०१

अथोज्ज्वल-रसः । तत्र नायक-चूडामणिः श्री-कृष्णः । प्रथमं गोकुल-मथुरा-द्वारकासु क्रमेण पूर्णतमः पूर्णतरः पूर्ण इति त्रिविधः । धीरोदात्तः धीर-ललितः धीरोद्धतः धीर-शन्तः इति प्रत्येकं चतुर्-विधः । तत्र रघुनाथवत् गम्भीरो विनयी यथार्ह-सर्व-जन-सम्मान-करीत्य्-आदि-गुणवान् धीरोदात्तः । कन्दर्पवत् प्रेयसी-वशो निश्चिन्तो नव-तारुण्यो विदग्धो धीर-ललितः । भीमसेनवत् उद्धत आत्म-श्लाघ-रोष-कैतवादि-गुण-युक्तो धीरोद्धतः । युधिष्ठिरवत् धार्मिको जितेन्द्रियः शास्त्र-दर्शी धीर-शान्तः
पुनश् च पत्य्-उपपतित्वेन प्रत्येकं स द्वि-विधः । एवं पुनश् च अनुकूलो दक्षिणः शठो धृष्ट इति प्रत्येकं चतुर्-विधः । एकस्याम् एव नायिकायाम् अनुरागी अनुकूलः । सर्वत्र समो दक्षिणः । साक्षात् प्रियं वक्ति परोक्षे अप्रियं करोति यः स शठः । अन्य-कान्ता-सम्भोग-चिह्नादि-युक्तोऽपि निर्भयः मिथ्या-वदी यः स धृष्टः । एवं षण्-नवति-विधा नायक-भेदाः ॥१॥

—ओ)०(ओ—