अथ अनुभावः । भावः हावः हेला शोभा कान्तिः दीप्तिर् माधुर्यं प्रगल्भता औदार्यं धैर्यं लीला विलासो विच्छितिर् विभ्रमः किलकिञ्चितं मोट्टायितं कुट्टमितं विव्वोकं ललितं विकृतम् इति विंशत्य्-अलङ्काराः । तत्र निर्विकारात्मके चित्ते भावः प्रथम-विक्रिया (उ।नी। ११.५) । तिर्यग्-ग्रीव-भ्रू-नेत्रादि-विकाश-सूच्यो हावः । कुच-स्फुरण-पुलकादि-नीवि-वास-स्खलनादि-सूच्या हेला । रूप-भोगाद्यैर् अङ्ग-विभूषणं शोभा । शोभैव यौवनोद्रेके कान्तिः । कान्तिर् एव देश-कालादि-विशिष्टा दीप्तिः । नृत्यादि-श्रम-जनित-गात्र-शैथिल्यं माधुर्यम् । सम्भोग-वैपरीत्यं प्रगल्भता । रोषेऽपि विनय-व्यञ्जनम् औदार्यम् । दुःक-सम्भावनायाम् अपि प्रेम्णि निष्ठा धैर्यम् । कान्त-चेष्टानुकरणं लीला । प्रिय-साङ्गे सति मुखादीनं तात्कालिक-प्रफुल्लता विलासः । अल्प-मात्राकल्प-धरणेऽपि शोभा विच्छित्तिः । अभिसारादाव् अतिसम्भ्रमेण हार-माल्यादि-स्थान-विपर्ययो विभ्रमः । श्री-राधा-कृष्णयोर् वर्त्म-रोधनादौ
गर्वाभिलाष-रुदित-स्मितासूया-भय-क्रुधाम् ।
सङ्करी-करणं हर्षाद् उच्यते किलकिञ्चितम् ॥ (उ।नी। ११.४५)
कान्त-वार्ता-श्रवने पूलकादिभिर् अभिलाषस्य प्राकट्यं मोट्टयितम् । अधर-खण्डन-स्तनाकर्षणादौ आनन्देऽपि व्यथा-प्रकटनं कुट्टमितं । वाञ्छितेऽपि वस्तुनि गर्वेणानदरो विव्वोकः । भ्रू-भङ्ग्या अङ्ग-भङ्ग्या च हस्तेन च भ्रमर विद्रवणादि-चेष्टितं ललितम् । लज्जादिभिर् यन् निज-कार्यं नोच्यते किन्तु चेष्टया व्यज्यते तद् विकृतम् । इति विंशत्य्-अलङ्काराः । ज्ञातस्याप्य् अज्ञवत् पृच्छा मौग्ध्यम् । प्रियस्याग्रे भ्रमरादिकं दृष्ट्वा भयं चकितम् । इति द्वयम् अधिकम् ॥८॥
—ओ)०(ओ—