अथ वयः । वयः-सन्धिः नव्य-यौवनं व्यक्त-यौवनं पूर्ण-यौवनं चेति । कलावत्य्-आदयो वयः-सन्धौ स्थिताः । धन्यादयो नव्य-यौवने स्थिताः । श्री-राधादयस् तु व्यक्त-यौवने स्थिताः । चन्द्रावल्य्-आदयः पूर्ण-यौवने स्थिताः । पद्मआद्याः पूर्ण-यौवने स्थिता इत्य् आलम्बन-विभावः ॥६॥
—ओ)०(ओ—