अथ सखी पञ्च-विधा । सखी, नित्य-सखी, प्राण-सखी, प्रिय-सखी, परम-प्रेष्ठ-सखी । आसां मध्ये काचित् सम-स्नेहा काचिद् असम-स्नेहा । या कृष्णे स्नेहाधिका सा सखी । वृन्दा कुन्दलता विद्या धनिष्ठा कुसुमिका तथा कामदा नामात्रेयी सखी-भाव-विशेष-भक् ॥
या राधिकायां स्नेहाधिका सा नित्य-सखी ।
नित्य-सख्यस् तु कस्तूरी मनोज्ञा मणि-मञ्जरी ।
सिन्दूरा चन्दनवती कौमुदी मदिरादयः ॥
तत्र मुख्या या साखी स्नेहाधिका सा प्राण-सखी उक्ता । जीवित-सख्यस् तु तुलसी केलिकन्दली कादम्बरी शशिमुखी चन्द्ररेखा प्रियंवदा मदोन्मदा मधुमती वसन्ती कलभषिणी रत्नावली मालती कर्पूर-लतिकादयः ।
एता वृन्दावनेश्वर्यां प्रायः सारूप्यम् आगताः ।
मालती चन्द्रलतिका गुणचूडा वराङ्गदा ।
माधवी चन्द्रिका प्रेम-मञ्जरी तनु-मध्यमा ।
कन्दर्पसुन्दरीत्याद्याः कोटि-सङ्ख्या मृगी-दृशः ॥ प्रिय-सख्यः ।
तत्र मुख्या या सा परम-प्रेष्ठ-सखी ।
ललिता च विशाखा च चित्रा चम्पकवल्लिका ।
रङ्गदेवी सुदेवी च तुङ्गविद्येन्दु-रेखिका ॥
यद्यप्य् एताः सम-स्नेहास् तथापि श्री-राधायां पक्षपातं कुर्वन्ति ॥५॥
—ओ)०(ओ—