०८

अष्टम्य् अमृत-वृष्टिः
अथ तस्या एव भक्ति-कल्प-वल्ल्याः साधनाभिख्ये ये पूर्वं द्वे पत्रिके लक्षिते, इदानीं ततोऽतिचिक्कणानि तादृश-श्रवण-कीर्तनादि-मयानि भाव-कुसुम-संलग्नानि अनुभावाभिधानानि बहूनि पत्राणि सहसैवाविर्भूय क्षणे क्षणे द्योतयन्ति । यान्य् एव भाव-कुसुमं परिणामं प्रापय्य पुनस् तदैव प्रेमाभिधान-फलत्वम् आनयन्ति ।
किं च, आश्चर्य-चर्येयं भक्ति-कल्प-वल्ली यस्याः पत्र-स्तवक-पुष्प-फलानि प्राप्त-परिणतीन्य् अपि स्व-स्वरूपम् अत्यजन्त्य् एव नव-नवान्य् एव सहैव सर्वाणि विभ्राजन्ते । ततश् चास्य भक्त-जनस्यात्मात्मीय-गृह-वित्तादिषु शत-सहस्रशो भवत्यो याश् चित्त-वृत्तयो ममता-रज्जुभिस् तेषु तेषु निबद्धा एव पूर्वम् आसन्, ता एव चित्त-वृत्तीः सर्वा एव ततस् ततोऽवहेलयैवोन्मोच्य, स्व-शक्त्या मायिकीर् अपि ता महा-रस-कूप-स्पृश्यमान-पदार्थ-मात्राणीव साकार-चिद्-आनन्द-ज्योतिर्मयीकृत्य, ताभिर् एव ममताभिः सर्वाभिस् ततस् ततो विचिताभिः स्व-शक्त्यैव तथाभूती-कृताभिः श्री-भगवद्-रूप-नाम-गुण-माधुर्येषु यो निबध्नाति, सोऽयं प्रेम-महा-किरण-मालीव उदयिष्यमाण एव निखिल-पुरुषार्थ-नक्षत्र-मण्डलीः सहसैव विलापयति ॥१॥

फल-भूतस्यास्य यः स्वाद्यमानो रसः, स सान्द्रानन्द-विशेषात्मा । रसस्य परम-पौष्टिकी शक्तिः श्री-कृष्णाकर्षिणीत्य् उच्यते । यस्मिन् आस्वादयितुम् आरभ्यमाण एव विघ्नान् न गणयतीति किं वक्तव्यम् ? महा-शूरो भट इव, महा-धन-गृध्नुर् अत्यावेश-लुप्त-विचारस् तस्कर इव स्वात्मानम् अपि नावेक्षते । किं च, रात्रिन्दिवम् एव प्रतिक्षणम् अभ्यवह्रियमाणैश् चतुर्विधैः परम-स्वादुभिर् अपरिमितैर् अन्नैर् अपि दुरुपशमनीया यदि काचित् क्षुधा सम्भवेत्, तत्-सदृश्या उत्कण्ठया सूर्य इव तापयन्, तत्-काल एव स्फूर्तेर् आविर्भावितानि भगवद्-रूप-गुण-माधुर्याण्य् अपाराण्य् आस्वाद-विषयी-कारयन् कोटि-चन्द्र इव शिशिरायति ॥२॥

युगपद् एव स्वाधारम् अद्भुतोऽयं प्रेमा उदित्य च यस्मिन्न् ईषद् एव वर्धमाने भगवत्-साक्षात्कारम् एव प्रतिक्षणम् आकाङ्क्षतो भक्तस्य उत्कण्ठा-शल्यस्य महा-दाहकस्येवातिप्राबल्योदयात् स्फूर्ति-प्राप्त-तद्-रूप-लीला-माधुर्यैर् अपि अतृप्तस्य तस्य बान्धवोऽपि निरुदकान्ध-कूप एव, भवनम् अपि कण्टक-वनम् एव, यत्-किञ्चनाभ्यवहारोऽपि प्रहारो महान् एव, सज्जन-कृत-प्रशंसा अपि सर्प-दंशा एव, प्रात्याहिक-कृत्य-कर्तव्यम् अपि मर्तव्यम् एव, अङ्ग-प्रत्यङ्गानि अपि महा-भार एव, सुहृद्-गण-सान्त्वनम् अपि विष-दृष्ट1 एव, सदा जागरोऽपि सागरोऽनुतापस्यैव, कदाचित् निद्रापि विद्राविणी जीवनस्यैव, स्व-विग्रहोऽपि भगवन्-निग्रहो मूर्त एव, प्राणा अपि धानाः पुनः पुनर् भृष्टा एव । किं बहुना ? प्राक् सदैवाभीष्टम् आसीद् यत् तच् च रहो महोपद्रव एव, भगवच्-चिन्तनम् एवात्म-निकृन्तनम् एव ॥३॥

ततश् च प्रेमैव चुम्बकी-भावम् आपद्य कार्ष्णायसीभूतं कृष्णम् आकृष्यानीय कस्मिंश्चन क्षणे भक्तस्यास्य नयन-गोचरीकरोति । तत्र च सौन्दर्य-सौरभ्य-सौस्वर्य-सौकुमार्य-सौरस्यौदार्य-कारुण्यानीति स्वीयाः स्वरूप-भूताः परम-कल्याण-गुणाः भगवता स्व-भक्तस्य तस्य नयनादिष्व् इन्द्रियेषु निधीयन्ते । तेषां च परम-मधुरत्वे नित्य-नवत्वे च भक्तस्यास्य च तद्-आस्वादयितुः प्रेम्णैव प्रवर्तमाने प्रतिक्षण-वर्धिष्णौ महोत्कण्ठायां च कोऽप्य् आनन्द-महोदधिर् आविर्भवन् नार्हति कवि-सरस्वती-लकुट्या परिमेयताम् । यथा हि— अतिनिविडतर-विटप-दल-कुल-प्रवलित-महा-न्यग्रोध-तलस्य सुर-दीर्घिका-हिम-सलिल-सम्भृत-घट-शत-वलयित-तटस्यातिशिशिरत्वे तद्-आश्रयितुर् जनस्य च, तपर्तु-तरणि-किरण-तप्त-मरु-सरणि-महा-पान्थत्वे च, तथा कादम्बिनी-घनासारस्यापारत्व इव तद्-अभिषिच्यमानस्य वन-मतङ्गजस्य चिरन्तन-दव-दवथु-दूनत्वे च, तथा सुधा-किरणस्यातिमधुरत्वे तत्-पान-कर्तुश् च महारोग-शतवत्त्वे स्वाद-लोलुपत्वे च, यस् तादात्मिक आनन्दः, स एव दिग्-दर्शनार्थं तस्योपमानीक्रियते ॥४॥

तत्र प्रथमं लब्धापार-चमत्कारस्य भक्तस्य लोचनयोः स्व-सौन्दर्यं प्रकाश्यते प्रभुणा ।
ततस् तन्-माधुर्येण सर्वेन्द्रियाणां मनसश् च लोचन-मयी-भावे प्रवर्तिते स्तम्भ-कम्प-बाष्पादिभिः कृत-विघ्नश् च तस्यानन्द-कृत-मूर्च्छायां जातायां प्रबोधयितुम् इव द्वितीयं सौरभ्यं तदीय-घ्राणेन्द्रियेषु प्रकाश्यते ।
तेनापि तेषां घ्राण-मयी-भावे द्वितीय-मूर्च्छारम्भे—“अरे मद्-भक्त ! तवाहम् एव सम्पद्यमानोऽस्मि मा विह्वली-भूः ! निकामं माम् अनुभव” इति तृतीयं सौन्दर्यं श्रवणेन्द्रिय-ग्राह्यम् आविर्भाव्यते ।
पुनस् तेनापि तेषां श्रवण-मयी-भावे तृतीय-मूर्च्छोपक्रमे कृपया चरणारविन्देन पाणिभ्याम् उरसा च स्व-स्पर्शं दत्त्वा चतुर्थं स्व-सौकुमार्यम् असाव् अनुभाव्यते । तत्र दास्य-भाववतस् तस्य मूर्ध्नि चरणेन स्पर्शः, सख्य-भावतः पाण्योः पाणिभ्यां, वात्सल्य-भाववतः स्व-कर-तलेनाश्रु-मार्जनं, प्रेयसी-भाववतस् तु उरसि स्व-वक्षसा बाहुभ्याम् आश्लेषः क्रियते इति भेदो बोध्यः ॥५॥

पुनश् च तेनापि तथा तथैव चतुर्थ-महा-मूर्च्छारम्भे पञ्चमं स्वाधर-सम्बन्धि सौरस्यं तदीय-रसनेन्द्रिय-ग्राह्यं, प्रेयसी-भाववत्य् एव तत्-काल-प्रादुर्भूत-तद्-अभीष्टाकारवति जन2 एव प्रकाश्यते, नान्यत्र ।

ततश् च पूर्ववद् एव तथा-तथा-भावेऽपि तदातन्यास् त्व् आनन्द-मूर्च्छायास् त्व् अतिनैविड्ये जाते ततः प्रबोधयितुम् असमर्थेनेव भगवता षष्ठम् औदार्यं वितन्यते । तच् च तेषाम् एव सौन्दर्यादीनां सर्वेषाम् एव तन्-नयनादि-सर्वेन्द्रियेष्व् एव युगपद् एव बलाद् वितरणम् ।
तदैव भगवद्-इङ्गित-ज्ञेनेव प्रेम्नाप्य् अतिवर्धमानेन सता तद्-अनुरूप-तृष्णातिरेकं संवर्ध्यापि तत्र भक्ते स्वयं चन्द्रत्वम् उपेयुषा युगपद् एवानन्द-समुद्र-शत-लहरी-व्यतिसंमर्द-भर-जर्जरितत्वम् इव तस्य अन्तः3 निर्मिमाणेन स्वयम् एव साकार-तन्-मनोऽधिदैवती-भवतेव तथा स्व-शक्तिर् वितीर्यते यथा यौगपद्येनैव ते ते स्वादा निर्विवादा एव भवन्ति ।

न चैवं मनसोऽनेकाग्रत्वेन तत्-तद्-आस्वादस्यासान्द्रतेति वाच्यम् । प्रत्युत सौन्दर्य-सौस्वर्यादीन् प्रति सर्वेन्द्रियाणाम् एव नयनी-भाव-श्रवणी-भावाद्या एकदैव बोभूयमाना अलौकिकाचिन्त्याद्भुत-चमत्कारम् एवातन्वतः स्वादस्यातिसान्द्रत्वम् एव कुर्वन्ति । नैवास्ति तत्र लौकिकानुभव-तर्क-दाव-दवथोर् अवकाशोऽपि, अचिन्त्याः खलु ये भावा न तांस् तर्केण योजयेद् इत्य् आदेः ॥६॥ (२)
ततश् च, सौन्दर्यादीनां यावन्ति माधुर्याणि तेषां सामस्त्येनानुबुभूषाव् अपि अस्मिन् भक्त-चातक-चञ्चु-पटे जलद-बिन्द्व्-आवलीव न मान्ति तानि विमृश्य “अहो तर्हि मयैतानि सौन्दर्यादीन्य् एतावन्ति किम्-अर्थं धृतानि” इति तेषां सम्भोजनायैव सप्तमं सर्व-शक्ति-कदम्ब-परमाध्यक्षाया आगमादाव् अपि विमलोत्कर्षिण्य्-आदीनाम् अष्ट-दिग्-दलेषु वर्तमानानां स्वरूप-शक्तीनां मध्य एव कर्णिकायां महाराज-चक्रवर्तिन्या इव स्थिताया ह्य् अनुग्रहाभिधानत्वेनोक्ताया भगवतो नयनारविन्द एव आत्मानं व्यञ्जयन्त्याः कृपा-शक्तेर् विलसितं क्वचित् दासादौ वात्सल्यम् इति, क्वचित् कारुण्यम् इति, प्रियादौ चेतो-द्रव इति, क्वचिद् अनु कति-नाम्नाभिधीयमानम् उदयते । ययैव कृपा-शक्त्या सर्व-व्यापिन्य् अपि तदीयेच्छा-शक्तिः साधुषु साध्व् एवं रञ्जिता परमात्मारामान् अपि महा-चमत्कृति-भूमीर् अध्यारोहयति । ययैव भगवतो भक्त-वात्सल्यं नाम एक एव गुणः सम्राड् इव प्रथम-स्कन्धे पृथिव्योक्तान् स्वरूप-भूतान् सत्य-शौचादीन् कल्याण-गुणान् शास्ति ॥७॥

मोहस् तन्द्रा भ्रमो रुक्ष-रसता काम उल्बणः ।
लोलता मद-मात्सर्ये हिंसा खेद-परिश्रमौ ॥
असत्यं क्रोध आकाङ्क्षा आशङ्का विश्व-विभ्रमः ।
विषमत्वं परापेक्षा दोषा अष्टादशोदिताः ॥ [भ।र।सि। २.१.२४७-८]
अष्टादश-महा-दोषै रहिता भगवत्-तनुः ॥ [भ।र।सि। २.१.२४६]

भगवति सर्वथा निषिद्धा अप्य् एते दोषा यद्-अनुरोधेन राम-कृष्णाद्य्-अवतारेषु क्वचित् क्वचिद् विद्यमाना एव सन्तो भक्तैर् अनुभूयमाना महा-गुणायन्ते । ततश् च सर्वाण्य् एव तद्-वितीर्णानि सौन्दर्यादीन्य् आस्वादयितुं लब्धौजसि भक्ते आस्वाद्यास्वाद्य च, तां तां चमत्कृति-परम-काष्ठाम् अधिरुह्याधिरुह्य, चाश्रुत-चरं भगवतो भक्त-वात्सल्यम् इदम् इवेति मनसा मुहुर् मुहुर् एवानुभूय, द्रवीभावम् आसेदुषि तस्मिन्॥। ॥८॥

“अरे मद्-भक्त-वर्य4 ! बहूनि जन्मानि मद्-अर्थं दारागार-धनादिकं परित्यज्य मत्-परिचर्यानुरोधेन शीत-वात-क्षुधा-तृष्णा-व्यथा-मयादीन् बहून् एव क्लेशान् सोढवते जनावमानादीन् अप्य् अवगणितवते भिक्षु-चर्यां गृहीतवते भवते किम् अपि दातुम् अशक्नुवन् ऋणी केवलम् अभूवम्। सार्वभौमत्व-पारमेष्ठ्य-योग-सिद्ध्य्-आदिकं च न भवद्-अनुरूपम् इति तत् तत् कथं वितरिष्यामि ? नहि नहि, पशुभ्यो रोचमानं घाष-तुष-बुषादिकं कस्मैचिन् मनुष्याय दीयते ? तद् अहम् अजितोऽपि भवताधुना जित एव वर्ते। न र्ते भवत्-सौशील्य-वल्लीं सम्यग्-अवलम्बनम्।”

इति भगवतो वाङ्-माधुरीं परम-स्निग्ध-वर्णां कर्णावतंसीकृत्य, “प्रभो भगवन्! कृपा-पारावार ! घोर-संसार-प्रवाह-प्रापित-क्लेश-चक्र-नक्र-व्यूह-चर्व्यमाणं मां विलोक्य, कारुण्योद्योत-द्रव-चेतो-नवनीतोऽखिल-लोकातीतो5 भगवन् श्री-गुरु-रूप-धारी मद्-अनाद्य्-अविद्या-विदारि-स्व-दर्शनेन सुदर्शनेनैव तन् निर्भिद्य, तद्-दंष्ट्रा-तटाद् एवोन्मोच्य, निज-चरण-कमल-युगल-दासी-चिकीर्षया स्व-मन्त्र-वर्ण-वीथीं मत्-कर्ण-वीथीं प्रवेश्य, निर्व्यथीकृत्य, मुहुर् मुहुर् अपि स्व-गुण-नाम-श्रवण-कीर्तन-स्मरणादिभिर् मां यद् अशूशुधन् निज-भक्तैर् अपि सङ्गमितैः स्व-सेवाम् अप्य् अबूबुधत्, तद् अपि दुर्मेधोऽहम् अधमतमो दिवसम् एकम् अपि प्रभुं न पर्यचरं, कदर्य-चर्यस् तद् अयं जनो दण्डयितुम् एवार्हः, प्रत्युतैतावद् दर्शन-माधुरीं पायितः ॥९॥

“किं च, ऋणी-भवामीति श्री-मुख-वाण्या प्रभु-वरेण विडम्बितोऽस्मीति मन्येऽहं । तत् किं करोमि ? पञ्च वा सप्ताष्टाथवा लक्ष-कोटयोऽपि यद्य् अपराधा भवेयुः, तद् अपि तां सम्प्रति क्षमयितुं धार्ष्ट्यम् आलम्बेत माम् । परार्धतोऽप्य् अधिकांस् तान् अवधारयामि ।
“किं च, ते तेऽतिप्रबलाश् चिरन्तना भुक्त-भोक्तव्य-फला वर्तन्तां नाम । सम्प्रति पूर्वेद्युर् एव नीरदेन नील-नीरजेन नील-मणिना श्रीमद्-अङ्गस्य, चन्द्रमसा श्री-मुखस्य, नव-पल्लवेन श्री-चरणस्य, द्युतिम् उपमिमानेन मया दग्ध-सर्षपार्धेन कनक-शिखरिणम् इव चणक-कणेन चिन्तामणिम् इव फेरुणा केशरिणम् इव मशकेन गरुत्त्वन्तम् इव समीकुर्वता दुर्बुद्धिना स्पष्टम् अपराद्धम् एवेत्य् अधुनैवावगतम् । तदा तु प्रभुम् अहं स्तौमीति स्वीयम् अविद्वत्त्वम् अपि कवित्वम् एतद् इति जनेष्व् अपि प्रख्यापितम् । अतः परन्तु मद्-ईक्षणेन क्षणेन समीक्षित-श्री-मूर्ति-रूपेण वैभवेन जवेन तर्ज्यमाना धैर्य-रहिता गौर् इव मे गौः श्रीमत्-सौन्दर्य-कल्प-वल्लीम् उपमान-रदनैर् दूषयितुं न प्रभविष्यति ।”
इत्य् एवं बहु-विधं शंसति तस्मिन्न् अतिप्रसन्नेन भगवता पुनर् अपि प्रेयस्य्-आदि-भावतस् तस्य यथा-सम्भवम् अभीप्सितं तादात्मिक-तत्-स्व-विलास-विलक्षितं श्री-वृन्दावनं कल्प-शाखिनं महा-योग-पीठं स्व-प्रेयसी-वृन्द-मुख्यां श्री-वृषभानु-नन्दिनीं तत्-सखीः श्री-ललिताद्यास् तत्-किङ्करीर् अपि स्व-वयस्यान् श्री-सुबलादीन् स्व-पाल्यमाना नैचिकीश् च श्री-यमुनां श्री-गोवर्धनं भाण्डीरं च नन्दीश्वर-गिरिं तत्रत्य-जनक-जननी-भ्रातृ-बन्धु-दासादीन् सर्वान् एव व्रजौकसो रसोत्कर्षेण दर्शयित्वा तत्-तद्-आनन्द-महा-मोह-तरङ्गिन्यां तं निमग्नीकृत्य स्वयं परिकरेणान्तर्धीयते ॥१०॥

ततश् च कियद्भिः क्षणैर् लब्ध-प्रबोधः पुनर् अपि प्रभुं दिदृक्षुर् लोचन-मुद्राम् उन्मोच्य, तं नावलोकयन्न् आत्मानम् अश्रुभिर् अभिषिञ्चन् ।

“किम् अयं स्वप्न आलोकितः? नहि नहि, शय्यालस्य-नयन-कालुष्याद्य्-अभावात् ।
किम् इयं कस्यचिन् माया? नहि नहि, एतादृशानन्दस्य मायिकत्वासम्भवात् ।
किं वा, चित्तस्यैव भ्रम-मयी कापि वृत्तिः? नहि नहि, लय-विक्षेपाद्य्-अननुभवात् ।
किं वा, मनोरथ-परिपाक-प्राप्तोऽयं वस्तु-विशेषः? नहि नहि, ईदृश-पदार्थस्य सीम्नोऽपि कदापि मनोरथेनाधिरोढुम् अशक्यत्वात् ।
स्फूर्ति-लब्धोऽयं भगवत्-साक्षात्कारो वा? नहि नहि, सम्प्रति स्मर्यमाणाभ्यः पूर्व-पूर्वोद्भुताभ्यः स्फूर्तिभ्योऽस्यातिवैलक्षण्यात् ।”

इत्य् एवं विविधम् एव संशयानः । शयान एव धूलि-धोरणि-धूसरायां धरणौ, “यथा तथास्तु पुनर् अपि तद्-दर्शनं मे भूयात्” इति मुहुर् आशासानोऽपि तद्-अनुपलभमानः खिद्यन्, लुठन्, रुदन्, गात्राणि व्रणयन्, मूर्च्छयन्, प्रबुध्यमान, उत्तिष्ठन्, उपविशन्, अभिद्रवन्, क्रोशन् उन्मत्त इव, क्षणं तूष्णीम् आसीनो मनीषीव, क्षणं लुप्त-नित्य-क्रियो भ्रष्टाचार इव, क्षणम् असम्बद्धं प्रलपन् ग्रह-ग्रस्त इव, क्षणं कस्मैचिद् आश्वासकाय निभृतं पृच्छते भक्त-जनाय स्व-बन्धवे स्वानुभूतम् अर्थं ब्रुवाणः, क्षणं प्रकृति-स्थ इव, “सखे भूरि-भाग ! भगवत्-साक्षात्कार एवायं तवाभवत्,” इति तेन युक्त्या प्रतोष्यमाणो हृष्यन्न् एव, “हन्त तर्हि कथम् एव पुनर् न भवति ?” इति तदैव विषीदन्, “हन्त कस्यचिन् महानुभाव-चूडामणेर् महा-भागवतस्य कापि कृपा-वितान-परिणतिर् वा, दुर्भागस्यापि मे भगवत्-परिचर्याया घूणाक्षर-न्यायेन वा, कस्मिंश्चिद् दिवसे कथंचिद् उत्पन्नाया निष्कैतवतायाः फलम् इदं वा । किं वा, वैगुण्य-समुद्रेऽपि क्षुद्रे मयि भगवद्-अनुकम्पाया निरुपाधित्वम् एव मूर्तं प्रकटीबभूव ।
“हन्त हन्त ! केन वा अनिर्वचनीय-भाग्येन स्वयं हस्त-प्राप्तो निधिर् अजनि । केन वा महापराधेन ततश् च्युतम् इति निश्चेतुं निश्चेतनोऽहं न प्रभवामि। तद्-बाधा-बाधित-धीः क्व यामि ? किं वा करोमि ? कम् उपायम् अत्र कम् इह वा पृच्छामि ? महा-शून्यम् इव निरात्मकम् इव निःशरणम् इव दाव-प्लुष्टम् इव मां निगिलद् इव त्रिभुवनम् अवलोके । लोकेभ्यो निःसृत्य तद् एभ्यः क्षणं विविक्ते प्रणिदधामीति ।”
तथा6 कुर्वन्, “हा प्रभो ! सुन्दर-मुखारविन्द-माधुरीक-सुधा-धारा-धुरीण-भावित-वासित-निखिल-विपिन-श्री-विग्रह-वर-परिमल-वन-माल-चटुलितालि-जाल ! पुनर् अपि क्षणम् अपि तत्रभवन्तं दृश्यासम् । सकृद् एव च स्वादित एव, स्वादित-तन्-माधुरीको न पुनर् एवम् अभ्यर्थयिष्ये,” इति विलपन् लुठन् श्वसन् मूर्च्छन्न् उन्माद्यन् प्रतिदिशम् एव तं पश्यन्, हृष्यन्, श्लिष्यन्, हसन्, अटन्, गायन्, पुनर् अप्य् अनीक्षंआणोऽनुतपन्, रुदन्, अलौकिक-चेष्टित एवायूंषि नयन्, स्व-देहोऽप्य् अस्ति नास्ति वा नानुसन्दधते ।

ततश् च समये पञ्चतां गच्छतं स्व-देहं न जानन्, “मयाभ्यर्थितः स एव करुणा-वरुणालयस् तथैव प्रत्यक्षीभूय साक्षात् सेवायां मां नियुञ्जानः स्व-भवनं नयति,” इति जानन् कृत-कृत्यो भक्तो भवतीति ॥११॥

आदौ श्रद्धा ततः साधु-सङ्गोऽथ भजन-क्रिया ।
ततोऽनर्थ-निवृत्तिः स्यात् ततो निष्ठा रुचिस् ततः ।
अथासक्तिस् ततो भावस् ततः प्रेमाभ्युदञ्चति ॥ [भ।र।सि। १.४.१५-१६]

इत्य् अर्थः साधु विवृतः । अतोऽपि यथोत्तर-स्वादु-वैशिष्ट्य-भाजित-स्नेह-मान-प्रणय-रागानुराग-महा-भावाख्यानि भक्ति-कल्प-वल्ल्या ऊर्ध्वोर्ध्व-पल्लव-गामीनि फलानि सन्ति। न तेषाम् आस्वाद-सम्पद्-औष्ण-शैत्य-संमर्द-सहः साधकस्य देहो भवेद् इति न तेषां तत्र प्राकट्य-सम्भव इति न तान्य् अत्र विवृतानि ।
किं चेह रुच्य्-आसक्ति-भाव-प्रेमसु लक्षयित्वा साक्षाद् अनुभव-गोचरतां प्रापितेषु तत्र सन्त्य् अपि भूरीणि प्रमाणानि नोपन्यस्तानि । प्रमाणापेक्षया ह्य् अनुभव-वर्त्म-पारुष्यापादकत्वात् । किं च, तान्य् अपेक्ष्याणि चेत्,

  • तस्मिंस् तदा लब्ध-रुचेर् महामते [भा।पु। १.५.२७] इति रुचौ,
  • गुणेषु सक्तं बन्धाय रतं वा पुंसि मुक्तये [भा।पु। ३.२५.१५] इति आसक्तौ,
  • प्रिय-श्रवस्य् अङ्ग ममाभवद् रतिः [भा।पु। १.५.२६] इति रतौ ।
  • प्रेमातिभर-निर्भिन्न-पुलकाङ्गोऽतिनिर्वृत इति [भा।पु। १.६.१८] प्रेमणि,
  • ता ये पिबन्त्य् अवितृषो नृप गाढ-कर्णैस् तान् न स्पृशन्त्य् अशन-तृड्-भय-शोक-मोहा [भा।पु। ४.२९.४०] इति रुच्य्-अनुभावे,
  • गायन् विलज्जो विचरेद् असङ्ग [भा।पु। १०.२.३९] इति आसक्त्य्-अनुभावे।
  • यथा भ्राम्यत्ययो ब्रह्मन् स्वयम् आकर्ष-सन्निधौ ।

तथा मे भ्राम्यते चेतश् चक्र-पाणेर् यदृच्छया ॥ [भा।पु। ७.५.१४] इति रुच्य्-अनुभावे,

  • एवं-व्रत इत्य् अत्र हसन्त्य् अथो रोदिति रौति गायति इति [भा।पु। ११.२.४०] प्रेम्णोऽनुभावे,
  • आहूत इव मे शीघ्रं दर्शनं याति चेतसि [भा।पु। १.६.३४] इति तत्र स्फूर्तौ,
  • पश्यन्ति ते मे रुचिराण्य् अम्ब सन्त इति [भा।पु। ३.२५.३५] साक्षाद्-दर्शने,
  • तैर् दर्शनीयावयवैर् उदार-विलास-हासेक्षित-वाम-सूक्तैः [भा।पु। ३.२५.३६] इति लब्ध-दर्शनस्य स्वभावे,
  • वासो यथा परिकृतं मदिराम् अदान्ध [भा।पु। ११.१३.३६] इति चेष्टायां प्रमाणान्य् अनुसन्धाय विचारयितव्यानि ॥१२॥

अत्रेदं तत्त्वं – अहङ्कारस्य द्वे वृत्ती अहन्ता ममता च इति । तयोर् ज्ञानेन लयो मोक्षः देह-गेहादि-विषयत्वे बन्धः । अहं प्रभोर् जनः सेवकोऽस्मि सेव्यो मे प्रभुर् भगवान् सपरिकर एव रूप-गुण-माधुरी-महोदधिर् इति पार्षद-रूप-विग्रह-भगवद्-विग्रहादि-विषयत्वे प्रेमा स हि बन्ध-मोक्षाभ्यां विलक्षण एव पुरुषार्थ-चूडामणिर् इत्य् उच्यते ।
तत्र क्रमः । अहन्ता-ममतयोर् व्यवहारिक्याम् एव वृत्ताव् अतिसान्द्रायां सत्यां संसार एव। अहं वैष्णवो भूयासं प्रभुर् मे भगवान् सेव्यो भवत्व् इति यादृच्छिक्यां श्रद्धा-कणिकायां सत्यां तद्-वृत्तेः पारमार्थिकत्व-गन्धे भक्ताव् अधिकारः । ततः साधु-सङ्गे सति पारमार्थिकत्व-गन्धस्य सान्द्रत्वं व्यवहारे आत्यन्तिकी । ततो भजन-क्रियायाम् अनिष्ठितायां सत्यां तयोः परमार्थे वस्तुन्य् एकदेश-व्यापिनी वृत्तिः व्यवहारे पूर्णैव । तस्यां निष्ठितायां परमार्थे बहुल-देश-व्यापिनी व्यवहारे प्रायिक्य् एव । रुचाव् उत्पन्नायां परमार्थे प्रायिक्य् एव वृत्तिर् व्यवहारे तु बहु-देश-व्यापिनी । आसक्तौ जातायां परमार्थे पूर्णा व्यवहारे तु गन्ध-मात्री । भावे तु परमार्थ एवात्यन्तिकी वृत्तिर् व्यवहारे तु बाधितानुवृत्ति-न्यायेनाभास-मयी । प्रेमणि तयोर् अहन्ता-ममतयोर् वृत्तिः परमार्थे परमात्यन्तिकी व्यवहारे तु नैकापीति ।
एवं च भजन-क्रियायाम् भगवद्-ध्यानं वार्तान्तर-गन्धि क्षणिकम् एव । निष्ठायां तद्-ध्याने वार्तान्तराभासः । रुचौ वार्तान्तर-रहितम् एव तद्-ध्यानं बहुल-काल-व्यापी । आसक्तौ तद्-ध्यानम् अतिसान्द्रम् । भावे ध्यान-मात्रम् एव भगवतः स्फूर्तिः । प्रेमणि स्फूर्तेर् वैलक्षण्यं तद्-दर्शनं चेति ॥१३॥

माधुर्य-वारिधेः कृष्ण-चैतन्याद् उद्धृतैः रसैः ।
इयं धिनोतु माधुर्यमयी कादम्बिनी जगत् ॥१४॥

इति श्री-विश्वनाथ-चक्रवर्ति-विरचितायां माधुर्य-कादम्बिन्यां
पूर्ण-मनोरथो नाम
अष्टम्य् अमृत-वृष्टिः
॥८॥

–ओ)०(ओ–

समाप्तैषा माधुर्य-कादम्बिनी ॥


  1. वृष्ट। ↩︎

  2. अभीष्टाकार-रति-भजन (प्रियछरन् दस्जिऽस् एदितिओन्) ↩︎

  3. थे अब्सेन्चे ओफ़् सन्धि हेरे इस् इन् अल्ल् एदितिओन्स्। गेनेरल्ल्य् स्पेअकिन्ग्, इन् एदितिन्ग् थेसे wओर्क्स्, इ तके सन्धि ओर् थे लच्क् ओफ़् इत् तो चोन्तैन् पुन्च्तुअतिओन् च्लुएस्। चोप्यिस्त्स् ओफ़्तेन् अद्द् ओर् तके ओउत् सन्धि अच्चोर्दिन्ग् तो थेइर् उन्देर्स्तन्दिन्ग् ओफ़् थे थोउघ्त् फ़्लोw, ओर् लच्क् ओफ़् इत्। इ फ़ोल्लोw थिस् त्रदितिओन्। चोम्मेन्तरिअल् तेxत्स् ओफ़्तेन् चोन्तैन् लेस्स् सन्धि। ↩︎

  4. एव (प्रियछरन् दस्जिऽस् एदितिओन्), तद्- इन् थे प्लचे ओफ़् मद्- इन् अल्ल् एदितिओन्स्, बुत् मकेस् नो सेन्से। ↩︎

  5. लोकातीत (अद्) ↩︎

  6. अथ ↩︎