१६

अथ शृङ्गार-भेदः । स एव विप्रलम्भः सम्भोगश् चेति द्विविधः । तत्र विप्रलम्भश् चतुर्-विधः—पूर्व-रागः मानः प्रेम-वैचित्त्यं प्रवासश् च । अङ्ग-सङ्गात् पूर्वं या उत्कण्ठामयी रतिः स पूर्व-रागः । तत्र दशा दश ।

लालसोद्वेग-जागर्या तानवं जडिमात्र तु ।
वैयाग्र्यं व्याधिर् उन्मादो मोहो मृत्युर् दशा दश ॥

मानो द्वि-विधः । स-हेतुर् निर्हेतुश् च । तत्र निर्हेतुकः स्वयम् एव शम्यति । स-हेतुकस्य मानस्य शान्तिः साम-भेद-क्रिया-दान-नत्य्-उपेक्षा-रसन्तरैः (उ।नी। १५.११२) । प्रिय-वाक्यं साम । निजैश्वर्यं श्रावयित्वा तस्या अयोग्यत्व-ज्ञपनं भेदः । वयस्यादि-द्वारा भय-प्रदर्शनं च क्रिया । वस्त्र-माल्यादीनां प्रदानं दानम्नतिर् नमस्कारः । उपेक्षा औदसीन्य-प्रकटनम् । रसान्तरं भय-कष्टादि-प्रदानादि-प्रस्तावः । मान-शन्ति-चिह्नानि अश्रु-स्मितादयः ।

अथ प्रेम-वैचित्त्यम् ।**** कृष्ण-निकटेऽपि अनुरागाधिक्यात् विरहो यत्र भवति तद् एव तत् ।
अथ प्रवासः । स द्विविधः किञ्चिद् दूर-निष्ठः सुदूर-निष्ठश् च । नित्यम् एव गोचरणाद्यानुरोधात् किञ्चिद् दूरे, मथुरां गते सति सुदूरे । तत्र च दश-दशा अति-प्रबला भवन्ति ।
अथ सम्भोगः । स च चतुर्-विधः । पूर्व-रागान्ते चाधर-नख-क्षतादीनाम् अल्पत्वे सङ्क्षिप्तो, मानान्ते असूया-मात्सर्यादि-रोषाभास-मिश्रितः सङ्कीर्णः, किञ्चिद्-दूर-प्रवासान्ते सम्पूर्णः स्पष्टः, सुदूर-प्रवासान्ते समृद्धिमान् अतिस्पष्टः ।
अथ सम्भोग-प्रपञ्चः—दर्शन-स्पर्शन-कथन-वर्त्म-रोध-वन-विहार-जल-केलि-वंशी-चौर्य-नौका-खेला-दान-लील-लुक्कायन-लीला-मधु-पानादयः अनन्ता एव ॥१६॥

—ओ)०(ओ—
अनधीत-व्याकरणश् चरण-प्रवणो हरेर् जनो यः स्यत् ।
उज्ज्वल-नीलमणि-किरणस् तद्-आलोकाय भवतु ॥

इति महा-महोपाध्याय-श्री-विश्वनाथ-चक्रवर्ति-विरचितů
उज्ज्वल-नीलमणि-किरणः समाप्तů ॥

—ओ)०(ओ—