अथ स्थयि-भावः मधुरा रतिः । स च त्रिविधा—साधारणी, समञ्जसा समर्था इति । कुब्जायां साधारणी साधारण-मणिवत् । पट्ट-महिषीषु समञ्जसा चिन्तामणिवत् । व्रजदेवीषु समर्था कौस्तुभ-मणिवत् । सामान्य-भावेन स्व-सुख-तत्-पर्या रतिः साधारणी । कृष्णस्य निजस्य च सुख-तात्पर्य-रतिः पत्नी-भावमयी समञ्जसा । केवल-कृष्ण-सुख-तात्पर्य-रतिः पराङ्गना-मयी समर्था ॥१३॥
—ओ)०(ओ—