षष्ठ्य् अमृत-वृष्टिः
अथ सैव भजन-विषया रुचिः परम-प्रौढितमा सती यदा भजनीयं भगवन्तं विषयीकरोति तदेयम् आसक्तिर् इत्य् आख्यायते । यैव भक्ति-कल्प-वल्ल्याः स्तवकी-भावम् आसादयन्ती भाव-प्रेमणी पुष्प-फले अचिराद् एव भाविनी द्योतयति । रुचिर् भजन-विषया आसक्तिर् भजनीय-विषयेति भूम्नैव व्यापदेशः । वस्तुतस् तूभे अप्य् उभयं विषयीकरोत्य् एव । अप्रौढत्वाभ्याम् एव भेदः । आसक्तिर् एवान्तः-करण-मुकुरं तथा मार्जयति यथा तत्र सहसा प्रतिबिम्बितो भगवान् अवलोक्यमान इव भवति । हन्त विषयैर् आक्रम्यते मदीयं चेतस् तद् इदं भगवति निदधामीति भक्तस्य विधित्सानन्तरम्1 एव प्रायो विषयेभ्यो निष्क्रम्य तद्-रूप-गुणादौ यत् प्रवेश-शीलं पूर्व-दशायाम् आसीत् तद् एव चित्तम् आसक्तौ जातायां विधित्सातः पूर्वम् एव स्वयम् एव तथाभूतं भवेत् । यथा भगवद्-रूप-गुणादिभ्यो निष्क्रम्य वार्तान्तरे चेतः कदा प्रविष्टम् इति प्राप्त-निष्ठेनापि भक्तेन नानुसन्धातुं शक्यते तथैव वार्तान्तरतो निष्क्रम्य भगवद्-रूप-गुणादिषु कदा प्रविष्टः स्व-चेत इत्य् आसक्तिर् अनासक्तेन न लक्ष्यते । आसक्तिमता भक्तेन तु तल् लक्ष्यते ॥१॥
ततश् च प्रातः कुतस्त्योऽपि भोः कण्ठ-लम्बित-श्री-शालग्राम-शिला-सुन्दर-सम्पुटो लघु-लघूच्चारित-श्री-कृष्ण-नामामृतास्वाद-प्रतिक्षण-लोलित-रसनः प्रेक्ष्यमाण एव दुर्भगं माम् उल्लासयसि कस्मिंश्चिद् अर्थे तत् कथय कुत्र कुत्र वा तीर्थे भ्रमणं केषां दृष्ट्या केषां वा भगवद्-अनुभवानाम् आसदीभवन्न् आत्मानम् अन्यं चाकृतार्थयः । इत्य् उद्भावित-संलापामृत-पान-यापित-कतिपय-क्षणः पुनर् अन्यतो गत्वा भोः कक्ष-निक्षिप्त-मनोहर-पुस्तक-विलक्षणया श्रिया विद्वान् एवानुमीयसे तद् व्याचक्ष्व दशम-स्कन्धीयं पद्यम् एकं जीवय श्रुति-चातकीं तद्-अर्थामृत-वृष्ट्या इति तद्-व्याख्यया रोमाञ्चित-गात्रः पुनर् अन्यतो गत्वा हन्ताधुनैवाहं कृतार्थी भविष्यामि यद् इयं सभैव सद्य एव मम समस्त-दुष्कृत-ध्वंसिनीति विरचित-दण्डवद्-अवनि-प्रणिपात-पुरःसर-प्रणति-विनतिकः तत्-सभा-मुकुटमणिना महा-भागवत-वर्येण परम-विदुषा सरसम् आद्रियमाणः सङ्कुचित-तनुस् तद्-अन्तिक-कृतोपवेश एव भोस् त्रिभुवन-जीव-भवन-महा-भव-रोग-भिषक्-शिरोमणे धृत्वैव धमनीम् अधमस्यापि मे महा-दीनस्य निरूपय रुजं समादिशस्व पथ्यौषधे केनापि प्रयुक्तेन महा-रसायनेन मद्-अभीप्सितां पुष्टिम् अपि सम्पादयेति सास्रं याचमानस् तत्-कृपावलोक-मधुर-वाङ्-मयामृत-निःस्यन्दनदितस् तच्-चरण-परिचरण-नीत-पञ्च-षड्-वासरः सरसम् अटन्न् अपि कदाचिद् अटवीं यदि मयि वर्तते कृष्णस्य कृपावलोकस् तदायं दूरतः पुरोऽवलोक्यमानः कृष्ण-सारस् त्रि-चतुराणि पदानि मद्-अभिमुखम् आयातु न चेन् मां पृष्ठीकरोत्व् इति नैसर्गिकीर् अपि मृग-पशु-रक्षि-चेष्टास् तद्-अनुग्रह-निग्रह-लिङ्गतयैव जानन् ग्रामोपशल्येऽपि खेलतो विप्र-बालकान् सनकादीन् इव किम् अहं व्रजेन्द्र-कुमारं प्राप्स्यामि इति स्पृष्ट्वा तद्-दत्तम् उत्तरं मेति मुग्धाक्षरं दुर्बोधार्थतया सुभोदार्थतया वा परामृष्य स्व-गृह-मध्यमध्यास्यापि महा-धन-गृध्नुः कृपण-वणिग् इव क्वाहं यामि, किं करोमि केन व्यापारेण मे तद्-अभीष्ट-वस्तु-जातं हस्त-गतं स्याद् इति परिम्लान-वदनश् चिन्तयन् स्वपन् उत्तिष्ठन् उपविशन् परिजनैः कारणं पृच्छ्यमानोऽपि कदाचिन् मूक इव कदाचिद् अवहित्थाम् आलम्बमानः साम्प्रतम् अभूद् अयं छन्न-बुद्धिर् इति बन्धुभिः स्वभावत एवायं जड इति प्रतिवेशिभिर् अज्ञैर् मूर्ख इति मीमांसकैः भ्रान्त इति वेदान्तिभिः भ्रष्ट इति कर्मिभिर् अहो महा-सारं वस्तु समधिगतम् इति भक्तैर् दाम्भिक इति तत्रापराधिभिः परामृष्यमाणो मानापमान-विचार-विधुरो भगवद्-आसक्ति-स्वर्धुनी-प्रवाह-पतित एव चेष्टते भक्त इति॥२॥
इति माधुर्य-कादम्बिन्यां मनोहारिणी नाम
षष्ठ्य् अमृत-वृष्टिः
॥६॥
–ओ)०(ओ–
(७)
-
विधित्सास्तरम् ↩︎