अथैषाम् आश्रय-निर्णयः । कुब्जायां साधारणी रतिः प्रेम-पर्यन्ता । पट्ट-महिषीषु समञ्जसा-रतिः अनुराग-पर्यन्ता । तत्र सत्यभामा राधिकानुसारिणी लक्ष्मणा च । रुक्मिणी तु चन्द्रावली-भावानुसारिणी । अन्याश् च व्रजस्थ-प्रिय-नर्म-सखानां च अनुराग-पर्यन्ता । व्रज-सुन्दरीणं तु समर्था रतिः महाभाव-पर्यन्ता, सुबलादीनां च । तत्रापि अधिरूढः राधिका-यूथ एव नान्यत्र । तत्रापि मोहनः श्री-राधायआ एव, ललिता-विशाखयोर् अपि । मदनस् तु राधायाम् एव ॥१५॥
—ओ)०(ओ—