनिर्मित ।
नमः कैवल्यनाथाय मुक्तये मुक्तरूपिणं ॥
इति मन्त्रं षडावृत्या नमस्कारं समाचरेत् ।
धनधान्यसमृद्धिस्तु परिपूर्णसुखं लभेत् ॥
सार्धक्रोशत्रयेणैव प्रदक्षिणमथाकरोत् ।
मृद्वनस्य महाभाग क्रमभ्गविवर्जितः ॥
इति मृद्वनप्रदक्षिणा ॥२१॥
अथ जह्नुवनप्रदक्षिणा ।
भविष्ये —-
आषाढ कृष्णपञ्चम्यां व्रजयात्रापरिक्रमे ।
गच्छेज्जह्नुवनं श्रेष्ठं जह्नुना निर्मितं स्थलं ॥
प्रार्थनामन्त्रः —- जह्न्वर्षिनिर्मितावास रमणीकायभूमये ।
जाह्नवीपावनार्थायं वनाय च नमोऽस्तु ते ॥
इति मन्त्रं दशावृत्या नमस्कारं समाचरेत् ।
गङ्गास्नपनजं पुण्य नित्यमेव फलं लभेत् ॥२२॥
ततो वामनकुण्डस्नानाचमनप्रार्थनमन्त्रः —-
वामनकृततीर्थाय जह्नुपूज्यवरप्रद ।
सदा पावनरूपाय तीर्थराज नमोऽस्तु ते ॥
इति मन्त्रं समुच्चार्य मज्जनाचमनैर्नमन् ।
त्रैलोक्यविजयीभूयात् लोकानामतिवल्लभः ॥
क्रोशद्वयप्रमाणेन प्रदक्षिणमथाकरोत् ।
जह्नुवत्सिद्धिमाप्नोति लोकपूज्यो भवेद्भुवि ॥
इति जह्नुवनप्रदक्षिणा व्रजयात्राप्रसङ्गे ॥२३॥
अथ मेनिकावनप्रदक्षिणा ।
स्कान्दे —-
ज्येष्ठ शुक्ल तृतीयायां व्रजयात्राप्रसङ्गके ।
मेनिकाया वनं गत्वा प्रार्थनं च समाचरेत् ॥
नानाकल्हाररम्याय सख्या मेनिकया कृत ।
नमः परमकल्याण नमस्ते मेनिकाह्वय ॥
इति मन्त्रं समुच्चार्य नवभिः प्रणतिं चरेत् ।
मैनाकोद्भवरत्नैश्च परिपूर्णसुखं लभेत् ॥२४॥
ततो रम्भासरस्नानाचमनमन्त्रः —-
रम्भास्नपनहेलाढ्य रम्भायाः सरसे नमः ।
तीर्थराज नमस्तुभ्यं दिव्यरूपाभिधायिनं ॥
इति चतुर्दशावृत्या मज्जनाचमनैर्नमन् ।
सदा दिव्याङ्गरूपत्वं विमलं जायते भुवि ॥
सार्ध क्रोशप्रमाणेन प्रदक्षिणमथाकरोत् ।
चतुर्द्दशगुणं पुण्यं फलमाप्नोति मानवः ॥
इति व्रजयात्राप्रसङ्गे मेनिकावनप्रदक्षिणा ॥२५॥
अथ कजलीवनप्रदक्षिणा ।
लैङ्गे —-
ज्येष्ठकृष्णचतुर्थ्या च कजलीवनमाप्नुयात् ।
प्रार्थनां कुरुते यस्तु व्रजयात्राप्रसङ्गतः ॥
ततो कजलीवनप्रार्थनमन्त्रः —
शक्राय देवदेवाय वृत्रघ्ने शर्मदायिने ।
कजलीवनसञ्ज्ञाय नमस्ते करिदायिने ॥
इति मन्त्रं समुच्चार्य पञ्चभिः प्रणतिं चरेत् ।
हस्तिवन्धो भवेल्लोको धनधान्यसमाकुलः ॥२६॥
ततो पुन्डरीकसरः स्नानाचमनप्रार्थनमन्त्रः —-
पुण्डरीककृतोद्भूत तीर्थराज नमोऽस्तु ते ।
शक्रैश्वर्यप्रदायैव पीतवारिवरप्रदे ॥
इति मन्त्रं दशावृत्या मज्जनाचमनैर्नमन् ।
पुण्डरीककृताद् यज्ञात्स्नपनफलमाप्नुयात् ॥
क्रोशमेकं प्रमाणेन प्रदक्षिणमथाकरोत् ।
हस्तिदानं करोद्यत्र सहस्रगुणितं फलं ॥
इति व्रजयात्राप्रसङ्गे कजलीवनप्रदक्षिणा ॥२७॥
अथ वन-यात्राप्रसङ्गे नन्दकूपवनप्रदक्षिणा ।
विष्णुपुराणे —-
भाद्रशुक्लद्वितीयायां नन्दकूपवनं गतः ।
श्रेष्ठकाम्यवनस्यापि प्रदक्षिणप्रसङ्गतः ॥
ततो नन्दकूपवनप्रार्थनमन्त्रः —-
नन्दकूपवनायैव गोपानां वरदायिने ।
तापार्त्तिहरये तुभ्यं नमस्त्वाल्हादवर्धिने ॥
इति मन्त्रं चतुर्भिस्तु नमस्कारं समाचरेत् ।
सकलेच्छाफलं लब्द्वा अन्ते विष्णुपदं गतः ॥२८॥
ततो दीर्घनन्दकूपस्नानाचमनप्रार्थनमन्त्रः —-
अतिविस्तृतकूपाय नन्दादिरचिताय च ।
तीर्थराज नमस्तुभ्यं सर्वदा तृट्पशान्तये ॥
इति मन्त्रं समुचार्य सप्तभिर्मज्जनाचमैः ।
आयुरारोग्यमाप्नोति विचरन् प्रृथिवीतले ॥२८॥
ततो गो गोपालप्रार्थनमन्त्रः —-
गोगोपाल समेताय कृष्णाय वरदायिने ।
नानासुखोपवेष्टाय नमः केलिस्वरूपिणे ॥
इति पं च दशावृत्या नमस्कारं समाचरेत् ।
सर्वदा सुखसम्पत्या रमते प्रृथिवीतले ॥
पादोनत्रयक्रोशेन कुर्यात्साङ्गम्प्रदक्षिणां ।
नन्दकूपवनस्यापि गवामधिपतिर्भवेत् ॥
इति वन-यात्राप्रसङ्गे कुशवनप्रदक्षिणा ।
ब्रह्मान्डे —-
ज्येष्ठकृष्णचतुर्द्दश्यां गत्वा कुशवनं शुभं ।
प्रार्थनां कुरुते यस्तु पितृणामक्षयप्रदं ॥
ततो कुशवनप्रार्थनमन्त्रः —-
पुण्याय पुण्यरूपाय पावनाय नमो नमः ।
अक्षयफलदायैव नमः कुशवनाय ते ॥
इति त्रयोदशावृत्या नमस्कारं समाचरेत् ।
अक्षयं प्रदमाप्नोति कृतकृत्यो भवेद्भुवि ॥३०॥
ततो मानसरःस्नानाचमनप्रार्थनमन्त्रः —-
मानसिक्यघनाशाय मुक्तये मुक्तिरूपिणे ।
आल्हादमनसे तुभ्यं नमस्ते मानसाह्वये ॥
इति मन्त्रं दशावृत्या मज्जनाचमनैर्नमन् ।
कदा दुःखं न पश्येत सौमनस्यं रमेद्भुवि ॥३१॥
कुर्यात् कुशवनस्यापि सपादद्वयक्रोशजां ।
प्रदक्षिणां समासेन देवपितृवरं लभेत् ॥
इति व्रजयात्राप्रसङ्गे कुशवनप्रदक्षिणा ॥३२॥
अथ ब्रह्मवनप्रार्थनमन्त्रः ।
ब्राह्मे —
आषाढकृष्णषष्ठयां च गत्वा ब्रह्मवनं शुभं ।
प्रार्थयेद्विधिपूर्वेण ब्रह्मकर्मवरप्रदः ॥
प्रार्थनमत्रः —— ब्रह्मणे ब्रह्मरूपाय त्रैवर्गफलदायिने ।
नमः ब्रह्मवनायैव मन्त्रसिद्धिस्वरूपिणे ॥
इति मन्त्रं समुच्चार्य नवभिः प्रणतिं चरेत् ।
ब्रह्मलोकमवाप्नोति ब्रह्मकर्मवरप्रदः ॥
ततो ब्रह्मयज्ञकुण्डस्नानाचमनप्रार्थनमन्त्रः —-
ब्रह्मयज्ञकृतोद्भूत तीर्थराज नमोऽस्तु ते ।
देवर्षिमुनिगन्धर्वमनुजपवनाय ते ॥
इति मन्त्रं समुच्चार्य द्वादशैर्मज्जनाचमैः ।
नमस्कारं प्रकुर्वीत यज्ञस्नपनजं फलं ॥
पादोनक्रोशमानेन प्रदक्षिणमथाचरेत् ।
तपःसिद्धिमवाप्नोति लोकानां वरदायकः ॥
इति व्रजयात्राप्रसङ्गे ब्रह्मवनप्रदक्षिणा ॥३३॥
अथाप्सरावनप्रदक्षिणा वन-यात्राप्रसङ्गे ।
शक्रयामले —-
भाद्रकृष्णचतुर्दश्यामप्सरणां वनं गतः ।
प्रार्थनां कुरुते यस्तु परिपूर्णसुखं लभेत् ॥
अप्सरावनप्रार्थनमन्त्रः —
सेन्द्राप्सरमनोरम्य देवावाससुखप्रद ।
नमो रम्यवनायैव सदानन्दस्वरूपिणे ॥
इति त्रिभिः पठन्मन्त्रं नमस्कारं त्रयं चरेत् ।
सर्वदा सुरवसम्पत्या गृहसौख्यमवाप्नुयत् ॥३४॥
ततो ऽप्सराकुण्डस्नानाचमनप्रार्थनमन्त्रः —
अप्सराहेलयोद्भूत कृष्णेन्द्रस्नपनोद्भव ।
कल्याणरूपिणे तुभ्यं तीर्थदेव नमोऽस्तु ते ॥
इति मन्त्रं पठित्वा तु षोडशैर्मज्जनाचमैः ।
सर्वदा विमली भूत्वा सर्वभोगान्भुनक्वि सः ॥३५॥
यथा चतुर्युगे शक्रः सुराणामधिपो भवत् ।
तथा चतुर्युगोद्भूताः मत्स्यादयः ध्रुवादयः ॥
अवताराश्चतुर्विंशाः क्रीडन्ते पृथिवीतले ॥३६॥
विष्णुधर्मोत्तरे —
मत्स्य कूर्म वराह वामन हरि बौद्ध पृथुसञ्ज्ञकः ।
प्रल्हादोऽथ नृसिंहव्यासभृगुजो धन्वन्तरिसञ्ज्ञकः ॥
एते द्वादशधावतार कथिताः सत्योद्भवाः पावनाः ।
क्रीडार्थं पृथिवीतलेऽशुभहराः पापौघनाशाय ते ॥
इति सत्ययुगोद्भूतावतागः हरेः स्वयं ।
प्रसङ्गतः समाख्याताः पृथिवीतलभूतये ॥३७॥
त्रेतोद्भवो भार्गवरामनाम पुनश्च रामो रघुवंशसम्भवः ।
मुनिश्च जातो कपिलाभिधानस्त्रयोवताराः शुभदा भवन्तु ॥३८ ॥
दत्तात्रेय ध्रुवश्च नारदमुनिः हंसावतारो हरिः ।
श्रीदेवो ऋषभावतारमनुजो ग्रीवोऽजु नो पाण्डवः ॥
शेषो श्रीबलदेवसञ्ज्ञकहरिः कृष्णः यशोदासुतः ।
एते द्वापरसम्भवाः नवभिधाः लोके सदा पावनाः ॥३९॥
कल्की सम्भरसम्भवो हरिहयः कल्युद्भवो केशवः ।
इत्येता कथितावतारगणनाः कुर्वन्तु वो मङ्गलम् ॥
चतुविंशावताराणां कृष्णो क्रीडाविष्टो भवत् ।
इति चतुर्युगोद्भवाश्चतुर्विंशावताराः ॥४०॥
अथ प्रसङ्गाच्चतुर्युगोत्पन्नधान्यादयः ।
वायुपुराणे —
स्वेताभन्तदुलाश्चैव मुद्गगोधूम शर्कराः ।
तिलशृङ्गाटकं चैव लवणं दुग्धगोलकं ॥
इत्येतत्कथितं सर्वं कार्यं सत्ययुगोद्भवं ।
रक्ततन्दुलमाषश्च मुण्टकं गोदूमसूरिका ॥
वज्रधान्यसितारक्ता समासर्करलडुकं ।
एतत् त्रेतायुगोत्पन्नं बन्टकं माषसम्भवं ॥
विश्वामित्रप्रियं धान्यं रचितं सृष्टिहेतवे ।
यवचणकमाराही मन्ठी सर्करभद्रकं ॥
एतद्द्वापरसम्भूतं पक्वानं धान्यसञ्चयं ।
कोद्रवसर्षपार्षी च पुस्तमुस्तागुडं तथा ॥
पूपाभिधान पक्वान्नं कलिकाले समुद्भवं ।
इति चतुर्युगोत्पन्नधान्यानि ॥
अथ चतुर्युगोत्पन्नशाकादयः ।
भविष्ये —
कुष्माञ्ड कर्कटी हाल्य तुन्वरान्रकाभूमिजः ।
मुरला कर्करा एते युगसत्यसमुद्भवाः ॥
सरदा कदलीवृता चूकढाण्ढस पपटं ।
कर्णदूर्वावनीकन्दलवणाख्या उदाहृताः ॥
एते त्रेतायुगोद्भूताः शाकःनैवेद्यसञ्ज्ञ्काः ।
सुवापालाग्निमिथीका तूर्या विम्वावछेछिका ॥
वर्डुराफद्दकीख्यातः शाकाः द्वापरसम्भवाः ।
मूर्वा भिन्डी करेला च रक्तदण्डार्यर्चैञ्चिका ॥
आर्यालेसु चतुःपर्णा गर्जरी दद्रु मर्द्दकाः ।
सटी कनकगाह्ये ते शाकाः कलिसमुद्भवाः ॥
इति चतुर्युगोद्भवाः शाकाभिधाः ।
अथ चतुर्युगोद्भवपुष्पाण्याह ।
भविष्योत्तरे —
सत्योद्भवानि पुष्पाणि ह्येतानि कथितानि च ।
गुलदाङ्गैदका चारु गुलाब गुड हर्दकः ॥
चम्पा ह्येतानि पुष्पाणि त्रेतोद्भूतान्युदाहृताः ।
कदम्बकुसुमामोदशिरी द्वापरसम्भवाः ॥
गुलाबांस गुला तूर्या स्वर्णाजूथी च नीरजः ।
कल्युद्भवानि पुष्पानि चतुः फलप्रदानि च ॥
इति चतुर्युगोद्भवानि पुष्पाणि ।
अथ चतुर्युगोद्भवाः धातवः ।
पाद्मे —
स्वर्णपैतलिजो धातु युगसत्यसमुद्भवः ।
रुकमजस्तदृढं लौहं त्रेतायुगसमुद्भवं ॥
कांस्यताम्रद्वयं धातुं युगद्वापरसम्भवः ।
रङ्गधातुसमुत्पन्नं कलिकाले मनोरमं ॥
इति चतुर्युगोद्भवाः धातवः ।
सत्योद्भवे वसेल्लक्षी स्त्रेतोद्भूते शिवो भवेत् ।
द्वापरोद्भवधान्यादौ परमानन्दमाप्नुयात् ॥
कल्युद्भवे च धान्यादौ समता फलमाप्नुयात् ॥ इति प्रासङ्गिकः ॥
अथ वन-यात्राप्रसङ्गे विह्वलवनप्रदक्षिणा ।
देवीपुराणे —-
भाद्र शुक्ल चतुर्थ्यां च विह्वलाख्यवनं गतः ।
विह्वलवनप्रार्थनमन्त्रः —-
कदम्बलतिकाकीर्ण वरविह्वलदायिने ।
विह्वलाख्याय रम्याय वनाय च नमो नमः ॥
इति मन्त्रं त्रिभिरुक्त्वा नमस्कारं समाचरेत् ।
सदा सौख्यमवाप्नोति धनधान्यसमाकुलः ॥४१॥
ततो विह्वलकुण्डस्नानाचमनप्रार्थनमन्त्रः —
विह्वलपरमाल्हाद तीर्थराज नमोऽस्तु ते ।
सर्वपापच्छिदे तस्मै कुण्डविह्वलसज्ञकः ॥
इति मन्त्रं षडावृत्या मज्जनाचमनैर्नमन् ।
परमं सम्पदं लब्ध्वा सर्वदा सुखमासते ॥४२॥
ततो विह्वलस्वरूपेक्षणप्रार्थनमन्त्रः —-
कदम्बलतिकास्थाय ससख्ये हरये नमः ।
विशाखाललितायैव राधायै सततं नमः ।
षड्भिस्तूच्चरते मन्त्रं प्रणामं षट् समाचरेत् ।
कृत्यकृत्यी भवेल्लोकस्त्रैलोक्यसुखमाप्नुयात् ॥४३॥
ततो सञ्केतेश्वर्यंवकेक्षणप्रार्थनमन्त्रः —-
ललितावरदायैव नमस्ते परमेश्वरि ।
सञ्केतपदरक्षिण्यै सकलायै वरप्रदे ॥
इति त्रयोदशावृत्या साष्टाङ्गप्रणतिञ्चरेत् ।
परमायुश्चिरं जीवं लभते वल्लभं सुतं ॥४४॥
ततो सखीगोपिकागानभोजनस्थलमण्डलप्रार्थनमन्त्रः —-
नानाल्हादमनोरम्य भोजनस्थलसञ्ज्ञके ।
। नमो ज्ञानप्रदीप्ताय मण्डलाय शुभप्रद ॥
इति षोडशभिर्मन्त्रं नमस्कारं समाचरेत् ।
नानाबहुविधैर्भोगैः परिपूर्णसुखं लभेत् ॥
कुमारीणां करोद्यत्र पूजनं वस्त्रभोजनैः ।
परिपूर्णसुखं लब्ध्वा रमते पृथिवीतले ॥
ततो प्रदक्षिणां कुर्याद्विह्वलाख्यवनस्य च ।
क्रोशार्ध परिमाणेन विमलो गृह्सौख्यकैः ॥
इति वन-यात्राप्रसङ्गे विह्वलवनप्रदक्षिणा ॥४५॥
अथ कदम्बवनप्रार्थनमन्त्रः —-
कृष्णाल्हादस्वरूपाय गोगोपालवरप्रदे ।
मुरलीरवरम्याय कदम्बवनभूषिते ॥
इति मन्त्रं दशावृत्या पठंस्तु प्रणतिं चरेत् ।
वैमल्यसुखमालभ्य गवामधिपातेर्भवेत् ॥४६॥
ततो गोपिकासरःस्नानाचमनप्रार्थनमन्त्रः —-
कृष्णहेलासमुत्पन्न गोपिकासरसे नमः ।
वरप्रदाय लोकानां तीर्थराज नमोऽस्तु ते ॥
इति मन्त्रं समुच्चार्य मज्जनाचमनैर्नमन् ।
कृतकृत्यो भवेल्लोको बहुधा सुख्रसञ्चयै ॥४७॥
ततो रासमण्डलप्रार्थनमन्त्रः —-
राधारमण रम्याय गोपिकावल्लभाय ते ।
रासमण्डल गोष्ठाय नमस्ते केलिरूपिणे ॥
इत्यष्टादशभिर्मन्त्रमुच्चरन्प्रणतिं चरेत् ।
नित्यमेव सदानन्दपरिपूर्णसुखं लभेत् ॥
ततो प्रदक्षिणां कुर्यादेकक्रोशप्रमाणतः ॥ इति वन-यात्राप्रसङ्गे कदम्बवनप्रदक्षिणा ॥४८ ॥
अथ स्वर्णवनप्रदक्षिणा ।
वाराहे —-
भाद्रशुक्लतृतीयायां गत्वा स्वर्णवनं शुभं ।
प्रार्थनां कुरुते यस्तु काञ्चनैः सुखमन्वभूत् ॥
स्वर्णवनप्रार्थनमन्त्रः —-
रत्नकाञ्चनवैडूर्य रमणीक मनोहर ।
नमः स्वर्र्णवनायैव तपः सिद्धिस्वरूपिणे ॥
इति मन्त्रं समुच्चार्य सप्तभिः प्रणतिं चरेत् ।
काञ्चनैर्निर्मितां भूमिं हर्म्यादिसुखमाप्नुयात् ॥४९॥
ततो रासमङ्डलप्रार्थनमन्त्रः —-
अष्टादश सखीयुक्त राधाकृष्णवरप्रद ।
नमः सौवर्णरम्याय रासगोष्ठि नमोऽस्तु ते ॥
विंशावृत्या पठन्मन्त्रं नमस्कारं समाचरेत् ।
कदा दुःखं न पश्येत सदानन्दपरिप्लुतः ॥
सपादक्रोशमानेन प्रदक्षिणमथाकरोत् ।
स्वर्णादीनां च धातूनां तद्गृहे पूजनं सदा ॥
इति वन-यात्राप्रसङ्गे स्वर्णवनप्रदक्षिणा ॥५०॥
अथ सुरभीवनप्रदक्षिणा वन-यात्राप्रसङ्गे ।
विष्णुयामले —-
भाद्रकृष्णचतुर्दश्यां सुरभीवनमागतः ।
प्रार्थनं कुरुते यस्तु परमैशपद लभेत् ॥
सुरभीवनप्रार्थनमन्त्रः —-
सुरभीकृतरम्याय वनराजिविभूषिते ।
सौगन्ध्यपरिपूर्णाय सुरभीमोददायिनै ॥
अखिलपदरम्याय नमस्ते सुखरूपिणे ।
इति मन्त्रं समुचार्य पञ्चभिः प्रणतिं चरेत् ॥
अखिलं पदसञ्ज्ञं च धनधान्ययुतं लभेत् ॥५१॥
ततो गोविन्दकुण्डस्नानाचमनप्रार्थनमन्त्रः —-
गोविन्दस्नपनोद्भूत तीर्थरज नमोऽस्तु ते ।
अभिषेकजलैःरम्यः कुण्डगोविन्न्दसञ्ज्ञकः ॥
इति मन्त्र शतावृत्या मज्जनाचमनैर्नमन् ।
वैष्णवपदमालभ्य त्रैलोक्यसुखमन्वभूत्॥५२॥
ततो गोवर्धननाथदधिभोजनस्थलप्रार्थनमन्त्रः —-
नानास्वादसुखाविष्ट कृष्णगोपालरूपिणे ।
दधिभोजनरम्याय त्रैलोक्येश नमोऽस्तु ते ॥
इत्येकादशभिर्मन्त्रमुच्चरन्प्रणतिञ्चरेत् ।
मन्तेणानेन गोपालपाणिचिह्नं चुचुंव ह ॥
त्रैलोक्यपदभोगाद्यै रखिलं सुखमासते ॥५३॥
ततो गोवर्धाननाथेक्षणप्रार्थनमन्त्रः —-
कृष्णाय वासुदेवाय गोवर्धनधृताय ते ।
नमो गोवर्धनाधीश नन्दगोपादिपालक ॥
इति मन्त्रं शतावृत्या साष्टाङ्गप्रणतीं चरेत् ।
तस्यैव मस्तके स्थित्वा पालनं कुरुते हरिः ॥
ततो प्रदक्षिणं कुर्यात्पादोनक्रोशसञ्ज्ञकं ॥ इति वन-यात्राप्रसङ्गे सुरभीवनप्रदक्षिणा ॥५४॥
अथ प्रेमवनप्रदक्षिणा ।
ब्रह्मयामले —
भाद्रशुक्लचतुर्थ्यां च गच्छेत् प्रेमाह्वयं वनं ।
प्रार्थयेद्विधिपूर्वेण वन-यात्राप्रसङ्गतः ॥
प्रार्थनमन्त्रः —— प्रेमाप्लुताय रम्याय परमोक्षस्वरूपिणं ।
कदम्बकुसुमाकीर्ण प्रेमाह्वयनमोऽस्तु ते ॥
इत्यष्टधा पठन्मन्त्रं नमस्कारं समाचरेत् ।
मुक्तिभागी भवेल्लोको सदानन्दपरिप्लुतः ॥५५॥
ततो प्रेमसरःस्नानाचमनप्रार्थनमन्त्रः —
ललिताप्रेमसम्भूते प्रेमाख्यसरसे नमः ।
प्रेमप्रदाय तीर्थाय कौटिल्यपदनाशक ॥
इति मन्त्रं दशावृत्या मज्जनाचमनैर्नमन् ।
सदा कौटिल्यनिर्मुक्तो विष्णुप्रेमप्लुतोऽभवत् ॥५६॥
ततो ललितामोहनेक्ष्णप्रार्थनमन्त्रः —-
प्रेमप्लुताय कृष्णाय ललितामोहनाय ते ।
सदा प्रेमस्वरूपाय नमस्ते मोक्षदायिने ॥
इति मन्त्रं समुच्चार्य त्रयस्त्रिंशनमश्चरेत् ।
सदैव जडताहीनो मोहपूर्णो सुखं भजएत् ॥५७॥
ततो रासमण्डलेक्षणप्रार्थनमन्त्रः —-
रासक्रीडोत्सवायैव ललितायुगलोत्सव ।
। नमस्ते रासगोष्ठाय मण्डलाय वरप्रद ॥
इति चतुर्द्दशावृत्या मण्डलं प्रणमेत्सुधीः ।
पातिव्रतसमायुक्तश्चिरजीवी भवेद्भुवि ॥५८॥
ततो हिण्डोलस्थलप्रार्थनमन्त्रः —-
कृष्णवैमल्यदोलाय हिण्डोलसुखवर्धन ।
नमः कलामय तुभ्यं श्रावणोत्सवसम्भवः ॥
इति मन्त्रां समुच्चार्य सप्तविंश नतिं चरेत् ।
अव्दपूर्णसुखं लब्ध्व सदानन्दैः भ्रमद्भुवि ॥
ततो प्रदक्षिणां कुर्यात्सार्ध क्रोशप्रमाणकं ।
प्रेमपूर्णो हरिस्तस्य सर्वदा प्रीतिदोऽभवत् ॥
इति वन-यात्राप्रसङ्गे प्रेमवनप्रदक्षिणा ॥५९॥
अथ मयूरवनप्रदक्षिणा ।
ब्राह्मे —-
भाद्रशुक्लतृतीयायां मयूरवनमागतः ।
प्रार्थनां च समाचक्रे वनितासुखमाप्नुयात् ॥
प्रार्थनमन्त्रः —— नामाकल्हारसंयुक्त मयूरवनसञ्ज्ञक ।
नमो प्रियासुखाढ्याय मनोहरस्वरूपिणे ॥
इति मन्त्रं षडावृत्या नमस्कारं समाचरेत् ।
कर्णादिविषयसौख्यैश्चिरायसुखमाप्नुयात् ॥६०॥
ततौ मयूरकुण्डस्नानाचमनप्रार्थनमन्त्रः —-
कृष्णगोपीकृतस्नानसम्भव तीर्थ सञ्ज्ञक ।
नानासरसिजाकीर्ण देवतीर्थ नमोऽस्तु ते ॥
इति मन्त्रं नवावृत्या मज्जनाचमनैर्नमन् ।
देवयोनिमवाप्नोति कदा दुखं न पश्यति ॥
पादक्रोशप्रमाणेन प्रदक्षिणमथाकरोत् ।
सदैव गीतवाद्याद्यैरखिलं सुखमाप्नुयात् ॥
इति वन-यात्राप्रसङ्गे मयूरवन्प्रदक्षिणा ॥६१॥
अथ मानेन्गितवनप्रदक्षिणा ।
आदिपुरणे —-
भाद्रशुक्लतृतीयायां मानेन्गितवनं ययाः ।
प्रार्थनं कुरुते यस्तु सखीवसुखमाप्नुयात् ॥
प्रार्थनमन्त्रः —- मानप्रवर्धनार्थाय मानेन्गितवनाय ते ।
राधादिगोपिकामानहेलारूपाय ते नमः ॥
इत्येकादशभिः मन्त्रमुच्चरन्प्रणातिं चरेत् ।
सदः मानविहेण श्रीकृष्ण इव राजते ॥६७॥
ततो मानमन्दिरप्रार्थनमन्त्रः —-
देवगन्धर्वरम्याय राधामानविधायिने ।
मानमन्दिरसञ्ज्ञाय नमस्ते रत्नभूमये ॥
इति त्रयोदशावृत्या नमस्कारं समाचरेत् ।
इच्छितं वरमालभ्य गृह्सौख्यमवाप्नुयात्॥६३॥
ततौ हिण्डोलप्रार्थनमन्त्रः —-
राधोत्सवाय रम्याय नानारत्नादिभूषिते ।
कृष्णोत्सवचय काम्याय हिण्डोलाय नमोऽस्तु ते ॥
इत्येकोनविंशत्या तु नमस्कारं समाचरेत् ।
बहुधा प्रीतिसंयुक्तो युगलसौख्यामन्वभूत् ॥६४॥
ततो रासमण्डलप्रर्थनमन्त्रः —-
गोपीकृईडाभिरम्याय कृष्णनृत्याभिधायिने ।
नमो रत्नविभूषाय मण्डलय कृतार्थिने ॥
इति मन्त्रं शतावृता नमस्कारं समाचरेत् ।
सकलेष्टमवाप्नोति रमते पृथिवीतले ॥६५॥
त्तो रत्नकुण्डस्नानाचमनप्रार्थनमन्त्रः —-
रत्नभूमिमये तीर्थे रत्नकुण्डसमाह्वय ।
कृष्णस्नपनसम्भूत रत्नोद्भव नमोऽस्तु ते ॥
इति चतुर्दशावृत्या मज्जनाचमनैर्नमन् ।
नानारत्नौद्भवां भूमिं लभते नात्र संशयः ॥
क्रोशार्ध पारिमाणेन प्रदक्षिणमथाचरेत् ।
मुक्तिभागी भवेल्लोको पुनर्जन्म न विद्यते ॥
इति वन-यात्राप्रसङ्गे मानेन्गितवनप्रदक्षिणा ॥६६॥
अथ वन-यात्राप्रसङ्गे शेषशयनवनप्रदक्षिणा ।
कौर्म्ये —-
भाद्रसुक्लर्षिपञ्चम्यां शेषशाय वनम् गतः ।
प्रार्थनमन्त्रः —- कमलासुखरम्याय शेषशयनहेतवे ।
नमन् कमलकिञ्जल्कवाससे हरये नमः ॥
इयेकादशादभिः मन्त्रमुच्ःअरन् प्रार्थयेद्वनं ।
स्वप्ने वरमवाप्नोति दुःस्वप्नं नैव पश्यति ॥६७॥
ततो महोदधिकुण्डस्नानाचमनप्रार्थनमन्त्रः —-
पञ्चामृतसमुत्पन्न पञ्चामृतमयाय ते ।
लक्ष्मनीकृताय तीर्थाय नमो मुक्तिमहोदधे ॥
इति मन्त्रं समुचार्य मज्जनचमनैर्नमन् ।
पञ्चभिः क्रियमानस्तु परमां मुक्तिमाप्नुयात् ॥६८॥
ततो प्रौढलक्ष्मीनारायणेक्षणप्रार्थनमन्त्रः —-
शयनस्थाय देवाय लक्ष्मीसेवापराय च ।
नमाः प्रौढस्वरूपाय लक्ष्मीनारायणाय ते ॥
इति मन्त्रं समुच्चार्य नवभिः प्रणतिं चरेत् ।
तद्गृहे वसते लक्ष्मीरचञ्चलासञ्ज्ञयाऽखिलं ॥
पादोनद्वयक्रोशेन प्रदक्षिणमथाचरेत् ।
भगवत्कृपयाविष्टो लोकपूज्यस्तु जायते ॥
इति वन-यात्राप्रसङ्गे शेषशयनवनप्रदक्षिणा ॥६९॥
अथ वन-यात्राप्रसङ्गे वृन्दावन-यात्रा ।
प्रसङ्गे वृन्दावनप्रदक्षिणा ।
पाद्मे —-
अष्टम्यां भाद्रशुक्ले तु वृन्दावनमुपगतः ।
वन-यात्राप्रसङ्गेन प्रार्थयेद्विधिवच्छुचिः ॥
प्रार्थनमन्त्रः —— वृन्दाविपिनरम्याय भगवद्वासहेतवे ।
परमाल्हादरूपाय वैष्णवाय नमो नमः ॥
इत्येकादशभिः मन्त्रमुच्चरन्प्रणतिं चरेत् ।
वैष्णावपदमाप्नोति पुनर्जन्म न विद्यते ॥७०॥
ततो कालीयह्रदस्नानाचमनप्रार्थनमन्त्रः —-
कालीस्तुतिप्रमोदाय ताण्डवनृत्यरूपिणे ।
नागपत्नीस्तुतिप्रीत गोपालाय नमो नमः ॥
इति मन्त्रं त्रिरावृत्या मज्जनाचमनैर्नमन् ।
परमोक्षपदं लब्ध्वा सर्वदा सुखमासत्ते ॥७१॥
ततो केशीघाटस्ननाचमनप्रार्थनमन्त्रः —-
केशीमुक्तिन्दायैव केलवाय नमोऽस्तु ते ।
चतुर्भुजाय कृष्नाय केशितीर्त्ःअ नमोऽस्तु ते_ ॥
इति मन्त्रं दशावृत्या नमस्कारं समचरेत् ।
लक्ष्मीवान् जायते लोके मुर्क्तिमाप्नोति वैष्णवीं ॥७२॥
ततश्चिरघाटस्नानाचमनप्रार्थनमन्त्रः
अनेकवर्णवस्त्रैस्तु भूषिताय व्रजौकसे ।
नानाचीरप्रवेष्टाय नमस्ते गोपीवल्लभ ॥
इतिमन्त्रं षडावृत्या मज्जनाचमनैर्नमन् ।
चीरं समर्पयेद्यत्र पीतरक्त्सिताऽसितं ॥
सर्वदा विविधैः वस्त्रैः बहुधा सुखमचरेत् ॥७३॥
ततो कृष्णपादचिह्नान्वितवंशीवटप्रार्थनमन्त्रः —-
दशाब्दकृष्णपादाङ्कलाञ्छिताय नमो नमः ।
वंशीरवसमाकीर्ण वंशीवट नमोऽस्तु ते ॥
इति मन्त्रं दशावृत्या प्रणत्या पूजनं चरेत् ।
स्वर्णादिनिर्मितां वंशीं निवेदनमथाकरोत् ॥
जगन्मोहकृतं पुत्रं कृष्णतुल्यं लभेन्नरः ॥७४॥
ततो मदनगोपालदर्शनप्रार्थनमन्त्रः —-
यशोदानन्दनायैव श्रीमत्गोपलमूत्तये ।
कृष्णाय गोपीनाथाय नमस्ते कमलेक्षणा ॥
इति सप्तदशावृत्या नमस्कारं समाचरेत् ।
लोकवल्लभतामेति चिरजीवी भवेद्भुवि ॥७५॥
ततो गोविन्ददर्शनाप्राथनमन्त्रः —-
वृन्दादेवीसमेताय गोविन्दाय नमो नमः ।
लोककल्मषनशय परमात्मष्वरूपिणे ॥
इति मन्त्रं समुचार्य नवभिः प्रणातिं चरेत् ।
विष्णुसायुज्यमाप्नोति पुनरागमवर्जितः ॥७६॥
ततते यज्ञपत्नीस्थलप्रार्थनमन्त्रः —-
ब्रह्मयज्ञाय तीर्थाय यज्ञपत्नीकृताय च ।
यज्ञपत्नीमनोरम्य सुस्थलाय नमोऽस्तु ते ॥
इत्यष्टादशभिर्मन्त्रं नमस्कारं समाचरेत् ।
यज्ञान्तावभृथस्नानराजमूयफलं लभेत् ॥ ऽ७७॥
ततो ऽकृउरघाटस्नानाचमनप्रार्थनमन्त्रः —-
विश्णुलोकप्रदस्तीर्थ मुक्ताक्रूरप्रदायिने ।
कृष्णेक्षणप्रसादय नमस्ते विष्णुरूपिणे ॥
इति द्वादशभिर्मन्त्रं मज्जनाचमनैर्नमन् ।
वैकुन्ठपदमालभ्य नित्यजातं हरीक्षणं ॥७८॥
ततो रासमण्डलप्रार्थनमन्त्रः —-
गोपिकाशतकान्टिभिः कृष्णरासोत्सवाय च ।
नमस्ते रासगोष्ठाय वैमल्यवरदायिने ॥
इति मन्त्रं शतावृत्त साष्टाङ्गप्रणतिं चरेत् ।
हरेर्वल्लभतामेति चक्रवर्त्ती भवेन्नरः ॥
पञ्चक्रोशप्रमाणेन प्रदक्षिणमथाचरेत् ।
मुक्तिभागी भवेल्लोको मुच्याते व्याधिवन्धनात् ॥७९॥
इति वन-यात्राप्रसङ्गे वृन्दावन प्रदक्षिणा —-
इति यमुनायास्तु दक्षिणतटप्रदक्षिणा ।
माहात्म्यं च समाख्यातं सर्वकामार्थसिद्धये ॥८०॥
इति श्रीभास्करात्मजनारायणभट्टविरचितव्रजभक्तिविलासे परमहससंहितोदाहरणे
व्रजमाहात्म्यनिरूपणः वन-यात्राप्रसङ्गिके दशमोऽध्ययः ॥
—ओ)०(ओ—
(११)
॥ एकादश अध्यायः ॥
अथ वनयत्राप्रसङ्गे परमानन्दवनप्रदक्षिणा ।
आदिवारहे —-
भाद्रे मास्यसिते पक्षेऽमावास्यायां शुभे दिने ।
परमनन्दवन गछेत्प्रर्थयेद्विधिपूर्वकं ॥
परमानन्दवनप्रार्थनमन्त्रः —-
देवर्षिमुनिगान्धर्वलोकाल्हादस्वरूपिणे ।
नमस्ते परमानन्दवनसञ्ज्ञय ते नमः ॥
इति सप्तात्भिरावृत्या नमस्कारं समाचरेत् ।
सर्वदाल्हादसंयुक्तो परिपूर्णसुखं लभेत् ॥१॥
आदिबाद्रिकावेक्षणप्रार्थनमन्त्रः —
आदिबद्रिस्वरूपाय नरायणसुखात्मने ।
सदनन्दप्रदायैव सर्व-वाधाप्रशान्तये ॥
इति मन्त्रं समुचार्य विंशत्या प्रानतिं चरेत् ।
सर्वदैश्वर्यसन्युक्तस्तपः सिद्धिप्रदो भुवि ॥२॥
आनन्दसरः स्नानाचमनप्रार्थनमन्त्रः —-
आनन्दरूपिणे तुभ्यं सदनन्दप्रदायिने ।
सर्वदुःखहरस्तीर्थ ह्यानन्दसरसे नमः ॥
इति मन्त्रं नवावृत्या मज्जनाचमनैर्नमन् ।
सदानन्दसमायुक्तो कदा कष्टं न पश्यति ॥
यथा सौभाग्यसांयुक्तां पितृस्वायुवर्धिनी ।
धम्मिल्लडोग्केनेव वक्त्राङ्गपीडनं क्षिपेत् ॥
एकक्रोशप्रमनेण प्रदक्षिणम्यथाकरोत् ।
मनसानन्द्पूर्णेन विमलो रमते भुवि ॥
इति वन-यात्राप्रसङ्गेन परमानन्दवनप्रदाक्षिणा ॥३॥
अथ वन-यात्राप्रसङ्गे रङ्कपुरवनप्रदक्षिणा ।
ब्रह्माण्डे —-
भाद्रशुक्लतृतीयायां रङ्कपुरवनं गतः ।
प्रार्थयेद्विधिपूर्वेण कदा शत्रुं न पश्यति ॥
रङ्कपुरवनप्रार्थनमन्त्रः —-
अरिदर्शननाशाय रङ्कपुरवनाय ते ।
नमः कौवनाशाय सुभद्रानिर्मिताय च ॥
इति मन्त्रमुदाहृत्य नमस्कारत्रयं चरेत् ।
कदाचिद्वैभावं च स्वप्ने नैव विलोकयेत् ॥४॥
ततो सुभद्राकुण्डस्नानाचमनप्रार्थनमन्त्रः —-
सुभद्रारूपिणे तुभ्यं ब्रह्मणे भद्रहेतवे ।
शक्तिशापसमुद्भूत प्रियावेशाय ते नमः ॥
इत्येकादशभिर्मन्त्रं मज्जनाचमनैर्नमन् ।
सदा वैवाहिकाद्यैस्तु माङ्गल्यैर्भद्रसंयुता ॥
पादोनक्रोशमात्रेण रङ्कपुरप्रदक्षिणा ॥ इति यात्राप्रसङ्गे रङ्कपुरवनप्रदक्षिणा ॥५॥
अथ व्रजयात्राप्रसङ्गे वार्त्तावनप्रदक्षिणा ।
बृहत्पराशरे —-
वैशाखशुक्लद्वादश्यां वार्त्तावनमुपागतः ।
प्रार्थयेन्मनसेच्चाभि लोकवाक्यजयी भवेत् ॥
वार्त्तावनप्रार्थनमन्त्रः —-
सत्याय सत्यरूपाय सत्यवाक्यप्रकाशिने ।
वार्तावनायते तुभ्यं नमो मिथ्याविनाशिने ॥
इति मन्त्रं समुच्चार्य दशधा प्रणतिं चरेत् ।
मिथ्याभिशंसनात्पापान्मुच्यते नात्र संशयः ॥६॥
ततो मानसरःस्नानाचमनप्रार्थनमन्त्रः —-
मनोर्थसिद्धिरूपाय सरसे मानसाह्वये ।
नमस्ते तीर्थराजाय देववैमल्यरूपिणे ॥
इयष्टादशभिर्मन्त्रैः मज्जनाचमनैर्नमन् ।
सर्वपापविनिर्मुक्तो विमलो रमते भुवि ॥
क्रोशद्वयप्रमाणेन प्रदक्षिणमथाकरोत् ॥ इति व्रयात्राप्रसङ्गे वार्त्तावनप्रदक्षिणा ॥७॥
अथ वन-यात्राप्रसङ्गे करहपुरवनप्रदक्षिणा ।
भविष्योत्तरे —
भाद्रशुक्लतृतीयायां करहपुरमुपागतः ।
प्रार्थनमन्त्रः —- त्रैलोक्यमोहनायैव नमस्ते करहाभिध ।
गन्धर्वसुखवासाय विश्वावसुवरप्रद ॥
इति चतुर्दशावृत्या नमस्कारं समाचरेत् ।
राजवश्यकृतो लोको गन्धर्व इव भूतले ॥८॥
ततो ललितासरः स्नानाचमनप्रार्थनमन्त्रः —-
ललितास्नपनोद्भूत तीर्थाराज नमोऽस्तु ते ।
ललितासरसे तुभ्यं सौभाग्यवरदायिने ॥
इति षद्भिः समुच्चार्यं मज्जनाचमनैर्नमन् ।
सर्वदा सुखसम्पत्या पृथिव्यां सुखमन्वभूत् ॥९॥
ततां भानुकूपस्नानाचमनप्रार्थनमन्त्रः —-
देवाद्यमृतरूपाय मुक्तिरूपाय ते नमः ।
तीर्थराज नमस्तुभ्यमतितृड्शान्तिरूपिणे ॥
इति मन्त्रं समुच्चार्य त्रयस्त्रिंशावृतेन च ।
मज्जनाचमाद्यैश्च चिरजीवी भवेद्भुवि ॥१०॥
ततो रसमण्डलप्रार्थनमन्त्रः —-
ललितामहदुत्साह गोपिकानृत्यरूपिणे ।
कृष्णक्र्डाभिरम्याय मण्डलाय नमोऽस्तु ते ॥
इति चतुर्भिरुचार्य प्रदक्षिणानमञ्चरेत् ।
रमते गृहसौख्याद्यैः कदा दुःखं न पश्यति ॥११॥
ततो कदम्बखण्डप्रार्थनमन्त्रः —-
कृष्णगोपालरूपाय गोपीगोभिरलङ्कृतः ।
कदम्बखण्ड गोष्ठाय सौख्यधाम्नै नमोऽस्तु ते ॥
इति षोडशत्भिर्मन्त्रं नमस्कारं समाचरेत् ।
कृतार्थतामवाप्नोति विष्णुसायुज्यतां ब्रतेत् ॥१२॥
ततो हिञ्डोलप्रार्थनमन्त्रः —-
राधाकृष्णमहोत्साह ललितोत्सवहेतवे ।
ब्रह्मणा निर्मितायैव हिञ्डोलाय नमोऽस्तु ते ॥
इति चतुर्द्दाशाद्वृत्या नमस्कारं समाचरेत् ।
सदा प्रियाभिः संयुक्तां वैमल्यसुखमाप्नुयात् ॥१३॥
ततो विवाहस्थलप्रार्थनमन्त्रः —-
भद्रदेवीसखीरम्य विवाहोत्सवमाङ्गलैः ।
ललिताग्रन्थिदत्ताय नमो वैवाहरूपिणे ॥
इति सप्तदशावृत्या नमस्कारं समाचरेत् ।
सदा वैवाहिकोत्साहैश्चिराय सौख्माप्नुयात् ॥
दधिदानं करोद्यत्र कृष्यातोषसुखाय च ।
नानाविविधभोगाद्यैरनेकसुखमन्वभूत् ॥
सार्धद्वितियक्रोशेन प्रदक्षिणमथाकरोत् ।
करहाख्यवनस्यापि माहात्म्यमिति कीर्त्तितं ॥
इति वन-यात्राप्रसङ्गे भाद्रशुक्ल तृतीयायां करहपुरवनप्रदक्षिणा ॥१४॥
अथ प्रसङ्गात्कामनावनप्रदक्षिणा ।
भविष्ये —-
तस्यां शुक्लतृतीयायां कामनाख्यवनं ययौ ।
प्राथयेद्विधिपूर्वेण कामनामीप्सितां लभेत् ॥
प्रार्थनमन्त्रः —— सखीनां लालितादीनां कामनासिद्धिरूपिणे ।
कामनाख्यवनायैव नमस्ते कामनाप्रदः ॥
इति मन्त्रं नवावृत्या नमस्कारं समाचरेत् ।
सदैव कामनापूर्णो जागते नात्र संशयः ॥१५॥
ततो श्रीधरकुण्डस्नानाचमनप्रार्थनमन्त्रः —-
कृष्णस्नपनसम्भूत लक्ष्मी प्रार्थ्य नवोद्भुव ।
नमः श्रीधरकुण्डाय तीर्थराज नमोऽस्तु ते ॥
इति षड्भिः समुचार्य मज्जनाचमनैर्नमन् ।
दम्पत्तोभूर्यसीप्रीतिर्युगलस्नपनाद्भुवेत् ॥
सार्धक्रोश प्रमाणेन प्रदक्षिणमथाचरेत् ।
कामनाख्यवनस्यापि कामना सफला भवेत् ॥
इति वन-यात्राप्रसङ्गे कामनावनप्रदक्षिणा ॥१६॥
अथ वन-यात्राप्रसङ्गेऽ ञ्जनपुरवनप्रदक्षिणा ।
कौर्म्ये —-
भाद्रशुक्लचतुर्थ्यां तु गतोऽ ञ्जनपुरवनं ।
वनितासुखलाभाय वैचित्रं सौख्यमाप्नुयात् ॥
ततो ऽन्जनपुरवनप्रार्थनमन्त्रः —
देवगन्धर्वलोकानां रम्यवैहाररूपिणे ।
वैचित्रमूर्त्तये तुभ्यम्मञ्जनपुरवनाह्वय ।
॥
इति मन्त्रं चतुर्वारैर्नमस्कारं पठन् चरेत् ।
सकलेष्टवरं लब्ध्वा सर्वदा यौवनान्वितः ॥१७॥
ततो किशोरीकुण्डस्नानाचमनप्रार्थनमन्त्रः —-
किशओरीस्नास्नारम्याय पीतरक्तजलाप्लुतः ।
तीर्थराज नमस्तुभ्यं कृष्णक्रीडाविधायिने ॥
इति त्रयोदशावृत्या मज्जनाचमनैर्नमन् ।
किर्शोरीवनमोन्नारी लोको कृष्णैवाऽभवत् ॥१८॥
कृष्णान्वितकिशोरीदर्शनप्रार्थनमन्त्रः —-
यशोदानन्दकृष्णाय प्रियायई सततं नमः ।
किशोररूपिणे तुभ्यं वल्लभायै नमोऽस्तु ते ॥
इत्येकादशभिर्र्मन्त्रं नमस्कारं समाचरेत् ।
कृतकृत्यो भवेल्लोको रमते पृथिवीतले ॥
क्रोशमात्रप्रमाणेन प्रदक्षिणमथाचरेत् ॥ इति वन-यात्राप्रसङ्गेऽ ञ्जनपुरप्रदक्षिणा ॥१९॥
अथ प्रसङ्गात् कर्णवनप्रदक्षिणा ।
स्कान्दे —-
भाद्रशुक्लतृतीयायां गतो कर्णवनं शुभं ।
कर्णवनप्रार्थनमन्त्रः —-
कर्णावासाय रम्याय यशः कीत्तीस्वरूपिणे ।
नमः कर्णवनायैव पुण्याख्याय वरप्रद ॥
इति षोडराभिर्मन्त्रं नमस्कारं समाचरेत् ।
देवयोनिमवाप्नोति विश्णुसायुज्यतां गतः ॥२०॥
ततो दानकुण्डस्नानाचमनप्रार्थनमन्त्रः —-
दशभारसुवार्णढ्य कृतदानस्वरूपिणे ।
नमस्ते दानतीर्थाया कर्णादानसमाप्नुयात् ॥
सपादक्रोशमात्रेण प्रदक्षिणमथाकरोत् ॥२१॥
प्रणाम प्रार्थनप्रदाक्षिणानिषेधः ।
धर्मकल्पद्रुम —
देवगोविपितृभ्यो हस्त्यश्वेभ्यो नतिः सदा ।
एकेन पाणिना कुर्याद्धन्ति पुण्य पुराकृतं ॥
इति दक्षिणहस्ते च फलमेतदुदाहृतं ।
प्रणामं वामहस्तेन कुर्यादज्ञानतोऽधमः ॥
कुलक्षयप्रयोगेन ह्यपसङ्ख्यं सदा चरेत् ।
अन्तरान्तरतो मृत्युर्जायते कुलसम्भवे ॥
देवादिभ्यो लभेच्छापं शोकतं तप्तमानसं ।
राजद्वारे सभामध्ये शालायां यज्ञवेश्मनि ॥
देवालये न कुर्वीत हन्ति पुण्यं पुराकृतं ।
प्रणतिंवैर्भावेन कृता श्रेयः विनाशिनी ॥
ज्येष्ठस्तु प्रणतिं कुर्याल्लघुभ्रातादिम्बघुषु ।
अकल्याणां द्वर्योजातमायुः क्षीणः दरिद्रता ॥
द्विजो याञ्चार्थ भावेन द्विजायाशिषमाचरेत् ।
दोषो नैव प्रजायेत द्वयो ब्राह्मणयोरपि ॥
ब्राह्मणो क्षत्रियादिभ्यस्त्वाशिषं प्रयुजेऽथदं ।
पूर्वनत्यादरेणैव ह्याशिषं भद्रकारणं ॥
विना नत्यादरेणैव ह्याशिषं शापसञ्ज्ञकं ।
धनधान्यकलत्रादि पुत्रायुः क्षयकारणं ॥
विप्राय कुलपूज्याय तीर्थ पूज्यार्थिनोऽपि वा ।
प्रणामं चैव कुर्वीत पूर्वमाशिषवर्जितः ॥
आशिषं शुभदं जातं यजमानवरप्रदं ।
आशिषं वामहस्तेन सर्वकल्याणनाशनं ॥
ब्राह्मणो ह्यभिमानेन विनासननतिं चरेत् ।
ब्रह्महत्या फलं तस्य परिवारक्षयं करं ॥
विनावधापराधः ।
धर्मनिबन्धे —
आज्ञाभङ्गो नरेन्द्राणां विप्राणां मानखण्डनं ।
पृथकशाय्या वरस्त्रीणामशस्त्रवधमुच्यते ॥
एवं विप्रादिवरेषु प्रणामं समुदृआहृतं ।
वामंहस्ताशिषं दत्तं शापतुल्यमभद्रकं ॥
क्षात्रियादिकवर्णस्ते विप्रेभ्यो प्रणतिं चरेत् ।
परिवारक्षयं नीत्वा कुष्ठरोगान्मृयेत्तदा ॥
वैष्णवाकृतिसंयुक्ताः विप्रभ्यो नतिमाददुः ।
न विद्यते तद दोषो ज्ञातिगुपाऽर्धादोषकं ॥
ज्ञातिगुप्ता च विप्राय भोजनं कारयेद्यादि ।
ब्रह्महत्या फलं तस्य सभूलोन्पाटकारकं ॥
भोजननिषेधः ।
शौनकोपनिषदि —
जलाग्निलवणै र्योगादपवित्रमुदाहृतं ।
एकेनाम्नं फलं द्वाभ्यां त्रिभिः संसर्ग ताऽंशुचिः ॥
मृन्मयं जलसंयोगान्पिष्टं लवणयोगतः ।
तन्दुलं वह्निसंयोगत्त्रिभिः फलमुदाहृतं ॥
निर्णयामृतेसंलग्नानि च काष्टानि संलग्नानि तृणानि च ।
संलग्ना पात्रतो धारा स्पर्शदोषो न जायते ॥
अपवित्रमितिख्यातं चतुयुगसमुद्भवं ।
एकस्मिन् लिप्तभूमौ च मध्यरेखा समन्विते ॥
सभोज्यफलमाप्नोति धर्मतुर्यांशखण्डितः ।
यज्ञे यज्ञोपवी यादौ वैवाहोत्सवमङ्गले ॥
रेखादोषो न विद्येत पिष्टभद्रे कृते यदि ।
अन्येषु गृहकार्येषु प्रिश्टिं ह्यशुचि सञ्ज्ञकं ॥
रञ्जितं मृन्मयं रक्ष गृहकार्ये परवत्रकं ।
कलिकालयुगोत्पन्नमाचारं मुनिभिः कृतं ॥
इति चतुर्युगोद्भवाचारनिणयः ॥२२॥
अथ वन-यात्राप्रसङ्गे क्षिपिनकवनप्रदक्षिणा ।
विश्णुपुराणे —-
भाद्रशुक्ले तृतीयायां गतो क्षिपनकं वनं ।
वृषभानुपुरस्यापि वन-यात्राग्रसङ्गतः ॥
क्षिपनकवनप्रार्थनमन्त्रः —-
नन्दानन्दविलोभाय कृष्णक्षिपनकाह्वय ।
नमस्ते गुप्तरूपाय सुखधाम्ने वरप्रदः ॥
इति मन्त्रं नवावृत्या नमस्कारं समाचरेत् ।
मनसेष्टफलं लब्ध्वा व्यचरन्पृथिवीतले ॥२३॥
ततो गोपकुण्डस्नानाचमनप्रार्थनमन्त्रः —-
गोपकृष्णकृतस्नान सम्भवायोत्सवायते ।
तीर्थराज नमस्तुभ्यं गोपकामार्थदायिने ॥
इति षोडशभिर्मन्त्रं मज्जनाचमनैर्नमन् ।
कृतकृत्यो भवेलोको देवयोनिमवाप्नुयात् ॥
क्रोशार्ध परिमाणेन प्रदक्षिणमथाचरेत् ।
बालक्रीडाभिःसंयुक्तो परिवारसुखं लभेत् ।
इति वन-यात्राप्रसङ्गे क्षिपनकवनप्रदक्षिणा ॥२४॥
अथ प्रसङ्गान्नन्दनवनप्रदक्षिणा ।
भविष्योत्तरे —
भाद्रशुक्लतृतीयायामागतो नन्दनं वनं ।
नन्दनवनप्रार्थनमन्त्रः —-
प्रर्चर्यान्वितदेवेश निर्मिताय वनाय ते ।
नन्दनाय नमस्तुभ्यं नदनाख्यवनोपम ॥
इति चतुर्दशावृत्या नमस्कारं समाचरेत् ।
देवेश इव विख्यातो पृथिव्यां सुखमन्वभूत् ॥२५॥
ततो नन्दनन्दनकुण्डस्नानाचमनप्रार्थनमन्त्रः —-
कृष्णाभिषेकरम्याय तीर्थराज नमोऽस्तु ते ।
नन्दनन्दनकुण्डाय गोपानां वरदायिने ॥
इति मन्त्रं दशावृत्या मज्जनाचमनैर्नमन् ।
धनधान्यसमृद्धिंस्तु लक्ष्मीवान् जायते नरः ॥
पादोनक्रोशमात्रेण प्रदक्षिणमथाकरोत् ।
मार्गागमप्रसङ्गेन तृतीयासम्भवे दिने ॥
इति वन-यात्राप्रसङ्गे नन्दनवनप्रदक्षिणा ॥२६॥
अथ वन-यात्राप्रसङ्गे इन्द्रवनप्रदक्षिणा ।
शक्रयामले —-
भाद्रमासि सितेपक्षे प्रतिपद्यामथागमत् ।
श्रेष्ठमिन्द्रवनं धीमन् परमानन्दकं यथा ॥
इन्द्रवनप्रार्थनमन्त्रः —-
देवगन्धर्वरम्याय नमः शक्रवनाय ते ।
त्रैलोक्यमोहरूपय सर्वकामार्थ दायिने ॥
इत्यष्टादशभिर्मन्त्रं नमस्कारं समाचरेत् ।
महेन्द्रपदवीं लब्ध्वा रमते पृथिवीतले ॥२७॥
ततो देवताकुण्डस्नानाचमनप्रार्थनमन्त्रः —-
इन्द्रादिदेवतास्नानसम्भवाय नमोऽस्तु ते ।
देवताकुण्डतीर्थाय चिरायुः सौख्यदायिने ॥
इति षोडशभिर्मन्त्रमज्जनाचमनैर्नमन् ।
देवयोनिं समालभ्य परिपूर्णसुखं करोत् ॥
सपादक्रोशमान्त्रेण प्रदक्षिणमथाचरेत् ॥ इति वन-यात्राप्रसङ्गे इन्द्रवनप्रदक्षिणा ॥२८॥
अथ प्रसङ्गात्शीक्षावनप्रदक्षिणा ।
अगस्त्यसंहितायां —- भाद्रशुक्लतृतीयायां शीक्षावनमुपागतः ।
शीक्षावनप्रार्थनमन्त्रः —
गोपीसीक्षाप्रसादाय वासुदेववरप्रद ।
नमः शीक्षावनायैव सौबुद्धिवरदायिने ॥
इति मन्त्रं त्रिभिरुक्त्वा नमस्कारं समाचरेत् ।
सुबुद्धिर्वर्धते नित्यं मन्त्रविद्याविशारदः ॥२९॥
ततो कामसरःस्नानाचमनप्रार्थनमन्त्रः —-
गोपिकाकामपूर्णाय कामाख्यसरसे नमः ।
देवगान्धर्वलोकानां कलाकामार्थदायिने ॥
इति मन्त्रं समुचार्य सप्तभिर्मज्जनाचमैः ।
प्रणामन् सौख्यमाप्नोति सर्वदा कामचेष्टितः ॥
कुर्यात्प्रदक्षिणां साङ्गामेकक्रोशप्रमाणतः ॥ इति वन-यात्राप्रसङ्गे शीक्षावनप्रदक्षिणा ॥३०॥
अथ प्रसङ्गाच्चन्द्रावलिवनप्रदक्षिणा ।
शौनकीये —-
भाद्रशुक्लचतुर्थ्यां च गतश्चन्द्रावलीवनं ।
प्रार्थयेद्विधिपूर्वेण परिपूर्णसुखं लभेत् ॥
चन्द्रावलिवनप्रार्थन्नमन्त्रः —-
कृष्णसौख्यमहोत्साह गुणरूपकलनिधे ।
चन्द्रावलिनिवासाय नमस्ते कृष्णवल्लभ ॥
इति मन्त्रं नवावृत्या नमस्कारं समाचरेत् ।
कलायुक्तो हरिः साक्षाद्ददाति धनकाञ्चनं ॥३१॥
ततश्चन्द्रावलिसरः स्नानाचमनप्रार्थनमन्त्रः —
पीतरक्तसितस्यामजलक्रीडामनोरमे ।
। विमलोत्सवरूपय चन्द्राभसरसे नमः ॥
इति षड्भिरुदाहृत्य मज्जनाचमनैर्नमन् ।
परिपूर्णसुखं लब्ध्वा रमते पृथिवीतले ॥
सार्धक्रोशप्रमाणेन प्रदक्षिणमथाचरेत् ।
इति वन-यात्राप्रसङ्गे चन्द्रआवलिवनप्रदक्षिणा ॥३२॥
अथ प्रसङ्गाल्लोहवनप्रदक्षिणा ।
वाराहे —-
भाद्रशुक्लचतुर्थ्यां च गतो लोहवनं शुभं ।
प्रार्थयेद्विधिपूर्वेण लोहदानं समाचरेत् ॥
लोहवनप्रार्थनमन्त्रः —-
लोहाङ्गमुनिसम्भूत तापसे ब्रह्मरूपिणे ।
यमालोकननाशाय नमो लोहवनाय ते ॥
इति मन्त्रं दशावृत्या नमस्कारं समाचरेत् ।
सङ्कष्टदर्शनं तस्य नैव स्वप्नेऽपि जायते ॥३३॥
ततो गिरीशकुण्डस्नानाचमनप्रार्थनमन्त्रः —-
नमो गिरीशकुण्डाय तीर्थराज वरप्रद ।
प्रबन्धमोक्षिणे तुभ्यं सर्वदा शिवदायिने ॥
इति मन्त्रं समुचार्य पञ्चभिर्मज्जनाचमैः ।
प्रणमन् शिवमाप्नोति मङ्गलायुर्विवर्धनं ॥३४॥
ततो वज्रेश्वरमहादेवेक्षणप्रार्थनमन्त्रः —
वज्रेश्वराय देवाय सर्वान्तकविमुक्तये ।
नमस्त्रैलोक्यपालाय नाथाय शिवरूपिणे ॥
इति चतुर्दशावृत्या नमस्कारं समाचरेत् ।
वज्राङ्गसदृशो लोकश्चिरजीवी भवेन्नरः ॥
क्रोशद्वयप्रमाणेन प्रदक्षिणमथाचरेत् ।
इति लोहवनास्यापि महात्म्यं समुदाहृतं ॥
इति वन-यात्राप्रसङ्गे लोहवनप्रदक्षिणा ॥३५॥
अथ व्रजयात्राप्रसङ्गे तपोवनप्रदक्षिणा ।
भविष्योत्तरे —
लक्ष्मीकलाक्षयेऽह्नौ च तपोवनमुपागतः ॥ लक्ष्मीकलाक्षये उदाहरणं ।
परमायुः प्रमाणेऽव्दे लक्ष्मीः क्षीणकलाऽभवत् ।
जयाख्ये वत्सरे जाते द्विषष्टि परिमाणतः ॥
स्वपिता पृथिवीलोके जनाः मृत्युमुपागताः ।
मृद्वत्सरी समुत्पन्ना चण्डी लोकानभक्षयत् ॥
तस्याः भयप्रकम्पेन लक्ष्मीः गोप्यमुपाविशत् ।
त्रिभिः स्वर्णादिभिश्चैव त्रिभिर्धातुस्वरूपगैः ॥
यथा मणिधृताः सर्पाः विलभूमौ निसीदति ।
तथोद्योगविहीनाशा पुण्यव्यापारवर्जिता ॥
धनधान्यसमूहेन चौरस्त्रीव गृहे स्थिता ।
महर्घाणि च धान्यानि घृतादीनि रसानि च ॥
लवणं वर्जितान्येव वस्त्रपात्रादिधातवः ।
गङ्गायमुनयोर्मध्ये धान्यानां च महर्घता ॥
दुभिक्षक्रुधिताः लोकाः पातालमधितिष्ठति ।
भाद्रे षयोः द्वयोश्चैव वर्षनाशः प्रजायते ॥
शश्यनाशोऽथ दुर्भिक्ष जुनाश्चिन्ताकुलास्तु हि ।
इन्द्रप्रस्थसमीपे तु घोरयुद्धं वभूव ह ॥
व्रजमण्डललोकेशो राक्षसैमृत्युमाप्नुयात् ।
शस्यनाशो भवत्येव पीडितास्ते व्रजौकसः ॥
प्रवृत्ते चैव विंशाब्दे जनाः राजास्तथा प्रजाः ।
कुर्वन्त्यरिष्टनाशाय घृतदानं विशेषतः ॥
विंशाब्दे पूर्णतां याते एकवींशे समागमे ।
आर्द्रापुनर्वसूऋक्षौ वृश्टिसून्यौ वभूवतुः ॥
मन्मथे वत्सरे जाते चतुर्मासावलङ्घने ।
श्रावणे शुक्लपक्षे तु प्रतिपद्रविंस्युता ॥
मृतुयोगसमाविष्टा सार्प्यपातसमन्विता ।
सर्पारूढे रवऔ जातं वक्रौ जाते भृगोःसुते ॥
इन्द्रदुन्दुभिशब्दे च दुर्दिने समुपागते ।
यथान्तसमये प्राणी प्राणमन्तरतोऽक्षिपन् ॥
तथा गेहान्तरे लक्ष्मीः क्षिपते क्रन्दते मुहुः ।
सूर्योदयघटी जाताः पञ्चविंशा कुयोगगः ॥
भौमे सवृश्चिके लग्ने हाहाकररुतैः सह ।
गोपुरोट्टालकैः सार्धं पाताले कम्पते फणी ॥
भूमिर्विदीर्णभावेन कम्पते प्राणनाशिनी ।
घटीद्वयप्रमाणेन भूमिकम्पो भयानकः ॥
पातालं गन्तुमिच्छेत पापक्रान्ता वसुन्धरा ।
तत्क्षणे तु कलाः क्षीणाः कमलायाः भवन्ति हि ॥
तद्दिने मानवाः लोके चिरायुः वृद्धिमीप्सवः ।
दानं कुर्युर्विधानेन वस्त्राणां परिवर्त्तनं ॥
हिरण्यरूपिणी पृथ्वी वस्त्रगोम्भू हिराण्यकं ।
रुक्मपात्राणि हस्त्यश्व घृतादिकरग्नानि च ॥
गोधूमतन्दुलादीनि विप्रेभ्यो दानमाचरेत् ।
अरिष्टशमनार्थाय नूनं शान्तिमुपाचरेत् ॥
यद्वस्तु नैव दानं सा तत्समूलं विनश्यति ।
गेहे गेहे करोत्पूजां सायङ्काले निशीथगे ॥
अभिषेकं च दुग्धेन दूर्वपुजयुतेन च ।
भूमिं प्रपूजयेद्यस्तु यथा राजास्तथा प्रजाः ॥
दानाशक्ये प्रजाः लोकाः यथा शक्त्यनुसारतः ।
गेहगेहात्भवेत्पुण्यं सहस्रगुणितं भवेत् ॥
नैव कृत्वा यदा दानं चन्द्रसूत्रप्रमाणतः ।
सदैव ऋणदारिद्यैः वहुचिन्ताप्रपीडिताः ॥
द्विजादयश्च वर्णास्ते गेहे गेहे प्रयोगकं ।
कुर्युः सर्वार्थसम्पत्यै लक्ष्मीमन्त्रस्य सिद्धिदं ॥
चतुराणि दिनान्येव त्यक्त्वा कपदिनादपि ।
श्रावणशुक्लपञ्चम्यां प्रयोगस्यारम्भं चरेत् ॥
चतुर्मासावधिं यावत्त्रयोदशसहस्रकं ।
मार्गे च शुक्लपञ्चम्यां पूर्णसङ्ख्यां समापयेत् ॥
शतमष्टोत्तर नित्यमुत्तराभिमुखे विशत् ।
सिंहाजिनमुपाविश्य चन्दनोद्भवमालया ॥
लक्ष्मीमन्त्रं जपन्ति सा गुप्तस्थाने जनाः प्रजाः ।
जुहुयान्नित्यमेवैव घृतेन च दशांशकं ॥
इति पूजाविधिः प्रोक्ता नष्टपद्मोद्भवाय च ।
अथाः सम्प्रवक्ष्यामि राजमन्त्रप्रयोगकं ।
द्वाविंशब्राह्मणेभ्यस्तु द्विविंशति सहस्रकं ॥
कारयेफ़्द्द्विधिपूर्वेण ह्यखण्डघृतदीपक्ं ।
स्वर्णमुद्वाभिःसन्तोष्य भोजनेष्टप्रपूरकैः ॥
ब्राह्मणानित्यमेवैव दक्षिणाभिः प्रपूजयेत् ।
वस्त्रालङ्कारणाद्यैस्तु वर्णयेद्विधिपूर्वकं ॥
दशांशं क्रियते होमं रत्नगर्भा वसुन्धरा ।
घृतं मणप्रमाणं च नित्यदानं करोन्नृपं ॥
खखाभ्र नभषड्षड्भिरेकमासप्रयोगकं ।
६६,००००॥ एकमासे प्रयोगं याद्विधिपूवमुदाहृतं ॥
तथा चतुर्षु मासेषु प्रयोगं विधिवच्चरेत् ।
प्रयोगे पूर्णतां याते लक्ष्मीरवतरेद्भुवि ॥
स्वर्णादिधातुसङ्घैस्तु पुन्यव्याराग्सञ्चयैः ।
परमायूः प्रमाणेन गोदानं विधिवद्ददौ ॥
रसधान्गानि द्रव्यानि जायन्ते बहुधा भुवि ।
पूर्वलोकाः मृयन्ते स्म नवोत्पन्ना रमन्ति च ॥
समर्घानि च धान्यानि मन्मथाब्दे प्रपूरणे ।
द्विविंशाब्दे यदाजाते छत्रधारी भविष्यति ॥
चतुर्द्दिग्मण्डलं जातं सुभिक्षं धर्मराजकं ।
सुराज्यामन्द्रप्रस्थे स्याल् लक्ष्मीराविर्भवेद्भुवि ॥
सुवर्णरूपिणी भूमिं दद्याद्विप्राय धीमते ।
राजा भूमिदशांशेन पृथ्वीदानं समाचरेत् ॥
इत्युत्पातमयीं शान्ति कुर्याद्राजा विधानतः ॥
अथ लक्ष्मीमन्त्रप्रयोगः ।
लक्ष्मीरहस्ये —
“ओं ऐं क्लीं सौं ह्लीं श्लीं कमलोद्भवायई स्वाहा” इति त्रयोदशाक्षरो नष्टकमलोद्भवमन्त्रः ।
अनेन
मन्त्रेण प्राणायामत्रयं कुर्यात् ।
अस्य मन्त्रस्य विष्णु ऋषिर्ल्लक्ष्मी देवतास्त्रिष्टुप्छन्दः मम नष्टपद्मोद्भवार्थे
जपे विनियोगः ।
अथ न्यासः —- शिरसि विष्णवे ऋषये नमः मुखे स्त्रिष्टुप्छन्दसे नमः हृदये लक्ष्म्यै
देवतायै नमः इति न्यासः ।
अथध्यानं —-
विंशाब्दशङ्काविचारीतानष्टगुप्तस्वरूपां भयविह्वलाङ्गीं ।
महर्घधान्यार्थकरीं भजामि पुनर्भव्यां राज्यसुभिक्षरूपिणीं ॥
क्षत्रावितां छत्रविधायिनीं रमां वर्षद्वयाच्छादितवालसञ्ज्ञां ।
इति पुनर्भवलक्ष्मीस्वरूपं ध्यात्वा प्रयोगस्य जपं कृत्वा कमलायै समर्पयेत् ॥
गुह्यात्गुह्यन्तरं देवि गृहाण परमेश्वरि ।
इति नष्टपद्मोद्भवमन्त्रप्रयोगः ॥
नृसिंहपुराणे —- सीतया शायितो विष्णुः श्रियै शापं ददौ हरिः ।
विंशोत्तरशतेऽब्दे त्वं लोकनष्टा भविष्यसि ॥
विष्णु शापान्वितो मन्त्रस्तस्य मुक्तप्रयोगकं ।
——
आउम् अस्य श्रीविष्णुशापप्र्मोचनमन्त्रस्य ब्रह्मार्षिः कौमारी देवता गायत्री छन्दः मम विष्णुसापप्रमोचने
जपे विनियोगः ।
इति विष्णुसापमुक्ताभवः ॥
चतुर्भिरन्जलीः नीत्वा चतुदिक्षु विनिःक्षिपेत् ।
धनधान्यसमृद्धिं च नानालक्ष्मीसुखं लभेत् ॥
इति विष्णुशापमोचनप्रयोगः ॥३६॥
ततस्तपोवनप्रार्थनमन्त्रः ।
पाद्मे —
नष्टसंवत्सरोद्भूत लक्ष्मीगुप्तप्रकाशिने नमस्ते यौवनायैव सर्वारिष्टविनाशिने ॥
इति मन्त्रं दशावृत्या नमस्कारं समाचरेत् ।
सर्वारिष्टविनिर्मुक्तो सकलेष्टमवाप्नुयात् ॥३७।
ततो विष्णुकुङ्डस्नानाचमनप्रार्थनमन्त्रः —
विष्णवरिष्टकृतस्नान सर्वपापौघनाशिने ।
तीर्थराज नमस्तुभ्यं विष्णुकुण्ड वरप्रद ॥
इति द्वादशभिर्मन्त्रं मज्जनाचमनैर्नमन् ।
कदारिष्टं न पश्येत विष्णुसायुज्यमाप्नुयात् ॥
एकक्रोशप्रमाणेन प्रदक्षिणमथाचरेत् ॥ इति व्रजयात्राप्रसङ्गे तपोवनप्रदक्षिणा ।३८ ॥
अथ व्रजयात्राप्रसङ्गे जीवनवनप्रदक्षिणा ।
स्मृतिमयूखे —-
आषाढकृष्णसप्तम्यामागतो जीवनं वनं ।
प्रार्थयेद्विधिपूर्णेण परमायुः सजीवति ॥
जीवनवनप्रार्थनमन्त्रः —
सजीवनस्वरूपाय भृगुणा निम्मिईताय ते ।
वनाय जीवनाख्याय नमो वैकुन्ठरूपिणे ॥
इति चतुर्द्दशावृत्या नमस्कारं समाचरेत् ।
आयुरारोग्यमाप्नोति कदा क्लेश न पश्यति ॥३९॥
ततो पीयूषकुण्डस्नानाचमनप्रार्थनमन्त्रः —-
नमोऽमृतस्वरूपाय मृतामृताविधायिने ।
निःकल्मषाय तीर्थाय पीयूषवरदयिने ॥
इत्यष्टादशभिर्मन्त्रं मज्जनाचमनैर्नमन् ।
देवता सद्दृशो लाङ्को जायते पृथिवीतले ॥
पादोनक्रोशमात्रेण प्रदक्षिणामथाचरेत् ॥ इति व्रजयात्राप्रसगे जीवनवनप्रदक्षिणा ॥४०॥
अथ वन-यात्राप्रसङ्गेपिपासावनप्रदक्षिणा ।
सौपर्णसंहितायां —-
भाद्रशुक्लचतुर्थ्यां च पिपासावनमागतः ।
प्रार्थायेन्मन्त्रपूर्वेण तृषा शान्तिमवाप्नुयात् ॥
पिपासावनप्रार्थनमन्त्रः —-
प्रेततृड्मुक्तये तुभ्यं पिपासाख्यवनाय ते ।
नमः प्रेतत्वनाशाय तापात्तिईहरये नमः ॥
इति मन्त्रं दशावृत्या नमस्कारं समाचरेत् ।
वैकुन्ठपदमाप्नोति बहुपापान्वितो मृतः ॥४१॥
ततो मन्दाकिनीकुण्डस्नानाचमनप्रार्थनमन्त्रः —-
मन्दाकिनी वियत्पात सम्भवाय नमोऽस्तु ते ।
कृष्णक्रीडाविहारतृड्शान्तये मुक्तिदायिने ।
इति मन्त्रं त्रिरावृत्या मज्जनाचमनैर्नमन् ।
अश्वमेधफलं लब्ध्वा मुक्तिभागी भवेन्नरः ॥ ॥
ततो रासमण्डलप्रार्थनमन्त्रः —-
विहारसुखरूपाय मण्डलाय नमोऽस्तु ते ।
लोकानन्दप्रमौदाय गोपिकवल्लभाय च ॥
इत्यष्टभिः पठन्मन्त्रं नमस्कारं समाचरेत् ।
कृतार्थफलमलभ्य वैकुन्ठपदवीं लभेत् ॥
एकक्रोशप्रमाणेन प्रदक्षिणमथाचरेत् ॥ इति वन-यात्राप्रसङ्गे पिपासावनप्रदक्षिणा ॥४३॥
अथ व्रजयात्राप्रसङ्गे चात्रगवनपरिक्रमा ।
लैङ्गे —-
ज्येष्ठशुक्लातृतीयायामागमच्चात्रगवनं ।
प्रार्थयेन्मन्त्रप्रोक्तेन परिपूर्णसुखं लभेत् ॥
चात्रगवनप्रार्थनमन्त्राः —-
नमश्चात्रगरम्याय कृष्णानन्दप्रदायिने ।
गोपिकाविमलोल्लासपरिपूर्णसुखात्मने ॥
इति षड्भिरुदामन्त्रप्रणतिं विधिवच्चरेत् ।
सकलेष्टवरं लब्ध्वा रमते पृथिवीतले ॥४४॥
अथ व्रजयात्राप्रसङ्गे विहस्यवनप्रदक्षिणा ।
पाद्मे —
आषाडकृष्णमष्टम्यां विहस्यवनमागतः ।
प्रार्थनां कुरुते यस्तु विमलो जायतेऽवनौ ॥
विहस्यवनप्रार्थनमन्त्रः —
रामेक्षणप्रसीदाय विहस्याख्यवनाय ते ।
कृष्णगोपीकृतोल्लास मन्दहास्यसमुद्भव ॥
इति चतुर्भिरुच्चार्य चुष्टिकाभिर्नमस्करोत् ।
लोकपूज्यो नरो जातः प्रसीदाननसञ्ज्ञकः ॥४९॥
ततो रामकुण्डस्नानाचमनप्रार्थनमन्त्रः —
सङ्कर्षणकृतस्नान गोपीरमणहेतवे ।
रामकुण्डाभिधानाय तीर्थराज नमोऽस्तु ते ॥
इति मन्त्रं त्रिभिरुक्त्वा मज्जनाचमनैर्नमन्ं ।
विक्रमेन समायुक्तो लोकानां वश्यकारकः ॥
सार्धाक्रोशद्वयेनैव प्रदक्षिणमथाचरेत् ॥ इति व्रजयात्राप्रसङ्गे विहस्यवनप्रदक्षिणा ॥५०॥
अथ व्रजयात्राप्रसङ्गे आहूतवनप्रदक्षिणा ।
आदि पुराणे —-
ज्येष्ठकृष्णदशञ्यां तु आहूतवनमागतः ।
गौपालवाहनोद्मृतं प्रार्थयेद्विधिपूर्वकं ॥
आहूतवनप्रदक्षिणाप्रार्थनमन्त्रः —-
कृष्णवाक्यसमाहूत समागमविधायिने ।
गोगोपालसुखारामाहूतसङ्ख्याय ते नमः ॥
इति सप्तदशावृत्या नमस्कारं समाचरेत् ।
सदा वाक्यवरश्रेष्ठफलं लोकेषु लभ्यते ॥५१॥
ततो ध्यानकुण्डस्नानाचमनप्रार्थनमन्त्रः —-
गोपीध्यानसमाहूत कृष्णचेष्टाविधायिने ।
ध्यानकुण्ड नमस्तुऽभ्यं लोकानामिष्टदायिने ॥
इति मन्त्रं षडावृत्या मज्जनाचमनैर्नमन् ।
चतुर्द्दिक्षुं समुद्भूतं चिन्तितेष्टफलं लभेत् ॥
पादोनद्वयक्रोशेन प्रदक्षिणमथाचरेत् ॥ इति व्रजयात्राप्रसङ्गे आहूतवनप्रदक्षिणा ॥५२॥
अथ व्रजयात्राप्रसङ्गे कृष्णस्थितिवनप्रदक्षिणा ।
वामन पुराणे —
ज्येष्ठशुक्लनवम्यां तु कृष्णस्थितिवनं ययौ ।
प्रार्थनं कुरुते यस्तु स्त्रीसुख चिन्तित लभेत् ।
ततो कृष्णस्थितिवन्प्रार्थनमन्त्रः —-
गोपीक्षणकृता चिन्ता कृष्णस्थितिवनाय ते ।
नमः समागमसौख्यवनश्रेष्ठप्रदायिने ॥
इति मन्त्रं त्रिरावृत्या नमस्कारं करोन्नरः ।
इष्टसमागमोद्भूतवरमीप्सितमाप्नुयात्॥५३॥
ततो हेलासरस्नानचमनप्रार्थनमन्त्रः —
गोपीकृष्णकृतहेला स्नपनोद्भवकेलिने ।
हेलाख्यसरसे तुभ्यं तीर्थराज नमोऽस्तु ते ॥
इति त्रयोदशावृत्या मज्जनाचमनैर्नमन् ।
सदा क्रीडासुखं गेहे समस्तपरिचिन्तनैः ॥
सपादक्रोशमानेन प्रदक्षिणमथाचरेत् ॥ इति व्रजयात्राप्रसङ्गे कृष्णस्थितिवनप्रदक्षिणा ॥५४॥
अथ व्रजयात्राप्रसङ्गे भूषणवनप्रदक्षिणा ।
विष्णुधर्मोत्तरे —
वैशाखशुक्लपक्षे तु प्रतिपद्दिनसम्भवे ।
भूषणाख्यं वनं नाम गतो प्रार्थानमाचरेत् ॥
भूषणवनप्रार्थनमन्त्रः —
गोपीसीन्जितशृङ्गार भूषणस्थल शोभिने ।
कृष्णेङ्गितस्वरूपाय नमस्ते सुखदायिने ॥
इति द्वादशभिर्मन्त्रं नमस्कारं समाचरेत् ।
स्वर्णमुक्तामणिरुक्माभूषणं लभते सदा ॥५४॥
ततो पद्मासरःस्नानाचमनप्रार्थनमन्त्रः —-
पद्मासखीकृतस्नान सम्भवोल्लासरूपिणे ।
पद्माख्यसरसे तुभ्यं नमः पद्मविभूषिते ॥
इत्यष्टादशभिर्मन्त्रं मज्जनाचमनैर्नमन् ।
सर्वदा विमलोद्भूतैः सुखैस्तु कमलां भजेत् ॥
पादोनक्रोशमात्रेण प्रदक्षिणमथाचरेत् ॥ इति व्रजयात्राप्रसङ्गे भूषणवनप्रदक्षिणा ॥५६॥
अथ व्रजयात्राप्रसङ्गे वत्सवनप्रदक्षिणा ।
ब्राह्मे ——
वैशाखशुक्लसप्तम्यां ब्रती वत्सवनं गतः ।
वत्सवनप्रार्थनमन्त्रः —-
विरचिलोभमोहोत्थवत्सारणहेतवे ।
नमः कृतार्थरूपाय वत्साख्याय वनाय ते ॥
इति मन्त्रं समुच्चार्य पञ्चान्भिः प्रणतिं चरेत् ।
कृतार्थपदवनीं लब्ध्वा ब्रह्मलोकमवाप्नुयात् ॥५७॥
ततो गोपालकुण्डस्नानाचमनप्रार्थनमन्त्रः —-
गोपालस्नपनोद्भूत बहुधा श्रमनाशिने ।
नमस्ते तीर्थाराजाय गोधनसुखदयिने ॥
इति त्रयोदशावृत्या मज्जनाचमनैर्नम्मन् ।
धनधान्यसमृद्धिस्तु गोधनसुखमाप्नुयात् ॥
क्रोशद्वयप्रमाणेन वत्सवनप्रदक्षिणा ॥ इति व्रजयात्राप्रसङ्गे वत्सवनप्रदक्षिणा ॥५८॥
अथ व्रजयात्राप्रसङ्गे क्रीडावनप्रदक्षिणा ।
मात्स्ये —- ज्येष्ठकृष्णतृतीयायां क्रीडवनमुपागतः ।
क्रीडावनप्रार्थनमन्त्रः —-
गोपीक्रीडासमुत्पन्न कृष्णचेष्टाविधायिने ।
सुखसारङ्गरूपाय क्रीडावन नमोऽस्तु ते ॥
इत्यष्टभिर्जपन्मन्त्रं नमस्कारं समाचरेत् ।
परिपूर्णसुखं लब्ध्वा लोकपूज्यो भवेन्नरः ॥५९॥
ततो भामिनीकुण्डस्नानाचमनप्रार्थनमन्त्रः —
गोपिकाभामिनीरूप कृतस्नपन्केलिके ।
कृष्णसम्भावनोद्भूत तीर्थराजय ते नमः ॥
इत्येकादशभिर्मन्त्रं मज्जनाचमनैर्नमन् ।
सम्भावनैच्छितं कार्यफलमाप्नोति नित्यशः ॥
सार्धक्रोशप्रमाणेन क्रीडावनप्रदक्षिणा ॥ इति व्रजयात्राप्रसङ्गै क्रीडावनप्रदक्षिणा ॥६०॥
अथ व्रजयात्राप्रसङ्गे रुद्रवनप्रदक्षिणा ।
भविष्योत्तरे —- वैशाखकृष्णद्वादश्यां महारुद्रवनं गतः ।
रुद्रवनप्रार्थनमन्त्रः —
तपः समाधिसम्भूत रुद्रसिद्धिप्रदायिने ।
नमो रुद्रवनाख्याय परिपूर्णकलात्मने ॥
ईति मन्त्रं समुचर्यईकादश प्रणतिं चरेत् ।
रुद्रस्वप्नवरं लब्ध्वा परिपूर्णसुखं लभेत् ॥६१॥
ततो गदाधरकुण्डस्नानाचमनप्रार्थनमत्रः —
गदाधर विभुसाक्षाद् द्रार्थवरदायिने ।
तीर्थराज नमस्तुभ्यं गदाधरसमह्वय ॥
इत्यष्टधा पठन्मन्त्रं मज्जनाचमनैर्नमन् ।
गदाधराः हरि साक्षात्तस्य क्लेशं निवारयेत् ॥
क्रोशर्धपरिमाणेन प्रदक्षिणमथाचरेत् ॥ इति व्रजयात्राप्रसङ्गे रुद्रवनप्रदक्षिणा ॥६२॥
अथ व्रजयात्राप्रसङ्गे रमणवनप्रदक्षिणा ।
स्कान्दे — भाद्रशुक्लनवम्यां च गच्छेद्रमणकं वनं ।
रमणवनप्रार्थनमन्त्रः —
बालारामसुखाश्लिष्ट रमण कृष्णचेष्टितेन ।
रमणाख्याय वनाय रम्याय च नमोऽस्तु ते ॥
इति मन्तां समुचार्य सप्तभिः प्रणतिं चरेत् ।
वालोत्सवरसक्रीडां गृहसौख्यमवाप्नुयात् ॥६२॥
ततो कृष्णाङ्घ्रिलाञ्छनप्रार्थनमन्त्रः —-
पञ्चाव्दकृष्णरूपाङ्घ्रिकमलचिह्नमूत्तये ।
नमस्ते शुक्तिरम्याय रजोछादितकान्तये ॥
इति मन्त्रं समुच्चार्य पञ्चभिर्प्राणतिं चरेत् ।
हरिवत्क्रीडयते वालास्तस्य गेहे न संशयः ।
६४॥
ततो ऽटलेश्वरकुण्डस्नानाचमनप्रर्थनमन्त्रः —-
अटलेश्वर श्रीकृष्ण स्नपनतीर्थ सम्भवे ।
नमः कैवल्यनाथाय सर्वदा प्रीतिदायिने ॥
इति मन्त्रं नवावृत्या मज्जनाचमनैर्नमन् ।
अटलां पदवीं लब्धा तथा ध्रुवसभो नरः ॥
क्रोशद्वयप्रमाणेन रमणाख्यप्रदक्षिणा ।
कृतकृत्यो भवेल्लोके विष्णुसायुज्यमाप्नुयात्॥६५॥
इति श्रीभास्करात्मजनारायणभट्टविरचिते व्रजभक्तिविलासे परमहससंहितोदाहरणे
व्रजमाहात्म्यनिरूपणं समन्त्रवन-यात्राव्रजयात्रोत्सवप्रसङ्गे एकादशोऽध्यायः ॥
—ओ)०(ओ—
(१२)
॥ द्वादशो ऽध्यायः ॥
अथ वन-यात्राप्रसङ्गे ऽशोकवनप्रदक्षिणा ।
अगस्त्यसंहितायां —
अष्टम्यां भाद्रशुक्ले तु वृन्दावन समागमे ।
साङ्गे ऽशोकवनं नाम गत्वा प्रार्थनमाचरेत् ॥
प्रार्थनमन्त्रः —- क्रीडावानररम्याय वृक्षाशोकमनोरमे ।
सीतावास वृक्षश्रेष्ठ सौख्यरूपाय ते नमः ॥
इति षोडशभिर्मन्त्रमुच्चरन्प्रणतिं चरेत् ।
सीतावरप्रसादेन राज्यमाप्नोति धार्मिकं ॥१॥
ततो सीताकुण्डस्नानाचमनप्रार्थनमन्त्रः —
जानकीस्नानसम्भूत तीर्थराजाय ते नमः ।
नीलपीतकल्लोलाम्भ परमोक्षस्वरूपिणे ॥
इति मन्त्रं दशावृत्या मज्जनाचमनैर्नमन् ।
मुक्तिभागी भवेल्लोको ह्यावागमनवर्जितैः ॥
चतुःक्रोशप्रमाणेन प्रदाक्षिणामथाचरेत् ॥२॥
अथ वन-यात्राप्रसङ्गे नारायणवनप्रदक्षिणा ।
आदिपुराणे —-
भाद्रकृष्णस्यामावस्यां दिने नारायण वनं ।
आगत्य प्रार्थनं कुर्यन्नारायणपदं लभेत् ॥
प्रार्थनमन्त्रः — नारायणसुखावास परमात्मस्वरूपिणं ।
नमो नारायणाख्याय वनाय सुखदायिने ॥
इति मन्त्रं त्रिभिरुक्त्वा प्रणतिं विधिवच्चरेत् ।
लक्ष्मीवान्जायते लोको कलापूर्णो सुखं लभेत्॥३॥
ततो गोपकुण्डस्नानाचमनप्रार्थनमन्त्रः —
नन्दादिस्नापनोद्भुतर्तीर्थ निर्मलवारिणे ।
गोपकुण्डसमाख्याय नमस्ते मुक्तिदायिने ॥
इति मन्त्रं नवावृत्या मज्जनाचमैर्नमन् ।
परमैशपदं लब्ध्वा मुक्तिभागी भवेन्नरः ॥
एकक्रोशप्रमाणेन प्रदक्षिणामथाचरेत् ॥ इति व्र० नारायणवनप्र०॥४॥
अथ व०सखावनप्रदक्षिणा ।
ब्रह्मयामले —
एकादश्यां सितेपक्षे आसाढ स्वपिते हरौ ।
सखावनं समायातो प्रार्थयेद्विधिपूर्वकं ॥
मन्त्रः —- गोपालसखिभिरम्यैः चेष्टित कृष्णशोभिने ।
नानाक्रीडामनोज्ञाय सखावन नमोऽस्तु ते ॥
इत्यष्टादशभिर्मन्त्रमुचरन्प्रणतिं चरेत् ।
सर्वदा परिवारेण संयुतो सुखवमाप्नुयात् ॥
अष्टादशसखीभ्यस्तु भोजनं कारयेन्नरः ।
चतुर्विधं च पक्वानं लड्डुदुग्दाफलेन्दुकीं ॥
चतुर्थं खुरुमं प्रोक्तं चतुः पात्रेषु निक्षिपेत् ।
चतुर्धातुमयायैव रुक्मादीनां चतुर्विधाः ॥
षट् पात्राणि च रुक्मस्य सार्ध प्रस्थप्रमाणतः ।
एवं ताभ्रस्य चत्वारि पितल्याश्चतुराणि च ॥
धातुकांस्यस्य चत्वारि चतुर्धास्थालनिर्मिताः ।
अष्टादशं करोन्मूर्त्तिं नामाक्षरविलेखितं ॥
पलद्वयसुवर्णस्य पृतक्नामानि तस्य च ।
गलेषु विन्यसेत् पट्टसूत्रेण परिवेष्टयेत् ॥
सखानां विप्रबलानां नमस्कुर्याद्व्रजौकसां ।
अथ व०सखावनप्रदक्षिणा ।
ब्रह्मयामले —
एकादश्यां सितेपक्षे आसाढ स्वपिते हरौ ।
सखावनं समायातो प्रार्थयेद्विधिपूर्वकं ॥
मन्त्रः —- गोपालसखिभिरम्यैः चेष्टित कृष्णशोभिने ।
नानाक्रीडामनोज्ञाय सखावन नमोऽस्तु ते ॥
इत्यष्टादशभिर्मन्त्रमुचरन्प्रणतिं चरेत् ।
सर्वदा परिवारेण संयुतो सुखवमाप्नुयात् ॥
अष्टादशसखीभ्यस्तु भोजनं कारयेन्नरः ।
चतुर्विधं च पक्वानं लड्डुदुग्दाफलेन्दुकीं ॥
चतुर्थं खुरुमं प्रोक्तं चतुः पात्रेषु निक्षिपेत् ।
चतुर्धातुमयायैव रुक्मादीनां चतुर्विधाः ॥
षट् पात्राणि च रुक्मस्य सार्ध प्रस्थप्रमाणतः ।
एवं ताभ्रस्य चत्वारि पितल्याश्चतुराणि च ॥
धातुकांस्यस्य चत्वारि चतुर्धास्थालनिर्मिताः ।
अष्टादशं करोन्मूर्त्तिं नामाक्षरविलेखितं ॥
पलद्वयसुवर्णस्य पृतक्नामानि तस्य च ।
गलेषु विन्यसेत् पट्टसूत्रेण परिवेष्टयेत् ॥
सखानां विप्रबलानां नमस्कुर्याद्व्रजौकसां ।
अष्टादशसखिनामनि ।
विष्णुयामले
मधुमङ्गल श्रीकृष्ण सुबल पद्ममोदकः ।
बलिराम सुभद्रश्च वल्लभो कमलाकरः ॥
मेघश्याम कलाकान्तः पद्मरक्षा कृष्णवल्लभः ।
मनोरमो जगद्रामः शुभगो लोकपालकः ॥
कदर्यो विश्वभोगी च नवनीताप्रीयवल्लभः ।
इत्यष्टादशसङ्ख्यानां सखानां नामलाञ्च्छितं ॥
मूर्त्ति हेममयीं लोभाद्वह्नौ तप्त्वा विनाशयेत् ।
सप्तजन्म भवेत्कुष्ठी ऋणदारिद्रशपोडितः ॥
व्याधिक्लेशरनसमायुक्तो क्षुदादुःखैः सदान्वितः ।
भगवद्मुखसम्भूतं हिरण्यं पादमाचरेत् ॥
पादयोः कुष्ठमाप्न्ति नरेषु कथिता विधिः ।
रामकृष्णादिमूर्त्तीनां पाददोषो न विद्यते ॥
ब्राह्मे ——- रुक्मादितुर्यधातूणां पात्रस्पर्शो यदा भवेत् ।
स्वानादिस्पर्शनेचैव मृतजीवसमन्विते ॥
उच्छिष्टजलसंसर्गेऽशौचस्पर्शेऽपावित्रके ।
पवित्रविधिराख्याता चतुर्धातुमयेषु च ॥
रुक्मापित्तलपात्राणि वह्न्यर्ध शुद्धतां व्रजेत् ।
विनाशुद्धं कृतं पात्रं गृह्नीयाद्भोजभनादिषु ॥
कृत्वा धर्मपरिभ्रष्ट समुलं नाशमाप्नुयात् ।
दरिद्ररोगाशोकश्च सर्वदा कलहं गृहे ॥
शौचादिकर्मणे पात्रं पित्तल्याश्च शुभप्रदं ।
पात्रतोऽर्द्वजलेनैव पादप्रक्षालनं चरेत् ॥
अशुद्धं तज्जलं सर्वं पानुआचमनवर्जितं ।
पित्तलं प्रचुरं पात्रं कल्पयेच्छौचकर्मणि ॥
नैवदोषोऽभिजायेत रुक्मपात्रं विवर्जयेत् ।
विष्णुधर्मोतरे —- खण्डितं स्फुटितं पात्रं गृह्नीयाद्भोजनादिषु ।
नैवदोषोऽभिजायेत रुक्मपित्तलिपात्रयोः ॥
ताम्रपात्रमशुद्धं वा तुलसीस्वर्णसंस्कृतान् ।
सदा शुद्धमयं जातं भोजनोच्छिष्टवर्जितं ॥
ताम्रगत्रसमानीतं तज्जलं सर्वदा सुचिः ।
ताम्रपात्रकृतोच्छिप्टमृणदारिद्ररोगभाक् ॥
कल्पयेत्ताम्रपात्रं तु दुर्बुद्धिः शौचकर्मणि ।
सर्वाङ्गकुष्ठमाप्नोति सप्तजन्मान्तरेष्वपि ॥
कदाचिन्नेव मुच्येत योनिः कुष्ठसमुद्भवाः ।
जीवन्कुष्ठीमृदान्नीत्वाकुष्ठमुक्तिमवाप्नुयात् ॥
मृदां विना कदृआ योनिः नैवमुक्तिं प्रजायते ।
कुष्टयन्तसमये भूमौ लोकवाक्यं शृणोदपि ॥
विदीर्णकुष्ठमाप्नोति सप्तजन्मान्तरेष्वपि ।
जीवन्मृदालभेन्मृय्तुपुर्नयोर्निमवाप्नुयात् ॥
सचीकुष्ठिद्वयोर्वाक्ये षण्मासमृत्युदायकं ।
कांस्यपात्रमशुद्धं चेदश्वास्यरसनालिहात् ॥
शुद्ध भवेत्तदापात्रं भीजनादिषु श्रीपदं ।
खण्डितं स्फुटितं कांस्यं मृत्पात्रसमतां व्रजेत् ॥
मृत्पात्रभोजनात्पानान्नश्यतेऽस्याचलाध्रुवं ।
दरिद्ररोगसन्तापमभद्रकलहं सदा ॥
मृत्पात्रजलसंस्कारादशुद्धमशिवप्रदं ।
अशुद्धं जायते पात्रं तत्स्पर्शं नैवमाचरेत् ॥
शौचाय मृन्मयं पात्रमेकावृत्या समाचरेत् ।
पुनर्नैव च गृह्नीयात्परित्याज्यं प्रयत्नतः ॥
गृहीते लोहपात्रे च नैवदोषाऽम्भिजायते ।
चतुर्वर्गाईर्गृहीतेऽस्मिन् लोहपात्रे च निर्मलैः ॥
श्यामतारहिते पात्रे मुखादर्शसमे यदि ।
पाकादिकर्मणि ग्राह्ये लोहे दोषो न विद्यते ॥
सूतिस्पर्शे मृतस्पर्शे जलससर्गनतः शुचिः ।
श्वानकाकादिभिः पर्शेपात्रोष्ठे च न वस्तुनि ॥
परित्याज्यं प्रयत्नेन मृन्मयं पात्रवस्तुनः ।
अशुचि सञ्ज्ञकं पात्रं चतुर्धर्मं विनाशयेत् ॥
इत्यशुद्धपात्रशुद्धनिर्णयः ॥ ब्रह्मयामले ॥५॥
अथ नारायणकुण्डस्नानाचमन प्रार्थनमन्त्रः —
नारायणकृतस्नान महाफलविधायिने ।
तीर्थराज नमस्तुभ्यं कुण्डनारायणाह्वय ॥
इति मन्त्रं दशावृत्या मज्जनाचमनैर्नमन् ।
परमांओक्षपदं लब्ध्वा सकलेष्टवरं लभेत् ॥
इति ब० सखा० प्र०॥६॥
अथ वन-यात्राप्रसङ्गे सखीवनप्रदक्षिणा ।
ब्राह्मे —
भाद्रकृष्णचतुर्दश्यां सखीवनमुपागतः ।
प्रार्थयेद्विधिवत्पूर्वे गोवर्धनसमीपगं ॥
सखीवनप्रार्थनमन्त्रः —
चतुषष्ठि सखीनां च प्रवाससुखदायिने ।
सखीवन नमस्तुभ्यं सर्वदा कृष्णवल्लभ ॥
इति मन्त्रं समुच्चार्य षष्ठ्यावृत्या नमश्चरेत् ।
भगवच्छखितां याति लोकपूज्यो भवेद्भुवि ॥७॥
ततो लीलावतीकुण्डस्नानचमनमन्त्रः —-
कृष्णलीलासमुत्पन्न लीलावतीकृताय ते ।
नमस्ते तीर्थराजाय सखीहेलोद्भवाय च ॥
इत्यष्टधा पठन्मन्त्रं मज्जनाचमनैर्नमन् ।
सदा क्रीडान्वितो राजा शतपत्नीसुखं लभेत् ॥
क्रोशार्धापरिमाणेन प्रदक्षिणामथाकरोत् ॥ इति ब० सखी० प्र०॥८॥
अथ वन० कृष्णान्तर्ध्यानवनप्रदक्षिणा ।
आदिवाराहे —
सप्तम्यां ज्येष्ठकृष्णे तु कृष्णान्तर्ध्यानसञ्ज्ञकं ।
आजगाम वनं यात्री प्रार्थर्यच्छुद्धचेतसा ॥
प्रा० मन्त्रः —— गोपिकाप्रीतिनाशाय क्षणान्तर्ध्यानचेष्ठिने ।
नमोऽन्तर्ध्यानसञ्ज्ञाय गोपीहरिस्वरूपिणे ॥
इति मन्त्रं षडावृत्या नमस्कारं समाचरेत् ।
कृतार्थपदवीं लब्ध्वा गोपीवप्रीतिमाप्नुयात् ॥९॥
ततो कृष्णास्य कुण्डस्नानाचमनप्रार्थनमन्त्रः —-
कृष्णोद्भवस्वरूपाय गोपिकाप्रीतिदायिने ।
कृष्णकुण्डाय तीर्थाय नमस्ते पापशान्तये ॥
इति मन्त्रं द्वादशभिर्मज्जनाचमनैर्नमन् ।
कृतकृत्यो भवेल्लोको लक्ष्मीवान्धनवान्सदा ॥
क्रोशद्वयप्रमाणेन प्रदक्षिणामथाचरेत् ॥ इति आ।१०॥
अथ वन०मुक्तिवनप्रदक्षिणा ।
आदिपुराणे ——
अष्टम्यां ज्येष्ठशुक्ले तु नाम मुक्तिवनं गतः ॥
प्रार्थनमन्त्रः मुक्तये मुक्तिरूपाय मुक्तिसङ्गवनाय ते ।
देवगन्धर्वलोकानां मुक्तिदायनमो नमः ॥
इति चतुर्दशावृत्या नमस्कारं समाचरेत् ।
मुक्तिभागी भवेल्लोको विष्णुसायुज्यमाप्नुयात् ॥११॥
ततो मधुमङ्गलकुण्डस्नानाचमनप्रार्थनमन्त्रः —-
मधुमङ्गलकुण्डाय कृष्णकेलिविधायिने ।
गोपीश्रमविनिर्धौत पीताम्भार नमोऽस्तु ते ॥
इति सप्तदशावृत्या मज्जनाचमनैर्नमन् ।
कृताथ पदवीं लब्ध्वा सखीत्वमाप्नुयाद्धरे ॥
पादोनद्वयक्रोशेन प्रदक्षिणामथाचरेत् ।
यद्ध्यशौचं लभेन्मृत्युं मुक्तीभागी भवेन्नरः ॥१२॥
अथ वन० वियोगवनप्रदक्षिणा —- वैशाखशुक्लद्वादश्यां वियोगवनमागतः ।
प्रा० मन्त्रः —— वियोगगोपिकानित्यकृष्णचिन्ताभिधायिने ।
वियोगशमनार्थय नमस्ते हरिवल्लभ ॥
इति मन्त्रं नवावृत्या नमस्कारं समाचरेत् ।
वियोगं नैव पश्येत कदाचित्पापभाक् यदि ॥१३॥
ततो उद्धवकुण्डस्नानाचमनप्रार्थनमन्त्रः —
उद्धवस्नपनोद्भूत तीर्थराज नमोऽस्तु ते ।
गोपिरक्षणमोदाय तत्वज्ञानप्रदायिने ॥
इत्युअष्टाभिर्पठन्मन्त्रं मज्जनाचमनैर्नमन् ।
बुद्धिमान्नीतिवाल्लोके जाययेऽस्य प्रसादतः ॥
क्रोशार्ध परिमाणेन प्रदक्षिणामथाचरेत् ॥ इति ॥१४॥
अथ वन-यात्राप्रसङ्गे गोदृष्टिवनप्रदक्षिणा ।
वामनपुराणे —-
भाद्रे मासि सिते पक्षेऽमावस्यादिनोत्सवे ।
गोदृष्टिवनमायातः प्रार्थनं कारयेत्सुधीः ॥
प्रा० मन्त्रः —- गोकृष्णेक्षणसम्भूत गोदृष्टयाख्यवनाय ते ।
गोपालवचनारम्य मोक्षरूपाय ते नमः ॥
इति मन्त्रं समुच्चार्य नमस्कारं समाचरेत् ।
दिव्यदृष्टिमवाप्नोति र्मोक्षाख्यपदवीं लभेत् ॥१५॥
ततो गोपालकुण्डस्नानाचमनप्रार्थानमन्त्रः —
गोपालश्रमनाशाय गोपालवरदायिने ।
चिरायुर्वर्धानार्थाय तीथाराज नमोऽस्तु ते ॥
इति मन्त्रं दशावृत्या मज्जनाचमनैर्नमन् ।
गृहवालसुखं लब्द्वा नानाभोगसमाप्नुयात् ॥१६॥
ततो स्वप्नेश्वराय महादेवेक्षणप्रार्थानमन्त्रः —-
स्वप्नेश्वराय देवाय हिंसवृक्षाधिवासिने ।
सुस्वप्नवरदायै च नमस्तेऽर्थ प्रदायिने ॥
इत्येकादशाभिर्मन्त्रं जपित्वा प्रणतिं चरेत् ।
दुःस्वप्न नश्यते तस्य सुस्वप्नवरमाप्नुयात् ॥
सार्धाक्रोशत्रयेणैव प्रदक्षिणाममथचरेत् ॥ इति ॥१७॥
अथ वन० स्वप्नवनप्रदक्षिणा ।
मात्स्ये —-
आषाढ कृष्णपक्षे तु नवम्यां भृगुसंयुते ।
नामस्वप्नवनं श्रेष्ठमाजगाम मुनीश्वर ॥
प्रा०मन्त्रः —- सुस्वप्नदर्शनार्थाय दुःस्वप्नशमनाय ते ।
अक्रूरवरद श्रेष्ठ स्वप्नाख्याय नमो नमः ॥
इत्यष्टधा जपन्मन्त्रं नमस्कारं समाचरेत् ।
स्वप्ने लक्ष्मीवरं लब्ध्वा पारिपूर्णसुखं लभेत् ॥१८॥
ततो ऽक्रूरकुण्डस्नानाचमनप्रार्थनमन्त्रः —-
क्रूराक्रूराकृतार्थाय दुर्बुद्धिशमनाय ते ।
अक्रूरस्नपनोद्भुत तीर्थाराज नमोऽस्तु ते ॥
इति मन्त्रं समुच्चार्य दशभिर्मज्जनाचमैः ।
नमस्कारं प्रकुर्वीत सुखचरममाप्नुयात् ॥
क्रोशार्धपरिमाणेन प्रदक्षिणमथाचरेत् ॥ इति व्रजयात्राप्रसङ्गे स्वप्नवनप्रदक्षिणा ॥
स्वप्नशुभाशुभयोगं व्रजोत्सवाल्हादिन्यां ॥१९॥
अथ व्रज० शुकवनप्रदक्षिणा ।
ब्रह्माण्डे —— नीतिप्रस्तावे ज्येष्ठशुक्लदशम्यां तु शुकनामवनं गतः ॥
प्र० म० —— गोपिकाहितकृद्रूप कृष्णस्य वामहेतवे ।
नमः शुकवनाय च षट्शास्त्रवरदायिने ॥
इति मन्त्रं दशावृत्या नमस्कारं समाचरेत् ।
ज्ञानवान्नीतिवाल्लोको धार्मिको नृपतिर्भवेत् ॥
द्विजदानसमं पुण्यं कृष्णस्तु प्रीतिदोऽभवत् ॥२०॥
ततो द्वारिकाकुण्डस्नानाचमनप्रार्थनमन्त्रः —-
कृष्णसम्भावनोद्भूत गोपिकाप्रीतिदायक ।
द्वारिकाकुण्डतीर्थाय नमस्ते गोपीवल्लभ ॥
इति मन्त्रं समुचार्य पञ्चभिर्मज्जनाचमैः ।
नमस्कारं प्रकुर्वीत द्वारिकास्नानजं फलं ॥
पादक्रोशप्रमाणेन प्रदक्षिणामथाचरेत् ॥ इति ॥२१॥
अथ वन० प्र० लघुशेषशयनवनप्रदक्षिणा ।
पाद्मे —-
भाद्रशुक्लर्षिपञ्चम्यां शेषाख्यशयनं वनं ।
जगाम प्रार्थनं कुर्यात्सर्वकामवाप्नुयात् ॥
प्रा०म० — शेषशयनश्रीकृष्णसुखावासस्वरुपिणे ।
लक्ष्मीपादाह्विं सेव्याय नमस्ते कमलाप्रिये ॥
इति मन्त्रं समुच्चार्य नवभिः प्रणतिं चरेत् ।
सर्वदा सुखवासेन परिपूर्णसुखं लभेत् ॥२२॥
ततो लक्ष्मीकुण्डस्नानाचमनप्रार्थनमन्त्रः —-
कमलास्नपनोद्भूतपीताम्भसलिलाय ते ।
नमः कैवल्यनाथाय त्रईवर्गफलदायिने ॥
इति षोडशभिर्मन्त्रं मज्जनाचमनैर्नमन् ।
कलाकाष्ठामुहूर्त्तेन लक्ष्मीवान्जायते नरः ॥२३॥
अथ व्रज० दोलावनप्रदक्षिणा ।
स्कान्दे —— श्रावणशुक्लपञ्चम्यां दोलावनमुपागतः ॥
प्रा० म० —— दोलोत्साहसखीरम्य कृष्णोल्लासविधायिने ।
दोलावन नमस्तुभ्यं सर्वदा सुखदायिने ॥
इति मन्त्रं समुच्चार्य चतुर्विंशावृतेन च ।
नमस्कुर्याद्विधानेन परिसुखं लभेत्॥२४॥
ततो विशाखाकुण्डस्नानाचमनप्रार्थनमन्त्रः —
चतुःषष्ठिसखीरम्यस्नपनोद्भवकेलिने ।
नमस्ते तीर्थराजाय विशाखाकृतशोभिने ॥
इत्यष्टधापठन्मान्त्रं मज्जनाचमनैर्नमन् ।
सर्वदा रमणीभिस्तु सकलार्थसुखं लभेत् ॥
क्रोशार्ध परिमाणेन प्रदक्षिणामथाचरेत् ॥ इति ॥२५॥
अथ वन० प्रसङ्गे हाहावनप्रदक्षिणा ।
भविष्योत्तरे —— ज्येष्ठशुक्ले च द्वादश्यां हाहावनमुपागतः ।
प्रार्थनमन्त्रः —- गोपिकाक्षोभकृत्कृष्णनानानृत्यविधायिने ।
विमलोत्सवरूपाय हाहावन नमोऽस्तु ते ॥
इति मन्त्रं समुच्चार्य दशधाप्रणतिं चरेत् ।
सर्वदा विमलोत्साहचीरजीवसुखं लभेत् ॥२६॥
ततो रतिकेलिकूपस्नानाचमनप्रार्थनमन्त्रः —
रतिकेलिसखास्नानकूपतीर्थ नमोऽस्तु ते ।
गङ्गावेत्रवतीगोदात्रिधाजलस्वरूपिणे ॥
इति मन्त्रं समुच्चार्य सप्तत्रिंशावृतेन च ।
मज्जनाचमनात्पाद्यै रतिकेलिसुखं लभेत् ॥
पादक्रोशप्रमाणेन प्रदक्षिणामथाचरेत् ॥ इति ॥२७॥
अथ गानवनप्रदक्षिणा ।
कौर्म्ये —- प्रतिपज्ज्येष्ठकृष्णे तु गानसञ्ज्ञ वनं गतः ।
प्रार्थनमन्त्रः —— गोप्युत्साहकृतोद्गान कृष्णेङ्गितविधायिने ।
सर्वदोत्सवरूपाय नमो गानवनाय ते ॥
इति मन्त्रं दशावृत्या नमस्कारं समाचरेत् ।
वैवाहादिकमाङ्गल्यैः सर्वदासुखमन्वभूत्॥२८॥
ततो गन्धर्वकुण्डस्नानप्रार्थनमन्त्रः —
शुभारत्यभिरामाय तीर्थाराज नमोऽस्तु ते ।
विश्वावसुकृतस्नान सुकण्ठवरदायिने ॥
इत्येकादशभिर्मन्त्रं मज्जनाचमनैर्नमन् ।
कटुवाक्यो सुवाक्योऽभूल्लोकवल्लभतां व्रजेत् ॥
सपादक्रोशमात्रेण प्रदक्षिणामथाचरेत् ॥ इति ॥२९॥
अथ वन० —- प्रसङ्गे लेपनवनप्रदक्षिणा ।
नृसिंहपुराणे —- भाद्रशुक्लद्वितीयायां लेपनाख्यवनं ययौ ।
प्रा० मन्त्रः —- गोकिकागोमयोत्साहलिप्तभूमिवनाय ते ।
कृष्णपूर्णसुखाल्हाद लेपनाख्याय ते नमः ॥
इत्येकविंशदावृत्या मन्त्रमुक्त्वा नमश्चरेत् ।
रमणीकगृहाद्यैस्तु समस्तसुखमाप्नुयात् ॥३०॥
वैवाहपुत्रकोत्साहे वस्तुं नीत्वा पथिं व्रजन् ।
कोपि विक्रयवाक्येन तं ब्रवीद्वचनं भ्रमात् ॥
षड्मासाभ्यन्तरे तस्य फलमाप्नोति तादृशं ।
शवस्य दहनार्थाय काष्ट नीत्वा पथिं व्रजन् ॥
पथिको पृच्छते वाक्यं सहसा विक्रयाय च ।
षड्मासाभ्यन्तरे स मृत्युमाप्नोति न संशयः ॥
इन्धनादिं समादाय प्राणौ सङ्ख्याविधायकं ।
पञ्चासप्तातरे चैव विनापात्रादिभियुतः ॥
तस्यैव भवतैर्नूनं मृत्युसंस्कारजं फलं ।
तस्मात्परित्यजेद्यत्नाद्धस्तेन्धनपरिग्रहं ॥
दीपसंस्कारजावह्निः शवाग्निरिव जायते ।
मृत्सूतकाऽन्तरेस्नायात्पुनर्मृत्सूनकं लभेत् ॥
विनामृद्गोमयालिप्ताह्यशुभाशुभवर्धिनी ॥ इति गोमयलिप्तभूमिदृष्टान्तः ॥३१॥
ततो नरहरिकुण्डस्नानाचमनप्रार्थनमन्त्रः —
गोपिकाभयक्रूपकृष्णस्नपनसम्भव ।
तीर्थाराज नमस्तुभ्यं सर्व-वाधा प्रशान्तये ॥
इतिमन्त्रं समुच्चार्य द्वाविंशैर्मज्जनाचमैः ।
प्रणतिं कुरुते धीमान् सर्व-वाधाद्विमुच्यते ॥
सार्धक्रोशप्रमाणेन प्रदक्षिणमथाचरेत् ॥ इति ॥३२॥
अथ वन-यात्राप्रसङ्गे परस्परवनप्रदक्षिणा ।
वाराहे —- भाद्रकृष्णचतुर्दश्यां परस्परवनं गतः ।
प्रा०मन्त्रः —- परस्परोद्भवप्रीति राधाकृष्णविहारिणे ।
परस्परवनायैव नमस्तुभ्यं प्रसीद मे ॥
इति मन्त्रं समुच्चार्य नवभिः प्रणतिञ्चरेत् ।
युगले बहुधाप्रीतिश्चिरायुर्वरदायिनी ॥
अत्रैवपूजनं कुर्याध्युगलस्य विधानतः ।
यथेष्टफलमाप्नोति प्रतिमापूजनाद्धरेः ॥३३॥
अष्टप्रकारमूर्त्तीनां बलदेवप्रभृतिनां ।
बालपौगण्डकौमारं युगलैकस्वरूपिणां ॥
तेषां पूजाफलं व्रूहि तादृशं देवकीसुत ।
पूजनप्रकारं भिन्नभिन्नत्वेन कृष्णार्चनचन्द्रिकायां ॥
व्रजभक्तिविलासाख्ये ग्रन्थपूजाफलं लिखेत् ।
अरिष्टदर्शनं शान्तिबृहद्व्रजगुणोत्सवे ॥ ।
आगमागममुत्पातमष्टादशपरिच्छेदे ।
कलिकालप्रमाणेन ह्युत्पातं लिखितं मया ॥
सप्तग्रन्थान्तरे सोऽयं व्रजभक्तिविलासकः ।
इष्टो कृष्णाङ्गसञ्ज्ञस्तु नित्यपूजाविधायकः ॥
रङ्गनाथकुलोद्भूताः प्रयत्नेन च गोपयेत् ।
न दातव्यं न दातव्यं न दातव्यं कदाचन ॥
लिखित्वा न्यस्यते कञ्ठे बाहौ वा विनिंवधयेत् ।
व्रजमण्डलभूगोलं यन्त्रं विष्णुकलेवरं ॥
अष्टसिद्धिमवाप्नोति ज्येष्ठो भास्करसम्भवः ॥३४॥ इति श्रीभट्टोक्तिः ॥
अथ स्वरूपाणां पूजनफलमाह ।
विष्णुयामले —
गोकुलचन्द्रमादीना बालसञ्ज्ञाभिधायिनां ।
परिचर्याकृते यस्तु विंशप्राकारकं सुखं ॥
प्रतापैश्वर्यधर्मश्च विजयं धर्मकर्मणः ।
अर्थकर्मसुखं मोक्ष धनधान्यकलत्रता ॥
उत्सवोत्साहवैहारलक्ष्मीकेलिरतिः शुभं ।
रमण मङ्गलं ह्येतानेकविंशान् लभेत्सदा ॥
बालमूर्त्तौ च पाषाणे ह्यथवा धातुसञ्ज्ञके ।
कृष्णक्रीडामये मूर्त्तौ मुकुन्दादिप्रभृतिनि ॥
लाडिलेयं समभ्यर्त्त्य फलमेतदवाप्नुयात् ।
श्रीगोवर्धननाथादिसञ्ज्ञाकौमारकेषु च ॥
पाषाणरूपश्रीकृष्णहरिदेवादिषु क्रमात् ।
परिचर्याकृते यस्तु द्विवेदाप्त ४२ सुखं लभेत् ॥
भोगामाङ्गल्यदातृत्वं सुखसिद्धिविहारकं ।
तपः सिद्धिश्च भान्डारसम्पत्तिः कोशराज्यकं ॥
कलानिधित्वं सौभाग्यवस्त्राभूषणवैमलं ।
सुखसद्मसुखारामगोधनं श्रेयःधान्यकं ॥
मोक्षार्थधर्मकर्मायुरैश्वर्यं विक्रमं धनं ।
लक्ष्मीप्रतापवैहाररतिकेलिकलत्रता ॥
उत्साहोत्सवकामांश्च लोकेषु विजयं लभेत् ।
मूर्त्तौ एकाकिनिसंस्थे फलमेतत्प्रकीर्त्तितं ॥
इति कौमारसञ्ज्ञानां पूजाफलमुदाहृतं ।
बलदेवादिपौगण्डधातुपाषाणरूपिणां ॥
सदा युगलसंस्थानां रेवत्यादिप्रभृत्तिनां ।
मूर्त्तिनां रामकृष्णाणां पूजायां फलमीरितं ॥
पञ्चषष्ठिसुखान् लब्ध्वा लोकपूज्यो भवेन्नरः ।
भोगैश्वर्यप्रतापश्च विजयार्थकलासुखं ॥
दातृत्वधर्मकर्माणि मोक्षसिद्धिश्चविक्रप्रं ।
तपःसिद्धिर्धनधान्यं राज्यं भाण्डारकोषकं ॥
गोधनं श्रेयःसौभाग्यं वस्त्राभरणसद्म च ।
पद्मारामकलत्रं च रतिकेलिश्च मङ्गलं ॥
उत्साहोत्सववैहाररमणं निर्मयं सुखं ।
वापीकूपतडागानामधिपो धर्मशीलवान् ॥
कीर्त्तिवान् यशसंयुक्तो देशग्रामाधिपो भवेत् ।
सुबुद्धिज्ञानसम्पन्नेः गुणज्ञो सत्यवाक् सदा ॥
प्रशंसया समायुक्तो विष्णुलोकमवाप्नुयात् ।
प्रभुशक्तिसमायुक्तो रमणीवश्यकारकः ॥
राज्यवश्यकृतः पूज्यो लोकानां वश्यकारकः ।
एतत्फलमवाप्नोति युगले पूजिते यदि ॥
अयशारिष्टदुर्बुद्धिरोगशोकदरिद्रता ।
क्लेशोपद्रवशङ्का च आग्राजयममङ्गलं ॥
असिद्धयज्ञानदुःखं च द्रव्यवस्त्रापहारकः ।
एतद्दोषकृतात्पापान्मुच्यते नात्र संशयः ॥
वालसेवादिके कार्ये भ्रूणहत्याद्विमुच्यते ।
गर्भाहत्यानीव हत्या पशुहत्या दरिद्रता ॥
ऋणं स्वानादिहत्या च ब्रह्महत्याद्विमुच्यते ।
वालसेवादिके कार्ये एते दोषा व्यपोहति ॥
ब्रह्मलोकमवाप्नोति वालसेवारतां सुधीः ।
कौमारसञ्ज्ञके सेवाकृते मुक्तिमवाप्नुयात् ॥
अज्ञातपातकाद्दोषाद्गम्यागम्यापराधतः ।
निर्द्दोषावदन्डाच्च भक्ष्याभक्ष्यापराधत ॥
इति धातुमये मूर्त्तैर् पाषाणे ह्यथवास्थिते ।
बालकौमारपौगण्डे फलमेतत्प्रकीर्त्तितं ॥
इति शैले धातुमये त्रिविधस्वरूपपूजनफलं ॥
अथ दारुमयीमूर्त्तौ भानुनन्दांविकाहरौ ।
पूजिते द्वादशान् कामान् तादृशं फलमाप्नुयात् ॥
भोगैश्वर्यप्रतापश्च मुक्तिमाङ्गल्यश्रेयसं ।
विक्रमं धनधान्यं च कमलोत्सवराज्यकं ॥
एतद्द्वादशसङ्ख्याकं फलमाप्नोति पूजकः ।
भ्रूणहत्यादिकं पापं मुच्यते नात्र संशयः ॥
इतिदारुमयस्वरूपपारिचर्याफलं ॥
अथारिष्टविनाशाय मूर्ति लोहमयीं यजेत् ॥
स्कान्दे —- अमङ्गलमकल्याणं पराजयभयं रुजः ।
असिद्धयज्ञानविद्वेषक्लेशोपद्रवनाशनं ॥
कुदशोद्भवनाशाय व्याधिवाधाप्रशान्तये ।
सर्वकामानवाप्नोति लोहमूर्त्तैर् प्रपूजके ॥
इति लोहमूर्तिपूजनफलं ॥
अथ लिप्तमयीं मूर्त्ति यजेत्कामार्थसिद्धये ॥
पाद्मे —- गोप्यकामधनं धान्यं यशः कीर्त्तिं च निर्भयं ।
दातृत्वसुखसम्पत्तिः श्रेयसौभाग्यमीप्सितं ॥
वस्त्राभरणलाक्ष्मी च परिपूर्णसुखं लभेत् ।
इति लिप्तमये मूत्तैर् पूजिते फलमाप्नुयात् ॥
इति लिप्तमयीपूजनफलं ॥
अथ चित्रमयीं मूर्त्तिं लिखित्वा पूजयेन्नरः ॥
ब्राह्मे —- सुबुधिमङ्गलं भद्रं वस्त्रालङ्कारमुत्सवं ।
सुखसम्पत्तिधान्यानि लक्ष्मीसौभाग्यराज्यकं ॥
क्रीडाविमलकेलिश्च तपः सिद्धिरतिः कलाः ।
एतच्चित्रस्वरूपे च पूजने फलामाप्नुयात् ॥
इति चित्रस्वरूपपूजनफलं ॥
अथ सैकतीप्रतिमार्चनफलं ।
ब्रह्माण्डे —-
मृन्मयीप्रतिमार्चायां फलं ब्रूहि विधानतः ।
धनधान्यसमृद्धिश्च लक्ष्यैश्वर्यङ्कलत्रता ॥
सुखं प्रतापसौभाग्यं श्रेयमङ्गलवाञ्छितं ।
जगन्मोहनवश्यत्वं नानाभोगजयं यशः ॥
एतत्फलमवाप्नोति मृन्मयीप्रतिमार्चने ।
व्याधिदुःखभयद्वेषकल्मषान्मुच्यते नरः ॥
रुद्रलोकमवाप्नोति तपसां सिद्धिदायकः ॥ इति सैकतीप्रतिमार्चनफलं ॥
अथ मनोमयीप्रतिमार्चनफलं ।
रामार्चनचन्द्रिकयां —
मनसोद्भवजाम्मूर्त्तिपूजने फलमीरितं ।
भोगैश्वर्यधनं धान्यं सुख सौभाग्यमेव च ॥
यशः कीर्तिर्प्रतापश्च विजयं धर्ममोक्षकं ।
राज्यवश्यं जगद्वश्यं सर्वदा लाङ्कपूजितः ॥
मनोमये स्वरूपेऽच्य फलमेतदवाप्नुयात् ।
ब्रह्महत्यादिपापात्तु मुच्यते नात्र संशयः ।
विष्णुलोकमवाप्नोति त्रैलोक्यविजयी नरः ॥ इति मनोमयीप्रतिमार्चनफलं ॥
अथ मणिमयस्वरूपार्चनफलं ।
आदिपुरणे —
मणिमयप्रतिमायां फलमेतदुदाहृतं ।
कलत्रमुखसम्पत्तिः सल्लक्ष्मीधनधान्यकं ॥
भोगैश्वर्ययशो कीर्तिर्मङ्गलं श्रेयराज्यकं ।
सौभाग्यरतिकेलिश्च गोधनं विक्रमं शुभं ॥
तपःसिद्धिश्च मोक्षश्च धर्मकामार्थसम्पदः ।
नैरोग्यविजयं लाभं सभायां विजयं लभेत् ॥
मणिकाञ्चनरत्नाद्यै गृहहर्म्यादिकं लभेत् ।
भ्रूणहत्यादिकात्पापात् मुच्यते नात्र संशयः ॥
विष्णुलोकमवाप्नोति विष्णुसायुज्यतां गतं ।
परमायुः प्रमाणेन चिरजीवी भवेन्नरः ॥
नवप्रकारमुर्तीनामर्चने कार्त्तित फलं ॥ इति नवप्रकारस्वरूपार्चनफलं ॥३५॥
ततो परस्परवने कलाककेलिविवाहस्थलप्रार्थनमन्त्रः ।
ब्रह्मयामले —-
चन्द्रावलिकृतोत्साह ग्रन्थिवन्धनरूपिणे ।
कलाकेलिविवाहाढ्यस्थलाय च नमोऽस्तु ते ॥
इति मन्त्रं षडावृत्त्या नमस्कारं समाचरेत् ।
सर्वदा मङ्गलोत्साहैः परिपूर्णासुखं लभेत्॥३६॥
ततो सुमनाकुण्डस्नानाचमनप्रार्थनमन्त्रः —
सुमनास्नपनोद्भूत तीर्थराज नमोऽस्तु ते ।
देवर्षिमुनिगन्धर्वावैमलोत्सवदायिने ॥
इति षोडशभिर्मन्त्रं मज्जनाचमनैर्नमन् ।
सदानन्दसुखैः पूर्णो लोकपूज्यसुखं लभेत् ॥३७॥
ततो रासमण्डलप्रार्थनमन्त्रः —
नमो रासस्थलायैव सर्वानन्दप्रदायक ।
सुमनाकृष्णरूपाय नमो रासविहारिणे ॥३९॥
सकलव्रजपुरदीन् तीर्थ देवश्च ग्राम कथित व्रजविलासे गोकुलं रम्य धाम ॥
सुरगणमुनिपूज्यं धाम गोलोक नाम ।
परमरसिकभक्त्या निर्मितं नारदेन ॥३९॥
इति श्रीमद्भास्करात्मज श्रीनारायणभट्टगोस्वामिविरचिते व्रजभक्तिविलासे परमहंससंहितोदाहरणे
व्रजमाहात्म्यनिरूपणे द्वादशोऽध्यायः ॥
—ओ)०(ओ—
(१३)
॥ त्रयोदशो ऽध्यायः ॥
अथ व्रजयात्राप्रसङ्गे रुद्रवीर्यस्खलनवन प्रार्थनमन्त्रः ।
आदिपुराणे —
वैशाखस्यासिते पक्षे दशम्यां व्रजयात्रया ।
रुद्रवीर्यस्खलनाख्य वनमायाययौ सुधीः ॥
प्रा०म० — रुद्रवीर्यपतद्रम्य वनाख्याय नमो नमः ।
देवर्षिमुनिगन्धर्वलोकानां वरदायिने ॥
इति मन्त्रं दशावृत्या नमस्कारं समाचरेत् ।
पुत्रवान् धनवान् लोके लक्ष्मीवान् जायते नरः ॥१॥
ततो मोहनीकुण्डस्नानाचमनप्रार्थनमन्त्रः —
माहनीधृतरूपाढ्य कृष्णस्नपनसम्भवे ।
मोहनीकुण्डतीर्थाय जागन्मोहनरूपिणे ॥
इति मन्त्रं नवावृत्या मज्जनाचमनैर्नमन् ।
लोकानां वश्यकृल्लोको जायते नात्र संशयः ॥२॥
ततो रुद्रकूपस्नानाचमनप्रार्थनमन्त्रः —
रुद्रशान्तस्वरूपाय रुद्रकूपाय ते नमः ।
देवगन्धर्वलोकार्त्तिहर उमापते नमः ॥
इत्यष्टभिर्जपन्मन्त्रं मज्जनाचमनऐर्नमन् ।
रुद्रलोकमवाप्नोति तपोनिधिरिवाभवत् ॥३॥
ततो श्रमितमहादेवप्रार्थनमन्त्रः —
भूम्यर्धशयलिङ्गाय महादेवाय ते नमः ।
मोहनीदर्शनार्थाय परिश्रमितमूर्त्तये ॥
इति त्रयोदशावृत्या नमस्कारं समाचरेत् ।
विष्णुसायुज्यमाप्नोति जगन्मोहनशीलवान् ॥
क्रोशद्वयप्रमाणेन प्रदक्षिणमथाकरोत् ॥ इति व्रजयात्राप्रसङ्गे रुद्रवीर्यस्कलनवनप्रदक्षिणा ॥४॥
अथ व्रजयात्राप्रसङ्गे मोहनीवनप्रदक्षिणा ।
सन्मोहनतन्त्रे —
एकादश्यां च वैशाखे कृष्णेपक्षे व्रतोत्सवे ।
मोहनीवनमायातो प्रार्थयेद्विधिपूर्वकं ॥
प्रा०म० —- मोहनीवेशधृक्विष्णूद्भवनैर्मित्तिहेतवे ।
त्रैलोक्यमोहरूपाय नमस्ते मोहनीवन ॥
इति षोडशभिर्मन्त्रं नमस्कारं समाचरेत् ।
जगन्मोहनतां लब्ध्वा सर्वकामानवाप्नुयात् ॥५॥
ततः कमलासरःस्नानाचमनप्रार्थनमन्त्रः —
कमलास्नपनतीर्थ पद्माकर सुशोभने ।
नमस्ते सरसे तुभ्यं लक्ष्मीबुद्धयुत्सवाय च ॥
इत्यष्टभिर्जपन्मन्त्रं मज्जनाचमनैर्नमन् ।
लक्ष्मीवान् जायते लोको धनधान्यादिभिर्यु तः ॥६॥
ततो मोहनीस्वरूपभगवद्दर्शनप्रार्थनमन्त्रः —
मोहनीपरमाल्हाद दैत्यप्राणविनाशिने ।
नमस्ते विष्णवे तुभ्यं मनसेष्टप्रदायिने ॥
इत्येकादशभिर्मन्त्रं नमस्कारं समाचरेत् ।
जगन्मोहनतां लभ्य परिपूर्णसुखं लभेत् ॥
सार्ध क्रोशप्रमाणेन प्रदक्षिणमथाचरेत् ॥७॥
अथ व्रजयात्राप्रसङ्गे विजयवनप्रदक्षिणा ।
भविष्योत्तरे —
वैशाखशुक्लपक्षे तु चतुर्थ्यां व्रजयात्रया ।
विजयाख्यवनं प्राप्य प्रार्थयेद्विधीपूर्वकं ॥
प्रा०म० — पराजयजरासन्ध कृष्णाय विजयार्थिने ।
त्रैलोक्यजयदायैव सदा तुभ्यं नमाम्यहं ॥
इति मन्त्रं दशावृत्या नमस्कारं समाचरेत् ।
सर्वदा विजयं तस्य जायते नात्र संशय ॥८॥
ततः मायाकुण्डस्नानाचमनप्रार्थनमन्त्रः —
मायामोहनरूपाय विष्णुचेष्टाविधायिने ।
नमस्ते तीर्थराजाय मायाकुण्डाभिधानक ॥
इत्यष्टभिः पठन्मन्त्रं मज्जनाचमनैर्नमन् ।
लक्षीवान् पुत्रवान् लोको कलावान् जायते भुवि ॥
एकक्रोशप्रमाणेन प्रदक्षिणमथाचरेत् ॥९॥
अथ वन-यात्राप्रसङ्गे निम्ववनप्रदक्षिणा ।
पाद्मे —- भाद्रकृष्णचतुर्द्दश्यां नाम निम्ववनं गत ॥
प्रा०म० —- गोपिकारमणोल्लास सौरभ्यसुखदायिने ।
कृष्णावैमल्यसञ्ज्ञाय निम्वनाम्ने नमोऽस्तु ते ॥
इति द्वादशभिर्मन्त्रं नमस्कारं समाचरेत् ।
सर्वदा रमणोत्साहवैमल्यसुखमाप्नुयात् ॥१०॥
ततो गोपिकाकूपस्नानाचमनप्रार्थनमन्त्रः —-
प्रपूर्णदुग्धतीर्थाय गोपिकातृङ प्र्शान्तये ।
नमस्ते गोपिकाकूप देवर्षिमुनिमुक्तये ॥
इति मन्त्रं षडावृत्या मज्जनाचमनैर्नमन् ।
सर्व-वाधाविनिर्मुक्तो परमायु स जीवति ॥११॥
ततो धेनुकुण्डस्नानाचमनप्रार्थनमन्त्रः —-
गोक्रीडाविमलोत्साह कृष्णैख्यप्रदायिने ।
नमस्ते धेनुकुण्डाय वारिशैतल्यरूपिणे ॥
इति सप्तदशावृत्या मज्जनाचमनैर्नमन् ।
सहस्रसङ्ख्यकानां च गवामधिपतिर्भवेत् ॥
सपादक्रोशमात्रेण प्रदक्षिणमथाकरोत् ॥१२॥
अथ व्रजयात्राप्रसङ्गे गोपानवनप्रदक्षिणा ।
ब्रह्माण्डे — अमायां ज्येष्ठकृष्णे तु गोपानवनमागतः ।
प्रा० म० —- गोपानवनश्रेस्ठाय कृष्णाह्लादविधायिने ।
गोपालरमणक्रीडासुखधाम्ने नमो नमः ॥
इतिमन्त्रं समुच्चार्य शक्रवृत्या नमश्चरेत् ।
गोधनं परिपूर्णेन सर्वदा सुखमासते ॥१३॥
ततो यमुनायां गोपानतीर्थस्नानाचनप्रार्थनमन्त्रः —-
आओं गोगोपालतृषाशान्त रम्यवारिकल्लोलिने ।
नमस्ते तीर्थराजाय यमुनावरदायिने ॥
इति मन्त्रं दशावृत्या मजनाचमनैर्नमन् ।
पुत्रपौत्रकलत्राद्यैः समस्तसुखमाप्नुयात् ॥
सार्धक्रोशद्वयेनैव प्रदक्षिणमथाचरेत् ॥१४॥
अथाग्रवनप्रदक्षिणा ।
वामनपुराणे —- भाद्रकृष्णचतुर्द्दश्यामग्रनामवनं गतः ।
प्रा०म० — गोपालविमलोल्लास कृष्णायाग्रसराय ते ।
अग्रनाम्ने वनायैव नमस्ते रम्यभूमये ॥
इति मन्त्रं दशावृत्या नमस्कारं समाचरेत् ।
सङ्ग्रामविजयी लोको जनानामधिपो भवेत् ॥१५॥
ततो नारदकुण्डस्नानाचमनप्रार्थनमन्त्रः —-
नारदस्नपनोद्भूत ।
तीर्थराज नमोऽस्तु ते ।
कुण्डनारदसञ्ज्ञाय गोपालेक्षणकङ्क्षिणे ॥
इति द्वादशभिर्मन्त्रं मज्जनाचमनैर्नमन् ।
परमोक्षमवाप्नोति सकलेष्टसुखर्युतः ॥
क्रोशद्वयप्रमाणेन प्रदक्षिणगथाकरोत् ॥१६॥
अथ कामरूवनप्रदक्षिणा ।
कौर्म्ये —- सप्तम्यां भाद्रशुक्ले तु कामरूवनमागत ॥
प्रा० म० —- गन्धर्वाप्सरसाल्हाद देवर्षिसुखवर्धिने ।
कामरूसुखधाम्ने च नमस्ते रम्यभूमये ॥
इति मन्त्रं समुचार्य सप्तभिः प्रणातिञ्चरेत् ।
सकलेष्ठवरं लब्ध्वा विष्णुसायुज्यमाप्नुयात् ॥१७॥
ततो विश्वेश्वरकुण्डस्नानप्रार्थनमन्त्रः —-
विश्वेश्वरहरिस्नान तीर्थसञ्ज्ञाय ते नमः ।
त्रैलोक्यवरदायैवाखण्डसौख्यप्रदायिने ॥
इत्येकादशभिर्मन्त्रमज्जनाचमनैर्नमन् ।
त्रैलोक्यसुखमालभ्य अन्ते विष्णुपदं लभेत् ॥
क्रोशत्रयप्रमाणेन प्रदक्षिणामथाचरेत् ॥१८ ॥
इत्येवं व्रजमण्डलं शुभवरं सन्दायिनी शोभना नानारण्यप्रदक्षिणासुखप्रदा कामार्थन्दामोदिनी ।
द्वारषोडशनिर्मिताखिलसुखाल्हादा मनोर्थाभिधा ख्याता मुक्तिप्रदायिनी हरिरतिक्रीडोत्सवा वल्लभा ॥
श्रीमन्नारदानिर्मिता व्रजवन्सौख्या रमावल्लभा श्रीनारायणभट्टनिर्मितगुणा यात्रा समस्ताभिधा ।
सङ्ख्याविश्व १३ सहस्रका गुणनिधियथेष्टपूर्णार्थिनी पत्रं षट्नवशच्चा (१९६) पूज्यमनघं श्रीरङ्गनाथोद्भवं ॥१९॥
इदं गोप्यं महाग्रन्थ व्रजभक्तिविलासकं ।
त्रैलोक्यसुखदं श्रेस्ठं श्रीकृष्णस्य कलेवरं ॥
अतिगुह्यप्रकारेण नित्यमेव प्रपूजयेत् ।
रङ्गनाथकुलोभूताः व्रजमन्दलवासिनः ॥
विधिपूर्वविधानेन षोडशावृत्त्यनुक्रमात् ।
सर्वदा सुख्सम्पद्भिर्लोकपूज्याः भवन्ति हि ॥
इदं तु पुस्तकं न्यस्य गुह्य्स्थाने मनोरमे ।
पीयपट्टमयेनैव वाससाच्चाद्य पूजयेत् ॥२०॥
तत्रादौ ग्रन्थपूजनं नित्यमेव षोडशोपचारमन्त्रानुक्रमः —-
षोडसाङ्गहरेर्मन्त्रैर्व्रजयन्त्रं प्रपूजयेत् ।
उदड् मुखोपविश्याथ सञ्केताभिमुखस्तथा ॥
विहारास्वरूपश्रीकृष्णध्यानं —-
गोगोपालमहोत्सवादिसकलैरावेष्टितं सुन्दरं रासक्रीडनतत्परं हरिहरब्रह्माधिभिः सन्स्तुतं ।
वन्दे केशवनन्दसूनुमनघं विश्वेश्वरं मोहनं गोपीनां नयनोत्पलांआर्चीतनुं रामानुजं केलिनं ॥
इत्येकपादस्थो भूत्वा ध्यायेत् ।
“आओं श्रीराधावल्लभाय नमः” इति मन्त्रेणार्घ्यं दद्यात् ।
आओं ह्रौं विहारिणे नमः इति मन्त्रं
चतुर्भिःपठन् द्वौ पार्श्वौ पाद्यं दद्याता ।
आओं ह्रौं मदनगोपालाय नमः इति मन्त्रमुच्चार्य पुष्पाञ्जलिना पुष्पं
दद्यात् ।
आओं ह्लां केशवाय नमः इति मन्त्रं पञ्चभिरुच्चरन् सङ्घटास्वनेन शङ्खोदके स्नपनं कुर्यात् ।
आओं ह्रैं
व्रजोत्सवाय नमः इति मन्त्रं दशधा पठन् चन्दनेनार्चयेत् ।
आओं ह्र कृष्णाय नमः इति मन्त्रं पठन् शतधा
प्रदक्षिणेनैकेनैकपृथक् तुलसीपत्रं समर्पयेत् ।
आओं क्लीं रामानुजाय नमः इति मन्त्रं शतधा पठन् धूप दद्यात् ।
आओं व्रीं यशोदानन्दनाय नमः इति मन्त्रं चतुर्भिरुच्चरन् द्वयोः पार्श्वयोरुभौ दीपौ निधारयेत् ।
आओं ज्रीं
पुण्डरीकाक्षाय नम इति मन्त्रमुचरन् नैवेद्यं समर्पयेत् ।
आओं ग्लीं पद्मनाभाय नमः इति मन्त्रं पठन् ताम्बूलं
समर्पयेत् ।
आओं ग्लां वासुदेवाय नमः इति मन्त्रं नवभिः पठन् आचमनं दद्यात् ।
आओं ग्लैं किरीटिने नमः
इति मन्त्रं शतधा पठन् नमस्कारं कुर्यात् ।
आओं ग्लैं व्रजकिशोराय नमः इति मन्त्रमेकविंशत्या पठन्नेकवत्तिसं
युक्कारार्त्तिकं कुर्यात् ।
आओं क्लैं दामोदराय नमः इति मन्त्रेण विंशसङ्ख्याकाखण्डपीताक्षतान्नीत्वा पुस्तकयन्त्रं
निवेद्य समर्पायेत् ।
। नारायण रमाकान्त त्रैलोक्याधिपते नमः ।
ऐश्वर्यविजयं देहि धनधान्यं प्रदेहि मे ॥
इति मन्त्रं शतावृत्त्या हृदये ह्युचरन् पृथक् ।
पीताक्षतं च प्रत्येकं नीत्वा शिरसि धारयेत् ॥
नमस्कृत्वा विधानेन सकलेष्टवरं लभेत् ।
रङ्गनाथकुलोद्भूतो जयश्रीं लभते सदा ॥
धनधान्यसमृद्धिं च श्रेयमाङ्गलमुत्सवं ।
प्राप्नोति मनसेच्छाभिः रङ्गनाथकुलोद्भवः ॥२ १॥
अनेनैव विधानेन पूजयपि दिने दिने ।
पद्मा सदा वसेद्गेहे परमायुः स जीवति ॥
अनेनैव प्रकारेण सञ्केटवटमर्चयेन् कृष्णाक्रीडास्थलं रम्यं व्रजद्वारं सुखप्रदं ॥
सर्वसौभाग्यसम्पत्तिं लभते नात्र संशय ।
व्रजमण्डलभूगोलं व्रजभक्तिविलासकं ॥
यन्त्रं प्रपूजयन्ति स्म व्रजपूजाफलं लभेत् ।
इति पुस्तकूजायः विधानं कथितं शुभं ॥
रङ्गनाथकुलोद्भूते सर्वदा वरदायकं ।
इदं गुह्यप्रकारेण पञ्चमं गोप्यग्रन्थकं ॥
रक्षयेच्च प्रयत्नेन लक्ष्मीवान् जायते सदा ॥ इति पुस्तकपूजाविधानमाहात्म्यं ॥२२॥
इतीरितं भास्करनन्दनेन हरेरनुज्ञोद्भवनारदेन ।
पूर्णं चकारात्र मनोरमं शुभं सुगोप्यग्रन्थं व्रजभक्तिविलासं ॥
श्रीकुण्डमास्थाय मनोहरस्थलं नवोत्तरं षोडशशच्च वत्सरे ।
महात्म्यपूर्वं च परिक्रमं शुभं ग्रन्थं प्रपूर्णो व्रजभक्तिनाम ॥२३॥
इति श्रीमद्भास्करात्मज श्रीनारदावतार श्रीनारायणभट्टगोस्वामिविरचिते व्राजभक्तिविलासे
परमहंससंहितोदाहरणे व्रजमाहात्म्यनिरूपणे वन-यात्राव्रजयात्राप्रसङ्गिके
त्रयोदशोऽध्याय ॥ (१३) ग्रन्थ सम्पूर्णं ॥