०४

अथ दूती द्वि-विधा—स्वयं दूति अप्त-दूती च । तत्राप्त-दूती च त्रिविध, अमितार्था निसृष्टार्था पत्र-हारिणी च । वाक्यं विना इङ्गितेनैव या दौत्यं करोति सा अमितार्था । या आज्ञया सामस्तं कार्यं करोति भारं वहति च सा निसृष्टार्था । या पत्रेण कार्यं करोति साधयति च सा पत्र-हारिणी । तः शिल्प-करिणी दैवज्ञ लिङ्गिनी परिचारिका धात्रेयी वनदेवी सखी चेत्य् आदयः । व्रजे वीरा वृन्दा वंशी च कृष्णस्य दूती-त्रयम् । प्रगल्भ-वचना वीरा वृन्दा च प्रिय-वादिनी, सर्व-कार्य-साधिका वंशी ॥४॥