द्वितीय-प्रकाशः
ननु,
न हानिं न ग्लानिं न निज-गृह-कृत्यं व्यसनितं
न घोरं नोद्घूर्णं न किल कदनं वेत्ति किम् अपि ।
वराङ्गीभिः स्वाङ्गीकृत-सुहृद्-अनङ्गाभिर् अभितो
हरिर् वृन्दरण्ये परम् अनिशम् उच्चैर् विहरति ॥
इत्य्-आदिभ्य एव श्री-वृन्दवनेश्वर्य्-आदि-प्रेम-विलास-मुग्धस्य श्री-व्रजेन्द्र-सूनोर् न क्वापि अन्यत्रावधान-सम्भव इत्य् अवसीयते । तथा सति नाना-दिग्-देश-वर्तिभिर् अनन्त-रागानुगीय-भक्तैः क्रियमाणैर् परिचर्यादिकं केन स्वीकर्तव्यं ? विज्ञाप्ति-स्तव-पठादिकं च केन श्रोतव्यम् ? तद्-अंशेन परमात्मा नैवांशांशिनोर् ऐक्याद् इति चेत् समाधिर् अयं सम्यग् आधिर् एव तदृश-कृष्णानुरागि-भक्तानाम् । तर्हि का गतिः? साक्षात् श्रीमद्-उद्धवोक्तिर् एव । सा च यथा—
मन्त्रेषु मां वा उपहूय यत् त्वम्
अकुण्ठिताखण्ड-सदात्म-बोधः ।
पृच्छेः प्रभो मुग्ध इवाप्रमत्तस्
तन् नो मनो मोहयतीव देव ॥ [भा।पु। ३.४.१७]1
अस्यार्थः–मन्त्रेषु जरासन्ध-वध-राजसूयाद्य्-अर्थ-गमन-विचारादिना प्रस्तुतेषु मां वै निश्चितम् उपहूय यत् पृच्छेः—“उद्धव त्वम् अत्र किं कर्तव्यं, तद् ब्रूहि” इत्य् अपृच्छः। अकुण्ठितः कलादिना अखण्डः परिपूर्णः सदा सार्वदिक एव आत्मनो बोधः संविच्-छक्तिर् यस्य, स मुग्ध इव यथान्यो मुग्धो जनः पृच्छति, तथेत्य् अर्थः । तत् तव युगपद् एव मौग्ध्यं सार्वज्ञ्यं च मोहयतीव मोहयत्य् एव । अत्र मुग्ध इव त्वं, न तु मुग्ध इति, मोहयतीव न तु मोहयतीति व्याख्यायां सङ्गत्य्-अभावात् । असङ्गत्येषु कर्मण्य् अनीहस्य भावोऽभावस्येत्य् आदि-वाक्येषु मध्ये एतद्-वाक्यस्योपन्यासो व्यर्थः स्याद् इत्य् अतस् तथा न व्याख्येयम् । ततश् च द्वारका-लीलायां सत्य् अपि सार्वज्ञ्ये यथा मौग्ध्यं, तथैव वृन्दावन-लीलायाम् अपि सत्य् अपि मौग्ध्ये सार्वज्ञ्यं तस्याचिन्त्य-शक्ति-सिद्धम् एव मन्तव्यम् । अत एव वर्णितं श्री-लीला-शुक-चरणैः—सार्वज्ञ्यत्वे च मौग्ध्ये च सार्वभौमम् इदं महः2 [कृष्ण-कर्णामृत ८३] इति ॥१॥
अत्र सार्वज्ञत्वं महैश्वर्यम् एव, न तु माधुर्यम् । माधुर्यं खलु तद् एव यद् ऐश्वर्य-विनाभूत-केवल-नर-लीलात्वेन मौग्ध्यम् इति स्थूल-धियो ब्रुवते ॥२॥
माधुर्यादिकं निरूप्यते । महैश्वर्यस्य द्योतने वाद्योतने च नर-लीलात्वानतिक्रमो माधुर्यम् । यथा पूतना-प्राण-हारित्वेऽपि स्तन-चूषण-लक्षण-नर-बल-लीलात्वम् एव । महा-कठोर-शकट-स्फोटनेऽप्य् अति-सुकुमार-चरण-त्रैमासिक्योत्तान-शायि-बाल-लीलात्वम् । महा-दीर्घ-दामाशक्य-बन्धत्वेऽपि मातृ-भीति-वैक्लव्यम् । ब्रह्म-बलदेवादि-मोहनेऽपि सार्वज्ञ्यत्वेऽपि वत्स-चरण-लीलात्वम् । तथा ऐश्वर्य-सत्त्व एव तस्याद्योतने दधि-पयश्-चौर्यं गोप-स्त्री-लाम्पट्यादिकम् । ऐश्वर्य-रहित-केवल-नर-लीलात्वेन मौग्ध्यम् एव माधुर्यम् इत्य् उक्तेः क्रीडा-चपल-प्राकृत-नर-बालकेष्व् अपि मौग्ध्यं माधुर्यम् इति तथा न निर्वाच्यम् ॥३॥
ऐश्वर्यं तु नर-लीलात्वस्यानपेक्षितत्वे सति ईश्वरत्वाविष्कारः । यथा माता-पितरौ प्रति ऐश्वर्यं दर्शयित्वा—
एतद् वां दर्शितं रूपं प्राग्-जन्म-स्मरणाय मे ।
नान्यथा मद्-भवं ज्ञानं मर्त्य-लिङ्गेन जायते ॥3 [भा।पु १०.३.४४] इत्य् उक्तम् ।
यथार्जुनं प्रति—पश्य मे योगम् ऐश्वरम् [गीता ११.८] इत्य् उक्त्वा ऐश्वर्यं दर्शितम् । व्रजेऽपि ब्रह्माणं प्रति मञ्जु-महिमा-दर्शने परः-सहस्र-चतुर्-भुजत्वादिकम् अपीति ॥४॥
अथ भक्त-निष्ठम् ऐश्वर्य-ज्ञानम् । अत एव, युवां न नौ सुतौ साक्षात् प्रधान-पुरुषेश्वरौ [भा।पु। १०.६५.१८] इत्य्-आदि वसुदेवोक्तेः । सखेति मत्वा प्रसभं यद् उक्तम् [गीता ११.४१] इत्य् अर्जुनोक्तेश् च । ईश्वरोऽयम् इत्य् अनुसन्धानेऽपि हृत्-कम्पा-जनक-सम्भ्रम-गन्धस्यानुद्गमात् स्वीय-भावस्यातिस्थैर्यम् एव यद् उत्पादयति, तन् माधुर्य-ज्ञानम् । यथा—
वन्दिनस् तम् उपदेव-गणा ये
वाद्य-गीत-बलिभिः परिवव्रुः ।
वत्सलो व्रज-गवां यद् अग-ध्रो
वन्द्यमान-चरणः पथि वृद्धैः ॥ [भा।पु। १०.३५.२१-२२] इति च युगल-गीतोक्तेः ।
गोष्ठं प्रति गवानयन-समये ब्रह्मेन्द्र-नारदादिभिः कृतस्य कृष्ण-स्तुति-गीत-वाद्यं पूजोपहार-प्रदान-पूर्वक-चरण-वन्दनस्य दृष्टत्वेऽपि श्रीदाम-सुबलादीनं सख्य-भावस्याशैथिल्यम् । तस्य तस्य श्रुतत्वेऽपि व्रजाबलानां मधुर-भावस्याशैथिल्यम् ।
तथैव व्रज-राज-कृत-तद्-आश्वासन-वाक्यैर् व्रजेश्वर्या अपि नास्ति वात्सल्य-शैथिल्य-गन्धोऽपि, प्रत्युत “धन्यैवाहं यस्या अयं मम पुत्रः परमेश्वरः !” इति मनस्य् अभिनन्दने पुत्र-भावस्य दार्ढ्यम् एव । यथा प्रकृत्या एव मातुः पुत्रस्य पृथ्वीश्वरत्वे सति तत्-पुत्र-प्रभावः स्फीत एवावभाति । एवं “धन्या एव वयं येषां सखा च परमेश्वरः” इति “यासां प्रेयान् परमेश्वरः” इति सखानां प्रेयसीनां च स्व-स्वभाव-दार्ढ्यम् एव ज्ञेयम् । किं च, संयोगे सति ऐश्वर्य-ज्ञानं न सम्यग् अवभासते, संयोगस्य शैत्यात् चन्द्र-ताप-तुल्यत्वात् । विरहे त्व् ऐश्वर्य-ज्ञानं संयग् अवभासते, विरहस्यौष्ण्यात् सूर्य-ताप-तुल्यत्वात् । तद् अपि हृत्-कम्पा सम्भ्रमादराद्य्-अभावान् नैश्वर्य-ज्ञानम् । यद् उक्तम्—
मृगयुर् इव कपीन्द्रं विव्यधे लुब्ध-धर्मा
स्त्रियम् अकृत विरूपां स्त्री-जितः कामयानाम् ।
बलिम् अपि बलिम् अत्त्वावेष्टयद् ध्वाङ्क्षवद् यस्
तद् अलम् असित-सख्यैर् दुस्त्यजस् तत्-कथार्थः ॥ [भा।पु। १०.४७.१७] इति ।
अत्र व्रजौकसां गोवर्धन-धारणात् पूर्वं कृष्ण ईश्वर इति ज्ञानं नासीत् । गोवर्धन-धारण-वरुण-लोक-गमनानन्तरं तु कृष्णोऽयम् ईश्वर एवेति ज्ञानेऽप्य् उक्त-प्रकारेण शुद्धं माधुर्य-ज्ञानम् एव पूर्णम् । वरुण-वाक्येनोद्धव-वाक्येन च साक्षाद् ईश्वर-ज्ञानेऽपि युवां न नौ सुतौ [भा।पु। १०.६५.१८] इति वसुदेव-वाक्यवत् व्रजेश्वरस्य “न मे पुत्रः कृष्णः” इति मनस्य् अपि मनाग् अपि नोक्तिः श्रूयते इति । तस्माद् व्रजस्थानां सर्वथैव शुद्धम् एव माधुर्य-ज्ञानं पूर्णं, पुरस्थानां त्व् ऐश्वर्य-ज्ञान-मिश्रं माधुर्य-ज्ञानं पूर्णम् ॥५॥
—ओ)०(ओ—
(६)
ननु, पुरे वसुदेव-नन्दनः श्री-कृष्णोऽयम् “अहम् ईश्वर एव” इति नर-लीलात्वेऽपि जानात्य् एव यथा तथैव नन्द-नन्दनः कृष्णः स्वम् ईश्वरत्वेन व्रजे जानाति न वा ? यदि जानाति, तदा दाम-बन्धनादि-लीलायां मातृ-भीति-हेतुकाश्रु-पातादिकं न घटते । तद्-आदिकम् अनुकरणम् एवेति व्याख्या तु मन्द-मतीनाम् एव, न त्व् अभिज्ञ-भक्तानाम् । तथा व्याख्यानस्याभिज्ञत्व-सम्मतत्वे—
गोप्य् आददे त्वयि कृतागसि दाम तावद्
या ते दशाश्रु-कलिलाञ्जन-सम्भ्रमाक्षम् ।
वक्त्रं निनीय भय-भावनया स्थितस्य
सा मां विमोहयति भीर् अपि यद् बिभेति ॥ [भा।पु। १.८.३१]
इत्य् उक्तवत्यां कुन्त्यां मोहो नैव वर्ण्येत । तथा हि भीर् अपि यद् बिभेति इत्य् उक्त्यैव कुन्त्या अत्रैश्वर्य-ज्ञानं व्यक्ती-भूतं भय-भावनया स्थितस्य इत्य् अन्तर्-भयस्य च तया सत्यत्वम् एवाभिमतम् । अनुकरण-मात्रत्वे ज्ञाते तस्य मोहो न सम्भवेद् इति ज्ञेयम्।
यदि च स्वयम् ईश्वरत्वेन न जानाति, तदा तस्य नित्य-ज्ञानानन्द-घनस्य नित्य-ज्ञानावरणं केन कृतम् ? इति । अत्रोच्यते, यथा संसार-बन्धे निपात्य दुःखम् एवानुभावयितुं माया-वृत्तिर् अविद्या जीवानां ज्ञानम् आवृणोति, यथा च महा-मधुर-श्री-कृष्ण-लीला-सुखम् अनुभावयितुं गुणातीतानां श्री-कृष्ण-परिवाराणां व्रजेश्वर्य्-आदीनां ज्ञानं चिच्-छक्ति-वृत्तिर् योग-मायैवावृणोति, तथैव श्री-कृष्णम् आनन्द-स्वरूपम् अप्य् आनन्दातिशयम् अनुभावयितुं चिच्-छक्ति-सार-वृत्तिः प्रेमैव तस्य ज्ञानम् आवृणोति । प्रेम्णस् तु तत्-स्वरूप-शक्तित्वात् तेन तस्य व्याप्तेर् न दोसः । यथा ह्य् अविद्या-स्व-वृत्त्या ममतया जीवं दुःखयितुम् एव बध्नाति, तथा दण्डनीय-जनस्य गात्र-बन्धनं रज्जू-निगडादिना माननीय-जनस्यापि गात्र-बन्धनम् अनर्घ-सुगन्ध-सूक्ष्म-कञ्चुकोष्णीषादिना, इत्य् अविद्याधीनो जीवो दुःखी, प्रेमधीनः श्री-कृष्णोऽतिसुखी । कृष्णस्य प्रेमावरण-स्वरूपः सुख-विशेष-भोग एव मन्तव्यः, यथा भृङ्गस्य कमल-कोषावरण-रूपः । अत एवोक्तं नापैषि नाथ हृदयाम्बुरुहात् स्व-पुंसाम्4 [भा।पु। ३.९.५] इति, प्रणय-रशनया धृताङ्घ्रि-पद्मः5 [भा।पु। ११.२.५५] इति च ।
किं च, यथैवाविद्यया स्व-तारतम्येन ज्ञानावरण-तारतम्यात् जीवस्य पञ्च-विध-क्लेश-तारतम्यं विधीयते, तथैव प्रेम्णापि स्व-तारतम्येन ज्ञानैश्वर्याद्य्-आवरण-तारतम्यात् स्व-विषयाश्रययोर् अनन्त-प्रकारं सुख-तारतम्यं विधीयते इति । तत्र केवल-प्रेमा श्री-यशोदादि-निष्ठः स्व-विषयाश्रयौ ममता-रशनया निबद्ध्य परस्पर-वशीभूतौ विधाय ज्ञानैश्वर्यादिकम् आवृत्य यथाधिकं सुखयति, न तथा देवाक्यादि-निष्ठो ज्ञानैश्वर्य-मिश्र इति । तस्मात् तासां व्रजेश्वर्य्-आदीनां सन्निधौ तद्-वात्सल्यादि-प्रेम-मुग्धः श्री-कृष्णः स्वम् ईश्वरत्वेन नैव जानाति । यत् तु नाना-दानव-दवानलाद्य्-उत्पातागम-काले तस्य सार्वज्ञ्यं दृष्टं तत् खलु तत्-तत्-प्रेम-परिजन-पालन-प्रयोजनिकया लीला-शक्त्यैव स्फुरितं ज्ञेयम् ।
किं च, मौग्ध्य-समयेऽपि तस्य साधक-भक्त-परिचर्यादि-ग्रहणे सार्वज्ञ्यम् अचिन्त्य-शक्ति-सिद्धम् इति प्रक् प्रतिपादितम् । तद् एवं विधि-मार्ग-रग-मार्गयोर् विवेक ऐश्वर्य-माधुर्ययोर् विवेक ऐश्वर्य-ज्ञान-माधुर्य-ज्ञानयोर् विवेकश् च दर्शितः । स्वकीया-परकीयात्वयोर् विवेकस् तु उज्ज्वल-नीलमणि-व्याख्यायां विस्तारित एव ।
अत्र विधि-मार्गेण राधा-कृष्णयोर् भजने महा-वैकुण्ठ-स्थ-गोलोके खल्व् अविविक्त-स्वकीया-परकीया-भावम् ऐश्वर्य-ज्ञानं प्राप्नोति । मधुर-भाव-लोभित्वे सति विधि-मार्गेण भजने द्वारकायां श्री-राधा-सत्यभामयोर् ऐक्यात् सत्यभामा-परिकरत्वेन स्वकीया-भावम् ऐश्वर्य-ज्ञान-मिश्र-माधुर्य-ज्ञानं प्राप्नोति । रग-मार्गेण भजने व्रज-भूमौ श्री-राधा-परिकरत्वेन परकीया-भावं शुद्ध-माधुर्य-ज्ञानं प्राप्नोति । यद्यपि श्री-राधिका श्री-कृष्णस्य स्वरूप-भूता ह्लादिनी शक्तिः तस्या अपि श्री-कृष्ण एव तद् अपि तयोर् लीला-सहितयोर् एवोपास्यात्वं न तु लीला-रहितयोः । लीलायां तु तयोर् व्रज-भूमौ क्वाप्य् आर्ष-शास्त्रे दाम्पत्यं न प्रतिपादितम् इति श्री-राधा हि प्रकटाप्रकट-प्रकशयोः परकीयैव इति सर्वार्थ-निष्कर्ष-सङ्क्षेपः ॥६॥
—ओ)०(ओ—
(७)
अथ रागानुगा-भक्ति-मज्जनस्यानर्थ-निवृत्ति-निष्ठा-रुच्य्-आसक्त्य्-अनन्तरं प्रेम-भूमिकारूढस्य साक्षात्-स्वाभीष्ट-प्राप्ति-प्रकारः प्रदर्श्यते । यथोज्ज्वल-नीलमणौ—
तद्-भाव-बद्ध-रागा ये जनास् ते साधने रताः ।
तद्-योग्यम् अनुरागौघं प्राप्योत्कण्ठानुसारतः ।
ता एकशोऽथवा द्वि-त्राः काले काले व्रजेऽभवन् ॥ [उ।नी। ३.४८-९]6
अनुरागौघं रागानुगा-भजनौत्कण्ठ्यं, न त्व् अनुराग-स्थायिनं, साधक-देहेऽनुरागोत्पत्त्य्-असम्भवात् । व्रजेऽभवन्न् इति अवतार-समये नित्य-प्रियाद्या यथा आविर्भवन्ति, तथैव गोपिका-गर्भे साधन-सिद्धा अपि अविर्भवन्ति । ततश् च नित्य-सिद्धादि-गोपीनां महा-भाववतीनां सङ्ग-महिम्ना दर्शन-श्रवण-कीर्तनादिभिः स्नेह-मान-प्रणय-रागानुराग-महा-भावा अपि तत्र गोपिका-देहे उत्पद्यन्ते । पूर्व-जन्मनि साधक-देहे तेषाम् उत्पत्त्य्-असम्भवात् । अत एव व्रजे कृष्ण-प्रेयसीनाम् असाधारणानि लक्षणानि । यद् उक्तम्—
गोपीनां परमानन्द आसीद् गोविन्द-दर्शने ।
क्षणं युग-शतम् इव यासां येन विनाभवत् ॥ [भा।पु। १०.१९.१६] इति ।
त्रुटिर् युगायते त्वाम् अपश्यताम् [भा।पु। १०.३१.१५] इत्य् आदि च ।
क्षणस्य युग-शतायमानत्वं महा-भाव-लक्षणम् ।
ननु, प्रेम-भूमिकारूढस्य साधकस्य देह-भङ्गे सत्य् एव प्रकट-प्रकाशे गोपी-गर्भाज् जन्मना विना एव गोपिका-देह-प्राप्तौ सत्यां तत्रैव नित्य-सिद्ध-गोपिका-सङ्गोद्भूतानां स्नेहदीनां भावानां प्राप्तिः स्याद् इत्य् एवं किं न ब्रूषे ?
मैवम् । गोपी-गर्भाज् जन्मना विना “इयं सखी कस्य पुत्री ? कस्य वधूः ? कस्य स्त्री ?” इत्य्-आदि-नर-लीलाया व्यवहारो न सिध्येत् । तर्ह्य् अप्रकट-प्रकाश एव जन्मास्तीति चेन्, नैवं । प्रपञ्चागोचरस्य वृन्दावनीय-प्रकाशस्य साधकानां प्रापञ्चिक-लोकानां च प्रवेश-दर्शनेन सिद्धानाम् एव प्रवेश-दर्शनेन ज्ञापितात् केवल-सिद्ध-भूमित्वात् स्नेहादयो भावास् तत्र स्व-स्व-साधनैर् अपि तूर्णं न फलन्ति, अतो योगमायया जात-प्रेमाणो भक्तास् ते प्रपञ्च-गोचरे वृन्दावन-प्रकाशे एव श्री-कृष्णावतार-समये नीयन्ते । तत्रोत्पत्त्य्-अनन्तरं श्री-कृष्णाङ्ग-सङ्गात् पूर्वम् एव तत्-तद्-भाव-सिद्ध्य्-अर्थम् । तत्र साधक-भक्तानां कर्मि-प्रभृतीनां सिद्ध-भक्तानां च प्रवेश-दर्शनेनैवनुभूयते, साधक-भूमित्वं सिद्ध-भूमित्वं च ।
ननु, तर्ह्य् एतावन्तं कालं तैः परमोत्कण्ठैर् भक्तैः क्व स्थातव्यम् ?
तत्रोच्यते—साधक-देह-भङ्ग-समये एव तस्मै प्रेमवते भक्ताय चिर-समय-विधृत-साक्षात्-सेवाभिलाष-महोत्कण्ठया भागवत-कृपयैव स-परिकरस्य स्वस्य दर्शनं तद्-अभिलषणीय-सेवादिकं च लब्ध-स्नेहादि-प्रेम-भेदयापि सकृद् दीयते एव यथा नारदायैव, चिद्-आनन्दमयी गोपिका-तनुश् च दीयते । सैव तनुर् योग-मायया वृन्दवनीय-प्रकट-प्रकाशे कृष्ण-परिवार-प्रादुर्भाव-समये गोपी-गर्भाद् उद्भाव्यते । नात्र काल-विलम्ब-गन्धोऽपि । प्रकट-लीलाया अपि विच्छेदाभावत् । यस्मिन्न् एव ब्रह्माण्डे तदानीं वृन्दवनीय-लीलानां प्राकट्यं, तत्रैवास्याम् एव व्रज-भूमौ । अतः साधक-प्रेमि-भक्त-देह-भङ्ग-सम-कालेऽपि स-परिकर-श्री-कृष्ण-प्रादुर्भावः सदैवास्ति इति “भो भो महानुरागि-सोत्कण्ठ-भक्ताः ! मा भैष्ट ! सुस्थिरास् तिष्ठत ! स्वस्त्य् एवास्ति भवद्भ्यः” इति ॥७॥
लीला-विलासेन भक्ति-मञ्जरी-लोलुपालिने ।
मौग्ध्य-सार्वज्ञ्य-निधये गोकुलनन्द ते नमः ॥
ददामि बुद्धि-योगं तं येन माम् उपयान्ति ते ।
इत्य् उवाच प्रभो तस्माद् एतद् एवाहम् अर्थये ॥
गोपी-कुचालङ्कृतस्य तव गोपेन्द्र-नन्दन ।
दास्यं यथा भवेद् एवं बुद्धि-योगं प्रयच्छ मे ॥
ये तु रागानुगा-भक्तिः सर्वथैव सर्वदैव शास्त्र-विधिम् अतिक्रान्त एव इति ब्रुवाते ये शास्त्र-विधिम् उत्सृज्य यजन्ते श्रद्धयान्वितः [गीता १७.१] इति, विधि-हीनम् असृष्टान्नम् [गीता १७.१३] इत्य्-आदि-गीतोक्तेर् ग्राहम् अर्हन्तो मुहुर् उत्पातम् अनुभूतवन्तोऽनुभवन्तोऽनुभविष्यन्ति चेत्य् अलम् अतिविस्तरेन ॥८॥
हन्त रागानुगा-वर्त्म दुर्दर्शम् विबुधैर् अपि ।
परिचिन्वन्तु सुधियो भक्ताश् चन्द्रिकयानया ॥९॥
इति महामहोपध्याय-श्रीमद्-विश्वनाथ-चक्रवर्ति-महाशय-विरचित-
राग-वर्त्म-चन्द्रिका समाप्त ।
—ओ)०(ओ—
-
मन्त्रेषु जरासन्ध-वध-राजसूयाद्य्-अर्थ-गमन-विचारादिषु प्रस्तुतेषु मां वै निश्चितम् उपहूय यत् पृच्छेर् उद्धव त्वम् “अत्र किं कर्तव्यं, तद् ब्रूहि” इत्य् अपृच्छः । अकुण्ठितः कलादिना अखण्डः परिपूर्णः सदा सार्वदिक एव आत्मनो बोधः संविच्-छक्तिर् यस्य सः । मुग्ध इव यथान्यो मुग्धो जनः पृच्छति तथेत्य् अर्थः । किं च, अप्रमत्तः कार्यान्तर-व्यावृत्त्यापि रहितत्वाद् इति भावः । तत् तव युगपद् एव मौग्ध्यं सार्वज्ञ्यं च मोहयतीव मोहयत्य् एव । अत्र मुग्ध इव त्वं न तु मुग्ध इति तथा मोहयतीव न तु मोहयतीति व्याख्यायां सङ्गत्य्-अभावात् इति सङ्गतेषु वाक्येषु मध्येऽस्योत्थापनं व्यर्थं स्याद् इत्य् अतस् तथा न व्याख्येयम् ॥१७॥ ↩︎
-
सर्वज्ञत्वे च मौग्ध्ये च सार्वभौमम् इदं महः । निर्विशन् नयनं हन्त निर्वाण-पदम् अश्नुते ॥ ↩︎
-
मयि भवतीति मद्-भवं मद्-विषयं मर्त्य-लिङ्गेन मयेत्य् अहं तु स्वयं परिपूर्ण-स्वरूपो मर्त्य-लिङ्गो द्वि-भुज एव नराकृति-परब्रह्मत्वाद् इति भावः ॥ ↩︎
-
ये तु त्वदीय-चरणाम्बुज-कोश-गन्धं जिघ्रन्ति कर्ण-विवरैः श्रुति-वात-नीतम् । भक्त्या गृहीत-चरणः परया च तेषां नापैषि नाथ हृदयाम्बुरुहात् स्व-पुंसाम् ॥
सारार्थ-दर्शिनी: शास्त्रेषु निर्विशेष-स्वरूपोपासका ज्ञानिन उच्यन्ते, स-विशेष-स्वरूपोपासकास् तु भक्ताः । तेषाम् उभयेषां मध्ये भक्ता एव कृतार्थाः प्रियाश् चेत्य् आह द्वाभ्यां—ये त्व् इति । श्रुतिर् वेदः श्रवण-भक्तिर् वा वातः, तेन नीतं प्रापितं । ततश् च ते चरणाम्बुज-सौरभ्य-लोभिनो भृङ्गा इव चरणाम्बुजम् एव परम-पुरुषार्थत्वेन गृह्णन्तीत्य् आह—भक्त्या परया प्रेम-लक्षणया नापैषीति, ते यथा तव चरणाम्बुज एव लोभिनस् तन् न त्यजन्ति, तथा त्वम् अपि तेषां प्रेम-माधुर्यवति हृदयाम्बुज एव लोभी तन् न त्यजसीति परस्पर-वशीकारः सूचितः ॥५॥ ↩︎
-
विसृजति हृदयं न यस्य साक्षाद् धरिर् अवशाभिहितोऽप्य् अघौघ-नाशः । प्रणय-रशनया धृताङ्घ्रि-पद्मः स भवति भागवत-प्रधान उक्तः ॥
सारार्थ-दर्शिनी : उक्त-समस्त-लक्षण-सारम् आह—विसृजतीति । हरिर् एव स्वयं साक्षाद् यस्य हृदय-कन्दरं न विसृजति न मुञ्चति । तत्र कल्मष-कुञ्जराणां कुतो वार्ता ? इत्य् आह—यः खल्व् अवशेनापि कदाचिद् अभिहित-मात्रोऽपि अघौघं नाशयति । किं पुनः ? सरसास्वादं येन प्रतिक्षणम् अभिभावित इति भावः । एतेन यद् ब्रूत [११.२.४४] इत्य् अस्योत्तरम् अभिव्यञ्जितम् । ननु कथं तदीय-हृदय-मन्दिरान् न निर्गच्छति ? तत्राह—प्रणय-रशनया धृतं हृदये बद्धम् अङ्घ्रि-पद्मं यस्य सः । यथा प्रेम-वशीकृत्य यशोदया उदरे उदूखले बद्धः, तथा सर्व-जीवात्माया-शृङ्खलया निबध्नन् स भक्त-जीवैः प्रेम-शृङ्खलया निबध्यते इति भावः ॥५५॥ ↩︎
-
अनुरागोऽयं रागानुगीय-भजनौकट्यं न त्व् अनुराग-स्थायिनं साधक-देहेऽनुरागौत्पत्त्य्-असम्भवात् प्राचीनाः पूर्व-पूर्व-कल्प-गत-कृष्णावतार-प्राप्त-सिद्धयः । न वा एतत्-कल्प-गत-कृष्णावतार एव सिद्धाः । चिरम् आगता इति । एतत्-कल्प-गतावतारात् पूर्व-पूर्व-कल्प एव सिद्धा अधुनातन-कल्पेऽप्य् अनुवर्तन्ते भाविषु कल्पेष्व् अनुवर्तिष्यन्ते च मर्त्यामर्त्यादि-योनितः । मनुष्य-देव-गन्धर्वादि-जन्मान्तरम् इत्य् अर्थः । यद् वा, मर्त्या मानुष्याः अमर्त्या हिरण्यादयः । हिरण्याङ्गी हरिद्वर्णा हरिणी-गर्भ-सम्भवा इति बृहद्-गणोद्देश-दीपिकोक्तेः । एवम् एव द्वैविध्यं यौथिकीनाम् अपि केचिद् आचक्षते । भाविनि रामावतारे राम-सौन्दर्य-दर्शित्वेन प्रसिद्धानां दण्डकारण्य-वासिनां गोपालोपासकानां मुनीनाम् अवश्यम्भावित्वात् । न चैतत् कल्प-वृत्त-रामावतार-गता एव ते मुनयो भाविन्य् अपि रामावतारे भवितुम् अर्हन्तीति वाच्यम् । एतत्-कल्प-वृत्त-श्री-कृष्णावतार एव तेषां प्राप्त-गोपिका-रूपत्वेन सिद्धत्वात् सिद्धानां पुनः साधकत्वायोगात् । न च मैवं भविष्यन्ति मुनय इति वाच्यम् । भाविनि कृष्णावतारे रासार्मभे अन्तर्-गृह-गतानां कृष्ण-विरहेण देह-त्यागवतीनां गोपीनाम् अवश्यम्भावित्वात् । तास् तर्हि का भविष्यन्ति एतत्-कल्प-वृत्त-मुनि-चर्या एवेति चेन् न । तासां सिद्ध-देहत्वेन पुनर् देह-त्यागायोगात् । योगमाया एव देह-त्यागं प्रत्याययतीति चेन् न । सिद्धा अपि देहं तत्यजुर् इति प्रसिद्धेर् अपि जुगुप्सितत्वेन तथा तत्-करणायोगात् । तस्मात् साधक-भक्तानाम् अनन्तत्वात् । प्रतिकल्प एव ते मुनयोऽन्येऽन्य एव भवन्ति । त एव कृष्णावतारे नवीनां मुनिचर्यो गोप्यस् तासाम् एव काश्चिद् अन्तर्-गृह-गता देहं त्यजन्तीति । एवम् उपनिषदाम् अप्य् आनन्त्यात् प्रतिकल्पम् अन्यासाम् एव कृत-साधनानां सिद्धत्वे प्राचीना नवीना इति भेद-द्वयम् इति । यौथिकीनां भेद-द्वयम् अनन्य-माना अन्ये तु भाविनि कृष्णावतारेऽयौथिक्य एव काश्चन सिद्ध-देशीया लीला-शक्त्यैवान्तर्-गृह-गता देह-त्यागवत्यः करिष्यन्त इत्य् आहुः । ननु ये इदानीन्तना रागानुगीय-साधनवन्तो निष्ठा-रुच्य्-आसक्त्य्-आदि-कक्षारूढतया कस्मिंश्चिज् जन्मनि यदि जात-प्रेमाणः स्युस् ते तर्हि भगवत्-साक्षात्-सेवा-योग्यास् तद्-देहान्त-क्षण एव प्रपञ्चागोचर-प्रकाशे तत्-परिकर-पदवीं प्राप्स्यन्ति, किं वा प्रपञ्च-गोचर-कृष्णावतार-समये । अत्रोच्यते—साधक-देहे प्रेम-परिणाम-रूपाणां स्नेह-मान-प्रणयादीनां स्थायि-भावआनाम् आविर्भाव-सम्भवात् गोपिका-देहेष्व् एव नित्य-सिद्धादि-गोपीनां महा-भाववतीनां सङ्ग-महिम्ना दर्शन-श्रवण-स्मरण-गुण-कीर्तनादिभिस् ते अवश्यम् एवोपपद्यन्ते । तेषाम् एवासाधारण-लक्षणत्वात् तान् विना गोपीत्वस्यासिद्धेः । यद् उक्तम्—
गोपीनां परमानन्द आसीद् गोविन्द-दर्शने ।
क्षणं युग-शतम् इव यासां येन विनाभवत् ॥ [भा।पु। १०.१९.१६] इति । अस्यार्थः—ननु गोप्यस् तावत् कास् तत्राह—यासां येन कृष्णेन विना क्षणं युग-शतम् इवाभवत् ता गोप्यस् तसाम् एव परमानन्द इति । त्रुटिर् युगायते इत्य् आदि चात्र क्षणस्य युगशतायमानत्वं महा-भाव-लक्षणम् इति । अत एव प्रपञ्च-गोचरस्य वृन्दावनीयस्य प्रकाशस्य साधकानां प्रापञ्चिक-लोकानां च तत्र प्रवेशादर्शनेन सिद्धानाम् एव प्रवेश-दर्शनेन च ज्ञापितात् केवल-सिद्ध-भूमित्वात् स्नेहादयो भावाः स्व-साधनैर् अपि न तूर्णं फलन्त्य् अतो योगमायया जात-प्रेमाणो भक्तास् ते प्रपञ्चागोचरे वृन्दावनस्य प्रकाश एव श्री-कृष्णावतार-समये तत्-प्रथम-प्रापणार्थं लीयन्ते । तस्य साधकानां नाना-विध-कर्मि-प्रभृति-प्रापञ्चिक-लोकाणां च सिद्धानां च तत्र प्रवेश-दर्शनेनामितात् साधक-सिद्ध-भूमित्वात् तत्रोत्पत्त्य्-अनन्तरम् एव श्री-कृष्णाङ्ग-सङ्गात् पूर्वम् एव तत्-तद्-भाव-सिद्धार्थम् इति । नन्व् एतावन्तं दीर्घतमं दुष्पारं कालं तैः परमोत्कण्ठैर् भक्तैः क्व स्थातव्यम् । उच्यते । नात्र काल-विलम्ब-लेशोऽपि ब्रह्माण्डानाम् आनन्त्यात् । प्रकट-लीलाया अपि विच्छेदा भावात् ते तत्-क्षण एव तत्रैव वृन्दावने एव गोपिका-रूपेणोत्पद्यन्ते । किन्तु येष्व् एव ब्रह्माण्डेषु तदानीं वृन्दावनीय-लीलायां प्राकट्यं तेष्व् एव ते गोपिका-रूपेणोत्पद्यन्त इति । अत्र क्रमः । रागानुरागीय-सम्यक्-साधन-निरतायोत्पन्न-प्रेम्णे भक्ताय चिर-समय-विधृत-साक्षात्-सेवाभिलाष-महोत्कण्ठाय कृपया भगवता स-परिकर-स्व-दर्शनं सेवा-प्राप्त्य्-अनुभावकम् अलब्ध-स्नेहादि-प्रेम-भेदायापि साधक-देहे ऽपि स्वप्ने ऽपि साक्षाद् अपि सकृद् दीयत एव । ततश् च श्री-नारदायेव चिद्-आनन्द-मयी गोपिकाकार-तद्-भाव-विभाविता तनुश् च दीयते । ततश् च वृन्दावनीय-प्रकट-प्रकाशे कृष्ण-परिकर-प्रादुर्भाव-समये सैव तनुर् योग-मायया गोपिका-गर्भाद् उद्भाव्यते उक्त-न्यायेन स्नेहादि-प्रेम-भेद-सिद्ध्य्-अर्थम् । किं च—नर-लीलस्य कृष्णस्य गोपिकाभिर् अपि नर-जातिभिर् एव क्रीडा प्रसिद्धा । तच् च मुख्यं नरत्वम् अयोनिजत्वे सति न सिद्ध्येद् इत्य् अत एव लक्ष्म्या गोपिकात्वे अङ्गीकृतेऽपि गोपी-गर्भोत्पन्नस्य गोपी-जनानुज्ञस्य चानङ्गीकृतत्वात् तया सह श्री-कृष्णस्य क्रीडेति तत्त्वं ज्ञेयम् ॥५१॥ ↩︎