प्रथमः प्रकाशः
श्री-रूप-वाक्-सुधास्वादि-चकोरेभ्यो नमो नमः ।
येषां कृपा-लवैर् वक्ष्ये राग-वर्त्मनि चन्द्रिकाम् ॥१॥
श्रीमद्-भक्ति-सुधाम्भोधेर् बिन्दुर् यः पूर्व-दर्शितः ।
तत्र रागानुगा भक्तिः सङ्क्षिप्तात्र वितन्यते ॥२॥
वैधी भक्तिर् भवेत् शास्त्रं भक्तौ चेत् स्यात् प्रवर्तकम् ।
रागानुगा स्याच् चेद् भक्तौ लोभ एव प्रवर्तकः ॥३॥
भक्तौ प्रवृत्तिर् अत्र स्यात् तच्-चिकीर्षा सुनिश्चया ।
शास्त्राल् लोभात् तच्-चिकीर्षू स्यातां तद्-अधिकारिणौ ॥४॥
तत्र लोभो लक्षितः स्वयं श्री-रूप-गोस्वामि-चरणैर् एव—
तत्-तद्-भावादि-माधुर्ये श्रुते धीर् यद् अपेक्षते ।
नात्र शास्त्रं न युक्तिं च तल् लोभोत्पत्ति-लक्षणम् ॥ [भ।र।सि।१.२.२९२]
व्रज-लीला-परिकर-स्थ-शृङ्गारादि-भाव-माधुर्ये श्रुते धीर् इदं मम भूयत् इति लोभोत्पत्ति-काले शास्त्र-युक्त्य्-अपेक्षा न स्यात्, सत्यां च तस्यां लोभत्वस्यैवासिद्धेः । नहि केनचित् शास्त्र-दृष्ट्या लोभः क्रियते, नापि लोभनीय-वस्तु प्राप्तौ स्वस्य योग्यायोग्यत्व-विचारः कोऽप्य् उद्भवति। किन्तु लोभनीय-वस्तुनि श्रुते दृष्टे वा स्वत एव लोभ उत्पद्यते॥५॥
—ओ)०(ओ—
स च भगवत्-कृपा-हेतुकोऽनुरागि-भक्त-कृपा-हेतुकश् चेति द्विविधः । तत्र भक्त-कृपा-हेतुको द्विविधः—प्राक्तन आधुनिकश् च । प्राक्तनः—पौर्व-भाविक-तादृश-भक्त-कृपोत्थः । आधुनिकः—एतज्-जन्मावधि-तादृश-भक्त-कृपोत्थः । आद्ये सति लोभानन्तरं तादृश-गुरु-चरणाश्रयणम् । द्वितीये गुरु-चरणाश्रयानन्तरं लोभ-प्रवृत्तिर् भवति । यद् उक्तम्—
कृष्ण-तद्-भक्त-कारुण्य-मात्र-लाभैक-हेतुका ।
पुष्टि-मार्गतया कैश्चिद् इयं रागानुगोच्यते ॥ [भ।र।सि। १.२.३०९]1 ॥६॥
—ओ)०(ओ—
ततश् च तादृश-लोभवतो भक्तस्य लोभनीय-तद्-भाव-प्राप्त्य्-उपाय-जिज्ञासायां सत्यां शास्त्र-युक्त्य्-अपेक्षा स्यात् । शास्त्र-विधिनैव शास्त्र-प्रतिपादित-युक्त्यैव च तत्-प्रदर्शनात्, नान्यथा । यथा दुग्धादिषु लोभे सति कथं मे दुग्धादिकं भवेद् इति तद्-उपाय-जिज्ञासायां तद्-अभिज्ञाप्त-जन-कृतोपदेश-वाक्यापेक्षा स्यात् । ततश् च गां क्रीणातु भवान् इत्य्-आदि तद्-उपदेश-वाक्याद् एव गवानयन-तद्-घास-प्रदान-तद्-दोहन-प्रकरणादिकं तत एव शिक्षेत्, न तु स्वतः। यद् उक्तम् अष्टम-स्कन्धे—
यथाग्निम् एधस्य् अमृतं च गोषु
भुव्य् अन्नम् अम्बूद्यमने च वृत्तिम् ।
योगैर् मनुष्या अधियन्ति हि त्वां
गुणेषु बुद्ध्या कवयो वदन्ति ॥ [भा।पु। ८.६.१२] ॥७॥2
—ओ)०(ओ—
स च लोभो राग-वर्त्म-वर्तिनां भक्तानां गुरु-पदाश्रय-लक्षणम् आरभ्य स्वाभीष्ट-वस्तु साक्षात्-प्राप्ति-समयम् अभिव्याप्य—
यथा यथात्मा परिमृज्यतेऽसौ
मत्-पुण्य-गाथा-श्रवणाभिधानैः ।
तथा तथा पश्यति वस्तु सूक्ष्मं
चक्षुर् यथैवाञ्जन-सम्प्रयुक्तं ॥ [भा।पु। ११.१४.२५]3
इति भगवद्-उक्तेर् भक्ति-हेतुकान्तः-करण-शुद्धि-तारतम्यात् प्रति दिनम् अधिकाधिको भवति ॥८॥
—ओ)०(ओ—
उद्भूते तादृशे लोभे शास्त्र-दर्शितेषु तत्-तद्-भाव-प्राप्त्य्-उपायेषु आचार्य-चैत्त्य-वपुषा स्व-गतिं व्यनक्ति [भा।पु। ११.२९.६] इत्य् उद्धवोक्तेः, केषुचिद् गुरु-मुखात्, केषुचिद् अभिज्ञ-महोदयानुरागि-भक्त-मुखात् । अभिज्ञातेषु केषुचिद् भक्ति-मृष्ट-चित्त-वृत्तिषु स्वत एव स्फुरितेषु सोल्लासम् एवातिशयेन प्रवृत्तिः स्यात् । यथा कामार्थिनां कामोपायेषु ॥९॥
—ओ)०(ओ—
तच् च शास्त्रं सर्वोपनिषत्-सार-भूतं येषाम् अहं प्रिय आत्मा सुतश् च सखा गुरुः सुहृदो दैवम् इष्टम् [भा।पु। ३.२५.३८] इत्य्-आदि-वाक्य-निचयाकर-श्री-भागवत-महा-पुराणम् एव । तथा तत्-प्रतिपादित-भक्ति-विवरण-चञ्चू-श्री-भक्ति-रसामृतार्णवादिकम् अपि । तत्रत्यं वाक्य-त्रयं, यथा—
कृष्णं स्मरन् जनं चास्य प्रेष्ठं निज-समीहितम् ।
तत्-तत्-कथा-रतश् चासौ कुर्याद् वासं व्रजे सदा ॥4
सेवा साधक-रूपेण सिद्ध-रूपेण चात्र हि ।
तद्-भाव-लिप्सुना कार्या व्रज-लोकानुसारतः ॥5
श्रवणोत्कीर्तनादीनि वैध-भक्त्य्-उदितानि तु ।
यान्य् अङ्गानि च तान्य् अत्र विज्ञेयानि मनीषिभिः ॥6 [भ।र।सि। १.२.२९४-६] इति ।
त्रिकम् अत्र कामानुग-पक्षे एव व्याख्यायते ॥१०॥
—ओ)०(ओ—
प्रथमतः कृष्णं स्मरन् इति स्मरणस्यात्र रागानुगायां मुख्यत्वं, रागस्य मनो-धर्मत्वात् । प्रेष्ठं निज-भावोचित-लीला-विलासिनं कृष्णं वृन्दावनाधीश्वरम् । अस्य कृष्णस्य जनं च । कीदृशं ? निज-समीहितं स्वाभिलषणीयं श्री-वृन्दवनेश्वरी-ललिता-विशाखा-श्री-रूप मञ्जर्य्-आदिकम् । कृष्णस्यापि निज-समीहितत्वेऽपि, तज्-जनस्य उज्ज्वल-भावैक-निष्ठात्वात् निज-समीहितत्वाधिक्यम् । व्रजे वासम् इति । असामर्थ्ये मनसापि । साधक-शरीरेण वासस् तु उत्तर-श्लोकार्थतः प्राप्त एव ।
साधक-रूपेण यथावस्थित-देहेन । सिद्ध-रूपेण अन्तश्-चिन्तिताभीष्ट-तत्-साक्षात्-सेवोपयोगि-देहेन । तद्-भाव-लिप्सुना तद्-भावः स्व-प्रेष्ठ-कृष्ण-विषयकः स्व-समीहित-कृष्ण-जनाश्रयकश् च यो भाव उज्ज्वलाख्यः, तं लब्धुम् इच्छता । सेवा मनसैवोपस्थापितैः साक्षाद् अप्य् उपस्थापितैश् च समुचित-द्रव्यादिभिः परिचर्या कार्या ।
तत्र प्रकारम् अह—व्रज-लोकानुसारतः । साधक-रूपेणानुगम्यमाना ये व्रज-लोकाः श्री-रूप-गोस्वम्य्-आदयः, ये च सिद्ध-रूपेणानुगम्यमाना व्रज-लोकाः श्री-रूप-मञ्जर्य्-आदयस्, तद्-अनुसरतः । तथैव साधक-रूपेणानुगम्यमाना व्रज-लोकाः प्राप्त-कृष्ण-सम्बन्धिनो जनाश् चन्द्रकन्त्य्-आदयः दण्डकारण्य-वासि-मुनयश् च बृहद्-वामन-प्रसिद्धाः श्रुतयश् च यथा-सम्भवं ज्ञेयाः । तद्-अनुसारतस् तत्-तद्-आचार-दृष्ट्येत्य् अर्थः।
तद् एवं वाक्य-द्वयेन स्मरणं व्रज-वासं चोक्त्वा श्रवणादीनाप्य् आह—श्रवणोत्-कीर्तनादीनीति । गुरु-पदाश्रयणादीनि त्व् आक्षेप-लब्धानि । तानि विना व्रज-लोकानुगत्यादिकं किम् अपि न सिध्येद् इत्य् अतो मनीषिभिर् इति मनीषया विमृश्यैव स्वीय-भाव-समुचितान्य् एव तानि कार्याणि, न तु तद्-विरुद्धानि ॥११॥
—ओ)०(ओ—
तानि चार्चन-भक्ताव् अहङ्ग्रहोपासना-मुद्रा-न्यास-द्वारका-ध्यान-रुक्मिण्य्-आदि-पूजादीन्य् आगम-शास्त्र-विहितान्य् अपि नैव कार्याणि । भक्ति-मार्गेऽस्मिन् किञ्चित् किञ्चित् अङ्ग-वैकल्येऽपि दोषाभाव-श्रवणात् । यद् उक्तम्—
यान् आस्थाय नरो राजन् न प्रमद्येत कर्हिचित् ।
धावन् निमील्य वा नेत्रे न स्खलेन् न पतेद् इह ॥ [भा।पु। ११.२.३१] इति ।
न ह्य् अङ्गोपक्रमे ध्वंसो
मद्-भक्तेर् उद्धवाण्व् अपि । [भा।पु। ११.२९.२०] इति च ।
अङ्गि-वैकल्ये त्व् अस्त्य् एव दोषः, यान् श्रवणोत्कीर्तनादीन् भगवद्-धर्मान् आश्रित्य इत्य् उक्तेः ।
श्रुति-स्मृति-पुराणादि-पञ्चरात्र-विधिं विना ।
ऐकान्तिकी हरेर् भक्तिर् उत्पातायैव कल्पते ॥ इत्य् उक्तेश् च ।
लोभस्य प्रवर्तकत्वेऽपि निज-भाव-प्रतिकूलान्य् उक्तानि सर्वाणि शास्त्र-विहितानां त्यागानौचित्यम् इति बुद्ध्या यदि करोति, तदा द्वारका-पुरे महिषी-जन-परिजनत्वं प्राप्नोति। यद् उक्तम्—
रिरंसां सुष्ठु कुर्वन् यो विधि-मार्गेण सेवते ।
केवलेनैव स तदा महिषीत्वम् इयात् पुरे ॥ [भ।र।सि। १.२.३०३]7
केवलेनैव कृत्स्नेनैव, न तु निज-भाव-प्रतिकूलन् महिषी-पूजदीन् कांश्चित् कांश्चिद् अंशान् परित्यज्येत्य् अर्थः । निर्णीते केवलम् इति त्रि-लिङ्गं त्व् एक-कृत्स्नयोः इत्य् अमरः । केवलेन विधि-मार्गेण पुरे महिषीत्वं, मिश्रेण मथुरायाम् इति व्याख्या नोपपद्यते । पुरे यथा महिषीत्वं, तथा मथुरायाः किं-रूपत्वम् ? कुब्जा-परिकरत्वम् इति चेत् केवल-वैधी-भक्ति-फलाद् अपि मिश्र-वैधी-भक्ति-फलस्य अपकर्षः खलु अन्याय एव । रामानिरुद्ध-प्रद्युम्न-रुक्मिण्या सहितो विभुः इति गोपाल-तापनी-श्रुति-दृष्ट्या रुक्मिणी-परिणयो मथुरायाम् इत्य् अतो रुक्मिणी-परिकरत्वम् इति व्याख्या तु न सार्वलौकिकी । राधा-कृष्णोपासकः कथं कुब्जां वा रुक्मिणीं वा प्राप्नोति ? इति द्वितीयश् चान्यायः । वस्तुतस् तु लोभ-प्रवर्तितः विधि-मार्गेण सेवनम् एव राग-मार्ग उच्यते । विधि-प्रवर्तितं विधि-मार्गेण सेवनं च विधि-मार्ग इति । विधि-विना-भूतः सेवनं तु श्रुति-स्मृत्य्-आदि-वाक्याद् उत्पात-प्रापकम् एव ॥१२॥
—ओ)०(ओ—
(१३)
अथ रागानुगाय अङ्गान्य् अन्यानि भजनानि कानि कीदृशीनि किं-स्वरूपाणि कथं कर्तव्यानि अकर्तव्यानि वा ? इत्य् अपेक्षायाम् उच्यते । (१) स्वाभीष्ट-भाव-मयानि, (२) स्वाभीष्ट-भाव-सम्बन्धीनि, (३) स्वाभीष्ट-भावानुकूलानि, (४) स्वाभीष्ट-भावाविरुद्धानि, (५) स्वाभीष्ट-भाव-विरुद्धानि इति पञ्च-विधानि भजनानि शास्त्रे दृश्यन्ते ।
तत्र कानिचित् (अ) साध्य-साधन-रूपाणि, (ब्) कानिचित् साध्यं प्रेमाणं प्रति उपादान-कारणानि, (च्) कानिचित् निमित्त-कारणानि, (द्) कानिचित् भजन-चिह्नानि, (ए) कानिचिद् उपकारकाणि, (फ़्) कानिचित् अपकारकाणि, (ग्) कानिचित् तटस्थानि इति । एतानि विभज्य दर्श्यन्ते ॥१३॥
—ओ)०(ओ—
(१४)
(१अ) तत्र दास्य-सख्यादीनि स्वाभीष्ट-भाव-मयानि साध्य-साधन-रूपाणि ।
(२ब्) गुरु-पादाश्रयतो मन्त्र-जप-ध्यानादीनि साध्यं प्रत्य् उपादान-कारणत्वाद् भाव-सम्बन्धीनि । जपेन् नित्यम् अनन्य-धीः इत्य्-आद्य्-उक्ते नित्य-कृत्यानि, जप्यः स्वाभीष्ट-संसर्गी कृष्ण-नाम महा-मनुः [१८७] इति गणोद्देश-दीपिकोक्तेः सिद्ध-रूपेनानुगम्यमानानाम् अपि मन्त्र-जप-दर्शनात् उपादान-कारणत्वेन भाव-सम्बन्धीनि, “गाः सर्वेन्द्रियाणि विन्दन् एव सन् मम गोप-स्त्री-जन-वल्लभो भवत्य् अभीष्ट-संसर्गि कृष्ण-नाम एव महा-मनुः सर्व-मन्त्र-श्रेष्ठः” इत्य् अष्टादशाक्षरो दशाक्षरश् च मन्त्र एव अर्थाद् उक्तो भवतीति गणोद्देश-दीपिका-वाक्यार्थो ज्ञेयः । स्वीय-भावोचित-नाम-रूप-गुण-लीलादि-स्मरण-श्रवणादीनि उपादान-कारणत्वाद् भाव-सम्बन्धीनि । तथा हि—गीतानि नामानि तद्-अर्थकानि गायन् विलज्जो विचरेद् असङ्गः8 [भा।पु। ११.२.३९] इति । शृण्वन्ति गायन्ति गृणन्त्य् अभीक्ष्नशः स्मरन्ति नन्दन्ति तवेहितं जनाः9 [भा।पु। १.८.३६] इत्य्-आद्य्-उक्तेर् अभीक्ष्न-कृत्यानि ।
अत्र रागानुगायां यन् मुख्यस्य तस्यापि स्मरणस्य कीर्तनाधीनत्वम् अवश्यं वक्तव्यम् एव । कीर्तनस्यैव एतद् युगाधिकारत्वात्, सर्व-भक्ति-मार्गेषु सर्व-शास्त्रैस् तस्यैव सर्वोत्कर्ष-प्रतिपादनाच् च ।
तपांसि श्रद्धया कृत्वा प्रेमाढ्या जज्ञिरे व्रजे [उ।नी। ३.४८] इत्य् उज्ज्वल-नीलमण्य्-उक्तेर् अनुगम्यमानानां श्रुतीनां प्रेमाणं प्रति तपसां करणत्वावगमात् । कलाव् अस्मिन् तपोऽन्तरस्य विगीतत्वात्—मद्-अर्थं यद् व्रतं तपः10 [भा।पु। ११.१९.२३] इति भगवद्-उक्तेर् एकादशी-जन्मष्टम्य्-आदि-व्रतानि तपो-रूपाणि इति निमित्त-कारणानि नैमित्तिक-कृत्यानि । अकरणे प्रत्यवाय-श्रवणान् नित्यानि । तत्रैवैकादशी-व्रतस्यान्वये गोविन्द-स्मरणं नृणं यद् एकादश्य्-उपोषणम् इति स्मृतेर् उपादान-कारण-स्मरणस्य लाभात्, अंशेन भाव-सम्बन्धित्वम् अपि । व्यतिरेके तु मातृहा पितृहा चैव भ्रतृहा गुरुहा तथा इत्य्-आदि-स्कान्दादि-वचनेभ्यो गुरु-हन्तृत्वादि-श्रवणान् नामापराध-लाभः, ब्रह्मघ्नस्य सुरापस्य स्तेयिनो गुरु-तल्पिनः इति विष्णु-धर्मोत्तरोक्तेर् अनपायि-पाप-विशेष-लभश् च इति निन्दा-श्रवणाद् अत्यावश्यक-कृत्यत्वम् । किं बहुना—
परमापदम् आपन्ने हर्षे वा समुपस्थिते ।
नैकादशीं त्यजेद् यस् तु तस्य दीक्षास्ति वैष्णवी ।
विष्ण्व्-अर्पिताखिलाचारः स हि वैष्णव उच्यते ॥
इति स्कान्द-वाक्याभ्याम् एकादशी-व्रतस्य वैष्णव-लक्षणत्वम् एव निर्दिष्टम् । किं च, वैष्णवानां भगवद्-अनिवेदित-भोजन-निषेधः—वैष्णवो यदि भुञ्जीत एकदाश्यां प्रमादतः इत्य् अत्र भगवन्-निवेदितान्नस्यैव भोजन-निषेधोऽवगम्यते ।
कार्त्तिक-व्रतस्य च तपोऽंशेन निमित्तत्वं, श्रवण-कीर्तनाद्य्-अंशेन उपादानत्वम् अपि । श्री-रूप-गोस्वमि-चरणानाम् असकृद् उक्तौ कार्त्तिक-देवतेति, कार्त्तिक-देवीति, ऊर्जा-देवीति, उर्जेश्वरीति श्रवणाद् विशेषतः श्री-वृन्दवनेश्वरी-प्रापकत्वम् अवगम्यते ।
अम्बरीष शुक-प्रोक्तं नित्यं भागवतं शृणु इति स्मृतेः क्रमेन श्री-भागवत-श्रवणादेर् नित्य-कृत्यत्वम् उक्तम् । कथा इमास् ते कथिता महीयसाम्11 इत्य् अनन्तरं,
यस् तूत्तम-श्लोक-गुणनुवादः
प्रस्तूयते नित्यम् अमङ्गलघ्नः ।
तम् एव नित्यं शृणुयाद् अभीक्ष्नं
कृष्णेऽमलां भक्तिम् अभीप्समानः ॥ [भा।पु। १२.३.१५]
इति द्वादशोक्तेर् दशम-स्कन्ध-सम्बन्धि-स्व-प्रेष्ठ-श्री-कृष्ण-चरित-श्रवणादेर् यथा-योग्यं नित्य-कृत्यत्वम् अभीक्ष्ण-कृत्यत्वं, भाव-सम्बन्धित्वं च ।
निर्माल्य-तुलसी-गन्ध-चन्दन-माला-वासनादि-धारणानि भाव-सम्बन्धीनि ।
(३द्) तुलसी-काष्ठा-माला-गोपीचन्दनादि-तिलक-नाम-मुद्रा-चरण-चिह्नादि-धरणानि वैष्णव-चिह्नान्य् अनुकूलानि । तुलसी-सेवन-परिक्रमण-प्रणामादीन्य् अप्य् अनुकूलानि ।
(४ए) गवाश्वात्था-धत्री-ब्राह्मणादि-सम्मानानि तद्-भावाविरुद्धानि उपकारकाणि ।
वैष्णव-सेवा तूक्त-समस्त-लक्षणवती ज्ञेया । उक्तान्य् एतानि सर्वाणि कर्तव्यानि । यथैव पोष्यात् कृष्णाद् अपि सकाशात् तत्-पोषकेष्व् आवर्तित-दुग्ध-दधि-नवनीतादिषु व्रजेश्वर्या अधिकैवापेक्षा, श्री-कृष्णं स्व-स्तन्य-पयः पिबन्तं बुभूक्षुम् अप्य् अपहाय तदीय-दुग्धोत्तरणार्थं गतत्वात् । तथैव राग-वर्त्मानुगमन-रसाभिज्ञ-भक्तानां पोष्येभ्यः श्रवण-कीर्तनादिभ्योऽपि तत्-पोषकेष्व् एतेषु सर्वेषु परम् एवापेक्षणं नैवानुचितम् ।
(फ़्) अहङ्ग्रहोपासना-न्यास-मुद्रा-द्वारका-ध्यान-महिष्य्-अर्चनादीन्य् अपकारकाणि न कर्तव्यानि ।
(ग्) पुराणान्तर-कथा-श्रवणादीनि तटस्थानि ।
अत्र भक्तेः सच्-चिद्-आनन्द-रूपत्वान् निर्विकारत्वेऽपि यद् उपादानत्वादिकं, तत् खलु दुर्वितर्क्यत्वाद् एव भक्ति-शास्त्रेषु तत्र प्रेम-विलासाः स्युर् भाव-स्नेहादयस् तु षट् इत्य्-आदिषु विलास-शब्देन व्यञ्जितं, यथा रस-शास्त्रे विभावादि-शब्देनात्र खलु सुख-बोधार्थम् एव उपादानादि-शब्द एव प्रयुक्त इति क्षन्तव्यं सद्भिः ॥१४॥
—ओ)०(ओ—
(२)
-
मात्र-पदस्य विधि-मार्गे कुत्रचित् कर्मादि-समर्पणम् अपि द्वारं भवतीति तद्-विच्छेदार्थः प्रयोग इति । ↩︎
-
कथं मां पश्यन्तीत्य् अतस् तद्-उपायं स-दृष्टान्तम् आह—यथेति । मनुष्या गुणेषु गुणमये जगति निर्गुणं त्वां योगैर् भक्त्याहम् एकया ग्राह्य इति त्वद्-उक्तेर् भक्ति-भेदैः अधियन्ति प्राप्नुवन्ति बुद्ध्या त्वद्-दत्तया वदन्ति च । तया सहोक्ति-प्रत्युक्तौ कुर्वन्ति । एधसि काष्ठे अग्निं मन्थनेन यथेति मन्थनम् अपि गुरूपदेशेनैव यथा जानन्ति, तथैव श्री-गुरूपदिष्टया श्रवण-कीर्तनादि-भक्त्या मनो मन्थनेन मुहुर् मथितया त्वां पश्यन्ति ।
यस्य स्वरूपं कवयो विपश्चितो
गुणेषु दारुष्व् इव जात-वेदसम् ।
मथ्नन्ति मथ्ना मनसा दिदृक्षवो
गूढं क्रियार्थैर् नम ईरितात्मने ॥ [भा।पु। ५.१८.३६] इति पञ्चमोक्तेः । साधु-साहाय्य-भूयस्त्वे त्व् अल्पायासेनैवेत्य् अत्र दृष्टान्तः—गोषु अमृतं दग्धं दोहनेन यथेति वत्स-मुख-सङ्घृष्टा पीन-प्रस्तुतम् इत्य् अर्थः । प्राचीन-भक्ति-बीज-सद्-भावे तु भक्ति-बाहुल्य-प्राप्त्यैव त्वत्-प्राप्तिर् इत्य् अत्र दृष्टान्तः—भुवि अन्नं कर्षणादिना यथा । प्राचीन-साधु-सङ्ग-बहु-भक्ति-सद्-भावे तु प्रतिबन्धकाभाव एव त्वत्-प्राप्तिर् इत्य् अत्र दृष्टान्तः—अम्बु जलं खननात् तद्-आवरक-मृत्तिकादि-दूरीकरणेन यथेति । लब्ध-भक्तीनां तु भजन-मात्रेण नित्यम् एव त्वत्-प्राप्तिर् इत्य् अत्र दृष्टान्तः—उद्यमने वृत्तिं नर्तक-गायकादीनां प्रति स्व-शिल्पोद्यमेनैव जीविकां यथेति ॥१२॥ ↩︎
-
आदि-भजनम् आरभ्य केवलया भक्त्यैवात्म-शोधन-तारतम्येन श्रवण-कीर्तन-स्मरणादि-तारतम्यात् मन्-माधुर्यानुभव-तारतम्यं प्राप्नोतीत्य् आह—यथा यथेति । तत्त्व-सूक्ष्मं तत्त्वं मद्-रूप-लीलादि-स्वरूपं सूक्ष्मं तन्-माधुर्यानुभव-विशेषं तयोर् द्वन्द्वैक्यम् । यद् वा, सूक्ष्मं तत्त्वं पूर्व-निपाताभाव आर्षः । चक्षुर् यथेति प्रथमम् अन्धात् काणोऽप्य् उत्तमः, तस्मात् चक्षुष्मान्, चक्षुष्मतोऽपि सिद्धाञ्जन-रसाञ्जित-नेत्रः सूक्ष्मं पश्यति । ↩︎
-
अथ रागानुगायाः परिपाटीम् आह–कृष्णम् इत्य्-आदिना । प्रेष्ठं स्व-प्रियतमं किशोरं नन्द-नन्दनं स्मरन्, एवम् अस्य तादृश-कृष्णस्य भक्त-जनम् । अथ च स्वस्य सम्यग्-ईहितं स्व-समान-वासनम् इति यावत् । तथा च तादृशं जनं स्मरन् व्रजे वासं कुर्यात् । सामर्थ्ये सति श्रीमन्-नन्द-व्रजावास-स्थाने श्री-वृन्दावनादौ शरीरेण वासं कुर्यात्, तद्-अभावे मनसापीत्य् अर्थः ॥२९४॥ ↩︎
-
साधक-रूपेण यथावस्थित-देहेन । सिद्ध-रूपेण अन्तश्-चिन्तिताभीष्ट-तत्-सेवोपयोगि-देहेन । तस्य व्रजस्थस्य निजाभीष्टस्य श्री-कृष्णस्य यो भावो रति-विशेषस् तल्-लिप्सुना । व्रज-लोकास् त्व् अत्र कृष्ण-प्रेष्ठ-जना श्री-राधा-ललिता-विशाखा-श्री-रूप-मञ्जर्य्-आद्यास् तद्-अनुगताः श्री-रूप-सनातन-गोस्वामि-प्रभृतयश् च, तेषाम् अनुसारतः । तथा च, सिद्ध-रूपेण मानसी-सेवा श्री-राधा-ललिता-विशाखा-श्री-रूप-मञ्जर्य्-आदीनां अनुसारेण कर्तव्या । साधक-रूपेण कायिक्य्-आदि-सेवा तु श्री-रूप-सनातनादि-व्रज-वासि-जनानाम् अनुसारेण कर्तव्येत्य् अर्थः । एतेन व्रज-लोक-पदेन व्रज-स्थ-श्री-राधा-चन्द्रावल्य्-आद्या एव ग्राह्याः । तासाम् अनुसारेणैव साधक-देहेन कायिक्य्-आदि-सेवापि कर्तव्या । एवं सति ताभिर् गुरु-पादाश्रयणैकादशी-व्रत-शालग्राम-तुलसी-सेवादयो न कृताः । तद्-अनुगतैर् अस्माभिर् अपि न कर्तव्या इत्य् आधुनिक-सौरम्य-मतम् अपि निरस्तम् । अतएव श्री-जीव-गोस्वामि-चरणैर् अप्य् अस्य ग्रन्थस्य टीकायां दुर्गम-सङ्गमनी-नाम्न्यां तथैवोक्तम् । तद् यथा—व्रज-लोकास् त्व् अत्र कृष्ण-प्रेष्ठ-जनास् तद्-अनुगताश् च तद्-अनुसारतः ॥२९५॥ ↩︎
-
श्रवणोत्कीर्तनादीनि गुरु-पादाश्रयणादीनि त्व् आक्षेप-लब्धानि । तानि विना व्रज-लोकानुगत्यादिकं किम् अपि न सिद्ध्येद् इत्य् अर्थः । मनीषिभिर् इति मनीषया विमृश्यैव स्वीय-भाव-समुचितान्य् एव तानि कार्याणि, न तु तद्-विरुद्धानि । तानि चार्चन-भक्ताव् अहङ्ग्रहोपासन-मुद्रा-न्यास-द्वारका-ध्यान-रुक्मिण्य्-आदि-पूजनानि आगम-शास्त्र-विहितान्य् अपि नैव कार्याणि । भक्ति-मार्गेऽस्मिन् किञ्चित् किञ्चिद् अङ्ग-वैकल्येऽपि दोषाभाव-श्रवणात् । यद् उक्तम् एकादशे—
यान् आस्थाय नरो राजन् न प्रमाद्येत कर्हिचित् ।
धावन् निमील्य वा नेत्रे न स्खलेन् न पतेद् इह ॥ [भा।पु। ११.२.३५] न ह्य् अङ्गोपक्रमे धंसो मद्-धर्मस्य [भा।पु। ११.२९.२०] इत्य्-आदि ॥२९६॥ ↩︎
-
य इति पुंलिङ्गत्वेन निर्देशो जन-मात्र-विवक्षया, स्त्री वा पुमान् वेत्य् अर्थः । साक्षात् श्री-कृष्णेन सह रमणेच्छायां लोभस्य प्रवर्तकत्वेऽपि निज-भाव-प्रातिकूल्यानि तानि सर्वाणि शास्त्र-विहितानीति त्यागानौचित्यम् इति बुद्ध्या यदि करोति, तदा द्वारका-पुरे महिषी-परिजनत्वं प्राप्नोतीत्य् आह—रिरंसाम् इति । केवलेनैव साकल्येनैवेति यावत् । न तु निज-भाव-प्रतिकूलान् महिषी-पूजा-द्वारका-ध्यानादीन् कांश्चित् कांश्चित् अंशान् परित्यज्येति । अत्र एव-कारार्थः निर्णीते केवलम् इति त्रि-लिङ्गं त्व् एक-कृत्स्नयोः इत्य् अमरः । येषां तु वृन्दावने राधा-कृष्णयोर् माधुर्यास्वादनेऽभिलाषः, अथ च न्यास-मुद्रादि-वैधी-मार्गानुसारेण भजनं, तेषां द्वारकायां न रुक्मिणी-कान्तस्य प्राप्तिस् तत्राभिलाषाभावात् । न वा वृन्दावने श्री-राधा-कृष्णयोः प्राप्तिः, राग-मार्गेण भजनाभावात् । तस्मात् तेषां विधि-मार्गेण भजन-कार्यस्य ऐश्वर्य-ज्ञानस्य प्राधान्यं यत्र, यथाभूतस्य वृन्दावनस्यांशे गोलोके राधा-कृष्णयोः प्राप्तिः । न तु शुद्ध-माधुर्य-मये वृन्दावने इति ज्ञेयम् । गोलोके श्री-वृन्दावनस्यांशत्वं श्री-प्रभु-वरै रूप-गोस्वामि-चरणैः स्तव-मालायाम् उपश्लोकितम् । स च श्लोको, यथा नन्दापहरणे—
लोको रम्यः कोऽपि वृन्दाटवीतो
नास्ति क्वापीत्य् अञ्जसा बन्धु-वर्गम् ।
वैकुण्ठं यः सुष्ठु सन्दर्श्य भूयो
गोष्ठं निन्ये पातु स त्वां मुकुन्दः ॥ इति । अत्र वैकुण्ठ-पदं कृष्ण-वैकुण्ठ-गोलोक-परम् एव । यतो वृन्दावनस्य माधुर्योत्कर्ष-दर्शनार्थं बन्धु-वर्गाणां गोपानां कृष्ण-वैकुण्ठे गोलोके श्री-कृष्ण-प्रेरित-गमनं दशमे वर्णितम् । तद्-वर्णनं, यथा—
दर्शयामास लोकं स्वं गोपानां तमसः परम् ॥ [भा।पु। १०.२८.१४]
ते तु ब्रह्म-ह्रदं नीता मग्नाः कृष्णेन चोद्धृताः ।
ददृशुर् ब्रह्मणो लोकं यत्राक्रूरोऽध्यगात् पुरा ॥
नन्दादयस् तु तं दृष्ट्वा परमानन्द-निर्वृताः ।
कृष्णं च तत्र च्छन्दोभिः स्तूयमानं सुविस्मिताः ॥ [भा।पु। १०.२८.१६-७] अत्र ब्रह्मणो नराकृति-पर-ब्रह्मणः श्री-कृष्णस्य लोकं गोलोकम् एव । न तु रमा-वैकुण्ठम् । पूर्वत्र स्वं लोकम् इत्य् अत्र स्वस्य श्री-कृष्णस्य लोकम् इति व्याख्यया रमा-वैकुण्ठस्य कृष्ण-लोकत्वाभावात् । तथा कृष्णं च तत्र च्छन्दोभिः स्तूयमानम् इत्य् उक्त्या रमा-वैकुण्ठे कृष्ण-लीलाया असम्भवाच् च । ब्रह्म-लोक-पदेन गोलोक एव व्याख्यातः । वैष्णव-तोषण्याम् अपि तथा व्याख्यातम् । इदम् एव लघु-भागवतामृते यत् तु गोलोक-नाम स्यात् तच् च गोकुल-वैभवम् [१.५.४९८] तद्-आत्म-वैभवत्वं च तस्य तन्-महिमोन्नतेः [१.५.५०२] इति । अस्यार्थः—तु भिन्नोपक्रमे । यद् गोलोक-नाम गोलोक-संज्ञकं तच् च तत् तु गोकुल-वैभवम् । गोकुलस्य महा-माधुर्यत्वेन ख्यातस्य वैभवं वैभव-रूपोऽंशः । अत एव तस्य गोलोकस्य तद्-आत्म-वैभवत्वं गोकुल-स्ववैभव-रूपत्वं भवति । गोलोको गोकुलस्य स्व-वैभव-रूपो भवतीत्य् अर्थः । कुतः ? तन्-महिमोन्नतेः । ततो गोलोकात् सकाशात् महिमाधिक्याद् इति । यथा यथा पाताल-खण्डे—
अहो मधुपुरी धन्या वैकुण्ठाद् अपि गरीयसी ।
दिनम् एकं निवासेन हरौ भक्तिः प्रजायते ॥ इति । अत्र वैकुण्ठ-शब्देन गोलोक एव तैर् अभिप्रेतो ज्ञेयः । तस्य तन्-महिमोन्नतेर् इत्य् अनन्तरं यथा पाताल-खण्डे अहो मधुपुरीत्य् आद्य्-उक्तेः । तदेति कदाचिद् अविलम्बेनैव, न तु रागानुगावच् छैघ्रेण इत्य् अर्थः ॥३०३॥ ↩︎
-
शृण्वन् सुभद्राणि रथाङ्ग-पाणेर् जन्मानि कर्माणि च यानि लोके । गीतानि नामानि तद्-अर्थकानि गायन् विलज्जो विचरेद् असङ्गः ॥ ↩︎
-
शृण्वन्ति गायन्ति गृणन्त्य् अभीक्ष्णशः स्मरन्ति नन्दन्ति तवेहितं जनाः । त एव पश्यन्त्य् अचिरेण तावकं भव-प्रवाहोपरमं पदाम्बुजम् ॥ ↩︎
-
मद्-अर्थेऽर्थ-परित्यागो भोगस्य च सुखस्य च । इष्टं दत्तं हुतं जप्तं मद्-अर्थं यद् व्रतं तपः ॥ ↩︎
-
कथा इमास् ते कथिता महीयसां विताय लोकेषु यशः परेयुषाम् विज्ञान-वैराग्य-विवक्षया विभो वचो-विभूतीर् न तु पारमार्थ्यम् ॥ [१२.३.१४] ↩︎