०७

सप्तम्य् अमृत-वृष्टिः
अथ सैवासक्तिः परम-परिणामं प्राप्तवती रत्य्-अपर-पर्यायो भाव इत्य् आख्यां लभते । य एव हि सच्चिदानन्द इति शक्ति-त्रिकस्य स्वरूप-भूतस्य कन्दली-भावं भजते1 । यम् एव खलु भक्ति-कल्प-वल्ल्या उत्फुल्लं प्रसूनम् आचक्षते । यस्य च बाह्यैव प्रभा सर्वैः सुदुर्लभा, आभ्यन्तरी तु मोक्षम् अपि लघूकरोति । यस्य च परमाणुर् एक एव तमः समस्तम् उन्मूलयति । यस्य परिमलैः प्रसृमरैः मधुसूदनं निमन्त्र्यानीय तत्र प्रकटीकर्तुं प्रभूयते । किं बहुना, यैर् एव वासिताश् चित्त-वृत्ति-तिल-विततयो द्रवीभावम् आसाद्य, सद्य एव भगवद्-अङ्गम् अखिलम् स्नेहयितुं योग्यतां दधते । यः खल्व् आविर्भवन्न् एव स्वाधारं श्वपचम् अपि ब्रह्मादेर् अपि नमस्यत्वम् आपादयति ॥१॥

उद्योतमाने चास्मिन् श्यामलिमानं व्रज-महेन्द्र-नन्दनस्याङ्गानाम् एव, आरुण्यं तदीयाधर-नेत्रान्तादेर् एव, धवलिमानं तदीय-वदन-स्मित-चन्द्रिकादेर् एव, पीतिमानं तद्-अम्बर-भूषणादेर् एव लेढुं लब्ध्वासन्न-समयम् इव वलितोत्कण्ठं भक्तस्य नयन-द्वन्द्वम् अश्रुभिर् अजस्रम् आत्मानम् अभिषिञ्चेत् । गीतं तदीयं मुरल्या एव, शिञ्जितं तदीय-नूपुरादेर् एव, सौन्दर्यं तदीय-कण्ठस्यैव, निदेशं तच्-चरण-परिचरणस्यैव, तत्-कृतं कम् अपि स्वस्यावतंसीकर्तुं मृग्यद् इव स्थाने स्थाने क्षणे क्षणे श्रवण-द्वयं निश्चलीभवद् उन्नमेत् । एवम् एव कीदृशो वा तद्-उभय-कर-किशलय-स्पर्शः ? इति तदैव तम् अनुभवद् इव गात्रं रोमाञ्चितं भवेत् । तत्-सौरभ्यं लभ्यमानम् इव विदुष्यौ नासे प्रफुल्ले क्षणे क्षणे श्वासं गृहीत्वा परिचिचीषेताम् । हन्त! सा फेना किं मे स्वादनीया ? इति तदैव ताम् उपलभमानेव रसनाप्य् उल्लासं दधानैवोष्ठाधरौ लिह्यात् । कदापि तदीय-स्फूर्तौ तं साक्षात् प्राप्तवद् इव चेतो हृष्येत्, तन्-माधुर्यास्वाद-सम्पत्त्या माद्येत्, तदैव तत्-तिरोभावे विषीदेत्, ग्लायेद् इत्य् एवं सञ्चारि-भावैर् आत्मानम् अलङ्कुर्वद् इव शोभेत ॥२॥

बुद्धिर् अपतन्तम् एवार्थम् अवधारयन्ती जाग्रत्-स्वप्न-सुषुप्तिषु तदीय-स्मृति-वर्त्मन्य् एव पान्थत्वम् अध्यवस्येत् । अहन्ता च प्राप्स्यमाने सेवोपयोगिनि सिद्ध-देहे प्रविशन्तीव साधक-शरीरं प्रायो जहातीव विराजेत2 । ममता च तच्-चरणारविन्द-मकरन्द एव मधुकरीभवितुम् उपक्रमेतेति । स च भक्तः प्राप्तं महा-रत्नं कृपण इव जनेभ्यो भावं गोपयन्न् अपि क्षान्ति-वैराग्यादीनाम् आस्पदीभवन् लसल्-ललाटम् एवान्तर्धनं कथयतीति न्यायेन तद्-विज्ञ-साधु-गोष्ठ्यां विदितो भवेद् अन्यत्र तु विक्षिप्त इत्य् उन्मत्त इति सज्जत3 इति दुर्लक्ष्यतां गच्छेत् ॥३॥

स च भावो राग-भक्त्य्-उत्थो वैध-भक्त्य्-उत्थ इति द्विविधः । आद्यो जाति-प्रमाणाभ्याम् आधिक्येन महिम-ज्ञानानादरेण भगवति सामान्याधिक्याच् च सान्द्रः । द्वितीयः ताभ्यां प्रथमतः किञ्चिन् न्यूनत्वेन ऐश्वर्य-ज्ञान-विद्ध-ममतावत्त्वाच् चासान्द्रः । प्रायो द्विविध एवायं भावो द्विविधानां भक्तानां द्विविध-चिद्-वासना-सनाथेषु हृदयेषु स्फुरन् द्विविधास्वाद्यत्वं भजते । घन-रस इव रसाल-पनसेक्षु-द्राक्षादिषु प्रविष्टः पृथक् पृथङ् माधुर्यवत्त्वं भजते । ते च भक्ताः शान्त-दास-सखि-पितृ-प्रेयसी-भाववन्तः पञ्चविधाः स्युः । तत्र शान्तेषु शान्तिर् इति दासेषु प्रीतिर् इति सखिषु सख्यम् इति पितृ-भाववत्सु वात्सल्यम् इति प्रेयसी-भाववत्सु प्रियतेति नामतेदम्4 अपि ॥४॥

पुनश् चायं स्व-शक्तैर् आविर्भावितैर्5 विभावानुभाव-व्यभिचारिभिर् आत्मेव राजेव वा प्रकृतिभिर् उद्भूतैश्वर्यः स्थायीति नाम्ना वैशिष्ट्यं गच्छन् तैर् मिलितः शान्त इति दास्यम् इति सख्यम् इति वात्सल्यम् इति उज्ज्वल इति लब्ध-विभेदो रसो भवति । यो हि रसो वै सः, रसं ह्य् एवायं लब्ध्वानन्दी भवति इति श्रुत्याभिधीयते । अयम् अन्यत्रावतारेऽवतारिणि वा सम्भवन्न् अपि स्वयं सम्पूर्तिमानं तत्र तत्रालभमानो व्रजेन्द्र-नन्दन एव स्वकाष्ठां लभते नद-नदी-तडागादिषु सम्भवद् अपि यथा समुद्र एव जल-निधित्वम् । यो हि भावस्य प्रथम-परिणताव् एव उत्पद्यमान एव प्रेमणि मूर्त एव रसः साक्षाद् एव तद्वता भक्तेनानुभूयत इति ॥५॥

इति माधुर्य-कादम्बिन्यां परमानन्द-निष्यन्दिणी नाम
सप्तम्य् अमृत-वृष्टिः
॥७॥

–ओ)०(ओ–

(८)


  1. लभते ↩︎

  2. विराजते ↩︎

  3. सज्जते ? सज्जित ? सज्जन ? ↩︎

  4. नाम-भेदम् ↩︎

  5. स्व-शक्त्यैवाविर्भावितैर् ↩︎