अथ समर्था । प्रथम-दशायां रतिर् बीजवत्, प्रेम इक्षुवत्, स्नेहो रसवत्, ततो मानं गुडवत्, ततः प्रणयः खण्डवत्, ततो रागः शर्करवत्, ततोऽनुरागः सितावत्, ततो महाभावः सितोपलवत् ।
अथ प्रेम । तत्र पूर्व-संस्कारतो वा श्रवण-दर्शनादिभ्यो वा कृष्णे प्रीत्या मनो-लग्नता रतिः । विघ्न-सम्भवेऽपि ह्रास-भावः प्रेम ।
चित्तस्य द्रवीभाव-निदानं स्नेहः । तत्र चन्द्रावल्य्-आदौ तदीयता-भावेन घृत-स्नेहश् च आदर-मयो भावान्तर-मिश्रित एव सुरसो यथा घृतम् । श्री-राधादौ मदीयता-भावेन मधु-स्नेह आदर-शून्यः स्वत एव सुरसो यथा मधु ।
अथ मानः । स्नेहाधिक्येन भद्राभद्र-हेतुना वा रोषेण व हेतुना विनैव वा कौटिल्यं मानः । चन्द्रावल्यादौ दक्षिण्योदात्तः क्वचिद् वाम्य-गन्धोदात्तः श्री-राधादौ तु ललितः ।
अथ प्रणयः ।**** मानो देहेन्द्रियैर् ऐक्य-भावना-मयो विश्रम्भः । प्रणयः सख्यं मैत्रं च ।
अथ रागः ।**** चन्द्रावल्यादौ नील-रागः स्व-लग्न-भावावरणः । तत्रैव श्याम-रागोऽपि प्रायो भद्रादौ चिर-साध्य-रूपः । श्री-राधादौ तु मञ्जिष्ठा-रागोऽनन्यापेक्षो भावावरण-शून्यः । तथैव श्यामलादौ कुसुम्भ-रागः सुख-साध्यत्वात् किञ्चिद् अन्यापेक्षः । पत्रस्यद् गुण्यत् स्थितिः ।
+
अथ अनुरागः ।**** श्री-कृष्णः सदानुभूयते अथच नव नवपूर्व इव बुद्धिर् यतो भवति सः अनुरागः । तत्र चप्रणिन्यपि जन्म-ललस प्रेम-वैचित्त्यं विच्छेदेऽपि स्फूर्तिर् इत्यादि क्रियः । अथ महाभावः ।**** स एव रूढ अधिरूढ इति द्विविधः । कृष्णस्य सुखेऽपि पीडशङ्कया खिन्नत्वं निमिषस्यपि असहिष्णुतादिकं यत्र स रूढो महाभावः । कोटि ब्रह्मण्ड-गतं समस्त सुखं यस्य सुखस्य लेशोऽपि न भवति समस्त वृश्चिक सर्पादि दंश-कृत दुःकम् अपि यस्य दुःकस्य लेशो न भवति एवम्भूते कृष्ण संयोग वियोगयोः सुख दुःके यतो भवतः सोऽधिरूढो महाभावः । अधिरूढस्यैव मोदनो मदन इति द्वौ रूपौ भवतः । यस्य उदये कृष्णस्य तत् प्रेयसीनं मह-क्षोभश् चमत्करो भवेत्, सूद्दीप्त सत्त्विक विकर दर्शनत् स मोदनः ।**** स तु राधिका यूथ एव भवति नन्यत्र । मोदनोऽयं प्रविश्लेषद शयं मोहनो भवेत् । यस्य उदये सति पट्टमहिषीगनलिङ्गितस्यपि श्री-कृष्णस्य मूर्च्छ भवति राधा विरह तपेन, ब्रह्मण्ड-क्षोभकरित्वं तिरश्चम् अपि रोदनं च । प्रयो वृन्दवनेश्वर्यं मोहनोऽयम् उदञ्चति । मोहनस्य एव वृत्ति-भेदो दिव्योमदः ।**** यत्र उद्घूर्ण चित्र-जल्पदयः प्रेममयोऽवस्थः सन्ति । यत्रानन्त भावोद्गमः वनमलयम् अपि ईर्ष पुलिन्देष्वपि श्लघ, तमल स्पर्शिन्या मलत्या भग्य वर्णनं च । एष एव मदनः सर्व श्रेष्ठः श्री-राधायम् एव नन्यत्र ॥१४॥
—ओ)०(ओ—