अथ स्वभावाः । काश्चित् प्रखराः श्यामला-मङ्गलादयः । काश्चिन् मध्याः श्री-राधिका-पाली-प्रभृतयः । काश्चिन् मृद्वीति ख्याताश् चन्द्रावल्य्-आदयः । अथ सपक्षाः सुहृत्-पक्षाः तटस्थ-पक्षा विपक्षा इति भेद-चतुष्टयं स्यात् । श्री-राधायाः स्व-पक्षाः ललिता-विशाखादिः सुहृत्-पक्षः श्यामला यूथेश्वरी तटस्थ-पक्षः भद्रा प्रतिपक्षश् चन्द्रावली । तत्र काश्चिद् वामाः काश्चिद् दक्षिणाः स्युः । श्रीमती राधिका वामा मध्या नील-वस्त्रा रक्त-वस्त्रा च ललिता प्रखरा शिखि-पिञ्छ-वसना । विशाखा वामा मध्या तारावली-वसना । इन्दुरेखा वामा प्रखरा अरुण-वस्त्रा । रङ्गदेवी-सुदेव्यौ वामे प्रखरे रक्त-वस्त्रे च । सर्वा एव गौर-वर्णाः । चम्पकलत वामा मध्या नील-वस्त्रा । चित्रा दक्षिणा मृद्वी नील-वसना । तुङ्गविद्या दक्षिणा प्रखरा शुक्ल-वस्त्रा च । श्यामला वाम्य-दाक्षिण्य-युक्ता प्रखरा रक्त-वस्त्रा । भद्रा दक्षिणा मृद्वी चित्र-वसना । चन्द्रावली दक्षिणा मृद्वी नील-वस्त्रा । अस्याः सखी पद्मा दक्षिणा प्रखरा । शैव्या दक्षिणा मृद्वी । सर्वा एव रक्त-वस्त्राः ॥३॥
—ओ)०(ओ—