०२

अथाश्रयालम्बना नायिकाः । प्रथमं स्वीया परकीया इति द्वि-विधाः । कात्यायनी-व्रत-पराणां कन्यानां मध्ये या गान्धर्वेण विवाहिताः ताः स्वीयाः । तद्-अन्या धन्यादयः कन्याः परकीया एव । श्री-राधाद्यास् तु प्रौढाः परकीया एव । कियन्त्यः गोकुले स्वीया अपि पित्रादि-शङ्कया परकीया एव । द्वारकायां रुक्मिण्याद्याः स्वीया एव ।
ततश् च मुग्धा मध्या प्रगल्भा इति त्रिविधाः । मध्या मान-समये धीर-मध्या अधीर-मध्या धीराधीर-मध्या इति त्रिविधाः । वाक्रोक्ति-पवित्र-भर्त्सना-कारिणी या सा धीर-मध्या । रोषतः कठोर-भर्त्सना-कारिणी या सा अधीर-मध्या । मिश्रित-वाक्या या सा धीराधीर-मध्या श्री-राधा । तत्र प्रगल्भापि धीर-प्रगल्भा अधीर-प्रगल्भा धीराधीर-प्रगल्भा चेति त्रिविधा । तत्र निज-रोष-गोपन-परा सुरते उदासीना या सा धीर-प्रगल्भा पालिका चन्द्रावली भद्रा च । निष्ठुरा तर्जनेन कर्णोत्पलेन पद्मेन या कृष्णं ताडयति सा अधीर-प्रगल्भा श्यामला । रोष-सङ्गोपनं कृत्वा किञ्चित् तर्जनं करोति या सा धीराधीर-प्रगल्भा मङ्गला । मुग्धातिरोषेण मौन-मात्र-परा एक-विधैव । एवं त्रिविधा मध्या प्रगल्भा त्रिविधा मुग्धा एक-विधा इति सप्तधा । स्वीया-परकीया-भेदेन चतुर्दश-विधा । कन्या च मुग्धैवैक-विधा इति पञ्च-दश-विधा नायिका भवन्तीति ।
अथ अष्ट-नायिकाः—अभिसारिका, वासक-सज्जा, विरहोत्कण्ठिता, विप्रलब्धा, खण्डिता, कलहान्तरिता, प्रोषित-भर्तृका, स्वाधीन-भर्तृका । अभिसारयति कृष्णं स्वयं वाभिसरति या सा अभिसरिका । कुञ्ज-मन्दिरे सुरत-शय्यासनं माल्य-तम्बूलादिकं मदनोत्सुका करोति या सा वासक-सज्जा । कृष्ण-विलम्बे सति तेन विरहेणोत्कण्ठ्यते या सा विरहोत्कण्ठिता । सङ्केतं कृत्वा यदि न यात्य् एव कृष्णस् तदा विप्रलब्धा । प्रातर् आगतम् अन्य-कान्ता-सम्भोग-चिह्न-युक्तं कृष्णं रोषेण पश्यति या सा खण्डिता । मानान्ते पश्चात्-तापं करोति या सा कलहान्तरिता । कृष्णस्य मथुरा-गमने सति या दुःकार्ता सा प्रोषित-भर्तृका । सुरतान्ते वेशाद्य्-अर्थं या कृष्णम् आज्ञापयति सा स्वाधीन-भर्तृका । एवं पञ्चदशानाम् अष्ट-गुणितत्वेन विंशत्य्-उत्तर-शतानि । पुनश् चोत्तमा-मध्यमा-कनिष्ठात्वेन षष्ट्य्-उत्तराणि त्रीणि शतानि ।
नायिका-भेदानां तासां व्रज-सुन्दरीणं मध्ये काश्चिन् नित्य-सिद्धाः श्री-राधा-चन्द्रावल्य्-आदयः । काश्चित् साधन-सिद्धाः । तत्र काश्चित् मुनि-पूर्वाः काश्चित् श्रुति-पूर्वाः काश्चिद् देव्य इति ज्ञेयाः ॥२॥

—ओ)०(ओ—